भारतकोश
संग्रह पर लौटें

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

४५८ सात्वतसंहिता देखना, नदियों का सूखना तथा उनका प्रतिकूल प्रवाह में प्रवाहित होना ये सब अनिष्टकारी हैं ॥ २९-३० ॥ पोत्यानध्वजच्छत्रतरुभङ्गोऽप्यसिद्धिकृत् । अवतारो नगाद् वृक्षान्नग्नत्वं प्रेतदर्शनम् ॥ ३१ ॥ जहाज का डूबना, यान का विनष्ट होना, ध्वज का टूटना, छत्र का भङ्ग होना तथा वृक्ष का गिरना । ये सभी स्वप्न असिद्धि प्रदान करने वाले होते हैं । वृक्ष से तथा पहाड़ से अपने को नीचे उतरते हुए तथा नङ्गे रूप में देखना, प्रेत दर्शन, ये सभी स्वप्न अमङ्गलकारी होते हैं ॥ ३१ ॥ वसाकज्जलतैलाज्यलेपः सत्कर्दमे स्थितिः । महिषोऽहिर्नरः कृष्णो दक्षिणाशागमः क्षुधा ॥ ३२ ॥ लुञ्चनं नखकेशानामस्थिभङ्गादिकं द्रुतम् । एवमादीनि चान्यानि अशुभानि महामते ॥ ३३ ॥ वसा (चर्बी), काजल, तेल, अथवा घृत का लेप, घोर कीचड में फँसा हुआ होना, भैंसा, साँप, काला पुरुष, दक्षिण दिशा में गमन, अर्धरात्रि में भूख का लगना, नख, केश का लुञ्चन, हड्डी का टूट जाना । इसी प्रकार के अन्य स्वप्न, हे महामते ! अशुभ होते हैं ॥ ३२-३३ ॥ अशुभ स्वप्न शान्तिः प्राप्ते शुभाशुभे स्वप्नेऽप्यभिसन्धाय वै हृदि । औत्सुक्यादशिवध्वंसि पूजाहोमं समाचरेत् ॥ ३४ ॥ अशुभस्वप्ने तच्छान्तिमाह—प्राप्त इति ॥ ३४ ॥ इस प्रकार शुभाशुभ स्वप्न देखने पर साधक अपने हृदय में विचार करे । फिर अशुभ स्वप्न देखने पर उसकी शान्ति के लिये प्रयत्नपूर्वक पूजा एवं होम का आचरण करे ॥ ३४ ॥ कुम्भादिष्वर्चनक्रमः यथोक्तविधिना देवमवतार्य क्रमाद् यजेत् । तर्पयित्वा यथान्यायं पूर्णान्तं चाचरेत् ततः ॥ ३५ ॥ पुनर्यथाक्रमं कुम्भादिष्वर्चनमाह—यथोक्तविधिनेति ॥ ३५ ॥ अथवा दुःस्वप्न शान्ति के लिये पूर्वोक्त विधि से देवाधिदेव विष्णु को कलश से नीचे उतार कर उनका पूजन करे । अथवा शास्त्रोक्त विधि से उनका तर्पण कर पूर्णाहुति करे ॥ ३५ ॥

एकोनविंशः परिच्छेदः ४५९ उपवेशन-निरीक्षणादिसंस्कारकथनम् ईशकोणेऽथवा सौम्ये पदे यागगृहस्य च । मण्डले पूर्वनिर्दिष्टे वृत्ते वा चतुरश्रके ॥ ३६ ॥ स्नातं स्रग्वस्त्रभृच्छिष्यं कृतन्यासं निवेशयेत् । निरीक्ष्य ताड्य सम्प्रोक्ष्य दर्भैरालभ्य पूर्ववत् ॥ ३७ ॥ संस्कृत्य मूर्तिवत् किन्तु अनुग्राह्यं धरागतम् । आपादान्मन्त्रहस्तेन परामृश्याऽथ मूर्धनि ॥ ३८ ॥ स्नातस्यालङ्कृतस्य कृतन्यासस्य शिष्यस्य गोमयलिप्ते मण्डले समुपवेशनं निरीक्षणादिसंस्कारांश्चाह—ईशकोणेति सार्धैस्त्रिभिः । निरीक्षणं नेत्रमन्त्रेण, ताडन- मस्त्राभिमन्त्रिततिलसिद्धार्थैः, प्रोक्षणमस्त्राम्भसा, दर्भैरालभनम्, पीठं तेनास्त्रमन्त्रेण, मूर्तिवत् संस्कारो मन्त्रन्यासैरिति ज्ञेयम् । मन्त्रहस्तेन = प्रधानमन्त्रत्वेन भावितनिज- दक्षिणहस्तेनेत्यर्थः ॥ ३६-३९ ॥ तदनन्तर यागगृह के पूर्वनिर्दिष्ट गोमयानुलिप्त गोलाकार अथवा चौकोर मण्डल के ईशानकोण में, अथवा उत्तर दिशा में स्नान किये हुए वस्त्र माला से विभूषित शिष्य को बैठावे । नेत्र मन्त्र से उसका निरीक्षण करे और अस्त्राभिमन्त्रित तिल तथा श्वेत सर्षप से उसका ताडन करे । फिर जल से प्रोक्षण करे और दर्भ से आलम्भन करे । मूर्त्ति के समान मन्त्रन्यास कर उसका संस्कार करे । फिर प्रधान मन्त्र से अभिमन्त्रित अपने दाहिने हाथ से शिष्य के पैर से लेकर मस्तक तक शरीर का स्पर्श करे ॥ ३६-३८ ॥ मन्त्रहस्तं ज्वलद्रूपं दद्याद् यो दुःखबीजजित् । तमादाय कराद् देवधामसन्त्रिकटं व्रजेत् ॥ ३९ ॥ आचार्य द्वारा ज्वलद्रूप वाले जिस मन्त्रहस्त से शिष्य का स्पर्श किया जाता है वह हाथ समस्त दुःख के बीजों को नष्ट करने वाला होता है । इसके बाद आचार्य शिष्य का हाथ पकड़कर देवधाम के सन्निकट में ले जावे ॥ ३९ ॥ शिष्यस्य वैष्णवनामकरणकथनम् कृत्वात्मनो वामभागे भूयः संछाद्य लोचने । प्रक्षेपयेत् तथा सार्घ्यमञ्जलिं मुक्तलोचनम् ॥ ४० ॥ सम्पश्येत् परमं धाम मान्त्रमच्छफलप्रदम् । तस्मिन्नवसरे कुर्यान्नाम यस्य यथोचितम् ॥ ४१ ॥ अथ शिष्य वैष्णवनामकरणविधानमाह—तमादायेत्यारभ्य दासान्तं शूद्रजन्मना- मित्यन्तम् । अस्मिन्नवसरे शिष्यस्य नामकरणात् पूर्वं सुदर्शनपाञ्चजन्यधारणमूर्ध्वपुण्ड्र-

४६० सात्वतसंहिता धारणं च कार्यम्, यतः—‘‘तापः पुण्ड्रस्तथा नाम मन्त्रो यागश्च पञ्चमः’’ (ई०सं० २१।२८४) इति तयोर्नामकरणात्प्राक्कालीनत्वमुक्तम् । किञ्च, ‘‘पञ्चलोहमयं चक्रं सशङ्खं द्वादशारकम्’’ (१८।३५) इति पूर्वं सम्भारार्जनप्रकरणोक्ताभ्यां शङ्खचक्राभ्यां तापस्त्ववसरान्तरे(न?ण) प्रतिपादितश्च । ननु सम्भारार्जनप्रकरणे चक्रशङ्खौ नहि तापार्थं प्रतिपादितौ, अपि तु— मुद्रावसानं कृत्वैवं सम्यक् तदनु चाहरेत् ।। पाणिभ्यां शङ्खचक्रे द्वे स्वमन्त्रेणाभिमन्त्रिते । भूत्वा तदात्मना पश्चात् ते निधाय धरातले ।। अवलोक्याखिलं तत्स्थं प्रवर्तेताथ कर्मणि । (१८।५९-६१) इत्येतावन्मात्रोपयोगार्थं प्रतिपादिताविति चेत्, कस्तावता भवतो विरोधः, प्रसिद्धे तापेऽप्युपयुज्येतां नाम । न च वेदविरुद्धत्वमेव मम विरोध इति वाच्यम्, तस्य वेदोक्तत्वे परश्शतप्रमाणानि सच्चरित्ररक्षायां तप्तमुद्राविद्रावणविद्राविण्यां सिद्धान्त- चन्द्रिकायां च प्रतिपादितानि । सावधानं पश्यतु भवान् । अत एव वेदमूलेऽस्मिन्नपि तन्त्रे द्वादशपरिच्छेदे— नास्त्रैर्वस्त्रैर्ध्वजैर्येषां व्यक्तिर्व्यक्ता जगत्त्रये ।। तेऽपि लाञ्छनवृन्दं तु धारयन्त्यङ्घ्रिगोचरे । ललाटे चांसपट्टे तु पृष्ठे पाणितलद्वये ।। तनूरुहचये मूर्ध्नि कर्मिणां प्रतिपत्तये । अपि संसारिणो जन्तोः स्वभावाद् वैष्णवस्य च ।। न जहात्याच्युतं लिङ्गं किं पुनर्विभवाकृतेः । (१२।१६८-१७१) इति वैष्णवभगवल्लाञ्छनधारणं सुस्पष्टं प्रतिपादितम् । किञ्च, एतद्वचनस्य सहजलाञ्छनपरत्वभ्रमोऽपि सच्चरित्ररक्षायामेव (पृ० ४३) निवारितः । नन्वस्तु नाम सुदर्शनपाञ्चजन्यधारणं प्रमाणसिद्धम्, तदिदानीमेव दीक्षाप्रकरणे कार्यमिति कोऽयं नियमः । तथा नियमे नामकरणवत् तदपि भगवतैव कण्ठरवेणोक्तं भवेत् । जयाख्यलक्ष्मीतन्त्रपाद्मादिष्वपि नहि तद्दीक्षाङ्गत्वेन प्रतिपादितमिति चेत्, सत्यम् । दीक्षाङ्गमिति केनोक्तम् । पूर्वमप्राप्तशङ्खचक्रलाञ्छानानामेव, ‘‘पञ्चलोहमयं चक्रं सशङ्खं द्वादशारकम्’’ (१८।३५) इति सम्भारप्रकरणे प्रतिपादितम् । उत्तरत्रा- चार्याभिषेकानन्तरं शिष्यायाचार्यलाञ्छनप्रदानसमयेऽपि—‘‘स्रुक्स्रुवौ योगपट्टं च शङ्ख-चक्रे कमण्डलुम्’’ (२०।९६) इति वक्ष्यति । किन्तु चक्रा(ङ्क?ङ्क) नादीनां दीक्षायाः पूर्वमेव मुख्यकालत्वाद् गौणकाले दीक्षामध्ये तन्न प्रतिपादितम् । ईश्वरतन्त्रे तु गौणकाल एव प्रतिपादितम् । नहि तत्र दीक्षाकाले प्रतिपादितत्वमात्रेण तत्तदानीमेवानु- ष्ठेयमिति नियमोऽस्ति, शङ्खचक्रधारणस्य जातकर्मनामकरणादिकालेषूपनयनात् पूर्व- मुपनयनानन्तरं विवाहाद्यनन्तरं वा कर्तव्यत्वेन बहुविधसमयानां तत्र तत्र प्रतिपादि- तत्वात् । दीक्षाकालस्तु सर्वथा नोल्लङ्घनीयः । यतः पारमेश्वरे प्रतिष्ठाध्याये— एवं तदीया विप्राश्च क्षत्रिया वैश्यजातयः ।।

एकोनविंशः परिच्छेदः ४६१ मौद्गल्याद्यास्तथान्ये च न तच्चिह्नविवर्जिताः । भवेयुः सर्वथा तस्माच्छङ्खचक्रगदाम्बुजः ॥ लोहैर्नलसन्तप्तैस्तत्तन्मन्त्राधिवासितैः । पूजितैरर्घ्यगन्धाद्यैरङ्कितव्याः क्षणेन तु ॥ त्रय्यन्तज्ञानसम्पन्ना यथोक्ताचारनिष्ठिताः । विप्राद्यास्ते च शूद्राश्च यदैव कृतलक्षणाः ॥ तदा तु योग्या विज्ञेयाः समयश्रवणादिषु । (१५।१६१-१६५), इति कृतलक्षणानामेव दीक्षायां योग्यता प्रतिपादिता । नन्वेवम्— सुदर्शनं धारयित्वा वह्नितप्तं द्विजोत्तमः । उपनीय विधानेन पश्चात् कर्मसु योजयेत् ॥ इति कृतलक्षणस्यैव गायत्रीग्रहणादिकर्मयोग्यत्वं प्रतिपाद्यते, भुजे चक्रं द्विजातीनां शिरश्चक्रं तु दैवतम् । अचक्रद्विजदेवानां पूजा दानं च निष्फलम् ॥ इत्युक्त्याऽकृतलक्षणस्य कन्यादानाद्यर्हत्वमपि नास्ति, अतश्चक्रादिलाञ्छने उप- नयनविवाहकालावान्यनुलङ्घनीयाविति चेत्, कस्येष्टं तदुल्लङ्घनम् । अनुपपत्तिवशात् स्मार्तसंस्कारोल्लङ्घनेऽपि दीक्षाख्यवैष्णवसम्प्रदायकालः सर्वथाऽनुलङ्घनीय इति निर्णयः । यतः पाद्मे— "चक्रेणैवाङ्कितो विद्वान् वासुदेवं समाश्रयेत्" इति प्रतिपाद्यते । अत एवेश्वरे दीक्षाकालस्याप्युल्लङ्घनभिया तत्रकरण एव चक्राङ्कनादिकमुक्तम् । तत्पूर्वमेव कृतचक्राङ्कनानां तु दीक्षाकाले तन्न प्रकृतम् । आचारे सति पुनर्दीक्षाकाले तत्रकरणेऽपि न प्रत्यवायः, चक्रादि धारयेद् विप्रो ललाटे मस्तके भुजे । पातकादिविशुद्ध्यर्थं भवक्लेशविनाशनम् ॥ इत्यादित्यपुराणादिषु शुद्ध्यपादकत्वेन च प्रतिपादनात्, पूर्वं कृतलाञ्छनस्य देहोपचयादिना मलिनत्वे पुनः स्फुटत्वसिद्धेश्च । ननु— विष्णवागमादितन्त्रेषु दीक्षितानां विधीयते । शङ्खचक्रगदापूर्वैरङ्कनं नान्यदेहिनाम् ॥ इत्यादिवचनैर्दीक्षानन्तरमपि चक्राङ्कनमवगम्यत इति चेन्न, दीक्षितानामित्यस्य दीक्षार्हपरत्वात् । सिद्धान्तचन्द्रिकायां तु दीक्षितानामित्यस्य मुमुक्षुपरत्वमुक्तम् । तद- संगतम्, तन्त्रदीक्षाप्रवेशभिया तादृशार्थाङ्गीकरणात् । निर्निमित्तेयं भीतिः । यतो महा- भारते शान्तिपर्वणि— अवश्यं वैष्णवो दीक्षां प्रविशेत् सर्वयत्नतः । दीक्षिताय विशेषेण प्रसीदेन्नान्यथा हरिः ॥ वसन्ते दीक्षयेद् विप्रं ग्रीष्मे राजन्यमेव च । शरदः समये वैश्यं हेमन्ते शूद्रमेव च ॥

४६२ सात्वतसंहिता स्त्रियं च वर्षकाले तु पञ्चरात्रविधानतः । इति ब्राह्मणादीनां सर्वेषामप्यविशेषेण तन्त्रदीक्षाप्रवेशो विधीयते । एतद्वचना- नामधिकारिविशेषत्वे कथिते विनिगमनाविरहेण— ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः । अर्चनीयश्च सेव्यश्च नित्युक्तैः स्वकर्मसु ॥ (द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च) सात्वतं विधिमास्थाय गीतः सङ्कर्षणेन यः ॥ —(महा० भा० भीष्म पर्व ६६।३९-४०) इति महाभारतभीष्मपर्ववचनानामप्यधिकारिविशेषपरत्वमेव संभवति । संभवतु नाम, तावताऽस्माकं का हानिरिति चेत्, आचार्योक्तिविरुद्धं वचो मा वोचः, पञ्चरात्ररक्षायां ह्येतद्भीष्मपर्ववचनान्युदाहृत्य—‘‘एवमविशेषेण सर्वेषां ब्राह्मणादीनां श्रीमत्पञ्चरात्रोक्तमार्गेण भगवदर्चनादिकं कर्तव्यम्’’ (पृ० २१) इत्यभिहितत्वात् । ‘‘सर्वसूत्रनिष्ठानामपि भगवच्छास्त्रोक्तप्रक्रियया समाराधनादिकं प्रशस्ततमम् । तथा च शिष्टैरनुष्ठीयते’’ (पृ० २१) इति सिद्धान्तितम् । तत्रैव द्वितीयाधिकारेऽपि (पृ० ५६) श्रीमद्भाष्यकार-प्रभृतिभिः श्रीपाञ्चरात्रे यत्किञ्चित् सिद्धान्तस्थां काञ्चित् संहितां प्रधानीकृत्य नित्याराधनं संगृहीतमित्यपि प्रतिपादितम् । अतस्त्वेकत्र निर्णीतोऽर्थः सर्वत्रेति न्यायेन दीक्षाप्रवेशविधायकशान्तिपर्ववचनानामप्यविशेषेण सर्वजनविषयत्वं बोध्यम् । एतादृशे पञ्चमवेदवचने जागरूके सति भवतां तत्र दीक्षाप्रवेशे का भीतिः । तन्त्रदीक्षामन्तरा तदुक्तभगवदर्चनादौ भवतामधिकारः कथं सिद्ध्यति? अन्येषां ब्राह्मणादीनां वर्णानां दीक्षया क्रमात् । अधिकारोऽनुलोमानापि नान्यस्य कस्यचित् ॥ पूजाविधौ भगवतस्तेऽनुकल्पाधिकारिणः । इति पाद्मादिषु दीक्षितानामेव हि भगवदर्चनाधिकारः श्रूयते । किञ्च, अत्रापि द्वितीये परिच्छेदे—‘‘चतुर्णामधिकारो वै वृत्ते दीक्षाक्रमे सति’’ (२।९२) इति प्रतिपादितम् । इदं परार्थयजनविषयमिति मावोचः, चतुर्वर्णानामविशेषेणाधिकार- वर्णनात् । यद्यपि भवद्भिरपि सिद्धान्तचन्द्रिकायाम्—‘‘वैखानसाद्यागमोक्तदीक्षां प्राप्तो हि वैष्णवः’’ इत्यत्र, तन्त्रदीक्षां विना यस्तु शङ्खचक्रादिलाञ्छनम् । बिभर्ति स तु पाषण्डो विज्ञेयस्तत्त्वदर्शिभिः ॥ इत्यत्र च तन्त्रदीक्षाऽङ्गीकृतैव, तथापि यावदर्थानुष्ठानभिया दीक्षाशब्दस्य देवतान्तरपरित्यागरूपनियमपरिग्रहमात्रपरत्वमुक्तम् । महाभारतादिवचनपर्यालोचनया दीक्षाप्रवेशे मा भीति भजन्तु भवन्तः । अलं प्रसक्तानुप्रसक्त्या । प्रकृतमनुसरामः । एषां चक्राङ्कनादिसंस्काराणां दीक्षाकालेऽनुष्ठानक्रम ईश्वरसंहितायां सम्यक् प्रतिपादितः । पृथक्कालेऽनुष्ठानेऽपि स एव क्रमोऽनुसरणीयः । तदानीमग्निस्तु— विष्णोरायतनाग्नौ वा गुरोरात्मनः एव वा ।

एकोनविंशः परिच्छेदः ४६३ हुते होमादिभिस्तप्तैः सुरूपैरर्चितैः क्रमात् ॥ दासभूतं यदात्मानं बुद्ध्येत परमात्मनः । तदैव गात्रं कुर्वीत शङ्खचक्रादिलाञ्छितम् ॥ (३।६२-६३) इति भारद्वाजसंहितोक्तो ग्राह्यः । तत्र विष्ण्वायतनाग्निवैष्णव एव । गुरोरा- त्मनो वाऽग्निश्चेत्, स्वगृह्योक्तप्रतिष्ठापूर्वकमीश्वरतन्त्रोपबृंहितवैष्णवीकरणप्रक्रियया संस्कार्यः । ऊर्ध्वपुण्ड्रधारणमपि चक्राङ्कनानन्तरमेव कार्यम् । नाममन्त्रयागाख्य- संस्कारत्रयं तु दीक्षाकाल एवानुष्ठेयम्, तस्य दीक्षाङ्गत्त्वेनैव प्रतिपादितत्वात् । ननु तर्हि पञ्चसंस्काराणां यौगपद्येनानुष्ठानं न संभवतीति चेत्, किं तावता प्रत्यवायः । जातस्य कुमारस्य द्वादशेऽहनि नामकरणप्रकरणे शङ्खचक्राङ्कनं शास्त्रे- षूच्यते । तथैव शिष्टैरनुष्ठीयते, द्वादशेऽहनि पुत्रस्य केशवो बन्धुभिः सह । तेन श्रीशैलपूर्णेन गुरुणाऽमिततेजसा ॥ शङ्खचक्राङ्कनं पूर्वं कारयित्वाऽथ लीलया । लोके रामानुज इति नाम चक्रे सुमङ्गलम् ॥ (२।३८-३९) इति प्रपन्नामृतादिषु श्रीभाष्यकारादिशिष्टाचारोऽप्युद्घुष्यते च । अतो न पञ्च- संस्काराणां यौगपद्येनानुष्ठाननियमोऽस्ति । ननु तदानीं तेषां यौगपद्येनानुष्ठानासंभवेऽपि पुनरुपनयनानन्तरं विवाहानन्तरं वा पञ्चसंस्काराणां यौगपद्येनानुष्ठानं संभवति, तथैव भाष्यकारादिशिष्टाचारश्च प्रतिपादित इति चेत्, सत्यम् । अत एव हि दीक्षाकाले तेषां पुनःकरणे हेतुः पूर्वमस्माभिरपि प्रति- पादितः ॥ ३९-४६ ॥ फिर उसे अपनी बाईं ओर स्थापित कर उसके दोनों नेत्रों को वस्त्र से आच्छादित करे । फिर उसकी आँखे खोलकर उसके हाथों से अर्घ्य युक्त पुष्पाञ्जलि प्रक्षिप्त करावे । फिर वह शिष्य उन परमधाम भगवान् का दर्शन करे, जो मन्त्र के द्वारा सर्वोत्तम फल प्रदान करने वाले हैं । उसी समय आचार्य उस शिष्य का, वह जैसा जिस वर्ण का है उसका, वैसा ही उसी वर्ण के अनुसार यथोचित नामकरण करे ॥ ४०-४१ ॥ रहस्यसंज्ञं मुख्यं च गौणं वास्य यथास्थितम् । सामान्यं वासुदेवाद्यं नाम स्वाङ्गाच्चतुर्ष्वपि ॥ ४२ ॥ सर्वेषां सविशेषं वा यथा चानुक्रमेण तु । द्विषट्कमूर्त्यङ्कितं च स्वाम्यन्तं ब्राह्मणेषु च ॥ ४३ ॥ रहस्य संज्ञा वाला, अथवा मुख्य, अथवा गौण, अथवा यथास्थित (जैसा है) वैसा नामकरण करे, अथवा चारों वर्णों का वासुदेवादि सामान्य नामकरण करे । अथवा क्रमानुसार सभी चारों वर्णों का विशेषता युक्त नामकरण करे । ब्राह्मण शिष्य को १२ मूर्तियों से अङ्कित कर स्वाम्यन्त नामकरण करे ॥ ४२-४३ ॥

४६४ सात्वतसंहिता देवान्तं क्षत्रियाणां च कुर्याद् द्वादशधा पुनः । पाण्यन्तं धारनिष्ठं वा लाञ्छनास्त्रपुरस्सरम् ॥ ४४ ॥ ध्वजलाञ्छनसंज्ञं च यथावस्थं नृपेषु च । एवं वर्धननिष्ठं च मूर्तिलाञ्छनपूर्वकम् ॥ ४५ ॥ विहितं चापि वैश्यानां दासान्तं शूद्रजन्मनाम् । फिर क्षत्रियों को भी १२ मूर्त्तियों से लाञ्छित कर देवान्त नामकरण करे, अथवा अस्त्र लाञ्छन पुरस्सर पाण्यन्त, अथवा धारनिष्ठ नामकरण करे । राजाओं का यथावस्थ ध्वज लाञ्छन संज्ञक नामकरण करे । इसी प्रकार मूर्त्ति लाञ्छनपूर्वक वैश्य का 'वर्धन' निष्ठ नामकरण करे (आनन्दवर्धनादि) । शूद्र का दासान्त नामकरण करे ॥ ४४-४६ ॥ भूतशोधनकथनम् अथोत्थाय नमस्कृत्य मण्डलं कलशं गुरुम् ॥ ४६ ॥ यायात् कुण्डसमीपे तु शिशुना सह देशिकः । कृतस्य कर्मणोऽच्छिद्रसिद्धये च हुते सति ॥ ४७ ॥ सन्ताड्यास्त्रात्मको भूत्वा प्राग्वत् तद्धृदयं विशेत् । प्राणशक्तिवियुक्तं च कृत्वानीय समासतः ॥ ४८ ॥ सम्प्रवेश्य स्वकं स्थानं तत्राग्निकणवच्च तम् । नीत्वा सम्यक् पृथग्भावं विरेच्य सह वायुना ॥ ४९ ॥ स्वभूमौ वाममार्गेण हृदाद्यन्तं निरोधितम् । जन्मग्रहमनेनैव मन्त्रयुक्तेन कर्मणा ॥ ५० ॥ भावध्यानानुविद्धेन पितृमातृमयं त्यजेत् । ततो मण्डलसमीपादुत्थाय गुरुदेवनमस्कारं कृतवता शिष्येण सह कुण्ड- समीपं गत्वा प्रायश्चित्तहोमानन्तरमस्त्राभिमन्त्रितसिद्धार्थादिभिः शिष्यसन्ताडनं दहना- प्यायनाख्यधारणाद्वयेन तद्भूतशोधनं च कुर्यादित्याह—अथोत्थायेति पञ्चभिः श्लोकैः ॥ ४६-५१ ॥ इसके बाद शिष्य मण्डल, कलश, तथा गुरु को नमस्कार करे । तदनन्तर आचार्य उस अपने शिष्य के साथ कुण्ड के समीप में जावे और किये हुए कर्म की निर्दोषता सिद्धि के लिये प्रायश्चित्त हवन करने के पश्चात् अस्त्राभिमन्त्रित तिल एवं श्वेत सर्षप से शिष्य का सन्ताडन करे । फिर अस्त्रात्मक होकर उसके हृदय में प्रवेश करे । उसको प्राणशक्ति से विमुक्त कर बाहर निकाल कर अपने स्थान में प्रविष्ट कराकर अग्निकण से उसे जला देवे । फिर वायु के द्वारा उसके भस्म को उड़ा देवे । तदनन्तर वाममार्ग से हृदय स्थान में ले जाकर उस अपने स्थान

एकोनविंशः परिच्छेदः ४६५ पर स्थापित करा देवे । इस प्रकार मन्त्र से युक्त कर्म द्वारा उसका पुर्नजन्म करा देवे ॥ ४६-५० ॥ फिर शिष्य भावना के ध्यान से युक्त होकर अपने पितृ मातृ युक्त इस जगत् का त्याग कर देवे । (यहाँ तक शिष्य के भूतशोधन की प्रक्रिया कही गई) ॥ ५१ ॥ ततः कवचमन्त्रेण दद्यात् सप्ताभिमन्त्रितम् ॥ ५१ ॥ तस्योपवीतमपरमुदितं चापि यस्य यत् । उपवीतधारणार्हस्य त्रैवर्णिकस्य शिष्यस्य नूतनोपवीतधारणमाह—तत इति ॥ ५१-५२ ॥ सर्वदा दासभावत्वमापन्नस्य च तत्त्वतः ॥ ५२ ॥ अमद्यापाऽन्योत्यस्य लोकधर्मोज्झितस्य च । आप्तवद् ब्रह्मनिष्ठस्य कर्मतन्त्ररतस्य च ॥ ५३ ॥ गोदानं शूद्रजातेर्वै विहितं चैव नान्यथा । योग्यस्य शूद्रस्य तु गोदानं विहितमित्याह—सर्वदेति द्वाभ्याम् ॥ ५२-५४ ॥ वौषट्स्वाहावषट्कारनिष्ठानां तु प्रतिक्रिया ॥ ५४ ॥ नमस्कारेण मन्त्राणां कार्ये प्राप्ते ह्यनुग्रहे । तदीयमर्घ्यपुष्पाद्यं यत्किञ्चिद् यागसाधनम् ॥ ५५ ॥ सुसंस्कृतमसिद्धं वा भक्त्या कर्मण्यतां व्रजेत् । शूद्रस्य वषकाराद्यनर्हत्वान्मन्त्रशरीरे तत्प्रतिनिधित्वेन नमस्कारो योज्य इत्याह— वौषडिति । पाद्मे तु— द्वादशाक्षरमादौ तु पश्चादष्टाक्षरात्मकम् । मूर्तिमन्त्रांश्च तदनु समध्याप्य यथाविधि ॥ केवलं वैष्णवं नाम नमःप्रणववर्जितम् । हुंफडादिवषट्स्वाहावर्जितं केशवादिकम् ॥ अध्याप्य स्त्रीषु शूद्रेषु तद्देवानुलोमजे । सावित्रीं येऽनुतिष्ठन्ति तेषां विप्रवदिष्यते ॥ इति शूद्रादीनां प्रणवनमस्कारावपि निषिद्धौ । अन्यत्र— न स्वरः प्रणवोऽङ्गानि नाप्यन्यविधयः स्मृताः । स्त्रीणां च शूद्रजातीनां मन्त्रमात्रोक्तिरिष्यते ॥ इति प्रणवमात्रं निषिद्धम् । अतः संहिताभेदेन व्यवस्था ज्ञेया । पुष्पाञ्जल्यादि- समर्पणार्थं शूद्राहृतं पुष्पादिकमपि तद्भक्तिवशेन कर्मार्हं भवतीत्याह—तदीय- मिति ॥ ५४-५६ ॥

४६६ सात्वतसंहिता इसके बाद आचार्य उपवीत धारण करने योग्य ब्राह्मण, क्षत्रिय, वैश्य इन तीन वर्णों को नूतन यज्ञोपवीत धारण करावे । यतः तत्त्वतः दास भाव को प्राप्त होने वाले, मद्यपान रहित वंश में उत्पन्न हुए, लोकधर्म से बाहर हुए, किन्तु आप्त के समान ब्रह्मनिष्ठ होने वाले कर्मतन्त्र में निरत शूद्र को दक्षिणा दान की विधि नहीं है इसलिये वह गोदान का अधिकारी है । दक्षिणादि दान का अधिकारी नहीं है । उसे वौषट्, स्वाहा, वषट्कार का अधिकार भी नहीं है इसलिये वह कार्य प्राप्त होने पर मन्त्रों को नमस्कार मात्र करे । शूद्र द्वारा लाया गया पुष्पादिक भक्ति युक्त होने के कारण कर्मार्ह हो जाता है ॥ ५१-५६ ॥ अतोऽन्येषां तु भक्तानां विहिता यागसाधने ॥ ५६ ॥ सम्यक् सत्त्वनिवृत्तिः प्राग् दर्शनप्रोक्षणान्वितम् । एवं त्रैवर्णिकानामपि यागसाधनद्रव्येषु स्वीयत्वाभिमाननिवृत्तिर्विहितेत्याह— अतोऽन्येषामिति त्रिभिः पादैः ॥ ५६-५७ ॥ इसी प्रकार त्रैवर्णिकों (ब्राह्मण, क्षत्रिय, वैश्य) द्वारा लाये गये यज्ञ साधन द्रव्यों के दर्शन एवं प्रोक्षण से युक्त हो जाने पर उनके द्वारा स्वत्वाभिमान की निवृत्ति भी विहित है ॥ ५६-५७ ॥ पुष्पाञ्जलिसमर्पणम् मूर्तौ वा मण्डलाग्रे तु पुष्पक्षेपं महामते ॥ ५७ ॥ नक्तं वा परिपीडं च व्रतार्थं त्वेकमेव हि । शिष्यैः पुष्पाञ्जलिसमर्पणं बिम्बाग्रे मण्डलाग्रे वा कार्यमित्याह—दर्शनेति त्रिभिः पादैः । दर्शनं नेत्रमन्त्रेणावलोकनमित्यर्थः । अनेन दीक्षाकाले मण्डलबिम्बयोरन्य- तरार्चनं सूच्यते ॥ ५७ ॥ हे महामते ! शिष्य को पुष्पाञ्जलि समर्पण बिम्ब के अग्रभाग में अथवा मण्डल के अग्रभाग में करना चाहिये । साधक दीक्षा में व्रत के लिये शुद्ध उपवास करे अथवा रात में नक्त (दिन के अष्टम भाग में) एक बार भोजन करे ॥ ५७-५८ ॥ एवं संस्कारसंशुद्धं कृत्वा वर्णगणं पुरा ॥ ५८ ॥ साङ्गेन विभुना कुर्यात् तत्प्रायश्चित्ततर्पणम् । सदशांशं सहस्रं तु यथा चानुक्रमेण तु ॥ ५९ ॥ गत्वाऽभ्यर्च्य च कुम्भेशं सूत्रमादाय तत्स्थितम् । ऋजुभूतं शिशुं कृत्वा तद्वत् सूत्रं प्रसार्य च ॥ ६० ॥ दीक्षाव्रतार्थं शुद्धोपोषhost/शुद्धोपोषhost -> दीक्षाव्रतार्थं शुद्धोपोषhost? No, दीक्षाव्रतार्थं शुद्धोपोषणं नक्तभोजनं वा विहितमित्याह—नक्तमित्यर्धेन । एवं ब्राह्मणादीनां संस्कारानन्तरं वर्णानुक्रमेण साङ्गमूलमन्त्रैः सदशांशसहस्र-

एकोनविंशः परिच्छेदः ४६७ संख्यया प्रायश्चित्तहोमं कुम्भस्थितभगवदभ्यर्थनपूर्वकं तत्समीपस्थापितमायासूत्र- ग्रहणम् ऋजुभूतस्य शिष्यस्या पादाच्छिखान्तं तत्सूत्रप्रसारणं चाह—एवमिति सार्ध- द्वाभ्याम् ॥ ५८-६० ॥ सूत्रप्रसारणम् व्यक्तस्वरूपं च मन्त्रेशं संस्मरेदग्निमध्यगम् । पश्येद् विभौ शिशौ सूत्रे स्वात्मन्यध्वानमञ्जसा ॥ ६१ ॥ अग्निमध्ये व्यक्तस्वरूपं भगवन्तं संस्मृत्य तस्मिन् भगवति शिशौ सूत्रे स्वात्मनि चाध्वानं स्मरेदित्याह—व्यक्तेति ॥ ६१ ॥ इस प्रकार आचार्य ब्राह्मणादिकों के संस्कार हो जाने के उपरान्त वर्णानुक्रम से साङ्गमूल मन्त्र द्वारा दशांश सहित सहस्र संख्या में प्रायश्चित्त होम करे । फिर कुम्भ स्थित भगवान् की प्रार्थना कर उनके समीप में स्थापित सूत्र ग्रहण करे । सर्वप्रथम सीधे खड़े हुए शिष्य के पैर से लेकर शिरोभाग पर्यन्त सूत्र को प्रसारित करे और शरीर के नाप के अनुसार उसे पहनावे । तदनन्तर अग्नि के मध्य में स्थित प्रत्यक्ष मन्त्ररूप से स्थित मन्त्रेश का स्मरण करे । फिर भगवान् में, शिष्य में, सूत्र में तथा अपने में अकस्मात् अध्वा का दर्शन करे ॥ ५८-६१ ॥ तत्राध्यात्मस्वरूपं च संस्मरेन्मन्त्रदेहगम् । अधिदैवस्वभावं च तत्स्वात्मन्यवतार्य च ॥ ६२ ॥ अधिभूतमयं सूत्रे त्रिविधं शिष्यविग्रहे । अध्वस्मरणक्रममाह—तत्रेति सार्धेन । त्रिविधम् अध्यात्मादिदैवाधिभूतभेद- भिन्नस्वरूपमित्यर्थः ॥ ६२-६३ ॥ मूलमन्त्रावसाने तु सनमस्कं परात्मने ॥ ६३ ॥ पदं कृत्वा तु जुहुयादाहुतीनां चतुष्टयम् । तथा सूक्ष्मात्मने चोक्त्वा ततः स्थूलात्मने तु वै ॥ ६४ ॥ तेषां सन्तर्पणमन्त्रानाहुतिसंख्यां ततस्तेषां स्वशरीरे आ पादाच्छिखान्तं यथाक्रमं व्याप्तिस्मरणं चाह—मूलमन्त्रेति त्रिभिः ॥ ६३-६६ ॥ मन्त्र देह धारण करने वाले अध्वा को अध्यात्म स्वरूप से देखे और मन्त्र स्वामी को उतार कर अध्वा को अधिदैव स्वभाव में देखे । सूत्र में अध्वा को अधिभूत देखे और शिष्य के शरीर में अध्यात्म अधिदेव तथा अधिभूत स्वरूप तीनों अध्वा का दर्शन करे । इसके बाद मूल मन्त्र के अन्त में 'नमः परमात्मने' यह पद पढ़कर चार आहुती प्रदान करे । इसके बाद मूल मन्त्र के अन्त में 'नमः सूक्ष्मात्मने' पढ़कर चार आहुती देवे । इसी प्रकार मूल मन्त्र के अन्त में 'नमः स्थूलात्मने' पढ़कर चार आहुति देवे ॥ ६२-६४ ॥

४६८ सात्वतसंहिता सर्वात्मने च तदनु ततोऽध्वनिचयं हितम्। आ पादाग्राच्छिखान्तं च सर्वं ध्यात्वा स्वदेहगम् ॥ ६५ ॥ यथोद्दिष्टक्रमेणैव विभिन्नं त्रिविधं त्वपि। इसके बाद मूल मन्त्र के अन्त में 'नमः सर्वात्मने' यह पद पढ़कर चार आहुति प्रदान करे। ऐसा करने से समस्त अध्व समूह हितकारी हो जाते हैं। फिर उन अध्वा के शरीर में यथाक्रम पैर से लेकर शिखा पर्यन्त भिन्न-भिन्न स्वरूप वाले तीनों अध्वा की व्याप्ति का स्मरण करे ॥ ६५-६६ ॥ अधिभूताधिदैवाध्यात्मपदार्थविवरणम् रचनासन्निवेशो यः क्ष्मादीनां चाधिभूतता ॥ ६६ ॥ बोद्धव्यमधिदैवत्वं सामर्थ्यं यस्य यत् स्वकम्। तदधिष्ठातृमन्त्राणामध्यात्मत्वं विधीयते ॥ ६७ ॥ अधिभूताधिदैवाध्यात्मपदार्थविवरणमाह—रचनेति सार्धेन। तदधिष्ठातृमन्त्राणां पूर्वोक्तवराहादिमन्त्राणामित्यर्थः ॥ ६६-६७ ॥ जो रचना सन्निवेश है, वह अधिभूत है, इसलिये पृथ्व्यादिकों को अधिभूत कहा जाता है। जिसकी अपनी जितनी शक्ति है, उतने को अधिदैव समझना चाहिये। पृथ्व्यादि के अधिष्ठातृ मन्त्र (वराहादि मन्त्र) को अध्यात्म कहा जाता है ॥ ६६-६७ ॥ अथ मार्गद्वयं त्यक्त्वा द्वादशान्तं समाश्रयेत् । मूलमन्त्रमयो भूत्वा संव्रजेत् स्वधिया ततः ॥ ६८ ॥ ब्रह्मद्वारपदं शैष्यं ततस्तन्मध्यवर्त्मना। पार्थिवं पदमाक्रम्य कुर्यात् तच्छक्तिमात्मसात् ॥ ६९ ॥ बीजभूतां च हृन्मन्त्रसंरुद्धां संधिविग्रहाम्। नानाण्डबीजसंयुक्ताम् अनेकरचनान्विताम् ॥ ७० ॥ एवमादाय वै सर्वा बुद्धिनिष्ठास्तु शक्तयः। पृथक् पृथक् क्रमेणैव तस्मिन् हृन्मन्त्रसम्पुटे ॥ ७१ ॥ स्वेनाध्यात्मगुणेनैव परेण व्यापकात्मना। तद्देहं धारयन्तं च स्मरेत् तमुभयात्मकम् ॥ ७२ ॥ कालं भोगक्षयान्तं च तत्कालात् तु महामते। कृत्वैवं भूतशक्तीनां संहारं शिशुविग्रहात् ॥ ७३ ॥ सौत्रं देहमथाक्रम्य सम्यक् तेनैव वर्त्मना। प्रोल्लसंसदद् व्रजेत्तत्र व्यञ्जयेत् तु धियादिवत् ॥ ७४ ॥ आधायाध्यात्ममन्त्रांश्च भूतभूतान्वितानथ।

एकोनविंशः परिच्छेदः ४६९ नित्यैर्ज्ञलक्षणैः शुद्धैः समन्त्रैः स्वस्थितानपि ॥ ७५ ॥ अथ सूत्राद् विनिष्क्रम्य प्रयायादनलाश्रयम् । तत्रावयवसन्धानान्मन्त्रसाम्यं समाचरेत् ॥ ७६ ॥ समाहृतानां मन्त्राणां परे सर्वज्ञलक्षणे । व्यापके सर्वसामान्ये कृत्वा स्वे स्वे पदे स्थितिम् ॥ ७७ ॥ स्वशरीरमथासाद्य ब्रह्मद्वारेण देशिकः । अथाचार्यस्य शिष्यब्रह्मरन्ध्रद्वारा तदन्तःप्रवेशं तत्र पृथिव्यादितत्त्वशक्तीनां संहार- प्रकारं ततः सूत्रमयदेहान्तःप्रवेशं तत्र ध्याताऽधिभूताध्यात्मादीनां च ग्रहणं ततोऽग्नि- स्थितं भगवन्तं प्राप्य तत्र समाहृतानां मन्त्राणां स्थापनं पुनः स्वशरीरान्तःप्रवेशनं चाह— अथ मार्गद्वयं त्यक्तेत्यादिभिः । मार्गद्वयं = भुवनपदाध्वनोर्द्वयमित्यर्थः, तयोरशुद्ध- त्वात् । मन्त्राध्वानं प्रविष्टस्य हि मूलमन्त्रमयत्वं सिद्ध्यति ॥ ६८-७८ ॥ तदनन्तर आचार्य भुवनाध्वा और पदाध्वा इन दोनों मार्गों का अशुद्ध होने के कारण त्याग कर देवे । द्वादशान्त का आश्रय ग्रहण करे । इसके बाद आचार्य अपनी बुद्धि से मूलमन्त्रमय होकर शिष्य के ब्रह्मरन्ध्र द्वारा उसके अन्तःकरण में प्रवेश करे । वहाँ प्रविष्ट होकर शिष्य के अधिभूत तथा अध्यात्म आदि का ग्रहण करे । फिर वहाँ से बाहर निकल कर अग्निस्थित भगवान् को प्राप्त कर शिष्य के हृदय से समाहृत मन्त्रों को वहीं स्थापित कर देवे और पुनः अपने शरीर में प्रविष्ट हो जावे ॥ ६८-७८ ॥ स्रुवमादाय सन्तप्य मन्त्रवृन्दं यथोदितम् ॥ ७८ ॥ तत्त्ववृन्दसमेतं च स्वनाम्ना प्रणवादिना । भूयः संसृष्टियोगेन द्विषट्कपरिसंख्यया ॥ ७९ ॥ पृथिव्यादितत्त्वानां तदधीशमन्त्राणां च संहारक्रमेण सन्तर्पणमाह—स्रुवमिति । ॐ क्ष्मां नमः क्ष्मातत्त्वाय स्वाहा क्ष्मातत्त्वायेदं न मम । ॐ वराहाय स्वाहा, वराहायेदं न मम । अप्त्तत्त्वाय स्वाहा, अप्तत्त्वायेदं न मम । ॐ सरश्शायिने स्वाहा, सरश्शायिन इदं न मम । इत्यादिक्रमेण प्रयोगो बोध्यः तत्र द्विषट्कपरिसंख्ययेत्यनेन पूर्वं संहारक्रमेऽ- प्याहुतीनां द्वादशसंख्याकत्वं ज्ञायते ॥ ७८-७९ ॥ अब पृथ्व्यादि तत्त्वों का तथा तदधीश मन्त्रों का संहारक्रम से प्रयोग के अनुसार संक्षिप्त सन्तर्पण का प्रकार कहते हैं । आचार्य स्रुवा लेकर ‘ॐ क्ष्मां नमः क्ष्मातत्त्वाय स्वाहा, क्ष्मातत्त्वायेदं न मम । ॐ वराहाय स्वाहा वराहायेदं न मम । अप्त्तत्त्वाय स्वाहा अप्तत्त्वायेदं न मम । ॐ सरश्शायिने स्वाहा शरश्शायिने इदं न मम’ इत्यादि संहार क्रम से तत्त्वों तथा तदधीशमन्त्रों की तृप्ति के लिये इस प्रकार बारह आहुति प्रदान करे । तदनन्तर सृष्टिक्रम से भी इसी प्रकार १२ आहुति प्रदान करे ॥ ७८-७९ ॥

४७० सात्वतसंहिता शिष्यचैतन्यस्य स्वहृदि सङ्कर्षणम् पूरकेण समाकृष्य शिष्यहृत्कमलाद् हृदि । अथ व्यक्तिनिरस्तं च क्ष्माबीजं परलक्षणम् ॥ ८० ॥ ज्ञशक्त्या ज्ञानसंस्रुद्धं कृत्वादायानलाद् हृदि । प्रणवासनविश्रान्तं विरेच्याब्जे तु शैशवे ॥ ८१ ॥ स्मृत्वाऽथ शिष्यचैतन्यमेकमेव द्विरूपधृक् । शक्तिमच्छक्तिभावेन शक्तित्वेन तु संस्मरेत् ॥ ८२ ॥ क्ष्मातत्त्वान्तर्गतं कुण्डे शक्तिमत्त्वेन तत्पुनः । रेचयित्वा स्वनाम्ना च विग्रहे मध्यवर्त्मना ॥ ८३ ॥ नियोज्य तत्समाधौतं जपध्यानैकलक्षणे । तदेव पार्थिवं बीजं हृदा वै होमकर्मणा ॥ ८४ ॥ सम्यक् तस्योपकारार्थं नेतव्यं सूक्ष्मदेहताम् । स्वाहान्तं भोगसिद्ध्यर्थं नमोऽन्तं मोक्षसिद्धये ॥ ८५ ॥ भोगमोक्षाप्तये चापि तदेवोभयलक्षणम् । कर्मणामवसाने तु सम्पादयपदं न्यसेत् ॥ ८६ ॥ एवं तु विग्रहे सूक्ष्मे तद्धृत्पद्मगतस्य च । शिरसा चाधिकारात् तु तस्यापाद्य यथास्थितम् ॥ ८७ ॥ शिखामन्त्रेण तद्भोगं निर्वर्त्य शतसंख्यया । वर्मणा तत्फलप्राप्तिं तल्लयत्वमपि स्मरेत् ॥ ८८ ॥ सुतृप्तिमथ नेत्रेण कुर्यात् तेनैव संस्थितिम् । तत्त्यागश्चास्त्रमन्त्रेण विश्लेषेण युतो भवेत् ॥ ८९ ॥ मूलेनाथ गृहीत्वा तत् कुर्याच्चैवात्मसात् पुनः । तद्गच्छक्तिं तदीयां च कुण्डाद् व्यापकलक्षणाम् ॥ ९० ॥ क्ष्मातत्त्वस्याथ साध्यस्य ह्नानाधारस्य शान्तये । पूर्वसंख्यं तु चास्त्रेण कृत्वा होमं महामते ॥ ९१ ॥ स्रुवमाज्येन सम्पूर्य स्कन्धसूत्रात् तु पार्थिवम् । विकर्त्य पूर्णया सार्धं विलाप्याग्नौ स्वके पदे ॥ ९२ ॥ मूलमन्त्रेण सहसा हृत्पद्मप्रेरितेन तु । स्वदेहाद् रेचकेनाथ प्रेर्य शक्तिं च शैशवीम् ॥ ९३ ॥ तयाक्रान्तमधःस्थं च संस्मरेद् व्यतिरिक्त्या । कबिन्दुनेवाब्जपत्रमाद्याध्वानं च भौवनम् ॥ ९४ ॥

एकोनविंशः परिच्छेदः ४७१ शिष्यदेहे निरुद्धस्य व्यक्तिक्रोडीकृतस्य च । स्वशक्तिपरिपूरस्य क्ष्माबीजस्य त्वथोपरि ॥ ९५ ॥ विरेच्य शक्तिमन्तं च व्यस्तधर्मेण पूर्ववत् । शिष्यचैतन्यस्य स्वहृदि सङ्कर्षणम् अग्निस्थस्य व्यक्तिनिरस्तस्य क्ष्माबीजस्य चाकर्षणं तस्य शिष्यहृत्कमले स्थापनं शिष्यचैतन्यस्याग्नौ क्ष्मातत्त्वान्तःशक्तित्वेन स्मरणं शक्तिमत्त्वेन पुनस्तस्य तद्विग्रहरेचनं क्ष्माबीजजपध्यानरूपे समये नियोजनम् ॐ ज्ञानाय हृदयाय नमस्य इत्यस्य सूक्ष्मदेहतां सम्पादय स्वाहेति वा, सम्पादय नम इति वा, सम्पादय नमः स्वाहेति वा मन्त्रेण होमैः सूक्ष्मदेहतानयनं तथैव तदधिकारादिहोमं तद्विश्लेषणार्थं होमं ततः शक्तिमतः शक्त्याश्च पुनरात्मसात्करणं क्ष्मातत्त्वस्य शान्त्यर्थं होमं सकर्मसूत्रपार्थिवांशखण्डेन सह पूर्णाहुति पुनः शिष्यदेहे तच्छक्तिभुवनाध्व- नोर्जलविन्दुपद्मपत्रयोरिव सम्बन्धं तथैव शक्तिवत् क्ष्माबीजयोरपि सम्बन्धं चाह— पूरकेण समाकृष्येत्यारभ्य व्यस्तधर्मेण पूर्ववदित्यन्तम् ॥ ८०-९६ ॥ शिष्यायभुवनाध्वादीनामुपदेशः तत्क्षणे बीजसंस्थं तु अध्वानं तु यथास्थितम् ॥ ९६ ॥ प्रकाशयन्ति कृपया तन्नाथास्तस्य सिद्धये । तदानीं भुवनाध्वाद्यधीशास्तद्बीजस्थितमध्वानं यथास्थितं कृपया शिष्याय प्रकाशयन्तीत्याह—तत्क्षण इति ॥ ९६-९७ ॥ दीक्षा प्रयोग—इसके बाद आचार्य शिष्य के चैतन्य को अपने हृदय में आकर्षण करे । इसी प्रकार अग्नि के अप्रकट रूप से स्थित क्ष्माबीज का आकर्षण करे । उस क्ष्माबीज को शिष्य के हृत्कमल में स्थापित करे । फिर शिष्य के चैतन्य को अग्नि में क्ष्मातत्त्व की अन्तःशक्ति के रूप में स्मरण करे । इस प्रकार क्ष्मातत्त्व के शक्तिमान होने के कारण उसे शिष्य के शरीर में डाल देवे । उस क्ष्माबीज को जप एवं ध्यान रूपी समय में इस प्रकार नियोजन करे । 'ॐ ज्ञानाय हृदयाय नमस्य इत्यस्य सूक्ष्मदेहतां सम्पादय स्वाहा' अथवा 'सम्पादय नमः इति वा सम्पादय नमः स्वाहेति वा' इस मन्त्र से सूक्ष्मदेहता का आनयन करे । उसी प्रकार उसके अधिकारी का भी होम करे । फिर उससे अलग होने का भी होम करे । फिर शक्तिमान् और शक्ति के साथ उसको आत्मसात् करे । तदनन्तर क्ष्मातत्त्व की शान्ति के लिये होम करे । फिर सकर्मसूत्र का पार्थिवांश खण्ड के साथ पूर्णाहुति करे । फिर शिष्य के देह में उस शक्ति तथा भुवनाध्व का जलबिन्दु और पद्मपत्र के समान सम्बन्ध स्थापित करे । उसी प्रकार शक्तिमान् और क्ष्माबीज का भी सम्बन्ध करे ॥ ८०-९६ ॥ ऐसा करने से उसी समय भुवनादि अध्वा के अधिष्ठातृ देवता भुवनादि बीज स्थित अध्वा को वह जैसा है, उसी प्रकार कृपापूर्वक शिष्य के मनोरथ की सिद्धि के लिये प्रकाशित कर देते हैं ॥ ९६-९७ ॥

४७२ सात्वतसंहिता विरक्तं भावयेच्छिष्यं चिन्तयन्तमिदं धिया ॥ ९७ ॥ इदं तत्पार्थिवं तत्त्वं मुधा वै दुःखपञ्जरम् । भावतत्त्वगतं चास्य सुमहत्त्वं च साम्प्रतम् ॥ ९८ ॥ कथमत्र त्वहं चासं यस्य मे न तत इमाः । प्रकाशनेन विरक्तस्य शिष्यस्य चिन्तनप्रकारमाह— विरक्तमिति द्वाभ्याम् ॥ ९७-९९ ॥ उस प्रकाश से शिष्य का चित्त विरक्त हो जाता है और वह सोचने लगता है कि यह दुःख से परिपूर्ण पिंजरा वाला मेरा पार्थिव शरीर व्यर्थ है । इसका महत्त्व तो भावतत्त्व की प्राप्ति में है । इतने दिनों तक मै इस पार्थिव शरीर में किस प्रकार रहा? मुझे अब तक उस परतत्त्व की प्राप्ति क्यों नही हुई? ॥ ९८-९९ ॥ विमुक्तः पञ्जराद् यद्वत् सुखमास्ते विहङ्गमः ॥ ९९ ॥ ऊर्ध्वपाती तदारूढस्त्वेवं मन्त्रबलाच्छिशुः । इतः परं शिष्यस्य पञ्जरविमुक्तविहङ्गमसादृश्यमाह—विमुक्त इति । शिष्य- चैतन्यस्य मन्त्रबलात् क्ष्मातत्त्वविमुक्तत्वेऽपि तदारूढत्वाद् विहङ्गमस्यापि पञ्जरोर्ध्वा- रूढत्वमुक्तम् ॥ ९९-१०० ॥ जिस प्रकार पञ्जर विमुक्त विहङ्गम सुख पूर्वक रहता है, उसी प्रकार मुझे भी इस पार्थिव तत्त्व से विमुक्त होकर सुखी होना चाहिये । किन्तु आश्चर्य है? जो मैं पार्थिव पञ्जर से विमुक्त होकर भी अभी उस विहङ्गम के समान इसी पार्थिव शरीर पर आरूढ़ हूँ, जो पञ्जर से विमुक्त होकर भी उसी पर आरूढ़ रहता है ॥ ९९-१०० ॥ मन्त्रसमूहविज्ञापनं तत्प्रकारकथनम् समूहमथ विज्ञाप्य तत्प्रभुत्वेन यः स्थितः ॥ १०० ॥ सन्निरुद्धो भवत्वस्य सर्वतः सर्वदैव हि । युष्मत्प्रसादसामर्थ्याद् यथावत् पार्थिवो गुणः ॥ १०१ ॥ क्ष्मातत्त्वस्थितपातालशयनादिमन्त्रसमूहविज्ञापनं तत्प्रकारं चाह—समूहमिति सार्धद्वाभ्याम् ॥ १००-१०२ ॥ इस प्रकार चिन्तित शिष्य को देख कर आचार्य क्ष्मातत्त्व स्थित पाताल शयनादि मन्त्र समूहों से तथा उनके प्रभुत्व रूप से जो देवता स्थित हैं उनसे विज्ञापन करे । हे मन्त्रसमूहों ! आप लोगों के प्रसाद के सामर्थ्य से इस शिष्य में सर्वत्र सर्वदा पार्थिव गुण यथावत् रूप से सन्निरुद्ध रहें ॥ १०१ ॥ देहान्तं गन्धतन्मात्रं भवेदासीनमस्य वै ।

एकोनविंशः परिच्छेदः ४७३ सम्यक् सम्प्रतिपन्नस्य शासने पारमेश्वरे ॥ १०२ ॥ पारमेश्वर शासन में सम्प्रतिपन्न तथा आसीन इस शिष्य में देह त्याग पर्यन्त गन्ध तन्मात्रा विद्यमान रहे ॥ १०२ ॥ हे धराधिपते नाथ अस्याद्य प्रभृति त्वया । ध्वंसिना मोक्षविघ्नानां भवितव्यं च कर्मिणः ॥ १०३ ॥ तदधीनवराहविज्ञापनाप्रकारमाह—हे धराधिपते इति ॥ १०३ ॥ अब मन्त्राधीन वराह से विज्ञापन करते हैं—हे धराधिपते ! हे नाथ ! आप आज से लेकर सर्वदा इस मेरे शिष्य के मोक्ष में होने वाले समस्त विघ्नों का विनाश करते रहें ॥ १०३ ॥ इति विज्ञाप्य चाज्ञाप्य आपाद्याहुतयः क्रमात् । सह शक्त्या समाकृष्य भूयात् तत्पूरकेण तु ॥ १०४ ॥ इति विज्ञापनानन्तरं पूर्वोक्तक्ष्मातत्त्वतदधीशमन्त्रैर्होमं शिष्यदेहात् पूरकेण शक्ति- मच्चैतन्यस्य शक्त्या सहाकर्षणं चाह—इतीति । आज्ञाप्येत्यत्र गन्धमिति शेषः, “रस- माज्ञाप्य गन्धवत्” (१९।१०९) इति वक्ष्यमाणत्वात् ॥ १०४ ॥ इस प्रकार विज्ञापन करने के पश्चात् आचार्य पूर्वोक्त क्षमातत्त्व तथा तदधीश मन्त्रों से होम करे । फिर शिष्य के देह से पूरक प्राणायाम के द्वारा शक्तिमत् चैतन्य का शक्ति के साथ आकर्षण करे ॥ १०४ ॥ अप्‌तत्त्वसंस्कारकथनम् तद्देहे चाम्मयं बीजं साधारं पूर्ववद् न्यसेत् । कुण्डमध्येऽनुसन्धाय जीवशक्तिं च पूर्ववत् ॥ १०५ ॥ विरेच्य शक्तिमांस्तत्र नियोज्यस्तदनन्तरम् । तत्समाधौ यथापूर्वं कुम्भकेन महामते ॥ १०६ ॥ अथाप्यं देहमापाद्य होमध्यानादिना परम् । तत्राधिकारपूर्वं तु सर्वं निर्वर्त्य तस्य वै ॥ १०७ ॥ आप्येन सूत्रस्कन्धेन सह पूर्वान्निपात्य च । अप्तत्त्वं पदसंयुक्तं तेनाक्रान्तं स्मरेत् तथा ॥ १०८ ॥ तत्स्थं मन्त्रसमूहं तु सह तत्पतिना तु वै । पूर्ववच्छावयित्वा च रसमाज्ञाप्य गन्धवत् ॥ १०९ ॥ अथाप्तत्त्वसंस्कारमाह—तद्देहे इति पञ्चभिः । तद्देहे शिष्यदेह इत्यर्थः । अम्मयं बीजं अप्तत्त्वं बीजमित्यर्थः । ॐअं नम इति यावत्, "नीत्वा स्वनाम्न आद्यर्णं सा० सं० - 34

४७४ सात्वतसंहिता क्षमान्तानां बीजतां गतम्'' (१८।१३५) इति पूर्वोक्तेः । साधारं प्रणवासनविश्रान्तमि- त्यर्थः । शक्तिमान् शक्तिमत्त्वेन ध्यातं शिष्यचैतन्यमित्यर्थः । तत्र शिष्यविग्रह इत्यर्थः । तत्समाधौ पूर्वोक्तजपध्यानेकलक्षणे समाधावित्यर्थः । आप्यं देहमापाद्य सूक्ष्मदेहं सम्पाद्येत्यर्थः । होमध्यानादिना हृन्मन्त्रहोमादिनेत्यर्थः । अधिकारपूर्वम् अधिकार- भोगाधिकमित्यर्थः । पदसंयुक्तं पदाध्वसंयुक्तमित्यर्थः । तेनाक्रान्तं शक्तिसहितशक्ति- मताक्रान्तमित्यर्थः । तत्स्थं मन्त्रसमूहं नारायणादिसप्तमन्त्रसमूहमित्यर्थः । तत्पतिना सह सरश्शायिना सार्धमित्यर्थः । पूर्ववत् श्रावयित्वा पूर्वोक्तप्रार्थनाश्लोकान् श्रावयित्वे- त्यर्थः । किन्तु तत्र यथावत् पार्थिवो गुण इत्यत्र यथावच्चाम्भयो गुण इति, गन्ध- तन्मात्रमित्यत्र रसन्मात्रमिति, हे धराधिपते इत्यत्र हे जलाधिपते इति च योज्यम् । एवमुत्तरत्रापि ज्ञेयम् ॥ १०५-१०९ ॥ अब जल तत्त्व का संस्कार कहते हैं—इसके बाद शिष्य के देह में आचार्य आधार सहित अम्मय बीज 'ॐ अं नमः' का न्यास करे । फिर कुण्ड के मध्य में पूर्ववत् जीव शक्ति का अनुसंधान करे । उसके शक्तिमान् का नियोजन करे उसके अनुसंधान में कुम्भक का प्रयोग करे । इस प्रकार होम ध्यान द्वारा उसके सूक्ष्म देह का सम्पादन करे । फिर हे नारायण! हे नाथ! आज से लेकर आप इस कर्मी, मेरे शिष्य के मोक्ष में आने वाले विघ्न का विनाश करे । हे जलाधिप ! इसके शरीर में अम्मय गुण देह पात पर्यन्त बना रहे । रस तन्मात्रा विद्यमान रहे । इस प्रकार की प्रार्थना करे ॥ १०५-१०९ ॥ मनोऽवसानं नीत्वैवं तं वर्णाध्वोर्ध्वगोचरम् । निष्ठाङ्गेन महाबुद्धे तेजसाऽस्त्रेण चेच्छया ॥ ११० ॥ समुद्धृत्याथ वै प्राग्वद् योक्तव्यं बुद्धिगोचरे । षडध्वमुक्तमूलेन प्राप्तसंज्ञं च तं शिशुम् ॥ १११ ॥ तत्त्वकञ्चुकनिर्मुक्तं शान्तात्मन्येकतां गतम् । स्मृत्वा शक्त्यात्मनाऽग्नौ तु लब्धलक्षं परे पदे ॥ ११२ ॥ ऐश्वरेण तु बीजेन प्रोक्तसत्त्वान्वितेन च । ततः संवेद्यनिर्मुक्ते समाधौ विनियोज्य च ॥ ११३ ॥ न वेत्ति यत्र संलीनं सानन्दं द्वैतमात्रकम् । एवं तेजस्तत्त्वप्रभृतिमनस्तत्त्वान्तानां मन्त्राध्वादिवर्णाध्वान्तसहितानां चतुर्णां क्रमेण संस्काराः कार्या इत्याह—मनोऽवसानमित्यर्धेन । अथ नेत्रमन्त्रेणास्त्रमन्त्रेण वा शक्तिमतः शिष्यचैतन्यस्य बुद्धिमयेऽध्वनि योजनं तच्छक्त्याः पूर्ववदग्नौ योजनम् ऐश्वरेण बीजेन जपध्यानेकलक्षणे समाधौ नियोजनं चाह—निष्ठाङ्गेनेति चतुर्भिः । निष्ठाङ्गेन = चरमाङ्गेनेत्यर्थः । इदं तेजोऽस्त्रमन्त्र- योरुभयोरपि विशेषणं बोध्यम् । यतः— प्राधान्येन त्वथैश्वर्यं मोक्षो यत्रानुषङ्गतः ॥

एकोनविंशः परिच्छेदः ४७५ तत्र तद्विघ्नशान्त्यर्थमस्त्रान्तं विद्धि मन्त्रपम् । विपर्यये तु नेत्रान्तो मन्त्रो यस्मान्महामते ॥ (२१३९-४०) इति फलाभिसन्धिभेदेनोभयोरपि चरमाङ्गत्त्वं द्वितीयपरिच्छेदे प्रतिपादितम् ॥ ११०-११४ ॥ इसी प्रकार तेजस्तत्त्व से लेकर मनस्तत्त्वान्त का तथा मन्त्राध्वा से लेकर वर्णाध्वा पर्यन्त इन चारों का संस्कार करे । इसके बाद नेत्रमन्त्र से अथवा अस्त्रमन्त्र से शक्ति युक्त शिष्य चैतन्य को बुद्धिमय अध्वा में संयुक्त करे । फिर उस शक्ति को पूर्व की भाँति अग्नि में संयुक्त करे, फिर उसे ऐश्वर बीज के द्वारा जप एवं ध्यान लक्षण वाले समाधि में संयुक्त करे । समाधि में सानन्द लीन हो जाने पर साधक द्वैत मात्र का अनुभव नहीं करता ॥ ११०-११४ ॥ होमविधिः आहुतीनां शतं हुत्वा तदापादनकर्मणि ॥ ११४ ॥ नीत्वा समानतां सर्वं तेनैव स्वधियाऽखिलम् । सह संवेद्यजालेन वाक्प्रबन्धं यथास्थितम् ॥ ११५ ॥ निस्तरङ्गमयो भूत्वा दद्यात् पूर्णाहुतिं पराम् । होमविधिमाह—आहुतीनामिति द्वाभ्याम् ॥ ११४-११६ ॥ उस समाधि में सिद्धि के लिये आचार्य सौ आहुतियाँ प्रदान करे । जिज्ञासा वाली अपने उस बुद्धि से यथास्थित सभी वाक् प्रबन्धों को एक ही साथ समान रूप से समझे । तदनन्तर निःशङ्क होकर परा पूर्णाहुति प्रदान करे ॥ ११४-११६॥ अथास्मितां प्राप्य गुरुः प्रदद्यादाहुतीः पुनः ॥ ११६ ॥ बीजनाथेन शिष्यस्य त्वपमोक्षनिवृत्तये । पदैरोद्धारसंरुद्धैः पदावस्थितमानसः ॥ ११७ ॥ सर्वज्ञो भव चोक्त्वैवं जुहुयाद् द्वादशाहुतीः । भवैवमेव भगवन् निरवद्यो निराश्रयः ॥ ११८ ॥ सर्वेश्वरः सर्वशक्तिः सुसम्पूर्णोऽच्युतो वशी । व्यापी निरुद्धषाड्गुण्यो निर्विकारो निरञ्जनः ॥ ११९ ॥ नित्यो नित्योदितज्ञानो नित्यानन्दः सुनिष्कलः । अनाद्यनन्तोऽनिधनो वासुदेवो विभूतिमान् ॥ १२० ॥ भूत्वैवं च ततः कुर्यात् पूर्णया पुनरेव हि । पुनरपमोक्षनिवृत्त्यर्थं होममाह—अथेति पञ्चभिः । बीजनाथेन = ऐश्वर्यबीजे- नेत्यर्थः । विशाखयूपबीजेनेति यावत् ॥ ११६-१२१ ॥

४७६ सात्वतसंहिता अब अपमोक्ष निवृत्ति के लिये होम कहते हैं—तदनन्तर गुरु अस्मिता प्राप्त कर पुनः आहुति प्रदान करे। तदनन्तर गुरु अपने शिष्य के अपमोक्ष निवृत्ति के लिये ॐकार युक्त ऐश्वर्य बीज (विशाखयूप) बीज पूर्वक 'सर्वज्ञो भव' मन्त्र पढ़कर द्वादश आहुति देवे। फिर गुरु आशीर्वाद देवे 'हे भगवन् एवमेव भव'। फिर आचार्य अपने में 'निरवद्य, निराश्रय, सर्वेश्वर, सर्वशक्ति, सुसम्पूर्ण अच्युत, वशी, व्यापी, षाड्गुण्ययुक्त, निर्विकार, निरञ्जन, नित्य, नित्योदितज्ञान, नित्या- नन्द, सुनिष्फल, अनादि, अनन्त, अनिधन, वासुदेव, विभूतिमान् मैं हूँ' इस प्रकार का संकल्प कर पुनः पूर्णाहुति करे ॥ ११६-१२१ ॥ स्थितं वैभवदीक्षायां मुमुक्षोरैश्वरे पदे ॥ १२१ ॥ यत्रस्थो धाम चाभ्येति ह्यचिरात् पारमेश्वरम् । ईश्वरेच्छावशेनैव देहपातान्महामते ॥ १२२ ॥ अथ बुद्धिपदाद् वैशाखयूपपदे पद्मनाभाभिपदे वा शक्तिमच्छक्तिभेदेनोभयत्र वा तत्फलाभिसन्ध्यनुसारेण शिष्यचैतन्यस्थापनं पुनस्तस्मात् पदादुद्धृत्य देहपातान्तं कालं बुद्धिमयेऽध्वन्येव स्थापनं तथा बुद्धिपदे स्थापितस्यापि चैतन्यस्य काष्ठवह्निदृष्टान्तेन तन्मयाभावत्वं चाह—स्थितमिति सार्धैश्चतुर्भिः ॥ १२१-१२५ ॥ इस प्रकार वैभव दीक्षा में स्थित शिष्य मुमुक्षु हो कर ईश्वर पद में प्रतिष्ठित हो जाता है। जहाँ स्थित होकर ईश्वरेच्छावश देहपात के अनन्तर वह शीघ्र ही परमेश्वर के धाम में पहुँच जाता है ॥ १२१-१२२ ॥ भोगेच्छोः पद्मनाभीय उभयेच्छोः पदद्वये । शक्तिमच्छक्तियोगेन त्वथ बुद्धिमयेऽध्वनि ॥ १२३ ॥ निवेश्यो देहपातान्तं कालमुद्धृत्य तत्पदात् । अन्तरूढो यथा काष्ठात् पावकश्च पृथक् कृतः ॥ १२४ ॥ न भूयः सह काष्ठेन साम्यमेति तथा पुमान् । योजितोऽध्वान्तरे भूयो नैति तन्मयतां ततः ॥ १२५ ॥ इसके बाद आचार्य भोग की इच्छा रखने वाले शिष्य को वैशाखयूप पद पर स्थापित करे, अथवा पद्मनाभादि पद पर भोग और मोक्ष दोनों की इच्छा रखने वाले शिष्य को शक्ति और शक्तिमान् में भेद के सिद्धान्तानुसार दोनों पद पर उसके चैतन्य को स्थापित करे। फिर उसे उस पद से हटाकर देहपातान्त काल पर्यन्त बुद्धिमय अध्वा में स्थापित करे। इस प्रकार बुद्धि पद पर स्थापित उसका चैतन्य पुनः अन्य अध्वा में प्रवेश नहीं कर सकता। जिस प्रकार काष्ठ के भीतर रहने वाली अग्नि काष्ठ से पृथक् हो जाने पर पुनः काष्ठ का रूप धारण नहीं करती ॥ १२३-१२५ ॥

एकोनविंशः परिच्छेदः ४७७ समाधिप्रच्युतिं कृत्वा विनिवेश्यात्मनोऽग्रतः । यथावदुपदेष्टव्यस्तस्याध्वा च सितासितः ॥ १२६ ॥ संस्थितो यस्त्वभेदेन भिन्नरूपः परात्मनि । अथ शिष्यं पूर्वोक्तसमाधिविमुखं कृत्वाऽऽत्मनोऽग्रे निवेश्य तस्य वक्ष्यमाण- प्रकारेण षडध्वोपदेशं कुर्यादित्याह—समाधीति सार्धेन ॥ १२६-१२७ ॥ वेद्यवेदकनिर्मुक्तमच्युतं ब्रह्म यत्परम् ॥ १२७ ॥ तच्छब्दब्रह्मभावेन स्वशक्त्या स्वयमेव हि । मुक्तयेऽखिलजीवानामुदेति परमेश्वरः ॥ १२८ ॥ परंब्रह्मैव निखिलचेतनसंरक्षणार्थं शब्दब्रह्मभावं भजतीत्याह— वेद्येति सार्धेन ॥ १२७-१२८ ॥ इसके बाद आचार्य शिष्य को समाधि से हटाकर अपने आगे बैठावे, तदनन्तर उसे षडध्वा का उपदेश इस प्रकार करे । जो भिन्न रूप होते हुए भी परमात्मा में अभेद रूप से संस्थित है जो वेद्य वेदक से निर्मुक्त अच्युत तथा पर ब्रह्म है। वही परमेश्वर समस्त जीवों की मुक्ति के लिये अपनी शक्ति से स्वयं ‘शब्द ब्रह्म’ के रूप में प्रगट होता है ॥ १२६-१२८ ॥ तदव्यक्ताक्षरं विद्धि तन्त्रीशब्दो यथा कलः । पृथग्वर्णात्मना याति स्थितयेऽनेकधा स्वयम् ॥ १२९ ॥ तन्त्रीशब्दवदव्यक्ताक्षरं तच्छब्दब्रह्म अकारादिक्षकारान्तवर्णरूपेण पुनर्व्यक्ततां भजतीत्याह—तदिति । एतद्व्यक्तरूपं सर्वैरपि ज्ञायते ॥ १२९ ॥ तन्त्री (वीणा) शब्द के समान मधुर वह शब्द पहले अव्यक्त रूप में रहता है फिर वही अपनी स्थिति के लिये पृथक्-पृथक् अनेक वर्णों के रूप में वैखरी रूप में स्वयं व्यक्त होता है ॥ १२९ ॥ नो यान्ति निश्चयं यत्र चातुरात्म्यादनुग्रहात् । ऋते वेदविदो विप्रास्त्वेतस्मिन् प्रथमेऽक्षरे ॥ १३० ॥ अव्यक्ताक्षरे शब्दब्रह्मणः प्रथमरूपे तु भगवदनुग्रहं विना वेदविदामपि निर्णयो न संभवतीत्याह—नो यान्तीति ॥ १३० ॥ वह शब्द ब्रह्म प्रथम जब अव्यक्त रूप में रहता है तब उसका निर्णय भगवदनुग्रह के बिना बड़े-बड़े वैदिक भी करने में असमर्थ रहते हैं ॥ १३० ॥ स शब्दमूर्तिर्भगवान्व्येति च कलात्मना । तद्ग्रहो युज्यते येन तन्निष्ठानां हि कर्मिणाम् ॥ १३१ ॥