भारतकोश
संग्रह पर लौटें

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

१२४ सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्


भ्रमिता नमिता न न यामिति याति हयः । वियदङ्गणरिङ्गण-
रङ्गणभूर्विमृशन्निव नर्तनमातनुते ॥ ५ ॥ किमङ्गारबद्धा खुरैः
स्पर्शयन्त, कुरङ्गा इवाङ्गानि संकोचयन्त । अटन्तो
नटन्तो भट तोषयन्तस्तुरगाः सुरङ्गाः पुर गाहयन्ति
॥ ६ ॥ अलक्षितगतागतै कुलवधूकटाक्षैरिव क्षणानुवय-
शीतलैः प्रणयकेलिकोपैरिव । सुवृत्तमसृणोन्नर्तर्मुगद्गशा-
मुरोजैरिव त्वदीयतुरंगरैरिदं धरणिचक्रमाक्रम्यते ॥ ७ ॥
निर्भास मुखमण्डले परिमित मध्ये लघुं कर्णयो स्कन्धे
बन्धुरमप्रमाणमुरसि स्निग्ध च रोमोद्गमे । पीन पश्चिम-
पार्श्वयोः पृथुतर पृष्ठे प्रधानं जवे राजा वाजिनमारुरोह
सकलैर्युक्तं प्रशस्तैर्गुणैः ॥ ८ ॥ धूलीभिर्दिवमन्धयन्नबधिरय-
न्नाशा. खुराणा रवैर्वातं सयति खञ्जयञ्जवजयै. स्तोतृन्गृ-
णैर्मूकयन् । धर्माराधनसनियुक्तजगता राज्ञामुनाधिष्ठित.
सान्द्रोत्फालमिषाद्विगायति पदा स्प्रष्टुं तुरगोऽपि गाम् ॥९॥
वात स्थावरयन्नभ. पुटकयन्सोतस्वती सूत्रयन्सिन्धुं पल्व-
लयन्वनं विटपयन्भूमण्डलं लोष्टयन् । शैल सर्षपयन्दिश
चपलयंल्लोकत्रय कोडयन्हेलारूढरयो हयस्तव कथंकारं
गिरा गोचर. ॥ १० ॥ तसा गमिव सरस्पृशन्ति गति-
भिर्द्यामुत्पतन्तो मुहुर्भ्रान्तेवासिन आजवश्रुतगतीवाध्यापय-
न्तोऽनिलात् । देव स्वीयखुराग्रदीर्णवसुधाधूलीवितानं बला-
रात्यश्वो नटन पठिष्यति हि वस्त्रन्वन्ति वाहास्तव ॥ ११॥


खङ्गप्रशंसा

वर्णयामि विमलत्वमम्भसः किं त्वदीयकरवालवर्तिनः ।
एति यत्प्रभवमैन्दवी द्युति विश्वशुक्तिपुटमौक्तिकं यशः ॥१॥
खङ्गवारि भवत. किमुच्यते लोलशैवलमिवारिकुन्तलै. ।
यत्र राजति निवेशितं त्वया राजहंसनिवहोपम यशः ॥२॥
न पक्षवृत्तिर्न सपक्षवृत्तिर्विपक्षवृत्तिः करवालधूमः । तथापि
ते भूमिपते जगत्या प्रतापवह्निप्रमिति करोति ॥ ३ ॥
रिपुश्रियः कि कचसचयोऽय प्रतापवह्नेः किमु धूमराजिः ।
विलोक्य यत्पाणिगतं कृपाणमेव जनस्तर्कयते रणेषु ॥ ४ ॥
सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा ।
तमालनीला शरदन्दुिपाण्डु यशस्त्रिलोक्याभरण प्रसूते ॥५॥
दर्पान्धगन्धगजकुम्भकपाटकूटसक्रान्तनिश्चघनशोणितशोण-
शोचिः । वीरैरवेलोकि युधि कोपकषायकान्तिः काली-
कटाक्ष इव यस्य करे कृपाण• ॥ ६ ॥ धाराधरस्त्वदसिरेष
नरेन्द्र चित्र वर्षन्ति वैशिवनिताजनलोचनानि । कोशेन
सततमसगतिराहवेऽस्य दारिद्र्यमभ्युदयति प्रतिपार्थि-
वानाम् ॥ ७ ॥ कुरगाक्ष्या वेणी सुभग विपरीते रतिविधा-
वधिस्रन्वे बद्धा किमपि निवन्तन्तीमरिमट. । अधिग्रीवं
युष्मत्प्रचलकरवालव्यतिकर खरन्नेव स्तब्धो विरमति परी-
रम्भग्भसात् ॥ ८ ॥ कृपाणीय काली तव रिपुयश.क्षीर-
मनिशं पिबन्ती व्यालीव प्रथयति तथा दुर्विषहताम् ।
यथा दूरादस्याः स्फुरणमपि समाव्य सहसा विमुह्यन्ति
प्रौढप्रहरणभृतोऽपि प्रतिभटाः ॥ ९ ॥ राजन्वीर विपक्ष-
लक्षसुवधूवैधव्यदीक्षागुरु सङ्ग। माधवकर्म्ममर्मकुशलः प्रत्यर्थि-
पृथ्वीभुजाम् । प्राणानर्घ्यमणेर्मयापहरणं नाकारि कितु
प्रभो भ्रूभङ्गेन तवेति दिव्यमपिबत्कोशं स खङ्गः परः ॥१०॥
अखासिर्भुजग स्वकोशविवराकृष्टः स्फुरत्कृष्णिमा कम्प्रो-
न्मीलद्दंराललीलवलनेस्तेषा भिये भूभुजाम् । सङ्ग्रामेषु
निजाङ्गुलीमयमहासिद्धौषधीवीरुध. पर्वासु विनिवेश्य जाङ्गु-
लिकता कैनीम नालम्बिता ॥ ११ ॥ भूसून्मौलितटीषु
दर्शितसमारम्भोऽयमम्भोधरस्त्वत्खड्ग प्रतिपक्षपक्षपटल
प्रक्षालयन्धारया । युद्धक्रुद्धविरुद्धसिन्धुरगलद्रण्डस्थलप्रस्ख-
लन्मुक्ताभिः करकाभिराशु समरे क्षोणीतले वर्षति ॥ १२ ॥
आश्चर्य समराम्बरे रिपुयशश्चन्द्रप्रतापाकर्यो• सर्वग्रासमयं
सहैव तनुते त्वत्खङ्गराहु कथम् । कि चान्यत्परलोकनि-
र्भय भवास्तस्मिन्महत्युत्सवे गृह्लाति त्यजतामकम्पहृदयो
राज्ञा समस्ता भुवः ॥ १३ ॥ देव त्वत्करपद्मकोशविगलन्म-
त्तालिमालामसिवैधव्योद्भटधूमकेतुमपरे त्वद्वैरिवामभ्रुवाम् ।
वेणी कालवधोः प्रतापहुतभुग्धूम च केचिज्जगुर्मन्ये काल-
भुजंगलोलरसना हालाहलव्यापृता ॥ १४ ॥ सिक्ताया वीर-
कण्ठस्थलबहलगलद्रक्तधाराम्बुवर्षैर्माद्यन्मातंगकुम्भोद्दनवि-
लुलितैर्मौक्तिकैः पुष्पितायाम् । सङ्ग्रामोद्यानभूमौ तुरगखुर-
पुटोत्खातकृष्टस्थलाया जातं ते खङ्ग-वल्ल्याः फलमतुल-
रसास्वादहृद्यं जयश्री. ॥ १५ ॥ सर्पीवैषा कृपाणी तव
भुजभुजगासगत. सगगदौ सद्यःकृत्तारिखण्डच्युतरुधिररजो-
योगमभ्यावहन्ती । दृप्यद्वानाम्बुपूरोत्कटकरिघटनागण्ड-
शैलेषु लीना सूते सद्यः किलाब्दान्यतिविमलगलद्भरिमुक्ता-
च्छलेन ॥ १६ ॥ लेखन्ती व्योमगर्भ दिशि विदिशि मुहु-
र्निष्पतन्ती हरन्ती शश्वत्प्रौढान्धकारानखिलजनमनोविस्मयं


पादटिप्पणी:

१ अन्तरिक्षचारिणा दृष्टौ प्रतिबन्धक्तित्यर्थः २ तत्रत्यान्प्राणिन इत्यर्थ ३ वायोरप्यधिकवेग इत्यर्थ ४ जगतो धर्मैकसाधनकारिणा ५ वेगातिशयत्वाद्विरन्तरमूर्धचरणनिक्षेपव्याजात् ६ भुबम्; पक्षे,- धेनुम् 'गोब्राह्मणानलान्भूमिं गोष्ठिष्ठ न पदा स्पृशेत्' इति निषेधादिति भाव.
१ वक्रविलासा • २ प्रकटकुलगतिरित्यर्थ ३ ग्रन्थिम्. ४ विषवैद्यता

खड्गप्रशंसा, राजयात्रावर्णनम् १२५

वर्धयन्ती । यस्य स्फारासिधारा तडिदिव तरला वैरिकण्ठोप- पकण्ठं प्राप्ता सद्यो नटीव प्रणयकुतुकिनी मोहमावि- ष्करोति ॥ १७ ॥ चूडापीडाभिरामः स्फुरदुरुमणिभिर्मुद्रि- ताकल्पभूतैर्दोर्दण्ड. कुण्डलीन्द्रस्तव जयति जगन्मण्डलाधार एष । क्षीराब्धान्यारिकीर्तिं सपदि समुदिता पातुकाम. प्रसर्पञ्जिह्वासुच्चैः किमेना चपलयति चमत्कारिणी खड्ग- धाराम् ॥ १८ ॥

राजयात्रावर्णनम्

प्रयाणे तव राजेन्द्र मुक्ता वैरिदृगीदृशाम् । राजहंस गति. पद्यामाननेन शशिद्युतिः ॥ १॥ दिङ्नारीणा स्पृशत्यर्को रज.सन्दूषिताम्बरम् । प्रस्थाने नृपते सन्तोऽपधैर्य्यान्ति रजो- वृताः ॥ २ ॥ त्वद्वाजिराजिनिर्यूतधूलीपटलपङ्किलाम् । न धत्ते शिरसा गङ्गा भूरिभारभिया हर. ॥ ३ ॥ यात्रासु यस्य ध्वजिनीभरेण दोलायमाना सकला धरित्री । आर्द्रव्रणाधि- ष्ठितपृष्ठपीठमकर्मठं कूर्मपति चकार ॥ ४ ॥ अस्य प्रया- णेषु समग्रशक्तेरग्रेसरैर्वाजिभिरुत्थितानि । कुर्वन्ति सीमन्त- शिखामणीना प्रेमाप्ररोहास्तमयं रजासि ॥ ५ ॥ यदस्य यात्रासु बलोद्धतं रजः स्फुरत्प्रतापानलधूममङ्कितम् । तदेव गत्वा पतितं सुधाम्बुधौ दधाति पङ्गीभवदङ्गता विधौ ॥ ६ ॥ त्वय्यागते किमिति वेपत एष सिन्धुस्त्वं सेतुंमन्थकृदतः किमसो बिभेति । द्वीपान्तरेऽपि न हि तेऽस्त्यवशवदोऽद्य त्वा राजपुंगव निषेधत एव लक्ष्मीः ॥ ७ ॥ त्वयि प्रच- लति प्रभो तुरगवल्गनासु स्फुरद्वरावलयधूलिभिः सकलमेव कीर्ण नभः । दिवाकरहयावली निरवलम्बसञ्चारतः श्रमा- पनयनाय कि वसुमतीमूर्ध्व गता ॥ ८ ॥ चोली चोली न तु कलयते गुर्जरा जर्जराङ्गी भूर्जाक्रान्त विशति विपिनं मालवी सालवीथीम् । नो सगीत रचयति मनागङ्ग वङ्गी कृशाङ्गी नाङ्गी रागं रहसि तनुते भूपते त्वत्प्रयाणे ॥ ९॥ देव त्वद्विजयप्रयाणविलसत्सद्वाजिराजिव्रजक्षुण्णक्ष्मातललीन- पासुपटल्याप्तोऽनिमेषेक्षणः । सुत्रामा बहु मन्यते फणिपति पातालमूलस्थितं सोऽप्युद्दामकरीन्द्रदुर्धरभरक्लान्तः सहस्रे- क्षणम् ॥१०॥ देवे दिग्विजयोद्यते धृतधनुःप्रैल्यर्थिसीमन्तिनी- वैधव्यव्रतदायिनि प्रतिदिशं क्रुद्धे परिभ्राम्यति । आस्ता- मन्यनितम्बिनी रतिरपि प्रायो न पौर्षं करे भर्तुर्धर्तुर्मदा- न्मदान्धमधुपौनीलीनिचोलं धनुः ॥ ११ ॥ देव त्वद्विज्यो- द्यमे हरिखुरत्रोतक्षतक्ष्मातलान्म्रोद्धृते रजस. परागपटले दिक्कक्रमाक्रामति । अक्ष्णा पैङ्क्षशतानि निन्दैति निजं हस्तद्वयं निन्दैति स्वा निन्दैल्यनिमेषता परि- पतद्वाष्पाम्बुधारो हरि. ॥ १२ ॥ युष्मद्वाजिजिताजिराजि- चरणक्षेपक्षतैर्मोदिनीं मङ्गु क्षोणिमवेक्ष्य सिञ्चति धनेर्भर्ता नदीना जलैः । आशामण्डलमुत्कटध्वजपटैर्वातं तनोति द्रुतं चञ्चच्चञ्चलरेणुगन्धिनमिवानेतुं दिवं गच्छति ॥ १३ ॥ धूर्ताधोरण देव वासवकरी पङ्केन लितः कथं नीतः स्वर्गे- तरगिणीजलमसो तन्नास्ति पङ्क. कुतः । सर्वाशाविजयो- त्सवं प्रति कृतोद्योगे धराधीश्वरे स्फायन्ते करिकर्णताल- पवनोद्धूताश्मभूरेणवः ॥ १४ ॥ देव त्वद्धजवाजिपत्रैपंटल- ग्रोद्भूतधूलीभरैराकाशं वेंसैवायते खैरंकरः सोमायते निष्प्र- भ । कि चाधो भरकुण्ठित. फणवता नाथः स कूर्मी- यते कूर्मो भोर्र्पतीयते किमपर रौत्रीयते वासरः ॥ १५ ॥ वेल्लत्पक्षति राजहंसयुवतिभ्रूव्यमृणालावलिभ्राम्यत्खट्पदभूरि- झाङ्कतिपतच्चैकीकृतकेङ्कति । पर्यस्रन्नृपपक्षसङ्गति पतद्दिग्व- र्तिवेगस्थिति प्रस्थानध्वजवातलोलमजनि स्वर्गापगायाः पयः ॥ १६ ॥ सत्यं त्वं पुरुषोत्तमोऽसि नियतं तत्रापि रामो. भवान्प्रस्थाने तव लज्जयेव नमति व्यक्तं यतो मेदि- नी । द्राक्पूर्वाचलपश्चिमाचलकुचावावृण्वती प्रोच्छलडुङ्गा- रावचलत्तयोधिलहरीचेलावञ्चलैश्चञ्चलैः ॥ १७ ॥ प्रस्थाने तव भूमिपाल वसुधा जाता रजोदोषला त्वद्विद्वारपयो- धरोऽञ्जनवृतं वर्षत्यधोऽश्रूदकम् । झञ्झाश्वासहिमापमौक्तिक- गणान्ग्रामाः किरन्ति द्विषत्सञ्चोत्पात इति प्रतापदहने यास्यन्ति ते शत्रवः ॥ १८ ॥ एतद्वत्तासिघातश्ववदसृगसुहृ-


१ राजकुमारा २ सेतुश्च मन्थश्चेति. ३ इन्द्रः ४ शत्रव . ५ यदि मम भर्ता कामो धनुर्धारयिष्यति तदाय राजा मद्भर्तारं धनुर्धरत्वाद्धनिष्यतीति भयात्स्वभर्त्रा धनुर्नाग्राहयदिति भाव .

१ अश्वः २ समूह ३ दशशतानि. ४ यतश्चैतावद्रज. समुच्छलित येन तस्य सहस्रनेत्राणि तिरोहितानि बभूवुस्तेन यदि मम नेत्रसहस्र नाभविष्यत्तदा चैतावद्रजोनेकरखत्र नापतिष्यत्ततो नेत्रसहस्र मम किमर्थमभवदिति ५ सत्यपि नेत्रसहस्रे तत्तिरोधानाय यदि हस्तसहस्रमप्यभविष्यत्तदा हस्तै सर्वनेत्राच्छादन कर्तु शक्यमतो मम पाणिद्वय व्यर्थमेवेति ६ यत्रो मया देवतवादननिमेषता पक्ष्मपाताभाव किमिति प्राप्त यस्माच्चक्षुषो रज पाततोऽपि नाभविष्यदत स्वामनिमेषता निन्दतीति भाव ७ रज कणससर्गार्द्धरिपतन्ती निर्गच्छन्ती नेत्रेभ्यो बाष्पाम्बुधाराश्रुजलप्रवाहो यस्य स ८ इन्द्र ९ अश्विनीकुमारै वैद्यम् १० वाहनम् ११ त्वद्वाहिन्येतावती विपुलासीद्यत्तत्सम्मर्दादाकाशमपि रजोमय बभूवेति भाव. १२ चण्डाशु १३ यथा कूर्म स्व शरीर संकोचयति तथा शेषोऽपि त्वद्वाहिनीभरेण संकुचितशरीरोऽभूदिति भाव . १४ सकुचितशरीरोऽपि प्रलम्बकायोऽभूदित्यर्थ . १५ यत्तस्त्याइक्तवाहिन्या धूलीपटल समुच्छलित येन दिनमप्यन्धकारवशाद्रात्रिरेवाभवदिति भाव.. १६ चक्रवाकी

१२६सुभाषितरत्नभाण्डागारम्[ ३ प्रकरणम्

दृशैसान्द्रेन्धनैतद्दोरुद्दामप्रतापज्वलदनलमिलद्धूमभूमभ्रमाय । एतद्दिग्जैत्रयात्रासमसमरभरं पश्यतः कस्य नासीदेतच्चेसी-रवाजिब्रजखुरजरजोजाजिंरङ्गिस्थलीषु ॥ १९ ॥ तत्तद्दिग्जैत्रयात्रोद्धुरतुरगखुरोद्गाढतैरन्धकारं निर्वाणारिप्रतापानलजमिव सृजत्येष राजा रजोभिः । भूगोल्लंघायमैयामर्यगणितविदुज्ञेयकायो भिँयाभूदेतत्कीर्तिप्रतानैर्विधुभिरिव युधे राहुराहूयमानः ॥ २० ॥ गान्धारा गुप्तदारास्त्वयि चलति गलद्वाष्पधारा विहारा रागखासान्नगाराः क्षितिपकुलमणे गुर्जरा जर्जराशाः । तैलङ्गास्त्यक्तलिङ्गास्त्रिभुवनतिलक क्लिष्टवङ्गा कलिङ्गा मोरङ्गा मुक्तकङ्गाः सपदि समभवन्वीर गङ्गाविहङ्गाः ॥ २१ ॥ काचित्कीर्णा रजोभिर्दिवमनुविदधौ मन्दवक्त्रेन्दुलक्ष्मीर्श्रीका काश्चिदन्तर्दिश इव दधिरे दाहमुद्धान्तसत्त्वाः । भ्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पमानाः प्रस्थाने पार्थिवाना मशिवमिति पुरोभावि नार्यः शशंसुः ॥ २२ ॥ जाने युष्मत्प्रयाणे क्षितितिलक रजोयोगदोषादशेषा दिग्घोषाः क्लान्ति सद्यस्त्वदरिनृपवधुनेत्रनीरापगासु । सगम्य त्वत्प्रतापैस्तदनु किमु दधुर्दोहनं देव तासा प्राची प्रातः प्रसूते यदिदमुरुमहोऽखण्डमार्तण्डबिम्बम् ॥२३॥ घूर्णन्ते तूर्णमेतत्कुलधरणिभृतो दिग्द्विपा दिग्वि दिक्षु क्षुभ्यन्ति क्षोभयन्ति क्षितिमतिमृदितो मर्मणा कूर्मराजः । प्रस्थाने यस्य गर्जत्करटिघनघटास भ्रमय्यच्चदुर्वीमुर्वी दर्वी-करेन्द्रः कल्पयितुमुदितश्चायमार्त्ति बिभर्त्ति ॥ २४ ॥ नृत्यत्खङ्गाजिराजिप्रसरखुरपुटप्रोद्धतैर्धूलिजालैरालोकालोकभूमीधरमतुलनिरालोकभावं प्रयाते । विश्रान्तिं कामयन्ते रजनिरिति धिया भूतले सर्वलोकाः कोकाः क्रन्दन्ति शोकानलविकलतया किं च नन्दन्त्युलूकाः ॥ २५ ॥ इन्द्रः प्रक्षुब्धचित्तो दिशि दिशि सकलान्दिक्पतीन्सावधानान्कुर्वन्वज्राच्छपाणिः सुरवरवलिता देवसेना निगृह्य । स्वर्गद्वारे यदीयोद्धतबलनिहतप्रौढढक्कानिनादं श्रुत्वा तिष्ठन्नकम्पत्कुचकलशतटीकिंनरीगीयमानः ॥ २६ ॥ आजौ त्वद्वाजिराजिप्रखरखुरतरन्यासलीलामिरुर्व्या दीर्णाया देव निर्यन्नविरलमवनीपाल पातालवह्निः । अश्रीयाद्विश्वमेव प्रतिनृपतिवधूनेत्रधाराम्बुधारावारा यद्येनमारादरिकुलदमन द्राङ् न निर्वापयेयुः ॥ २७ ॥

पताका

भयेन कृष्णान्यरुणानि रागात्पाण्डूनि कान्तादिवियोगभाजाम् । द्विषा मनांसि ध्वजकैतवेन लोलानि भोस्त्वा नृप संश्रयन्ति ॥ २८ ॥

दुन्दुभिः

गङ्गाम्भसि सुरत्राण तव निःसाणनिःस्वनः । ज्ञातीवारिवधूर्वर्गगर्भपातनपातकी ॥ २९ ॥ ब्रह्माण्डं प्रविखण्ड्य भूधरगुहासुन्तान्हरीन्बोधयन् गर्भान्वैरिवधूव्रजस्य नृपते निष्पात्य हा पातकी । कीलालं परिशोष्य च प्रतिभटाना तेजसा तेऽद्भुतं शोढुं विष्णुपदं स्पृशत्यधिपयोराशि प्लुतो दुन्दुभिः ॥ ३० ॥ पौरीन्द्राणा धुरीणैरवनिधरगुहागतैः प्रोच्छलद्भिः स्वापभ्रशापराधप्रचलितनयनप्रान्तमाकर्ण्यमानः । त्वत्प्रस्थानान्तरुद्यन्मलयजलधरध्वानधिक्कारधीरो घुष्टक्षीराम्बुतीरो जगति विजयते दुन्दुभिद्वन्द्वनादः ॥ ३१ ॥

गवाक्षविलोकनम्

आलोकमागं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्य । बद्धुं न संभावित एव तावत्करेण रुद्धोऽपि च केशपाशः ॥ ३२ ॥ प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्द्रवरागमेव । उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्का पदवी ततान ॥ ३३ ॥ विलोचन दक्षिणमञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा । तथैव वातायनसनिकर्ष ययौ शलाकामपरा वहन्ती ॥ ३४ ॥ जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्ना न बबन्ध नीवीम् । नाभिमविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वासः ॥ ३५ ॥ अर्धाञ्चिता सत्वरमुत्थितायाः पदे पदे दुनिमिते गलन्ती । कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा ॥ ३६ ॥ स्तनं धयन्तं तनयं विहाय विलोकनाय त्वरया व्रजन्ती । सप्रस्रुता या पदवी स्तनाभ्या सिषेच काचित्पयसा गवाक्षम् ॥ ३७ ॥ अभिवीक्ष्य सौमिकृतमण्डनं यैती. कररुद्धनीविगलदंशुकाः स्त्रिय. । दधिरेऽधिभित्ति पटहप्रतिस्वनैः स्फुटमट्टहासमिव सौधपङ्क्तयः ॥ ३८ ॥ रमसेन हारपददत्तकाञ्चयः प्रतिमूर्धजं निहितकर्णपूरकाः । परिवर्तित्ताम्बक्युगाः समापतन्र्वलयीकृतश्रवणपूरकाः स्त्रियः ॥ ३९ ॥ व्यतनोदपास्य चरणं प्रसाधिकीकरपल्लवाद्वसवशेन काचनं । द्रुतयावकैकपदचित्रितावनि पदवी गतेव गिरिजा हरार्धताम् ॥ ४० ॥ व्यचलन्विशङ्कट कटीर कस्थली शिखरस्खलन्मुखर मेखलाकुलाः । भवनानि तुङ्गतपनीयसङ्क्रमक्रमणात्कणत्कनकनूपुराः स्त्रियः ॥ ४१ ॥ करयुगमपद्ममुकुलापवर्जितैः प्रतिवेश्म लापकुसुमैरवाकिरन् । अवदीर्णशुक्तिपुटमुक्तमौक्तिकप्रकरैरिव प्रियकथाङ्गमञ्जना ॥ ४२ ॥ नलिनान्तिकोपहितपल्लवश्रिता व्यवधाय चारु मुखमेकपाणिना । स्फुरिताङ्गुलीविवरनिःसृतोल्लसद्दशनप्रभाङ्कुरमजृम्भतापरा ॥ ४३ ॥


१ वेणव. २ सेनामुखम्. ३ रणभूमिषु. ४ उच्छृङ्खल. ५ कपटम्. ६ गणितशास्त्रोक्तेनैव. ७ ज्योति शास्त्रप्रमाणक यद्राहोर्भूच्छायात्मकं तदेतत्कीर्तिचन्द्रमियेत्युत्प्रेक्षा.
१ 'सुलतान' इति पदस्य शोधन सुरत्राण इति. २ सिंहानाम्. ३ अर्धम्. ४ गच्छन्ती.

रणसामग्री, रणवर्णनम् १२७

रणसामग्री

अथोच्चकैर्जरठकपोतकन्धरातनूरुहप्रकरविपाण्डुरुद्युति । बलैश्चलच्चरणविधूतमूच्छरद्धनावलीरुदचरत् क्ष्मारज ॥ १ ॥
विष्वङ्गिभिर्भृशमितरतर क्वचित्तुरंगमौरुपरि निरूद्धनिर्गमा । चलाचलैरनुपदमाहता. खुरैर्विबभ्रुमुश्रिरमध एव धूलय. ॥ २ ॥
गरीयस. प्रचुरमुखस्य रागिणो रजोऽभवद्भवहितसत्त्वमुत्कटम् । सिसृक्षत. सरसिजजन्मनो जगद्वलस्य तु क्षयमपनेतुमिच्छत ॥ ३ ॥
पुरा शरक्षतिजनितानि सयुगे नयन्ति न. प्रसभमसृञ्जि पङ्कताम् । इति ध्रुव व्यवधिधुरत्तभीतय खमुच्चकैरनलसखस्य^१ केतवः ॥ ४ ॥
क्वचिल्लसद्धननिकुरम्बकर्बुर. क्वचिद्धिरण्मयकणपुञ्जपिञ्जर. । क्वविच्छरच्छशधरखण्डपाण्डुरः खुरक्षतक्षितितलरेणुरुद्ययौ ॥ ५ ॥
महीयसा महति दिगन्तदन्तिनामनीकजे रजसि मुखानुषङ्गिणि । विसारितामजिहत कोकिलावलीमलीमसा जलदमदाम्बुराजयः ॥ ६ ॥
शिरोरुहैरलिकुलकोमलैरमी सुधा मृधे म्रियत युवान एव मा^२ । बलोद्धत धवलितमूर्धजानिति ध्रुव जनाञ्जरत इवाकरोद्रज. ॥ ७ ॥
सुसहतैर्दघदपि धाम नीयते तिरस्कृति बहुभिरसशय परैः । यतः क्षितेरवयवमपदोऽणवस्त्विषानिवेऽपि वपुरावरीषत ॥ ८ ॥
द्रुतद्रवद्रथचरणक्षतक्षमातलोल्लसद्बहुलरजोवगुण्ठितम् । युगक्षयक्षणनिरवग्रहे जगत्पयोनिधेर्जल इव मग्नमाबभौ ॥ ९ ॥
समुल्लसद्दिनकरवक्त्रकान्तयो रजस्खलाः परिमलिताम्बरश्रियः । दिग्ङ्गना. क्षणमवलोकनकक्षमा शरीरिणा परिहरणीयता ययु. ॥ १० ॥
निरीक्षितुं वियति समेत्य कौतुकात्पराक्रमं समरमुखे महीभृताम् । रजस्ततावनिमिषलोचनोत्पलव्यथाकृति त्रिदशगणै पलाय्यत ॥ ११ ॥
विष्वङ्गिणि प्रतिपदगापिवत्यपो हताचिरद्युतिनि समीरवेक्षणि । शनै.शनैरुपचितपङ्कभारिका. पयोमुच प्रययुरपेतवृष्टय ॥ १२ ॥
नभोनदीव्यतिकरधौतमूर्तिभिर्विधूयतरुत्थैरनधिगतानि लेभिरे । चलच्चमूतुरगखराहतोत्पतनमहीरजःस्नपनसुखानि दिग्गजैः ॥ १३ ॥
गजव्रजाक्रमणभरावनमया रसातल यदखिलमानशे मुख । नभस्तलं बहुलतरेण रेणुना ततोऽगमन्निजगदिवैकता स्फुटम् ॥ १४ ॥
समस्थलीकृतविवरेण पूरिता महीभृता बलरजसा महागुहाः । रहःकृपाविधुरवधूररार्थिना नभःसदामुपकरणीयता ययुः ॥ १५ ॥
गते मुखच्छदपटसार्दशी दृशः पथस्तिरोदधति घने रजस्यपि । मदानिलैरधिमधूचूतगन्धिभिर्द्विपा द्विपानभिययुरेव रहसा ॥ १६ ॥
मदाम्भसा परिगलितेन सप्तधा गजाञ्जनः क्षमितरजश्चयानधः^१ । उपर्यवस्थितघनपासुमण्डलानलोकयत्ततपटमण्डपानिव ॥ १७ ॥
तूणीरबन्धपरिरद्धभुजान्तरालमाकर्णलम्बिशिखिपिच्छकलापधारि । कोदण्डपाणि निनदत्प्रतिरोधकानामापातदुष्प्रसहमाविरभूदनीकम् ॥ १८ ॥
आदावेव गजेन्द्रमौलिविलसद्दण्डा पताकावली पश्चाद्दारणराजधोरणिरतिप्रौद्दामयोधाश्रिता । उद्दण्डध्वजलाञ्छिताप्यथ घनीभूता रथाना ततस्त्वश्वत्रात्तुरगावली विजयते योधैः सम सर्वत ॥ १९ ॥
योधैरेव वशीकृताः कथमपि प्रोद्दामरोषान्विता गाढव्वान्तधराधरा इव रणक्षोण समालम्ब्रिता. । ईषन्मीलितघूर्णितं प्रतिदिशं प्रक्षिप्तनेत्राञ्चला मन्दान्दोलितमौल्यो मदजलैराभान्ति दन्तावलाः ॥ २० ॥
आरूढक्षितिपालभालविगलत्स्वेद्दाम्बुसेकोद्धता मेरीझांकृतिकापटकृतिचमत्कारोल्लसन्मानसा । क्षुभ्यत्क्षोणितलं स्फुरत्खुरपुट चञ्चच्चलकेशर मन्द्रान्तविलोचने प्रतिदिशं नृत्यन्ति वाजिब्रजा. ॥ २१ ॥
अन्यूनोन्नतयोऽतिमात्रपृथवः पृथ्वीधरश्रीभृतस्तन्वन्तः कनकावलीभिरुपमा सौदामिनीदामभि. । वर्षन्त. शममानयन्नुपलसच्छृङ्गारलेखासुधाकाले कालिकायकालवपुष. पासुन्गजाम्भोमुचः ॥ २२ ॥
हेषाघोषैरीणा जितघननिनादैर्बृहितै. कुञ्जराणा ज्याघातोत्थैर्निनादै. पटुपटहरवैर्मर्दलोद्दामशब्दै । प्राप्तैः कर्णेपकण्ठ भदगजनिवहस्कन्धघण्टाप्रणदै शृङ्गाराय त्वरन्ते त्रिदशमृगदृशो वीरवर्गाभुरक्ता. ॥ २३ ॥
सज्जन्ता कुम्भमित्तित्च्युतमदमदिरामत्तभृङ्गा. करीन्द्रा युज्यन्ता स्यन्दनेषु प्रसभजितमरुच्चण्डवेगास्तुरगा. । कुन्तैर्नीलोत्पलाना बनमिव ककुभामन्तराले सृजन्त. पादाताः सचरन्तु प्रसभमसिलसत्पाणयः पत्तयोऽपि ॥ २४ ॥


रणवर्णनम्

तनुत्राणं तनुत्राणं शस्त्रं शस्त्रं रथो रथ । इति शुश्रुविरे विश्वेगुद्भटाः सुभटोक्तयः ॥ १ ॥
पत्ति. पत्तिमभीयाय रणाय रथिनं रथी । तुरङ्गस्थं तुरङ्गस्थो दन्तिस्थं दन्तिनि स्थितः ॥ २ ॥
सङ्ग्रामानन्दवर्धिष्णौ विग्रहे पुलकाङ्किते । आसीत्कवचविच्छेदो वीराणा मिलता मिथः ॥ ३ ॥
निर्दयं खड्गभिन्नैभ्यः कवचेभ्य समुच्छ्रितैः । आसन्व्योमदिशस्तूलेः पलितैरिव^२ पाण्डुराः ॥ ४ ॥
खड्गा रुधिरसल्लिसाश्चण्डासुरकरमासुराः । इतस्ततोऽपि वीराणा वैद्द्युतं वैभवं दधुः ॥ ५ ॥
गृहीताः पाणिभिर्वीरैर्वीर्येकोशाः खङ्गराजयः । कान्तिजालच्छलादाजौ व्यहसन्सम्मदा इव ॥ ६ ॥ खङ्गाः


पाद-टिप्पण्यः (Footnotes):
१ वायोर्ध्वजभूतानि रजांसि
२ मा म्रियन्ताम्
१ परितः
२ वृद्धत्वमिदशैकचर्मविकृतिः

१२८सुभाषितरत्नभाण्डागारम्[ ३ प्रकरणम्

शोणितसंदिग्धा नृत्यन्तो वीरपाणिषु । रजोधने रणेऽनन्ते विद्युता विश्रमं दधु ॥ ७ ॥ शस्त्रभिन्नकुम्भेभ्यो मौक्ति- कानि च्युतान्यधुः । आहवक्षेत्रमभ्युसत्कीर्तिबीजोत्कराश्रियम् ॥ ८ ॥ वीराणा विषमँधैर्यैर्विदृता वारणा रणे । शास्यमाना अपि त्रासाद्भेजुर्धूताङ्कुशा दिशः ॥ ९ ॥ रणे बाणगणै- र्भिन्ना भ्रमन्तो भिन्नयोधिनः । निममज्जर्गलद्रक्तनिमग्नासु महागजाः ॥ १० ॥ खड्गनिर्दलनमूर्धानो निपतन्तोऽपि वाजिनः । प्रथम पातयामासुरसिना दारितानरीन् ॥ ११ ॥ वीराणा शस्त्रभिन्नाना शिरासि निपन्त्यपि । अधावन्दन्त- दष्टौष्ठभीषणान्यरिषु क्रुधा ॥ १२ ॥ त्रिगासि वरयोधनानामर्ध- चन्द्रहृतान्यपि । आदढाना भृश पादै श्येना व्यानशिरे दिशः ॥ १३ ॥ उत्क्षिप्ता अपि हस्तीन्द्रैः कोपने पत्तय करैः । ते रिपूनहनन्खड्गपातैः स्वस्य पुरः प्रभोः ॥ १४ ॥ उत्क्षिप्य करिभिर्दूर मुक्ताना योधिना दिवि । प्रार्पि जीवात्मभिर्दिव्याङ्गनाकण्ठपरिग्रह ॥ १५ ॥ क्रुद्धस्य दन्तिनः पत्तिर्जिघृक्षोरसिना करम् । निर्मिद्य दन्तमुसला- न्यारुरोह जिघृक्षया ॥ १६ ॥ खड्गेनामूलतो हत्वा दन्ति नोऽङ्घ्रिचतुष्टयम् । प्रपतिष्णोः प्रविष्टोऽपि पदातिर्निरगा- द्द्रुतम् ॥ १७ ॥ करेण करिना वीर सुगृहीतोऽपि कोपिना । असिनाऽलुञ्चद्धाराशु तस्यैव स्वयमक्षत ॥ १८ ॥ तुरङ्गी तुरगारूढ प्रैसेनाहत्य वक्षसि । पततस्तस्य नाज्ञा- सीत्प्रासघात स्वके हृदि ॥ १९ ॥ तुरङ्गादिन शखहत- प्राण गतं भुवि । आन्नाह्योऽपि महावाजी नात्रस्तनयनो- ऽत्यजत् ॥ २० ॥ द्विधा प्रासहतप्राणो वाजिपृष्ठदृढासनः । हस्तोद्धतमहाप्रासो भटो जीवन्निवाभ्रमत् ॥ २१ ॥ खड्गेन शितधारेण भिन्नोऽपि रिपुणाश्वगः । नामूर्च्छत्कोपतो हन्तु- मियेष च पतन्नपि ॥ २२ ॥ रथिनो रथिभिर्वाणैर्हतप्राणा दृढासनाः । कृतकार्मुकसधानाः सप्राणा इव मेनिरे ॥२३॥ मिथोऽर्धचन्द्रनिर्लूनमूर्धानो रुषितौ रुषा । खेचरौ भुवि नृत्यन्तौ स्वकबन्धावपश्यताम् ॥ २४ ॥ पत्तिः पदाति रथिनं रथेशस्तुरगमादी तुरगाधिरूढम् । यन्ता गजस्याभ्यपतद्ग- जस्थ तुल्यप्रतिद्वन्द्वि बभूव युद्धम् ॥ २५ ॥ उत्थापितः सयंति रेणुरश्वै सान्द्रीकृतः स्यन्दनवंशचक्रैः । विस्तारितः कुञ्जरकर्णतालैर्नेत्रक्रमेणोपरुरोध सूर्यम् ॥ २६ ॥ रथो रथाङ्गध्वनिना विजज्ञे विलोलघण्टाक्कणितेन नागः । स्वभर्तृ- नामग्रहणाद्बभूव सान्द्रे रजस्यात्मपरावबोधः ॥ २७ ॥ आवृण्वतो लोचनमार्गमाजौ रजोन्धकारस्य विजृम्भितस्य । शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणोऽभूद्रुधिरप्रवाहः ॥२८॥


स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्टात्पवनावधूतः । अङ्गार- शेषस्य हुताशनस्य पूर्वोत्थितो धूम इवाबभासे ॥ २९ ॥ आघोरणाना गजसंनिपाते शिरासि चक्रैर्निशितैः क्षुरार्थैः । हृ- तान्यपि श्येननखाग्रकोटिव्यासक्तकेशानि चिरेण पेतुः ॥३०॥ तनुत्यजा वर्मभृता विकोशैर्बृहत्सु दन्तेष्वसिभिः पतद्भिः । उद्यन्तमग्नि शमयाबभूवुर्गजा विविशाः करशीकरेण ॥३१॥ शिलीमुखोत्कृष्टशिरःफलाढ्या च्युतैः शिरस्त्रैश्चषकोत्तरेव । रणक्षितिः शोणितमद्यकुल्या रराज मृत्योरिव पानभूमिः॥३२॥ केचिद्गदाः केऽपि सपापवाणानन्ये कृपाणीमपरे च शूलम् । शक्त्यूष्ट्रिमन्ये मुसलं परे च प्रोत्तानहस्ताः परिनर्तयन्ति ॥३३॥ सरोषयुद्धाङ्गनमध्यधावन्मत्तद्विपानामधिकोत्सुकानाम् । पादा- भिघाताभिहताः पतन्ति रथाश्च योधाश्च तुरंगमाश्च ॥३४॥ रम्भातरुन्नुद्धतवातपूरा यथा तथा वारणयूथनाथाः । सङ्ग्राम- भूमौ विनिपातयन्ति रथाश्च योधाश्च तुरंगमाश्च ॥ ३५ ॥ परस्परेण क्षतयोः प्रहर्त्रोरूत्क्रान्तवाय्वोः समकालमेव । अम- र्त्यभावेऽपि कयोश्चिदासीदेकाप्सरःप्रार्थितयोर्विवादः ॥३६॥ महास्वनः सैन्यविमर्दसम्भवः कर्णीन्तमूलंकषतामुपेयिवान् । पयोनिधेः क्षुब्धतरस्य मन्थनो बभूव भूम्ना भुवनोदरं- भरिः ॥ ३७ ॥ महागजाना गुरुवृंहितैः शतैः सुहेषितैर्घोर- तरैश्च वाजिनाम् । घनै रथाना चलचण्डचीत्कृतैस्तिरो- हितोऽभूत्तटहस्य निःस्वनः ॥ ३८ ॥ घनैर्विलोक्य स्थगि- तार्कमण्डलैश्चमूरजोभिर्निचितं नभस्तलम् । अयायि हसैर- भिमानस घनभ्रमेण सानन्दमनर्ति केकिभि ॥ ३९ ॥ विलोक्य धूलीपटलैर्भृश भृतं द्यावापृथिव्योरलमन्तर महत् । किमूध्वँतोऽधः किमघस्त ऊर्ध्वतो रजोऽभ्युपैतीति जनै- रतर्क्यत ॥ ४० ॥ नोर्ध्व न चाधो न पुरो न पृष्ठतो न पार्श्वतोऽभूत्खलु चक्षुषो गतिः । सूच्यग्रभेद्यैः पृतनारजो- भरैः सुनिर्भरं प्राणिगणस्य सर्वतः ॥ ४१ ॥ उद्दामदानद्विप- बृंहितैः शतैर्नितान्तमुत्तुङ्गतुरंगहेषितैः । चलद्धजस्यन्दन- नेमिनिःस्वनैरभून्निरुच्छ्वासमथाकुलं नभः ॥ ४२ ॥ महा- गजाना गुरुभिस्तु गर्जितैर्विलोलघण्टारणितै रणोज्ज्वलैः । वीरप्रभेदैः प्रमदप्रमेदुरैर्विचालतामादधिरेतरा दिशः ॥ ४३ ॥ दन्तीन्द्रदानाम्बुधिवारिवीचिभिः सद्योऽपि नद्यो बहु ताः पूपुरिरे । धरारजोभिस्तुरगक्षतैर्भृतं बाः पङ्कतामेत्य रजस्व- लीकृतम् ॥ ४४ ॥ निम्नप्रदेशाः स्थलसामुपागमन्निन्नत्वसु- कैरपि सर्वतः स्थलम् । तुरङ्गमाणा व्रजता खुरैः क्षितौ रथैर्गजेन्द्रैः परितः समीकृता ॥ ४५ ॥ नभोदिगन्तप्रतिघो- घभीषणैर्महामहीभृत्तटदारणोल्बणैः । पयोधिनिर्धूतनकेलिभि- र्जगद्बभूव भेरीस्वनितैः समाकुलम् ॥ ४६ ॥ इतस्ततो वातविधूतचञ्चलैरारोधितार्शागमनैर्ध्वजांशुकैः । लघुकण-


१ कुन्तेन. २ युद्धे. ३ नादेन.

रणवर्णनम्१२९

त्काञ्चनकिंकिणीकुलैरमज्जि धूलीजलधौ नभोगतै ॥ ४७ ॥
घण्टारवै रौद्रतरैर्निरन्तरैर्विस्त्वैरर्गर्जरवै सुभैरवैः । मदद्वि-
पाना प्रत्यावभूविरे न वाहिनीना पटहस्य नि स्वना.॥४८॥
करालवाचालमुखैश्चमूरवै. सस्तम्बरा वीक्ष्य रजस्वला
दिशः । तिरोबभूवे गगने दिनेश्वरो रजोऽन्धकारे परित
कुतोऽप्यसौ ॥ ४९ ॥ आक्रान्तपूर्वा रमसेन सैनिकैर्दिगङ्गना
व्योमरजोभिदूषिता । भेरीरवाणा प्रतिशब्दितैर्घनैर्जगर्ज गाढ
गुरुमत्सरादिव ॥ ५० ॥ गुरुसमीरसमीरितभूधरा इव गजा
गगन विजगाहिरे । गुरुतरा बहुवारिभराधना भुबमतीय
नमन्त इवाभवन् ॥ ५१ ॥ सजग्माते तावपायानपेक्षौ
सेनाम्भोधी धीरनादौ रयेण । पक्षच्छेदात्पूर्वमेकत्र देशे
वाञ्छन्तौ वा विन्ध्यसह्यौ निलेतुम् ॥ ५२ ॥ पत्ति. पत्ति
वाजिमेयाय वाजी नाग नाग. स्यन्दनस्थो रथस्थम् । इत्थ
सेना वल्लभस्येव रागादङ्गेनाङ्ग प्रत्यनीकस्य भेजे ॥ ५३ ॥
रथ्याघोषैर्बृंहणैर्वारणानामैक्य गच्छन्वाजिना हेषया च ।
व्योमव्यापी सतत दुन्दुभीनामव्यक्तोऽभूद्धीशितेव प्रणाद
॥ ५४ ॥ रोपावेशाद्वच्छता प्रत्यमित्र दूरोत्क्षिप्तस्थूल
बाहुध्वजानाम् । दीर्घार्सितैर्यैवैजयन्तीसदृश्य पादाताना
श्रेजिरे खङ्गलेखा. ॥ ५५ ॥ उद्यन्नादं धन्विभिर्निष्ठुराणि
स्थूलान्युचैर्मण्डलत्वं दधन्ति । आस्फाल्यन्ते कार्मुकाणि
स्व काम हस्त्यारोहै कुञ्जराणा शिरासि ॥ ५६ ॥ घण्टा-
नादो निःस्वनो डिण्डिमाना ग्रैवेयाणामारवो बृंहितानि ।
आमेत्येव प्रत्यवोचन्गजानामुत्साहार्थं वाचमाधोरणस्य॥५७॥
रोषावेशादाभिमुख्येन कौचित्पाणिग्राह रहस्यैवापयातौ ।
हित्वा ^३हेतीर्मलवन्मुष्टिघात घ्नन्तौ बाहूबाहुवि व्यासजे-
ताम् ॥ ५८ ॥ शुद्धाः सङ्ग न कचित्प्राप्तवन्तो दूरान्मुक्ता.
शीघ्रता दर्शयन्त. । अन्त सेनं विद्विषामाविशन्तो युक्त
चक्रु सायका वाजिताया. ॥ ५९ ॥ आक्रम्याजैरण्घ्रिमस्तक-
न्धमुच्चैरास्थायाथो वीतशङ्क शिरश्च । हेलालोला वर्म
गत्वातिमर्त्य धर्माद्रोहेन्मानभाज. सुखेन ॥ ६० ॥ रोदो-
रन्ध्रं व्यश्नुवानानि लोलैरङ्गस्रान्तर्वापितैः स्थावराणि ।
केचिद्धुर्वीमेत्य सयन्निधैषा क्रीणन्ति स्म प्राणमूल्यै-
र्यशासि ॥ ६१ ॥ वीर्योत्साहश्लाघि कृत्वार्वदान सङ्ग्रामाग्रे
मानिना लज्जितानाम् । अज्ञाताना शत्रुभिर्युक्तमुच्चै-
श्रीमन्नाम श्रावयन्ति स्म नंम्रा. ॥ ६२ ॥ मिश्रीभूते तत्र
सैन्यद्वयेऽपि प्रायेणायं व्यक्तमासीद्विशेषः । आत्मीयास्ते ये
पराञ्चः पुरस्तादभ्यावर्ती सम्मुखो य. परोऽसौ ॥ ६३ ॥
सङ्गंस्तवादङ्गससङ्गिनीत्व नीत्वा कामं गौरवेणावबद्धा ।
नीता हस्त वञ्चयित्वा परेण द्रोह चक्र कस्यचित्स्वा
कृपाणी ॥ ६४ ॥ नीते भेदं धौतधाराभिघातादम्भोदाभे
शात्रवेणापरस्य । मौसुआजिस्तीक्ष्णमार्गस्य मार्गो विद्युद्दीमः
कैङ्कटे लक्ष्यते स्म ॥ ६५ ॥ आमूलान्तात्सायकेनायतेन
स्यूते बाहौ मण्डुकश्चिष्टमुष्टेः । प्राप्यासबा वेदनामस्त्वैर्या-
दप्यश्रश्चश्चर्म नान्यस्य पाणे. ॥ ६६ ॥ भित्त्वा घोर्णामौय-
सेनाधिवक्ष. स्थूरीपृष्ठो गांडीपक्षण विद्ध. । शिक्षाहतोर्गाढ-
रज्ज्नेव बद्धो हर्तु वक्र नाशकटुमुखोऽपि ॥ ६७ ॥ विश्वै-
द्रीचीर्विक्षिप्तसैन्यवीचीराजावन्त. कापि दूर प्रयातम् ।
बन्नामैको बन्धुमिष्ट दिदृक्षु सिन्धौ वाद्यो मण्डल गोर्व-
राह. ॥ ६८ ॥ यावच्चक्रे नाञ्जनं बोधनाय व्युत्थानज्ञो
हस्तिचारी मदस्य । सेनास्वानाद्दन्तिनामात्मनैव स्थूलास्ता-
वत्प्रावहन्दानकुल्या ॥ ६९ ॥ प्रत्यासन्ने दन्तिनि प्राति-
पक्षे यन्ना नागः प्रास्तवक्रच्छ्रदोऽपि । क्रोधाक्रान्त. क्रूर-
निदारिताक्ष. प्रेक्षाचक्रे नैव किंचिन्मदान्धः ॥ ७० ॥ अन्यो-
न्येषामुकैरैरामुशन्तो दानोद्वेदानुचकैर्मुगबाला. । उन्मूर्धान.
सनिपत्यापरान्तै. प्रायुध्यन्त स्पष्टदन्तन्वनीभा. ॥ ७१ ॥
द्राधीयास. सहता. स्यैमभाञ्श्वारूदन्नास्तीक्ष्णतामत्यजन्त ।
दन्ता दन्तैराहता सैमिजाना भङ्गं जगमुर्न स्वयं साम-
जाता. ॥ ७२ ॥ मातङ्गाना दन्तसङ्घटृजन्मा हेमच्छेदच्छाय-
चञ्चच्छिलाग्र. । लब्धोऽप्यमिश्रामरेषु प्रकासं माञ्जिष्ठेषु
व्यज्यते न स्म सैन्ये ॥ ७३ ॥ ओर्षोमैसे मत्सरोत्पातवा-
तात्क्षुब्धद्वन्द्वत्थारुहा घर्षणोत्थैः । योर्गान्तैया वह्निभिर्वार-
णानामुच्चैर्मूर्धव्योम्नि नक्षत्रामाला ॥ ७४ ॥ सन्द्राग्मोदश्यामले
सामजाना वृन्दे नीताः शोणितै. शोणिमानम् । दन्ताः शोभा-
मापुरम्भोनिधीना कन्दोद्भेदा वैद्रुमा वारिणीव ॥ ७५ ॥
उत्क्षिप्योच्चै. प्रस्फुरन्त रदाभ्यामीर्षीर्दन्तं कुञ्जरं शात्रवी-
यम् । शृङ्गप्रोतैर्नावृषेण्याम्बुदस्य स्पष्टं प्राप्तसाम्यसुर्वी-
धरस्य ॥ ७६ ॥ व्यासं लोकैर्दु खलभ्यापसार सरम्भित्वादेल्य
धीरो महीय । सेनामध्यं गाहते वारण ख ब्रह्मेव प्रागा-
दिदेवोदरान्त. ॥ ७७ ॥ भृङ्गश्रेणिष्यामभासा समुर्हेर्नारा-
चाना विद्वनीरन्ध्रदेहः । निर्नीतत्वादाहवेनाहतेच्छो हृष्य-


पादटिप्पण्यः

[वामभागः]
^१ अश्वम्
^२ प्रियतमस्य यथा कान्ता कान्तस्योरूमूरुणा करं करेण मुख मुखेन भजति, तथा सेना प्रतिमन्यस्य पत्ति पत्ति नाऽश्वमश्वेनेत्यादिक्रमेण भेजे इत्यर्थ
^३ शस्त्राणि
^४ अनुरूप कर्म
^५ पक्षवत्ताया
^६ यथा कथचित्कश्चित्स्कन्धमूर्ध्वारोहणक्रमेण किंचिद्रारोहमद्रितटादिकमारोहति तद्वदिनि भाव
^७ आपणम्
^८ प्रशस्त कर्म

१७ सु र भा.

[दक्षिणभागः]
^१ बन्दिन
^२ पराङ्मुखा
^३ शररखेखा
^४ खङ्गस्य
^५ कवचे
^६ नासाम्
^७ लोहमयेन
^८ सवारूढ
^९ बाणविशेषेण
^१० सर्वव्यापिनी
^११ पृथिव्या
^१२ शुण्डाग्रै
^१३ गजानाम्
^१४ दग्धेल्र्व
^१५ युगान्तमवेरिव
^१६ महादन्त
^१७ सलग्न .

१३०सुभाषितरत्नभाण्डागारम्[ ३ प्रकरणम्

न्हस्ती हृष्टरोमेव रेजे ॥ ७८ ॥ आताम्राभा रोषभाजः कटान्तादाशूत्खाते मार्गणे धूर्ततेन । निश्च्योतन्ती नागराजस्य जज्ञे दानस्याहो लोहितेनेव धारा ॥ ७९ ॥ कुर्वञ्ज्योत्स्नाविप्रुषा तुल्यरूपस्तारस्ताराजालसारामिव द्याम् । खड्गाघातैर्दारिताद्दन्तिकुम्भादाभाति स्म प्रोच्छलन्मौक्तिकौघः ॥ ८० ॥ दूरोत्क्षिप्तसाक्षिपचक्रेण कृत्तं मत्तो हस्तं हस्तिराजः स्वमेव । भीमं भूमौ लोलमानं सरोषं पादेनास्रक्पङ्केऽथ पिपेष ॥ ८१ ॥ आपस्कारालूनगात्रस्य भूमिं निःसाधारं गच्छतोऽवाङ्मुखस्य । लङ्घायामे दन्तयोर्युग्ममेव स्वं नागस्य प्रापदुत्तम्भनत्वम् ॥ ८२ ॥ हस्तेनाग्रे वीतभीतं गृहीत्वा कश्चिद्व्यालः क्षिप्तवानूर्ध्वमुच्चैः । आसीनानां व्योम्नि तस्यैव हेतोर्दिव्यस्त्रीणामर्पयामास नूनम् ॥ ८३ ॥ आक्रम्यैकामग्रपादेन जङ्घामन्यामुच्चैराददानः करेण । सोऽस्थिस्फाटं दारुवद्दारुणात्मा कंचिन्मध्यात्पाटयामास दन्ती ॥ ८४ ॥ उत्प्लुत्यागादर्धचन्द्रेण लूनॆ वक्त्रेऽन्यस्य क्रोधदष्टोष्ठदन्ते । सैन्यैः कण्ठच्छेदलीने कबन्धाद्व्योम्नि विस्मये वल्गतः सासिपाणेः ॥ ८५ ॥ प्रत्यावृत्तं भिन्नभाजि स्वसैन्ये तुल्यं मुक्तैराकिरन्ति स्म कश्चित् । एकौघेन स्वर्णपुष्पैर्द्विषन्तः सिद्धा मान्यं साधुवादैर्द्वयेऽपि ॥ ८६ ॥ बाणाक्षिसारोहशून्यासनानां प्रक्रान्तानामन्यसैन्यैर्ग्रहीतुम् । संरब्धानां भ्राम्यतामाजिभूमौ वारी वारैः सस्मरे वारणानाम् ॥ ८७ ॥ कश्चिन्मूर्च्छांमेत्य गाढप्रहारः सिक्तः शीतैः शीकरैर्वैरिणस्य । उच्छ्वासं प्रस्थिता तं जिघृक्षुर्व्यर्थाकूता नाकनारी मुमूर्च्छ ॥ ८८ ॥ लूनग्रीवस्यायकेनापरस्य द्यामत्युच्चैराननादुत्पतिष्णोः । त्रेसे मुग्धैः सैहिकेयानुकाराद्रौद्राकारादप्सरोवक्त्रचन्द्रैः ॥ ८९ ॥ वृत्तं युद्धे शूरमाश्लिष्य काचिद्गन्तुं तूर्णं मेरुशृङ्गं जगाम । त्यक्त्वा नाभौ देहमेति स्म यावत्पत्नी सद्यस्तद्वियोगासमर्था ॥ ९० ॥ त्यक्तप्राणं संयुगे हस्तिनीस्था वीक्ष्य प्रेम्णा तत्क्षणादुद्धतासुः । प्राप्याखण्डं देवभूयं सतीत्यादाश्लिष्य स्वैव कचित्पुरन्ध्री ॥ ९१ ॥ स्वर्गे वासं कारयन्त्या चिराय प्रत्यग्रत्वं प्रत्यहं धारयन्त्या । कश्चिद्भेजे दिव्यनार्या परस्मिँल्लोके लोकं प्रीणयन्त्येह कीर्त्या ॥ ९२ ॥ गत्वा नूनं वैबुधं सद्म रम्यं मूर्च्छाभाजामाजगमान्तर्गतमा । भूयो दृष्टप्रत्ययाप्ताभिसंज्ञाः साधीयस्ते यद्रणायाद्रियन्ते ॥ ९३ ॥ कश्चिच्छस्त्रापातमूढोऽप्यबोधं लब्ध्वा भूयश्चेतनामाहवाय । व्याववृते क्रोशन्तः सख्युरुच्चैस्त्यक्तश्चात्मा का च लोकानुवृत्तिः ॥ ९४ ॥ भिन्नोरस्को शत्रुणामृष्य दूरादासन्नत्वात्क्वचिदेकेषुणैव । अन्योन्यावष्टम्भसामर्थ्ययोगादूर्ध्वोवेव स्वर्गतावप्यभूताम् ॥ ९५ ॥ मर्मैर्दण्डैरातपत्राणि भूमौ पर्यस्तानि प्रौढचन्द्रद्युतीनि । आहारार्थं प्रेतराजस्य रौप्यस्थालीनीव स्थापितानि स्म भान्ति ॥ ९६ ॥ रेजुरेषां वक्षसः कुङ्कुमाङ्का मुक्ताहाराः पार्थिवानां व्यसूनाम् । हासालक्ष्याः पूर्णकामस्य मन्ये मृत्योर्दन्ताः पत्तिरक्तासवस्य ॥ ९७ ॥ निम्नेष्वोघीभूतमस्रक्षतानामस्रं भूमौ यच्चकासाञ्चकार । रागार्थं तत्किं नु कौसुम्भमम्भः सेव्यानानामन्तकान्तःपुरस्स ॥ ९८ ॥ रामेण त्रिःसप्तकृत्वो हृदानां चित्रं चक्रे पञ्चकं क्षत्रियास्रैः । रक्ताम्भोभिस्तत्क्षणादेव तस्मिन्स्रस्येऽसस्रयाः प्रावहन्नद्येवैत्यः ॥ ९९ ॥ ³सदानान्तादन्त्रिभिः शिक्षितास्त्रैराविश्याधः शातशस्त्रावलूनाः । कूर्मोपम्यं व्यक्तमन्तर्नदीनाम्रैभा प्रापन्नङ्गयोऽसृज्मयीनाम् ॥ १०० ॥ पद्माकारैर्योधवक्त्रैर्विभाना कर्णभ्रंशैश्चामरैरेव हंसैः । सोपस्काराः प्रावहन्स्रततोयाः स्रोतस्विन्यो वीचिपुष्पैस्तरङ्गिः ॥ १०१ ॥ उत्क्रान्तानामामिषाधोपरिष्टादध्याकाशं बभ्रमुः पत्रवाहाः । मूर्ताः प्राणा नूनमप्याप्यवेक्षामासु कायं त्याजिता दारुणालैः ॥ १०२ ॥ आतन्वद्भिर्दिंक्षु पत्राथनादं प्राप्तेर्दूरादाशु तीक्ष्णैर्मुखाग्रैः । आदौ रक्तं सैनिकानामजीवँजीवैः पश्चार्त्तत्त्रिपूर्गैरपायि ॥ १०३ ॥ ओजोभाजां यद्रणे संस्थितानामादत्तीत्रं सार्धमङ्गेन नूनम् । ज्वालाव्याजादुद्धमन्ती तदन्तस्तेजस्तारं दीप्तजिह्वा वैवांशे ॥ १०४ ॥ नैरन्तर्यच्छिन्नदेहान्तरालं दुर्मेथ्यस्य ज्वलिना वाशितेन । योद्धुबीणप्रोतमादीप्य मांसं पाकापूर्वंस्वादमादे शिवाभिः ॥ १०५ ॥ ग्लानिच्छेदि क्षुत्प्रबोधाय पीत्वा रक्तारिष्टं शोणिताजीर्णशेषम् । स्वादुकारं कालखण्डोपदंशं क्रोधं डिम्बं वैष्यवणन्नखनच्च ॥ १०६ ॥ क्रव्यात्पूगैः पुँष्कणर्ण्योनकानां प्रेत्यैाशाभिर्भेदसो दारितानि । आँभीलानि प्राणिनां प्रैल्यवश्यन्कालो नूनं व्याददावाननानि ॥ १०७ ॥ कीर्णा रेजे साजिभूमिः समन्तादप्राणद्भिः प्राणभाजां प्रतीकौः । बहारम्भैरर्थसंयोजितैर्वा रूपैः सद्गुः सृष्टिकर्मान्तशाला ॥ १०८ ॥ त्वत्पत्रमुक्तविशिखैरशनिप्रकाशैरामूललूननवकेतककान्तदन्ताः । त्रासावसन्नमदधारकपोलभागाः संपादयन्ति करिणः करिणीभ्रमं नः ॥ १०९॥ मिलितमिहिरभासं मौलिमेतस्य दृष्ट्वा परवरतनुपादालक्तकं तर्कयन्त्या । त्वदरिधरणिजानिर्भानुबिम्बेन गच्छन्सुरनगरमृगाक्ष्या वीक्ष्यते साम्यसूर्यम् ॥ ११० ॥ भवत्तुरग-


पादटिप्पण्यः (Footnotes)

वामपादटिप्पण्यःदक्षिणपादटिप्पण्यः
१ आमूलात्१ उत्तरीयाणाम्
२ आयतम्२ नद्यः
३ दृढहस्ती३ गुल्फदेशमधिकृत्य
४ भज्यमानास्थिपटकारशब्दयुक्तम्४ सपरिकरा
५ बाणेन५ मृतानाम्
६ बन्धनस्थानम्६ पक्षिणः, पक्षे,-बाणाः
७ वृन्दैः७ रौति स्म
८ जलकणैः८ कलेवरम्
९ भुक्तवान्
१० मुखानि
११ तूर्णाणाम्
१२ तृष्णाभिः
१३ भयंकराणि
१४ अभ्यवहरन्
१५ अवयवैः

रणवर्णनम्, अरिपलायनम् | १३१

निष्ठुरक्षुरदृढव्रणैराचिता क्षणात्समरविच्युतप्रतिनृपालचेला- ञ्चिता । इयं रणधरा भवद्विरददानधाराजलैः किमु व्रण- तलेऽर्पितं वसनपट्टमासिञ्चति ॥ १११ ॥ कृपाणकिरणानलं रुधिरनीरपूरच्छटाजटाग्रततिसंकुलं भटतिमिङ्गिलैराकुलम् । प्रमथ्य समरार्णवं वरमकषि लक्ष्मीस्त्वया विधाय गदमन्थरं मथनमन्दरं सिन्धुरम् ॥ ११२ ॥ झणज्झणितकङ्कणक्वाणि- तकिङ्किणीकं धनुर्ध्वनद्गुरुगुणाटनीकृतकरालकोलाहलम् । वितत्य किरतो शरानविरतस्फुरत्कुण्डयोर्विचित्रमभिवर्धते भुवनभीममायोधनम् ॥ ११३ ॥ प्रतीक्ष्यन्ते वीराः प्रतिमु- खमुरोभिः सरभसं विपक्षाणां हेतिः प्रतिनियतधैर्यानुभवतः । विदीर्णत्वग्भारादलितपिशितच्छिन्नधमनिप्रकाण्डस्थास्थ्नायु- स्फुटतरविलक्ष्याग्रनिवहाः ॥ ११४ ॥ शितैर्बाणैरैके मृध- भुवि परे तीक्ष्णनखरैः क्रियामातत्यैनाप्यहमहमिकामान्त- मनसः । मिथो विन्ध्यन्ति स्म प्रबलतमसमर्दविदलक्षिति- क्षोदपिधातकसुरभिवक्षस्तटभृतः ॥ ११५ ॥ भलैर्भिन्नाः प्रतिनृपतयः शङ्खनादानुदारान्श्रुत्वा राजन्पुनरपि भुजादण्ड- कण्डूतिभाजः । आलिङ्गन्यास्त्रिदशसुदृशो भ्रूलता वीक्ष्य मुग्धा शापभ्रान्त्या चपलमनसो हस्तमावर्तयन्ति ॥ ११६ ॥ मुह्यद्भिर्मदवारि वारणगणैर्मेधायितं कार्मुकैरेतैः शक्रशरास- नायितमधरूछत्रैः शिलीन्ध्रायितम् । खद्योतायितमस्त्रघट्टन- समुद्भूतस्फुलिङ्गेः स्फुरन्नाराचैश्चपलायितं रणभुवा सैन्यै- र्नभस्यायितम् ॥ ११७ ॥ सुयन्नयुगलैः क्षुधा समधिकस्फा- रारुणाक्षैः क्षणात्स्वेदाम्भःपटलप्रकृतितिलकैर्दष्टाधरोष्ठैरपि । दृष्टेमश्मश्रुपतद्भिरमितं संकीर्णमालक्ष्यते त्वद्ग्रस्तास्त्र- निकृत्तवैरिभटसुश्रेणीशिरोभिर्वियत् ॥ ११८ ॥ श्वेडाभिः ककुभः पृषत्कनिकरैर्व्योम द्विधाखण्डितैर्देहैर्विद्विषतां धरातल- मपि प्रच्छादयन्तौ चिरम् । कुर्व्वातेऽश्रुजलाविलेक्षणपथान्ये- तावकाण्डोच्चरद्रोमाञ्चानि सवेपथून्यपि मुहुर्वर्माणि न पश्य- ताम् ॥ ११९ ॥ आगुञ्जद्भिरिकुञ्जकुञ्जरघटाविस्तीर्णकर्णज्वर- ज्यानिर्घोषममन्ददुन्दुभिरवैराभासमुज्जृम्भयन् । वेल्लद्भैरव- भूरिरुण्डनिकरैर्वीरो विधत्ते सुवस्तृप्यत्कालकरालवक्रविधस- व्याकीर्यमाणा इव ॥ १२० ॥ नो चापाकलनं न पत्रिधरणं न ज्यासमाकर्षणं नो बाहुस्फुरणं न बाणगमनं संलक्ष्यते ते रणे । किंतु प्रौढकरीन्द्रकुम्भविगलन्मुक्तागणप्रस्फुरत्प्र- त्यर्थिक्षितिपालमौलिमणिभिर्विद्योतते भूरियम् ॥ १२१ ॥ वीराणां रुण्डतुण्डप्रविघटनपटुस्फारदोर्दण्डखण्डव्यापारक्षि- प्यमाणप्रतिमटविकटाटोपवर्षप्ररूढः । कूटः कोऽप्येष युद्धाजिरभुवि जरठश्वित्रकूटानुकारी लीयन्ते यत्र शत्रुप्रपतन- विवशाः कोटिशः शूरकीटाः ॥ १२२ ॥ ग्रासप्रोतप्रवीरो- ल्बणरुधिरपरामृष्टबुक्खाजिघत्साधावद्व्याघ्राजिराप्रतिमतनुरुह- च्छायया वारितोष्णा । विश्राम्यन्ति क्षणार्थं प्रधनपरि- सरेष्वेव मुक्ताभियोगा वीराः शस्त्रप्रहागव्रणभररुधिरोद्गार- दिग्धाखिलाङ्गा ॥ १२३ ॥ जीवाकृष्टिं स चक्रे मृधभुवि धनुषः शत्रुरासीद्गतासुर्लक्ष्यात्तिर्मार्गणानामभवदरिवले तद्यश- स्तेन लब्धम् । मुक्ता तेन क्षमेति त्वरितमरिगणैरुत्तमाङ्गैः प्रतिष्ठा पञ्चत्वं द्वेषिसैन्ये स्थितमवनिपतिर्नाप सख्यान्तरं स ॥ १२४ ॥ युष्मद्दोर्दण्डमण्डल्यवनमितरणचण्डकोदण्ड- दण्डोन्मुक्तेषुच्छिन्नमूर्द्धव्यतिनुपतिभुजाखण्डमुण्डावकीर्णा । गायन्नृत्यत्प्रवल्गद्रजनिचरवधूदत्ततालैः करालैर्वैतालैरुद्धहास- प्रकटितदशनैर्युद्धभूर्भाति भीमा ॥ १२५ ॥


अरिपलायनम्

सोलकानननुक्तापि सोलकाननवर्जिता । हारावरुद्ध- कण्ठापि विहाराविरधुस्तव ॥ १ ॥ विचरन्ति विलासिन्यो यत्र श्रोणिभरालसाः । वृककाकशिवास्तत्र धावन्त्यरिपुरे तव ॥ २ ॥ स्वकान्तदवकान्तारो यद्वैरिसुदृशामभूत् । जघनस्तनमुच्चैय व्यलिखत्कण्टकैनखैः ॥ ३ ॥ काठिन्यं कुचयोः सृष्टं वाञ्छ- न्त्यः पादपद्मयोः । निन्दन्ति विश्वधातारं त्वद्धाटीध्वरि- योषितः ॥ ४ ॥ वनेऽखिलकलामुक्ताः परिहृत्य निजस्त्रियः । त्वद्वैरिवनितावृन्दे पुलिन्दाः कुर्वते रतिम् ॥ ५ ॥ वीर त्वद्रिपुरमणी परिधातुं पल्लवानि संस्पृश्य । न हरति वनभुवि निजकररुहरुचिखैचितानि पाण्डुपत्रधिया ॥ ६ ॥ त्वद्वैरिणो वीर पलायितस्य प्रकाशयञ्चत्कमरण्यमार्गान् । कृशानुरासीदभिनन्दनीयस्तुङ्गेषु लग्नो रिपुमन्दिरेषु ॥ ७ ॥ राजन्द्रिपूस्ते भयविद्रुतस्य भालस्थलं कण्टकिनो वनान्ता । अद्यापि किं वाऽनुभविष्यतीति व्यपाटयन्ध्रुमिवाक्षराणि ॥८॥ इतश्चसद्विद्रुतवैरिभूभृत्प्रियाथ दृष्ट्वा वनमानवीजनैः । शशंस पृष्ठाद्भूतमात्मदेशे शीतद्विषः शीतलशीलता किल ॥ ९ ॥ समस्तावनिनाथमौले भवत्तः परास्ता द्विषः पद्माविस्तारि- नेत्रा । नितान्तं विहस्ता स्वहस्तारविन्दैर्विधत्ते पुरस्ता- दुरस्ताडनानि ॥ १० ॥ अलसमुजलताभिर्नाहतो नागरीभि- र्भवनदमनकानां नातिधिर्या बभूव । त्वदरिनगरमध्ये सचरेन्नैत्रजन्मा जरदजगरपीतः क्षीयते गन्धवाहः ॥ ११ ॥ त्वदरिनृपतिमाशावाससं धूलिधाराधवलमहह मिश्रं वीक्ष्य भर्गभ्रमेण । सुरभिदुदधिवेलाकाननं गाहमानो दिशति कुसुम- बाणं दूरतो निर्गमाय ॥ १२ ॥ त्वदरिनृपतिकेलीसौध- सरूढदूर्वाङ्कुरकवलविलोले वीक्ष्य रँङ्कु सुधांशोः । उपवन-


१ वृक्षयुक्तमरण्यम्
२ अलकेन युक्तमाननं यस्या
३ पद्मा गतिर्यस्या
४ व्याप्तानि.
५ वायुः
६ मृगम्

१३२सुभाषितरत्नभाण्डागारम्[ ३ प्रकरणम्

हरिणीनामुन्नतो भ्रूलतानां प्रसरति रतिजानिग्नानिजन्मा
विवर्तः ॥ १३ ॥ वर्षासु भीतमवशाद्विभुजं भुजगेमेकं निगृ-
ह्य शिरसि स्थितमञ्जनाभम् । शून्ये तवारिनगरे शबरी
सशङ्कमादित्सते कनकमुष्टिकृपाणलोभात् ॥ १४ ॥ स्फुट-
तरमटवीनां प्रान्तरे पर्यटन्ती हरितगजकुम्भोन्मुक्तमु-
क्ताफलानि । परिकरयति हस्ताम्भोजशोणप्रभाभिः परिहरति
च दृगन्मक्षु गुञ्जाभ्रमेण ॥ १५ ॥ ये कन्दरासु निवसन्ति
सदा हिमाद्रेस्त्वत्पातशङ्कितधियो विवशा द्विषस्ते । अप्यङ्ग-
मुत्पुलकमुद्वहता सकम्पं तेषामहो बत भिया न बुधोऽप्य-
भिज्ञः ॥ १६ ॥ कुरूबक कुचाघातक्रीडासुखेन वियुज्यसे
बकुलविटपिन्स्मर्तव्यं ते मुखासवसेचनम् । चरणघटनाबन्धो
यास्यत्यशोक सशोकतामिति निजपुरत्यागे यस्य द्विषां जगदुः
स्त्रियः ॥ १७ ॥ अनारतपरिखलन्नयनवारिधाराशतप्रवृद्ध-
पथनिम्नगासलिलरुद्धयानोद्यमा । त्वदीयरिपुकामिनी बहुविदे-
शयानैषिणी विनिन्दति वलदृशा गुरुरूपाश्रुप प्रावृषम् ॥ १८ ॥
इतश्चेतश्चाद्विर्विघटिततटः सेतुरुदरे धरित्री दुर्लङ्घ्या
बहुलहिमपङ्को गिरिरयम् । इदानीं निर्वृत्ते करितुरग-
नीरजनविधौ न जाने यातारस्तव च रिपवः केन च
पथा ॥ १९ ॥ क्षण कान्तागारप्रसरविलसन्मानसप्रति-
क्षणं शैलोत्सङ्गे द्विजकुलवराकृष्टहृदयः । क्षणं पत्रध्वानश्रुति-
पुलकितो यद्व्यमगद्रह्मसन्नाप्तोऽरण्ये रिपुरवनिपालस्थिति-
मिव ॥ २० ॥ अये मातस्तातः क्व गत इति यद्वैरिशि-
शुना दरीगेहे लीना निभृतमिह पृष्टा स्वजननी । करेणास्य
तस्य द्रुतमथ निरुद्धाश्रुभृतया विनिःश्वस्य स्फारं शिव
शिव दशेत्योच्चरयति ॥ २१ ॥ अपर्णेयं भूभूद्भनमति वल्का-
म्बरधरा जटालो दिग्वासाः शिखरिणि शिवोऽद्य निवसति ।
इति भ्रान्त्यान्योन्यं क्षणमिलितयोः क्षोणितिलक द्विषद्वंपत्यो-
स्ते शिव शिव शिवन्ति प्रणतयः ॥ २२ ॥ पश्यैतच्चञ्चल-
चपल रे क्वा त्वंगाह कुमारी हस्तालम्ब पितर हहहा
व्युत्क्रमः कासि यासि । इत्थं पृथ्वीपरिवृढ भवद्विद्विषोऽर-
ण्यवृत्तेः कन्या कंचित्फलकिसलयान्यादानाभिधत्ते ॥ २३ ॥
स्वल्पं ब्रूमः किमपि चरितं वीरवर्य त्वदीय मिथ्यावादाः
कवय इति नो दुःप्रवादो रुणद्धि । मुक्ता मुक्ता मलयशिखरे
त्वद्विपक्षावरोधैरण्डभ्रान्त्या भुजगवलना सादरं पाल-
यन्ति ॥ २४ ॥ क्षोणीपाल त्वदरिहरिणीलोचना शोचमाना
गुञ्जाहारं कुचकलशयोरन्निःश्वसन्ती करोति । क्षुभ्यल्लक्षीराम्बुधि-
लहरिसक्षोभिमित्वद्यशोभिर्गौरं मुक्ताफलमयमिवान्विन्दते
नन्दतन्वा ॥ २५ ॥ विमुञ्चति पदे पदे रुचिरचीरहारादिकं
शुकं गृहसमुत्सुक त्यजति चैव जीवाधिकम् । पलायनपरा-
यणा तव विभो रिपोरङ्गना मुहुर्वलितकंधरं मिहिरमण्डल
वीक्षते ॥ २६ ॥ धराधर तव द्विषा वनजुषा विहीनत्विषा
दवे गुणनिये धनुर्विगुणमप्यनेकं गुणम् । फलाहरणयष्टिका-
करणकन्दगन्त शिवानिवारणविहंगिकाकरणचुलिकाकर्षणे.
॥२७॥ राजन् राजसुता न पाठयति मा देव्योऽपि तूष्णीं स्थिताः
कुब्जे भोजय मा कुमारसचिवैर्नाद्यापि वि. मुन्यते । इत्थं
नाय शुकस्त्वारिमवने मुक्त्तोऽध्वगैः पञ्जरञ्चित्स्थानवलोक्य
शून्यवलभावेकेकमाभाषते ॥ २८ ॥ क्रामन्त्यः क्षतकोम-
लाङ्घुलिगलद्रक्तैः सदर्म्याः स्थलीः पादैः पातितयौवकैरिव
गलद्बाष्पाम्बुधौताननाः । भीता भर्तृकराववलम्बितकराम्रव-
द्वेरिणार्योऽधुना दावाग्नि परितो भ्रमन्ति पुनरप्युद्वाहविवाहा
इव ॥ २९ ॥ तन्वीमुज्झितभूषणां कलगिर रोमोद्गमं बिभ्र-
ती वेपन्ती व्रणिताधरा विवसना सीत्कारमातन्वतीम् ।
दोभ्यां चण्डतुषारपातसमयामालिङ्ग्य कण्ठे भृशं स्वा मूति
दयितामिवातिरसिकाम्विद्विषः शेरते ॥ ३० ॥ भूसंपर्क-
रजोनिपातलुषत्तः खस्मादहृष्टात्प्रच्युता. सामान्यैरपि जन्तुभिः
करतलैन शङ्कमालिङ्गिता । सलभा कचिदेकतामुपगता
कापि प्रबुद्धा. कचित्सुप्ताः कापि च सारिवत्प्रतिगृह आन्ता-
स्तवारिस्त्रियः ॥ ३१ ॥ कर्षद्धि सिंचयाञ्चलान्यतिरसाम्बु-
वींद्रालिङ्गन गृहाने. कचमालिहद्विरधर विश्रामयद्भिः
करैः । प्रत्यक्षेऽपि भवद्विरोधिन्नृपतेरन्त पुराणामहो धिक्कष्टं
विटपैर्र्विटैरिव वने कि नाम नो चेष्टितम् ॥ ३२ ॥
स्नाताः प्रावृषि वारिवाहपटलैः प्रोद्भूतदूर्वाङ्कुरव्याजेनात्तकुशाः
प्रणालसलिलैर्दत्त्वा निवापाञ्जलीन् । प्रासादास्तव विद्विषां
परिपतत्कुब्जस्थपिण्डच्छलात्कुर्वन्ति प्रतिवासर निजपति-
प्रेताय पिण्डक्रिया ॥ ३३ ॥ मौलि मानविवि विना
नमयितु हार स्वय गुम्फितु निर्यातुं दयितस्य पाणिकमल-
च्छाया विना वर्त्मनि । निद्रातुं च विनाङ्गपालिशयन द्रष्टुं
च शून्या दिश सख्या त्वत्प्रतिवीरनीरनमुखी साकूत-
मध्याप्यते ॥ ३४ ॥ घ्रातं तालफलाशया स्तनतटं बिम्ब-
भ्रमेणाधरो दष्टः पाकविदीर्णदाडिमधिया लीढा स्फुरन्तो
रदाः । भ्राम्यन्ती भ्रमनिःस्पृहाऽनुविपिन त्वद्वैरिसमन्तिनी
निद्राणा मुहुराहता मुद्दुरपि क्षिप्ता च शाखामृगैः ॥ ३५ ॥
त्वत्प्रत्यर्थिवसुंधरेशतरुणीः ^३सत्रासतः सत्वर यान्तीर्वीर
विलुष्ठितुं सरभस याताः किराता वने । तिष्ठन्ति स्तिमितेक्षण-
प्ररूढपुलकास्ते विस्तृतोपक्रमास्तासामुच्चतरैः स्तनैरतितरा
लोलैरपाङ्गैरपि ॥ ३६ ॥ एतस्मिन्विजने वनेऽर्तनुतुरुच्छ-
न्नावकाशे सुखं तिष्ठामीति तव द्विषामधिपतिर्यावद्विचत्ते


१ लाक्षारसं २ शत्रव ३ भयात् ४ स्तम्भा ५ अनिचपलै ६ महद्भि

अरिपलायनम्, प्रतापवर्णनम् १३३


मतिम् । तावत्तत्र निपातित भुवि भवन्नामाङ्कसेलोहत दृष्ट्वा केसरिण करङ्कमैसमत्रासो मुहुर्मूर्च्छति ॥ ३७ ॥ का त्व पुनि नरेन्द्र लुब्धकवधूर्हस्ते किमेतत्पलं क्षाम कि सहजं ब्रवीमि नृपते यद्यस्ति ते कौतुकम् । गायति त्वदरिप्रिया- श्रुतटिनीतीरेषु सिद्धाङ्गना गीतान्या न तृण चरन्ति हरि- णास्तेनामिव दुर्बलम् ॥ ३८ ॥ स्वप्नेऽपि क्षितिपावतम भवतो भीत्या व्रजन्ती वन निर्भया प्रतिपक्षवैरिरमणी कलो- लिनीपाधसि । उक्षिसाननमुन्नत्तश्च चरणव्यासक्तमुक्तताफल भूय स्फारितबाहुवल्लि शयनादुद्धान्तमुत्तिष्ठति ॥ ३९ ॥ ता- दृग्दण्डविवर्तनर्तितममी चक्रादपक्रामिता कापि कापि च काटकैरुपगता रेखोपरेखाश्रमम् । यस्य प्रौढतरप्रतापदहन- ज्वालाभिग्न्ते दिशामान्धाके निपतन्ति पार्थिवघटाः शीर्यन्ति वीर्यन्ति च ॥ ४० ॥ आगच्छागच्छ सज्जं कुरु वरतुरंग सन्निवेहि द्रुतं मे खङ्गं कासौ कृपाणीमुपनय धनुषा कि किमङ्गप्रविष्टम् । सरम्मोन्निद्रिताना क्षितिभृति गहनेऽन्योन्य- मेवं प्रतीच्छन्वाद. स्वभामिष्टे त्वयि चकितदृशा विद्धिषा- माविरासीत् ॥ ४१ ॥ यातीत पान्थ पन्था व्रजति तनु कथ स्थावर वर्त्म मुग्धे मार्ग पृच्छामि पृच्छ स्थितमिदमिह ते विक्षित रीक्ष्य नेत्रे । अध्वानं ब्रूह्यपेतध्वनि भवति वच- श्रित्रमुद्दामनेत्रा दृश्यन्ते दावमूढाः पथि पथिकविटैस्त्वद्विषा नाथ नार्यः ॥ ४२ ॥ आस्ते सीमन्तरत्ने मरकतिनि हृते हेमतातङ्कपत्रे लुप्ताया मेखलाया कनकमणितुलाकोटियुग्मे गृहीते । शोण बिम्बोष्ठकान्त्या त्वदरिमृगदृशामित्वरीणाम- रण्ये राजन्युञ्जाफलाना स्रज इति शबरा नैव हार हरन्ति ॥ ४३ ॥ प्राप्तास्त्रासातिपासातिशयमुपगताः पातुमारण्य- मम्भो युष्मद्द्विद्वेषियोषा. श्वसितसमुदयैस्तत्तदीयैरशोषि । एतत्स्वीक्ष्य मूर्च्छानिपातिततनवो नैव जीवेयुरेताश्चिन्तोपेताः शबर्यो निजनयनजलै. पल्वलं पूरयेयु ॥ ४४ ॥ वीर त्वद्वैरिदारा गहनगिरिगुहागह्वरान्तस्तमिस्र त्वत्त्रासाद्गुह्रवा- सा दरकलितहृदो यद्यदेव प्रपन्ना. । तत्तज्ज्योत्स्नायमानं धरणिपरिवृढ प्रेक्ष्य युष्मद्यशोभि. सद्यो मोहान्धकारानु- सरणशरणा वासरान्विाह्वयन्ति ॥ ४५ ॥ एतद्भीतारिनारी गिरिबिलाविगलद्दासरा निःसरन्ती स्वक्रीडाहसमोह्यग्रैहिल- शिशुभृशप्रार्थितोन्निद्रचन्द्रा । आक्रन्दद्भूरि यत्तन्नयनजलमि- लच्चन्द्रहंसानुबिम्बप्रत्यासत्तिप्रहृष्यत्तनयविहसितैराश्वसीच्यश्व- सीच्च ॥ ४६ ॥ धूलीधारामिरन्धास्तदनु बधिरतामागताः स्फारभेरीभूयोज्ञाङ्कारारावैरैर्मूतकरकुलापीडयत्सैन्ययाने । धावन्तो विन्ध्यभूभूदनघनकुहरे कण्टकाकृष्टकेशास्त्राध्मं मुञ्चतेति प्रतिहतविकला वैरिण. सगिरन्ते ॥ ४७ ॥


प्रतापवर्णनम्

चित्रं तपति राजेन्द्र प्रतापतपनस्तव । अनातपत्रमु-त्सृज्य सातपत्रं द्विषद्वणम् ॥ १ ॥ राजन्मत्स्यार्येकूपारास्त्व-प्रतापाभिशोषिता । पुनस्त्वद्वैरिवनिताबाष्पपूरेण पूरिता ॥ २ ॥ दीप्यन्योदसीरन्ध्रेमेष ज्वलति सर्वतः । प्रतापस्तव राजेन्द्र वैरिवंशदवानलः ॥ ३ ॥ त्वम्प्रतापानर्धहेमसंपुटे-ऽतिमतीहरे । ब्रह्माण्डशालिग्रामोऽसौ धराधीश विराजते ॥ ४ ॥ तवारिनारीनयननाम्बुपूर निपीय गजन्भ्रमति प्रतापः । रिङ्गतचरगावलिनीरसुङ्गं यथा समुद्र वडवामृताश ॥ ५ ॥ त्वत्प्रतातपवनातपतस्तस्तीक्षणरश्मिरपि दिक्षु नितान्तम् । धावति प्रतिदिनं मुकुटेश त्वद्यशोऽद्य पतितस्तुहिनाशुः ॥६॥ उदितेऽपि तवावनीन्द्र तेजस्तपने स्फारगमस्तिभारमाजि । तव वैरिणृपायशस्तमासि स्फुरदुज्जृम्भितमाचरन्ति चित्रम् ॥ ७ ॥ प्रत्यर्थिवामनयनानयनाम्बुपूरैः सद्य स्खलद्वहल- कज्जलजालनीलै । युष्मत्प्रतापनस्तपनाद्यवीयानार+यते यदमुना यमुनासहस्रम् ॥ ८ ॥ मार्तण्डमण्डलसम भवत प्रताप ये वर्णयन्ति नहि ते कवयः प्रवीणा । अम्भोनिधौ विलयमेति पर पतङ्ग पार प्रयाति जलवेस्तु तव प्रताप ॥ ९ ॥ उल्लास्य कालकरवालमहाम्बुवाहं देवेन येन जरठोर्जितेगर्जितेन' । निर्वापितः सकल एव रणे रिपूणा धाराजलेस्त्रिजगति ज्वलित प्रताप. ॥ १० ॥ वदन्तु देव तावक प्रतापमेव पावकं महातुषारशीतलं वदामहे वयं यतः । सुमेरुकन्दरोदरास्थितो गृहीतकम्बलस्तवारिवर्ग- पङ्कज प्रकंप्यते मुहुर्मुहुः ॥ ११ ॥ अये नृपतिमण्डली- मुकुटरत्न युष्मद्गुजामहोर्मैततिसजुषा बत भवत्प्रतापार्चिषा । द्विषामतिभृशं यश प्रकटपारदो ध्मापनादुदस्फुटत तारका- कपटतो विहायस्तटे ॥ १२ ॥ अत्युक्तौ यदि न प्रकुप्यसि मृषावादं न चेन्मन्यसे तद्भोऽद्भुतदर्शनेन रसना केषा न कण्डूयते । देव त्वत्तुरुणप्रतापदहनज्वालावलीशोभिताः सर्वे वारिधयस्तवारिवनितानेत्राम्बुभिः पूरिताः ॥ १३ ॥ देव त्वत्तरुणप्रतापतपनत्रासादिव त्र्यम्बको नो गङ्गा विजहाति निःसरति न क्षीराम्बुधेर्माधवः । ताम्यंस्तामरसान्तरालवस तिर्देवः स्वयंभूरभूत्पातालावधिपद्मभग्नवपुषस्तिष्ठन्ति कूर्मा- दयः ॥ १४ ॥ अब्दैर्वारिजिघृक्षयार्णवगतै. साकं व्रजन्ती मुहुः ससर्गाद्वडवानलस्य समभूदापन्नसत्त्वा तडित् ।


१ शङ्खविशेष. २ अस्थिपञ्जरम् ३ अतुलत्रास ४ मासम् ५ यदि नेति शेष . ६ हे चन्द्रकुलावर्तंस
१ समुद्रा २ कठिनम्. ३ ऊर्जस्वल्म्. ४ प्रापित ०५ आतपभाजा

१३४सुभाषितरत्नभाण्डागारम्[ ३ प्रकरणम्

मन्ये देव तया क्रमेण जनितो युष्मत्प्रतापानलो येनाराति-
वधूविलोचनजलैः सिक्तोऽपि $^१$संवर्धते ॥ १५ ॥ देव त्वद्भु-
जदण्डदर्पगरिमोद्गीर्णप्रतापानलज्वालापङ्किमकीर्तिपारदघटी-
विस्फारिता बिन्दवः । शेषाद्रिः कति तारकाः कति कति क्षीरो-
दधिः कत्यपि प्रालेयाचलशङ्खशुक्तिकरका कर्पूरकुन्देन्दव
॥ १६ ॥ भैङ्गाकीर्तिमषीमलीमसतया प्रत्यर्थिसेनाभटश्रेणी-
तिन्दुककाननेषु विलसत्यस्य प्रतापानलः । अस्मादुत्पतिताः
स्फुरन्ति जगदुत्सङ्गे स्फुलिङ्गाः स्फुटं भालोद्भूतमैवाक्षि-
भानुहुतभुग्जम्भारिदम्भोलयः ॥ १७ ॥ तादृग्दीर्घविरिञ्चि-
वासरविधौ जानामि यत्कर्तृता शङ्के यत्प्रतिबिम्बमम्बुधि-
पयःपूरोदरे वाडवः । व्योमव्यापिविपक्षराजयशस्तारापरा-
भावुक कासामस्य न स प्रतापतपनः पारं गिरा गाहते
॥ १८ ॥ शंभुर्मानससन्निधौ सुरधुनीं मूर्ध्ना दधानः स्थितः
श्रीकान्तश्चरणस्थितामपि वहन्नेता निलीनोऽम्बुधौ । मग्नः
पङ्करुहे कमण्डलुगतामेना दधन्नाभिभूर्मन्ये वीर तव प्रता-
पदहनं ज्ञात्वोल्बणं भाविनम् ॥ १९ ॥ युष्मत्प्रौढतरप्रता-
पतपनज्वालावलीव्याकुले ब्रह्माण्डे मधुसूदनोऽहिशयने शेते
पयःसागरे । शंभुर्जह्नुसुता दधाति शिरसा भूमिस्तुशराचल
तापव्याकुलितः पतत्यतितरा भानुः समुद्रे मुहुः ॥ २० ॥
नार्यः कुङ्कुमशङ्कया निटिलगं प्रोञ्छन्त्यपास्तद्विषा साध्यं
रागममुं विभाव्य गगने गच्छन्ति केलीगृहम् । मुग्धा
दावधियोऽस्यस्तव विभो यान्ति द्रुतं कानने लाक्षाराग
इति प्रकुप्यति धवे कान्ता प्रतापोदये ॥ २१ ॥ यो
नास्ताचलमस्तकं प्रति गतो दीनत्वमालम्बते यो नायाति
निशासु संशयपद नोदेति गिर्याश्रयात् । यो राहोरपि कर्क
शेषु दशनेष्वासीन्न वा गोचरः सोऽद्य भूप तव प्रतापतपनो
चर्वर्ति सर्वोपरि ॥ २२ ॥ कान्तारे जलवृक्षवैरिणि सुहृत्स्व-
द्वैरिवामभ्रुवो बालैराकुललोचनैः प्रतिपदं रुद्धक्रमाश्चाश्रमे ।
पृथ्वीचण्डरुचे 'पटच्चरदशासंघट्टदीप्तप्रभं सिञ्चन्त्यञ्जलिस-
चिताश्रुभिरलं युष्मत्प्रतापानलम् ॥ २३ ॥ अध्यायोधन-
वेदि मार्गणकुशानास्तीर्य खड्गस्रुचा हुत्वारेः पललं चरुं
हविरसृक्तन्मस्तरुस्वस्तिकैः । स्वेच्छाहावनीयमानसदास-
स्योऽसौ प्रतापानलोऽस्थापि द्रागुदकाञ्जलीकृतचतुःपाथो-
धिना श्रीमता ॥ २४ ॥ देव त्वद्भुजदण्डचण्डिमचमत्कारि-
प्रतापानलज्वालाजालभयादिवाभिविशति क्षीराम्बुधि माधवः ।
भर्गः स्वर्गधुनीं दधाति शिरसा त्यक्तत्रिलोकीकृतिर्वेधाः कि
तु मुहुः कमण्डलुजलैरात्मानमासिञ्चति ॥ २५ ॥ श्रीमद्री-
राधिवीर पृथुतरमहसस्त्वत्प्रतापामिकीर्तेर्लच्छुत्वाव्ये. शोष-
वार्ता शरणमनुगतः कुत्रचित्कश्चिदेव । चन्द्र कीर्त्या
सुधास्य त्रिदशतरुवर पाणियने च कोशे लक्ष्मीः $^२$श्वेडं च
कोपे जलधरकुसुमं वैरिकान्तादृगन्ते ॥ २६ ॥ द्रागाक्र-
म्योदयाद्रिं चरमगिरिमतिस्पर्धया तिग्मरश्मेर्मेरुं पर्यस्य
लङ्कानगरमुपगतः कौतुकात्त्वत्प्रतापः । वीक्ष्यासु वीति-
होत्रं पुनरपि विपद् देव निश्चिन्वतीना य क्षोभो राक्षसीना
क्षणमजनि स हि त्वद्विषा सर्वदास्ताम् ॥ २७ ॥ त्वत्त्व-
ज्ञाघातजातव्यथरिपुवनि तामुक्तबाप्पाम्बुधारासारोद्दारादुदा-
राद्दिशि दिशि सरितामुद्भवश्चेद्भवेयुः । कल्पान्तक्रूरकेलि-
प्रकरविजयिनो विस्फुरत्त्वत्प्रतापत्पारावारानपारानपि सपदि
पराञ्छुष्यतः पूरयेत्क. ॥२८॥ दुर्वारारातिजीवनदवदहनः
कौसुमो दिग्वधूना सर्वाङ्गीणोऽङ्गरागस्त्रिभुवनभवनध्वान्त-
विध्वंसदपिः । त्वद्दोर्द्दामदर्वीकरमुखहुतभुग्भूतधात्रीपुरन्ध्या
वासो माञ्जिष्ठमुर्वीरमणकुलमणे जागर्ति प्रतापः ॥ २९ ॥
भूजाने कि न जाने भवदतुलभुजभ्राजमानप्रतापज्योतिर्वा-
लावलीभिर्जलनिधिवलय निर्जलं कि न भूयात् । युष्मत्प्रत्य-
र्थिपृथ्वीपरिवृढवनि तानीरनेत्रस्रवन्तीसूत्रस्रोत सहस्रैरयमिह
परितश्चेन्न पूर्येत सद्यः ॥ ३० ॥

कीर्तिवर्णनम्

राजस्त्वत्कीर्तिचन्द्रेण तिथयः पूर्णिमा कृताः । मद्देहान्न
बहिर्याति तिथिरेकादशी भयात् ॥ १ ॥ अस्थिवद्धिवच्चैव
कुष्ठवत्पिष्टवत्तथा । राजंस्तव यशो भाति शरच्चन्द्रमरीचि-
वत् ॥ २ ॥ सरस्वती स्थिता वक्त्रे लक्ष्मीर्वेश्मनि ते
स्थिता । कीर्तिः किकु पिता राजन् येन देशान्तरं गता ॥३॥
यद्गुणैर्ग्रथितैः शुद्धैरमितैरङ्गगोलकः । विधत्ते कीर्तिक-
न्यायाः क्रीडाकन्दुककौशलम् ॥ ४ ॥ सिक्तं स्फटिक-
कुम्भान्तः स्थित श्वेतीकृतैर्जलैः । मौक्तिकं चेल्लता सूते
तच्छ्रव्यस्ते समं यशः ॥ ५ ॥ अहो विशालं भूपाल भुवन-
त्रितयोदरम् । माति मौतुमशक्योऽपि यशोराशिर्यदत्र
ते ॥ ६ ॥ त्वत्कीर्तिराजहंसा वैरिवधूवदनभाजनस्थमपि ।


पादटिप्पण्यः (Footnotes):
१ अत्राय भाव - वैरिखिय स्वभर्तृमरण।यथा यथाऽधिकं रुदन्ति तथा तथाऽधिकं तन्नेत्राम्बुभिरुत्वतपाग्नि संवर्धते त्वत्प्रतापोऽधिको भवतीति यावत्, यत स प्रतापाश्चिर्वडवानलापितुस्तदितश्च मातु समुत्पन्नस्तौ च पितरौ पानीययोग|देवोञ्जृम्भेतेऽतस्तत्पुत्रोऽपि त्वत्प्रतापो भवद्वैरिरमणीनेत्राम्बुभि सिच्यमानो वृद्धिमाप्नोत्येतदुचितमेवेति
२ पराजय
३ कालस्कन्धवनेषु
४ तिन्दुककाष्ठेभ्यो दह्यमानेभ्यो महान्त स्फुलिङ्गा उत्तिष्ठन्तीति वृद्धव्यवहार
५ हरनिटिलनेत्रम्
६ कुलिशम्
७ 'चतुर्युगसहस्र तु ब्रह्मणो दिनमुच्यते' इति

१ अर्चि.
२ गरलम्
३ अस्ताचल.
४ धारासपात
५ अपरिमित

कीर्तिवर्णनम् १३५


पीत हासक्षीर व्यक्तीकृतमश्रुनीर च ॥ ७ ॥ कुचकलशेष्व- बलानामलकायामथ पयोनिधेः पुलिने । क्षितिपाल कीर्त- यस्ते हारन्ति हरन्ति हीरन्ति ॥ ८ ॥ रजनीषु विमलभानोः करजालेन प्रकाशितं वीर । धवलयति भुवनमण्डल- मखिलं तव कीर्तिसंततिः सततम् ॥ ९ ॥ दूरेऽपि श्रुत्वा भवदीयकीर्तिं कर्णौ हि तृप्तौ न च चक्षुषी मे । तयोर्वि- वाद परिहर्तुकामः समागतोऽहं तव दर्शनाय ॥ १० ॥ आकर्ण्य भूपाल यशस्त्वदीय विधूनेयन्तीह न के शिरांसि । विश्वंभराभङ्गमयेन धात्रा नाकारि कर्णौ भुजंगेश्वरस्य ॥११॥ यस्याञ्जनश्यामलबद्धपट्टजातानि जाने धवलत्वमापुः । अरातिनारीशरकाण्डपाण्डुगण्डस्थलीनिर्लुठनाथशसि ॥१२॥ यः कोटिहोमानलधूमजालैर्मलीमसीकृत्य दिशा मुखानि । तत्कीर्तिभिः क्षालयति स्म शश्वत्खण्डतारापतिपाण्डुरा- भिः ॥ १३ ॥ इयं यशांसि द्विषतः सुधारुचः किमुङ्कमेतद्वि- षतः किमाननम् । यशोभिरस्याखिललोकधाविभिर्विभूषिता धावति तामसी मसी ॥ १४ ॥ अदः समित्सुम्लवीरयौवत- त्रुटद्गजाकैम्बुमृणालहारिणी । द्विषद्वणस्रैणदगम्बुनिर्झरे यशो- मरालावलीरख खेलति ॥ १५ ॥ अनिसरन्तीमपि देहगर्भा- त्कीर्तिं परेषामसती वदन्ति । स्वैरं चरन्तीमपि च त्रिलोक्यां त्वत्कीर्तिमाहुः कवयः सती नु ॥ १६ ॥ करवालकरालवारि- धारा यमुना दिव्यतरङ्गिणी च कीर्तिः । तव कामद तीर्थ- राज दूरादनुबध्नाति सरस्वती कवीनाम् ॥ १७ ॥ त्रिजग- दञ्जनलङ्घनाजाङ्गिकैस्तव यशोभिरतीव पवित्रिताः । प्रथम- पार्थिवपुङ्गवकीर्तयो विबुधसिन्धुजलैरिव सिन्धवः ॥ १८ ॥ त्वत्कीर्तिमौक्तिकफलानि गुणैस्त्वदीयैः संदर्शितुं विबुधवाम- दृशः प्रवृत्ताः । नान्तो गुणेषु न च कीर्तिषु रन्ध्रलेशो हारो न जात इति ताश्च मिथो हसन्ति ॥ १९ ॥ पृथ्वीपते शुभ्रमते भवतो भवस्य ब्रूमो वयं सुयशसा कियदन्तरं वा । गौरीं चकार गिरिशो निजमर्धमङ्गं गौरीकृतं च भवता भुवनं समस्तम् ॥ २० ॥ कीर्तिस्तव क्षितिप याति भुजङ्गगेहं मातङ्गमगमकरी च दिगन्तकेषु । त्यक्त्वैौम्बरं भजति नन्दनमर्थ्यगम्यं किं किं करोति न निर्र्गल्रता गता स्त्री ॥ २१ ॥ निर्मुक्तशेषधवलैरचलेन्द्रमन्थसङ्क्षुब्धदुग्धमय- सागरगर्भगौरैः । राजन्र्भिदं बहुलपक्षदलन्मृगाङ्कच्छेदोज्ज्व- लैस्तव यशोभिरशोभि विश्वम् ॥ २२ ॥ प्रतिनगरमटन्ती प्रत्यगारं व्रजन्ती प्रतिनरपतिवक्षःकण्ठपीठे लुठन्ती । गिरि- गरिममितम्बाच्छादने सावधाना तदपि च तव कीर्तिर्निर्म- लैवेति चित्रम् ॥ २३ ॥ त्यजसि यदपि लक्ष्मीं कीर्तिमा- साथ दानैर्व्रजति तदपि कीर्तिः सिन्धुपारं न लक्ष्मीः । कथय क इह हेतुर्नरेश त्वदीये वसति हृदयपद्मे नन्दसूनुःसु- रारिः ॥ २४ ॥ अनुक्षणमनुक्षणं क्षितिप रक्ष्यमाणा त्वया प्रयाति विदिशो दश प्रबलकीर्तिरेकाकिनी । इयं नियतम- र्थिषु प्रतिदिनं वितीर्णा रमा जहाति न त्वान्तिकं द्वितय- मेतदद्भुतम् ॥ २५ ॥ समुन्नतघनस्तनस्तबकचुम्बितु- म्बीफलक्वणन्मधुरवीणया विबुधलोकवामभ्रुवा । त्वदीयमु- पगीयते हरकिरीटकोटिस्फुरत्तुषारकरकन्दलीकिरणपूरगौरं यशः ॥ २६ ॥ वनेषु वनदेवता दिवि दिवौकसां वल्लभा भुजंगकुलकन्यका भुजंगलोकलीलावने । यशः समरसंचितं नरमगेन्द्र गायन्ति ते प्रभाविजितकौमुदीकुमुदपाण्डुता- डम्बरम् ॥ २७ ॥ अपायि मुनिना पुरा पुनरमार्थि मर्या- दयाप्यतारि कपिना पुरा पुनरदाहि लङ्कारिणा । अमन्थि मुरवैरिणा पुनरबन्धि लङ्कारिणा क्व नाम वसुधापते तव यशोम्बुधिः काम्बुधिः ॥ २८ ॥ महाराज श्रीमञ्जगति यशसा ते धवलिते पयःपारावारं परमपुरुषोऽयं मृगयते । कपर्दी कैलासं सुरपतिरपि स्वं करिवरं कलानाथं राहुः कमलभवनो हंसमधुना ॥ २९ ॥ कुविन्दस्त्वं तावत्पटयसि गुणग्राममभितो यशो गायन्त्येते दिशि दिशि च नम्रास्तव विभो । शरञ्ज्योत्स्नागौरस्फुटविकटसर्वाङ्गसुभगा तथापि त्वत्कीर्तिर्भ्रमति विगताच्छादनमिह ॥ ३० ॥ पतत्येतत्ते- जोहुतभुजि कदाचिद्यदि तदा पतङ्गः स्यादङ्गीकृततम- पतङ्गापदुदयः । यशोऽमुष्यैवापार्जयितुमसमर्थेन विधिना कथञ्चित्क्षीराम्भोनिधिरपि कृतस्तत्प्रतिनिधिः ॥ ३१ ॥ इन्दोर्लक्ष्मे त्रिपुरजयिनः कण्ठमूलं सुरारिर्दिङ्नागानां मद- जलमषीमञ्जि गण्डस्थलानि । अद्याप्युर्वीवलयतिलक- श्यामालिम्नानुुलिसान्याभासन्ते वद धवलितं किं यशोभिस्त्व-


पादटिप्पणी (Footnotes)

[वाम भाग] १ कम्पयन्ति २ पृथ्वी ३ शेषस्य. ४ युवतिसमूह ५ शङ्खव- ल्यानि ६ गुम्फितुम् ७ देवाङ्गना ८ नागलोकम्, पक्षे,-गणिका- पतिगेहम् ९ ऐरावतादीनामष्टदिग्गजानां समागमकरी, पक्षे,- चण्डालासङ्गमकारिणी १० दिक्पर्यन्तेषु, पक्षे,-विजनप्रदेशेषु. ११ व्योम, पक्षे,-वस्त्रम् १२ सुरालयवनम् पक्षे,-पुत्रम्. १३ गन्तुं शक्यम्, पक्षे,-गमनानर्हम् १४ निष्प्रतिबन्धत्वम्

[दक्षिण भाग] १ पीतं २ अगस्तिना ३ मितं ४ तीर्ण ५ हनुमता ६ मथितः ७ बद्धः ८ क्षीरसमुद्रम् ९ विष्णुः १० शिवः ११ इन्द्रः १२ ऐरावतम् १३ चन्द्रम् १४ विधिः १५ यतः सर्वेषां समुद्राणां पर्वतानां गजानां सर्वभक्ष्याणां पक्षिणां च त्वच्छ्वेतकीर्त्या श्वेतत्वात्क्षीराब्ध्यादीनामन्वगमस्तेषामतस्ते तान्सर्वत्रावलोकयन्तीति भावः १६ तन्तुवायः, पक्षे,-कुं पृथिवीं विन्दति लभते सः १७ पटं वस्त्रं करोषि, पक्षे,-पठं करोषि १८ तन्तुः; पक्षे,-सद्गुणः १९ नम्राः, पक्षे,-स्तुतिपाठकाः २० कलङ्कः २१ दिग्गजजानाम् २२ युक्तानि. २३ नीलिम्ना

१३६सुभाषितरत्नभाण्डागारम्[ ३ प्रकरणम्

दीये ॥ ३२ ॥ कि वृत्तान्ते परगृहगते किंतु नाहं समर्थस्तूर्णीं स्थातु प्रकृतिमुखरो दाक्षिणात्यस्वभावः । गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठ्यामुन्मत्तेव भ्रमति भवतो वल्लभा देव कीर्तिः ॥ ३३ ॥ कैलासस्य प्रथमशिखरे वेणुसमूर्च्छनाभिः श्रुत्वा कीर्ति विबुधरमणीगीयमाना यदीयाम् । संस्तापाङ्गा सरसबिसिनीकाण्डसजातशङ्का दिङ्मातङ्गा श्रवणपुलिने हस्तमावर्तयन्ति ॥ ३४ ॥ अध्याहार खरहरशिरश्चन्द्रशेषस्य शेषस्याहेर्भूय फणसमुचित काययष्ठीनिकायं । दुग्धाम्भोवेर्मुनिचुलकनत्रासनाशाभ्युपायः कायव्यूह क्व जगति न जागर्त्यदं कीर्तिप्रप ॥ ३५॥ कथमननिप दर्पो यन्निघातात्मिवागद्दलर्नगलितमृता विद्विषा स्वीकृता श्री । ननु तव निहताशेषगर्वस्य कि न नीता त्रिदिवमपगताङ्गेनिहभा कीर्तिरभी ॥ ३६ ॥ समितिपतिनिपाताकर्णनद्रागदीर्णप्रतिनृपतिमृगाक्षीलक्षनक्षःशिलासु । लिखितलिपिरिवोस्ताडनव्वस्तहस्तप्रखरनखरघटकैरस्य कीर्तिप्रशस्ति ॥ ३७ ॥ सुमितवमनालकागारा कदाचन कौमुदीमहमि सुदृशि स्वैर यान्त्या गतोऽस्तमभूद्विधुः । तदनु भवत कीर्ति केनाप्यगीयत येन सा प्रियगृहमगान्मुक्ताशङ्का क्व नासि शुभप्रद ॥ ३८ ॥ देव त्वद्यशसि प्रसर्पति जगल्लक्ष्मीसुधोचै श्रवण्श्चैद्रावणकोस्तुभ स्थितिमिवामन्यन्त दुग्धाम्बुधौ । कि त्वेक पुनरस्ति दूषणकणो यन्नोपयाति श्रमात्कृष्णं श्री शितिकण्ठमद्रितनया नीलाम्बर रेवती ॥ ३९ ॥ इन्दु निन्दति चन्दन न सहते मल्लीस्त्रज नेक्षते हार द्वेष्टि सिताब्जमुज्झति विमस्तोमं विगृह्णाति च । श्रीभूपाल महीवरेषु विपिनेष्वम्भोधिधीरेषु च त्वत्कीर्तिस्तवदरिप्रिया च निलसत्युच्चै स्फुरत्पाण्डिमा ॥ ४० ॥ इन्दुं निन्दति चन्दनं न सहते विद्वेष्टि पङ्केरुहं हार भारमवैति नैव कुरुते कर्पूरपूरे मनः । स्वर्गङ्गामवगाहते हिमगिरिं गाढ समालिङ्गते त्वत्कीर्तिविरहातुरेव न मनागेकत्र विश्राम्यति ॥ ४१ ॥ यस्य क्षोणिपतेर्विहायसि यशोराशौ चमत्कुर्वति द्राक्कर्पूररजोध्रमेण वणिजो वीथीमुपस्कुर्वते । चक्षुं चञ्चलयन्ति चन्द्रकिरणभ्रान्त्या चकोर पयोबुद्ध्या व्योम्नि नियोजयन्ति कलशीगनीय वामभ्रुव ॥ ४२ ॥ कर्पूरदपि केतकादपि दलत्कुन्दादपि स्वर्णदीकल्लोलादपि कैग्वादपि चलत्कान्तादृगन्तादपि । दूरोन्मुक्तकलङ्कशङ्करशिरःशीतांशुखण्डादपि श्वेताभिस्तव कीर्तिभिर्धवलिता सप्तार्णवा मेदिनी ॥ ४३ ॥ देव त्वद्यशसा सढा सुमहसा गीर्वाणवृन्देऽखिले शम्भोर्भावमवापिते तु सहसा यत्कौतुक तच्छृणु । साकूता सकुतूहला सचकिता सोत्कण्ठिता साद्भुताः साशङ्काश्च मुहुर्मुहुर्मधुरिपो लक्ष्म्यादृशः पातिता ॥ ४४ ॥ कि शीतांशुमरीचय किमु सुरस्रोतस्विनीवीचय किंवा केतकसूचयः किमथवा चन्द्रोपलाना चय । इत्थ जातकुतूहलाभिरभितः सानन्दमालोकिताः कान्ताभिस्त्रिदिवौकसा दिशि दिशि क्रीडन्ति यत्कीर्तयः ॥ ४५ ॥ श्रीमद्राजशिखामणे तुलयितु धाता त्वदीय यश कैलास च निरीक्ष्य तत्र लघुता निक्षिप्तवान्प्रतरम् । उक्षाण तदुपर्यमामहचर तन्मूर्ध्नि गङ्गाजल तस्याग्रे फणिपुगन तदुपरि स्फार सुवादीधितिम् ॥ ४६ ॥ भारत्या वदन श्रिया च सदन श्रीकण्ठभक्त्या मनो धर्मेण श्रवणौ शरश्च चरणौ शौर्येण बाहुद्वयम् । दानेनापि करौ समीक्ष्य सकल यस्याज्ञया भूतलय स्थातु चानवकाशता कथयितु कीर्तिस्तु दूर गता ॥ ४७ ॥ अम्भोधेर्गमण्स्थ पार्वणविधुद्वेराशसञ्ज यन्न सर्वाङ्गेज्जवलगर्वपर्वतसितश्रीर्गर्वनिर्वासि यत् । तत्कम्बुप्रतिबिम्बित किमु शरत्पर्जन्यराजिश्रियः पर्याय किमु दुग्धसिन्धुपयसा सर्वानुवाद किमु ॥ ४८ ॥ कर्पूरन्ति सुधाद्रवन्ति कमलाहासन्ति हसन्ति च प्रालेयन्ति हिमालयन्ति करकासारन्ति हारन्ति च । त्रैलोक्याङ्गनमङ्गलङ्घिमगतिप्रागल्भ्यसमाविताः शीतांशोः किरणच्छटा इव जयन्त्येताहि तत्कीर्तय ॥ ४९ ॥ कि चिन्न भुवनानि पावयति यद्यच्चाहिताना गत्रो हसाम्बन्जयति प्रतापदहन निर्धापयत्याशु यन् । आश्चर्यं नृपनायकस्य भवतो यत्कीर्तिमन्दाकिनी तानारोहति भूधराजलनिधीनुल्लङ्घ्य गच्छत्यपि ॥ ५० ॥ अर्वाग्जाहेतपौर्वकीर्तिवनितेादीव्यत्सिताशुप्रभ कैलासीकृतदिक्करीन्द्रशिरसि न्यस्तस्वपादाम्बुजम् । विश्वव्याप्यविनाशि शंकरपद यायात्त्वदीयं यशो न स्यादम्भ यदि क्षितीश भवतो दानादिकेभ्यो जनिः ॥ ५१ ॥ कृत्वो मेरुसुलूखलं ग्रहसता वृन्देन दिग्योषिता स्वर्गाङ्गामुसलेन गाल्य इव त्वत्कीर्तय कण्डिताः । तामा रागिरसौ तुषारशिखरी तारागणास्तत्कणा कि चान्यच्छशिखण्डशूर्पविसरज्ज्योत्नाश्च तत्पासव ॥ ५२ ॥ कैलासीयति कैरवीयति लमन्कर्पूरपुञ्जीयति क्षीरोदीयति मौक्तिकीवति नमोगङ्गातरङ्गीयति । हंसीधायति मानसीयति शरन्मेघीयति क्षोणिभृन्नाथीयत्यमृतीवति क्षितितले देव त्वदीयं यशः ॥ ५३ ॥ गङ्गीयत्यसितातपा फणिगणं शेशीयति श्रीपतिः श्रीकण्ठीयति


पादटिप्पण्यः

  • १ शेषपूरकं
  • २ समूह यावत्फणं कार्यभवितव्यमिति भाव
  • ३ कायभवात
  • ४ अभिन्नः, अक्षगन्विन्वापयोब्या इति यावन्।
  • ५ वलभद्रम्
  • १ सनद्दम्
  • २ कैलासस्य
  • ३ कैङ्गापान्पि शुभ्रम्
  • ४ रूपान्तरम्
  • ५ पवस्यापि पुनरुक्ति

कीर्तिवर्णनम् १३७

कैरवीयति कुलं नीलोत्पलाना वने । कर्पूरीयति कज्जलं पिककुलं लीलामरालीयति स्वे कुम्भीयति कुम्भिनामपि घटा त्वत्कीर्तिसङ्घट्टतः ॥ ५४ ॥ पूर्णेन्दुः करकन्दुको हिमगिरिः क्रीडाविहारस्थली क्षीराब्धिर्गृहदीर्घिका प्रियसखी वाचा पति- र्देवता । शय्या दिग्गजराजदन्तवलभी त्वत्कीर्तिकन्याकृते पाञ्चालीमिथुन व्यधाथि विधिना गौरीगिरीशावपि ॥ ५५ ॥ शत्रुक्षत्त्रकलत्रनेत्रसलिलैर्जम्बालजालस्पृशि भ्रान्त्वा भूपति भालभूषण भवत्कीर्तिर्भुवो मण्डले । यद्यान्ती विबुधा- लयं प्रति सुधाकुण्डे सुधाशोर्ध्वपादंक्षिक्षालनमित्ययं किल मलस्तस्मिन्गत स्मेरताम् ॥ ५६ ॥ एतत्कीर्तिविवर्तधौत- निखिलत्रैलोक्यनिर्वासितैर्विश्रान्ति. कलिता कथासु जरता ईयौमै. समग्रैरपि । जज्ञे कीर्तिमयादहो भयमभैरत्साद- कीर्तिः पुनः सा यन्नास्य कथापथेऽपि मलिनच्छाया बबन्ध स्थितिम् ॥ ५७ ॥ त्वत्तेजःप्रतिभाभयादप- सुताः प्रत्यर्थिभूमृत्स्त्रियः कान्तारे घनकण्टकिद्रुम- वनव्यस्तप्रयुक्ताम्बरा । आर्याणा पुरतस्त्रपापरवशा गच्छेयुरेता. कथं क्षौमाकातरया न चेत्परिणमेत्तत्तावकीनं यश ॥ ५८ ॥ चन्द्रश्चन्दनमिन्दुरिन्दुरमणं पीयूषमीशादयो विश्वस्योपकृतावनेन महता ते तेऽवतारा धृताः । एतच्चत्र न विद्यते त्रिभुवने न स्थानमेवविध जाने जङ्गमपारिजात सगुण ब्रह्मैव पूर्व यशः ॥ ५९ ॥ चन्द्राद्यूक्थमण्डलो- समुदयद्वैराशुगङ्गाजलैर्ज्योत्स्नाचन्दनचर्चनैर्विकसितैस्ताराप्र- सूनैरपि । एतद्विष्णुपद किमञ्चति भवत्कीर्तिर्महायोगिनी पूजामूर्तिविधायि लक्षम तुलसीदान्ना कदाऽन्विष्यति ॥ ६० ॥ गङ्गासागरसगमे कृतशतस्नाना बदर्याश्रमे स्थित्वासौ परि- धाय तद्गुणमयं श्वेतं दुकूलं पुनः । ब्राह्मं वैष्णवमैन्द्रमैश्वर- मपि स्थान स्पृशन्ती मुहुः कीर्तिस्ते पतिदेवता युगशत दीर्घायुराकाङ्क्षति ॥ ६१ ॥ अर्घायम्बुधिरिन्दुमण्डलमपि श्रीचन्दनं तण्डुलास्तारा बिल्वदल नमः सुरधुनी धूपः प्रदीपो रवि. । खेटाः पञ्चफलानि किच ककुभस्ताम्बूलमा- रातिकं मेरु. श्रीजगतीपते तव य॑शोयागेश्वरस्यार्चने ॥६२॥ देव क्षीरसमुद्रसान्द्रलहरीलावण्यलक्ष्मीमुषस्त्वत्कीर्तेस्तुलना कलङ्कमलिनो धत्ते कथं चन्द्रमा. । स्यादेवं त्वदरातिसौध- वलभीप्रोद्भूतदूर्वाङ्कुरग्रासव्यग्रमतिः पतेद्यदि पुनस्तत्साङ्क- शायी मृगः ॥ ६३ ॥ भोगीन्द्र प्रमोदत्तरङ्गमुरगीसङ्गीत- गोष्ठीषु ते कीर्ति देव शृणोतु विशतिशती यच्चक्षुषा वर्तते । रक्ताभि सुरसुन्दरीभिरभितो गीतं च कर्णद्वयीदु.स्थ- श्रोष्यति नाम कि स हि सहस्राक्षो न चक्षु श्रवा ॥ ६४ ॥ गीयन्ते यदि पन्नगीभिरनिशं त्वत्कीर्तयस्तद्द्वयं तुष्टा एव परंतु चेतसि चमत्कारोऽयमारोहति । तासा तादृशभाव- भङ्गचलनासंस्थानसंदर्शिनि व्यालेन्द्रेऽप्यवधूतमुर्धनि मही- चक्रं पुनर्ब्राम्यति ॥ ६५ ॥ यद्गन्धद्विपदानवारिभिरभूत्स- ङ्ग्रामभू पङ्किला तस्या वैरिकरीन्द्रमौक्तिकमय बीजं च येनाहितम् । तस्मात्प्रादुरभूद्यशस्तरुर्य तस्योद्गता. कोरका- स्तारास्तेषु च पूर्णचन्द्रकपटादेकैक उज्जृम्भते ॥ ६६ ॥ यत्कीर्तिर्वलय भुवः सुविमलं सप्ताद्य सञ्चारतः क्रान्त्वा मेरु- गिरि विधाय सरितानाथस्य सख्यं दृढम् । आराध्यामृत- भानुशेखरमलं सप्ताद्य तद्रूषूता गच्छन्ती त्रिदशालय द्रुत- गति. शीताशुना स्पर्धते ॥ ६७ ॥ शैलूषी तव कीर्तिरङ्गु- तकरी दृष्ट्वा समस्ता दिशो मेरु वशवर परीत्य परितस्तूर्ण समारूढ तम । भ्राम्यन्ती परित. प्रनर्तिततनुर्मुक्तावलीमौ- क्तिकैस्ताराभिस्तरलीकरोति गगन भूमण्डलाखण्डल ॥६८॥ त्वत्कीर्तिं शशिन. समीपमगमत्कान्तिप्रतिस्पर्धया दृष्ट्वा तं च कलङ्किनं पुनरसौ स्नातुं जगताम्बुधिम् । श्रुत्वा तं च घटोद्भवेन मुनिना पीतोज्झितं तत्पय. पुण्यं ब्रह्मकमण्डलु कलपितु ब्रह्माण्डमन्य ययौ ॥ ६९ ॥ कैलासीयति केतकीयति हसत्कुन्दीयति प्रोच्छलत्क्षीरोदीयति चन्दनी- यति लसत्कर्पूरीयति । पीयूषीयति शर्करीयति शरच्चन्द्री- यति क्ष्मापते स्वर्गङ्गीयति शकरीयति भवत्कीर्तिः करी- न्द्रीयति ॥ ७० ॥ विश्वासो भवता यशस्सपि निजे कार्यो न शौर्याधिके मा कोषादिवशान्नपुसकमिति ज्ञात्वावहेला कृथाः । यज्ञद्वालधुरधरेण धरणीनाथ द्विधा कुर्वता ब्रह्माण्ड विद्धेऽमुना भवदरिक्षोणीभुजा निर्गम. ॥ ७१ ॥ रिङ्गत्तुङ्गतारङ्गसुन्दरसुधासिन्धु तरत्युज्ज्वला रागाच्छर्वपुर - सरानभिसम देवान्मुदालिङ्गति । क्रूराहीश्वरमाश्लिषत्यधि- गृह याति ध्रुव भूपते साध्वीशब्दरता तथापि कुतुक कीर्तिं प्रमक्ता क्षितौ ॥ ७२ ॥ कस्तूरी सितिमानमागतव- ती शौक्ल्य गताः कुन्तला नील चोलमभूत्सित धवलिमा जातो मणीना गणे । ध्वान्तं शान्तमभूत्सम नरपते त्वत्कीर्तिचन्द्रोदये त्रैलोक्येऽप्यभिसारसाहसरस. शान्त. कुरङ्गीदृशाम् ॥ ७३ ॥ स्नातु वाञ्छसि कि मुधैव धवल- क्षीरोदपूरोदरच्छायाहारिणि वारिणि द्युसरितो दिक्पूरवि-


१ जले 'जीवनं भुवन वनं' इति कोश
२ ऐरावणमिवाचरति
३ हस्तिनाम्
४ सरस्वती
५ त्वत्कीर्तिरेव कन्या तदर्थम्
६ पुत्रिका-युगलम्
७ वैरिराज
८ कर्दम
९ अत्रायं भाव — यच्चन्द्रान्त कालुष्यमवलोक्यने तत्पदिल्भूभ्रमणेन कर्दमाङ्कितचरणाया त्वत्कीर्त्या चन्द्रासृतकुण्डे स्वमलिनपादक्षालनतो जनितमिति अन्योऽपि हि यो देवालयथं याति स जलपूर्णकुण्डे चरणौ प्रक्षाल्य याति तथेयमपीति
१० विलासे
११ निष्कासितै
१२ वृद्धानाम्
१३ श्यामवस्तुभि
१४ वस्त्रम्
१५ यशोरूपस्य यागेश्वरस्य शिवस्य
१८ सु. र. भा.

१३८सुभाषितरत्नभाण्डागारम्[ ३ प्रकरणम्

स्तारिणी । आस्ते ते कलिकालकल्मषमषीप्रक्षालनैकक्षमा
कीर्तिः सन्निहितेव सप्तभुवनस्वच्छन्दमन्दाकिनी ॥ ७४ ॥
क्षीरोदीयन्ति सद्यः सकलजलधयो वासुकीयन्ति नागा
कैलासीयन्ति शैला दिवि च दिविषदः शकरीयन्ति सर्वे ।
यौष्माकीणे समन्ताच्चलति धवले चारुकीर्तिप्रताने मद्यो-
पाकाचम्भूषा किमिति न सहसा मौक्तिकीयान्ति देव ॥७५॥
उद्यद्बालाङ्कुरश्रीर्दिशि दिशि दशनैरेभिरागाग्रजानां रोह-
न्मूलासुगौरैरुरगपतिफणैरत्र पातालकुक्षौ । अस्मिन्नाकाश-
देशे विकसितकुसुमा राशिभिस्तारकाणां नाथ त्वत्कीर्तिवल्ली
फलति फलमिदं बिम्बमिन्दोः सुधाब्धिम् ॥ ७६ ॥ वापी
पातालमूलं जलमुरगनदी कच्छपः स्वच्छकन्दः शेषो
नालं दलानां विततिरपि फणाः कर्णिका शैवशैलः । तारा-
स्तारा परागा मधु च मधुमती केसरा दन्तिदन्तास्त-
त्सिस्त्वत्कीर्तिपद्मे भ्रमति मधुकरः शर्वरीसार्वभौमः ॥ ७७ ॥
नेपालीनामराले विरचयति कचे केतकीपत्रकृत्यं कण्ठे
मुक्ताकलापान्द्विगुणयति सितान्याण्ड्यसीमन्तिनीनाम् ।
कर्णे कर्णाटकीनां प्रकटयतितमां दन्तताटङ्कलक्ष्मीं कर्पूरी
पत्रवल्ली भवति तव यशो गण्डयोः केरलीनाम् ॥ ७८ ॥
लग्नं रागावृताङ्ग्या सुदृढमिह ययैवामि यच्चारिकण्ठे
मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती । तत्स-
ङ्गोऽयं न किंचिद्रणयति विदितं तेऽस्तु तेनास्मि दत्ता
भृत्यैभ्यः श्रीनियोगाद्गदितुमिति गतेवाम्बुधिं यस्य कीर्तिः
॥ ७९ ॥ शक्तिर्निर्जितशङ्केय तव भुजयुगले नाथ दोपाकर-
श्रीर्वक्त्रे पार्श्वे तथैषा प्रतिवसति महाकुट्टनी खड्गयष्टिः ।
आज्ञेय सर्वगा ते विलसति च पुनः किं मया बुद्धया
ते प्रोच्येवेत्थं प्रकोपच्छशिकरसिरतया यस्य कीर्त्या प्रया-
तम् ॥ ८० ॥ अन्तः सतोषबाष्पैः स्थगयति न दृशस्ता-
भिराकर्णयिष्यन्नङ्गेनाँनस्तिलोमा रचयति पुलकश्रेणिमान-
न्दकन्दाम् । न क्षोणीभङ्गभीरु कलयति च शिरःकम्पनं
तन्न विद्मः शृण्वन्नेतस्य कीर्त्तीः कथसुरगपति प्रीतिमावि-
ष्करोति ॥ ८१ ॥ यावत्पौर्लस्त्यवास्तूमवदुभयहरिल्लोमरे-
खोचरीये सेतुप्रालेयशैलौ चरति नरपतेस्तावदेतस्य कीर्तिः ।
यावदौत्कप्रत्यगाशापरिवृढनगरारम्भनस्तम्भसुद्रौवद्री सध्या-
पताकारुचिरचितशिखाशोणशोभावुभौ च ॥ ८२ ॥ आस्ते
दामोदरीया नियमसुदरदरी याधिशय्य त्रिलोकी समातुं
शक्तिमन्ति ग्रंथमभरवशाद्वत्र नैतद्यशासि । तामेता पूर-
यित्वा निरगुरिव मधुध्वंसिनः पौण्ड्रपद्मच्छद्मापन्नानि तानि
द्विपदशननाभीनि नाभीपथेन ॥ ८३ ॥ देव ब्रह्माण्ड-
भाण्डे सदसि विकसितन्यायनान्दीनिनादैर्भूतेशप्रीतिहेतो-
र्भुवनधवलनं नाटकं नाटयन्त्याः । त्वत्कीर्तेर्मूर्तयोऽमी कुमु-
दकुमुदिनीकान्तकर्पूरकुन्दक्षीराब्धिक्षीरमुक्तामणिविबुधसरि-
त्तारकारेशशङ्खाः ॥ ८४ ॥ बीजं चेदिन्द्रदन्तिस्फुरितगलत-
टीमुक्तमुक्तामणिः स्याच्चन्द्रश्चेद्वालवालं यदि भवति सुधा-
वारिसेकीन्दुमौलिः । तत्रोत्पन्ना लता काप्यमृतकरनिभं चेत्प्र-
सूनं प्रसूते मन्ये तत्स्यात्तदानीमवनिधव भवत्कीर्तिलेशो-
पमार्थम् ॥ ८५ ॥ दुग्धाम्भोधावगाढे विहरति सुधया
क्षालयत्यङ्गियुग्मं कृत्स्ना ज्योत्स्ना दुकूलं कलयति मलयो-
द्भूतचर्चां तनोति । स्वच्छन्दं नृत्यति द्राग्भुजगपतिशिरस्खेव
निद्राति चन्द्रे त्वत्कीर्तिः स्वामिनीव त्रिजगति विहरत्येवमु-
र्वीश गुर्वी ॥ ८६ ॥ खर्गे कल्पद्रुमाधस्तव जयति यशः-
पुञ्जयागेश्वरोऽयं यं नित्यं देवराजः स्रपयति नियतं काम-
दुग्दुग्धपूरैः । यन्मौलौ बिल्वपत्रद्युतिमिदममलं व्योम वत्ते-
ऽतिनील चन्द्रः पाटीरपङ्क तदुपरि ललितास्तारकास्तण्डु-
लानि ॥ ८७ ॥ यत्कीर्ति कापि गङ्गाखिलमलनिचयं
नाशयन्ती गभीर क्षीराब्धि यत्प्रतापज्वलनकरणगणे शोषितं
पूरयन्ती । भूलोकसान्तरालस्फुरदतुलमहान्ध. खपापौघपङ्कं
भूय प्रक्षालयन्ती त्रिजगति महिता सौख्यमाविष्करोति
॥ ८८ ॥ तुङ्गब्रह्माण्डसिंहासनमिदमुदयच्चित्रमध्यास्य नित्य-
न्यञ्चद्दिव्यस्रवन्तीसितचमरचयं लालयन्दिव्यवधूभिः । राका-
चन्द्रातपत्रं दिनकरमुकुट ग्राह्यँल्लोपेकालाग्निनिर्जित्येन्द्र
करीन्द्र तव जयति यशश्वक्रवर्ती बघेल ॥ ८९ ॥ कालि-
न्दीनर्मदाम्भःस्रुतमदसलिलोत्सङ्गिन्नौ ँपुष्पवन्तौ बिभ्राण.
कुम्भयुग्मं गगनतलगतर स्वर्धुनीपूरशुण्डः । घण्टालः
साधुवादैरनभिमतयशोमृन्मलं सदधानः कीर्तिस्तोमाभ्र-
कुम्भी जगदुदरसरःसञ्चमी बम्भ्रमीति ॥ ९० ॥ स्फूर्ज-
द्ब्रह्माण्डशुक्तौ तव भुजजलदोद्दामदानौघवर्षप्रोद्यत्त्वत्कीर्ति-
मुक्ताफलममलमहो वामकर्

कीर्तिप्रतापौ, राज्याधिकारगर्हणम्, राजसेवकः रथवेगवर्णनम् १३९


विमलयति जगन्ति देव कीर्तिस्ते । मित्रौह्लादं कर्तु मित्रौय^१
द्रुह्यति प्रतापोऽपि ॥ २ ॥ सिन्दूर सीमन्तात्स्मित मुखा-
द्वैरिराजवनितानाम् । यस्य प्रतापयशसी हरतः स्व सह-
ग्गुणासहने ॥ ३ ॥ तदोजसस्तद्यशस. स्थिताविमौ वृथेति
चित्ते कुरुते यदा यदा । तनोति भानो. परिवेषकैतवात्तदा
विधिः कुँण्डलना विधोरपि ॥ ४ ॥ कीर्त्यास्य चन्द्रकरको-
मलयोतिशुभ्रं शोणं नवार्ककिरणप्रतिमप्रतापैः । श्यामद्युति
द्विषदकीर्तिमषीभिरित्थ चित्र तदम्बरमराजत दिग्वधू-
नाम् ॥ ५ ॥ क्षितिप किमपि चित्र जागरूकेऽपि युष्म-
द्यशसि शशिकदम्बे त्वत्प्रतापेऽर्कबिम्बे । नयनकुवलयानि
त्वद्द्विषत्कामिनीनामपि च वदनपद्मान्याशु यत्सङ्कुचन्ति॥६॥
गुणागारे गौरे यशसि परिपूर्णे विलसति प्रतापो वा
भिन्नान्दहति तव भूमीन्द्रतिलक । नवैव द्रव्याणीत्यकथ-
यदहो मूढतमधीश्चतुर्था तेजोऽपि व्यभजत कणादः
कथमसौ ॥ ७ ॥ कीर्तिस्वर्गतरङ्गिणीभिरभितो वैकुण्ठमाप्ला-
वितं क्षोणीनाथ तव प्रतापतपनैः सतापितः क्षीरधि ।
इत्येवं दयितायुगेन हरिणा त्व याचितः स्वाश्रय हृत्वद्म
हरये श्रिये खभवन कण्ठ गिरे दत्तवान् ॥ ८ ॥
शुभ्रस्य यशसि विक्रमभरेणोपार्जितानि क्रमादेतस्य स्तुम हे
महेभदशनस्पर्धीनि कैरक्षरैः । लिम्पद्भि. कृतक कृतोऽपि
रजत राज्ञा यश.पारदैरस्य स्वर्णगिरिः प्रतापर्दहनैः स्वर्ण
पुनर्निर्मितः ॥ ९ ॥


राज्याधिकारगर्हणम्

परैः समुज्यते राज्य स्वयं पापस्य भाजनम् । धर्मा-
तिक्रमतो राजा सिंहो हस्तिवधादिव ॥ १ ॥ औत्सुक्य-
मात्रमेवसादयति प्रतिष्ठां क्लिश्नाति लब्धपरिपालनवृत्तिरेव ।
नातिश्रमापनयनाय यथा श्रमाय राज्यं स्वहस्तधृतदण्ड-
मिवातपत्रम् ॥ २ ॥ परार्थानुष्ठाने जडयति नृप स्वार्थ-
परता परित्यक्तस्वार्थो नियतमयथार्थः क्षितिपतिः । परार्थ-
श्चेत्स्वार्थादभिमततरो हन्त परवान्परायत्तः प्रीते कथमिव
रस वेत्तु पुरुषः ॥ ३ ॥ भयं तावत्सेव्यादभिनिविशते सेव-
कजनं ततः प्रेत्योासन्नाद्भवति हृदयेष्वेव निहितम् । अतो-
ऽध्योेरूढाना पदमसेुजनद्वेषजननं मतिः सोच्छ्रायाणा पत-
नर्मनुकूल कलयति ॥ ४ ॥ छन्नं कार्यमुपेक्षिपन्ति पुरुषा
न्यायेन दूरीकृत स्वान्दोषान्कथयन्ति नाधिकरणे रागाभि-
भूताः स्वयम् । तै. पक्षपरपक्षवर्धितबलैर्दोषैर्नृप स्पृश्यते
सक्षेपादपवाद एव सुलभो द्रष्टुर्गुणे दूरत. ॥ ५ ॥


राजसेवकः

राजसेवा मनुष्याणामसिधारावलेहनम् । व्याघ्रीगात्र-
परिष्वङ्गो व्यालीवदनचुम्बनम् ॥ १ ॥ सपत्तयः पराधीना,
सदा चित्तमनिर्वृतम् । स्वजीवितेऽप्यविश्वासस्तेषा ये राज-
सेवकाः ॥ २ ॥ अन्त.पुराणा विहितव्यवस्थ पदे पदेऽहं
स्खलितानि रक्षन् । जरातुरा संप्रति दण्डनीत्या सर्व नृप-
स्यानुकरोमि वृत्तम् ॥ ३ ॥ अश्रुमपुषि कलावप्यप्रमत्ता
स्वधर्मादनुदिनमुपकारानाचरन्ते बुधानाम् । बहुजनपरि-
पुष्टा बद्धदीक्षास्त एते तनुसुखमपि हित्वा तन्वते राजसे-
वाम् ॥ ४ ॥ नैशा सध्याविधिरविकलो नाच्युतार्चापि साङ्गा
न स्वे काले हवननियमो नापि वेदार्थचिन्ता । न क्षुद्दे-
लानियतमशन नापि निद्रावकाशो न द्वौ लोकावपि तनु-
भृता राजसेवापराणाम् ॥ ५ ॥ सर्वैः कैल्ये वयसि यतते
लब्धुमर्थान्कुटुम्बी पश्चात्पुत्रैरुपहितभरः कल्पते विश्रमाय ।
अस्माक तु प्रतिदिनमभिय सादयन्ती प्रतिष्ठा सेवाकाकु.
परिणतिरभूत्स्वीषु कष्टोऽधिकारः ॥ ६ ॥ नौञ्चै सत्यपि
चक्षुषीक्षितुमलं श्रुत्वापि नाकर्णितं शक्तेनाप्यधिकार इत्य-
धिकृता यष्टि. समालम्ब्यते । सर्वत्र स्खलितेषु दत्तमना
यात्र मया नोद्धतं सेवास्वीकृतजीवितस्य जरसा कि नाम
यन्मे कृतम् ॥ ७ ॥ भेतव्यं नृपतेस्ततः सचिवतो राज्ञ-
स्ततो वल्लभादन्येभ्यश्च भवन्ति येऽस्य भवने लब्धप्रसादा
विटाः । दैन्यादुन्मुखदर्शनापलपनै. पिण्डार्थमायस्यतः सेवा
लाघवकारिणी कृतधियः स्थाने श्ववृत्ति विदु. ॥ ८ ॥
अप्राज्ञेन च कातरेण च गुण. स्याद्भक्तियुक्तेन क. प्रज्ञा-
विक्रमशालिनोऽपि हि भवेत्कि भक्तिहीनात्फलम् । प्रज्ञा-
विक्रमभक्तयः समुदिता येषा गुणा भूतये ते भृत्या नृपते.
कलत्रमितरे सप्तसु चाल्पसु च ॥ ९ ॥


रथवेगवर्णनम्

आलिङ्गन्तो वसुधा निजखुरदलितामिवातुनेतुममी ।
वदनविनिर्गतचरणा इव लक्ष्यन्ते जवाद्यश्वाः ॥ १ ॥ उद्धत-


पादटिप्पण्यः (Footnotes):

वामभागःदक्षिणभागः
१ सुहृद् २ सूर्याय ३ परिधि ४ छलात् ५ कुण्डलना वैयर्थ्य-सूचिका रेखावेष्टनम् ६ रजद्भि . ७ कृत्रिमम् ८ रसलिप्सुवर्णं रजतसुवर्णं भवति तत्पुनरग्निदाहात्प्रकृतिस्थं भवतीति प्रसिद्धमेव ९ नाशयति १० गुरुता ११ निकटस्थायिजनात् १२ अतिशय-प्राप्तमहिम्नाम् १३ दुर्जनस्य. १४ उच्चतानाम्.१ नियतम् २ सत्यमप्यसत्येनासत्यमपि सत्येन चावृतम् ३ अर्थि-प्रत्यर्थिप्रभृतय ४ खङ्गधारा ५ जिह्वया घट्टनम् ६ सर्पिणी ७ प्रथमे. ८ योग्यो भवति
१४०सुभाषितरत्नभाण्डागारम्[ ३ प्रकरणम्

पांसुपटलानुमितप्रबन्धधावत्खुराग्रचयचुम्बितभूमिभागा । निर्मध्यमानजलधिध्वनिघोरघोषमेते रथं गगनसीम्नि वहन्ति वाहाः ॥ २ ॥ मुक्तेषु रश्मिषु निरायतपूर्वकाया निष्कम्पचामरशिखा निभृतोर्ध्वकर्णा । वातोद्धतैरपि रजोभिरलङ्घनीया धावन्त्यमी मृगजवाक्षमयेव रथ्याः ॥ ३ ॥ यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां यदन्तर्विच्छिन्नं भवति कृतसंधानमिव तत् । प्रकृत्या यद्वक्रं तदपि समरेखं नयनयोर्न मे दूरे किंचित्क्षणमपि न पार्श्वे रथजवात् ॥ ४ ॥ विच्छिन्ना रथचक्रपद्धतिरियं हेलाप्लुतैर्वाजिनामायान्तीव जवेन संमुखममी मार्गस्थिताः शाखिनः । खेदं पादतलेहतेरिव पुरो गन्तुं गतो नेहते पादानामनुकूलमारुतभरोद्भूतोऽपि धूलिव्रज ॥ ५ ॥ अग्रे यान्ति रथस्य रेणुवदमी चूर्णीभवन्तो घनाश्चक्रभ्रान्तिरन्तरान्तरेषु जनयत्यन्यामिवा-रावलिम् । चित्रन्यस्तमिवाचलं हयशिरस्यायामवच्चामरं यष्ट्यग्रे च समं स्थितो ध्वजपटः प्रान्ते च वेगानिलात् ॥ ६ ॥

समुद्रवर्णनम्

साक्षात्किलाष्टमूर्तेस्तस्यैषा मूर्तिरम्मयी प्रथमा । गीतः सागर इति तृभिरपरिच्छेद्यात्मगाम्भीर्यः ॥ १ ॥ लक्ष्मीरस्य हि याद कृष्णोरःस्थापि सुभटभुजवसतैि । इन्दु स च मूर्द्धचूडामणिरपि जगतामलङ्कारः ॥ २ ॥ आक्ष्षिप्तंभूमिरमितारमुच्चैर्ललद्भुजाकारबृहत्तरङ्गम् । फेनायमानं पतिमापगानामसावपस्कारिणमाशशङ्के ॥ ३ ॥ नाभिप्रभिन्नाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा । अमुं युगान्तोचितयोगनिद्रः सहत्य लोकान्पुरुषोऽधिशेते ॥ ४ ॥ स्यादेव तोयममृतप्रकृतिर्यदि स्यान्नेकान्तमद्भूतमिदं पुनरद्भुतं नः । लक्ष्मीतुषारकरकौस्तुभपारिजातधन्वन्तरिप्रभृतयो यदपा विवर्तः ॥ ५ ॥ आकण्ठदृष्टशिरसाप्यभिभाव्यपुष्पपाश्वोदरेण चिरमृग्भिरुपास्यपानः । नाभीसरोरुहजुषा चतुराननेन शेते किलात्र भगवानरविन्दनाभः ॥ ६ ॥

पर्वतवर्णनम्

अयमतिजरठाः प्रकामगुर्वीर लघुविलम्बिपयोधरोपरुद्धाः । सततमसुमतामगम्यररूपाः परिणतदिक्करिकास्तटीर्बिभर्ति ॥ १ ॥ अयमभिनवमेघश्यामलोत्तुङ्गसानुर्मदमुखरमयूरोन्मुक्तसंसक्तकेकः । शकुनिशबलनीडानोकहक्लिन्नधैर्ध्वा वितरति बृहदश्मा पर्वतः प्रीतिमक्ष्णो ॥ २ ॥ दधति कुहरभाजामत्र भल्लूकयूनामैमुरसितगुरूणि स्त्यानमम्बूकॄतानि । शिशिरकटुकषायः स्त्यायते सैहकीनामिर्भदलितविकीर्णग्रन्थिनिष्यन्दगन्धः ॥ ३ ॥ इह समदशकुन्ताक्रान्तवैजीरवीरुत्प्रैसवसुरभिशीतस्वच्छतोया वहन्ति । फलभरेँपैरिणामश्यामजम्बू निकुञ्जस्खलनमुखरभूरिस्रोतसो निर्झरिण्यः ॥ ४ ॥ एते ते गिरिकूटसङ्घटशिलासवङ्कशीर्णीम्भस प्रेङ्खच्चामरवारुसीकरकणस्फेरा दरीनिर्झराः । यत्पातेषु निकुञ्जकुञ्जरमुख-अश्यन्मृगालाङ्कुरमा सोद्वन्धितटं रटन्ति परित कण्ठीरवा भैरवम् ॥ ५ ॥

सरोवर्णनम्

नेत्रैरिवोत्पलैः पद्मैर्मुखैरिव सरःश्रियः । पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव ॥ १ ॥

वनश्रीवर्णनम्

नीपस्कन्धे निवसति लसद्बर्हभारो मयूरो दीर्घापाङ्गश्चरति च तृणं शाद्वलेऽयं कुरङ्ग । कुम्भेनोच्चै स्पृशति विटपे सल्लकी कुञ्जरोऽसौ कस्यै नायं कमलनयने रोचतेऽरण्यभागः ॥ १ ॥ हरिणचरणक्षुण्णोपान्ताः सशाद्वलनिर्झराः कुसुमदलितैर्विंध्वग्वातैस्तरङ्गितपादपा । विविधविहगश्रेणीचित्रध्वनिप्रतिनादिता मनसि न मुदं केषा दध्युः शिवा वनभूमयः ॥ २ ॥ वानीरप्रसवैनैिकुञ्जरसरितामौसक्तवासपयः पर्यन्तेषु च यूथिकासुमनसामुज्जृम्भित जालकैः । उन्मीलत्कुटजप्रहासिषु गिरेरालम्ब्य सानूनितः प्रौम्भारैषु शिखण्डिताण्डवविधौ मेघैर्वित्तान्यायते ॥ ३ ॥ जुम्भाजैर्जरडिम्बेँडम्बरैघनश्रीमत्कदम्बद्रुमाः शैलाभोगभुवो भवन्ति ककुकुभः कोदम्बिनीश्यामलाः । उथैकैन्दलकान्तकेतकभृतः केच्छ्राः सरित्स्रोतसामाविर्भूतशिलीन्ध्रलोभ्रकुसुमस्स्रैरा वनान्ना ततिः ॥ ४ ॥ निष्कूजस्तिमिता क्वचित्क्वचिदपि प्रोच्चैण्डसँत्त्वस्वनाः स्वेच्छासुप्तगभीरभोगभुजगश्वासप्रदीप्ताग्नयः । सीमानः प्रैदँरोदरेषु विलसत्स्वल्पाम्भसो यास्त्वयं तृष्यद्भिः प्रतिसूर्यँकैरजगरस्वेदद्रवः पीयते ॥ ५ ॥ वृन्तैः क्षुद्रप्रवाल-


पादटिप्पण्यः : १ गिरिप्क्षे,-कठिना, वृद्धवेषयापक्षे,-जीर्णा २ मेघ पक्षे,-कुचा ३ परिणतास्तिर्यग्दन्तप्रहारिणो दिग्गजा यासु ताः; पक्षे,-परिणते प्रकटे दिकारिके दिग्वर्तुल दशनक्षतं करिका नखक्षतं यासा ता ४ मिलिता ५ कर्दूरै ६ पक्षिवासवृक्षा ७ शरीरम्
१ विपुलशिल २ गुहावासिनाम् ३ प्रतिरवेण स्थूलानि ४ घनताम् ५ संश्लेषकथूत्कार०वनय ६ निबिडीभवति ७ वृक्षभेदानाम् ८ खण्डित ९ विस्तीर्ण १० पर्व ११ वेतसलतानाम् १२ पुष्पै १३ परिपाकेन १४ लग्नसौरभम् १५ शिखरेषु १६ विकासेन १७ पृथग्भूत १८ गोलक १९ आटम्बरेण २० मेघमालाझ्यामा' २१ विकसितै २२ नवाङ्कुरै २३ कुलानि २४ नि शब्दनया गम्भीरा, २५ भीषणा . २६ वनजन्तूनाम् २७ भूविदारमध्येपु २८ कृकलास-

वनश्रीवर्णनम्, मृगयावर्णनम्, मृगयानिवृत्तिः, ऋष्याश्रमवर्णनम् १४१


स्थगितमिव तलं भाति शेफालिकाना गन्धः सप्तच्छदाना सपदि गजमदामोदमोह करोति । एते चोच्छिद्रपद्मच्युतबहु- लरजःकायपिञ्जाङ्गरागा गायन्त्यत्राप्यवाचः किमपि मधु- लिहो वारुणीपानमत्ताः ॥ ६ ॥ श्रोत्र हसस्वनोऽयं सुखयति दयितानूपुराह्लादकारी दृष्टिप्रीति विधत्ते तटतरुविवराल- क्षिता सौधमाला । गन्धेनाम्भोरुहाणा परिमलपटुना जायते घ्राणसौख्य गात्राणा ह्लादमेते विदधति मरुतो वारिसपर्क- शीताः ॥ ७ ॥


मृगयावर्णनम्

निहत निहत तूर्णं धत्त धत्त त्वराभिर्मिलत मिलत के के कुत्र कुत्र प्रयान्ति । इत इत इत एते यान्ति यान्तीत्य- रण्यादतुलकलकलश्रीः सर्वतः प्रादुरासीत् ॥ १ ॥ अनवरत- धनुर्ज्यास्फालनक्रूरकर्मा रविकरणसहिष्णुः स्वेदलेशैरभिन्नः । उपचितमपि गात्रं व्यायतत्वादलक्ष्य गिरिचर इव नागः प्राणसार बिभर्ति ॥ २ ॥ मार्ग देहिं पद निधेहि निभृतं तं शब्दमाकर्णय श्वान वारय कन्दलात्कलकल कोऽय सखे तावकः । इत्यन्योन्यमनेकधा मृगवधव्यापारपारगमै- र्व्याधैः कोऽप्यधिको रसः प्रतिपदं जल्पद्भिरुत्पाद्यते ॥ ३ ॥ श्वेलातर्जितसिंहगर्जितभयभ्राम्यद्गजग्रामणीभीट्टारद्रवदक्षद- र्शनकृतभ्रूभङ्गशाखामृगम् । कुन्तक्षुण्णतरक्षुवक्त्रगलितक्षो- णीनिषण्णार्भकघ्राणं व्यापृतरोहिताहितबहूत्कारं वनाभ्यन्त- रम् ॥ ४ ॥ एष क्षु॑भाति पङ्क द॑लति कमलिनीमत्ति गुन्द्राप्ररोहाना॑रात्समुस्तास्थलानि खैपुटयति जला॑न्युत्कसे- तूर्नि याति । प्राप्तः प्राप्तः प्रविष्टो वनगहनमयं याति यातीति सैन्यैः पश्चादन्विष्यमाणः प्रविशति विषमान्कानना- न्तान्यराहः ॥ ५ ॥ आस्तीर्यन्तामुपान्ते वैनवृतिनिपुणैर्जा- लिकैर्जांलबन्धा मुच्यन्ता शृङ्खलाभ्यः श्वगणभिरटवीगह्वरे सारमेयाः । आकीर्यन्ता स्थलानि श्रमशिथिलहयैः सादिभिः पाशहस्तैर्व्याधूयन्ता कृतान्तैरिव महिषचरैर्दण्डिभिः कान- नानि ॥ ६ ॥ शङ्कुव्याकीर्णरङ्गुद्रुतनिशितशरक्षुण्णदीव्यत्तर- क्षुव्याघोषक्षुब्ध कण्ठीरव रव चकितव्यस्तमातङ्गयूथम् । खड्ग- व्यालूनकण्ठं तुमुलकलकलप्रान्तकूजच्छकुन्त भल्लध्वस्ता- च्छभल्लू वनभुवि मृगयाकर्म तेन प्रतेने ॥ ७ ॥


मृगयानिवृत्तिः

गाहन्ता महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं छाया- बद्धकदम्बक मृगकुलं रोमन्थमभ्यस्यतु । विश्रब्धैः क्रियता वराहपतिभिर्मुस्ताक्षति पल्वले विश्रान्ति लभतामिदं च शिथिलज्याबन्धमस्मद्धनु ॥ १ ॥


ऋष्याश्रमवर्णनम्

विक्षवक्तपोवनकुमारसमर्प्यमाणश्यामाकतण्डुलहृता च पिपोलिकानाम् । श्रेणीभिराश्रमपथाः प्रथमानचित्रपत्रावली- वलयिनो मुदमुद्वहन्ति ॥ १ ॥ व्याज़म्भमाणवदनस्य हरेः करेण कर्षन्ति केसरसटाः कलभाः किलैके । अन्ये च केसरिकिशोरपीतमुक्त दुग्ध मृगेन्द्रवनितास्तनं पिबन्ति ॥ २ ॥ मधुरमिव वदन्ति स्वागतं भृङ्गनादैर्नतिमिव फल- नम्रैः कुर्वतेऽमी शिरोभिः । ननु ददत इवार्घं पुष्पवृष्टिं किरन्तः कथमतिथिसपर्यो शिक्षिताः शाखिनोऽपि ॥ ३ ॥ नीपस्कन्धे कुहरिणि शुकाः स्वागतं व्याहरन्ति घ्राणग्राही हरति हृदय हव्यगन्धः समीरः । एता मृग्यः सलिलपुलि- नोपान्तसक्तार्द्रपङ्कं पश्यन्त्योऽस्मान्सचकितदृशो निर्झराम्भः पिबन्ति ॥ ४ ॥ कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूला भिन्नो रागः किसलयरुचामाज्यधूमोद्गमेन । एते चार्वागुपवनभुवि च्छिन्नदर्भार्कुरया नशतङ्का हरिणशिशवो मन्दमन्द चरन्ति ॥ ५ ॥ रसालाना मन्तर्मदकलरुतो- किलकुल समन्तादुन्मीलत्कुलमुकुलामोदभरितम् । घन- स्निग्धच्छाय क्रमुककदलीशीतलतलं ननु प्रीतिं धत्ते नव- मिदमुषेश्राश्रमपदम् ॥ ६ ॥ नीवाराः शुककोटरार्भकमुख- भ्रष्टास्तरूणामधः प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः । विश्वासोपगमादभिन्नगतयः शब्द सहन्ते मृगा- स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥ ७ ॥ तत्तादृक्तृणपुलकोपनयनक्लेशार्चिरद्वेधिभिर्मेध्या वत्सतरो विहस्य बटुभिः सोल्लुण्ठमालम्यते । अप्येष प्रतनूभवत्यति- थिभिः सोच्छ्वासनासापुटैरापीतो मधुपर्कपाक सुरभिः प्राग्वश- जन्मानिलः ॥ ८ ॥ प्रत्यासन्नतपारदीधितिकरक्लिष्टस्यतमो- वल्लोरुत्पामिर्भखधूमवल्लिभिरमी समीलितव्यञ्जनाः । श्रः सचीवरयिष्यमाणबटुकव्याधौतशुष्यत्त्वचो निद्राणातिथयस्त- पोवनगृहाः कुर्वन्ति नः कौतुकम् ॥ ९ ॥ नीवारौदनमं- ण्डमुष्णमधुर सद्यःप्रसूतप्रियापीतादप्यधिकं तपोवनमृगः पर्याप्तमचामति । गन्धेन स्फुरता मनागनुसृतो मैक्तस सँ- पिंषमतः कर्कन्धूफलमिश्रशाकपचनामोदः परिस्तीर्यते ॥१०॥


पादटिप्पण्यः (वामभागः):
१ विलोडयति २ विमर्दयति ३ विषमोन्नतानि करोति
४ उत्का संशयमारूढा सेतवो येषां तानि ५ अरण्यवेष्टनपद्धभि

पादटिप्पण्यः (दक्षिणभागः):
१ अमरसम् २ पिबति ३ अन्नरस ४ सघृतस्स.

१४२ सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्

आमूलं क्वचिदुद्धृता क्वचिदपि च्छिन्ना स्थली बर्हिणामानम्रा कुसुमोच्चयाच्च सदयाकृष्टाग्रशाखा लता । एते पूर्वविलून- वल्कलतया रूढव्रणाः शाखिनः सद्यश्छेदममी वहन्ति समिधां प्रस्स्रन्दिनः पादपाः ॥ ११ ॥ वासोऽर्थं दययैव नातिपृथवः कृत्तास्तरूणां त्वचो भग्नानेकजरत्कमण्डलु नभः- स्वच्छं पयो नैर्झरम् । दृश्यन्ते त्रुटितोज्झिताश्च वटुभिर्मौ- ञ्ज्याः क्वचिन्मेखला नित्याकर्णनया शुकेन च पदं साम्नामिदं गीयते ॥ १२ ॥ क्रीडन्माणवकाङ्किताडनशतैरुज्जागरस्य क्षणं शार्दूलस्य नखाङ्कुरेषु कुरुते कण्डूविनोदं मृगः । चञ्च्व- न्द्रशिखण्डितुण्डघटनानिर्मोकनिर्मोचितः किं चायं पिवति प्रसुप्तनकुलश्वासाऽनिलं पन्नगः ॥ १३ ॥ पक्कानि श्रच्यवन्ते क्रमुकविटपिनामुच्छ्रितानां फलानि स्पन्दन्ते राजरम्भा- फलभरनमिता वाति मन्दानिलेऽपि । सह्यन्ते विपाक- च्युतमधुरफलव्यासमुला रसाला भारेणामी फलान. युवति- कुचभरस्पर्धिनो नालिकेराः ॥ १४ ॥

राजनीतिः

राजा

राजास्य जगतो वृद्वेर्हेतुर्वृद्धामिसङ्गतः । नयनानन्द- जननः शशाङ्क इव वारिधेः ॥ १ ॥ राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् । राजन्यसति लोकेऽस्मिन्कुतो भार्या कुतो धनम् ॥ २ ॥ धार्मिकं पालनपरं सम्यक्परपु- रंजयम् । राजानमभिमन्यन्ते प्रजापतिमिव प्रजाः ॥ ३ ॥ पर्जन्य इव भूतानामाधारः पृथिवीपतिः । विकलेऽपि हि पर्जन्ये जीव्यते न तु भूपतौ ॥ ४ ॥ सदानुरक्तप्रकृतिः प्रजापालनतत्परः । विनीतात्मा हि नृपतिर्भूयसीं श्रियमश्नुते ॥ ५ ॥ सर्वदेवमयो राजा मनुना संप्रकीर्तितः । तस्मात्त- मेव सेवेत न व्यलीकेन कर्हिचित् ॥ ६ ॥ सर्वदेवमय- स्यापि विशेषो भूपतेरयम् । शुभाशुभफलं सद्यो नृपाद्देवा- द्भवान्तरे ॥ ७ ॥ बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः । महती देवता ह्येषा नररूपेण तिष्ठति ॥ ८ ॥ यस्य प्रसादे पद्मास्ते विजयश्च पराक्रमे । मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ॥ ९ ॥ अशुचिर्वचनाद्यस्य शुचिर्भवति पूरुषः । शुचिश्चैवाशुचिः सद्यः कथं राजा न दैवतम् ॥ १० ॥ निकटस्थं दहत्यग्निर्न तु दूरापसर्पिणम् । कुलं दहति राजाग्निः सपशुद्रव्यबान्धवम् ॥ ११ ॥ पात्रे त्यागी गुणे रागी भोगी परिजनैः सह । बान्धवोद्धा रणे योद्धा प्रभुः पञ्चगुणो भवेत् ॥ १२ ॥ आक्षेपवचनं तस्य न वक्तव्यं कदाचन । अनुकूलं प्रियं चास्य वक्तव्यं जनसंसदि ॥ १३ ॥ इन्द्रात्यमृत्वं ज्वलनात्प्रतापं क्रोधो यमाद्वैश्रव- णाच्च वित्तम् । पराक्रमं रामजनार्दनाभ्यामादाय राज्ञः क्रियते शरीरम् ॥ १४ ॥ उत्खातान्प्रतिरोपयन्कुसुमितांश्चि- न्वंल्लघून्वधर्यन्नुत्युञ्चाञ्नमयन्नतान्समुदयन्विश्लेषयन्सहतान् । क्षुद्रान्कण्टकिनो बहिर्निरसयन्म्लानान्पुनः सेचयन्मालाकार इव प्रयोगनिपुणो राजा चिरं नन्दति ॥ १५ ॥

सभासदः

धर्मशास्त्रार्थकुशलाः कुलीनाः सत्यवादिनः । समाः शत्रौ च मित्रे च नृपतेः स्युः सभासदः ॥ १६ ॥ श्रुत्यध्ययन- सपन्ना धर्मज्ञा. सत्यवादिन. । राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः । १७ ॥

पुरोहितः

वेदवेदाङ्गतत्त्वज्ञो जपहोमपरायणः । आशीर्वादपरो नित्य- मेष राजपुरोहित ॥ १८ ॥

धर्माध्यक्षः

कुलशीलगुणोपेत. सर्वधर्मपरायणः । प्रवीण्ः प्रेक्षणाध्यक्षो धर्माध्यक्षो विधीयते ॥ १९ ॥

वैद्यः

आयुर्वेदकृताभ्यासः सर्वेषा प्रियदर्शनः । आर्यशीलगुणो- पेत एष वैद्यो विधीयते ॥ २० ॥

मन्त्री

मन्त्रतत्राप्रितप्रीतिर्देशकालोचितस्थितिः । यश्च राज्ञि भवे- द्भक्तः सोऽमात्य पृथिवीपते. ॥ २१ ॥ स ह्यमात्यः सदा श्रेयान्काकिनी य. प्रवर्धयेत् । कोशः कोशवतः प्राणाः प्राणाः प्राणा न भूपतेः ॥ २२ ॥ कमण्डलूपमोऽमात्यस्तनुलागो बहुग्रहः । नृपति' क्षिष्णो मूर्खो दरिद्रः कि वराटकः ॥ २३ ॥ प्रासार्थग्रहण द्रव्यपरिवर्तोऽनुरोधनम् । उपेक्षा बुद्धिहीनत्वं भोगोऽमात्यस्य दूषणम् ॥ २४ ॥ स्वदे- शजं कुलाचारं विशुद्धमथवा शुचिम् । मन्त्रज्मव्यसनिनं व्यभिचारविवर्जितम् ॥ २५ ॥ अधीतव्यवहारज्ञं मौल ख्यात विपश्चितम् । अर्थस्योत्पादकं चैव विदध्यान्मन्त्रिणं नृपः ॥ २६ ॥ अन्तःसारैरकुटिलैरच्छिद्रैः सुपरीक्षितैः । मन्त्रिभिर्धार्यते राज्यं सुस्तम्भैरिव मन्दिरम् ॥ २७ ॥ सग्रह नौकुलिनस्य सर्पसेव करोति यः । स एव श्लाघ्यते मन्त्री सम्यग्गारुडिको यथा ॥ २८ ॥ पृष्टो ब्रूते न सत्यं यः परिणामे सुखावहम् । मन्त्री चेत्प्रियवक्ता स्यात्केवलं स रिपुः स्मृतः ॥ २९ ॥ मूर्ख व्यसनिनं लुब्धमप्रगल्भं भयाकुलम् । क्रूरमन्यायकर्तार नाधिपत्ये नियोजयेत् ॥३०॥ दूरदर्थं घटयति नवं दूरतश्चापशब्द त्यक्त्वा भूयो भवति निरतः सत्सभारञ्जनेषु । मन्दं मन्दं रचयति पदं लोकचि- त्तानुवृत्त्या कामं मन्त्री कविरिव सदा खेदमौरैरुक्तः ॥३१॥ शास्त्रज्ञः कपटानुसारकुशलो वक्ता न च क्रोधनस्तुल्यो मित्रपरश्वकेषु चरितं दृष्ट्वैव दत्तोत्तरः । क्लीबान्पालयिता


१ कुशानाम्
१ न अकुलीनस्य; पक्षे,-नाकुर्वल्मीक तत्र लीनस.

राजनीतिः । १४३

शठान् व्यथयिता धर्म्यैस्तिलोमान्वितो द्विर्भावे परतत्त्वबद्ध- हृदयो राज्ञश्च कोपापहः ॥ ३२ ॥

सेनापतिः

समस्तनीतिशास्त्रज्ञो वाहने पूजितश्रमः । शौर्यवीर्य- गुणोपेत सेनाध्यक्षो विधीयते ॥ ३३ ॥

शूरोऽर्थशास्त्रनिपुणः कृतशास्त्रकर्मा सङ्ग्रामकेलिचतुरश्च तुरङ्गयुक्तः । भर्तुर्निर्देशवशगोऽभिमतश्च तन्ने सेनापतिर्नरपतेर्विजयागमाय ॥ ३४ ॥

गजाः

यतः सत्यं ततो धर्मो यतो धर्मस्ततो धनम् । यतो रूप ततः शील यतो नागास्ततो जयः ॥ ३५ ॥

यतो गजैर्विना राज्ञा राज्यशोभा न जायते । जयप्रतापौ सैन्यस्य रक्षा तस्मादिहोच्यते ॥ ३६ ॥

यद्वद्धनमसिंह च यद्वद्राष्ट्रमपार्थिवम् । यद्वच्छौर्यमशस्त्र तु तद्वत्सैन्यमकुञ्जरम् ॥ ३७ ॥

प्राकारगोपुराट्टालकपाटोद्घाटनादिषु । भञ्जने मर्दने चैव नागा वज्रोपमाः स्मृताः ॥ ३८ ॥

शरजालाञ्चितमुख. कोऽन्य, शक्तः परं गजात् । हन्तुं प्राकारमुन्मथ्य रथांश्च नरकुञ्जरान् ॥ ३९ ॥

एकशक्तिप्रहारेण म्रियतेऽश्वो नरोऽपि च । सहेच्छतं प्रहाराणा महायुद्धेषु वारण. ॥ ४० ॥

क्रीडासु च नरेन्द्राणा चले पुष्पितपङ्कजे । रूपयन्ति गजा हस्तैर्लयपुष्करपुष्करैः ॥ ४१ ॥

श्रियोऽवतारयन्त्येते मृण्मया इव निश्चलाः । नास्ति हस्तिसमो बन्धुर्नास्ति हस्तिसमः सखा ॥ ४२ ॥

चलन्ति येषा न शत गजेन्द्राः पुरः प्रयाणे बत शैलतुल्या. । वाञ्छन्ति चैवं विजय कथ ते राजेति शब्दं च कथं लभन्ते ॥ ४३ ॥

रक्षन्ति पक्ष मुदिताः स्वकीयं मथ्नन्ति सैन्यं कुपिताः परेषाम् । प्राणैरपीच्छन्ति हित प्रभूणा गजैः समानं क बलं बलीयः ॥ ४४ ॥

सैन्योत्तारणतो धुनीषु सततं यो वारिबन्धायते यो मक्ष्न्यरितः परोद्धतबले युद्धेषु योधायते । यः स्वीयक्षितिनाथरक्षणविधौ प्रोच्चैर्कुदूर्गायते स प्राजैर्विजिगीषुभिर्गजगणः कैः पार्थिवैर्नोऽर्च्यते ॥ ४५ ॥

मातङ्गैरथ यैर्महेन्द्रभवनं पुण्याधिक जन्यते यैः श्यामैरपि सर्वलोकमहिता कीर्तिः सिता तन्यते । यैर्मत्तैरपि संगरे रिपुमद शोष समानीयते तेऽमी भाग्यवतः प्रयान्ति पुरतः स्तम्बेरमा भूपतेः ॥ ४६ ॥

चीत्कारैर्नाशयन्तः स्वपतिमटमनो मोदयन्तो मदाढ्याः प्रौढा. सङ्ग्रामसीम्न्नि स्वबलबहलता बाढमाढौकमानाः । शुण्डादण्डप्रहारैः परममपि बलं कम्पयन्तः परेषा येषा सर्वे गजेन्द्रा भुवि विजयविधौ ते मता भूमिपालाः ॥ ४७ ॥

सेतुं समेद्यन्तो बलविकटभटग्रोन्नतिं त्रोटयन्तः प्राकार दारयन्तः परमनसि परा भीतिमुत्पादयन्तः । व्यूहं विद्रावयन्तः सुघनमपि वनं हेलयोत्पाटयन्तो येषामाजौ गजेन्द्राः खलु धरणिभुजा तजयः सिद्ध एव ॥ ४८ ॥

तावद्गर्जन्ति वीर्यात्परनिधनविधौ युद्धमध्येऽपि धीरास्तावद्धावन्ति वेगं परमपि दधतः सम्मुखीनास्तुरङ्गाः । शूरारूढः सुसज्जो मदमुदितमना मानिमानं विधुन्वन्नावन्नायाति कोपात्कृतविविधरवाटोप एकोऽपि नागः ॥ ४९ ॥

तुरगाः

अश्वा यस्य जयस्तस्य यस्याश्वास्तस्य मेदिनी । अश्वा यस्य यशस्तस्य यस्याश्वास्तस्य काञ्चनम् ॥ ५० ॥

निपत्य युधि वेगेन मिषता सर्वधन्विनाम् । शत्रुं निहत्य यात्येकः शूरो वाजिप्रभावतः ॥ ५१ ॥

शस्त्राखैर्भिद्यदेहोऽपि श्रान्तोऽपि गुरुभारतः । न सुष्वाति रणे नाथमत. कोऽन्यो ह्यात्सुहृत् ॥ ५२ ॥

दूरस्थोऽपि बली शत्रून् शेते रजनीष्वपि । तस्य भीत्या गृहे यस्य हरयो वेगवत्तराः ॥ ५३ ॥

न गजैर्न नरै. कार्य सिद्धिमभ्येति भूभृताम् । तथा निमेषमात्रेण यथा वाहैः सुसाधितै. ॥ ५४ ॥

राज्य शतक्रतुमृद्धिसमानमश्चैश्वर्यैः श्रिय. सकलकामदुघा भवन्ति । अश्वैर्यशांसि विपुलानि समुल्लसन्ति नाश्वैः प्रयान्ति सदशत्वमिभादयोऽपि ॥ ५५ ॥

तीक्ष्णाग्रहेतिहतिभिः सुतलोलदन्तं चञ्चत्कगलकरवालविघट्टिताङ्घ्रिम् । कोऽन्यो विहाय हयमाहवजातमूर्च्छाप्राणप्रयाणसमयेऽवतुमीशमीश. ॥ ५६ ॥

पादा कन्दुकवत्स्थितिश्च गिरिवद्वेषारवो मेघवन्नेत्रे नीरजवज्जवः पवनवच्चास्फालनं सिंहवत् । विन्यासो नटवन्मुखं कुलवधूवक्रेन्दुवद्वाजिनो यस्य क्षोणिभुजो विशस्तदितरे साम्राज्यमुर्वीतले ॥ ५७ ॥

खङ्गः

खङ्गाल्लक्ष्मीस्तथा राज्य यशः खङ्गादवाप्यते । खङ्गाद्वैरिविनाशं च यलात्तमभिदध्महे ॥ ५८ ॥

यस्मिन्खङ्गे शरीर प्रतिफलति यथा खड्गराजोऽभिवन्द्यो वन्द्योऽयं देववृन्दैरपि यदि स भवेदर्थचन्द्रोपपन्न. । नानावर्णैर्युतश्चेत्स भवति नृपतेः शत्रुनाशैकहेतुः सेतुर्लक्ष्मीप्रवाहे निखिलरिपुकुलध्वंसने धूमकेतुः ॥ ५९ ॥

सैन्यम्

प्रथमं युद्धकारित्वं समस्तबलपालनम् । दिङ्मार्गयोधशोधित्वं पत्तिकर्म प्रचक्षते ॥ ६० ॥

स्वभावशूरमस्त्रज्ञमविरक्तं जितश्रमम् । प्रसिद्धक्षत्रियप्रायं बलं श्रेष्ठतमं विदुः ॥ ६१ ॥

वरमल्पबलं सारं न बही मुण्डमालिका । कुर्यादसारभङ्गो हि सारभङ्गमपि स्फुटम् ॥ ६२ ॥

दुर्गः

न गजाना सहस्रेण न लक्षेण च वाजिनाम् । तथा सिध्यन्ति कार्याणि यथा दुर्गप्रभावतः ॥ ६३ ॥

अदुर्गो विषयः कस्य नारेः परिभवास्पदम् । अदुर्गोऽनाश्रयो राजा पोतच्युतमनुष्यवत् ॥ ६४ ॥

विषहीनो यथा नागो मदहीनो यथा गज. । सर्वेषा वश्यता याति दुर्गहीनस्तथा