भारतकोश
संग्रह पर लौटें

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

तरुणीपृथगवयववर्णनम् | २६१

वामस्तम्भःदक्षिणस्तम्भः
श्रुतौ दध्रतुरर्धमर्धम् । कर्णान्तरुत्कीर्णगभीररेखः किं तस्य
सख्यैव न वा नवाङ्कः ॥ १२८ ॥ मन्येऽमुना कर्णलता-
मयेन पाशद्वयेन च्छिदुरेतरेण । एकाकिपाशं वरुण विजि-
ग्येऽनङ्गीकृतायामतती रतीशः ॥ १२९ ॥ आत्मैव तातस्य
चतुर्भुजस्य जातश्चतुर्दोरुचितः स्वगोऽपि । तच्चापयो कर्ण-
लते भ्रुवोर्ध्वं वशत्वगंणौ चिपिटे किमस्या ॥ १३० ॥
कर्णभूषणम्
मुक्ताताटङ्कयुगं प्रतिमुक्तं कर्णपार्श्वयोरस्या । मुखकमल-
मिव निषेवितुमागतममृतांशुबिम्बयुगम् ॥ १३१ ॥
ताटङ्कमस्यास्तग्लेक्षणाय मुक्ताफलैश्चारुरुचि विधत्ते ।
मुखश्रिया चन्द्रमिवाभिभूय बन्दीकृतं तारकचक्रवालम्
॥ १३२ ॥ शशी हर्तु लोभान्मुखकमलशोभा श्रुतिफलं
मिषेवै सातङ्कस्तव तरुणि ताटङ्ककपटात् । तदन्तःपीयूषं
निखिलमथ निक्षेपुमधरे मनोजन्मा मुष्णन्मुहुरहह तुच्छं
तमकरोत् ॥ १३३ ॥
कपोलौ
कपोलपालीं तव तन्वि मन्ये लावण्यधन्ये दिशमुत्तरा-
ख्याम् । विभाति यस्या ललितालकाया मनोहरा वैश्रवणस्य
लक्ष्मीः ॥ १३४ ॥ स्वर्णच्छवीनामसितेक्षणाना कर्णान्ततो
गण्डलतातलानि । भृङ्गाः सहेलं यदि नापतिष्यन्कोऽवे-
दयिष्यन्नवचम्पकानि ॥ १३५ ॥ आबध्नन्परिवेषमण्डलमलं
वक्रेन्दुबिम्बाद्वहिः कुर्वत्पङ्कजजृम्भमाणकलिकाकर्णावतस-
क्रियाम् । तन्वङ्ग्याः परिनृत्यतीव हसतीवोत्सर्पतीवोलबण
लावण्य ललतीव काञ्चनशिलाकान्ते कपोलस्थले ॥ १३६ ॥
अधरः
तवैष विद्रुमच्छाया मरुमार्ग इवाधरः । करोति कस्य
नो मुग्धे पिपासाकुलितं मनः ॥ १३७ ॥ अल्पेनापि
सुरक्तेन साधनेन प्रयोजनम् । ओष्ठद्वयसहायेन कान्तास्वेन
जगज्जितम् ॥ १३८ ॥ सर्वस्यैव हि रत्नस्य त्रैणेऽर्घः
परीहीयते । दयिताधररत्नं तु त्राणित यात्यनर्घताम्
॥ १३९ ॥ अधरोऽयमभीराक्ष्या बन्धुजीवप्रभाहरः । अन्य-
जीवप्रभा हन्त हरतीति किमद्भुतम् ॥ १४० ॥ मुखा-
रविन्ददत्तश्रीः सुतनोरोष्ठोऽधरः । कुरुते हारमाणिक्यप्रदी-
पान्याण्डुरत्विषः ॥ १४१ ॥ सततमुदयमध्येव वदनेन्दोर-
निन्दिता । तदोष्ठमुद्रा लावण्यसमुद्रस्येव विद्रुमः ॥ १४२ ॥
अधरोऽसौ कुरङ्गाक्ष्याः शोभते नासिकातले । सुवर्णनलिका-
मध्यान्माणिक्यमिव विच्युतम् ॥ १४३ ॥ अधर खलुबिम्बनामकं फलमाभ्यामिति भव्यमन्वयम् । लभतेऽधर-
बिम्ब इत्यदः पदमस्या रदनच्छदे वदत् ॥ १४४ ॥ उत्थितो
निशि कलानिधिर्भवेदेतदीयमुखतुल्यतासये । प्रापितो
मलिनभावमेतया लज्जया नभसि यात्यदृश्यताम् ॥ १४५ ॥
अपि मृगाक्षि तवाधरपल्लवे दयितदन्तपदं न मवत्यद ।
भुवनमोहनमन्त्रपदाङ्कितं किमुत यन्ममिर्रं स्मरयन्त्रणः ॥१४६॥
अभिलषन्ति तवाधरमाधुरीं तदिह किं हरिणाक्षि सुधा
बुधा । सुरसुधामधरीकुरुते यतस्त्वदधरोऽधरतामगमत्ततः
॥ १४७ ॥ पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा
स्फुटविद्रुमस्थम् । ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रोष्ठ-
पर्यस्तर्रुचः सितस्य ॥ १४८ ॥ बन्धूकबन्धूनवदेतदस्या
मुखेन्दुनानेन सहोजिहानम् । रागश्रिया शैशवयौवनीया
स्वमाह सद्योधरोष्ठलेखा ॥ १४९ ॥ अस्या मुखेन्दाव-
धरः सुधाभूर्बिम्बस्य युक्तः प्रतिबिम्ब एषः । तस्याथवा
श्रीद्रुममाजि देशे संभाव्यमानास्य तु विद्रुमेऽसौ ॥ १५० ॥
जानेऽतिरागादिदमेव बिम्बं बिम्बस्य च व्यक्तमितोऽधेर-
त्वम् । द्वयोरिवैशेष्यावगमाक्षमाणा नाग्नि भ्रमोऽभूदनयोर्जना-
नाम् ॥१५१॥ प्रियामुखीभूय सुखी सुधांशुर्वसत्यसौ राहुभय-
व्ययेन । इमा दृशाराधरबिम्बलीला तस्यैव बालं करचक्र-
वालम् ॥ १५२ ॥ अधरममृतं कः सदेहो मधुन्यपि नान्यथा
मधुरमधिक द्राक्षायाश्च प्रसन्नरस फलम् । सकृदपि पुनर्म-
ध्यस्थः सन्रसान्तरविज्जनो वदतु यदिहान्यत्स्वादु स्यात्प्रिया-
दशनच्छदात् ॥ १५३ ॥ त्वं पीयूष दिवोऽपि भूषणमसि द्राक्षे
परीक्षेत को माधुर्य तव विश्वतोऽपि विदित माध्वीक
माध्वीकता । एतत्कि तु मनागेर्तुदमिव ब्रूमो न चेत्कुप्यसि
यः कान्ताधरपल्लवे मधुरिमा नान्यत्र कुत्रापि सः ॥ १५४ ॥
दन्ताः
द्विधा विधाय शीतांशुं कपोलौ कृतवान्विधिः ।
तन्भ्यास्तद्रसनिष्यन्दबिन्दवो रदनावलिः ॥ १५५ ॥
चन्द्राधिकैतन्मुखचन्द्रिकाणा दरायतं तत्किरणाद्धनानाम् ।
पुरःपरिखस्तत्पृष्ठितीयं रदावलीद्वन्द्वति बिन्दुवृन्दम् ॥१५६॥
राज्ञौ द्विजानामहि राजदन्ताः सबिभ्रति श्रोत्रियविभ्रमं यत् ।
उद्वेगरागादिमृजावदातश्चत्वार एते तदवैमि मुक्ताः॥१५७॥
यावद्यावत्कुवलयदशा मृज्यते दन्तपालिस्तावत्तावद्विगुणम-
धरच्छायया शोणशोचिः । काचित्सस्याः परिमलकलाहूत-
मात्रालिकान्त्या वक्राश्वासे प्रसरति मुहुः श्यामिकाप्याविरा-
सीत् ॥ १५८ ॥
चिबुकः
विलोकितास्या मुखमुन्नमय्य किं वेधसेय सुष मासमासौ ।
धृत्युद्भवा यच्चिबुके चकास्ति निम्ने मनागङ्गुलि-
यन्त्रणेव ॥ १५९ ॥

पादटिप्पण्यः (Footnotes)

वामभागः: १ अलका केशाः, पक्षे,-कुबेरनागरी २ वैश्रवणस्य कुबेरस्य पक्षे,-वै इति पदच्छेदः श्रवणस्य कर्णस्य ३ प्रवालकान्ति, पक्षे,-विगता द्रुमच्छाया यस्मात् ४ मरुदेशस्थमार्ग ५ छिद्रे जाते सतीत्यध्याहार्यम् ६ मूल्यम् ७ सजातव्रणम् ८ अमूल्यताम् ९ बन्धूकपुष्पम्, पक्षे,-बन्धुभूता जीवा

दक्षिणभागः: १ लौहित्यात् २ निकृष्टत्वम् ३ तारतम्यम् ४ मर्मस्पृक्

२६२सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

मुखम्

जितेन्दुपद्मलावण्यं क्व कान्तावदनं जयेत् । मुक्त्वा
तदेव सुरतश्रमजिन्नितलोचनम् ॥ १६० ॥ चलद्भृङ्गमिवा-
म्भोजमधीगनयनं मुखम् । तदीयं यदि दृश्येत काम-
क्रुद्धोऽस्तु किं ततः ॥ १६१ ॥ विलसत्याननं तस्या
नासाग्रस्थितमौक्तिकम् । आलक्षितबुधाश्लेषं राकेन्दोरिव
मण्डलम् ॥ १६२ ॥ मुखं वहति बन्धूकबन्धुरेणाधरेण सा ।
पूर्णेन्दुमिव सौन्दर्यादङ्कलालितकौस्तुभम् ॥ १६३ ॥ विधा-
यापूर्वपूर्णेन्दुमस्या मुखमभूद्भवम् । धाता निजासनाम्भोज-
विनिमीलनदुःखितः ॥ १६४ ॥ शरत्कालसमुल्लासिपूर्णिमा-
शर्वरीप्रियम् । करोति ते मुखं तन्वि चपेटापातनाति-
थिम् ॥ १६५ ॥ राकायामकलङ्कं चेदमृताशोर्भवेद्वपुः ।
तस्या मुखं तदा साम्यपराभवमवाप्नुयात् ॥ १६६ ॥
आननं मृगशावाक्ष्या वीक्ष्य लोलालकावृतम् । भ्रमद्भ्रमर-
सङ्कीर्णं स्मरामि सरसीरुहम् ॥१६७॥ इयं सुनयना दासी-
कृतामरसप्रिया । आननेनाकलङ्केन जयतीन्दुं कलङ्कि-
नम् ॥ १६८ ॥ लावण्यमृभुभिः पूर्णिमास्यमस्या विक-
स्वरम् । लोकलोचनरोलम्बकदम्बैः कैर्न पीयते ॥ १६९ ॥
ननु नीलाञ्चलस्रुतमाननमाभाति हरिनयननायाः । प्रति-
बिम्बित इव यमुनागभीरनीरान्तरेणाङ्कः ॥ १७०॥ अम्बुज-
मम्बुनि मग्नं नासादाकाशमाश्रितश्चन्द्रः । संप्रति क्व
परिपन्थी यं प्रति कोपारुणं वदनम् ॥ १७१ ॥ आसायं
सलिलभरे सवितारमुपास्य सादरं तपसा । अधुनाब्जेन
मनाक्तव मानिनि तुलना मुखस्याप्ता ॥ १७२ ॥ सुवि-
रलमौक्तिक्तारे धवलांशुकचन्द्रिकाचमत्कारे । वदनपरिपूर्ण-
चन्द्रे सुन्दरि राकास्ति नात्र संदेहः ॥ १७३ ॥ पुंसां
दर्शय सुन्दरि मुखेन्दुमीषत्त्रपामपाकृत्य । जायाजित इति
रूढा जनश्रुतिर्मे यशो भवतु ॥ १७४ ॥ अबले सलिले
व्यवस्यता ते मुखभावो गमितो न पङ्कजेन । कथमादिमवर्ण-
तोऽन्त्यजस्य द्विजराजेन कृतोरुनिग्रहस्य ॥ १७५ ॥
सुषमाविषये परीक्षणे निखिलं पद्ममभाजि तन्मुखात् ।
अधुनापि न मङ्गलक्षणं सलिलोन्मज्जनमुज्झति स्फुटम्
॥ १७६ ॥ यः ससर्ज कमलं रमागृहं विश्वलोचनमहो-
त्सवं विधिः । एष तादृगमृजन्मगीदृशो मीनकेतननिकेतनं
मुखम् ॥ १७७ ॥ माधुं चन्द्रमपि पुष्करैः कृतं मीलितं
यदभिरामताधिके । उद्यता जयिनि कामिनीमुखे तेन साहस-
मनुष्ठितं पुनः ॥ १७८ ॥ तस्या मुखस्यातिमनोहरस्य
कर्तुं न शक्तः सदृशं प्रियायाः । अद्यापि शीतद्युतिरात्म-
बिम्बं निर्माय निर्माय पुनर्बिनत्ति ॥ १७९ ॥ अनेन रम्भोरु
तवाननेन पीयूषभानोस्तुलया धृतस्य । ऊनस्य नूनं परिपूर-
णाय ताराः स्फुरन्ति प्रतिमानखण्डाः ॥ १८० ॥ अस्या
मुखस्यास्तु न पूर्णिमास्य पूर्णस्य जित्वा महिमा हिमांशुम् ।
भ्रूलग्नखण्डं दधदर्थमिन्दुर्मलस्तृतीयः खलु यस्य भागः
॥ १८१ ॥ व्यधत्त धाता मुखपद्ममस्याः सम्राजमम्भोज-
कुलेऽखिलेऽपि । सरोजराजौ मृजतोऽदसीया नेत्राभिधेयावत
एव सेवाम् ॥ १८२ ॥ दीवारजन्यो रविसोमभीते चन्द्रा-
म्बुजे निक्षिपतः स्वलक्ष्मीम् । अस्या यदान्ये न तदा
तयोः श्रीरेकत्रियेत तु कदा न कान्तम् ॥ १८३ ॥ अस्या
मुखश्रीप्रतिबिम्बमेव जलाच्च तातान्मुकुराच्च मित्रात् ।
अभ्यर्थ्य धत्त खलु पद्मचन्द्रौ विभूषणं याचितकं कदाचित्
॥ १८४ ॥ अस्या मुखेनैव विजित्य नित्यस्पर्धी मिलत्कुङ्कुम-
रोषभासा । प्रसद्य चन्द्रः खलु नह्यमानः स्यादेव तिष्ठ-
न्परिवेषपाशः ॥ १८५ ॥ विधोर्विधिर्बिम्बशतानि लोपं लोपं
कुहूरात्रिषु मासि मासि । अभूद्भूरिश्रीकममुं किमस्या मुखे-
न्दुमुत्थापयदेकमेवम् ॥ १८६ ॥ कपोलपत्रान्मकरात्सकेतु-
र्भ्रूभ्यां जिगीषुधनुषा जगन्ति । इहावलम्ब्यास्ति रतिं
मनोभूः रज्यद्वयस्यो मधुनाधरेण ॥ १८७ ॥ धिक्तस्य
मन्दमनसः कुकवेः कवित्वं यः स्त्रीमुखं च शशिनं च समं
करोति । भ्रूभङ्गविभ्रमकटाक्षनिरीक्षितानि कोपप्रसादहसि-
तानि कुतः शशाङ्के ॥ १८८ ॥ चन्द्रं कलङ्करहितं शफर-
द्वयं च निस्तोयमन्धतमसं च सुगन्धि तन्व्याः । वक्र-
च्छलेन भुवि सृष्टवतो विधातुर्वर्ण्येत केन करकौशलमद्भुतं तत्
॥ १८९ ॥ अस्यामपूर्वं इव कोऽपि कलङ्करिक्तश्चन्द्रोऽपरः
किमुत तन्मकरध्वजेन । रोमावलीगुणमिलत्कुचमन्दरेण
निर्मथ्य नाभिजलधौ श्रवमुद्धृतः स्यात् ॥ १९० ॥ लोके
कलङ्कमपहातुमयं शशाङ्को जातो यतस्तव मुखं तरलाय-
ताक्षि । तत्रापि कल्पयसि तन्वि कलङ्कलेखां नार्थं समा-
श्रितजनं हि कलङ्कयन्ति ॥ १९१ ॥ यन्मञ्जुसिञ्जित-
मितो रसनामणीनां यच्छाग्रसौरभवलादलयो वदन्ति ।
यद्गीतयः स्व्वलदंकृतयश्च लीला दोलाविलासतरलस्तदयं
मुखेन्दुः ॥ १९२ ॥ प्रविश झटिति गेहं मा बहिस्तिष्ठ
कान्ते ग्रहणमयवेला वर्तते शीतग्श्मेः । तव मुखमकलङ्कं
वीक्ष्य नूनं स राहुर्भ्रमति तव मुखेन्दुं पूर्णचन्द्रं विहाय
॥ १९३ ॥ यदम्रगर्तैः सिन्धोरन्तः कथंचिदुपार्जितं सकल-

१ मायकाल्पपर्यन्तम्
२ मुग्गत्वन् सुग्ममाम्यमित्यन
३ आदौ मवर्णो यस्य तस्य भावस्तत्ता पकारादे पङ्कजस्य मकारान्तस्य कथमित्यर्थं, पक्षे,-ब्राह्मणत्वम्
४ अन्ते जकारो यस्येतादृशस्य पङ्कनस्य, पक्षे,-अतिशूद्रम्य
५ चन्द्रेण, पक्षे,-ब्राह्मणश्रेष्ठेन
६ कृत उर्म्बेहाचि महो दण्डो यस्य
१ तुल्यम्

तरुणीपृथगवयववर्णनम् २६३

मपि तद्गात्रा कान्तामुखे विनिवेशितम् । सुरसुमनस-
श्वासामोदे शशी च कपोलयोग्मृतमधरे तिर्यग्भूते विषं
च विलोचने ॥१९४॥ असावन्तश्चञ्चद्विकचनवलीलाब्ज-
युगलस्तलस्फूर्जत्कम्बुर्विलसदलिसंघात उपरि । विना दोषा-
सङ्गं सततपरिपूर्णाखिलकलः कुतः प्राप्तश्चन्द्रो विगलित-
कलङ्कः सुमुखि ते ॥ १९५ ॥ जगन्नेत्रानन्दं वदनमतुलं
पक्ष्मलदृशः कथंकारं पङ्केरुहमनुविधातु प्रभवति । अयं
छेदाकाङ्क्षी सहृ मदनकोदण्डलयता वराको राकेन्दु-
कुवलययुगं कि न वहति ॥ १९६ ॥ अनाकाशे चन्द्रः
सरसिजदलद्वन्द्वसहितो गृहीतः पश्चार्धे कुटिलकुटिलैः
सोऽपि तिमिरैः । सुधा मुञ्चत्युच्चैरशनिमथ संमोहनजनीं
किमुत्यातालीयं वदत जगतः कर्तुरुदिता ॥ १९७ ॥ सुधा-
बद्ब्यासैरुपवनचकोरैरनुसुता किरं¹श्चोत्स्नामच्छां नवलेवलि²-
पाकप्र³णयिनीम् । उपप्राकाराय प्रै⁴हिणु नयने तर्कय मै⁵नाग-
नाकाशे कोऽयं गलितहरिणः शीतकिरणः ॥ १९८ ॥ विना
सायं कोऽयं समुदयति सौरभ्यसुभगः किरञ्ज्योत्स्नाधारा-
मधिधरणि तारापरिवृढः । धनुर्धत्ते स्मारं तिरयति विहारं
न तमसा निरातः पङ्केरुहयुगलमङ्गे नटयति ॥ १९९ ॥
अनुच्छिष्टो देवैरपरिदलितो राहुदशनैः कलङ्केनास्पृष्टो न
खलु परिभूतो दिनकृता । कुहूभिर्नो लुप्तो न च युवति-
वक्रेण विजितः कलानाथः कोऽय कनकनलिकायामुदयते
॥ २०० ॥ सितज्योत्स्नागङ्गा तपनतनया श्यामलरुचिः
सरस्वत्योष्ठाभारुणकिरणसौन्दर्यजयिनी । इमास्तिस्रस्तीर्था-
धिप इव मुखे सुभ्रु मिलितास्तवैदं सेवन्को न लभत इहा-
नन्दलहरीम् ॥ २०१ ॥ कोषः स्फीततरः स्थितानि परितः
पत्राणि दुर्गे जलं मैत्रं मण्डलमूज्ज्वलं चिरमयो नीता-
स्तथा कण्टकाः । इत्याकृष्टशिलीमुखेन रचना कृत्वा तद-
प्युद्धतं यत्पद्मेन जिगीषुणापि न जितं मुग्धे त्वदीयं मुखम्
॥ २०२ ॥ आरब्धे दयितामुखप्रतिसमे निर्मातुमस्मिन्नपि
व्यक्तं जन्मसमानमेव मिलितामंशुच्छटा वर्षति । आत्म-
द्रोहिणि रोहिणीपरिवृढे पर्यङ्कपङ्केरुहः संकोचादथ दु स्थितस्य
न विधेस्तच्छीलमुन्मीलितम् ॥ २०३ ॥ तानि प्राग्वि
दिनानि यत्र रजनी सेहे तमिस्रापदं सा सृष्टिर्विरराम यत्र
भवति ज्योत्स्नामयो नातपः । अद्यान्यः समयस्तथा हि तिथ-
योऽप्यस्या मुखस्योदये हस्ताहस्तिकया हरन्ति परितो
राकावराकीयशः ॥ २०४ ॥ अज्ञातेंदुपराभवं परिलस-
द्बालेलनेत्राञ्जनं भ्रान्तभ्रूलतमैनाभितिलकं श्रीखण्डपत्राल्-
कम् । बन्धूकाधरसुन्दरं सुरमुनिन्यामोहि वाक्यामृतं
त्रैलोक्याद्भुतपङ्कजं वरतनोरास्यं न कस्य प्रियम् ॥ २०५ ॥चातुर्यैरेकचिह फलममलगिरा मूलमुत्तापशान्तेः पद्माद्याः
सप्रसादं स्थलमपि च रुचा कोशभूतं फलानाम् । शृङ्गार-
ख्यातिमानं शरदमृतकरस्पर्धि सौभाग्यसिन्धोरास्यं तस्याः
सहासं मनसि न मृदुले कस्य लास्र तनोति ॥ २०६ ॥
स्मितम्
कामबाणप्रहारेण मूर्च्छितानि पदे पदे । जीवन्ति
युवचेतांसि युवतीनां स्मितामृतैः ॥ २०७॥ स्मयमान-
मायताक्ष्या किंचिदमिव्यक्तदशनशोभि मुखम् । अममग्र-
लक्ष्यकेसरमुच्छ्रसदिव पङ्कजं दृष्टम् ॥ २०८ ॥ धवलीकरोति
हरितो मलिनीकुरुते मन सपत्नीनाम् । अस्या हास्यविकासी
मम तु मनो रक्तमाचरति ॥ २०९ ॥ यदि प्रसादीकुरुते
सुधाशोरेषा सहस्राशमपि स्मितस्य । तत्कौमुदीना कुरुते
तमेव निमित्त्यै¹ देव सफलं स्वजन्म ॥ २१० ॥
कण्ठः
कण्ठस्य विदधे कान्ति मुक्ताभरणता यश्च । नास्या
स्वभावरम्यस्य मुक्ताभरणता तथा ॥ २११ ॥ असा-
वुद्वेल्ललावण्यरकावरसमुद्भव । जगद्विजयमाङ्गल्यशङ्क
कुसुमधन्वन ॥ २१२ ॥ श्रोत्रपीयूषगण्डूषै काकलीकल-
गीतिभि । कण्ठ कुण्ठितचातुर्यो विपञ्चीपञ्चमध्वनेः
॥ २१३ ॥ अयं त्रयाणा ग्रामाणा विधानं मधुरध्वनिः ।
रेखात्रयमितीवाख्या सूत्रितं कण्ठकन्दले ॥ २१४ ॥
कण्ठस्य तस्या स्तनबन्धुरस्य मुक्ताकलापस्य च निस्त-
लस्य । अन्योन्यशोभाजननादभूव साधारणो भूषणभूष्य-
भावः ॥ २१५ ॥ कवित्वगानप्रियवादसत्यान्यस्या विधाता
न्यधिताधिकण्ठम् । रेखात्रयन्यासमिषादमीषा वासाय सोऽयं
विबभाज सीमाः ॥ २१६ ॥ मुत्कोत्कर सकटशुक्तिमध्या-
द्विनिर्गतः सारसलोचनाया । जानीमहेऽस्या कमनीय-
कम्बुग्रीवाधिवासाद्गुणवत्त्वमाप ॥ २१७ ॥
वाणी
अमृतद्रवमाधुरीधुरीणा गिरमाकर्ण्य कुरङ्कलोचनायाः ।
मुहुरभ्यसन कषायकण्ठी कलकण्ठी कुरुते कुहूरुतेन
॥ २१८ ॥ स्वरेण तस्याममृतसुतेव प्रजल्पितायामभिजात-
वाचि । अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितन्त्रीरिव
ताड्यमाना ॥२१९॥ शिरीषकोषादपि कोमलाया वेधा विधा-
याङ्गमशेषमस्याः । प्राप्तप्रकर्षः सुकुमारसर्गे समापयद्वाचि मृदु-
त्वमुद्राम् ॥२२०॥ प्रसूनबाणाङ्गयवादिनी सा कापि द्विजे-
नोपनिषत्तिकेन । अस्याः किमास्यद्विजराजतो वा नाधीयते
मैक्षभुजा तरुण्य ॥२२१॥ पद्माङ्कसङ्गानमवेक्ष्य लक्ष्मीमेकस्य
विष्णो श्रयणात्सपत्नीम् । आसेन्दुमस्र्या भजते जिताब्जं
सरस्वती तद्विजिगीषया किम् ॥२२२॥ कण्ठे वसन्ती चतुरा

१ प्रसारयन् २ लताविशेष ३ सदृशीम् ४ प्रेरय ५ ईषत्
१ प्रक्षिप्य

२६४ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्

यद्वक्षाः सरखती वाद्यते विपञ्चीम् । तदेव वाग्भूय मुखे मृगाक्ष्याः श्रोतुः श्रुतौ याति सुधारसत्वम् ॥ २२३ ॥ बाहू दयिताबाहुपाशस्य कुतोऽयमपरो विधिः । जीवयत्यर्पितः कण्ठे मारयत्यपवर्जितः ॥ २२४ ॥ शब्दवद्भिरलङ्कारैरु- पेतमतिकोमलम् । सुवृत्तं काव्यबद्रेजे तद्द्वाहुलतिकाद्वयम् ॥ २२५ ॥ सरले एव दोर्लेखे यदि चञ्चलचक्षुषः । अमुग्धाभ्यो मृणालीभ्यः कथमाजहुतुः श्रियम् ॥ २२६ ॥ बाहू तस्याः कुचाभोगनिरुद्धान्योन्यदर्शनौ । मञ्चितं कथ- मेताभ्या मृणालीकीर्तिलुण्ठनम् ॥ २२७ ॥ बाहू प्रियाया जयता मृणालं द्वन्द्वे जयो नाम न विस्मयोऽस्मिन् । उच्चैस्तु तच्चित्रममुष्य मध्यमालोक्यते निर्व्यथनं यदन्तः ॥ २२८ ॥ अजीयतावर्त्तशुभंयु नाभ्या दोर्भ्यां मृणालं किमु कोमला- भ्याम् । निःसूत्रमास्ते घनपङ्कमृत्सु मूर्तासु नाकीर्तिषु तन्निमग्नम् ॥ २२९ ॥ करौ कुसुमायुधकोदण्डे हस्तौ विस्तीर्णचक्षुष । अशोकपल्ल- वास्त्राणा प्रतिहस्तत्वमागतौ ॥ २३० ॥ नाह धार्यमधीराक्षि मुखेन्दो समुखं त्वया । इतीव लीलापद्मेन करेऽस्याः कान्तिरर्पिता ॥ २३१ ॥ स्पृष्टस्त्वयैव दयिते स्मरपूजा- व्यापृतेन हस्तेन । उद्भिन्नापरमृदुतरकिसलय इव लक्ष्यते- ऽशोकः ॥ २३२ ॥ अस्याः करस्पर्शनगर्धनैर्निर्मलत्व- मापत्वलु पल्लवो यः । भूयोऽपि नामाधरसाम्यगर्वं कुर्वन्कथं वास्तु न स प्रवालः ॥ २३३ ॥ अस्यैव सर्गाय भवत्करस्य सरोजसृष्टिर्मम हस्तलेखः । इत्याह धाता हरिणेक्षणाया कि हस्तलेखीकृतया तया स्वाम् ॥२३४॥ मुग्धे प्रतारयसि कि कुसुमानि हर्तुमेतान्यशोकविटपस्य कुतूहलेन । अस्यैव तन्वि नवपल्लवडम्बरेषु त्वं हारयिष्यसि ननु स्वयमेव पाणी २३५ कङ्कणम् गौराङ्ग्या भुजलावण्यमीलितं हेमकङ्कणम् । कण्ठाश्लेषे वयस्याभिः काठिन्यादन्वमीयत ॥ २३६ ॥ प्रकोष्ठबन्धे बिम्बोष्ठ्यास्तस्याः काञ्चनकङ्कणम् । नालं वलयितं हस्ते हेमाब्जसेव राजते ॥ २३७ ॥ सौवर्णकङ्कणश्रेण्या भाति तद्बाहुकन्दली । तूणचम्पकमौर्व्येव पुष्पचापेन वेष्टिता ॥ २३८ ॥ सहेमकटकं धत्ते सा कर पद्मत्सकरम् । पद्मिनीवल्लभस्येव मूले वेष्टितमंशुना ॥ २३९ ॥ हस्ते चकास्ति बालायास्तस्याः कङ्कणमालिका । मन कुरङ्गबन्धाय पाशालीय मनोभुवः ॥ २४० ॥ कृशाङ्ग्याः कुचभारेण दूरमुत्सारितौ भुजौ । वहतः कलहायेव वाचाला वलया- वलिम् ॥ २४१ ॥ न्यस्तानि दन्तवलयानि करे कदा- चित्तानीन्दुकण्डघटितानि ममैष तर्कः । अस्या निसर्गमृदु- पाणिसरोजमेषामामोचने झटिति यन्मुकुलीबभूव ॥ २४२ ॥ हस्तरेखा आयुरेखां चकारास्याः करे द्राघीयसी विधिः । शौण्डीर्य- गर्वैर्निर्वाहप्रत्याशा च मनोभुवः ॥ २४३ ॥ अङ्गुल्यः सुदीर्घा रागशालिन्यो बहुपर्वमनोहराः । तस्या विरेजुर- ङ्गुल्यः कामिना सकथा इव ॥ २४४ ॥ रज्यन्नखसाङ्गुलि- पञ्चकस्य मिषादसौ हैङ्गुलपद्मारातृणे । हैमैकपुङ्खास्ति विशुद्धपर्वा प्रियाकरे पञ्चशरी खरस्य ॥ २४५ ॥ मुद्रिका अङ्गुलीषु कुरङ्गाक्ष्याः शोभते मुद्रिकावलिः । प्रोतेव बाणैः पुष्पेषोः सूक्ष्मलक्ष्यपरम्परा ॥ २४६ ॥ स्तनौ मृद्वङ्गि कठिनौ तन्वि पीनौ सुमुखि दुर्मुखौ । अत एव बहिर्यातौ हृदयात्ते पयोधरौ ॥ २४७॥ तन्वङ्ग्या स्तन- युग्मेन मुख न प्रकटीकृतम् । हाराय गुणिने स्थानं न दत्तमिति लज्जया ॥ २४८ ॥ यन्न माति तदङ्गेषु लावण्य- मतिसम्भृतम् । पिण्डीकृतमुरोदेशे तत्पयोधरता गतम् ॥२४९॥ स्वयंभूः शभुरम्भोजलोचने त्वत्पयोधरः । नखेन कस्य धन्यस्य चन्द्रचूड़ो भविष्यति ॥ २५० ॥ अविवेकि कुचद्वन्द्व हन्तु नाम जगत्त्रयम् । श्रुतिप्रणयिनोरक्षणोर्युक्तं जनमार- णम् ॥ २५१ ॥ प्रायश्चित्तं न गृहीतस्तन्वङ्ग्याः पतितौ स्तनौ । अत एव तयो स्पर्श लोकोऽयं शिथिलादरः ॥ २५२॥ पयोधरघनीभावस्तावदम्बरमध्यगः । आश्लेषोपगमस्तत्र याव- न्नैव प्रवर्तते ॥ २५३ ॥ माति निर्विवरे तस्याश्चित्रं कुच- युगान्तरे । क्रीडाकुण्डलितोचण्डकोदण्डः कुसुमायुधः ॥ २५४ ॥ कुचद्वये चकोराक्षी चिम्बुकप्रान्तचुम्बिनी । मर्मोक्तिषु न शक्नोति स्थातु लज्जानतानना ॥ २५५ ॥ शङ्के तच्चित्तमक्लेशसाध्यं कुसुमधन्वनः । काठिन्यं बहिरेवास्याः स्तनाभ्या येन धारितम् ॥ २५६ ॥ सा स्तनाञ्जलिबन्धेन मन्मथं प्रथमागतम् । करोतीवोन्मुखं बाला बान्धवं यौवन- श्रियः ॥ २५७ ॥ अस्त्यप्रतिसमाधेयं स्तनद्वन्द्वस्य दूषणम् । स्फुटता कञ्चुकाना यन्नायातयावरणीयताम् ॥ २५८ ॥ कुम्भौ सद्दम्भौ करिणा कलशौ मन्दकौशलौ । चक्रवाकौ वराकौ च तदीयकुचयोः परः ॥ २५९ ॥ मुखेन्दुचन्द्रिकापूरप्लाव्य- मानौ पुन. पुन. । शीतभीताविवान्योन्यं तस्याः पीड्यत. स्तनौ ॥ २६० ॥ तत्कुचौ चरतः किंचिन्नूने मनसिजव्रतम् । नित्योन्मुखौ यदासाते मौलीरत्नस भास्वतः ॥ २६१ ॥ सा धारयत्यधीराक्षी दुर्वह स्तनमण्डलम् । गर्वपर्वतमारूढ- श्रित्रं कुसुमकार्मुकः ॥ २६२ ॥ तस्यास्तुङ्गस्तनच्छाया

१ व्यक्त १ विशेषदर्शनरहितम्, पक्षे,-विंशषशून्यम् परस्पर सश्लिष्टत्वात् २ वेद, पक्षे,-कर्णे ३ पापनिकृतिम्, पक्षे,-प्रायो बाहुल्येन चित्त स्वान्तम् ४ पातकिनौ, पक्षे,-गलितौ ५ पयोवराणा मेघाना घनीभाव प्राचुर्यम् ६ आकाशमध्यवती च ७ आश्लेषानक्षत्रस्योदय ; पक्षे,-सुगमस्

तरुणीपृथगवयववर्णनम् — २६५

चकास्ति त्रिवलीतटे । लीना तिमिरलेखेव वदनेन्दोरगोचरे ॥ २६३ ॥
स्वकीयं हृदय भित्त्वा निर्गतौ यौ पयोधरौ । हृदयस्यान्यदीयस्य भेदने का कृपा तयोः ॥ २६४ ॥
अल्पनिर्मितमाकाशमनालोच्यैव वेधसा । इदमेवंविधं भावि भवत्याः स्तनमण्डलम् ॥ २६५ ॥
उच्छ्वसन्मण्डलप्रान्तरेख- माबद्धकुङ्कलम् । अपर्याससुरो वृद्धेः शंसत्यस्याः स्तनद्वयम् ॥ २६६ ॥
मध्येन तनुमध्या मे मध्यं जितवतीत्ययम् । इभकुम्भौ भिनत्त्यस्याः कुचकुम्भनिभौ हरिः ॥ २६७ ॥
पटविघटितमपि कुचतटमकपटमनसः कुरङ्गनयनायाः । मणिभवमयूखपटलीपटीलीनतया न सम्यगालोचि ॥ २६८ ॥
प्रतिपक्षो यदि वक्षोरुहपरिणाहः कुरङ्गनयनायाः । आकाशवासतपसः श्रीफल विफलस्तवायामः ॥ २६९ ॥
चञ्चत्काञ्चन-शैलावस्या वक्षोरुहौ तन्व्याः । नो चेत्तावधिरूढा कथमनिमिषता भजेत मे दृष्टिः ॥ २७० ॥
करतलयुगपरिणद्धे कुचकलशे कुङ्कुमारुणे तस्याः । सिन्दूरिते करिपतेः कुम्भे नक्षत्रमालेव ॥ २७१ ॥
काठिन्यमङ्गै रखिलैर्निरस्तं कुचौ युवत्याः शरण जगाम । अधः पतिष्याव इतीव भीत्या न शङ्कतस्तावपि हातुमेतत् ॥ २७२ ॥
दिवानिशं वारिणि कण्ठदध्ने दिवौकरा रा-धनमाचरन्ती । वक्षोजताश्ये किमु पक्ष्मलाक्ष्यास्तपश्चरत्यम्बुज-पङ्किरेषा ॥ २७३ ॥
अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तन- द्वयं पाण्डु तथा प्रवृद्धम् । मध्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम् ॥ २७४ ॥
किं नर्मदाया मम सेयमस्या दृश्यामतो बाहुल तामृणाली । कुचौ किमुत्तस्थतु-रन्तरीपे खारोश्मशुष्कोत्तरवाल्यवारः ॥ २७५ ॥
ताल प्रभु स्यादनुकर्तुमेतावुत्थानसुस्थौ पतितं न तावत् । परं च नाश्रित्य तरु महान्तं कुचौ कृशाङ्ग्याः स्वत एव तुङ्गौ ॥ २७६ ॥
एतत्कुचस्यार्धेतया घटस्य स्यातस्य शास्त्रेषु निदर्शनत्वम् । तस्माच्च शिल्पान्मशिकादिकारी प्रसिद्धनामा-जनि कुम्भकारः ॥ २७७ ॥
निःशङ्क सङ्कोचितपङ्कजोऽय-मस्यामुदीतो मुखमिन्दुबिम्बः । चित्रं तथापि स्तनकोक-युग्मं न स्तोकमप्यञ्चति विप्रयोगम् ॥ २७८ ॥
आभ्यां कुचाभ्यामिभकुम्भयोः श्रीरादीयतेऽसावनयोः क ताभ्याम् । मयेन गोपायितमौक्तिकौ तौ प्रव्यक्तमुक्ताभरणाविमौ यत् ॥ २७९ ॥
कराग्रजाग्रत्क्षतकोटितीर्थी ययोरिमौ तौ तुल-येत्कुचौ चेत् । सर्वे तदा श्रीफलमुन्मदिष्ण जातां वैटीम्-प्यधुना न लुब्धम् ॥ २८० ॥
मध्यं तनूकृत्य यदीदमीयं वेधा न दध्यात्कमनीयमंशम् । केन स्तनौ संप्रति यौव-नेऽस्याः सृजेदनन्यप्रतिमाङ्कयष्टेः ॥ २८१ ॥
तवोप कण्ठ-स्थिततारदारस्फुरदाम्रशैवलिनीजलेषु । लीनो मनोजद्विप एव तस्य व्यक्तौ न गण्डौ किमु रोजपिण्डौ ॥ २८२ ॥
सता समालोकयता विवेकान्हवीषि हुत्वा स्मरवाणवह्रौ । धत्ते स्तन श्यामशिरोमिषेण तनूदरी त्र्यायुष भस्मबिन्दुम् ॥ २८३ ॥
नयननीरज किं भवता कृत मुखशशी यदय रिपुराश्रितः । इति वचो वितरीतुमिवोन्मुख वरतनो स्तन-चक्रयुगं बभौ ॥ २८४ ॥
बदरामलकाम्रादिदाडिमानामपहृत्य श्रियमुन्नतौ क्रमेण । अधुना हरणे कुचौ यतेते दयिते ते करिशावककुम्बलक्ष्म्याः ॥ २८५ ॥
कनकक्रमुकयित पुर-स्तादथ पङ्केरुहकोरकायमानम् । क्रमशः कलशायमान-मास्ते सुदृशो वक्षसि कस्य भागधेयम् ॥ २८६ ॥
अपि तद्वपुषि प्रसर्पतांगोर्मिणा कान्तिझरेरगाधताम् । स्मरयौवनयोः खलु द्वयोः प्लवकुम्भौ भवतः कुचावुभौ ॥ २८७ ॥
कलशे निजहेतुदण्डजं किमु चक्रभ्रमिकारिता गुणः । स तदुच्च-कुचौ भवन्प्रभाझरचक्रभ्रमिमातनोति यत् ॥ २८८ ॥
जम्बीरश्रियमतिलङ्घय लीलयैव व्यानश्रीकृतकमनीयहे-मकुम्भौ । नीलाम्भोरुहनयनेऽधुना कुचौ ते स्पर्धेते किल कनकाचलेन सार्धम् ॥ २८९ ॥
शुकीचञ्चूत्वात्तच्छवि फलयुगं यौवनतरोरयः शङ्कुक्षुण्ण मदनकरिणः कुम्भयुगलम् । समुद्रं भोगायामृतकलशयुग्मं सुकृतिनः कुचद्वन्द्वं तन्व्या नवनखपदाङ्कं विजयते ॥ २९० ॥
कुचावस्या काम-द्विपकलभकुम्भाविति परे वदन्त्यन्ये वक्षःसरसि कमले काञ्चनघटौ । ममायं सिद्धान्तः स्फुरति मदनेन त्रि-जगत विनिर्जित्य न्युब्जीकृतमिव निजं दुन्दुभियुगम् ॥ २९१ ॥
जम्बीरं वा कमलमुकुलं हेमगुच्छं यथेच्छं माङ्गल्यं वा कलयतु जनो भूपतेर्मन्मथस्य । एतद्द्वन्द्वं कलयति मतिर्मामकीना नवीना केनाप्यस्या हृदि विनि-हित मन्मथानन्दकन्दम् ॥ २९२ ॥
पुष्पेषोरभिषेकहेमक-लशौ हारप्रभावाहिनीचक्राह्वौ मदनोन्मद्द्विपपतेः कुम्भौ रतेः कन्दुकौ । कन्दौ बाहुमृणालिकायुगलयोर्लीलालतास-त्फले नव्यौ रत्नसमुद्गकौ वहति सा लावण्यपूर्णौ स्तनौ ॥ २९३ ॥
यूना मोहमहाफलप्रसविनीं नाभ्यालवालो-त्थिता सेक्तुं रोमलतो मुखामृतनिर्धर्लावण्यानामृतम् । नेष्यन्सारणिका विभज्य कृतवान्कूटद्वयं पार्श्वयो पक्षेषु-स्तदिदं पयोधरयुगं लोका. समाचक्षते ॥ २९४ ॥
उद्भिन्नां किमिदं मनोभवनृपकीडारविन्दद्वयं सूते तत्कथ-मेकत किल लसद्रोमावलीनालत । चक्रद्वन्द्वमिदं क्षमं तदपि न स्थातुं मुखेन्दो पुरो लावण्याम्बुनि

१ कण्ठप्रमाणे २ सूर्याराधनम् ३ लावण्यलेश कपर्दिका च
३४ सु. र. भा.
१ चक्रवाकौ २ संपुटौ ३ पर्वतशिखरम्

२६६ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्

मध्यौवनगजस्यावैमि कुम्भद्वयम् ॥ २९५ ॥ उद्भेदं प्रतिपद्य पक्वबदरीभावं समेत्य क्रमात्पुंनागाकृतिमाप्य रत्पदवीमारुह्य बिल्वश्रियम। लब्ध्वा तालफलोपमा च ललितामासाद्य भूयोऽधुना चञ्चत्काञ्चनकुम्भजृम्भणमि- भावस्या स्तनौ बिभ्रत ॥ २९६ ॥ रँत्याप्तप्रियलाञ्छने कठिनतावासे रँसालिङ्गिते प्रँह्लादैकरसे क्रमादुपचिते भूभृ- द्गुरुत्वापहे । कोर्कस्पर्धिनि भोगभाजि र्जनितानङ्गे र्खेली- नोन्मुखे भाति श्रीर्गमणावतारदशकं बाले भवत्या. स्तने ॥ २९७ ॥ मध्येऽय बलिसद्म दृष्टिरधिक पृथ्वौ सुपर्वा- लयो बाहुस्तत्क्रमलेक्षणा त्रिजगतीमेकैव संरक्षति । इत्येव स्तनयोर्मिषेण कनकक्षोणीभृता सधृतौ यस्यामात्मकिकोरकौ पविभयव्यग्रेण जम्भद्विष ॥ २९८ ॥

कञ्चुकी

उपरि पीनपयोधरपातिता पटकुटीव मनोभवभूपतेः । विजयिनस्त्रिपुरारिजिगीषया तव विराजति भामिनि कञ्चुकी ॥ २९९ ॥

हारः

घटीयन्त्रायते हारो नाभिकूपे मृगीदृश. । ससेक्तुमिव लावण्यपयसा यौवनद्रुमम् ॥ ३०० ॥ हार कुरङ्गशावाक्ष्या राजति स्थूलमौक्तिक । नाभिलावण्यपानीयघटीयन्त्रगुणोपमः ॥ ३०१ ॥ माँतङ्गकुम्भसंसर्गजातपातकशङ्कया । ज्ञातीव मुक्ताहारेणेऽस्या. स्फुरत्कान्तिजले गले ॥ ३०२ ॥ प्राणेश्वरपरिश्वङ्गविभ्रमप्रतिपत्तिभि । मुक्ताहारेण लसता हसतीव स्तनद्वयम् ॥ ३०३ ॥ हारोऽयं हरिणाक्षीणा लुठति स्तनमण्डले । मुक्तानामप्यवस्थेयं के वयं स्मरकिंकरा ॥ ३०४ ॥ मणिहारलता विभाति तन्व्या स्तनसिंहासनसन्निधौ तथित्वासम् । अभिषेक्तुमनङ्गजदेवगज गलशङ्खाद्वलितेव दुग्धधारा ॥ ३०५ ॥ ग्रीवाद्धृतैवाव- दुशोभितापि प्रभावता माणवकेन सेयम् । आलिङ्ग्यता- मध्यवलम्बमाना सुरूपताभागखिलोर्ध्वकाया ॥ ३०६ ॥ स्तनातटे चन्दनपङ्किलेऽस्या जातस्य यावद्युवमानसानाम् । हारावलीरत्नमयूखधाराकाराः स्फुरन्ति स्खलनस्य रेखाः ॥ ३०७ ॥ निबिडानुषक्तकुचकोकदम्वती सुखतारकापरि- वृढेन शासितुम् । अवतारितेव निजतारकावली हरिणीदृशः स्फुरति हारवल्लरी ॥ ३०८ ॥ एकावलीकलितमौक्तिककैत- वेन तन्व्याः समुन्नकपयोधरयुग्मसेवाम् । चक्रुमनासि यमिना- मतिनिर्मलानि कंदर्पमुक्तशरपातकृतान्तराणि ॥ ३०९ ॥ सारङ्गाक्ष्याः कुचकलशयोरन्तराकाशदेशः प्राप्तच्छेदः क्वचि- दपि चलन्प्रस्खलन्नि.पपात । नाभीकूपः समजनि नतस्तस देहच्युतासौ नक्षत्राणा ततिरिव समालम्बते हारशोभाम् ॥ ३१० ॥ मुक्तावली खरविदाहविपाण्डुमूले नद्धा चकास्ति सितकम्बुनि कण्ठकाण्डे । निश्विन्वती मृगदृशो वदनं मृगाङ्कं नक्षत्रपङ्क्तिरिव संपतिता नभस्त. ॥ ३११ ॥

मध्यदेशः

युक्तं मध्ये कृशा तन्वी कार्मुकीकरणाय यत् । अत्रैव कुसुमास्त्रेण पीड्यते श्लिष्टमुष्टिना ॥ ३१२ ॥ स्तनौ भारपणव्यग्रौ काञ्ची कलकलोन्मुखी । कस्या दिशि न मध्यस्य तस्याः कार्थ्यं सहेतुकम् ॥ ३१३ ॥ मध्यं तव सरोजाक्षि पयोधरभरादितम् । अस्ति नास्तीति सदेह. कस्य चित्ते न भापते ॥ ३१४ ॥ स्मरमानसिक्समस्याः स्यात्स्त- निमा निरवधिर्मध्य. । श्रीरेव पूरयति या न गिरा देवी न चापि गुरुरस्या. ॥ ३१५ ॥ अक्षि-प्रकृतिमन्नोज्ञे लघ्ना प्रायेण मान्मथी दृष्टि. । सुन्दरि यतो भवत्या. प्रतिक्षणं क्षीयते मध्य ॥ ३१६ ॥ वयःप्रकर्षादुपचीयमानस्तनद्वय- स्योद्वहनश्रमेण । अत्यन्तकार्थ्यं वनजायतार्थ्या मध्यो जगामेति ममैष तर्कः ॥ ३१७ ॥ बद्धा हियोमा त्रिवली गुणेन गृह्णाति रोमावलिनेत्रवल्लीम् । इतीव चिन्ताकुलभङ्गु- रोऽयं मध्यो मृगाक्ष्याः कृशतामुपैति ॥ ३१८ ॥ काञ्चीगुणै- र्विरचिता जघनेषु लक्ष्मीर्लग्न्या स्थितिः स्तनतटेषु च रत्न- हारै. । नो भूषिता वयमितीव नितम्ब्विनीना कार्थ्यं निरर्ग- लमधार्यत मध्यभागे ॥ ३१९ ॥ स्फुटमसदवलग्नं तन्वि निश्चिन्वते ते तदनुपलभमानास्तर्कयन्तोऽपि लोकाः । कुचगिरिवरयुग्मं यद्विनाधारमास्ते तदिह मकरकेतोरिन्द्र- जाल प्रतीमः ॥ ३२० ॥ तुङ्गाभोगे स्तनगिरियुगे प्रौढबिम्बे नितम्बे सीमादेशं हरति नृपतो यौवने जृम्भमाणे । मध्यो भीरु. क्वचिदपि ययौ पद्मपत्रेक्षणाया. शून्य मध्यस्थलमिति तत क्विदन्दती वदन्ति ॥ ३२१ ॥ देह हेमद्युति परिहृता- म्भोजवृष्टि च दृष्टि राशीभूतभ्रमरपटलीचारुवेषं च केशम् ।

१ रतावास प्रियस्य लाञ्छन चिह्न नखक्षताङ्गरोगादिक येन तथा भूते, पक्षे,-रत्या आप्त प्रिय कामस्तस्य लाञ्छन मन्मथस्तद्रूपे २ कठिनताया आवासे स्थानभूते, पक्षे,-कठिनताया आवासे कूर्मे ३ रसेनालिङ्गिते, पक्षे,-रमया पृथिव्या स्वोदरणकाले आलिङ्गिते वराहे ४ प्रकृष्टाह्लाद एकरसे तत्परे, पक्षे,-प्रह्लादे एको रस प्रीतिर्यस्य तस्मिन्नृसिंहे ५ क्रमाद्बदरामलकादिपरिमाणलाभेनोपचिते प्रवृद्धे, पक्षे,-क्रम पादविक्षेपस्तदनुसारेणोपचिते प्रवृद्धे वामने ६ भृभ्रता पर्वताना गुरुत्वमपत्ति नाशयति तादृशे ततोऽपि महत्त्वात्, पक्षे,-भूभृता राज्ञा गारवनाशे मार्गवे ७ चक्रवाकस्पर्धी-शीले तत्सदृशत्वात्त, पक्ष,-नीतावियांगानुरतया चक्रवाकशापद रामे ८ भोग सुख शगार तद्भाजि, पक्षे,-भोग फणा तद्भाजि शेषावतारे बलमद्र ९ जनितनमदने, पक्षे,-जनितमनङ्गमङ्गस्य शरीरस्य विरुद्ध मौनभोगत्यागसमाधिप्रभृति येन तस्मिन्बुद्धे १० खेलिविन्द्रियेषु लीना अमक्ता उन्मुखा याँस्सिंस्तादृशे, पक्षे,-खलीनमश्वस्य वल्गा तदुन्मुखे ककिन्ीति ११ विष्णो १२ अन्यज, पक्षे,-गज १ पुष्यमाण २ मध्यम्

तरुणीपृथगवयववर्णनम् २६७

दृष्ट्वा सद्यो विपुलहृदयानन्दमूढेन धात्रा सारङ्गाक्ष्या किमु रचयितुं विस्मृतो मध्यदेशः ॥ ३२२ ॥ आक्रमन्ते शैशवेऽस्मिन्नभिनववयसा शासनान्मीनकेतोर्बालाया नेत्रयुग्मं श्रुतियुगमविशद्भूयुगेनापि सार्धम् । वक्षोजद्वन्द्वमुच्चैर्बहिरिह निरगाच्छ्रोणिबिम्बेन साकं मध्यः सङ्गृह्य बद्धस्त्रिवलिरुचिभितः कार्श्यमङ्गीकरोति ॥ ३२३ ॥

नाभिः

मन्ये समाप्तलावण्ये सारसर्गे मृगीदृशः । अपूरयित्वेव गतो नाभिरन्ध्रं चतुर्मुखः ॥ ३२४ ॥ कुचकुम्भौ समालम्ब्य तरन्ती कान्तिनिम्नगाम् । अगादितस्ततो दृष्ट्वा दृष्टिर्नाभौ निमज्जति ॥ ३२५ ॥ स्तनौ तुङ्गौ समासाद्य चापण्यस्तम्भरे खरे । कोदण्डातनिमुद्रेव जाता नाभी नतभ्रुवः ॥ ३२६ ॥ उरोजवञ्चक्रमनोजरूपा केशावलीव भ्रमराजिता वा । संगीतवत्सत्पुटभेदहृद्या विधेय नाभीसरसी मृगाक्ष्याः ॥ ३२७ ॥

वलित्रयम्

एकमेव वलिं बद्ध्वा जगाम हरिरुन्नतिम् । तन्व्यास्त्रिवलिबन्धेऽपि सैव मध्यस्य नम्रता ॥ ३२८ ॥ स्तनभागस्य मध्येन त्रिवलिव्याजत कृता । तस्याः शङ्कितभङ्गेन भ्रूभङ्गानामिवार्वालः ॥ ३२९ ॥ तदीयत्रिवलीमार्गसोपानारोहणश्रमम् । अनङ्गलवादनङ्गस्य जातो रत्येकगोचरः ॥ ३३० ॥ परिहृत्य दुगरोहं तस्याः स्तनतटं कृता । कन्दर्परथसंचारमार्गालीव वलित्रयी ॥ ३३१ ॥ दरिद्रमुदरं दृष्ट्वा चक्रे लावण्यपूर्णयोः । पन्थानं स्तनयोस्तस्यास्त्रिवलीविषमं विधिः ॥ ३३२ ॥ राजति त्रिवली तस्याः स्तनभारोन्नतिक्रमात् । उपर्य्युपरि जातेव हारमुद्रापरम्परा ॥ ३३३ ॥ मध्यत्रिवलीत्रिपथे पीवरकुचचत्वरे च चपलदृशाम् । छलयति मदनपिशाचः पुरुषं हि मनागपि स्खलितम् ॥ ३३४ ॥ मध्येन सा वेदactive/वेदिविलग्नमध्या वलित्रयं चारु बभार बाला । आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् ॥ ३३५ ॥ अनन्यसाधारणकान्तिकान्ततनोरमुष्याः किमु मध्यदेशः । जगत्त्रयीजन्मभृता निषण्णा चित्तावतीयं त्रिवलीमिषेण ॥ ३३६ ॥ मध्यात्समानीय सुसारभागं वक्षोजमुत्पादयिता विधाता । अतिप्रयत्नात्रिवलीमिषेण सोपानवर्त्मत्रितयं चकार ॥ ३३७ ॥ मत्वा चापं शशिमुखि निजं मुष्टिना पुष्पधन्वा तन्वीमेना तव तनुलता मध्यदेशे बभार । यस्यादत्र त्रिभुवनवशीकारमुद्रानुकारास्तिस्रो भान्ति त्रिवलिकपटादङ्गुलीसन्धिरंखाः ॥ ३३८ ॥

रोमावली

नाभिरन्ध्र प्रविष्टास्या श्यामला रोमवल्लरी । त्रस्ता तिमिरलेखेव मेघलामणिकान्तितः ॥ ३३९ ॥ भाति रोमावली तस्याः पयोधरमगोन्नतो । जाता रखशलाकेव श्रोणीवैदूर्यभूषितः ॥ ३४० ॥ नाभिसङ्गेन गौर्यङ्ग्याः शोभते रोममञ्जरी । कंदर्पहेमकटकाल्लाक्षाधारेव निर्गता ॥ ३४१ ॥ नाभीवलयसंबद्धा रोमाली भाति सुभ्रुवः । सहिता निगडेनेव शृङ्खला खरदन्तिनः ॥ ३४२ ॥ रोमावली विलासिन्याः प्रविष्टा नाभिमण्डलम् । कियदाम्भीर्यमत्रेति तात्पर्यमिव बिभ्रती ॥ ३४३ ॥ लिखन्त्या कामसाम्राज्यशासनं यौवनश्रियः । गलितेव मषीधारा रोमाली नाभिगोलकात् ॥ ३४४ ॥ जाने रात्रिषु तन्मध्ये ददाति शनकैः पदम् । गम्भीरनाभिकुहप्रवेशाशङ्कया स्मरः ॥ ३४५ ॥ कुचदुर्गराजधान्योर्मध्येमार्गं मृगीदृशो मदनः । किमकृत नाभीवापीमपि रोमालीतमालवनरेखाम् ॥ ३४६ ॥ वयसी शिशुतातदुत्तरे सुदृशि स्वामिविधिं विधित्सुनी । विधिनापि न रोमरेखया कृतसीम्नि प्रविभज्य रज्यत ॥ ३४७ ॥ तस्याः प्रविष्टा नतनाभिरन्ध्रं ग्गज तन्वी नवरोमराजिः । नीवीमतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेरिवार्चिः ॥ ३४८ ॥ गौरीव पत्या सुभगा कदाचित्क्रींयमप्यर्धतनूममस्याम् । इतीव मध्ये विदधे विधाता रोमावलीमेचकसूत्रमस्याः ॥ ३४९ ॥ रोमावलीरज्जुमुरोजकुम्भौ गम्भीरमासाद्य च नाभिकूपम् । मदृष्टितृष्णा विरमेद्यदि स्यान्नेषा वतैषा सिचयेन गुप्तिः ॥ ३५० ॥ उन्मूलितालानविलाभनाभिशिखेन्नस्वलच्छृङ्खलरोमदामा । मत्तस्य सेय मदनद्विपस्य प्रस्वापवप्रोच्चकुचास्तु वास्तु ॥ ३५१ ॥ रोमावलिभ्रुकुसुमैः स्वमौर्वीचापेषुभिर्मध्यललाटमूर्तिः । व्यस्तैरपि स्यात्सुभिरेतदीयैर्जैत्रः स चित्रं रतिजानिवीरः ॥ ३५२ ॥ गभीरनाभीहदसन्निधाने रराज तन्वी नवरोमराजिः । मुखेन्दुभीतस्तनचक्रवाकद्वन्द्वोज्झिता शैवलमञ्जरीव ॥ ३५३ ॥ स्वर्णावदातद्युतिकायकाण्डे संपूर्णपीयूषमयूखमुख्य । एणीदृश पृष्ठविलम्बिवेणीबिम्बः पुरो राजति रोमराजी ॥ ३५४ ॥ पयोधरस्तावदयं समुन्नतो रसस्य वृष्टि सविधे भविष्यति । अतः समुद्गच्छति नाभिरन्ध्रतो विसारि रोमालिपिपीलिकावलिः ॥ ३५५ ॥ गभीरनाभीहदपार्श्ववर्तिनी विराजते रोमतती मृगीदृशः । मुखारविन्दस्य रसामिलाषिणी द्विरेफपङ्क्तिश्ललितेव नीरवा ॥ ३५६ ॥ समुदितकुचकुम्भमङ्गनाया हृदयमनङ्गमत्तङ्गजोऽधिशेते । तदखिलपदबन्धनाय रोमावलिरिह शृङ्खलिका विलोक्यते यत् ॥ ३५७ ॥ दत्तं मया पदमिदं नवयौवनाय त्वं सत्वर क्वचन शैशव साधयेति । कामस्य हस्तलिखिताक्षरमालिकेव रोमावली विजयते जलजेक्षणाया ॥ ३५८ ॥ नाभीविलान्तरविनिर्गतपन्नगीय सप्रस्थिता नयनखञ्जनभक्षणाय । नासासुदीक्ष्य गरुडभ्रम-

१ वह्निनामान्यम्, पक्षे,-वलिम्
२ रोमावलिरेव पिपीलिकापङ्क्ति

२६८सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

मुद्वहन्ती गुप्तेव पीनकुचपर्वतयोरधस्तात् ॥ ३५९ ॥ अतिबहुलतरलज्जाशृङ्खलाबद्धपादो मदननृपतिवाहो यौवनोन्मत्तहस्ती । प्रकटितकुचकुम्भो लोमराजीकरेण पिबति सरसि नाभीमण्डलाख्ये पयांसि ॥ ३६० ॥ रचयति युवनेत्रक्षेत्रपीयूषवृष्टिं नवजलधररेखा रोमराजिच्छलेन । यदुदयति कलापिप्रक्रियेयं तदुच्चैः स्तनघनसमयोऽस्यामाविरस्तीति विद्मः ॥ ३६१ ॥ अमुर्भिर्लावण्यामृतसरसि नूनं मृगदृशः स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतित । यदङ्गाङ्गाराणां प्रथमपिशुना नाभिकुहरे शिखा धूमस्येयं परिणमति रोमावलिमिषात् ॥ ३६२ ॥ इयं सृष्टा चञ्चत्कनकलतिका पङ्कजभुवा निषिक्ता लावण्यामृतसरसभरेणानुदिवसम् । अकस्माद्रोमालीमधुपपटलीह स्फुरति यत्तत शङ्के पुष्पोद्गमममयमायातमधुना ॥ ३६३ ॥ हरक्रोधज्वालाव लिभिरवलीढेन वपुषा गभीरे ते नाभीसरसि कृतझम्पो मनसिज । समुत्तस्थौ तस्मादचलतनये धूमलतिका जनस्ता जानीते तव जननि रोमावलिरिति ॥ ३६४ ॥ निर्णेतव्यो मनसिजकलातन्त्रसिद्धान्तसारो जेतव्या च त्रिदशसुदृशामङ्गलावण्यलक्ष्मीः । रोमश्रेणीलिखनसुभगं पत्रमादर्शयन्ती पत्रावलम्बं जगति कुरुते सुभ्रुवो यौवनश्रीः ॥ ३६५ ॥ उत्तुङ्गस्तनपर्वतादवतरद्गङ्गेव हारावली रोमाली नवनीलनीरजरुचिः सेयं केलिन्दात्मजा । जातं तीर्थमिदं सुपुण्यजनकं यत्रानयोः सङ्गमश्चन्द्रो मज्जति लाञ्छनापहृतये नून नैखाङ्कच्छलात् ॥ ३६६ ॥ उत्तुङ्गस्तनभार एष तरले नेत्रे चले भ्रूलते रागान्वेषु तदोष्ठपल्लवमिदं कुर्वन्तु नाम व्यथाम् । सौभाग्याक्षरपङ्क्तिरेव लिखिता पुष्पायुधेन स्वयं मध्यस्थापि करोति तापमधिकं रोमावली केन सा ॥ ३६७ ॥ यूना धैर्यतृणाङ्कुरं कवलयन् व्रीडाम्बुपूर पिबन् शृङ्गारगे हरिणस्तव स्तनगिरेः सीमानमारोहति । नामे. काचन तस्य निःसृतवती कस्तूरिकामलिका रोमश्रेणिमहोत्सव वितनुते कल्याणि जानीमहे ॥ ३६८ ॥ सौन्दर्यस्य मनोभवेन गणनारेखा किमेषा कृता लावण्यस्य विलोकितुं त्रिजगतामेषा किमुद्रीविका । आनन्दद्रुमकन्दली नयनयोः कि वा समुज्जृम्भते सुन्दर्याः किमु वा स्वभावसुभगा रोमालिरुन्मीलति ॥ ३६९ ॥

पृष्ठभागः

अस्याः खलु ग्रन्थिनिबद्धकेशमल्लीकदम्बप्रतिबिम्बवेशात् । स्मरप्रशस्ती रजताक्षरेय पृष्ठस्थलीहाटकपट्टिकायाम् ॥ ३७० ॥

नितम्बः

तन्नितम्बस्य निन्दन्ति वृद्धि परिजनारङ्गनाः । काञ्चीनवनवग्रन्थिग्रथनेन कदर्थिताः ॥ ३७१ ॥ नितम्बबिम्बं बिम्बोष्ठी चन्द्रकान्तशिलाघनम् । धत्ते कंदर्पदोःस्तम्भ-प्रशस्तिफलकोपमम् ॥ ३७२ ॥ विस्तारिणा मुहुस्तस्याः श्रोणीबिम्बेन पीडिता । त्रुटिता त्रुटितास्मीति फूत्करोतीव मेखला ॥ ३७३ ॥ अपर्याप्तसुजायायः सखेदोऽस्याः सखीजन । श्रोण्या कथंचित्कुरुते रशनादामबन्धनम् ॥ ३७४ ॥ नितम्बगौरवेणासौ गौराङ्गी खिद्यते दृढम् । हारयत्यपरिस्यन्दा कन्दुकं क्रीडितेषु यत् ॥ ३७५ ॥ स कथं न स्पृहणीयो विषयस्तैस्तन्नितम्बविन्यासः । शान्तात्मनापि विहितं विश्वसृजा गौरवं यत्र ॥ ३७६ ॥ पृथुवर्तुलतन्नितम्बकृन्मिहिरस्यन्दनगिल्पशिक्षया । विधिरेककचक्रचारिण किमु निर्मल्सति मान्मथं रथम् ॥ ३७७ ॥ चक्रेण विश्वं युवि मत्स्यकेतुः पितुर्जिनं वीक्ष्य सुदर्शनेन । जगज्जिगीषत्यमुना नितम्बद्वयेन किं दुर्लभदर्शनेन ॥ ३७८ ॥ रोमावलीदण्डनितम्बचक्रे गुणं च लावण्यजलं च बाला । तारुण्यमूर्ते कुचकुम्भकर्तुर्बिभर्ति शङ्के सहकारिचक्रम् ॥ ३७९ ॥

काञ्ची

बद्धा मणिमयकाञ्ची तस्या परिणाहशालिनि नितम्बे । पङ्किरिव सारसाना सुरसरित. पुलिनमण्डलाभाेंगे ॥ ३८० ॥ स्रस्ता नितम्बादवरोपयन्ती पुनः पुनः केसरपुष्पकाञ्चीम् । न्यासीकृता स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य ॥ ३८१ ॥

जघनम्

तस्याः पद्मपलाशाक्ष्यास्तन्व्यास्तज्जघनं घनम् । दृष्टं सखीभिर्यास्मिताः पुम्भावं मनसा ययुः ॥ ३८२ ॥ अनङ्गरङ्गपीढोऽस्याः शृङ्गारखर्णविष्टर. । लावण्यसारसघात. सा घना जघनस्थली ॥ ३८३ ॥ तदीयजघनाभोगगरिमा विस्मयास्पदम् । दूरपाती पृषत्कोऽभूद्येनानङ्गस्य साङ्गना ॥ ३८४ ॥ वपुरनुपमं नामेरूर्ध्वं विधाय मृगीदृशो लॅलितललितैरङ्गन्यासैः पुरा रभसादिव । तदनु सहसा खिन्नेनेव प्रजापतिना भृशं पृथुलपृथुला स्थूलस्थूला कृता जघनस्थली ॥ ३८५ ॥

मदनमन्दिरम्

अङ्गेन केनापि विजेतुमस्मा गवेष्यते कि चलपत्रपत्रम् । न चेद्विशेषादितरच्छदेभ्यस्तस्यास्तु कम्पस्तु कुतो भयेन ॥ ३८६ ॥ गौरमुग्धवनितावराज्के रेजुरुत्थिततनूरुहाङ्कुराः । तर्पणाय मदनस्य वेधसा स्वर्णशुक्तिनिहितास्तिला इव ॥ ३८७ ॥

ऊरू

मन्ये तदूरू संभाव्य हस्तसर्वस्वहारिणौ । वहन्त्यस्पृश्यताहेतोर्मातङ्गत्वं मतङ्गजा. ॥ ३८८ ॥ लम्भिातः कदलिस्तम्भास्तदूरुभ्या पराभवम् । अत्यन्तमृदुमिर्लभ्यो जडै. क जयडिण्डिम. ॥ ३८९ ॥ ऊरूः कुरङ्गकदशश्चश्च-

१ कृतोन्मज्जन २ यमुना ३ नखव्रणच्छलेन
१ प्रशान्तमनसा २ ब्रह्मणा ३ अत्यन्तसुन्दरै ४ श्रान्तेनेव

तरुणीपृथगवयववर्णनम्

लचेलाञ्चलो भाति । सपताकः कनकमयो विजय-
स्तम्भ स्मरस्येव ॥ ३९० ॥ तरुमुरुयुगेन सुन्दरी किमु
रम्भा परिणाहिना परम् । तरुणीमपि जिष्णुरेव ता धनदा-
पत्यतपःफलस्तनीम् ॥ ३९१ ॥ रम्भापि किं चिह्नयति
प्रकाण्डं न चात्मनः खेन न चैतदूरू । खस्यैव येनो-
परि सा ददाना पत्राणि जागर्त्यनयोर्भ्रमेण ॥ ३९२ ॥
विधाय मूर्धानमधश्चरेन्मुञ्चेत्तपोभिः स्वमसारभावम् ।
जाड्यं च नाल्वेकदली बलीयस्तदा यदि स्यादिदमूरुचारु
॥ ३९३ ॥ ऊरुप्रकाण्डद्वितयेन तस्याः करः पराजीयत
वारणीयः । युक्तं ह्रिया कुण्डलनच्छलेन गोपायति स्वं
मुखपुष्करं सः ॥ ३९४ ॥ अस्या मुनीनामपि मोदमूहे भृगु-
र्महान् यत्कुचशैलशैली । नानारदाह्लादि मुखं श्रितोरूर्व्यासो
महाभारतसर्गयोग्यः ॥ ३९५ ॥ पश्यन्हतो मन्मथबाणपातैः
शक्तो विधातुं न निमील्य चक्षुः । ऊरू विधात्रा हि कथं
कृतौ तौ विन्यासवत्या सुमतेर्वितर्के ॥३९६॥ नागेन्द्रहस्त-
स्त्वचि कर्कशत्वादेकान्तशैत्यात्कदलीविशेषाः । लब्ध्वापि लोके
परिणाहि रूपं जातास्तदूरूपममानबाह्याः ॥ ३९७ ॥ कदली
कदली करभः करभः करिराजकरः करिराजकरः । भुवन-
त्रितयेऽपि बिभर्ति तुलामिदमूरुयुगं न चमूरुदृशः ॥ ३९८ ॥

जङ्घे

जङ्घे तदीये सतापं यज्जनस्यानुरागिणः । जनयाञ्चक्रतु-
स्तीव्रं तत्र हेतुर्विलोमता ॥ ३९९ ॥ हेममञ्जीरमालाभ्यां
भाति जङ्घालताद्वयम् । लावण्याय कृतास्नानं कुङ्कुमेनेव
सुभ्रुवः ॥ ४०० ॥ वृत्तानुपूर्वे च न चातिदीर्घे जङ्घे शुभे
सुष्ठवतस्तदीये । शेषाङ्गनिर्माणविधौ विधातुर्लावण्य उत्पाद्य
इवास यत्नः ॥ ४०१ ॥ क्रमोद्गता पीवरताधिजङ्घं वृक्षाधि-
रूढं विदुषी किमस्याः । अपि भ्रमीभङ्गिभिरावृताङ्गं वासो
लतावेष्टितकप्रवीणम् ॥ ४०२ ॥

चरणौ

अमूल्यस्य मम स्वर्णतुलाकोटिद्वयं कियत् । इति
कोपादिवाताम्रं पादयुग्मं मृगीदृशः ॥ ४०३ ॥ जाग्रतः
कमलालक्ष्मीं यज्जग्राह तदद्भुतम् । पादद्वन्द्वस्य मत्तेम-
गतिस्तेये तु का स्तुतिः ॥ ४०४ ॥ स्तनभारोऽत्र वक्त्रेन्दु-
चन्द्रिकावरणं मम । इति तत्पादयोर्लग्ना वेन्नि प्राङ्गणपद्मिनी
॥ ४०५ ॥ अल्पपूर्वस्य रागस्य पूर्वपक्षाय पल्लवाः ।
पद्मानि पादयुग्मस्य प्रत्युदाहरणानि च ॥ ४०६ ॥ दृश्यन्ते
मानसोत्तंसा राजहंसाः क्वचिद्यदि । गतौ चरणयोस्तस्याः
प्रक्ष्यते यावदन्तरम् ॥ ४०७ ॥ नितम्बपीड्यमानेन पाद-
युग्मेन सुभ्रुवः । कृता भृकुटिभङ्गीव नीलनूपुरमालया
॥ ४०८ ॥ चरणकमले तदीये लाक्षाबालातपेन सवलितम् ।
अध्यास्त भृङ्गमालावेलिभिर्मणिलचितनूपुरव्याजान् ॥४०९॥
अनुरणन्मणिमेखलमविरलसिञ्जानमञ्जुमञ्जीरम् । परिसरण-
मरुणचरणे रणरणकमकारणं कुरुते ॥ ४१० ॥ दशकैरवबा-
न्धवान्दधानौ जडसंसर्गविमुक्तिसावधानौ । चरणौ नलिनेन
तोलयन्तः कथमस्या कवयो न यान्ति लज्जाम् ॥ ४११ ॥
अभ्युद्यताङ्गुष्ठनखप्रभाभिर्निक्षेपणाद्रागमिवोद्विरन्तौ । आज-
ह्रतुस्तच्चरणौ पृथिव्यां स्थलारविन्दश्रियम्व्यवस्थाम् ॥४१२॥
अस्याः पदौ चारुतया महान्तावपेक्ष्य सौक्ष्म्याल्लवभावभाजः ।
जाता प्रवालस्य महीरुहाणां जानीमहे पल्लवशन्द-
लब्धिः ॥ ४१३ ॥ जगद्वधूमूर्धसु रूपदर्पायदेतयाधायि
पदारविन्दम् । तत्सान्द्रसिन्दूरपरागरागैर्द्वयं प्रवालप्रबलारुणं
तत् ॥ ४१४ ॥ यानेन तन्व्या जितदन्तिनाथौ पदाम्बु-
राजौ परिशुद्धपार्ष्णी । जाने न शुश्रूषयितुं स्वमिच्छू नतेन
मूर्ध्ना कतरस्य राज्ञः ॥ ४१५ ॥ प्रियासखीभूतवतो मुदेदं
व्यधाद्विधिः साधुदशत्वमिन्दोः । एतत्पदच्छद्मसरागप-
द्मसौभाग्यभाग्यं कथमन्यथा स्यात् ॥ ४१६ ॥

गुल्फौ

अरुन्धतीकामपुरंध्रिलक्ष्मीजम्भद्विषद्दारनवाम्बिकानाम् ।
चतुर्दशीयं तदिहोचितैव गुल्फद्वयासा यददृश्यसिद्धिः ॥४१७॥

पादाङ्गुल्यः

एष्यन्ति यावद्गुणनादिगन्तान्नृपाः स्मरार्ताः शरणं प्रवेष्टुम् । इमे
पदाम्जे विधिनापि सृष्टास्तावत्य एवाङ्गुलयोऽत्र रेखाः ॥४१८॥

नखाः

तस्याः पादनखश्रेणी शोभते किल सुभ्रुवः । रत्नावलीव
लावण्यरत्नाकरसमुद्गता ॥ ४१९ ॥ तत्पादनखरखानां
यदवलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः
॥ ४२० ॥ तद्वक्त्रं नेत्रपद्मं प्रकटितममकृत्सार्पितं यन्मथैत-
ज्जातं तस्मात्कृशाश्वं ग्रहणमपि ततो जायमानः कलङ्कः ।
तत्सर्वं क्षम्यतां मे पुनरपि न करोम्येवमुक्त्वा तु तस्या गाढं
लग्नः शशाङ्कश्चरणनखमणिच्छद्मना पादयुग्मम् ॥ ४२१ ॥

गमनम्

सलीलमिममायान्ती कामिनी गजगामिनी । उन्नतं
हि नखज्योतिः पुष्पैर्भुवमिवार्चति ॥ ४२२ ॥ मारयन्त्या
जनं सर्वं निरागसमिवाज्ञया । मातङ्गानां गतिर्याहक्ता-
दृगासीदस्यायम् ॥ ४२३ ॥ सा राजहंसैरिव सन्नताङ्गी
गतेषु लीलाञ्चितविक्रमेषु । व्यनीयत प्रत्युपदेशलुब्धैरादि-
त्सुभिर्नूपुरसिञ्जितानि ॥ ४२४ ॥ गुरुतरकलनूपुरानुनादं
सललितनर्तितवामपादपद्मा । इतरदनतिलोलमादधाना
पदमथ मन्मथमन्थरं जगाम ॥ ४२५ ॥

जृम्भा

चक्रीकृतभुजगतिकं वक्रीकृतवक्त्रमुन्नमद्ग्रीवम् । नो
हरति कस्य हृदयं हरिणदृशो जृम्भणारम्भः ॥ ४२६ ॥

¹ शुण्डा ² नियमेन ³ सुवर्णस्य विंशतिपलात्मकस्य तुला-कोटिद्वयम्, पक्षे,-पादाङ्गदद्वयम्

२७० सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्

आस्येन्दोः परिवेषवद्रतिपतेश्चाम्पेयकोदण्डवद्धम्मिल्लाम्बुमुचः
क्षणद्युतिवदासज्जौ क्षिपन्ती भुजौ । विश्लिष्यद्गलि लक्ष्य-
नाभि विगलन्नीव्युन्नमन्मध्यमं किंचित्किंचिदुदञ्चदञ्चलमहॊ
कुम्भस्तनी जृम्भते ॥ ४२७ ॥

निद्रा

सार्थकानर्थकपदं ब्रुवती मन्थराक्षरम् । निद्रार्धमी-
लिताक्षी सा लिखितेवास्ति मे हृदि ॥ ४२८ ॥

उत्तानामुपधाय बाहुलतिकामेकामपाङ्गश्रितामन्यामप्यलसा निधाय
विपुलाभोगॊ नितम्बस्थले । नीवीं किंचिदिव श्लथा
विदधती निःश्वासलोलालका तल्पोत्पीडनतिर्यगुन्नतकुचं
निद्राति शातोदरी ॥ ४२९ ॥

आमीलन्रवनीलनीरजतुलमातम्बते लोचनं शैथिल्यं नवमल्लिकामहचरैरङ्गैर्पि
स्वीकृतम् । आलापाद्धर स्फुरत्कलयति प्रेङ्खत्ववालोपमामा-
नन्दप्रभवाश्च बाष्पकणिका मुक्ताश्रियं बिभ्रति ॥ ४३० ॥

कान्तिः

सुन्दरी मा भवत्येष विवेकः केन जायते । प्रभामान्रे
हि तरलं दृश्यते नान्र नाश्रयः ॥ ४३१ ॥

अवयवेषु परस्परविभ्वितेष्वतुलक्रान्तिषु राजति यत्तनौ । अयमयं प्रवि-
भाग इति स्फुटं जगति निश्चिनुते चतुरोऽपि कः ॥ ४३२ ॥

समग्रस्त्रीस्वरूपवर्णनम्

सा दृष्टा यैनै वा दृष्टा मुषिताः सममेव ते । हृदयं
हृतमेकेषामन्येषा चक्षुषोः फलम् ॥ १ ॥

सुखेन चन्द्रकान्तेव महानीलैः शिरोरुहै । पादाभ्या पद्मरागाभ्या
रेजे रत्नमयीव सा ॥ २ ॥

गुरुणा स्तनभारेण सुखचन्द्रेण भास्वता । शनैश्चराभ्या पादाभ्या रेजे ग्रहमयीव सा
॥ ३ ॥

फलायते कुचद्वन्द्वमियं हेमलतायते । अङ्गानि
कुसुमायन्ते मनो मे अमरायते ॥ ४ ॥

वक्रे गुरुत्वं यदि ते छन्दःशास्त्रविदो विदु । कठिने कुचयुग्मेऽस्या वदता
किं नु हीयते ॥ ५ ॥

विकसन्नेत्रनीलाब्जे तथा तन्व्याः स्तनद्वयी । तव दत्ता सदा मोद लसत्तरलहारिणी ॥ ६ ॥

दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी । केशपाशालिवृन्देन
सुवेषा हरिणेक्षणा ॥ ७ ॥

अकृशं नितम्बभागे क्षामं मध्ये समुन्नतं कुचयोः । अत्यायत नयनयोर्मम जीवितमेतदायाति
॥ ८ ॥

अव्याजसुन्दरीं ता विज्ञानेनाद्भुतेन योजयता ।
उपकल्पितो विधात्रा बाणः कामस्य विषदिग्धः ॥ ९ ॥

आलोक्य चिकुरनिकरं सततं सुमनोधिकासयोग्यं ते ।
कामो निज निष्षङ्गं परित्यत्य पराचकर्ष साशङ्कः ॥ १० ॥

आलपति पिकवधूरिव पश्यति हरिणीव चलति हंसीव ।
स्फुरति तडिल्लतिकेव स्वदते तुहिनशुंशुरेखेव ॥ ११ ॥

वेणीबन्धमहीनं कृष्णं नेत्रान्तमचलहूपं तम् । कुचमस्याः
स्वीकुर्वन्नपुरुपो लीला वहत्यहो शंभोः ॥ १२ ॥

अङ्गं भूषणनिकरो भूषयतीत्येष लौकिको वादः । अङ्गानि
भूषणाना कामपि सुषमामजीजनंस्तस्याः ॥ १३ ॥

सौरभमम्भोरुहवन्मुखस्य कुम्भाविव स्तनौ पीनौ । हृदयं मदयति
वदनं तव शरदिन्दुर्थया बाले ॥ १४ ॥

मधुरः सुधावदधरः पल्लवतुल्योऽतिपेलवः पाणिः । चकितमृगलोचनाभ्या सदृशी
चपले च लोचने तस्या ॥ १५ ॥

कलयति कुवलयमाला-ललितं कुटिलः कटाक्षविक्षेपः । अधरः किसलयलीलामानन-
मस्याः कलानिधिविलासम् ॥ १६ ॥

तरुणिमनि कलयति कलामनुमदनधनुर्ध्रुवोः पठत्यग्रे । अधिवसति सकलललना-
मौलिमिमं चकितहरिणचलनयना¹ ॥ १७ ॥

नयनयुगासेचनकं मानसवृत्त्यापि दुष्प्रापम् । रूपमिद मदिराक्ष्या
मदयति हृदयं दुनोत्यपि च ॥ १८ ॥

संन्यस्तभूषापि नैवैव नित्यं विनापि हार हसतीव कान्त्या । मदं विनापि
स्खलतीव भावैर्वाच विना व्याहरतीव दृष्ट्या ॥ १९ ॥

भ्रयुग्मरुचैर्धनु रुज्ज्वितजय बाणाः कटाक्षाः कुटिला निता-
न्तम् । तथापि यूना हृदयं भिनत्ति कोऽयं विलासो वनिता-
जनस्य ॥ २० ॥

अलीकरूपो यदि मध्यभागः पयोधरा-
कारभृतश्च केशाः । उत्सङ्गशोभापि सरोरुहाक्ष्याः करस्य
शोभा कलयेन्न कस्मात् ॥ २१ ॥

सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदेशं विनिवेशितेन । सा निर्मिता विश्वसृजा प्रयत्ना-
देकस्थसौन्दर्यदिदृक्षयेव ॥ २२ ॥

प्रत्यङ्गमस्यामभिकेन रक्षां कर्तु मघोनेव निजास्रमस्ति । वज्रं च भूषामणि-
मूर्तिधारि नियोजितं तद्द्युतिकार्युकं च ॥ २३ ॥

भ्रूश्चित्ररेखा च तिलोत्तमास्या नासा च रम्भा च यदूरुसृष्टिः ।
दृष्टा ततः पूरयतीयमेकानेकाप्सर प्रेक्षणकौतुकानि ॥ २४ ॥

कर्णाक्षिदन्तच्छदबाहुपाणिपदादिनः खाखिलतुल्यहेतुः ।
उद्वेगभागद्वयताभिमानादिहैव वेधा व्यधित द्वितीयम्
॥ २५ ॥

यशः पदाङ्गुष्ठनखौ मुखं च बिभर्ति पूर्णेन्दुचतु-
ष्टयं या । कलाचतुःषष्टिरुपैति वास तस्या कथ सुभ्रुणि
नाम नास्याम् ॥ २६ ॥

कात्र्स्न्येन निर्वर्णयितुं च रूप-
मिच्छन्ति तत्पूर्वसमागतानाम् । न तु प्रियेष्वायतलोचनाना
समग्रपातीनि विलोचनानि ॥ २७॥

यतो यतोऽङ्गादपयाति कञ्चुकस्ततस्ततः स्वर्णमरीचिवीचयः । यतो यतोऽस्या
निपतन्ति दृष्टयस्ततस्ततः श्यामसरोजवृष्टयः ॥ २८ ॥

तदा तदङ्गस्य बिभर्ति विश्रमं विलेपनामोदसुचः स्फुरद्रुचः ।
दरस्फुरत्काञ्चनकेतकीदलात्सुवर्णमभ्यस्यति सौरभं यदि
॥ २९ ॥

अधरे मधुग सरस्वतीयं ननु कर्णे मणिकर्णिकाप्र-
वाह । शिरसि प्रतिभाति चारुवेणी कथमेणीनयना न

¹ हरिणनयना

समग्रस्त्रीस्वरूपवर्णनम् २७१

तीर्थराजः ॥ ३० ॥ वेणी विडम्बयति मत्तमधुव्रतालीम- ङ्गीकरोति गुणमैन्दवमाक्षमस्सा । बाहू मृणाललतिकाश्रिय- माश्रयेते पुङ्खानुपुङ्खयति कामशरान्कटाक्षः ॥३१॥ बन्धूक- बन्धुरधर सितकेतकाभ चक्षुर्मधूककलिकाप्रचुरः कपोलः । दन्नावली विजितडाडिमबीजजिगम्ये पुनर्विकचपङ्कज- दत्तदास्यम् ॥ ३२ ॥ येनोत्पलानि च शशी च मृणालि- काश्च रम्भालताश्च कमलानि च निर्मितानि । नूनं स एव मृगशावदृशोऽपि वेधा सृष्टिकमो यदयमेकतया चकास्ति ॥ ३३ ॥ मा रामणीयकनिधेरधिदेवता वा सौन्द- र्यमारसमुदाय निकेतनं वा । तस्या सखे नियतमिन्दुसुधा- मृणालज्योत्स्नादि कारणमभून्मदनश्च वेधाः ॥ ३४ ॥ राजीव जीवसि सुधा न सुधाकर त्वमस्याः समः पदनखस्य कुतो मुखस्य । अग्रे दृशोर्मृगदृश कतमः कुरङ्गस्तत्खञ्जन- त्वमपि कि जनरञ्जनाय ॥ ३५ ॥ सा दुग्धमुग्धमधुरच्छवि- रञ्जयष्टिस्ते लोचने तरुणकेतकपत्रदीर्घे । कम्बुविडम्बन- कण्ठश्च स एव कण्ठ सेवेयमिन्दुवदना मदनायुधं वा ॥ ३६ ॥ ऊरुद्वय मृगदृशः कदलीश्च काण्डौ मध्यं च वेदिर्- तुल स्तनयुग्ममस्या । लावण्यवारिपरिपूरितशातकुम्भकुम्भौ मनोजनृपतेरभिषेचनाय ॥ ३७ ॥ तन्वी शरन्त्रिपथगा- पुलिने कपोलौ लोले दृशौ रुचिरचञ्चलखञ्जरीटौ । तद्धन्ध- नाय सुचिरात्पितृसुश्रूचापचाण्डालपाशयुगलाविव शून्यकर्णौ ॥ ३८ ॥ व्याकोशकोकनदशोककरः करोऽयं खेल- ञ्चकोरमयचोरमिदं च चक्षुः । उद्भिन्नविद्रुमरहसहरोऽ- धरोऽयं तत्सादृश्यमपि वश्यमवश्यमस्याः ॥ ३९ ॥ मुख यदि किमिन्दुना यदि चलाञ्चले लोचने किमु- त्पलकदम्बकैर्यदि तरङ्गभङ्गी भ्रुवौ । किमात्मभवधन्वना यदि सुसायताः कुन्तलाः किमम्बुरुहडम्बरैयदि तनूरियं कि श्रिया ॥ ४० ॥ इदं वक्त्रं साक्षाद्विरहितकलङ्कः शशधरः •सुधाधाराधारश्चिरपरिणतं विम्बमधरः । इमे नेत्रे रात्रिदिव- मधिकशोभे कुवलये तनुर्लावण्याना जलधिरवगाहे सुखतरः ॥ ४१ ॥ विनैवाम्भोवाह बहलरुचिदीप्ताम्बरलतात्तडिल्लेखा हेमद्युतिविततिरम्या विलसति। विनैव स्वर्गङ्गा नभसि रमस- व्यग्रशफरीपरीवर्ते सार्थ स्फुरति विकचेन्दीवरवनम् ॥४२॥ तमःस्तोमः पूर्वं तदनु सकलः शीतकिरणस्ततः कोकद्वन्द्वं तदनु च न किञ्चित्पुनरभूत् । अधस्तस्यावर्तस्तदनु कदली- काण्डयुगल ततोऽवाञ्चौ पद्मौ शिवशिव विधेः शिल्परचना ॥ ४३ ॥ पदाभ्यामुन्निद्रामधयति शोणाम्बुजरुचि कराभ्या- मादत्ते नवकिसलयानामरुणताम् । प्रवालस्य च्छाया दशन- वसनाग्रेण पिबति सितज्योत्स्नापूरैरुपहसति कान्ति हिमरुचेः ॥ ४४ ॥ बह्वल्यस्या दृष्टिविकचनवनीलोत्पलतुलामखण्ड- स्यामिस्या वदनमिदमिन्दोः कलयति । कुचौ किञ्चिन्मी- लत्कमलतुलना कन्दलयतस्तम शोभा चित्रा चिकुरनिकुरम्ब हि कुरुते ॥ ४५ ॥ कर वेणीमेणीमदगणयना स्नानविग्नौ ददाना हर्म्याग्रे हरनयनतेजोहुतमाप । अथ मुग्धा दुग्धा- म्बुविवहलकलोलमदृशा दृशा वारंवार मनसिजतरु पल्लवयति ॥ ४६ ॥ दायादस्त्व मनसिजधनुर्धवलामस्य वंत्त योग- क्षेमौ वहति नयनद्वन्द्वमिन्दीवगणाम् । तद्गात्राणा पुनरिह जगज्जैत्रलावण्यभाजामामालंग्यं मरुवदखिल म्लानवर्णं सुवर्णम् ॥ ४७ ॥ नीलाञ्जाना नयनयुगलद्राघिमा दत्तपत्रः कुम्भावेमौ कुचपरिकर पूर्वपक्षीचकार । भ्रूविश्रान्तिर्मदन- धनुषो विश्रमानन्ववादीद्वक्रज्योत्स्ना शशधररुच दूषयामाम तन्या ॥ ४८ ॥ तन्वी श्यामा शिखरदशना पक्वबिम्बाध- रोष्ठी मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः। श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्या या तत्र स्याद्युवतिविषये सृष्टिराद्येव धातु ॥ ४९ ॥ वापी कापि स्फुरति गगने तत्पर सूक्ष्मपँद्या सोपोनालीमधिगतवती काञ्चनीमैन्द्रनीली । अग्रे शैलौ सुंकृतिसुगमौ चन्दनच्छन्न- देशौ तत्रत्याना सुलभममृतं सनिधानात्सुधाशोः ॥ ५० ॥ तद्वक्त्रं यदि मुद्रिता शशिकथा तच्चेत्स्मितं का सुधा तच्चक्षु- र्यदि हारित कुवलयैस्ताश्चेद्गिरो धिग्धधु । धिकन्दर्पधनु- र्भ्रुवौ यदि च ते कि वा बहु ब्रूमहे यत्सत्य पुनरुक्तवस्तु- विरसः सर्गक्रमो वेधसः ॥ ५१ ॥ सौरभ्यं मृगलाञ्छने यदि भवेदिन्दीवरे वक्रता माधुर्यं यदि विद्रुमे तरलता कन्दर्पचापे यदि । रम्भाया यदि विप्रतीपगमनं प्राप्तोपमानं तदा तद्वक्त्रं च तदीक्षणं तदधरस्तद्भूरूरुयुग्मं ॥ ५२ ॥ वेणीवेल्लनमङ्गगं किसु वलन्नेणीदृशो मध्य मं सव्यानं किमिदं विवृत्तिविषमाद्भासः स्तनात्त्रसते । नृत्यन्तीव किमन्तिके वलितयो स्निग्धा दृशोः कान्तयः साक्रतसितगर्भितं किसु मुखं वक्तुं सखी वाञ्छति ॥ ५३ ॥ बाहू द्वौ च मृणाल- मास्यकमल लावण्यलीलाजलं श्रोणीतीर्थशिला च नेत्रशफरी- धम्मिल्लशैवालकम् । कान्ताया स्तनचक्रवाकयुगल कन्दर्पबाणानलौर्दुग्धानाभवगाहनाय विधिना रम्यं सरो निर्मितम् ॥ ५४ ॥ जिघ्रत्याननमिन्दुकान्तिरधर बिम्बप्रभा चुम्बति स्पृष्टुं वाञ्छति चारुपद्ममकुलच्छायाविशेष. स्तनौ । लक्ष्मीः कोकनदस्य खेलति करावालम्ब्य कि चादरा-

१ तद्गम्भीरा नाभि २ सूक्ष्मंतया तदङ्गलक्ष्ये मध्ये ३ सरणि-स्तच्छायारोमावली ४ सोपानपङ्क्ति तत्सदृशी त्रिवलीम् ५ कुचौ. ६ पुण्यकृता सुगम्यौ, पक्षे,-सुलभगमनौ ७ चन्दनतरुभि, पक्षे,-चन्दनपङ्केन ८ बिसम् ९ मत्स्यी

२७२सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

देतस्याः सुदृशः करोति पदयोः सेवां प्रवालद्युतिः ॥ ५५ ॥
कर्णारुतमुदमेव कोकिलरुतं तस्या श्रुते भाषिते चन्द्रे लोक-
रुचिस्तदाननरुचेः प्रागेव संदर्शनात् । चक्षुर्मीलनमेव तन्न-
यनयोर्ये मृगोणा वरं हैमी वल्लवपि तावदेव ललिता
यावन्न सा लक्ष्यते ॥ ५६ ॥ चक्षुर्मंचकमम्बुजं विजयते
वक्त्रस्य मित्रं शशी श्रूस्तूत्रस्य र्नाभि मन्मथधनुर्लावण्य-
पण्यं वपुः । लेखा कापि रहन्छदे च सुतनोर्गाने च तत्का
मिनीमैना वर्णयिता खरो यदि भवेद्द्रुग्धम्धमभ्यस्यति
॥ ५७ ॥ स्निग्धस्मेरविलोलोमुग्धमधुग यन्नयनोर्विश्रभा
यद्यामृतविलासपत्रलतिका घर्मोद्गमाद्गण्डयोः । यच्च ग्राढ-
कदम्बकुङ्गलसखी काप्यङ्गे विक्रिया तत्तस्या रिमपि
स्फुटं रतिपतेः कोदण्डविस्फूर्जितम् ॥ ५८ ॥ स्निग्वेंन्दी
वलसुन्दरं कक्षमरो वक्रं सगोत्रं विवोर्वक्षोजौ मणिकुम्भ
डम्बरसुषौ मध्योऽस्ति वा नास्ति वा । श्रोणीमण्डलपूरुदुर्यह
महो शोणाब्जतुल्ये पदे मन्ये मञ्जिगिरे मैरालमहिला-
ध्येयो गतेर्विभ्रमः ॥ ५९ ॥ नेत्रोपान्तवसत्सिते श्रुतिपुटे
नीलोत्पलं निष्फलं हार्माश्रीपरिकर्मिते स्तनतटे हारो-
ऽन्यहारः कथम् । पिण्डालक्तकपातनं चरणयोः पीडाफलं
ताम्रयोर्वामाक्ष्या वपुषि स्वभावसुरभौ व्यर्थानुलेपव्यथा
॥ ६० ॥ एतस्याः स्तनपद्मकोरकयुगं यस्याननेन्दोः सित-
ज्योत्स्नाभिर्न भजत्यदो मृगदृशः शङ्के विकासं पुनः ।
तस्मिँल्लोचनपङ्कजं विकसितं भ्रूभङ्गसंसवित् स्वान्ते संशय-
मातनोति सुतरामेतन्ममैवाद्भुतम् ॥ ६१ ॥ पानायाधर-
तोऽमृतं वसतयेऽप्यस्याः स्तनक्ष्माधरोऽधस्तात्सज्जघनान्त-
कन्दरघरः सस्याय चक्षुर्मृगः । जप्यो मन्त्रवरो मनोहरकथा
ध्यानाय वक्राम्बुजं चेत्थं देहतपःस्थले सति कथं सन्तो
वनान्तं गताः ॥ ६२ ॥ कर्णान्तसङ्गविसर्पिणी नयनयोः
कान्तिर्वतसोत्पलं लाक्षासंभ्रमनिरपेक्षम्धर लावण्यमेवा-
ञ्चति । हारोऽस्याः स्मितचन्द्रिकैव कुचयोरङ्गेप्रभाकञ्चुकी
तन्व्याः केवलमङ्गभारमधुना मन्ये परं भूषणम् ॥ ६३ ॥
अस्त्राश्रदलकावली कृतमलि श्रेणीभिरेणीदृशः सौन्दर्य यदि
चक्षुषोस्तरलयोः किं मन्मथस्यायुधैः । का प्रीतिः कनकार-
विन्दमुकुले पीनौ स्तनौ चेदतो मन्ये काचिदियं मनोभव-
कृता माया जगन्मोहिनी ॥ ६४ ॥ ऊर्ध्वं नीरदवृन्द-
मैन्दवमिदं बिम्बं त्वधो निर्मितं व्योम्नः पल्वमचितं तस्य
निहितौ शैलावुपुर्युन्नतौ । किं चाधः पुलिनोच्चयस्य कदली-
काण्डान्ववारोपितौ तन्मन्ये चतुरस्य पुष्पधनुषः सर्गोऽय-
मन्यादृशः ॥ ६५ ॥ भृङ्गालीसुदरे क्षिपन्ति शतशः पद्मानि | शस्त्रीमिव प्रत्यागच्छत्। लङ्घनाथममकृद्द्योमाङ्गणं चन्द्रमाः ।
वक्त्रेणापहृते कुरङ्गसुदृशं खेलाक्यरूपोच्चये प्रत्यावर्तनवाञ्छयेव
कति न क्लेश समातन्वते ॥ ६६ ॥ वक्रं निर्मलमुद्गता
कुचतटी मध्यप्रदेशः कृश श्रोणीमण्डल मङ्गनाकुलगुरोर्देवस्य
सिंहासनम् । कृत्वा चारुतगश्चतुष्टयमिदं तुष्टाव मन्ये
विधिर्हर्षाद्भुद्गद्गद्यपद्यरचनागर्भैश्चतुर्भिर्मुखै ॥ ६७ ॥ मध्य
विष्णुपदं कुचौ शिवपदं वक्रं विधातु पदं धम्मिल्ह. सुमन -
पद प्रविलसत्काञ्ची नितम्बस्थली । वाणी चेन्मधुराधरोऽ
रुणवर, श्रीरङ्गभूमिवपुस्तस्या. कि कथयामि पुण्यचरित
मान्या सदा निर्जरैः ॥ ६८ ॥ यत्तीर्याम्बु मुखाम्बुजामवरसो
नेत्रे नवेन्दीवरे दन्तश्रेणिरखण्डिताक्षतचयो दूर्वा च
रोमावली । उत्तुङ्ग च कुचद्वय फलयुगं पात्रं कराम्मोरुह
तन्मन्ये मदनाचनाहितमति. स्वाङ्गोपहारैरियम् ॥ ६९ ॥
दीर्घाक्षं शरदिन्दुकान्ति वदनं बाहू नतांसयोः सङ्क्षिप्तं
निविडोन्नतस्तनमुर. पार्श्वे प्रमृष्टे इव । मध्यः पाणिमितो
नितम्बि जघन पादावुदङ्गुली छन्दो नर्तयितुर्यथैव
मनस सृष्ट तथास्या वपुः ॥ ७० ॥ नेत्रे खञ्जनगञ्जने सर-
सिजप्रत्यर्थि पाणिद्वय वक्षोजौ करिकुम्भविभ्रमकरीमत्युन्नतिं
गच्छतः । कान्ति काञ्चनचम्पकप्रतिनिधिर्वाणी सुधास्पर्धिनी
खेरेन्दीवरदामसोदरवपुस्तस्याः कटाक्षच्छटा. ॥ ७१ ॥ दृष्टिः
कापि सुरा सुधा स्मितमिदं वक्त्र कलाना निधिवैक्षः कुम्भि
झषौ दृशौ विजयते धन्वन्तरि. सकृपा । कान्तिः श्रीस्त्रि-
वलीतरङ्गलहरी नाभी गतावर्त्ततामेतस्यामचिरेण भाविकलने
लावण्यवारानिधौ ॥ ७२ ॥ कि तारुण्यतरोरियं रसभरो-
द्भिना नवा वल्लरी वेलाप्रोञ्छलितस्य कि ल्हरिका लावण्य-
वारानिधे. । उद्गाढोत्कलिकावता स्वसमयोन्यासविश्व-
म्भिणः कि साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः ॥७३॥
जानीमो वदनं सरोरुहदशो निर्माय पश्यन्मुहुहृष्यन्काम-
कठोरपावकशिखासन्तापित. पद्मभूः । रम्मामूरुतटी स्तनं
रसघटी पीयूषवीची वचो बाहू बालबिस कर किसलयं
नाभी सरो निर्ममे ॥ ७४ ॥ जानीमो वयमासनस्य कमले
तस्या मुखेन्दोस्त्विषा सकोच समुपगते स भगवान्दु.स्थ.
सराजासन । मुञ्च भ्रूलतिकायुग विहितवान्वक्रे दृगौ
सृष्टवान् मध्य विस्मृतवान्कचाश्च कुटिलानावञ्च सृष्टवान्
•॥ ७५ ॥ मुक्ता विद्रुममेन्तरा मधुरमः पुष्पं परं द्यौर्वहं
प्रौलेयद्युतिमण्डले खलु तथोरकांसिका नार्णवे । तच्चोद्गच्छति
शङ्खसूर्ध्नि न पुन. पूर्वाचलाभ्यन्तरे तानीमानि विकल्पयन्ति
त इमे येषा न सा हकपथे ॥ ७६ ॥ इन्दुर्लिप्त इवाञ्जनेन

१ नीलम् २ अश्लेषायाः ३ मोदरम् ४ हसो ५ सज्जवन, पक्षे,-सत् जघन
१ मध्ये २ कवयम् ३ बारवाहकम्, न तु मयूररसयुक्तम् ४ चन्द्रमण्डले ५ एकसिक्तामितार्वास्तति एकाधिकरणमित्यर्थ .

समग्रस्त्रीस्वरूपवर्णनम्, परस्परदर्शनम्, नायकदर्शनम्, नायिकादर्शनम्२७३
जडिता दृष्टिर्मृगीणामिव प्रम्लानाऽरुणिमेव विद्रुमदल श्यामेव
हेमप्रभा । कार्कश्यं कलयो च कोकिलवधूकण्ठेष्विव प्रस्तुत
सुन्दर्याः पुरतश्च हन्त शिखिना बर्हाः सगर्हा इव ॥ ७७ ॥

### परस्परदर्शनम्
स्मरतोरभिलाषकल्पितान्बहुशः स्वप्नभुवः समागमान् ।
अपि दृष्टिपथं प्रपन्नयोर्निविविश्वास चिर मनस्तयोः ॥ १ ॥
आघ्रातं कमल प्रियेण सुदृशा स्वित्वापनीतं सुखं दत्तं
विश्रमकन्दुके नखपदं सीत्कृत्य गूढौ स्तनौ । दत्ता चम्पक-
मालिकोरसि भुजानिर्भिद्यरोमाञ्चया मीललोचनया स्थितं
प्रणयिनोर्दूरेऽपि पूर्णो रसः ॥ २ ॥

### नायकदर्शनम्
न जाने समुखायाते प्रियाणि वदति प्रिये । सर्वाण्य-
ङ्गानि कि यान्ति नेत्रतामुत कर्णताम् ॥ १ ॥ या या प्रिय.
प्रैक्षत कातराक्षी सा सा हिया नम्रमुखी बभूव । निःशङ्क-
मन्याः सममाहितेर्ष्यास्तन्त्रान्तरे जह्रुरमुं कटाक्षैः ॥ २ ॥
काचिन्निवारितबहिर्गमना जनन्या द्रष्टु प्रियं भवनजालकमा-
ससाद । तस्या विलोचनमदृश्यत दीशदत्तयन्त्रोपरुद्दर्शफरोप-
मित क्षणेन ॥ ३ ॥ कृच्छ्रेण कापि गुरुणैव जनेन रोध-
मुल्लङ्घ्य नायकसमीपभुवं प्रतस्थे । हा हन्त शीघ्रगमन-
प्रतिरोधहेतुस्तस्याः पुनः स्तनभरोऽपि गुरुर्बभूव ॥ ४ ॥
नान्तःप्रवेशमरुणद्विमुखी न चासीदाचष्ट दोषपरुषाणि न
चाक्षराणि । सा केवलं सरलपक्ष्मभिरक्षिपातैः कान्तं
विलोकतवती जननिर्विशेषम् ॥ ५ ॥ किञ्चित्कुञ्चितहारयष्टि
सरलभ्रूवल्लि साचिक्षित प्रान्तभ्रान्तविलोचनद्युति भुजापर्य-
स्तकणौत्पलम् । अङ्गुल्या स्फुरदङ्गुलीयककचा कर्णस्य कण्डू-
यनं कुर्वाणा नृपकन्यका सुकृतिनं सव्याजमालोकते ॥ ६ ॥

### नायिकादर्शनम्
प्रियादर्शनमेवास्तु किमन्यैर्दर्शनान्तरैः । प्राप्यते येन
निर्वाण सरागेणापि चेतसा ॥१॥ क्षीरसागरकल्लोललोललोच-
नयानया । असारोऽपि हि संसारः सारवानिव लक्ष्यते ॥२॥
सेयं सीधुमयी वा सुधामयी वा हलाहलमयी वा । दृग्भ्या
निपीतमात्रा मदयति मोदयति मूर्च्छयति ॥ ३ ॥ गच्छति
न तृप्तिमेतत्स्तुललितमक्षा समापिबद्रूपम् । नयनयुगं मम
नूनं संप्रति समुपैति सफलता चैवम् ॥ ४ ॥ जानीमहे-
ऽस्याः खलु सारसाक्ष्या विराजतेऽन्त. प्रियवक्रचन्द्रः । तत्का-
न्तिजालैः प्रसूतैस्तदङ्गेष्वापाण्डुता कुञ्चलताऽक्षिपद्मे ॥ ५ ॥सेयं ममाङ्गेषु सुधारसच्छटा सुपूरकपूरशलाकिका दृशोः ।
मनोरथश्रीमैनस. शरीरिणी प्राणेश्वरी लोचनगोचर गता
॥६॥ तामनङ्गजयमङ्गलश्रिय किचिदुच्चभुजमूललोकिताम् ।
नेत्रयो. कृतवतोऽस्य गोचरे कोऽप्यजायत रसो निरन्तर
॥ ७ ॥ इदमसौ तरलायतलोचना गुरुसमुन्नत्तपीन-
पयोधरा । पृथुनितम्बभरालसगामिनी प्रियतमा मम जीवित-
हारिणी ॥ ८ ॥ इय सुस्तनी मस्तकन्यस्तकुम्भा
कुसुम्भारण चारु वामो वमाना । समस्तस्य लोकस्य
चेतःप्रवृत्ति गृहीत्वा घटे न्यस्य यातीव भाति ॥ ९ ॥
कर्पूरधूलिधवलद्युतिपूरधौतदिङ्मण्डले शिशिररोचिषि तस्य
यूनः । लीलागिरोशुकनिवेशविशेषकक्ष्यिव्यक्तस्तनोन्नतिरभू-
न्नयनाव नौ सा ॥ १० ॥ अर्धस्मितेन विनिमन्द्य दैर्शाधं-
बाणमर्धे विधूय वसनाञ्चलमर्धमार्गे । अर्धेन नेत्रविशिखेन
निवृत्य सार्धमर्धीर्घमेव तरुणी तरुण चकार ॥ ११ ॥
आधाय कोमलकराम्बुजकेलिनालीमालीसमाजमधिकृत्य
समालपन्ती । मन्दस्मितेन मयि साचिविलोकितेन चेतश्चकोर-
नयना चुलुकीचकार ॥ १२ ॥ मदनमपि गुणैर्विशेषयन्ती
रतिख्व मूर्तिमती विभाति येयम् । मम हृदयमनङ्गवह्नि-
तप्तं भृशमिव चन्दनशीतल करोति ॥ १३ ॥ पुर. स्थित्वा
किञ्चिद्दलितमुखमालोकय सखे सखेदा. स्थास्यन्ति ध्रुव-
मिदमदृष्ट्वा तव दृश । इतश्चञ्चत्काञ्चीरणितमुखरात्सौध-
शिखरादराकाया कोऽय कवलयति चान्द्रेण महसा ॥ १४ ॥
अये केय लीलधवलगृहवातायनतले तुँलाकोटिक्काणै.
कुसुमधनुषं जागरयति । अहो नेत्रद्वन्द्व विलसति विलङ्घ्य
श्रुतिमहो कथं न त्रैलोक्यं जयति मदनः खैरवदन. ॥ १५ ॥
तडिल्लेखा नेय विलसति पर सौधशिखरे वसन्त्या. कस्या-
श्चित्कनकरुचिरा गात्रलतिका । अपीदं नोन्मज्जत्कुवलयवनं
मीनतरलं पर तस्या एव स्फुरति नयनालोककलितम् ॥१६॥
सखे सायं स्नात्वा कनकरुचिकौसुम्भवसनं वसानायास्तिर्थ-
ग्वलितचिकुरस्यन्दिसलिलम् । दिशन्त्या दृष्टेयं कुसुमशरको-
दण्डलताकाम कसाद्वाकं मृगशिशुदृगो दर्शनमभूत् ॥१७॥
अमृतममृत चन्द्रश्चन्द्रस्तथाम्बुजमम्बुजं रतिरपि रति काम.
कामो मधूनि मधून्यपि । इति न भजते वस्तु प्रायः पर-
स्परसकरं तदियमबला धत्ते लक्ष्मी कुत. सकलात्मिकाम्
॥ १८ ॥ केय श्यामोपलविरचितोल्लेखहेमैकरत्नैर्मङ्गेः
कनककदलीकन्दलीगर्भगौरै । हारिद्राम्बुद्रवससहचर कान्ति-
पूर वहद्भिः कामक्रीडाभवनवलभीदीपिकेवाविरस्ति ॥ १९ ॥
अर्कच्छाय तिर्य्यति सुधालिप्तविचुन्मतल्ली चक्रप्रख्यं महति

१ धीवर २ मीन
३५ सु. १. भा.१ वक्त्रम् २ मनोवृत्तिम् ३ मदनम् ४ नूपुरध्वनिभि ५ प्रशस्ता-
२७४सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

[वामभागः]

सुषमामण्डले दूरमभ्रम् । रक्तादर्शप्रतिफलमिव श्रीसदङ्गं वहन्ती दृष्टा काचित्तरलनयना देवतेव स्मरस्य ॥ २० ॥ नेयं विद्युद्भवमधिगता काञ्चनी नापि वल्ली मन्दं मन्दं प्रचलति यतो नापि वा पन्नगस्य । चूडारत्नस्फुरदुरुशिखा कापि धत्ते सरोजं का वा तर्हि प्रकृतिसुभगा तत्सखे न प्रतीमः ॥ २१ ॥ वक्त्रोपान्तं नयनयुगलं सर्वतो निक्षिपन्ती श्रोणीभाराच्छिथिलशिथिलन्यस्तपादारविन्दा । आरादालीकरकिसलये दत्तहस्तावलम्बा काचित्कान्त्या विकसितमहीचक्रमय्याति तन्वी ॥ २२ ॥ इय भुजंगिनीश्रिता लसदनेकपुष्पान्विता द्विरेफततिसेविता प्रमदवञ्जनालंकृता । फलद्वयभरानता विलसिता नवै पल्लवैर्र्विलोचनपथं गता भवति कापि हैमी लता ॥ २३ ॥ पातालाद्भवनावलोकनपरा किं नागकन्योत्थिता मिथ्या तत्खलु दृष्टमेव हि मया तस्मिन्कुतोऽस्तीदृशी । मूर्ता स्यादिह कौमुदी न घटते तस्या दिवा दर्शनं केयं हस्ततलस्थितेन कमलेनालोक्यते श्रीरिव ॥ २४ ॥ अच्छिन्नामृतबिन्दुवृष्टिसदृशीं प्रीतिं ददत्या दृशा याताया विगलत्पयोधरभगद्रष्टव्यता कामपि । अस्याश्चन्द्रमसस्तनोरिव करस्पर्शास्पदत्वं गता नैते यन्मुकुलीभवन्ति सहसा पद्मास्तदेवाद्भुतम् ॥ २५ ॥ श्रोणीभारमरालसा दैरगलन्माल्याप्रवृत्तिच्छलाल्लीलोत्क्षिप्तभुजोपदर्शितकुचोन्मीलन्नखाङ्कावलिः । नीलेन्दीवरदामदीर्घतरया दृष्ट्या धयन्ती मनो दूरान्दोलनलोलकङ्कणझणत्कारोत्तरं सर्पति ॥ २६ ॥ लग्न पादतले नखेषु विलुठत्सक्तमूर्वोर्युगे विश्रान्तं जघनस्थले निपतित नाभीसरोमण्डले । शून्यं मध्यमवेक्ष्य रोमलतिकामलम्बमान कदादारूढ स्तनयो. प्लुतं नयनयोर्लीन मनः केशिके ॥ २७ ॥ अस्या धाम सरोवरे भुजबिसे वक्त्रारविन्दे भ्रमन्नेत्रभ्रूभ्रमरे सुयौवनजले कस्तूरिकापङ्किले । वक्षोजप्रतिकुम्भिकुम्भदलनक्रोधादुपैत्य द्रुतं मन्नश्चित्तमतंगजः कथमसावुत्थाय निर्यास्यति ॥ २८ ॥ स्वैर सस्मितमीक्षते क्षणमलं व्याज़म्भते वेपते रोमाञ्चं तनुते मुहुः स्तनतटे व्यालम्बते नाम्बरम् । आलिङ्गत्यपरा तनोति चिकुर प्रत्युत्तर याचते केयं कामकलाविलासवतसित्रैलोक्यलक्षणा भाविनी ॥ २९ ॥ खेलत्खञ्जननेत्रया परिलसत्स्वर्णारविन्दास्यया पीनोत्तुङ्गनिरन्तरस्तनभरव्यालोलसन्मध्यया । स्फीतस्फीतनितम्बया क्षणमपि व्यालोकितश्चानया किं न स्याद्भशिना वरं खरहर सार शङ्गेर्जगत् ॥ ३० ॥ सायं चन्द्रकलामृतोदयगिरिस्पर्धी दधान. स्तनस्पर्शोत्तुङ्गतरो नखाङ्कुरचिर. शोणाम्बराम्यन्तर । अस्या. क न विलोकनोत्तमकरोत्तीक्ष्ण कटाक्ष क्षण भृङ्गाकृष्टगरिष्ठकेतकदलभ्रान्ति वहन्नप्ययम्

१ निमग्नगमणाया २ प्रत्यक्षस्वरूपवती ३ ईषद

[दक्षिणभागः]

॥ ३१ ॥ उत्तुङ्गस्तनशैलदुस्तरमुरो निम्नातिनाभिस्थली भीम देहवनं स्फुरद्भुजलतां रोमालिजालाकुलम् । व्याधः पञ्चशरः किरत्यतितरास्तीक्ष्णान्टाक्षाशुगास्तन्मे ब्रूहि मनःकुरङ्ग शरणं कं साप्रतं यास्यसि ॥ ३२ ॥ वक्रश्रीजितजर्जरेन्दुमलिनं कृत्वा करे कन्दुक क्रीडाकौतुकमिश्रभावमनया ताम्रं वहन्त्याननम् । भृङ्गाग्रग्रहकृष्णकेतकदलस्पर्धावतीना दृशा दीर्घापाङ्गतराङ्गितैकसुहृदामेषोऽस्मि पात्रीकृतः ॥ ३३ ॥ स्कन्धे विन्यस्य सव्य भुजमपरकरस्यार्धचन्द्रेण मध्यं बिभ्राणा धूयमानस्तनतटवसना गन्धवाहेन मन्दम् । पन्थानं दृग्विलासैरिव नलिनदलैः कोमलैरास्तृणन्ती सौभाग्ये कस्य साक्षात्परिणमति तप. सिद्धिरैषा सुवेषा ॥ ३४ ॥

विरहः

समानकुलशीलयोः सुवयसोः परायत्तयोः परस्परविलो- कनाकुलितचेतसोः प्रेयसो. । तनुत्वमनुविन्दतोर्बहुविधा व्यथा विन्दतोरशक्यविनिवेदना विरहवेदना वर्धते ॥ १ ॥

वियोगिनोऽवस्थावर्णनम्

प्रियाविरहितस्यास्य हृदि चिन्ता समागता । इति मत्वा गता निद्रा के कृतघ्नमुपासते ॥ १ ॥ अत्राशित शयितमत्र निपीतमत्र तोयं तया सह मया विधिवञ्चितेन । इत्यादि हन्त परिचिन्तयता वनान्ते हा तस्य लोचनपयोभिरभूत्पयोधिः ॥ २ ॥ मन्द मरुद्वहति गर्जति वारिवाहो विद्युल्लता चलति नृत्यति नीलकण्ठः । एतावति व्यतिकरे तरुणस्य तस्य मूर्च्छव केवलमभूद्वलम्बनाय ॥ ३ ॥ गमनमलस शून्या दृष्टि. शरीरमसौष्ठवं श्वसितमधिकं किं न्वेतत्स्यात्किमन्य- दितोऽथवा । भ्रमति भुवने कंदर्पाज्ञा विकारि च यौवन ललितमधुरास्ते ते भावा. क्षिपन्ति च धीरताम् ॥ ४ ॥ धत्ते चक्षुर्मुकुलिनि रणत्कोकिले बालचूते मार्गे गात्रं क्षिपति बकुलामोदगर्भस्य वायोः । दाहप्रेम्णा सरस- बिसिनीपत्रमात्रान्तरायस्ताम्यन्मूर्तिः श्रयति बहुशो मृत्यवे चन्द्रपादान् ॥ ५ ॥ रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते शय्योपान्तविवर्तनैर्गमयत्युन्निद्र एव क्षपा । दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा गोत्रेषु स्खलितस्तदा भवति च व्रीडावनम्राशिरम् ॥ ६ ॥ प्रत्यादिष्ट- विशेषमण्डनविधिर्वामप्रकोष्ठे श्लथं बिभ्रत्काञ्चनमेकमेव वलयं श्वासपरक्ताधरः । चिन्ताजागरणप्रताम्रनयनस्तेजो- गुणैरात्मनः सस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नाल- क्ष्यते ॥ ७ ॥ चन्द्रश्चैण्डकरायते मृदुगतिर्वातोऽपि वज्रा-

१ सूर्यवदाचरति. २ बज्रवदाचरति

वियोगिनोऽवस्थावर्णनम्, वियोगिन्या अवस्थावर्णनम् २७५

यते माल्यं सूचिकुलायते मलयजालेपः स्फुलिङ्गायते ।
रात्रिः कल्पशतायते विधिवशात्प्राणोऽपि भारायते हा हन्त
प्रमदावियोगसमयः सहारकालायते ॥ ८ ॥ माकन्दाक्षिप
मा मरन्दनिकरं मूको भव त्वं शुक स्फार कोकिल कोमलं
कलरवं भ्रातः क्षणं संहर । सौगन्ध्यं वह गन्धवाह न
मनाक्सर्वैः क्षणं क्षम्यता जानीध्व तरुणास्य तस्य यदयं
कालः कराळो महान् ॥ ९ ॥

वियोगिन्या अवस्थावर्णनम्

दह्यमानेऽपि हृदये मृगाक्ष्या मन्मथाग्निना । स्नेहस्तथैव
यत्तस्थौ तदाश्चर्यमिवाभवत् ॥ १ ॥ जीवेन तुलितं प्रेम
सखि मूढेन वेधसा । लघुर्जीवो ययौ कण्ठं गुरुप्रेम हृदि
स्थितम् ॥ २ ॥ कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ ।
अपश्यन्ताविवान्योन्यमीक्षां क्षामतां गतौ ॥ ३ ॥ वल्लभो-
त्सङ्गसङ्गेन विना हरिणचक्षुषः । राकाविभावरीजानिर्विष-
ज्वालाकुलोऽभवत् ॥ ४॥ अस्तमितविषयसङ्गा मुकुलितनय-
नोत्पला मुहुः श्वसिता । ध्यायति किमप्यलक्ष्यं बाला योगा-
भियुक्तेव ॥ ५ ॥ लिखति न गणयति रेखा निर्झरबाष्पाम्बु-
धौतगण्डतला । अवधिदिवसावसानं मा भूदिति शङ्किता
बाला ॥ ६ ॥ अपसारय घनसारं कुरु हार दूर एव किं
कमलैः । अलमलमालि मृणालैरिति वदति दिवानिशं बाला
॥ ७ ॥ पातयति हृदयदेशे प्रियजनगर्भे पुनः पुनर्मुग्धा ।
वर्णितमदनातङ्का बाष्पवती भावमन्वरा दृष्टिम् ॥ ८ ॥
श्लिष्यति पश्यति चुम्बति पुनः पुनः पुलकमुकुलितैरङ्गैः ।
प्रियसङ्गस्य स्फुरिता वियोगिनी वामबाहुलताम् ॥ ९ ॥
कमले निधाय कमल कलयन्ती कमलवासिनं कमले ।
कमलयुगादुद्भूतं कमलं कमलेन वारयति ॥ १० ॥ नय-
नोत्पलचलधारा दृष्ट्वा वारानिधिभ्रान्त्या । वडवानल
* इव भगवान्वसति तनौ कृशतनोस्तापः ॥ ११ ॥ लीना-
नसन्त्सरोरुहहृद्वरणेष्विमेष कुसुमेषुः । भ्रमति द्राग्वपुरन्तः
सतापं दीपमादाय ॥ १२ ॥ कुसुमितलताभिरहताप्यद्यत्त
रुजमलिकुलैरदथापि । परिवर्तते स्म नलिनी लहरीमिल्लोलि-
ताप्यघूर्णत सा ॥ १३ ॥ शशभृन्नवपल्लवे शशाङ्के मकरन्द-
स्रुतिवारिणी सरोजे । अपि चास्य मरुद्गणान्नसूते तिल-
कुसुमं स्फुटचम्पकौघदामि ॥ १४ ॥ अधिदेहलि हन्त हेम-
वल्ली शरदिन्दुः सरसीरुहे शयानः । उपखञ्जनचक्षु मौक्ति-
काली फलितं कस्य सुजन्मनस्तपोभिः ॥ १५ ॥ विश्रम्य
विश्रम्य वनद्रुमाणां छायासु तन्वी विचचार काचित् ।तनूत्तरीयेण करोद्धृतेन निवारयन्ती शशिनो मयूखान् ॥१६॥
अपि मरणमुपैति सा मृगाङ्के विलसति कैव कथा रसान्त-
रस्य । अपि कथमधुना दधातु शान्ति विषमशरज्वरतीव्र-
देहदाहः ॥ १७ ॥ निवेशिते यदि शूकशिखा पदे सृजति
सा कियतीमिव न व्यथाम् । मृदुतनौर्वितनोतु कथं न
तामवनिभृत्तु निविश्य हृदि स्थित ॥ १८ ॥ सा तोरणा-
न्तिकमुपेत्य दिशोऽवलोक्य नि श्वस्य दीर्घमुपधाय करं
कपोले । मत्वा च तं पुरत एव ससम्भ्रमात्वज्ञात्वाऽऽसने मोह-
लिखितेव न कि किमासीत् ॥ १९ ॥ अख्यास्तनौ विरहता-
ण्डवरङ्गभूमौ स्वेदोदबिन्दुकुसुमाञ्जलिमाविकीर्य । नान्दीं
पपाठ पृथुवेपथुवेपमानकाञ्चीलताकलरवैः स्मरसूत्रधारः
॥ २० ॥ मदनदहनशुष्यत्कान्तकान्ताकुचान्तर्घनमलयजपङ्के
गाढबद्धाखिलाङ्घ्रिः । उपरि विततपक्षो लक्ष्यतेऽलर्निमग्नः
शर इव कुसुमेषोरेष पुङ्खावशेषः ॥ २१ ॥ नवकिसलयतल्पं
कल्पितं तापशान्त्ये सरसरसिजसङ्गात्केवलं म्लापयन्त्याः ।
कुसुमशरकृशानुत्रापिताङ्गारतायाः शिव शिव परिताप को
वदेत्कोमलाङ्ग्याः ॥ २२ ॥ दरललितहरिद्राम्रन्थिगौरे शरीरे
स्फुरति विरहजन्मा कोऽप्ययं पाण्डुभावः । वलति सति
हि यस्मिन्सार्धमावर्त्य हेम्ना रजतमिव मृगाक्ष्याः कल्पिता-
न्यङ्गकानि ॥ २३ ॥ किसलयमिव मुग्धं बन्धनाद्विप्रलूनं
हृदयकुसुमशोषी दारुणो दीर्घशोकः । ग्लपयति परिपाण्डुक्षाम-
मस्याः शरीरं शरदिरज इव घर्मः केतकीगर्भपत्रम् ॥ २४ ॥
परिमृदितमृणालीम्लानमङ्गं प्रवृत्तिः कथमपि परिवारप्रार्थ-
नाभिः क्रियासु । कलयति च हिमाशोर्निष्कळङ्कस्य लक्ष्मी-
मभिनवकरिदन्तच्छेदकान्त कपोलः ॥ २५ ॥ स्थगयति
नयनास्र छद्मना धूमधूम्रं प्रथयति च नितान्तं कार्श्यमङ्ग-
प्रकृत्या । अहह विरहबाधा छादयत्यम्बुजाक्षी तदपि वदति
साक्षी पाण्डुरो गण्डदेशः ॥ २६ ॥ परिम्लानं पीनस्तनज-
घनसमार्द्रेभयतस्तैनोर्मध्यस्यान्तः परिमिलनप्राप्य हरितम् ।
इदं व्यस्तन्यास श्लथभुजलताक्षेपवलनैः कृशाङ्ग्याः सतापं
वदति बिसिनीपत्रशयनम् ॥ २७ ॥ प्रयातेऽस्तं भानौ श्रित-
शकुनिनीडेषु तरुषु स्फुरत्सन्ध्यारागे शशिनि शनकैरुलमति
च । प्रियप्रत्याख्यानद्विगुणविरहोत्कण्ठितदृशा तदारब्धं
तन्व्या मरणमपि यत्रोत्सवपदम् ॥ २८ ॥ लतामूले लीनो
हरिणपरिहीनो हिमकर स्खलन्मुक्ताकारा गलति जलधारा
कुवलयात् । धुनीते बन्धूकं तिलकुसुमजन्मा हि पवनो
गृहद्वारे पुण्यं परिणमति कस्यापि कृतिनः ॥ २९ ॥ मराल-

१ चन्दनलेप २ अग्निकण इवाचरति ३ सहस्रकल्पमितेवाचरति१ आसेति क्रियापदम् २ प्राप्तमर्दा ३ सखीजन ४ ऊर्ध्वाधोभागयो ५ कृशस्य ६ सघर्षम् ७ दरिद्रणीम् ८ अनुमापयति ९ शरः

२७६ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्

श्रेणीर्भिन्वन्नुपनीतं सफलता गतिस्पर्धावैरे मृदुकलरवै-
रम्बुजदृग् । यदेतान्दृष्ट्वैत्या प्रियविरहवत्याः कृशतनो-
रगादस्याः स्तम्भाद्दहह गतिसंभावनमपि ॥ ३० ॥ अ-
गारेऽस्मिन्कान्ते गिरिशमनिशानाथसकलं भुजगानुत्तुङ्गा-
न्सकलमपि वातायनपथे । निकुञ्जेषु श्येनानविगृहशिरो-
गङ्गुवलयं लिखन्त्या नीयन्ते शिव शिव तया हन्त दिवसाः
॥ ३१ ॥ स्तनन्यस्तोशीरं प्रशिथिलमृणालैकवलयं प्रियायाः
साबाधं तदपि कमनीयं वपुरिदम् । समस्तापः कामं
मनसिजनिदाघप्रसरयोर्न तु ग्रीष्मस्यैव सुभगमपराद्धं युव-
तिषु ॥ ३२ ॥ कपोले पाण्डुत्वं किमपि जलधारा नयन-
योस्तनौ कार्श्यं दैन्यं वचसि हृदि दावानलशिखाम् ।
अवज्ञां प्राणेषु प्रकृतिषु विपर्यासमधुना किमन्यद्वैराग्यं सकल-
विषयेष्वाकलयते ॥ ३३ ॥ निकामं क्षामाङ्गी सरसकदली-
गर्भसुभगा कल्येशा मूर्तिः शशिन इव नेत्रोत्सवकरी ।
अवस्थामापन्ना मदनदहनोदाहविधुरारियं न. कल्याणी
रमयति मन. कम्पयति च ॥ ३४ ॥ घनोऽयं चेदञ्चेदुपपरि
विकिरंश्चन्दनरसानुदागन्नैहारी सरिदुरसि हारीभवति वा ।
समन्तात्प्राणालीं चिग्मुपवनाली मिलति वा तदप्यस्यास्तापः
प्रियविरहजः किं विरमति ॥ ३५ ॥ इनो विद्युद्वल्लीविलसित-
मितः केतकग्जः स्फुरद्बन्धः प्रोद्यज्जलदनिनदस्फूर्जितमितः ।
इतः केकिक्रीडाकलकलभग. पक्ष्मलदृशा कथं यास्यन्त्येते
विरहदिवसाः सश्रमरसा ॥ ३६ ॥ न नीतमुपनासिकं परि-
मलव्ययाशङ्कया न हन्त विनिवेशितं विरहवह्निकुसुण्डे हृदि ।
दृशोर्बहिरिति श्रुतौ न निहितं प्रियप्रेषितं करे कमलमर्पितं
मृगदृशा दृशा पीयते ॥ ३७ ॥ वीणामङ्के कथमपि सखी-
प्रार्थनाभिर्विधाय स्वैरं रत्या सरसिजदृशा गातुमारब्धमेव ।
तन्त्रीबुद्ध्या किमपि विरहक्षीणदीनाङ्गवल्लीमेनामेव स्पृशति
बहुशो मूर्च्छना चित्रमेतत् ॥ ३८ ॥ अन्तस्तारं तरलतरलाः
स्तोकमुत्पीडभाजः पक्ष्माग्रेषु ग्रथितपृथवः कीर्णधाराः क्रमेण ।
चित्तात्तङ्गं निजगरिमतः सम्यगासूचयन्तो निर्यान्त्यस्याः
कुवलयदृशो बाष्पधाराप्रवाहाः ॥ ३९ ॥ मुक्त्वा नङ्गः
कुसुमविशिखान्वञ्च कुण्ठीकृतायान्मन्ये मुग्धां प्रहरति हठा-
त्पत्रिणा वारुणेन । वारां पूरः कथमपरथा स्फारनेत्रप्रणाली-
वक्रोद्वान्तस्त्रिवलिविपिने सारणीसाम्यमेति ॥ ४० ॥
खिन्नौ गण्डौ स्फुरितमधरं स्पन्दितं चूर्त्तकाय मन्नौ बाहू
मसृणमुकुले लोचने भ्रूश्चलैव । अङ्गादङ्गादजनि पुलक-
श्रेणिरूरू सकम्पौ किं च श्वासात्तरलितदुकूलाञ्चलाश्चञ्च-
लाक्ष्याः ॥ ४१ ॥ पीनोत्तुङ्गस्तनकलशयोस्तारहारं न धत्ते
हस्तेनापि स्पृशति सहसा नैव कर्पूरवीटीम् । मञ्चं नापि
श्रयति शयितुं हंसतूलाब्सराढ्यं तादृक्तन्वी गुरुजनभया-
द्धोतुकामा स्वतापम् ॥ ४२ ॥ गण्डे पाण्डौ कलयति
पुनश्चान्दनान्यत्रभङ्गांन्निद्रालाभे स्वयमरुणदृक्पृच्छति त्वा
निदानम् । प्रत्यासन्ने मधुरलपिते गृह्यैके कीरशावे कण्ठे
धत्ते कमलनयना चारु वैदूर्यहारम् ॥ ४३ ॥ नीवीबन्धो-
च्छ्रसनमधरस्पन्दनं दोर्विषादः स्वेदश्रुर्मृसृणमधुराकेकर-
स्निग्धमुग्धम् । गात्रस्तम्भः स्तनमुकुलयोरुत्प्लवन्धः प्रकम्पो
गण्डाभोगे पुलकपटल मूर्च्छना चेतना च ॥ ४४ ॥ सद्यो
कोषं नत उपगता हन्त रात्रि कृपाणीं चन्द्रं चक्रं विरह-
विधुरा तारकापङ्किमुग्राय् । तूणीरन्तर्गतशरमति प्रज्वल-
च्छुङ्गभागा सनद्धाखं कलयति पुनर्मन्मथं राक्षसेन्द्रम्
॥ ४५ ॥ लीलावल्लीभवनकुहरे पृत्ररन्धाचकोरीचञ्चूसक्तं
शशिकरकणं वीक्ष्य मूर्च्छामुपैति । लीलारामात्पिकमुख-
रितात्का कथा सा बिभेति स्वालापेभ्यश्चकितनयना यत्कुहू-
कोमलेभ्यः ॥ ४६ ॥ व्यजनमरुतः श्वासश्रेणीमिमामुप-
चिन्वते मलयजरसो धारावाष्पं प्रपञ्चयितुं प्रभुः । कुसुम-
शयनं कामास्त्राणां करोति सहायतां द्विगुणगरिमा कामो-
न्मादः कथं नु विरस्यति ॥ ४७ ॥ विषयविधुरा दृष्टिः
श्वासानिलाः गल्पिताधरास्तनुरपि भृशं म्लाना लूनेव पल्लव-
मञ्जरी । अपि च लवळीपाकोल्लेदामिरामवदावदः स्फुरति
कुचयोर्मूले गण्डे च कश्चन पाण्डिमा ॥ ४८ ॥ कथ-
मपि कृतप्रत्यावृत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा
व्याजं प्रकल्पितमश्रुतम् । असहनसखीश्रोत्रप्राप्तिप्रमाद-
ससम्भ्रमं प्रचलितदृशा शून्ये गेहे समुच्छ्वसितं पुनः
॥ ४९ ॥ तन्वङ्ग्या गुरुसन्निधौ नयनजं यद्वारि सस्त-
म्भितं तेनान्तर्गलितेन मन्मथशिखी सिक्तो वियोगोद्भवः ।
मन्ये तस्य निरस्यमानकिरणस्यैषा मुखेनोद्गता श्वासायास-
समागतानलसरणिव्याजेन धूमावली ॥ ५० ॥ मुग्धा खम-
समागते प्रियतमे तत्पाणिसंस्पर्शनं रोमाञ्चाञ्चितया शरीर-
लतया संभाव्य कोपात्किल । मा वा वल्लभ संस्पृशेति
सहसा शून्यं वदन्ती मुहुः सख्या नो हसिता सचिन्तमसकृ-
त्तस्शोचिता प्रत्युत ॥ ५१ ॥ शीघ्रं भूमिगृहे गृहाण वसतिं
प्राणैः किमु क्रीडसि प्राप्ता पश्यसि कि न दैवहतिका ज्योत्स्ना
गवाक्षोदरे । इत्थं मन्मथतीव्रसज्वरजुषो गेहेषु वामभ्रुवा-
मुद्गच्छन्ति कुरङ्गलाञ्छनभयाद्दीनाः सखीनां गिरः ॥ ५२ ॥
शय्या पुष्पमयी परागमयतामङ्गापंणादक्षुते ताम्यन्त्यन्तिक-
तालवृन्तनलिनीपत्राणि दाहोष्मणा । न्यस्तं च स्तन-
मण्डले मलयजं शीर्णान्तरं दृश्यते काथादाशु भवन्ति फेनि-
लमुखा भूषामृणालाङ्कुराः ॥ ५३ ॥ आदातुं सकृदीक्षिते-
ऽपि कुसुमे हस्ताग्रमालोहितं लाक्षारञ्जनवार्तयापि सहसा
रक्तं तलं पादयोः । अङ्गानामनुलेपनस्मरणमप्यत्यन्तखेदा-

वियोगिन्या अवस्थावर्णनम्, वियोगिनो विप्रलापाः २७७

वहं हन्ताक्षीवरदृशः किमन्यदलकामोदोऽपि भारायते ॥ ५४ ॥ अङ्गासङ्गिमृणालकाण्डमयते भृङ्गावलीना रुचिं नासामौक्तिकमिन्द्रनीलसरणि श्वासानिलाद्गाहते । क्षिप्ता सा हिमवालुकापि कुचयोर्धत्ते क्षण दीर्पता तप्ताय पतिताम्बुवत्करतले धागम्बु सलीयते ॥ ५५ ॥ कैने कोमलमालिकामपि चिर या बिभ्रती खिद्यते या गात्रेषु घनं विलेपनमपि न्यस्त न वोढु क्षमा । दीपस्यापि शिखा न चापि भवने स्वेभेऽपि या वीक्षितु तार्प सा विरहानलस्य महत. सोढु कथ शक्यते ॥ ५६ ॥ उडूयेत तनूलतेति बिसिनीपश्रेण नो वीज्यते स्फोट स्यादिति नाङ्गक मलयजक्षोदाम्भसा सिच्यते । स्यादस्यातिमरात्परावर भव इति त्रासान्न वा पल्लवारोपो वक्षसि तत्कथ वरतनोरावि समाधीयताम् ॥ ५७ ॥ नि श्वासानलविद्रदन्तवसना नेत्राम्बुसिक्तस्तनी हस्तन्यस्तकपोलदीनवदना हारैकभूषावती । बिभ्राणासपदेन तुङ्गजघना विश्रंसिनी वेणिकामास्ते स्थण्डिल एव पाण्डुमधुरक्षामालसैरङ्गकै. ॥ ५८ ॥ क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं मध्य क्लान्ततर प्रकामविनतावसौ छविः पाण्डुरा । शोच्या च प्रियदर्शना च मदनग्लानेयमालक्ष्यते पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी ॥ ५९ ॥ कर्पूराम्बुनिषेकभाजि सरसैरम्भोजिनीना दलैरास्तीर्णेऽपि विवर्तमानवपुषः स्रस्तस्रजि स्रस्तरे । मन्दोन्मेषदशा किमन्यदभवत्सा काप्यवस्था तदा यस्याश्चन्दनचन्द्रचम्पकदलश्रेण्यादि वह्नीयते ॥ ६० ॥ आलीचालितपद्मिनीदलचलत्सवीज्मङ्गीकृतस्वाङ्गालिङ्गनमर्मरीकृतनवाम्भोजालिशय्या चिरात् । चैतन्य कथमप्युपेत्य शनकैरून्मील्य नेत्राञ्चलं बाला केवलमेव शून्यहृदया शून्य जगत्पश्यति ॥ ६१ ॥ न क्रीडासु कुतूहलं वितनुते नालङ्कृतौ सादरा नाहारेऽपि च मस्पृहा न गणयत्यालापलोला सखीम् । बाला केवलमङ्गकैरनुकलक्षामैर्विविक्तस्थले ध्यायन्ती किल किंचिदन्तरधुना नि स्पन्दमास्ते सदा ॥ ६२ ॥ सोन्मेषो न सखीजन प्रागल्भ्यभूमिर्न वा वात्सल्यादविभावितस्फुटवयोवस्थाविशेषो गुरु. । आयाता नवमल्लिकापरिमलकूरा शरदवासरा. कस्याख्यातु नितम्बिनी पितृगृहावस्थानदु ग्थ जनु ॥ ६३ ॥ दुःख दीर्घतर वहत्यपि सखीवर्गाय नो भाषते शैवालै. शयनं सृजत्यपि पुन शेते न वा लज्जया । कण्ठे गद्गदवाचमञ्चति दशा धत्ते न बाष्पोदक सताप सहते यदम्बुजमुखी तद्वेद चेतोभवः ॥ ६४ ॥ कण्ठे मौक्तिकमालिका. स्तनतटे कर्पूरमच्छं रज मान्द्रं चन्दनमङ्गके वलयिता. पाणौ मृणालीलता. । तन्वी नक्तमियं चकास्ति तनुनी चीनांशुके बिभ्रती शीताशोरधिदेवतेव गलिता व्योमाग्रमारोहत. ॥ ६५ ॥

वियोगिनो विप्रलापाः

यदि प्रियावियोगेऽपि रुँद्यते दीनदीनकम् । तदिदं दग्धमरणमुपयोग क्व यास्यति ॥ १ ॥ दिव्यंचक्षुरहं जात. सरागेणापि चक्षुषा । इहस्थो येन पश्यामि देशान्तरगता प्रियाम् ॥ २ ॥ नपुसकमिति ज्ञात्वा ता प्रति प्रहितं मन. । तत्तु तत्रैव रमते हँता. पाणिनिन। वयम् ॥ ३ ॥ न मे दु.ख प्रिया दूरे न मे दु.खं हृतेति सा । एतदेवानुशोचामि वयोऽस्या ह्यतिवर्तते ॥ ४ ॥ यदि स्मरामि तन्वङ्गीं जीविताशा कुतो मम । अथ विस्मृत्य जीवामि जीवितव्यसनेन किम् ॥ ५ ॥ मुखं तस्याः स्मि॑ितस्मेर किंचिदञ्चलसंवृतम् । मदालोकनलोलाक्षं स्मृत्वा मन्ये मुंधा मुंधा ॥ ६ ॥ तद्वियोगसमुत्थेन तच्चिन्ताविपुलाचिंषा । रात्रिदिव शरीर मे दह्यते मदनाग्निना ॥ ७ ॥ विशालाक्ष्या. कटाक्षेण विकृष्टं रश्मिनेव मे । हृदयं कि करिष्यामि न पुनर्बिनिवर्तते ॥ ८ ॥ सति प्रदीपे सत्यग्नौ सत्सु तारारवीन्दुधु । विना मे मृगशावाक्ष्या तमोभूतमिदं जगत् ॥ ९ ॥ दत्त्वा कटाक्षमेणाक्षी जग्राह हृदयं मम । मया तु हृदयं दत्त्वा गृहीतो मदनज्वर ॥ १० ॥ अपूर्वो दृश्यते वह्नि. कामिन्या. स्तनमण्डले । दूरतो दहते गात्रं हृदि लग्नस्तु शीतल ॥ ११ ॥ भ्रूचापवल्ली सुमुखी यावन्नयति वक्रताम् । तावत्कटाक्षविशिखैर्भिद्यते हृदय मम ॥ १२ ॥ मन. प्रकृत्यैव चलं दुर्लक्ष्यं च तथापि मे । कामैनैतत्कथ विद्ध समं सँवै शिलीमुखैः ॥ १३ ॥ या जयश्रीमर्नोजस्य यया जगदलंकृतम् । यामेणाक्षीं विना प्राणा विफला मे कुतोऽद्य सा ॥ १४ ॥ अरविन्दमिदं वीक्ष्य खेलत्खञ्जनमञ्जुलम् । स्मरामि वदनं तस्याश्चारु चञ्चललोचनम् ॥ १५ ॥ स्पर्श स्तनतटस्पर्शो वीक्षणं वक्रवीक्षणम् । तस्याः केलिकथालापसमय. समय. सखे ॥ १६ ॥ कुतः प्रेमल्नोऽप्यस्ति खले मे हृदये खलु । सुन्दरीं तामनालोक्य यदहं प्राणिमि प्रिय ॥ १७ ॥ नूनमयं मे पापः कान्ताविरहो रँसायनीभूतः । वर्षसहस्राम्यधिकान्न्यामि कथमन्थथा दिवसान् ॥ १८ ॥ सगमविरहवितर्के वरमिह

१ रोदन क्रियते २ अतीन्द्रियज्ञानवान् ३ वञ्चिता ४ स्मितेन हास्येन सेर प्रमन्नम् ५ वस्त्राञ्चलेनावगुण्ठितम् ६ अमृतम् ७ व्यर्थम् ८ जीवनसाधकरसायनरूपो नात

२७८ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्

विरहो न संगमस्तस्याः । सङ्गे सैव तथैका त्रिभुवनमपि तन्मयं विरहे ॥ १९ ॥

अनिशमपि मकरकेतुर्मनसो रुजमावहन्नभिमतो मे । यदि मदिरायतनयना तामधिकृत्य प्रहरतीति ॥ २० ॥

दैवादहमत्र तया चपलायतनेत्रया वियुक्तश्च । अविरलविलोलजलदः कालः समुपागतश्चायम् ॥ २१ ॥

स्मेरं विधाय नयनं विकसितमिव नीलमुत्पलं मयि सा । कथयामास कृशाङ्गी मनोगतं निखिलमाकूतम् ॥ २२ ॥

आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम् । विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥ २३ ॥

तस्या सुतनुसरस्या चेतो नयनं च निष्पतितम् । चेतो गुरु तु निमग्नं लघु नयनं सर्वतो भ्रमति ॥ २४ ॥

निष्कासयन्त्यनेके सागरसरिदम्बुपूरपरिपतितम् । हृदयह्रदे निमग्नामिन्दुमुखीं मा बहिः कुरुताम् ॥ २५ ॥

दर्शनपथमुपयाता यदवधि मदिरायतेक्षणा सहसा । तदवधि हृदयेनाहं मदनेषुभयादिवोन्मुक्तः ॥ २६ ॥

अपसरति न चक्षुषो मृगाक्षी रजनिरियं च न याति नैति निद्रा । प्रहरति मदनोऽपि दुःखितानां बत बहुशोऽभिमुखीभवन्त्यपाया ॥ २७ ॥

पुनरपि मिलनं यदाकदाचित्प्रियतमया कृपया भवेद्विधातुः । हरिरिव करवै हृदि प्रतिष्ठामिह रमणीं तनवै मनोऽनभिन्नाम् ॥ २८ ॥

स्खलदंशुकमव्यवस्थतारस्मितकान्ति स्नपिताधरप्रवालम् । असमासनकारमासशोभं हरिणाङ्कं हरिणीदृशः स्मरामः ॥ २९ ॥

अधृतपरिपतन्निचोलबन्धं सुषितनकारमवक्रदृष्टिपातम् । प्रकटहसितमुन्नतास्यबिम्बं पुरसुदृशः स्मरचेष्टितं स्मरामि ॥ ३० ॥

नयनेन निरीक्षिता नताङ्गी हृदये हन्त पतत्रिणः पतन्ति । विषमा विषमायुधव्यथासौ परिभूयेत परः परापरार्थैः ॥ ३१ ॥

यत्राकृतिस्तत्र गुणा वसन्ति नैतद्धि सम्यक्कविभिः प्रणीतम् । येनातिचार्वङ्ग्यपि मे हृदिस्था दुनोति गात्रं विरहे प्रियासौ ॥ ३२ ॥

पञ्चसायकमहेन्द्रजालिना पाणिपद्मसमुद्भिता स्वयम् । मोहनाय मनसः प्रगल्भते पिच्छिकेव मम चञ्चलेक्षणा ॥ ३३ ॥

दूरमस्तु दरघूर्णिततारं शारदेन्दुमुखवीक्षणमक्ष्णोः । एतदेव मम पुण्यमगण्यं यत्कृशोदरि दृशोरतिथिस्त्वम् ॥ ३४ ॥

असति कोऽपि विमोहविधुंतुदो हृदयचन्द्रमस मम दारुणः । तदपि हन्त तदन्तरशायिनी लगति चिह्नमृगीव मृगेक्षणा ॥ ३५ ॥

असुलभा सकलेन्दुमुखी च सा किमपि चेदमनङ्गविचेष्टितम् । अभिमुखीष्विव वाञ्छितसिद्धिषु¹ व्रजति निर्वृतिमेकपदे² मनः ॥ ३६ ॥

तप्ते महाविरहवह्निशिखावलीभिरापाण्डुरस्तनतटे हृदये प्रियायाः । मन्मार्गवीक्षणनिवेशितदीनदृष्टेर्नूनं छमच्छदमिति बाष्पकणाः पतन्ति ॥ ३७ ॥

कान्तामुखं सुरतकेलिविमर्दखेदसञ्जातघर्मकणविच्छुरितं रतान्ते । आपाण्डुरं विलसदर्धनिमीलिताक्षं सस्मृत्य हे हृदय किं शतधा न यासि ॥ ३८ ॥

तत्प्रचलकुण्डलमृष्टगण्डं वक्त्रं स्मरामि विपरीतरताभियोगे । आन्दोलनश्रमजलस्फुटसान्द्रबिन्दुमुक्ताफलप्रकरविच्छुरितं प्रियायाः ॥ ३९ ॥

निद्रार्धमीलितदृशो मदमन्थराणि¹ नाप्यर्थवन्ति न च नाम निरर्थकानि । अद्यापि मे मृगदृशो मधुराणि तस्यास्तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥ ४० ॥

अद्यापि तां कनकचम्पकदामगौरीं फुल्लारविन्दनयनां तनुरोमराजिम् । सुप्तोत्थितां मदनविह्वललालसाङ्गीं विद्यां प्रमादगलितामिव चिन्तयामि ॥ ४१ ॥

अद्यापि सा मनसि संप्रति वर्तते मे रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या । जीवेति मङ्गलवचः परिहृत्य कोपात्कर्णे कृतं कनकपत्रमनालपन्त्या ॥ ४२ ॥

आसन्नमार्गमपिलङ्घ्य नतेन मूर्ध्ना पश्चात्ससङ्ग्वलितेन मुखेन यान्त्या । आरोपिताः कतिपये मयि पङ्कजाक्ष्या साकूतहासमनतिप्रकटाः कटाक्षाः ॥ ४३ ॥

राजल्ललाटफलका कमनीयकूजत्काञ्चीगुणप्रणयिनी धृतकेशपक्षा । हा किं करोमि मम सा हृदयं प्रविष्टा नाराचयष्टिरिव पुष्पशिलीमुखस्य ॥ ४४ ॥

यत्र क्षिपामि दृशमन्यदिदृक्षयाहं तत्रागतः स्फुरति केवलमेतदेव । तद्वक्त्रबिम्बमरुणाधरलोभनीयं ते लोचने तदलसालसमीक्षिते च ॥ ४५ ॥

मन्दस्मितेन मधुराधरपल्लवेन कुम्भोन्नमत्कुचभरेण कृशोदरेण । विद्युन्निभाङ्गलतया च विचिन्त्यमाना चेतो धुनोति च धिनोति च चञ्चलाक्षी ॥ ४६ ॥

तामिन्दुसुन्दरमुखीं सुचिरं विभाव्य चेतः कथं कथमपि व्यपवर्तते मे । लज्जां विजित्य विनयं विनिवार्य धैर्यमुन्मथ्य मन्थरविवेककाण्ड एव ॥ ४७ ॥

यद्विस्मयस्तिमितमस्तमितान्यभावमानन्दमन्दममृतप्लवनादिवाभूत् । तत्सन्निधौ तदधुना हृदयं मदीयमहङ्गारचुम्बितमिव व्यथमानमास्ते ॥ ४८ ॥

पश्यामि तामित इतः पुरतश्च पश्चादन्तर्बहिः परित एव विवर्तमाननाम् । उद्बुद्धमुग्धकनकाब्जजिह्मं वहन्तीमासक्ततिर्यगपवर्तितदृष्टि वक्त्रम् ॥ ४९ ॥

लीलास्मितेन शुचिना मृदुनोदितेन व्यालोकितेन लघुना गुरुणा गतेन । व्याजृम्भितेन जघनेन च दर्शितेन सा हन्ति तेन गलितं मम जीवितेन ॥ ५० ॥

यान्त्या मुहुर्वलितकंधरमाननं तदावृत्तवृन्तशतपत्रनिभं वहन्त्या । दिग्घोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ॥ ५१ ॥

ता हेमचम्पकरुचिं

पादटिप्पणी:

• १ इष्टसिद्धिषु
• २ सतोषम्
• १ मन्दानि

वियोगिनो विप्रलापाः २७९

मृगशावकाक्षीं पार्श्वे स्थिता च पुरतः परिवर्तमानाम् । पश्चात्तथा दशदिशासु परिस्फुरन्तीं पश्यामि तन्मयमहो भुवनं किमेतत् ॥ ५२ ॥ अद्यापि तिष्ठति दृगोरिदमुत्तरीयं धर्तुं पुरः स्तनतटात्पतितं प्रवृत्ता । वाचं निशम्य नयनं नयनं ममेति किंचित्तदा यदकरोत्स्मितमायताक्षी ॥ ५३ ॥ राकासुधाकरमुखी तरलायताक्षी संखेरयौवनतरङ्गितविभ्र- मास्या । तत्किं करोमि कथमत्र तनोमि मैत्रीं तत्स्वीकृति- व्यतिकरे क इहाभ्युपायः ॥ ५४ ॥ यान्त्याः सरः सलिल- केलिकुतूहलाय व्याजादुपैत्य मयि वर्त्मनि वर्तमाने । अन्तःस्थितद्युतिमत्कृतिकुद्वक्त्ररङ्गैरीकृतं किमपि वामदृशः स्मरामि ॥ ५५ ॥ मन्दादरः कुसुमपत्रिषु पेलवेषु नूनं बिभर्ति मदनः पवनास्त्रमद्य । हारप्रकाण्डसरलाः कथमम्य- थामी श्वासाः प्रनर्तितदुकूलदशाः सरन्ति ॥ ५६ ॥ पीतो यतः- प्रभृति कामपिपासितेन तस्या मयाधररसः प्रचुरः प्रियायाः । तृष्णा ततः प्रभृति मे द्विगुणत्वमेति लावण्यमस्ति बहु तत्र किमप्यपूर्वम् ॥ ५७ ॥ अलसविलसितानामुल्लसद्भ्रूलतानां मसृणमुकुलितानां प्रान्तविस्तारितानाम् । प्रतिनयननिपाते किंचिदाकुञ्चितानां विविधमहमभूवं पात्रमालोकितानाम् ॥ ५८ ॥ अलसवलितमुग्धस्निग्धनिस्पन्दमन्दैरधिकविक- सदन्तर्विस्मयस्मेरतारैः । हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्षैरपहृतमपविद्धं पीतमुन्मूलितं च ॥ ५९ ॥ क्रमशरू- लितकण्ठप्रक्रमोल्लासितोरस्तर लितवलिलेखासूत्रसर्वस्वमस्याः । स्थितमतिचिरमुच्चैरग्रपादाङ्गुलीभिः करकलितसखीकं मा दिवक्षोः स्मरामि ॥ ६० ॥ व्रीडायोगान्नतवदनया सन्नि- धाने गुरूणां बद्धोत्कम्पस्तनकलशया मैन्युमन्तर्निगृह्य । तिष्ठेत्युक्तं किमिव न तया यत्समुत्सृज्य बाष्पं मय्यासक्त- श्चकितहरिणीहारिनेत्रत्रिभागः ॥ ६१ ॥ बारवारं तिरयति दृशोरुद्गमं बाष्पपूरस्तसंकल्पोपहितजडिम स्तम्भमभ्येति •गात्रम् । सद्यः स्विद्यन्नयमविरतोत्कम्पलोलाङ्गुलीकः पाणि- र्लेखाविधिषु नितरा वर्तते किं करोमि ॥ ६२ ॥ हा हा देवि स्फुटति हृदयं संस्रते देहबन्धः शून्यं मन्ये जगद- विरतज्वालमन्तर्ज्वलामि । सीदन्नन्चेतमसि विधुरो मज्ज- तीवान्तरात्मा विष्वग्मोहः स्थगयति कथं मन्दभाग्यः करोमि ॥ ६३ ॥ ऊरू रम्भा दृगपि कमलं शेवलं केशपाशो वक्त्रं चन्द्रो लपितममृतं मध्यदेशो मृणालम् । नाभिः कूपो वलि- रपि सरित्पल्लवः किं च पाणिर्यस्याः सा चेदुरसि न कथं हन्त तापस्य शान्तिः ॥ ६४ ॥ प्रासादे सा दिशि दिशि च सा पृष्ठतः सा पुरः सा पर्यङ्के सा पथि पथि च सा तद्वियोगातुरस्य । हंहो चेतः प्रकृतिरपरा नास्ति मे कापि सा सा सा सा सा सा जगति सकले कोऽयमद्वैतवादः ॥ ६५ ॥ कुन्दं दन्तैर्मधु निगदितैः षट्पदं दृग्विलासैरेभि- र्हासैरमृतलहरीं कुन्तलैरम्बुवाहम् । इन्दोर्बिम्बं वदनश- शिना पङ्कजं च स्तनाभ्यां त्वं जित्वा तान्वससि हृदये तेन मा विद्विषन्ति ॥ ६६ ॥ स्वप्ने दृष्ट्वा किमपि पिशुनाशङ्कया नैव पृष्टा स्पृष्टा नीवी न खलु भवतः किङ्कि- णीनिक्वणानाम् । आश्लेषाय स्पृहयति मयि द्राग्व्यरसीदसीमा निद्रामुद्रा शिव शिव दृशोरदृशो दुर्विपाकः ॥ ६७ ॥ दलति हृदयं गाढोद्वेगं द्विधा न तु भिद्यते वहति विकलः कायो मोहं न मुञ्चति चेतनाम् । ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात्प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ॥ ६८ ॥ जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृ- तिमधुराः सन्त्येवान्ये मनो मदयन्ति ये । मम तु यदिदं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः ॥ ६९ ॥ मयि सकपटं किंचित्क्वापि प्रणी- तविलोचने किमपि नयनं प्रासे तिर्यग्विज़म्भिततारकम् । स्थितमुपगतामालीं दृष्ट्वा सलज्जमवाञ्चितं कुवलयदशः स्मेरं स्मेरं स्मरामि तदाननम् ॥ ७० ॥ हृदयमिषुभिः काम- स्यान्तः सशल्यमिदं सदा कथमपुलभे निद्रां स्वप्ने समागम- कारिणीम् । न च सुवदनामालेख्येऽपि प्रियामसमाप्य तां मम नयनयोरुद्वाष्पत्वं सखे न भविष्यति ॥ ७१ ॥ कुसुम- शयनं न प्रत्यग्रं न चन्द्रमरीचयो न च मलयजं सर्वाङ्गीण न वा मणियष्टयः । मनसिजरुजं सा वा दिव्या ममालम- मोहितुं रहसि लघयेदारब्धा वा तदाश्रयिणी कथा ॥ ७२ ॥ ईंदमेशिशिरैरन्तस्तापाद्द्विवर्णमणीकृतं निशि निशि भुजन्य- स्तापाङ्गप्रवर्तिभिरश्रुभिः । अनतिलुलितैरूज्याघाताङ्कं मुहुर्मणि- बन्धनात्कनैकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ॥ ७३ ॥ कदा कान्तागारे परिमलमिलत्पुष्पशयने शयानः श्यामायाः कुचयुगमहं वक्षसि वहन् । अये स्निग्धे मुग्धे चपलनयने चन्द्रवदने प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ७४ ॥ तया गाढं मुक्तो भुवि धनुषि सधाय निशितः कटाक्षेषुर्नान्यैः सह पठनयोग्यः शरगणैः । पतन्गात्रे गात्रे परममृतमाक्षौदिव तदा दवीयानद्यायं दलयति पुनर्न व्रण- यति ॥ ७५ ॥ तदा मुग्धं वक्त्रं किसलयसखः सोऽधरमणि- र्विशाले ते नेत्रे स्तनभरनता सा तनुलता । सलीलं तद्यातं

पाद-टिप्पणियाँ (Footnotes)

[वाम पृष्ठ] १ लज्जा २ नम्रमुखत्वेन ३ क्रोधम् ४ रुद्धा

[दक्षिण पृष्ठ] १ कनकवलयमित्यर्थ २ उष्णै, अश्रुभिरित्यनेन संबन्ध ३ अभ्य- न्तरे विरहजन्यतापाह्वेतो ४ विवर्णा हीनवर्णा मणयो यस्मिन्नेवविध कृतम् ५ नेत्रप्रान्त ६ मौर्वीघर्षणजन्य किण ७ सुवर्णकङ्कणम् ८ वारंवार गलितम्

२८०सुभाषितरत्नभाण्डागारम्[ ६ प्रकरणम्

जननयनसजीवनसुधा प्रिया सा सा सेत्यजनि हृदयं तन्मयमहो ॥ ७६ ॥ कटाक्षेणापीषद्वक्षणमपि निरीक्षेत यदि सा तदानन्द. सान्द्रः स्फुरति निहताशेषविषय. । सरोमाञ्चोद्गच्छत्कुचकलशनिर्भिन्नावसन. परीरम्भारम्भः क इव भविताम्भोरुहदृश. ॥ ७७ ॥ पुरस्ताद्गच्छन्ती सह सहचरीभिः प्रियतमा ममालापं श्रुत्वा सचकितपरावृत्तवदना । किमग्रे व्यासङ्गादहमहह यामीति विनयप्रणालीमालीना यदकृत तदन्तर्व्यथयति ॥ ७८ ॥ समुत्तीर्णे तन्व्या निशितनयनान्तेन मृदिते स्तनद्वन्द्वस्यन्दैः सितलवसुधाम्भि. मृतमति । मदन्तःकेदारं मदनकृषिकारेण जनिता चिरादाशावल्ली किमिति न फलं हन्त लभते ॥ ७९ ॥ विलीयेन्दुः साक्षादमृतरसवापी यदि भवेत्कलङ्कस्तत्रत्यो यदि च विकचेन्दीवरवनम् । तत. स्नानक्रीडाजनितजडभावैरवयवै. कदाचिन्सुख्येयं मदनशिखिपीडाव्यतिकरम् ॥ ८० ॥ परागैः कर्पूरैस्तुहिनसलिलैश्चान्दनरसैः सुधाम्भिज्र्योत्स्नाभिः स्नपितमिव य प्रागकृत माम् । स एवासौ मारः शिव शिव वियोगे मृगदृशः करालं काकोल किरति मयि कालानलमपि ॥ ८१ ॥ न दूतीसंचारो न सरसपरोक्षोक्तिकल्पना न सामुद्र्ये हासः क्वचिदपि न वाचा व्यतिकरः । अहो चित्र चेतः क्षणपरिचितालोकनवशन्मुहुर्धावंधावं व्रजति सुदृश नो विरमति ॥ ८२ ॥ शरीर क्षामं स्यादसति दयितालिङ्गनसुखे भवेत्सास्त्रं चक्षुः क्षणमपि न सा दृश्यत इति । तया सारङ्गाक्ष्या त्वमसि न कदाचिद्विरहित प्रसक्ते निर्वाणे हृदयमरिताप वहसि किम् ॥ ८३ ॥ दृगन्तव्यापारप्रबलनिगडेन स्फुरदुरस्तटीकारागारे तव समुचितं बन्धनमिदम् । अरे चेतस्त्यक्त्वा यदिह जनमाजन्मसुहृदं क्षणप्राप्तामेतामधरमधुलामेन भजसे ॥ ८४ ॥ विपत्तिन्धुं बन्धु विगलितजलं नेत्रयुगल सशोकं भूलोकं भुवनवलय खेलनिलयम् । अनङ्गं नीरङ्ग विघटितधनं कोशभवनं विधातु कि धातस्तव हृदि न लज्जा प्रभवति ॥ ८५ ॥ न वक्षोजाश्लेषप्रभृतिकुतुकानामवगमो न पीयूषस्वादस्मितवलितवाचामनुभव. । न चासीन्मे तादृग्दृढपरिचयः पङ्कजदृशः कुतो हेतोस्तन्वी क्षणमपि न निर्याति मनस. ॥ ८६ ॥ आः पात्री स्यामकृतकघनप्रेमविस्फारिताना सत्रीडाना सकलकरणानन्दनाडिधमानान् । तेषा तेषा हृदयनिहिताकूत निष्पन्दिनेत्रव्यापाराणा पुनरपि तथा सुध्रुवो विभ्रमाणाम् ॥ ८७ ॥ तदङ्गमपि नाम तत्सहजकान्तिपूराप्लुत सुवर्णकदलीदलोद्वलितगर्भगौर पुन. । कठोरमदनव्यथापिशुनपाण्डिमाधिष्ठितप्रथीयकुचमण्डल परिरमेय वीक्ष्य वा ॥ ८८ ॥ जाने कोपपराङ्मुखी प्रियतमा स्वप्नेऽद्य दृष्टा मया मा मा सस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता पुरः । नो यावत्परिरभ्य चाटुकशतैराश्वासयामि प्रिया भ्रातस्तावदह शठेन विधिना निद्रादरिद्रीकृतः ॥ ८९ ॥ याता किं न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मन्कृते नो कार्या नितरा कृशासि कथयत्येवं सबाष्पे मयि । लज्जामन्थरतारकेण निपतत्पीताश्रुणा चक्षुषा दृष्ट्वा मा हसितेन भाविमरणोत्साहस्तया सूचितः ॥ ९० ॥ श्वासा एव मृगीदृशो न गणिता. के नाम झञ्झानिलास्तीर्णा बाष्पपरम्परैव सरिता वृन्देषु कः सभ्रम. । सोढा कातरदृष्टिरेव कियती वज्राभिघातव्यथा प्रेमैवायमुपेक्षितो यदि तदा प्राणेषु कोऽनुग्रह ॥ ९१ ॥ सा बाला वयम्प्रगल्भमनस. सा स्त्री वय कातरा. सा पीनोन्नतिमत्पयोधरयुग धत्ते सखेदा वयम् । साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वय दोपैरव्यञ्जनश्चयैरपटवो जाता. स्म इत्यद्भुतम् ॥ ९२ ॥ प्रेमार्द्रा प्रणयस्पृश परिचयादुद्गाढरागोदयास्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि । यास्वन्त.करणस्य बाह्यकरणव्यापारारोधी क्षणादागसापरिकल्पितास्त्वपि भवत्यानन्दसान्द्रो लय. ॥ ९३ ॥ धन्या सा गृहदेहली स्पृशति या तत्पादपद्मप्रभा जाता सा सरसी रसाद्विशति सा यस्या विहारेच्छया । वन्द्यः कोऽपि स एव यः खलु तया नेत्रेण सम्भाव्यते धिग्धिग्वैधममेषु मा यदनयन्नैकं कथंचित्कथम् ॥ ९४ ॥ कि मे सद्गुरुसेवनै प्रतिदिन कि व्योमकेशार्चनै. कि स्यादध्ययनेन वा सुरपुरप्राप्त्याथवा कि फलम् । एतस्या. कुचकुम्भनिर्भरपरीरम्भप्रभावोद्भवत्खेदाम्भोभिरनङ्गवह्निविरहुना निर्वापितो नो यदि ॥ ९५ ॥ तन्वी सा यदि गायति श्रुतिकटुर्वीणाध्वनिर्जायते यद्याविष्कुरूते सितानि मलिनैर्बालक्ष्यते चन्द्रिका । आस्ते म्लानमिवोत्पल नवमपि स्याच्चेत्पुरो नेत्रयोस्तस्या. श्रीरवलोक्यते यदि तदिद्धल्ली विवर्णैव सा ॥ ९६ ॥ तानि स्पर्शसुखानि ते च तरलस्निग्धा दृशोर्विभ्रमास्तद्वक्राम्बुजसौरभं स च सुधास्यन्दी गिरा वक्रिमा ! मा बिम्बाधरमाधुरीति विषयासङ्गेऽपि मन्मानस तस्या लग्नसमाधि हन्त विरहव्याधि. कथं वर्तते ॥ ९७ ॥ तस्मिन्पञ्चशरे खरे भगवता भर्गेण भस्मीकृते जानाम्यक्षयसायक कमलमू कामान्तर निर्ममे । यस्यामीभिरितस्ततश्च विशिखैरापुङ्खममात्मनिर्जीते मे विदलत्कदम्बसुकुलस्पष्टोपमानं वपुः ॥ ९८ ॥ ज्योत्स्नी श्यामलिमानमानयत भो. सान्द्रैर्मषीकूर्चकैर्मन्त्रं तन्ममथ प्रयुज्य हरत श्वेतोत्पलाना सितम् । चन्द्र चूर्णयत क्षणाच्च कणश. कृत्वा शिलापट्टेके येन द्रष्टुमह क्षमे दश दिशस्तद्वक्रमुद्राङ्किताः

१ विकसितम् २ शैल्यम् ३ वह्नि