भारतकोश
संग्रह पर लौटें

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पार्वती, षण्मुखः, हरिहरौ १३


यक्षसदने कासौ विषादी बकीक्रोडे स्यादिति पद्मजागिरि-
जयोर्वाग्भङ्ग्य पान्तु वः ॥ ४३ ॥ वेणीबन्धकपर्दिनी
सिततनु श्रीखण्डपासूत्करै. केतक्येकदलेन्दुभृद्धिसलतां
व्यालोपवीतिन्यपि । प्राक्पाणिग्रहणाद्विनोदरमसा सख्याः
पुरो लीलया कुर्वाणानुकृति हरस्य दिशतु श्रेयांसि वः
पार्वती ॥ ४४ ॥ यस्याङ्घ्रिद्वितय नमन्ति विबुधा. स त्वेककः
सर्ववित्त मृत्युञ्जयमामनन्ति मुनय सोऽद्यापि यातिन्नता•(१) ।
इत्याकर्ण्य कथा रहस्यपि यथा पत्युर्विवाहातुरा भङ्गक्त्या-
ज्ञानि विजृम्भित गिरिम्रुवो मोट्टायित पातु व. ॥ ४५ ॥
सन्ध्यारागवती स्वभावकुटिला गङ्गा द्विजिव्हः फणी वक्राङ्गैर-
र्मलिनः शशी कपिमुखो नन्दी च मूर्खो वृषः । इत्थ
दुर्जनसंकटे पतिगृहे वस्तव्यमेतत्कथं गौरीत्थ नृकपाल-
पाणिकमला चिन्तान्विता पातु वः ॥ ४६ ॥ भिक्षार्थी स क्व
यातः सुतनु बलिमखे ताण्डव क्वाद्य मन्द्रे मन्ये वृन्दा-
वनान्ते क्व नु स मृगशिशुर्नैव जाने वराहम् । बाले कच्चिन्न
दृष्टो जगठवृषपतिर्गोप एवास वेत्ता लीलासलाप इत्थ जल-
निधिहिमवत्कन्ययोस्त्रायता वः ॥ ४७ ॥ दीसक्षुद्वेगयोगा-
द्ददनलहुलहल्लमन्जिहाग्रलीढब्रह्माण्डक्षौद्रबिन्दुप्रबलतरभव-
जाठराग्निसफुलिङ्गाम् । कालीं कङ्कालशेपामतुलगलचल-
न्मुण्डमालाकरालीगुहासवादिनेत्रामजनिनिवसना नौमि
पाशासिहस्ताम् ॥ ४८ ॥ उद्धाहारोपिताद्रीक्षितनिजपदद्यो.
संगतामिन्दुमौलावानम्रे या सुधाशोर्व्यधित किल कला
तूर्णमेवान्नपूर्णीम् । सक्तानामक्षतानाममृतदृगनलोपाधित.
पक्कभावान्नानाथैरन्नपूर्णा प्रणतजनतते. पूर्णतामातनोतु
॥ ४९ ॥ जङ्घाकाण्डोरुनालो नखकिरणलसत्केसराली-
करालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरभृङ्गः ।
भर्तुर्नृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापीसभूता-
म्भोजशोभा विदधदभिनमो दण्डपादो भवान्याः ॥ ५० ॥
विद्वेोणे रुद्रवृन्दे सवितरि तरले वज्रिणि ध्वस्तवज्रे जाताशङ्के
शशाङ्के विरमति मरुति त्यक्तवैरे कुबेरे । वैकुण्ठे कुण्ठि-
तास्रे महिषमतिरुषं पौरुषोपघ्ननिघ्न निर्विघ्न निघ्नती वः शम-
यतु दुरितं भूरिभावा भवानी ॥ ५१ ॥ वक्ष.पीठे निरीक्ष्य
स्फटिकमणिशिलामण्डलस्वच्छभासि स्वां छायां साम्यसूया
त्वमियमिति मुहुः सत्यमाश्वासितापि । वामे मे दक्षिणेऽस्याः
श्रैवसि कुवलय नाहमित्यालपन्ती दत्ताश्लेषा सहासं मदन-
विजयिना पार्वती व. पुनातु ॥ ५२ ॥ रामार्चिताङ्घ्रिरभि-
रामाकृतिः कृतविरामा सुपर्वविपदा कामार्तिहृत्सफलकामा
निर्देशरतकामादिनिर्जरवधू. । भौमा हरस्य नुत्तभौमा जैपा-
सदृशभा माननीयचरिता सा मामवत्वखिलसामाहृतस्तुति-
रसामान्यमुक्तिसुखदा ॥ ५३ ॥ बॉलीयत्श्रवणपालीयुगा
ललितचूलीविराजिबकुला केलीगतानुगमरालीकुला मधुरम-
लीभिरागदतकथा । नौलीकढ्कसुमनालीकपाणिरिह काली-
यशासिसहजा तालीदलाभतनुमाली सदा भवतु काली
शुभाय मम सा ॥ ५४ ॥


षण्मुखः

शैलराजनतयास्तनयुग्मव्यापृताक्ष्ययुगलस्य गुहस्य ।
शेषवक्त्रकमलानि मलं वो दुग्धपानविधुराणि हरन्तु ॥ १ ॥
विकसदमरनारीनेत्रनीलाब्जखण्डान्यधिवसति सदा य. सय-
माधःकृतानि । न तु रुचिरकलापे वर्तते यो मयूरे वितरतु
स कुमारो ब्रह्मचर्यश्रियं व. ॥ २ ॥ अचिष्मन्ति विदार्य
वक्त्रकुहराण्यासूक्तितो वासुकेरङ्गुल्या विषकर्बुरानगणयन्.
सस्पृश्य दन्ताङ्कुरान् । एक त्रीणि च सप्त पञ्च षडिति
प्रध्वस्तसंख्याक्रमा वाचः क्रौञ्चरिपोः शिशुत्वविकलाः श्रेयांसि
पुष्णन्तु वः ॥ ३ ॥


हरिहरौ

जाह्रवी मूर्ध्नि पादे वा कालः कण्ठे वपुष्यथ । कामारि
कामताता वा कचिदेव भजामहे ॥ १ ॥ गान्ङ्गायामुनयोगेन
तुल्यं हरिहर वपुः । पातु नाभिगत पद्मं यस्य तन्मध्यगं
यथा ॥ २ ॥ अंबलाढ्यविग्रहश्रीरैमैर्त्यनतिरैक्षमालयोपेतः ।
पञ्चैक्रमोदितमुखः पायातूँरैमेश्वरो मुहुर्नैनादि. ॥ ३ ॥ पन्नग-
धारिकराग्रो गङ्गोमालक्षितोऽङ्गदोऽम्प्रुज. । शशिखण्ड-
शेखर उमापरियहो सुहुरनादिरवतु त्वाम् ॥ ४ ॥ गवैश-
पत्रो नैरूँगातिहारी कॅमारतातः शैशिखण्डमौलिः । लॅङ्केश-


१ जीर्णे २ पलायिते ३ पौरुषोपघ्नानां पराक्रमिणा निघ्न आयत्त-
स्तम् ४ प्रभूतप्रभावा ५ प्रतिबिम्बम् ६ सेर्ध्या ७ कर्णे ८ दैत्यकृत-
देवविपत्तीनाम्
१ स्त्री २ क्रोधः असुरवधकालोत्पन्न इत्यर्थ ३ अरुणेल्यर्थः
४ कर्णभूषणविशेषः ५ केशपाश ६ सखीभि ७ कमलनयना.
८ पुष्पशरहस्ता ९ कालीय सर्पस्त शास्तीति स कृष्णस्तत्सहजा
भगिनी यशोदोदरे दुर्गाप्रादुर्भावस्य भागवते प्रसिद्धत्वात् १० पार्व-
त्यर्थाङ्गीकरणात्; पक्षे,-बलाढ्यो बलिष्ठ ११ देवसपूजित , पक्षे,-
मृत्युलोकसपूजितः तस्य रक्षणात् १२ अक्षमाला जपमाला; पक्षे,-
क्षमालय पृथ्वी १३ पञ्चानन ; पक्षे,-चक्रेण मोदित मुख यस्य स •
१४ परमेश्वर शिव, रमेश्वरो, विष्णु १५ न विद्यते आदित्यस्य
स॰, पक्षे,-आद्यवर्णरहित• १६ गवीशो वृषो वाहन यस्य, पक्षे'-
आद्याक्षरस्य लोपात् वीशो गरुडो वाहन यस्य १७ पार्वतीदु ख-
नाशक पक्षे,-गजेन्द्रपीडाहारक . १८ कार्तिकेयपिता, पक्षे,-मदन-
पिता १९ चन्द्र शिरसि यस्य, पक्षे,-मयूरपिच्छाति शिरसि यस्य
२० रावणपूजितचरणकमल , पक्षे,-को ब्रह्मा, ईश शिव , एताभ्यां
पूजितपादपद्म

१४सुभाषितरत्नभाण्डागारम्[ १ प्रकरणम्

सपूजितपादपद्मः पायादनादिः परमेश्वरो व ॥ ५ ॥ स्फटिकमरकतश्रीहारिणोः प्रीतियोगात्तद्वपु वपुरेकं कामकसद्विषोर्वः । भवति गिरिसुतायाः सार्धमम्भोधिपुत्र्या सदृशमहसि कण्ठे यत्र सीमाविवाद ॥ ६ ॥ सप्राप्तं मकरध्वजेन मंथनं त्वत्तो मथं पुरा तद्युक्तं बहुमार्गगा मम पुरो निर्लज्ज वोढुस्तव । तामेवानुनयस्व-मावकुटिला हे कृष्ण कण्ठग्रहं मुञ्चेत्याह रुषा यमद्रितनया लक्ष्मीश्च पायात्स व ॥ ७ ॥ यौ तौ शङ्ककपालभूषितकरौ मालास्थिमालाधरौ देवौ द्वारवतीश्मशाननिलयौ नागारिगोवाहनौ । द्वित्र्यक्षौ बलिदक्षयज्ञमथनौ श्रीशैलजावल्लभौ पापं वो हरता सदा हरिहरौ श्रीवत्सगङ्गाधरौ ॥ ८ ॥ लोले ब्रूहि कपालिकामिनि पिता कस्ते पतिः पाथसा कः प्रत्येति जलादपत्यजननं प्रत्येति यः प्रस्तरात् । इत्थं पर्वतसिन्धुराजसुतयोराकर्ण्य वाक्चातुरी सस्मेरस्य हरर्हरेस्स व मुदो निघ्नन्तु विघ्नं तु वः ॥ ९ ॥ यस्यादासीत्कुमारः कुवलयदलवल्लीलयोवाह गङ्गा वोमा यस्याङ्कसङ्गा पिहितजनचयो यो गवीशध्वजोऽपि । लङ्केशायैकनाथो हिमकररुचिभृद्विशेषाशयोऽसौ वर्णस्याद्यस्य लोपादपहरतु हरिः पातकं वः खरारिः ॥ १० ॥

त्रिमूर्तयः

नमस्त्रिमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने । गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ॥ १ ॥ नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते । अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधास्थितात्मने ॥ २ ॥ रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलये तमःस्पृशे । अजाय सर्गस्थितिनाशहेतवे त्रयीमयाय त्रिगुणात्मने नम ॥ ३ ॥ श्यामश्वेतारुणाङ्गा जलधरणिधरोत्फुल्लपङ्केरुहस्था मोमांसांविश्र्युपेता रथेचरणपिनाकोय्र्यहुकारशस्त्राः । देवा द्वित्र्यष्टनेत्रा जगदवनसमुच्छेदनेोत्पत्तिदक्षाः प्रीता वः पान्तु नित्यं हरिहरविधयस्तौक्ष्यगोेहसपत्राः ॥ ४ ॥

विष्णुः

नमस्त्रिभुवनोत्पत्तिस्थितिसंहारहेतवे । विष्णवेऽपारसंसारपारोत्तरणसेतवे ॥ १ ॥ आदिमध्यान्तरहित देशौहीन पुरातनम् । अद्वितीयमह वन्दे मद्रक्षसदृशं हरिम् ॥ २ ॥ लक्ष्मीकपोलसक्रान्तकान्तपत्रलतोज्ज्वलाः । दोर्दुमाः पान्तु वः शौरेर्घनच्छाया महाफलाः ॥ ३ ॥ जयति स भगवान्कृष्ण शेते यः शेषभोगशय्यायाम् । मध्येपय पयोधेरपर इवाम्भोनिधिः कृष्ण ॥ ४ ॥ अतिविपुल कुजयुगल रहसि करैरामृशन्मुहुर्लक्ष्म्‍याः । तदपहृत निजहृदय जयति हरिर्मुगयमाण इव ॥ ५ ॥ जयति स नाभिजंगता खनाभिरन्ध्रोद्भवज्जगद्बीजः । दामोदरो निजोदरगहरनिर्विष्टजगदण्ड ॥ ६ ॥ श्रीकरपिहित चक्षुः सुखयतु व पुण्डरीकनयनस्स । जघनमिवेक्षितुमौगतमब्जनिभ नाभिमैसुपिरेण ॥ ७ ॥ श्याम श्रीकुचकुङ्कुमपिञ्जरितमुरो मुरद्विषो जयति । दिनमुखनम इव कौस्तुभविभाकरो यद्विभूषयति ॥ ८ ॥ प्रतिबिम्बितप्रियातनु सकौस्तुभ जयति मधुभिदो वक्षः । पुरुपायितमभ्यस्यति लक्ष्मीर्दृक्ष्य सुंकुरमिव ॥ ९ ॥ केलिचलाङ्गुलिलेम्भितलक्ष्मीनाभिर्मुरद्विषश्वरणः । स जयति येन कृता श्रीरंनुरूपा पद्मनाभस्य ॥ १० ॥ रोमावली मुरारे श्रीवत्ससन्निवेशिताग्रभागा वः । उन्नालनीभनलिनच्छायायेवौतपमपहरतु ॥ ११ ॥ कमलाकुचफनकाचलजलधरमाभीरसुन्दरीमदनम् । अधिततशेषफणावलि(सु) कमलवनभृङ्गमच्युत वन्दे ॥ १२ ॥ जीयादम्बुधितनयाधररसमास्वादयन्मुरारिरयम् । अम्बुधिमथनक्लेश कलयन्विफलं च सफलं च ॥ १३ ॥ श्रीधाम्नि दुग्धोदधिपुण्डरीके यश्चैश्वरीकद्युतिमातनोति । नीलोत्पलश्यामलमदेहकान्तिः सर्वोऽस्तु भूत्यै भगवान्मुकुन्दः ॥ १४ ॥ वक्षस्यली रक्षतु सा जगन्ति जगत्यसूतेर्गुरुडध्वजस्य । श्रियोऽङ्गरागेण विभाव्यते या सौभाग्यहेङ्ग कॅर्षपट्टिकेव ॥ १५ ॥ वृन्दारका यस्य भवन्ति भृङ्गा मन्दाकिनी यन्मकरन्दबिन्दुः । तवारविन्दाक्ष पदारविन्द वन्दे चतुर्वर्गतुतुष्पद तत् ॥ १६ ॥ जयत्युपेन्द्रः स चकार दूरतो विभित्सया यः क्षणलब्धलक्ष्यया । दृशैव कोपारुणया रिपोरुरः स्वय भयाद्विन्नमिवासपाटलम् ॥ १७ ॥ पद्मापयोधरतटीपरिरम्भलग्नकाश्मीरमुद्रितमुरो मधुसूदनस्य । व्यक्तानुरागमिव खेलदनङ्गखेद-


पादटिप्पण्यः (Left Footnotes)

१ न विद्यते आदिर्यस्य स, पक्षे,-आद्याक्षरशून्य २ शिव, पक्षे,तविष्णु ३ शिवपक्षे मदनेन, विष्णुपक्षे समुद्रेण, ४ विनाश, पक्षे,-विलोठनम् ५ नदीम् गङ्गामित्यर्थ, पक्षे,-वेश्याम् कंसस्य कुब्जा दासीमित्यर्थे- ६ कृष्णकण्ठ नीलकण्ठ यह निर्बन्ध मुझ, पक्षे,- कृष्णकण्ठयह मलकण्ठमह मुझ ७ पाषाणात् पार्वत्या पर्वतगर्भ सजननत्वात् ८ स्त्री, पक्षे,-मा लक्ष्मी ९ चन्द्र, पक्षे,-मीन १० मा लक्ष्मी, उमा पार्वती ११ चक्रम् १२ गरुट १३ वक्षस्य प्रान्तभागस्य सूत्रवर्तिका

पादटिप्पण्यः (Right Footnotes)

१ लक्ष्मी २ रतारीतिवसनविहीनतया लज्जावशादिति भावः ३ पिहितेऽपि चक्षुर्गोलकेऽन्यमार्गेण पुण्डरीकनयनमुत्पादयित्वा जघनविलोफन कृतमित्यर्थ ४ रन्ध्रम् ५ रक्तीकृतम् दृढालिङ्गनादिति भाव ६ प्रात कालीननभस स्वतो नीलिमतात् ७ कौस्तुभमणिरैव सूर्यो यस्मिन् ८ विपरीतम् ९ दर्पणम् १० स्पष्ट ११ चरणरूप पद्मनाभित्वेनेति भाव १२ रोमावत्या नालच्छायायोत्प्रेक्षा श्रीवत्से च नलिनच्छायायोत्प्रेक्षा १३ महासतापम् १४ भृङ्ग १५ निष्कषग्रावा १६ सुरतायास

विष्णुः १५

स्वेदाम्बुपूरमनुपूरयतु प्रिय वः ॥ १८ ॥ श्रेय सदा दिशतु मालम्पक्षमपाते निद्रायिते अपि दृशौ भृशमुन्नमय्य । सवाह्यमानचरणाम्बुजजातहर्षो लक्ष्मीमुखेक्षणपर परमेश्वरो वः ॥ १९ ॥ मकरोभुवनवन्धोर्वैरमिन्दो सरोजैरुरुचितमिति मत्वा य म्याददारविन्दम् । घटयितुमिव मायी योजयत्याननेन्दौ वटदलपुटशायी मङ्गल व कृपीष्ट ॥ २० ॥ कचकुचचुचुकाग्रे पाणिषु व्याप्तृतेषु प्रथमजलधिपुत्रीसङ्गमेऽनङ्गधाम्नि । ग्रथितनिबिडनीवीबन्धनोर्मोचनार्थ चतुरविककराशः पातु वश्चक्रपाणि ॥ २१ ॥ विरमति महाकल्पे नाभीपयैकनिकेतनस्त्रिभुवनपुरःशिल्पी यस्य प्रतिक्षणमात्मभू । किमधिकरण कीदृक्क्स्य व्यविस्थितिरित्यमावुदरमविशद्बहु तस्मै जगन्निधये नम ॥ २२ ॥ लक्ष्मीपाणिद्वयविरचित मूलमूर्धश्रुतीना व्यक्त वन्दे चरणकमलद्वन्द्वमाद्यस्य पुस । यत्रैकस्य व्यधित बलिना पाद्यतोयैर्वितीर्णैरार्द्रस्यैव प्रणतितरल. क्षालन पद्मयोनि ॥ २३ ॥ अनादृतचमूपतिप्रहितहस्तमस्वीकृतप्रणीतमणिपादुक किमिति विस्मितान्तःपुरम् । अवाहनपरिक्रिय पतगराजमारोहतः करिप्रवरवृहिते भगवतस्त्वरार्थै नम. ॥ २४ ॥ दृक्पातः कैलासनेऽस्तु भवतो ज्ञान मनाव्यारुते श्रीकठोऽयमित सुरानिति नतास्ताश्चर्येण विज्ञापित. । प्रेयसा. क तदासन क च रुत कण्ठः क चेत्युलमलक्ष्म्यावासितमानसो विजयते सुसप्रबुद्धो हरि. ॥ २५ ॥ निर्मग्नेन मयाम्भसि स्मरशरालैः समालिङ्गिता केनालीकमिद तवाद्य कथित गधे सुधा ताम्यसि । इत्युत्स्वप्नपरम्परासु शयने श्रुत्वा वचः शार्ङ्गिणमव्याज शिथिलीकृत कमलया कण्ठग्रहः पातु वः ॥ २६ ॥ य शैवा. समुपासते शिव इति ब्रह्मेति वेदान्तिनो बौद्धा बुद्ध इति प्रमाणपटव. कर्तेति नैयायिकाः । अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमासकाः सोऽय वो विदधातु वाञ्छितफल त्रैलोक्यनाथो हरिः ॥ २७ ॥ येनोत्थाप्य समूलमन्दरगिरिश्छत्रीकृतो गोकुले राहुर्येन महाबलः सुररिपुः कार्यादशेषीकृत. । कृत्वा त्रीणि पदानि येन वसुधा बद्धो बलिर्लीलया सोऽय पातु युगे युगे युगपतिस्त्रैलोक्यनाथो हरिः ॥ २८ ॥ मुग्धे मुञ्च विषादमत्र र्बलिमिक्कम्पो गुरुस्त्यज्यता सद्भाव भज पुण्डरीकनयने मान्यानिमान्मानय । इत्थ शिक्षयतः स्वयवरविधौ धन्वन्तरेर्वीकछलादन्यत्र प्रतिषेधमात्मनि विधि शृण्वन्हरिः पातु व ॥ २९ ॥ नाभीपद्मवसच्चतुर्मुखमुखोद्गीतस्तवाकर्णनप्रोनमीलत्कमनीयलोचनकलाखेलन्मुखेन्दुद्युति । सक्रोध मधुकैटभौ सकरुणस्नेहं सुतामम्बुधेः सोल्लासप्रणयं सरोजवसति पश्यन्हरि. पातु वः ॥ ३० ॥ निष्प्रत्यूहमुपासहे भगवतः कौमोदकीलक्ष्मणः कोकप्रीतिचकोरपारणपटुज्योतिष्मती लोचने । याभ्यामर्धविवोधमुग्धमधुरश्रीरर्थनिद्रायितो नाभीपल्वलपुण्डरीकमुकुलः कम्बोः सपत्नीकृता ॥ ३१ ॥ भक्तिप्रह्ववलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनता समाधिनिरतैर्नीतेहितप्राप्तये । लावण्यैकमहानिधी रसिकता लक्ष्मीदृशोस्तन्वती युष्माकं कुरुता भवार्तिशमन नेत्रे तनुर्वा हरे. ॥ ३२ ॥ चत्वारः प्रथयन्तु विद्रुमलतारक्ताङ्गुलिश्रेणय. श्रेय शोणसरोजकोरकरुचस्ते शार्ङ्गिणः पाणय । मालेष्वम्बुमुवो लिखन्ति युगपद्ये पुण्यवर्णावली. कस्तूरीमकरी पयोधरयुगे गण्डद्वये च श्रियः ॥ ३३ ॥ आकल्प मुरजिन्मुखेन्दुमथुरोन्मीलन्मरुन्माधुरीधीरोदात्तमनोहरः सुखयतु त्वा पाञ्चजन्यध्वनिः । लीलालङ्घितमेघनादविभवो य. कुम्भकर्णव्यथादायी दानवदन्तिना दशमुखं दिक्ष्वक्रमाक्रामति ॥ ३४ ॥ भ्राम्यन्मन्दरकन्दरोदरदरीव्यावर्तिभिर्वारिधेः कल्लोलैररमाकुलं कलयतो लक्ष्म्या मुखाम्भोरुहम् । औत्सुक्यात्तरलाक्षराद्विकसिता भीत्या समाकुञ्चिता. क्रोधेन ज्वलिता मुदा मुकुलिता शौरेर्दृशः पान्तु वः ॥ ३५ ॥ पर्यङ्कीकृतनागनायकफणाश्रेणीमणीना गणे ᶓसक्रान्तप्रतिबिम्बसवलनया बिभ्रद्वपुर्विक्रयाम् । पादाम्भोरुहधारिवारिधिसुतामक्ष्णां दिदृक्षु. शतैः कैतव्यहृमिवाचरन्नुपचित्ताकूतो हरिः पातु व ॥ ३६ ॥ मन्थक्ष्माधरघूर्णिताणवपयःपूरान्तरालोल्लसलक्ष्मीकन्दलकोमलाङ्गदलनप्रादुर्भवत्सद्द्मनाः । हर्षोत्कण्टकितत्वचो मधुपिपोर्देवासुराकर्षणव्यापांरोपर्गांय पान्तु जगतोमाबद्धवीप्सा गिर ॥ ३७ ॥ चक्र ब्रूहि विभो गदे जय हरे कम्बो समाज्नापय भो भो नन्दक जीव पन्नगरिपो किं नाथ भिन्नो मया । को दैत्यः कतमो हिरण्यकशिपु. सत्य भवद्भाः शपे केनास्त्रेण नखैरिति प्रवदतो विष्णोर्मुख पातु वः ॥ ३८ ॥ प्रत्यग्रोन्मेषंजिह्म क्षणमनभिमुखी रब्नैदीपप्रभाणामात्मव्यापारगुर्वी जनितजलल्वा


पाद-टिप्पणी (Footnotes)

वाम-भागदक्षिण-भाग
१ ब्रह्मण्यि, पक्षे,-लक्ष्म्या आसने१ शङ्खस्य
२ वायौ, पक्षे,-लक्ष्म्या शब्दे२ भक्तिप्रह्लादिविशेषणानि नेत्रपक्षे तनुपक्षे च क्रमेण द्विवचनैकवचनान्तानि
३ शिव, पक्षे,-लक्ष्म्या कण्ठ.३ 'नीता ईहितप्राप्तये' इति तनुपक्षे छेद.
४ सखी४ पश्यत
५ असत्यम्५ अदत्तपरपुत्रिकाप्रानर्थत्वेन
६ कुप्यसि६ सबद्ध
७ खेदम्, पक्षे,-शिवम्७ बहुशरीरताम्-
८ वल भिनत्तीति तम्, पक्षे,-इन्द्रम्८ समृद्धकामभाव
९ बहु; पक्षे,-बृहस्पति९ उन्मीलनम्
१० सुष्ठुभावम्, पक्षे,-सद्भावेन१० कुटिला
११ कमलोचने, पक्षे,-विष्णो११ शेषशिरस्थानमित्यर्थे

१६ सुभाषितरत्नभाण्डागारम् [ १ प्रकरणम्


जृम्भितैः साङ्गभङ्गैः । १ नौगाङ्क भोक्तुमिच्छोः शयनमुरु- फणाचक्रवालोपधानं निद्राच्छेदाभिताम्रा चिरमवतु हरे- दृष्टिरौ४केकरा वः ॥ ३९ ॥ श्रीराजीवाक्षवक्षःस्थलनिलय- रमाहस्तवास्तव्यलोलल्लीलाब्जाङ्घ्रि.सरन्ती मधुरमधुझरी नाभिपद्मे मुरारेः । २ अस्तोक लोकमात्रा द्विर्मुखमुखशिशोरा- ननेष्वर्ध्यमाण शङ्खप्रान्तेन दिव्य पय इति विबुधैः शङ्क्य- माना पुनातु ॥ ४० ॥ किंचिन्निर्मुच्यमाने गगन इव मुखे शाठ्यनिद्रापयोदैर्न्यकुर्वाणे स्वभासा फणिपतिशिरसा रत्नदीपांशुजालम् । पायास्ता वो मुरारेः शशितपनमये लोचने यद्विभासा लक्ष्म्या हस्तस्थमर्धं विकसति कमल- स्यार्धमभ्येति निद्राम् ॥ ४१ ॥ एकस्य जीवितेशे त्वयि सकलजगत्सारमालोकयामः श्यामे चक्षुस्तवास्मिन्वपुषि निवि- शते नाल्पपुण्यस्य पुंसः। कस्याप्यनामृतेऽस्मिन्प्रतिरतिविपुला दृष्टिरेवामृतं ते दैत्यैरित्युच्यमानो सुनिभिरपि हरिः ५ क्षैण- रूपोऽवताद्वः ॥४२॥ यस्योद्यद्वाणबाहुद्रुमगहनवनच्छेदगोष्ठी- कुठारं चक्र निष्क्रान्ततीव्रानलबहलकणाकीर्णधारं विचिन्त्य । जातत्रासावसायो दिवसकृतितसन्मासलाशुप्रवाहे मुखत्य- द्यापि राहुः स दहतु दुरितान्याशु दैत्यान्तको वः ॥ ४३ ॥

शङ्खः

भिन्दन्नरातिहृदयानि हरेः पुनातु निःश्वासवातमुखरीकृत- कोटरो वः। सक्रान्तकुक्षिकुहरास्पदसप्तसिन्धुसघट्टघोरतरघोष इवाशु शङ्खः ॥ ४४ ॥ पायात्स वः कुमुदकुन्दमृणालगौरः शङ्खो हरेः करतनाम्बरपूर्णचन्द्रः । नादेन यस्य सुरशत्रुविला- सिनीना काञ्च्यो भवन्ति शिथिला जघनस्थलीषु ॥ ४५ ॥

चक्रम्

दृष्टस्य यस्य हरिणा रणमूर्ध्नि मूर्तिरुद्भूतदुःसहमहःप्रसरा समन्तात् । तल्लोचनस्थिरविप्रतिबिम्बगर्भेवाभाति चक्रमरि- चक्रनुदेऽस्तु तद्वः ॥ ४६ ॥ उद्धृत्तदैत्यपृतनापतिकण्ठपीठ- च्छेदोच्छलद्बहलशोणितशोणधारम् । चक्र क्रियादभिमतानि हरेरुदारदिग्दाहदारुणनमःश्रियमुद्वहद्वः ॥ ४७ ॥

गरुडः

सौवर्णाङ्कितपत्रमारुतहताहिव्रातकान्ताकुचस्फूर्जन्मौक्ति- कभूषणः खगपतिः पूर्णेन्दुबिम्बानन । पद्माधीश्वरपादपद्म- युगलस्पर्शीमलाज्ञानतः पायाद्वो विनतासुतो हरिकृपा- लोकैकपात्रीकृतः ॥ ४८ ॥

शेषः

ब्रह्माण्डकुम्भकारं भुजगाकार जनार्दनं नौमि । स्फारे यत्फणचक्रे धरा शरावश्रिय वहति ॥ ४९ ॥


१ शेषनागक्रोडरूपम् २ बृहत् ३ मण्डलम् ४ ईषत्सङ्कुचिता ५ बहु. ६ ब्रह्मण


लक्ष्मीः

जयन्ति जगता मातुः स्तनकुङ्कुमबिन्दवः । मुकुन्दा- श्लेषसक्रान्तकौस्तुभश्रीविडम्बिनः ॥ १ ॥ पायादपयोधि- दुहितु कपोलामलचन्द्रमाः । यत्र सक्रान्तबिम्बेन हरिणा १ हरिणायितम् ॥ २ ॥ देवेऽर्पितवरणस्रजि बहुमाये वहति कैटभीरूपम् । जयति सुरासुरहमिता लज्जाजिह्रेक्षणा लक्ष्मीः ॥ ३ ॥ तल्पीकृतैरहिरगणितगरुडो हाराभिहतविधि- र्जयति । फणशतपीतश्वासो रागान्धाया श्रिय. केलि. ॥ ४ ॥ खेराननेन हरिणा सस्पृहमाकारवेदिनाकलितम् । जयति पुरुषाायितायाः कमलायाः कैटभीध्यानम् ॥ ५ ॥ कमलासनकमलेक्षणकमलारिकीरीटकमलभृद्वाहैः । नुतपद- कमला कमला करधृतकमला करोतु मे कमलम् ॥ ६ ॥ किञ्जल्कराजिरिव नील्सरोजलग्ना लेखेव काञ्चनमयी निक- षोपलस्था । सौदामिनी जलदमण्डलगामिनीव पायादुरःस्थ- लगता कमला मुरारेः ॥ ७ ॥ दन्तै कोरकिता स्मितै- र्विकसिता भ्रूविभ्रमै पत्रिता दोर्भ्यां पल्लविता नखैः कुसुमिता लीलाभरुद्भेदिता । उत्तुङ्गस्तनमण्डलेन फलिता मक्ताभि- लाषे हिता काचित्कल्पलता सुरासुरनुता पायात्सुधाब्धेः सुता ॥ ८ ॥ उत्तुङ्गस्तनमण्डलोपरिलसत्प्रालम्बमुक्तामणे- रन्तर्बिम्बितमिन्द्रनीलनिकरच्छायानुकारिद्युति । लज्जाव्याज- मुपेत्य नम्रवदना स्पष्ट मुरारेर्वपुः पश्यन्ती मुदिता मुदेऽस्तु भवता लक्ष्मीर्विवाहोत्सवे ॥ ९ ॥ आख्याते हसिते पिता- मह इति त्रस्त कपालीति च व्यावूत्तं गुरुरित्यथ दहन इत्याविष्कृता भीरुता । पौलोमीपतिरित्यसूयितमथ व्रीडा- विनम्राश्रिया पायाद्वः पुरुषोत्तमोऽयमिति यो न्यस्त स पुष्पा- ञ्जलिः ॥ १० ॥ क्रीडामिन्द्रहिरण्यशुक्तिकुहरे रक्तास्मनाव- स्थितान्हार हारसुदारकुङ्कुमरसान्व्याजन्मव्यान्नखै । वीर श्रीकुचकुम्भसीम्नि लिखतो वीरस्स पत्रावलीस्तत्कालोचित- भावबन्धमधुर मन्दस्मितं पातु वः ॥ ११ ॥ पद्मामाः स्तनेहमसञ्चनि मणिश्रेणीसमाकर्षके किचित्कञ्चुकसधिसनि- धिगते शौरे करे तस्करे । सद्यो जागृहि जागृहीति वलय- ध्वनैर्ध्रुवं गर्जता कामेन प्रतिबोधिताः प्रहरिका रोमा- ङ्कुराः पान्तु व ॥ १२ ॥ याहग्जानासि जाम्बूनदगिरि- शिखरे कान्तिरिन्दो. कलानामित्यौत्सुक्येन पत्यौ स्मितमधुर- मुखाम्भोरुह भाषमाणे । लीलादोलायमानश्रुतिकमलम- लङ्कङ्गसङ्गीतसाक्षी पायादम्भोधिजायाः कुसुमशरकलानाट्य- नान्दीनकार ॥ १३ ॥ उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनाैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभार-


१ हरिण इवाचरितम्

ब्रह्मा, दशावताराः १७


मसे बहन्त्या । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतये
शौरिणा वः शय्यामालिङ्ग्य नीत वपुरलसलसद्बाहु लक्ष्म्याः
पुनातु ॥ १४ ॥

समुद्रः

वत्से मा गा विषादं श्वसनमुरुजव सत्यजोर्ध्वप्रवृत्तं
कंपः को वा गुरुस्ते किमिव बलभिदा जृम्भितेनात्र याहि ।
प्रत्याख्यान सुराणामिति भयशमनच्छद्मना कारयित्वा यस्मै
लक्ष्मीमदात्तः स दहतु दुरित मन्थमूग्धः पयोधिः ॥ १५ ॥

ब्रह्मा

तं वन्दे पद्मसंभानमुपवीतच्छटाच्छलात् । गङ्गा स्रोत-
स्त्रयेणेव यं सदैव निषेवते ॥ १ ॥ कुलशैलदल पूर्णसुवर्ण-
गिरिकर्णिकम् । नमोऽधितिष्ठतेऽनन्तनालं कमलविष्टरम्
॥२॥ कृतकान्तकेलिकुतुकश्रीशीतश्वाससेकनिद्राणः । घोरित-
विततालिरुतो नाभिसरोजे विधिर्जयति ॥ ३ ॥ अवि-
रताम्बुजसङ्गतिसगलद्वहलकेसरसवलितेव वः । ललित-
वस्तुविधानसुखोल्लसत्तणुरुहा तनूरात्मभुवोऽवतात् ॥ ४ ॥


दशावताराः

वेदानुद्धरते जगन्निवहते भूगोलमुद्विभ्रते दैत्यं दारयते
बलिं छलयते क्षत्रक्षयं कुर्वते । पौलस्त्य जयते हेलं कलयते
कारुण्यमातन्वते म्लेच्छान्मुर्च्छयते दशाकृतिकृते कृष्णाय
तुभ्यं नमः ॥ १ ॥ यस्यालीयत शैलैक्सिङ्घ्रि जलधिः पृष्ठे
जगन्मण्डलं दंष्ट्रायां धरणी नखे दितिसुताधीशः पदे रोदसी ।
क्रोधे क्षत्रगणः शरे दशमुखः पाणौ प्रलम्बासुरो ध्याने
विश्वमसैावधार्मिककुलं कस्मैचिदस्मै नमः ॥ २ ॥ पौठीनः
कमठः किटिर्नरहरिः खर्वाकृतिर्भार्गवो रामः कसनिसूदनो
दशबलः कल्की च नारायणः । युष्माकं स विभूतयेऽस्तु
भगवान्सेतुर्मवाम्भोनिधावुत्तराय युगे युगे युगपतिस्त्रैलोक्य-
नाथो हरिः ॥ ३ ॥ वेदा येन समुद्धृता वसुमती पृष्ठे
धृताप्युद्धता दैत्येशो नखरैर्हतः फणिपतेर्लोकं बलिः प्रापितः ।
क्ष्माऽक्षत्रा जगती दशास्यरहिता माता कृता रोहिणी हिंसा
दोषवती धराप्ययवना पायात्स नारायणः ॥ ४ ॥


मत्स्यः

मग्ने मेरौ पतति तपने तोयबिन्दाविवेन्दावन्तर्लीने
जलधिसलिले व्याकुले देवलोके । मात्स्यं रूप मुखपुटतटा-
कृष्टनिर्मुक्तवार्धि श्रीकान्तस्य स्थलजलगत्तं वेत्यलक्ष्यं पुनातु
॥ ५ ॥ वियत्पुच्छोतुच्छोच्छलितजलगर्भे निधिरपामपानाथः
पौथः पृथुललवदैर्घ्यो वियदभूत् । निधिर्भासामौर्वो
दिनपतिरमूर्दोर्वदहनश्रलत्काये यस्मिन्स जयति हरिर्मीन-
वपुषा ॥ ६ ॥ जीयासुः शंकुलाकृतेर्भगवतः पुच्छ-
च्छटाच्छोटनादुर्घन्तः शतचन्द्रिताम्बरतलं ते बिन्दवः
सैन्धवाः । यैर्व्यावृत्य पतद्भिरौर्वशिखिनैस्तेजोजटालं वपुः
पानीधमानवशाँदैरोचकरुजा चक्रे चिराँयौस्पदम् ॥ ७ ॥
दिश्याद्वः शकुलाकृतिः स भगवान्नैःश्रेयसीं संपदं यस्य
स्फूर्जत्पुच्छपुच्छशिखरम्रेङ्खोलैनक्रीडनैः । विश्वग्वार्धिसमु-
च्छलज्जलभरैर्मन्दाकिनीसगतैर्गङ्गासागरसंगमप्रणथिनी जाता
विहायःस्थली ॥ ८ ॥ मायामीनतनोस्तनोतु भवता
पुण्यानि पङ्कस्थितिः पुच्छाच्छोटरसँमुच्छलज्जलगुरुप्राग्भार-
रिक्तोदधेः । पातालावर्तमध्यसर्कटेटया पर्यस्तकम्थस्थितेर्वेदो-
द्धारपरायणस्य सततं नारायणस्य प्रभोः ॥ ९ ॥ जृम्भा-
विस्तृतवक्रपङ्कजविधेर्हत्वा श्रुतीः सागरे लीनं त्रस्तसमस्त-
नक्रनिकर शङ्खं जघाँनैजिरे । पुच्छोत्क्षिप्तजलोत्करैः प्रति-
दिशं २०सतर्प्य यो वै धरा पायाद्वः स मृणालकोमलतनु-
र्मानाभिधानो हरिः ॥ १० ॥ हहो मीनतनो हरे किमुदधौ
कि वेपसे शैत्यतः खिन्नः किं वडवानलात्पुलकितः कच्छा-
स्वभावादहम् । इत्थ सागरकन्यकामुखशशिश्यालोकनेना-
धिकप्रोधकामजचिह्ननिह्नुतिपरः शौरिः शिवायास्तु वः
॥ ११ ॥ पुच्छ चेदहमुन्नयाम्यनवधिस्तुच्छो भवेदम्बुधिः
क्रीडा चेत्कलये मनागपि जले पीडा पर यादसाम् ।
निस्पन्दो भृशमामृशन्निति भरब्रह्माण्डभाण्डक्षयोभाकुण्ठित-
वेष एष भगवान्प्रीणातु मीनाकृतिः ॥ १२ ॥ चन्द्रादित्यो-


पाद-टिप्पण्यः (Footnotes)

[वाम-भागः]
१ खेदम्; पक्षे,-दरम् २ श्वासम्, पक्षे,-पवनम् ३ महा-
वेगम् ४ क जल पातीति तथा वरुण ; पक्षे,-कम्प ५ महान्,
पक्षे,-बृहस्पति ६ बल प्रसिद्ध, तन्निदा नाशकेन, पक्षे,-बला-
ख्यदैत्यनाशकेनेन्द्रेण ७ श्रीकृष्णसंनिधौ ८ वर्जनम् ९ भयनि-
वारणव्याजेन १० लाङ्गलम् ११ धारयते १२ त्वक् १३ खङ्गे
१४ मत्स्य- १५ वराहः १६ बुद्धः
३ सु. र. भां.

[दक्षिण-भागः]
१ बहु २ उदकम् ३ विपुलः ४ दरिद्र ५ सूर्य ६ वडवा-
नल, यदा पानीय मीनाकृत्या भगवता स्वपुच्छेनेनोच्छलितम्, तदा
सर्वमपि सामुद्र जल वियति गतम् तत्र च रविर्व्रैतैत एव, स
वडवानलीकृत्या दृश्यत इत्यर्थ ७ समुद्रे पानीयाभावात्समुद्रस्या-
काशकल्पना तत्र च वाडवाग्ने सूर्योपमेति भाव ८ मत्स्याकृते ०
९ इतस्तत आलोडनम्. १० ऊर्ध्वं गच्छन्त ० ११ तेजोव्यासम्
१२ अग्निसयोगाभावः १३ अरुचिरोगाणाम्. १४ यो निदाघ
ज्वरादिगुग्गुकान्तो बहुपानीयँ पिबति, तस्य पश्चात्पानीयस्यरुचिर्जा-
यते तथैतस्य वाडवाग्नेरपीति भाव १५ दोला १६ आकाशस्थली.
यतः सागरजल मत्स्यपुच्छेनोच्छलित सुरनद्या सङ्गमवाप ततो
गङ्गासागरसगमतीर्थं नभस्यपि जज्ञ इति भाव १७ उछोलनम्.
१८ भूरन्ध्रम् १९ सकीर्णतया २० वेदान् २१ रणाङ्गणे.
२२ दत्वा २३ अपलपनम्

१८ सुभाषितरत्नभाण्डागारम् [ १ प्रकरणम्


[वाम स्तम्भः]

रैनेत्रः केमलभवभवस्फारपृष्ठप्रतिष्ठो भास्वत्कालाग्निजिह्व पृथुलगलगुहादृष्टनिःशेषविश्वः । अद्भिः पुच्छोत्थिताभिश्चकितसुरवधुनेत्रसूचीभिराभिः सच्छिन्नान्धिर्बेलं गगनतलमलं क्षालयन्वः पुनातु ॥ १३ ॥ य दृष्ट्वा मीनरूप स्फुरदनलशिखायुक्तसरक्तनेत्रं लोलद्विस्तीर्णकर्णक्षुभितजलनिधिं नीलमूतवर्णम् । श्वासोच्छासानिलौधैः प्रचलितगगनं प्रीतवारि सुरारि दिङ्गूढोऽभूत्स शङ्खः स भवतु भवता भूतये मीनरूपः ॥ १४ ॥ दिङ्गूढ त सुरारि किल शितदशनैः पीड्यमान रटन्तं हत्वा तीरे पयोघेः करतलकलित पूरयामास शङ्खम् । नादेनाक्षोभ्य विश्व प्रमुदितविबुध त्रस्तदैत्य स देवैर्दत्तार्यः पद्मयोनेः प्रहसितवदनः पातु वो दत्तवेदः ॥१५॥

कूर्मः

निरवधि च निराश्रयं च यस्य स्थितमनिर्वर्तितकौतुकप्रपञ्चम् । प्रथम इह भवान्स कूर्ममूर्तिर्जयति चतुर्दशलोकवत्तिकन्दः ॥ १६ ॥ भ्राम्यन्महागिरिनिघर्षणलब्धपृष्ठकण्डूयनक्षणसुखायितगाढनिद्रः । सुष्वाप दीर्घतरघर्घरघोरघोषः श्वासाभिभूतजलधिः कमठः स वोऽव्यात् ॥ १७ ॥ नमस्कुर्मः कूर्मे नमदमरकोटीरनिकरप्रसृन्माणिक्यच्छविविलितमाञ्जिष्ठवपुषम् । जरीजूम्मड्डिम्भेर्युगैमिरमणीयाशुलहरीपरीरम्भस्फूर्जद्गलभिदेपैलाद्रिप्रतिमटम् ॥ १८ ॥ निष्प्रत्यूहमल्पकल्पचरितस्त्रैलोक्यरक्षागुरुः क्रीडाकूर्मकलेवरः स भगवान्दिश्यादमन्दा मुदम् । कल्पान्तोदधिमध्यमज्जनवशाद्व्यासर्पतः सलिलतृष्ठे यस्य बभूव सैकतकणच्छाय धरित्रीतलम् ॥ १९ ॥ पृष्ठभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनैर्निद्रालोः कमठाकृतेर्भगवत श्वासानिला पान्तु वः । यैत्सत्कारकलानुवर्तनवशाद्वेलाछलेनाम्भसा यातायातमत्तन्द्रित जलनिधेर्नाद्यापि विश्राम्यति ॥ २० ॥ दृष्ट्वा यस्य विलोकनाय जगतो द्रागीषदुत्तोलितग्रीवाग्रोपरि विस्फुरद्ग्रहगणे छात्राथिताया भुवि । हा धिग्भूः किमभूदभूत्कदितरत्किं चेति पर्याकुलो हन्याद्वेष हठादघानि कमठाधीशः कठोराणि वः ॥ २१ ॥ यो धत्ते शेषनागं तदनु वसुमतीं स्वर्गपातालयुक्तां युक्ता सर्वैः समुद्रैर्हिमगिरिकनकमस्थमुस्यैर्नगेन्द्रैः । एतद्ब्रह्माण्डमस्यामृतघटसदृश भाति वशे मुरारेः पायाद्वः कूर्मदेहः प्रकटितमहिमा माधवः कामरूपी ॥ २२ ॥

वराहः

नमस्तस्मै वराहाय हेलयोद्धरते महीम् । खुरमध्यगतो यस्य मेरुः खुरखुरयते ॥ २३ ॥ पातु वो मेदिनीदोला


[दक्षिण स्तम्भः]

बालेन्दुद्युतितस्करी । दंष्ट्रा महावराहस्य पात्यूलगृहदीपिका ॥ २४ ॥ हरेर्लीलावराहस्य दंष्ट्रादण्डः स पातु वः । हेमाद्रिकलसा यत्र धात्री छत्रश्रियं दधौ ॥ २५ ॥ स जयति महावराहो जलनिधिजठरे चिर निमग्नोऽपि । येनाग्रैरिव सह फणिगणैर्बलादुद्धृता धरणी ॥ २६ ॥ पातु वः कपटकोलकेशवो यस्य निःश्वसितमारुतोद्धता । उच्च्छितप्रपतनैरैचीकूपकेलिकेंदुकतुलामिला मुहु ॥ २७ ॥ मेरूरुकेसरमुदारदिगन्तपद्ममामूलबिम्बितशेपशरीरनालम् । येनोद्धृत कुवलय सलिलात्सलीलमुत्तसकार्थमिव पातु स वो वराह ॥ २८ ॥ न पङ्केरालेप कलयति धरित्रीव्ययभयान्न मुक्तामादत्तेऽप्युरगनगरअश्रभयतः । न धत्ते ब्रह्माण्डस्फुटनभयतो घर्घरखं महाक्रोडः पायादिति सकलसकोचितमुखः ॥ २९ ॥ न मृद्रीयान्मृद्वी कथमिव मही पोत्रनिकषैर्मुखाग्नज्वालाभिः कनकगिरिरीयान्न विलयम् । न शुष्येयुः श्वांसैः सलिलनिधयः सस च कथ वराहो यः पायादिति विपुलचिन्तापरिकरः ॥ ३० ॥ पातु त्रीणि जगन्ति संततमैंकुपातस्तमभ्युद्धरन्द्यात्रीं कोलकलेवरः स भगवद्वैकुण्ठदंष्ट्राङ्कुरे । कूर्मः कॅन्दति नैलति द्विरसनः र्पन्नन्ति दिग्दन्तिनो मेरुः क्रोशति मेदिनी जैलजति व्योमापि रोलैम्बति ॥ ३१ ॥ पातु श्रीस्तनपत्रभङ्गमकरीमुद्राङ्कितोरःस्थलो देवो वः स जगत्लैतिर्मधुवधूवक्त्राब्जचन्द्रोदयः । क्रीडाक्रोडतनोर्नवेन्दुविशदे दंष्ट्राङ्कुरे यस्य भूर्भाति स्म प्रलयान्धिपल्वलतलोत्खातैकमुस्ताकृतिः ॥ ३२ ॥ दृप्यद्दैत्यनितम्बिनीजनमनःसंतोषसकोचनः कुर्याद्विश्वमनश्वर स भगवान् क्रोडावतारो हरिः । यद्दंष्ट्राङ्कुरैकटिकोटिरैर्रेंकुटीकोणान्तरस्थेयसी पृथ्वी भात्यैर्वदातकेतकदलालीनेव भृङ्गाङ्गना ॥ ३३ ॥ अर्था यस्य दिशो दलानि विपुलः कोशः सुवर्णाचलः कान्तः केसरजालमर्ककिरणा भृङ्गाः पयोदावली । नालं शेषमहोरगः प्रवितत् वारानिधेर्लीलया तद्द्वः पातु समुद्धरन्कुवलंयं क्रोडाकृतिः केशवः ॥ ३४॥ बिभ्राणोऽभिनवेन्दुकुंटिकुटिल दंष्ट्राङ्कुर लीलया क्रोडाकारधरो हरिः स भगवान्भूयाद्विभूतिप्रदः । यस्योत्क्षिप्तवतः


[पादटिप्पण्यः / Footnotes]

वामपादटिप्पणीदक्षिणपादटिप्पणी
१ गरिष्ठ१ वराह
२ ब्रह्मणो जातम्, ब्रह्माण्डमित्यर्थ२ अकरोत्
३ सबिस्मय दृष्टाभि३ यथा कन्दुक क्रीडया शिशुभिरुत्क्षिप्यतेऽपक्षिप्यते च, तथैव भूरपि श्वासवायुप्रेरितोध्र्वाध पतनेः कन्दुकतुला तुलयतीति भाव
४ व्याकुल४ यद्यह धरित्र्यां समुद्रे पङ्के लुंठियामि तदेय भूर्भ्रदपुष्येव विलय यास्यतीति विचार्य
५ तीक्ष्णदन्तै५ समुद्रात्
६ वादयामास६ कन्द इवाचरति
७ अवस्थानम्७ नालमिवाचरति
८ मुकुट८ पत्राणीवाचरन्ति
९ लोहितम्९ कोरक इवाचरन्ति
१० अतिशयेन विकसन्१० कमलमिवाचरति
११ तरुण११ भ्रमर इवाचरति
१२ सूर्य१२ यथा चन्द्रोदयेऽब्जानि संकोचमाप्नुवन्ति तथा हररुदयान्मधुवधूवक्राम्भोरुहानि नि श्रीकाण्यभवन्निति भाव
१३ इन्द्रनीलपर्वतसदृशम्१३ अग्रम्
१४ आकुञ्चनप्रसारणादि१४ निःक्षुब्धभवनम्
१५ पृष्ठ इति शेष१५ उज्ज्वलम्
१६ तदुपरि१६ पृथ्वीमण्डलम्; पक्षे, नलिनम्.
१७ पृष्ठवंशे.

दशावताराः १९


क्षमाकमलिनीमालम्बमानः क्षण लोलद्बालमृणालनालतुलना<br>मेजे भुजङ्गेश्वरः ॥ ३५ ॥ मुक्तेर्यास्यति कुत्रचिद्वसुमती<br>दष्ट्राङ्कुरस्थेयसी कुक्षौ क्षोभमवाप्स्यति त्रिभुवनं रुद्धैरमीभिः<br>क्रमात् । इत्यस्वल्पविकल्पमीलितमतेः कण्ठे लुठन्तो मुहुः<br>क्रोडाकारधरस्य कैटभजितः श्वासानिलाः पान्तु वः ॥ ३६ ॥<br>भूयादेष सता हिताय भगवान्कोलावतारो हरिः सिन्धोः<br>क्लेशमपास्य यस्य दशनप्रान्ते नटन्त्या भुवः । तारा हारति<br>वारिदस्तिलकति क्ष्मावाहिनी माल्यति क्रीडादर्पणति क्षपा-<br>पतिरहर्देवश्च ताटङ्कति ॥ ३७ ॥ लीने श्रोत्रैकदेशे नभसि<br>नयनयोस्तेजसि क्वापि नष्टे श्वासग्रासोपमुक्ते मरुति जल-<br>निधौ पादरन्ध्रार्धपीते । पोत्रेभ्रान्तैकरोमान्तरविवरगता<br>मार्गतश्चक्रपाणे. क्रोडाकारस्य पृथ्वीमकलितविभवं वैभवं वः<br>पुनातु ॥ ३८ ॥ सिन्धुष्वङ्गावगाहः खुरविवरविशत्तुच्छ-<br>तोयेषु नाशः प्राप्ताः पातालपङ्के न लुटितरुचयः पोत्रमात्रोप-<br>योगात् । दष्ट्राविष्टेषु नास. शिखरिषु च पुनः स्कन्धकण्डू-<br>विनोदो येनोद्धारे धरित्र्याः स जयति विभुताविभ्रितेच्छो<br>वराहः ॥ ३९ ॥ केदानीं दर्पितास्ते धनमदमदिरामोदिनो<br>दिग्द्विपेन्द्रा हे मेरो मन्दराद्रे मलय हिमगिरे साधु वः<br>क्षमाधरत्वम् । शेष श्लाघ्योऽसि दीर्घैः पृथुभुवनभरोच्चण्ड-<br>शौण्डैः शिरोभिः शसन्सोत्प्रासमुपैरिति धरणिभृतः पातु<br>युष्मान्वराह. ॥ ४० ॥<br>नृसिंहः<br>सुरासुरशिरोरत्नकान्तिविच्छुरिताङ्घ्रये । नमस्त्रिभुवने-<br>शाय हरये सिंहरूपिणे ॥ ४१ ॥ शत्रोः प्राणानिलाः<br>पञ्च वयं दश जयोऽत्र कः । इति कोपादिवाताम्राः<br>पान्तु वो नृहरेर्नखाः ॥ ४२ ॥ प्रोज्ज्वलज्ज्वलनज्वालावि-<br>तोरुसटाच्छटः । श्वासक्षिप्तकुलक्ष्माभृत्पातु वो नरकेसरी<br>॥ ४३ ॥ व्याधूतकसरसटाविकरा लवक्त्रं हस्ताग्रविस्फुरितश-<br>ङ्गगदासिचक्रम् । आविष्कृतं सपदि येन नृसिंहरूपं नारा-<br>यण तमपि विश्वसृज नमामि ॥ ४४ ॥ दैत्यास्थिपञ्जरवि-<br>दारणलब्धरन्ध्ररक्ताम्बुनिर्जरसरिद्वनजातपङ्काः । बालेन्दु-<br>कोटिकुटिलाः शुकचक्षुभासा रक्षन्तु सिंहवपुषो नखरा<br>हरेर्वः ॥ ४५ ॥ दिश्यात्सुख नरहरिर्मुवनैकवीरो यस्याहवे<br>दितिसुतोद्दलनेद्यतस । क्रोधोद्धत मुखमवेक्षितुमक्षमत्व<br>जानेऽभवन्निजमुखेष्वपि यन्नतास्ते ॥ ४६ ॥ वपुर्दैर्लेनसञ्चै-<br>मात्खनखरं प्रविष्टे रिपौ क्व यात इति विस्मयात्प्रहित-<br>लोचनः सर्वत. । वृथेति करताडनान्निपतितं पुरो दानव<br>निरीक्ष्य भुवि रेणुवज्जयति जातहासो हरिः ॥ ४७ ॥<br>चटच्चटिति चर्मणि च्छमिति चोच्छलच्छोणिते धगद्धगितिमेदसि स्फुटरवोऽस्थिनि छागिति । पुनातु भवतो हरेरमर-<br>वैरिवक्षःस्थलङ्कणत्करंजपञ्जरक्रकचकाषजन्मानलः ॥ ४८ ॥<br>ससत्वरमितस्ततस्ततैर्विहस्तहस्ताटवीनिकृत्तसुरशत्रुहृत्क्षतज-<br>सिक्तवक्षःस्थलः । स्फुरद्गरभस्तिभिः स्र्थगितसँससतिद्युति<br>समस्तनिर्गमस्तुतो नृहरिरस्तु नः स्वस्तये ॥ ४९ ॥ चञ्च-<br>च्चण्डनखाय्रमर्दविगलद्दैत्येन्द्रवक्षःक्षरद्रक्तौघ्यक्तसुपाटलोद्गट-<br>सटासभ्रान्तभीमाननः । तिर्यक्कण्ठकठोरघोषघटनासर्वाङ्ग-<br>खर्वीभवद्विष्मात्तङ्कनिरीक्षितो विजयते वैकुण्ठकण्ठीरवः<br>॥ ५० ॥ दंष्ट्रासङ्कटैवक्रकन्दरललज्जिह्वस्य हव्याननज्वाला-<br>भासुरभूरिकेसरसटाभारस्य दैत्यद्रुहः । व्यावलगद्वलवद्विरण्य-<br>कशिपुक्रोडैक्षैलास्फालनस्फारप्रस्फुटदस्थिपञ्जररवक्रूरा नखाः<br>पान्तु वः ॥ ५१ ॥ सोमार्धायितनिष्पिधानदशनः सध्द्या-<br>यितान्तर्मुखो बालार्कायितलोचनः सुरधनुर्लेखायितभ्रूलतः ।<br>अन्तर्नादतिरोघपीवरगलखैकैपुनिर्यत्तडित्कारस्फारसटावरुद्ध-<br>गगनः पायान्नृसिंहः स वः ॥ ५२ ॥ विद्युच्चक्रकरालकेसर-<br>सटाभारस्य दैत्यद्रुहः शोणन्नेत्रहुताशडम्बरभृतः सिंहाकृतेः<br>शार्ङ्गिणः । विस्फूर्जद्गलगर्जितर्जितककुम्मातङ्गदर्पोदयः<br>संरम्भाः सुखयन्तु वः खरनखक्षुण्णद्विषद्वक्षसः ॥ ५३ ॥<br>दैत्यानामधिपे नखाङ्कुरकुटीकोणप्रविष्टामनि स्फारीभूत-<br>करालकेसरसटासघातघोराकृतेः । सक्रोधं च सवि-<br>स्मय च सगुरुक्रीड च सान्तःस्मितं क्रीडाकेसरिणो<br>हरेर्विजयते तत्कालमालोकितम् ॥ ५४ ॥ किं ^(१५)किं ^(१६)सिंह-<br>स्ततः किं नरसदशवपुर्देव चित्र गृहीतो नैतादृक्कापि<br>जीवोऽद्भुतमुपनय मे देव सप्ताप्त एषः । चाप चापं न<br>चापित्यहहहहहहा कर्कशत्वं नखानामित्थं दैत्येन्द्रवक्षः-<br>खरनखमुखरैर्लभिवान्यः स वोऽव्यात् ॥ ५५ ॥ भूयः कण्ठा-<br>वधूतिव्यतिकरतरलोत्तंसैनेक्षत्रमालाबालेन्दुक्षुद्रघण्टारणित-<br>दशदिशादन्तिचीत्कारकारी । अव्याद्धो दैत्यराजप्रथमयम-<br>पुरीयानघण्टानिनादो नादो दिग्भित्तिभेदप्रसरसरभसः कूट-<br>कण्ठीरवस्य ॥ ५६ ॥ अन्तःक्रोधोजिर्हानज्वलनभवशिखाकार-<br>जिह्नावलीढप्रौढब्रह्माण्डभाण्डः पृथुभुवनगुहागर्भसम्मरि-<br>नादः । दृप्यत्पौरीन्द्रमूर्तिमुरजिदवतु वः सुप्रभातण्डलीभिः<br>कुर्वन्निधूंमधूमध्वजनिचितमिव व्योम रोमह्रटतानाम्<br>॥ ५७ ॥ पायान्मायामृगेन्द्रो जगदखिलमसौ यत्तनूदर्चि-

पाद-टिप्पण्यः (Footnotes)

वामभाग-टिप्पणी: १ वराहमुखाने २ विदारणम् ३ भयात्

दक्षिणभाग-टिप्पणी: १ नखा २ करपत्रकम् ३ विस्तीर्णौ ४ व्याकुलौ ५ रुधिरम्. ६ आच्छादिता ७ सूर्य ८ वेद ९ विदारणम् १० सिक्ताः ११ संकीर्ण १२ उत्सङ्गस्थैलम् १३ रोमकूपा- १४ रक्तौभवन्- १५ हिरण्यकशिपोरस्तदनुचरस्य चोक्तिप्रत्युक्तय - १६ किं भयमित्यर्थे १७ उच्चै स्थायिनी १८ उत्पद्यमान . १९ सिंह २० अग्नि २१ व्याप्तम्

२० सुभाषितरत्नभाण्डागारम् [१ प्रकरणम्


र्चिर्ज्वालाजालावलीढं बत भुवि सकल व्याकुलं किं न भूयात् । न स्याच्चेदाशु तस्याधिकविकटसटाकोटिभिः पात्यमानादिन्दोरानन्दकन्दात्तदुपार तुहिनसारसंदोहवृष्टिः ॥ ५८ ॥ आदित्याः किं दशैते प्रलयभयकृत. स्वीकृता- काशदेशाः कि वोल्कामण्डलानि त्रिभुवनदहनोद्योतनानीति भीतः। पायात्सुनारसिंह वपुरमरगणैर्विभ्रतः शार्ङ्गपाणेर्दंष्ट्रा दंष्ट्रासुरोरःस्थलदरणगलद्रक्तरक्ता नखा वः ॥ ५९ ॥

वामनः

अव्याद्वो वामनो यस्य कौस्तुभप्रतिबिम्बिता । कौतुकालोकिनी जाता जाठरीव जगत्त्रयी ॥ ६० ॥ अङ्घ्रिदण्डो हरेरूर्ध्वमुत्क्षिप्तो बलिनिग्रहे । विधिविष्टरपद्मस्य नालदण्डो मुदेऽस्तु नः ॥ ६१ ॥ खर्वग्रन्थिविमुक्तसंधि विलसद्वक्षःस्फुरत्कौस्तुभ निर्यन्नाभिसरोजकुड्मलपुटीगम्भी- ३रसामध्वनि। पात्रावासिसमुत्सुकेन बलिना सानन्दमालो- कितं पायाद्वः क्रमवर्धमानमहिमाश्चर्यं मुरारेर्वपुः ॥ ६२ ॥ हस्ते शङ्खकिणाङ्कितोऽरुणविभाकिर्मीरतोरःस्थलो नाभिप्रे- ४ङ्खद्दलिर्विलोचनयुगप्रोग्दूतशीतातपः । बाहूर्भिमिश्रितवहिरेश तदिति व्याक्षिप्य वाक्यं कवेस्तारैरध्ययनैर्हरन्बलिमनः पायाज्जगद्वामनः ॥ ६३ ॥ स्वस्ति स्वागतमर्थ्यहं वद विभो किं दीयता मेदिनी का मात्रा मम विक्रमत्रयपदं दत्तं जलं दीयताम् । मा देहीत्युशनाब्रवीद्धरिरयं पात्र किमक्ष्मात्परं चेत्येव बलिनार्चितो मखमुखे पायात्स वो वामनः॥ ६४ ॥ स्वामी सन्भुवनत्रयस्य विकृति नीतोऽसि किं याज्ञया यद्वा विश्वसृजा त्वयैव न कृत तन्नीयता ते कुतः। दान श्रेष्ठतमाय तुभ्यमतुल बन्धाय नो मुक्तये खिन्नो बलिना निरुत्तरतया हीतो हरिः पातु वः ॥ ६५ ॥ ब्रह्माण्डच्छत्रदण्डः शतधृतिभवनाम्भोरुहो नालदण्डः क्षोणी- नौकूपदण्डः क्षरदमरसरित्पट्टिकाकेतुदण्डः । ज्योतिश्चक्रां- क्षदण्डस्त्रिभुवनविजयस्तम्भदण्डोऽङ्घ्रिदण्डः श्रेयस्त्रैविक्रमैस्ते वितरतु विबुधद्वेषिणा कालदण्डः ॥ ६६ ॥ यक्षादा- क्रामतो या गैरैडमणिशिलाकेतुदण्डायमानादौश्च्योतन्त्या- बभासे सुरसरिदमला वैर्जयन्तीव कान्ता । भूमिष्ठो यस्त- थान्यौ भुवनगृहमहास्तम्भशोभा दधानः पातामेतौ पैंयो- जोदरललिततलौ पङ्कजाक्षस्य पादौ ॥ ६७ ॥ कस्त्वं ब्रह्म- न्नपूर्वः क्व च तव वसतिर्याऽखिला ब्रह्मसृष्टिः कस्ते नाथो ह्यनाथः क्व च तव जनको नैव तातं स्मरामि । किं ते- ऽभीष्टं ददामि त्रिपदपरिमित भूमिपरूपं किमेतस्त्रैलोक्यं भाव- गर्भ बलिमदमवदद्दामनो वः स पायात् ॥ ६८ ॥

परशुरामः

कुलाचला यस्य मही द्विजेभ्यः प्रयच्छतः सीमैद्वपस्त्व- मापुः । बभूवुरुत्सर्गजलं समुद्राः स रैणुकेयः श्रियमात- नोतु ॥ ६९ ॥ किं दोर्म्या किमु कौर्मुकोपनिषदा भैर्गप्रसादेन किं कि वेदाधिगमेन भास्वति भृगोर्वंशे च किं जन्मना । किं वानेन ममाद्भुतेन तपसा पीडा कृता- न्तोऽपि चेत्त्रिप्रियाणा कुरुतेऽन्तरित्यनुशयो रामस्य पुष्णातु वः ॥ ७० ॥ नाशिष्यः किमभूद्भवः किमभवन्नापुत्रिणी रेणुका नाभूद्विश्शमकार्मुक किमिति वः प्रीणातु रामत्रपा । विप्राणा प्रतिमन्दिर मणिगणोन्मिश्राणि दण्डाहतेनाब्धीना स मया यमोऽपि महिषेणाम्भासि नोद्गाहितः ॥ ७१ ॥ पायाद्बो जमदग्निवंशतिलको वीरव्रतालंकृतो रामो नाम मुनीश्वरो नृपववे भास्वत्कुठारायुधः । येनाशेषहृताहितान्र्ङ्गरुधिरैः सत- र्पिताः पूर्वजा भक्त्या चाश्वमखे समुद्रवसना भूर्हन्तींकारी- कृता ॥ ७२ ॥ द्वारे कल्पतरुं गृहे सुरगवी चिन्तामणीनङ्गदे पीयूष सरसीषु विप्रवदने विद्याश्चतस्रो दश । एवं कर्तुमयं तपस्यति भृगोर्वशावतसो मुनिः पायाद्वोऽखिलराजकक्ष्य- करो भूदेवभूषामणिः ॥ ७३ ॥ नो सध्या समुपासते यदि तदा लोकापवादाद्भय सा चेत्स्वीक्रियते भविष्यति तदा रौजन्यबीजे नति.। इत्थं चिन्तयतश्चिर भृगुपतेर्निःश्वास- कोष्णीकृतो नेत्रान्तःप्रतिबिम्बशोणसलिलः संध्याञ्जलिः पातु वः ॥ ७४ ॥

रामचन्द्रः

वन्दामहे महेशानचण्डकोदण्डखण्डनम् । जानकी- हृदयानन्दचन्दनं रघुनन्दनम् ॥ ७५ ॥ नमो राम- पदाम्भोज रेणवो यत्र सततम् । कुर्वन्ति कुमुदप्रीतिमरण्य- गृहमेधिनः ॥ ७६ ॥ खर्वैणाजिनशयनों योजितनयनो


१ बन्धने २ आसनम् ३ ब्रह्मण सामवेदध्वनी ४ यतो हरेर्भगवतो हृदये कौस्तुभमणिलोंहितच्छविरस्ति, अतस्तत्प्रभाभि कर्बुरितत्व वक्ष स्थलस्यापीति भाव ५ यतो हरेर्नाभौ कमल वर्तते, अतस्तत्र तन्कुरभिगन्धलोलुपतया भ्रमरागमन घटत एवेति भाव ६ लहरी ७ शुक्रस्य ८ ब्रह्मा ९ गुणवृक्ष १० नाभिक्षेप्यदारुदण्ड ११ त्रिषु लोकेषु पादन्यासो यस्य तस्य १२ मरकतमणिनिर्मितध्वजदण्डायमानातू १३ क्षरन्ती १४ पातका १५ आरक्ततलाविति भाव

१ यदा ब्राह्मणेभ्यो भूर्दत्ता, तदा तेषां स्वस्वभूमिसामार्थं कुलपर्वता एवासन्निति भाव २ यदा याचकेभ्यो दान दीयते, तदा दानात्प्राग्दातृभिरुत्सर्गजलं दीयते अतस्तेनैतावद्दान दत्तं येन समुद्रा उत्सर्गजलतयाभूवन्निति भाव ३ धनुर्वेदविद्याशान्तरहस्येन- ४ यतो महतामनुग्रहस्तदा सफल स्यात्, यद्युपकार कस्यचित्कर्तु शक्येत, परं मया तत्पीडापि निवारिता न भवति, अत शंभुप्रसादेन किमित्यर्थं ५ यतस्तत्प्रसादात्साध्यमपि साध्यते पर यदि मया तत्कृत्यं नासाधि, तदानेन तपसा किमिति भाव . ६ शत्रव ७ ब्राह्मणेभ्यो देयत्वेन विहितेत्यर्थ 'ग्रासप्रमाणे भिक्षा स्यादग्र ग्रासचतुष्टयम् । अग्र चतुर्गुण प्राहुर्हन्तकार द्विजोत्तमा ॥' इत्युक्तत्वात्. ८ सूर्ये

दशावतारः२१

दशास्यद्दिग्भागे । मुहुखलोकितचापः कोऽपि दुगप. स नीलिमा शरणम् ॥ ७७ ॥ अविपञ्चवटीकुटीगवर्तिम्फुटितेन्दीवरसुन्दरोरुमूर्तिः । अपि लक्ष्मणलोचनैकसख्य भजत ब्रह्म सरोरुहायताक्षम् ॥ ७८ ॥ कनकनिकषभामा सीतयालिङ्गिताङ्गो नवकुवलयद्दामश्यामवर्णाभिरामः । अभिनव इव विद्युन्मण्डितो मेघखण्डः शमयतु मम ताप सर्वतो रामचन्द्रः ॥ ७९ ॥ परिणयविधौ भक्त्वा नद्ध्रिषो धनुग्ग्रतो जनकसुतया दत्ता कण्ठे स्रज हृदि धारयन् । कुसुमधनुषा पाशेनैव प्रसह्य वशीकृतोऽवनतवदनो रामः पायात्रपायिनयान्वितः ॥ ८० ॥ उत्फुल्लामलकोमलोत्पलदलश्यामाय रामामने.कामाय प्रथमाननिर्मलगुणग्र्रामाय रामात्मने । योगारूढमुनीन्द्रमानसमसरोहमाय ससारविध्वसाय स्फुरदोजसे रघुकुलोत्तसाय पुसे नमः ॥ ८१ ॥ यो रामो निजघान वक्षसि रणे त रावण सायकैर्हृद्यस प्रतिवासर वसति सो तस्या ह्यय राघवः । यस्यास्ते भुवनावली परिवृता द्वीपैः सम सप्तभिः स श्रेयो विदधातु नस्त्रिभुवनत्राणैकचिन्तापर ॥ ८२ ॥ राज्य येन पटान्तलभतृणवत्त्यक्त गुरोराज्ञया पाथेय परिगृह्य कार्मुकवर घोर वन प्रस्थित. । स्वाधीनः शशिमौलिशापविपये प्राप्तो न वै विक्रिया पायाद्ध. स बिभीषणाग्रजनेहा। रामाभिधानो हरि. ॥ ८३ ॥ कारुण्यामृतनीग्माश्रितजनश्रीचातकानन्दद शाङ्गाखण्डलचापमम्बुजमवादीन्द्रादिवर्हाइदम् । चारुस्मेरमुखोल्लसजनकजासौदामिनीशोभितं श्रीरामम्बुदमाश्रयेऽखिलजगत्ससारतापपहम् ॥ ८४ ॥ कूर्भो मूलवदालवालवदपाराशिलंतावदिशो मेघाः पल्लववत्सूनफलवन्नक्षत्रसूर्यन्दवः । स्वामिन्व्योमतरुः क्रमे मम कियाञ्छुत्वेति गां मारुतेः सीतानवेषणमादिशन्दिशतु वो राम सलज्ज. श्रियम् ॥ ८५ ॥ एतौ द्वौ दशकण्ठकण्ठकदलीकान्तारकान्तिच्छिदो वैदेहीकुचकुम्भकुङ्कुमरजःसान्द्रेरुणाङ्काङ्कितौ । लोकत्राणविधानसाधुसवनप्रारम्भयूपौ भुजौ देयास्तामुरुविक्रमौ रघुपतेः श्रेयासि भूयांसि वः ॥ ८६ ॥ वालक्रीडनमिन्दुशेखरधनुर्भङ्गावधि प्रह्वता ताते काननसेबनावधि कृपा सुग्रीवसख्यावधि । आज्ञा वारिधिबन्धनावधि यशो लङ्केशनाशावधि श्रीरामस्य पुनातु लोकवशता जानक्यपेक्षावधि ॥ ८७ ॥ कल्याणाना निधान कलिमलमथनं पावन पावनाना पाथेयं यन्मुमुक्षो. सपदि परपदप्राप्तये प्रस्थितस्य । विश्रामस्थानमेक कविवरवचसां जीवन मज्जनाना बीज धर्मद्रुमस्य प्रभवतु भवता भूतये रामनाम ॥ ८८ ॥

कल्याणील्लाससीमा कलयतु कुशल कालमेघाभिग्रामा काचित्माकेतधामा भवगहनगतिकान्तिहारिप्रणामा । सौन्दर्यहीणकामा धृतजनकसुतामादरापाङ्गनामा दिक्षु प्रख्यातभूमा दिविपदभिनुता देवता रामनामा ॥ ८९ ॥ योऽद्धा योद्धावधीन्नान्मपदि पेलभुज. सर्पराये परा ये येनांयेनाश्रिताना स्तुतिरवनमितेशानचापेन चाँपे । लङ्काल्कारहर्ता ककुभि ककुभि यः कान्तया सीतयासीर्द्नो दूनोऽथ हृष्ट. स विभुरवतु वः स्वंःसभार्यः सभार्य ॥ ९० ॥ ऋक्षणा भूरिधाम्ना श्रितमविपतिना प्रस्फुरद्भीमर्तार स्फार नेत्राँनलेन प्रशमनयमितोचैँपमीनध्वजेन । रँमॉर्म्यँत्तं पुरारेर्जुमुंदशुचि लसँन्नीलसुग्रीवमङ्ग प्रावङ्ग वापि मैन्य दैर्शवदनशिरश्छेदहेतु श्रियेऽस्तु ॥ ९१ ॥ यस्तीर्थानामुपस्त्या गलितमलभर मन्यते स्म स्वमेव नाज्ञासीज्जाझिरे यन्मम चरणरज पादपूतान्यमूनि । पादस्पर्शन कुर्वञ्झटिति विघटितग्रावभावामहल्या कौसल्यासूनुरून व्यपनयतु स वः श्रेयसा च श्रिया च ॥ ९२ ॥

सीता

उन्मृष्ट कुचसीम्न्नि पत्रमकर दृष्ट्वा हठाल्लिङ्गनात्कोपो मास्तु पुनर्खिखाम्यमुमिति स्मेरे रघूणा वरे । कोपेनारुणितोऽश्रुपातदलितः प्रेम्णा च विस्तारितो दत्तो मैथिलकन्यया दिशतु न. क्षेम कटाक्षाङ्कुर ॥ ९३ ॥

हनूमान्

अशोपलङ्कापनिसैन्यहन्ता श्रीगममेवाच नैक्रकर्ता । अनेकदु खाहुतलोकगोप्ता त्वमौ हनूमास्तव सौम्यकर्ता ॥ ९४ ॥ कृतक्रोवे यस्मिन्नमरनगरी मङ्गलग्ना नेवातङ्का लङ्का समजनि वन वृश्चति सति । सदा सीताकान्तप्रणतिमतिविख्यातमहिमा हनूमानव्याद्वः कपिकुलशिरोमण्डनमणिः ॥ ९५ ॥

रामकृष्णौ

त्रातः कींकोदरो येन द्रोग्धापि करुणात्मना । पूतैनामारणख्याततः स मेऽस्तु शरणं प्रभुः ॥ ९६ ॥


१ समूह २ सीता. ३ विभीषणस्याग्रजन्मा रावणस्त हन्तीति स ४ वाचम्
१ निश्चितम् २ राक्षसान् ३ युद्धे ४ शत्रव ५ भाग्येन ६ प्राप्ता ७ विरहित ८ दु स्थितमनाः. ९ देवसभास्वामी १० ऋक्षाणां भल्लूकाना मधिपतिना जाम्बवता, पक्षे,-नक्षत्राणामधिपतिना चन्द्रेण ११ भीमस्तारो वानरविशेष, पक्षे,-भीमा तारा नेत्रकनीनिका १२ नेत्रा नायकेन नलेन नलनाम्ना वानरेण, पक्षे,-नेत्रानलेन तृतीयनेत्राग्निना १३ उच्चा आपो यस्मिन्स उच्चापो मीनध्वज समुद्र, पक्षे,-उद्धतचापो मीनध्वज काम १४ रामायत्त रामचन्द्राधीनम्, पक्षे,-रामाया पार्वत्या अधीनम् १५ कुमुदनाम्ना वानरेण शुचि, पक्षे,-कुमुदपुष्पवच्छुचि शुभ्रम् १६ नील सुग्रीवश्च वानरा, पक्षे,-नीला नीलवर्णा शोभना ग्रीवा १७ दशवदनशिरश्छेदहेस्त्विति सैन्यपक्षे स्फुटम्, अन्यत्र शिवप्रसादनार्थं रावणेनात्मन शिरांसि च्छिन्नानीति प्रसिद्धि १८ सेवनया १९ पद्ममकरम् २० नवभया २१ आदरो भयशून्य काक, पक्षे,-कालियसर्प २२ पूतनामा पवित्रनामा रणे ख्यातश्च, पक्षे,-पूतनाया राक्षस्या मारणेन ख्यात .

२२सुभाषितरत्नभाण्डागारम्[ १ प्रकरणम्

मर्दितरावणकंसौ सरयूर्यमुनाविहारिणौ देवौ । अर्पितविप्र-कुमारौ हरिपति¹हरिकेतनप्रियौ वन्दे ॥ ९७ ॥ यः पूतना-मारणलब्धकीर्तिः² काकोदरो³ येन विनीतदर्पः । यशोदया-लंकृतमूर्ति⁴रव्यात्पतिर्यदूनामथवा रघूणाम् ॥ ९८ ॥

कृष्णः

इन्दीवरदलश्याममिन्दिरानन्दकन्दलम् । वन्दारुजन-मन्दारं वन्देऽहं यदुनन्दनम् ॥ ९९ ॥ देवः पायादपायान्नस्सरेन्दीवरलोचनः । ससारध्वान्तविध्वंसहंसकंसनिषूदनः ॥ १०० ॥ पान्तु वो जलदश्यामाः शार्ङ्गश्याघातकर्कशाः । त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिबाहवः ॥ १०१ ॥ दर्पणा-र्पितमालोक्य मायास्त्रीरूपमात्मनः । आत्मन्येवानुरक्तो वः शिवं दिशतु केशवः ॥ १०२ ॥ हृदय कौस्तुभोद्भासि हरेः पुष्णातु व. श्रियम् । राधाप्रवेशरोधाय दत्तमद्रमिव श्रिया ॥ १०३ ॥ देहि मन्कन्दुकं राधे परिधाननिगूहितम् । इति विस्रंसयन्नीवीं तस्याः कृष्णो मुदेऽस्तु नः ॥ १०४ ॥ चण्डचाणूरदोर्दण्डमण्डलीखण्डमण्डितम् । अव्याद्वो बाल-वेषस्य विष्णोर्गोपनतोर्वपुः ॥ १०५ ॥ मीमांसार्णवसोम लसदर्के तर्कपद्मस्य । वेदान्तविपिनसिंहं वन्दे गोविन्द-साभिधं ब्रह्म ॥ १०६ ॥ अवलोकितमनुमोदितमालिङ्गित-मङ्गनाभिरनुरागैः । अधिवृन्दावनकुञ्जं मरकतपुञ्जं नमस्यामः ॥ १०७ ॥ मकरीविरचनभङ्ग्या राधाकुचकलशपीडनव्य-सनी । ऋजुमपि रेखां लुम्पन्बल्लवचेपो हरिर्जयति ॥ १०८ ॥ कठिनतरदामवेष्टनलेखासदेहदायिनो यस्य । राजन्ति वलि-विभङ्गाः स पातु दामोदरो भवत. ॥ १०९ ॥ खिन्नोऽसि मुञ्च शैलं विभृमो वयमिति वदत्सु शिथिलभुजः । भरसुप्र-विनतबाहुषु गोपेषु हसन्हरिर्जयति ॥ ११० ॥ नीतं नवनीत कियदिति पृष्टो यशोदया कृष्ण. । इयदिति गुरुजनसंसदि करधृतराधापयोधरः पातु ॥ १११ ॥ राधामधुसूदनयोरनु-दिनमुपचीयमानस्य । प्रणयतरीरिव कुसुमं मिथोऽवलोक-स्मितं पायात् ॥ ११२ ॥ श्रुतिमपरे स्मृतिमपरे भारतमपरे भजन्तु भवभीताः । अहमिह नन्दं वन्दे यस्यालिन्दे परं ब्रह्म ॥ ११३ ॥ तप्तं कैर्न तपोभि. फलितं तद्गोपबाला-नाम् । लोचनयुगले यासामञ्जनमासीन्निरञ्जनं ब्रह्म ॥ ११४ ॥ मदमयमदमयदुरगं यमुनामुवतीर्य वीर्यशाली यः । मम रतिममरतिरस्कृतिशमनपरः स क्रियात्कृष्णः ॥ ११५ ॥ स्तनधयन्तं जननीमुखाब्ज विलोक्य मन्दस्मितमुज्ज्वला-ङ्गम् । स्पृशन्तमन्यं स्तनमङ्गुलीभिर्वन्दे यशोदाङ्कगतं मुकुन्दम् ॥ ११६ ॥ भुजप्रभादण्ड इवोर्ध्वगामी स पातु व. कसरिपोः कृपाणः । यः पाञ्चजन्यप्रतिबिम्बमङ्ग्या धारा-म्भसः फेनमिव व्यनक्ति ॥ ११७ ॥ विहाय पीयूषरस मुनीश्वरा समाधिराजीवस पिवन्ति किम् । इति स्वपादा-म्बुजपानकौतुकी स गोपवालः श्रियमातनोतु वः ॥ ११८ ॥ निलिख्य सत्याकुचकुम्भसीम्नि पत्रावलिन्यासमिषेण राधाम् । लीलारविन्देन तया सरोषं पायद्विटः कोऽप्यमिहन्यमान. ॥ ११९ ॥ स पातु वो यस्य हतावशेपास्तत्तुल्यवर्णाञ्जन-रञ्जितेषु । लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः स्वकान्ता-नयनोत्पलेषु ॥ १२० ॥ कुञ्चिताधरपुटेन पूरयन्वंशिकां प्रचलदङ्गुलिक्रम. मोहयन्निखिलवामलोचनाः पातु कोऽपि नवनीरदच्छविः ॥ १२१ ॥ अतसीकुसुमोपमेय कान्तिर्यमुना-तीरकदम्वमध्यवर्ती । नवगोपवधूविनोदशाली वनमाली वितनोतु मङ्गल व. ॥ १२२ ॥ गायन्तीना गोपसीमन्ति-नीना स्फीताकाङ्क्षामक्षिरोलम्बमालाम् । निश्चाञ्चल्यामात्म-वक्त्रारविन्दे कुर्वन्नव्याद्देवकीनन्दनो वः ॥ १२३ ॥ पुञ्जी-भूत प्रेम गोपाङ्गनाना मूर्तीभूत भाग्यधेय यदूनाम् । एकीभूत गुप्तवित्त श्रुतीना श्यामीभूत ब्रह्म मे सन्निध-त्ताम् ॥ १२४ ॥ आनन्दमादधतामायतलोचनानामालील-मावलितकधरमात्तवशम् । आपादमामुकुटमाकलितामृतौघ-माकारमाकलयतामुपमान्तर नः ॥ १२५ ॥ त्वा पातु नीलनलिनीदलदामकान्तेः कृष्णस्य पाणिसरसीरुहकोश-बन्धः । राधाकपोलमकरीलिखनेषु योऽद्य कर्णावतसकमल विपुलीचकार ॥ १२६ ॥ उत्फुल्लमानससरसीरुहचारुमध्य-निर्यन्मधुव्रतभरद्युतिहारिणीभिः । राधाविलोचनकटाक्षपर-म्पराभिर्दृष्टो हरिस्तव सुखानि तनोतु कामम् ॥ १२७ ॥ गोवर्धनोद्धरणहृष्टसमस्तगोपनानास्तुतिश्रवणलज्जितमानसस्य । स्मृत्वा वराहवपुरिन्दुकलाप्रकाशदष्ट्रोद्धतक्षिति हरेरवतु स्मित व ॥ १२८॥ अभिनवनवनीतप्रीतमाताम्रेनेत्र विकचनलिन-लक्ष्मीस्पर्धि सानन्दवक्त्रम् । हृदयभवनमध्ये योगिभिर्ध्यान-गम्य नवगगनतमालश्यामलं क्वचिदीडे ॥ १२९ ॥ अभि-नवनवनीतस्निग्धमापीतदुग्धं दधिकणपरिदिग्धं मुग्धमङ्ग मुरारेः । दिशतु भुवनकृच्छ्रोच्छेदितापिच्छगुच्छच्छवि नवशिखिपिच्छालाञ्छितं वाञ्छित व. ॥ १३० ॥ कनककल-शस्वच्छे राधापयोधरमण्डले नवजलधरश्यामामात्मद्युति प्रति-विम्बिताम् । असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपञ्जयति जनितब्रीडाह्वासप्रियाहसितो हरि ॥ १३१ ॥


¹ अर्जुन
² पूतनाया मारणेन लब्धा कीर्तिर्येन, पक्षे,-विज्रनामा, रणे लब्धा कीर्तिश्च येन.
³ कालिय सर्प, पक्षे,-धृष्ट काक
⁴ यशोदया मात्रात्कृतो देहो यस्य, पक्षे,-यशमा दयया चालंकृतो देहो यस्य.
⁵ धारयाम्
¹ दन्तम्

दशावताराः २३


लैलितगमना नोर्या राजन्मनोजनितान्तभा सुरतिसदृशस्ताः सन्मुख्या भवानपि तनुवे । वनभुवमितो गेहादेको न गच्छतु मा विनेत्यसकृदुदितः पुत्र. पित्रा जयत्यनघो हरिः ॥ १३२ ॥ देवः पायात्पयसि विमले यामुने मज्जतीना याच- न्तीनाममुनयपदैर्वञ्चितान्यंशुकानि । लज्जालोलैरुलसवलितै- रुन्मिषत्पद्मवाणैर्गोपस्त्रीणा नयनकुसुमैरञ्चितः केशवो नः ॥ १३३ ॥ वृन्दारण्ये तपनतनयातीरवानीरकुञ्जे गुञ्जन्मधुव्रत- पटलीकाकलीकेलिभाजि । आभीराणा मधुरमुरलीनादस- मोहिताना मध्ये क्रीडन्नवतु नियतं नन्दगोपालबालः ॥ १३४ ॥ शिरश्छाया कृष्णः क्षणमकृत राधाचरणयोर्भुजावल्लिच्छाया- मियमपि तदीयप्रतिकृतौ । इति क्रीडाकोपे निभृतमुभयो- रप्यनुनयप्रसादौ जीयास्तामपि गुरुममक्ष स्थितवतो. ॥ १३५ ॥ अवेमव्यापारकलनमतुरीस्पर्शमचिरादनुन्मीलत्तन्तुप्रकरघट- नायासमसकृत् । विधीदत्पाञ्चालीविपदपनयैकप्रणयिनः पटाना निर्माणं पतंगपतिकेतोरवतु नः ॥ १३६ ॥ कपोले पत्रार्ली पुल- किनि विधातु व्यवसितः स्वय श्रीराधाया. करकलितवर्तिम- धुरिपुः । अभूद्रत्कन्दो यन्निहितनयन. कम्पितभुजस्तदेतत्सा- मर्थ्य तदभिनवरूपस्य जयति ॥ १३७॥ जयश्रीविन्वैस्तैर्महिते इव मन्दारकुसुमैः स्वय सिन्दूरेण द्विपरणमुदा मुद्रित इव । भुजापीडक्रीडाहतकुवलयापीडकरिनः प्रकीर्णासृग्विन्दुर्ज॑यति भुजदण्डो मुरजितः ॥ १३८ ॥ सुपर्णः खर्णाद्रौ रचितम- णिशृङ्गे जलधिजामुखाम्भोजे भृङ्गो निगमविलसत्पञ्जरशुकः । त्रिलोकीकस्तूरीतिलककमनीयो व्रजवधूविहारी श्रीकृष्णो दिशतु भवता शर्म सततम् ॥ १३९ ॥ क यासि खलु चौरिके प्रमुषित स्फुट दृश्यते द्वितीयमिह मामक वहसि कन्दुक कञ्चुके । त्यजेति नवगोपिकाकुचयुगं प्रमश्नन्बलाल्ल- सत्पुलकपञ्जरो जयति गोकुले केशवः ॥ १४० ॥ मेघैर्मे- दुरमम्बरं वनभुवः श्यामास्तमालद्रुमैर्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय । इत्थ नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जद्रुम राधामधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥ १४१ ॥ कौन्तेयस्य सहायता करुणया गत्वा विनीता- त्मनो येनोल्लङ्घितसत्पथ. कुरुपतिश्चक्रे कृतान्तातिथिः । त्रैलोक्यस्थितिसूत्रधारतिलको देवः सदा सपदे साधूनामसु- राधिनाथमथनः स्ताद्देवकीनन्दनः ॥ १४२ ॥ आताम्रे नयने स्फुरन्कुचभरः श्वासो न विश्राम्यति खेदाम्भःकणदन्तुर तव मुख हेतुस्तु नो लक्ष्यते । धिक्को वेद मनः स्त्रिया इति गिरा रुष्टा प्रिया भीषयंस्तस्मात्तत्क्षणकातरेक्षणपरिस्पृष्टो हरिः पातु वः ॥ १४३ ॥ ससक्ता निव पातुमौपनिषदव्या- हारमाध्वीरसामुन्मार्गु व्रजसुन्दरीकुचतटीपाटीररेणूनिव । उन्मीलन्मुरलीनिनादबहुलामोदोपसीदद्गवीजिह्वालीढमलीक- बल्लवशिशोः पादाम्बुज पातु वः ॥ १४४ ॥ कृष्णो गोरस- चौर्यमम्ब कुरुते किं कृष्ण मातः सुरापानं न प्रकरोमि राम किमिदं नाहं परखीरतः । किं गोविन्द वदत्यसौ हलधरो मिथ्येति ता व्याहरन्गोपीगोपकदम्बक विहसयन्मुग्धो मुकु न्दोऽवतु ॥ १४५ ॥ मातस्तूर्णकरक्षणाय यमुना कच्छं न गच्छाम्यह कसाद्वत्स पिनष्टि पीवरकुचद्वन्द्वेन गोपीजनः । भ्रूसज्ञांनिवारितोऽपि बहुशो जल्पन्पशो- दायतो गोपीपाणिसरोजमुद्रितमुखो गोपीपतिः पातु वः ॥ १४६ ॥ कासि त्वं वद चौर्यकारिणि कुतः कस्तव पुरो यामिकः किं ब्रूषे सुषितौ सुवर्णकलशौ भूपस्य केन त्वया । कुत्र स्तः प्रकटौ तवाञ्चलतटे कुत्रेति तत्पश्यता- मित्युक्ते धृतवल्लवीकुचयुगस्त्वत्वा पातु पीताम्बरः ॥ १४७ ॥ कृष्ण त्वं पठ किं पठामि ननु रे शास्त्र किमु ज्ञायते तत्त्वं कस्य विभोः स कस्त्रिभुवनाधीशश्च तेनापि किम् । ज्ञानं भक्तिरथो विरक्तिरनया कि मुक्तिरेवास्तु ते दध्यादीनि मजामि मातुरुदितं वाक्यं हरेः पातु वः ॥ १४८ ॥ कृष्ण त्व नवयौवनोऽसि चपलाः प्रायेण गोपाङ्गनाः कसो भूपति- रब्जनालमृदुलग्रीवा वय गोदुहः । तद्याचेऽञ्जलिना भवन्त- मधुना वृन्दावन मङ्गिना मा यासीरिति नन्दगोपवचसा नम्रो हरिः पातु वः ॥ १४९ ॥ कस्त्वं कृष्णमवेहि मां किमिह ते मन्मन्दिराशङ्कया युक्तं तन्नवनीतभाजनपुटे न्यस्तः किमर्थं करः । कर्तुं तत्र पिपीलिकापनयनं सुप्ताः किमुद्बोधिता बाला वत्सगर्ति विवेक्तुमिति सजलपन्हरिः पातु वः ॥ १५० ॥ स्वामी मुग्धतरो वन घनमिदं बालाहमेका- किनी क्षोणीमावृणुते तमालमलिनच्छाया तमःसंहतिः । तन्मे सुन्दर कृष्ण मुञ्च सहसा वर्मेति गोप्या गिरः श्रुत्वा


पादटिप्पणी (Footnotes)

[वाम भाग] १ गोपीपक्षे,-ललित गमन यासा ता, कृष्णपक्षे ललिते गे गाने मनो यस्य स
२ स्त्रिय, पक्षे,-नास्तार्य्य श्रेष्टो यस्मात्स
३ राजता मनोजेन मदनेन नितान्तात्यन्ता भा कान्तिर्यासा ता, पक्षे,-राजनमनोजनि शोभमानमदनस्तानन्तो म्लानो यस्यास्तादृशी भा यस्य स
४ शोभायमानया रत्या कामपत्न्या सदृश, पक्षे,-सुष्टु रतौ रमणे योग्य
५ सन्ति शोभनानि मुखान्याननानि यासां ता, पक्षे,-सत्सु प्रशस्तेषु केलिचतुरेपु मुख्य
६ स्वच्छे
७ स्नान कुर्वतीनाम्
८ वेमा वस्त्रव्युतिदण्डस्तद्व्यापाररहितम्
९ तुरी तन्तुवायाना यन्त्रविशेष, तत्स्पर्श विना
१० पतगा पक्षिणस्तेषा पतिर्गरुड स केतुर्यस्य तस्य कृष्णस्येत्यर्थ
११ विक्षिप्ते
१२ पूजित.
१३ चित्रित
१४ रक्तविन्दु.
१५ व्याप्तमित्यर्थ
१६ रात्रौ.

[दक्षिण भाग] १ एकान्तक्रीडा
२ युधिष्ठिरस्य
३ मारित
४ वृषबालः.
५ नगररक्षक

२४सुभाषितरत्नभाण्डागारम्[ १ प्रकरणम्
ता परिरम्य मन्मथकलासक्तो हरिः पातु वः ॥ १५१ ॥<br>मातः किं यदुनाथ देहि चषकं किं तेन पातुं पयस्तन्नास्त्यद्य<br>कदास्ति तन्निशि निशा का वान्धकारोदये । आमील्याक्षि-<br>युगं निशाप्युपगता देहीति मातुः पुनर्वक्षोजाम्बरकर्षणोद्यत-<br>करः कृष्णः स पुष्णातु नः ॥ १५२ ॥ अर्धोन्मीलितलोच-<br>नस्य पिबतः पर्याप्तमेकं स्तन सद्यःप्रस्रुतदुग्धदिग्धमपरं हस्तेन<br>संमार्जतः । मात्रा चाङ्गुलिलालितस्य चिबुके सेरायमाणे मुखे<br>विष्णोः क्षीरकणाम्बुधामधवळा दन्तद्युतिः पातु वः ॥ १५३ ॥<br>गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते किं त्वेवं<br>विजनेस्थयोर्हतजनः संभावयत्यन्यथा । इत्यामन्त्रणभङ्गि-<br>सूचितवृथाप्रस्थानखेदालसामाश्लिष्यन्पुलकाङ्कुराञ्चितवपुर्गोपीं<br>हरिः पातु वः ॥ १५४ ॥ रामो^३ नाम बभूव हुं तदबला सीतेति<br>हुं तौ पितुर्वोचा पञ्चवटीवने निवसतस्तामाहरद्रावणः ।<br>कृष्णेनेति पुरातनी निजकथामाकर्ण्य मात्रेरिता सौमित्रे क्व<br>धनुर्धनुर्धनुरिति प्रोक्ता गिरः पान्तु वः ॥ १५५ ॥ कोऽयं<br>द्वारि हरिः प्रयाह्युपवनं शाखामृगस्यात्र किं कृष्णोऽहं दयिते<br>बिभेमि सुतरां कृष्णादहं वानरात् । रावेऽहं मधुसूदनो^७ व्रज<br>लता तामेव पुष्पाम्वितामित्थं निर्वचनीकृतो दयितया हीणो<br>हरिः पातु वः ॥ १५६ ॥ पीठे पीठनिषण्णबालकगले<br>तिष्ठन्सगोपालको यन्त्रान्तःस्थितदुग्धभाण्डमवभिद्याच्छाद्य<br>घण्टारवम् । वक्त्रोपान्तकृताञ्जलिः कृतशिरःकम्पं पिबन्यः पयः<br>पायादागतगोपिकानयनयोर्गण्डूषफूत्कारकृत् ॥ १५७ ॥<br>पद्मे त्वन्नयने स्मरामि सततं भावो भवत्कुन्तले नीले मुह्यति<br>किं करोमि महितैः^१० क्रीतोऽस्मि ते विभ्रमैः । इत्युत्स्वप्नवचो<br>निशम्य सरुषा निर्भर्त्सितो राधया कृष्णस्तत्परमेव तद्व्यपदि-<br>शन्क्रीडाविटः पातु वः ॥ १५८ ॥ दृष्ट्वा^१२ केशव गोपरोग-<br>हृतया किञ्चिन्न दृष्टं मया तेनात्र स्खलितास्मि नाथ पतिता^१३<br>किं नाम नालम्बसे । एकस्त्वं विषमेषुखिन्नमनसा सर्वार्बलानां^१४<br>गतिर्गोप्त्यैव गदितः शैलेशमवैतोद्रोहे^१७ हरिवर्धिश्चिरम् ॥ १५९ ॥<br>केयं भाग्यवती तयोरसि मणी रूपेऽग्रैवर्णं^१८ विना कृत्वारत्नाःप्रथमं विना क्व सहजो वर्णो मणेस्तादृशः । स्त्रीरूपं कथमस्य<br>लिङ्गनियमात्पृच्छामि बध्वाकृति मुग्धे त्वत्प्रतिबिम्बमित्यपल-<br>पन्राधा हरिः पातु वः ॥ १६० ॥ या दृष्ट्वा यमुना पिपासु-<br>रनिशं व्यूहो गवां गाहते विद्युत्वानिति नीलकण्ठनिवहो या<br>द्रष्टुमुत्कण्ठते । उत्तप्ताय तमालपल्लवमिति च्छिन्दन्ति या<br>गोपिकाः कान्तिः कालियशामनस्य वपुषः सा पावनी पातु<br>वः ॥ १६१ ॥ श्रीमद्गोपवधूस्ययग्रहपरीरब्धेऽङ्गे तुङ्गस्तन<br>व्यामर्दार्दलितोऽपि चन्दनरजस्सङ्गे वहन्सौरभम् । कश्चिज्जा-<br>गरजातरागनयनद्वन्द्वः प्रभाते श्रियं बिभ्रत्कामपि वेणुनाद-<br>रसिको जाराग्रणीः पातु वः ॥ १६२ ॥ कण्ठालिङ्गनमङ्गळं<br>घनकुचाभोगोपभोगोत्सव श्रोणीसगमसौभग च सतत<br>मत्प्रेयसीना पुरः । प्रात्तु कोऽयमितीर्थ्ययैव यमुनाकूले वळाय<br>स्वयं गोपीनामहरदूकूलनिचय कृष्णः स पुष्णातु नः ॥ १६३॥<br>कृष्णेनाम्ब गतेन रन्तुममकृन्मृद्भक्षिता स्वेच्छया सत्य कृष्ण<br>क एवमाह मुँसली^१ मिथ्याम्ब पश्य़ाननम् । व्योदेहीति^२<br>विकामिते च वदने दृष्ट्वा समस्तं जगन्माता यस्य जगाम<br>विस्मयपद पायात्स व श्रीपतिः ॥ १६४ ॥ अम्ब श्राम्यसि<br>तिष्ठ गोरसमह मथ्नामि मन्थानक प्रालम्ब्य स्थितमीश्वरं<br>सग्मस दीनाननो वाँसुक़ि^३ । सासूय कैमलाळया^४ सुंर-^५<br>गण. सानन्दमुद्यद्रय राँहुः^६ प्रैक्षत य स वोऽस्तु शिवदो<br>गोपालबालो हरि ॥ १६५ ॥ कालिन्द्याः पुलिनेषु केलि-<br>कुपितामुत्सृज्य रासे रस^७ गच्छन्तीमनुगच्छतोऽश्रुकलुषा कस-<br>द्विषो राधिकाम् । तत्पादप्रतिमानिवेशितपदस्योद्गूतरोमोद्गते-<br>रक्ष्णोणोऽनुनय. प्रसन्नदयितादृष्टस्य पुष्णातु व. ॥ १६६ ॥<br>कस ध्वस्यते सुरं तिरयते हंस तथा हिंसते बाण क्षीणयते<br>बक लघयते पौण्ड्र तथा लम्पते । भौम क्षामयते बलाद्वल-<br>भिदो दर्पं पराकुर्वत क्लिष्ट शिष्टगण प्रणम्रमवते कृष्णाय<br>तुभ्य नमः ॥ १६७ ॥ रासोल्लासभरेण विभ्रमभृतामाभीर-<br>वामभ्रुगार्मभ्यर्णे^१० परिरभ्य निर्भरमुरः प्रेमान्धया राधया ।<br>साधु त्वद्वदन सुधामयमिति व्याहृत्य गीतस्तुतिव्याजार्दुङ्कैट^११<br>चुम्बित. सितमनोहारी हरिः पातु व. ॥ १६८ ॥ साकूत-<br>स्मितमाकुलाकुलगलद्धम्मिल्लमुँल्लाँसित^१२भ्रूवल्लीकमलीकदर्शित-<br>भुजामूलार्धदृष्टस्तनम् । गोपीना^९ निर्भृत^१४ निरीक्ष्य<br>ललित काचिच्चिर चिन्तयन्नन्तर्मुग्धमनोहो हरतु वः

१ पानपात्रम् २ एकान्तगतयो ३ रचना ४ यथा माता स्वपुत्रप्रस्वापनाय पुरातना कथा कथयति, तथा यशोदापि राम इति कश्चिद्राजासीदिति वदति स तच्छ्रुत्वा कृष्णोऽपि हुंकार दत्तवान् ५ वानर, पक्षे,-कृष्ण ६ कृष्णवर्णं, पक्षे,-कृष्णनामा ७ भ्रमर, पक्षे,-मधुसूदननामा ८ आलम्बमानो रज्जुषञ्जर, शिक्य इति प्रसिद्ध ९ हे रमे, पक्षे,-पद्मरूपे १० पूज्यै ११ गोपे त्वयि यो राग आसक्तिस्तद्भूतयापहृतया, पक्षे,-गवां परागैर्धूलिभिर्व्याप्तया १२ युक्तायुक्तम्; पक्षे,-प्लवविषमम् १३ पतित्वम्, पक्षे,-पतन प्राप्ताम् १४ विषमेषु पञ्चशरस्तेन खिन्नमनसाम्, पक्षे,-विषमेषु सकटेषु खिन्नमनसम् १५ स्त्रीणाम्, पक्षे,-बलरहितानाम् १६ ससूचनम् १७ गोस्थानम् १८ अग्रवर्णो र इति, रमणीयत्थं१ बलभद्र २ विकासय ३ समुद्रमथने रज्जुकृतस्य मम पुनरपि स एव भयकर प्रसङ्ग आगत इति त्रासेन शेष ४ मम सपत्नी काचिद्बुद्धिविधतीत्यसूयया ५ अमृतप्राप्तिर्भविष्यतीति धिया ६ शिरश्छेदो भविष्यतीति बुद्ध्या ७ रागम् ८ सफला ९ गोपिकानाम् १० समीपम् ११ प्रकटम् १२ उच्चै कृता १३ जृम्भणादिच्छलेनेत्यर्थ . १४ गोप्यभावम्.

दशावताराः २५


केशं नैवः केशवः ॥ १६९ ॥ तिर्यक्कण्ठविलोलमौलि-विकसन. स्तैब्धाकर्षणदृष्टिहर्षणमहामन्त्रः कुरङ्गीदृशाम् ।
तरलोत्तंसस्य वशोश्चरद्गीतस्थानकृतावधानललनालक्षैर्नहृप्यद्दानवदूयमानदिविषद्दुर्वारदुःखापदा भ्रश कसरिपोर्य्यपो-
सलक्षिता । ^२समुग्ध मधुसूदनस्य मधुरे राधामुखेन्दौहयतु वोऽश्रेयांसि वशीरखः ॥ १७९ ॥ मौलौ केकिशिखण्डिनी
^३मृदुस्पन्द पल्लविताश्चिरं ददतु वः क्षेमं कटाक्षोर्मयःमधुरिमाधाराधरे वशिनी पीनासे वनमालिनी हृदि लसत्का-
॥ १७० ॥ वृष्टिव्याकुलगोकुलार्तनरसादुद्धृत्य गोवर्धनंरुण्यकल्लोलिनी । श्रोण्या पीतदुकूलिनी चरणयोर्व्यत्यस्तविन्यासिनी
बिभ्रद्बह्वलवल्लभाभिरधिकानन्दाच्चिरं चुम्बितः । कंदर्पेणलीला काचन मोहिनी विजयते बृन्दावनत्रासिनी
तदर्पिताधरतटीमन्दूरमुद्राङ्कितो बाहुर्गोपनतोन्नतो मुवता॥ १८० ॥ मालाबर्हमनोज्ञकुन्तलभरा वन्यप्रसूनोक्षिता शैले-
श्रेयांसि कसद्विषः ॥ १७१ ॥ राधासुग्धमुखारविन्दमधुपश्चै-यागुरसकचित्रितलका शश्वन्मनोहारिणीम् । लीलावेणुरवा-
लोक्यमौलिक्थलीनेपथ्योचितनीलरत्नमवनीभारावतारक्षमः ।मृतैकरसिका लावण्यलक्ष्मीमयी बाला वालतमालनीलवपुष
स्वच्छन्दव्रजसुन्दरीजनमनस्तोषप्रदोध्पन्निरं कमध्वसनवूमकेतु-वन्दे परा देवताम् ॥ १८१ ॥ असालम्बितवामकुण्डल-
रवतु त्वा देवकीनन्दनः ॥ १७२ ॥ किं विश्राम्यसि कृष्णधर मन्दोन्नतश्रूलत किञ्चित्कुञ्चितकोमलाधरपुट साचिप्र-
भोगिभवने भौण्डीरभूमिरुहि भ्रातर्यासि न दृष्टिगोचरमितःसारीक्षणम् । आलोलाङ्गुलिपल्लवैर्मुरलिकामारपूरयन्त मुदा
सानन्दनन्दास्पदम् । राधाया वचनं तदध्वगमुखान्छन्दान्तिकेमूले कल्पतरोस्त्रिभङ्गललित ध्याये जगन्मोहनम् ॥ १८२ ॥
^११गोपतो गोविन्दस्य जयन्ति सायमतिथिप्राशस्त्यगर्भाकस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं नासाग्रे
गिरः ॥ १७३ ॥ सान्द्रानन्दपुरदरादिदिविषद्बृन्दैरमन्दादरा-नवमौक्तिक करवले वेणु करे कङ्कणम् । सर्वाङ्गे
दानम्रैर्मुुकुटेन्द्रनीलमणिभिः ^१२सदर्शितॆन्दीवरम्। स्वच्छन्दहरिचन्दन सुविमल कण्ठे च मुक्तावली बिभ्र-
मकरन्दसुन्दरगलन्मन्दाकिनीमेदुरं श्रीगोविन्दपदारविन्द-त्स्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ १८३ ॥ कालि-
मधुमस्कै^१३न्दाय वन्दामहे ॥ १७४ ॥ प्रातर्नीलैर्निचोल-न्दीपुलिनोदरेषु मुसली यावद्गतः क्रीडितु तावत्कैर्भुरिकापयः
मच्युतमुरःसवीतपीतांशुकं राधायाश्चकितं विलोक्य हसतिपिव हरे वर्धिष्यते ते शिखा । इत्थ वालतया प्रतारणपराः
स्वैरं सखीमण्डले । व्रीडाचञ्चलमञ्चल नयनयोराधाय राधा-श्रुत्वा यशोदागिर. पायाद्वः स्वशिखा स्पृशन्प्रमुदित. क्षीरे-
नने स्वादुस्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजःऽर्धपीते हरिः ॥ १८४ ॥ आनन्देन यशोदया समदन
॥ १७५ ॥ प्रीति वस्तुतुता हरिः कुवल्यापीडेन सार्थं रणेगोपाङ्गनाभिश्चिर साशङ्क बलविद्विषा सकुसुम सिद्धैः
राधापीनपयोधरखरणकृत्कुम्मेन समेदवान् । ^१७पत्रे बिभ्यतिपृथिव्याकुलम् । सेर्ये गोपकुमारकैः सकरुण पौरैः सुरैः
मीलति क्षणमपि क्षिप्र तदालोकनाद्यामोहेन जित जितसस्मित यो दृष्टः स पुनातु वो मध्रिपु प्रोत्क्षिप्तगोवर्धन.
जितमभूद्यौलोलकोलाहलः ॥ १७६ ॥ त्वामप्राप्य मयि स्वय-॥ १८५ ॥ राधामोहनमन्दिर जिगमिषोश्चन्द्रावलीमन्दि-
वरपरा क्षीरोदतीरोदरे शङ्के सुन्दरि कालकूटमपिबन्मूढोराद्राधे क्षेममिति प्रियस्य वचन श्रुत्वाह चन्द्रावली । क्षेम
मृडानीपतिः । इत्थं पूर्वकथाभिरन्यमनसो विक्षिप्य वासोञ्चलकस तत. प्रिय. प्रकुपित. कंस. क्व दृष्टस्त्वया राधा क्वेति
राधायाः स्तनकोरकोप रिसन्नेत्रो हरिः पातु वः ॥ १७७ ॥तयो. प्रसन्नमनसोर्हासोद्गमः पातु वः ॥ १८६ ॥ दृष्टः कापि
वामासस्थलचुम्बिकुण्डलरुचा जातोत्तरीयच्छवि वशीगीति-स केगवो व्रजवधूमादाय काचिद्गत. सर्व्व एव हि वञ्चिताः
भवत्रिभङ्गवपुष भ्रूलासलीलापरम् । किचित्सस्तशिखण्ड-खलु वय सोऽन्वेषणीयो यदि । द्वे द्वे गच्छत इत्युदीर्घ
शेखरमतिस्निग्धा लिनीलालकं राधादिप्रमदाशतावृतमह वन्देसहसा राधा गृहीत्वा करे गोपीवेषधरो निकुञ्जभवन
किशोराकृतिम् ॥ १७८ ॥ अन्तर्मोहनमौलिरुँदैनवलन्मन्दार-प्राप्तो हरिः पातु वः ॥ १८७ ॥ कि युक्त बत मामनन्यम-
नस वक्ष.स्थलस्थायिनी भक्तामप्यवधूय कर्तुमधुना कान्तास-
हस्रं तव । इत्युक्त्वा फणभृत्फणामणिगता स्वामेब मत्वा तनु
निद्रानिच्छेदकर हरेरवतु वो लक्ष्म्या विलक्षस्मितम् ॥ १८८ ॥
स्वप्रासादितदर्शनाम नुनयन्त्राणेश्वरीमादरादसेऽस्मिन्पतिवैरपा-
ङ्कवलितैर्यह्नोथितोऽप्यश्रुभिः । प्रत्याय्यस्त्वमतो मया ननु हरे
कोऽय क्रमन्त्यत्ययः पातु त्वा व्रजयोषितित्यभिहित लज्जाकर

१ तरुण २ अव्यक्तम् ३ किञ्चिश्चलन यथा स्यात्तथा ४ रक्ष-१ अनिच्छोरित्यर्थे २ गौरीतीर्थे, धत्तूरजलं वा
णम् ५ अनुराग ६ नीलत्वादधरपानकर्तृत्वाच्च ७ अलकार
८ रात्रिमुखे हि नार्थस्तुष्वन्तीति भाव ९ भोगी सर्प तस्य भवने,
पक्षे,-भोगिनः शृङ्गारिणो विलासगृहे १० भाण्डीरनाम्नि वटवृक्ष
११ सगोपन कुर्वत १२ सदर्शित इन्दीवरस्य नीलोत्पलस्य अम्रो
यत्र १३ नाशाय १४ वस्त्रम् १५ परिधानाकृतम् १६ कटाक्ष
१७ वाहने १८ मृते सति १९ चञ्चल २० साधु साध्विति
शिर कम्पनम् २१ गुम्फितम्
४ सु. र भा

२६ | सुभाषिसरत्नभाण्डागारम् | [१ प्रकरणम्


[शार्ङ्गिणः]

शार्ङ्गिण ॥ १८९ ॥ अस्मिन्कुञ्जे विनापि प्रचलति पवना-
द्धर्तते कोऽपि नूनं पश्यामः किं न गत्वेत्यनुसरति गणे
भीतमीतेऽर्भकाणाम् । तस्मिन् राधासखो वः सुखयतु विलस-
ल्लीलया कैटभारिर्व्यान्व्हानो मृगारिप्रवलघुरघुराशवरौद्रान्नि-
नादान् ॥ १९० ॥ अङ्गुल्या कः कपाटं प्रहरति कुटिले
माधवः किं वसन्तो नो चक्री किं कुलालो नहि धरणिधरः
किं द्विजिव्हः फणीन्द्रः । नाहं घोराहिमर्दी किमुत खगपति-
र्नो हरिः किं कपीन्द्र इत्येवं सत्यभामाप्रतिवचनजितः
पातु वश्चक्रपाणिः ॥ १९१ ॥ वृन्दारण्ये चरन्ती विशुरपि
सततं भूर्भुवःखः सृजन्ती नन्दोद्भूताप्यनादिः शिशुरपि
निगमैर्लक्षिता वीक्षितापि । विद्युल्लेखावनद्रोन्नमदमलमहा-
म्भोदसचलायकाया माया पायादपायाद्विहितमहिमा कापि
पैताम्बरी वः ॥ १९२ ॥ नामोदस्ताखिलामो दमनियमयुजा
यः प्रकामॊदवाहश्यामो दर्पाब्धधामॊदयमिलितयशोध्वारया
मोदते यः । वामोदन्यासदामोदरतरलदृगा दत्तकामोदयो
यः सामोदः श्रीललामो दलयतु दुरितं सोऽत्र दामोदरो
वः ॥ १९३ ॥ मल्लैः शैलेन्द्रकल्पः शिशुरखिलजनैः पुष्पचापो-
ऽङ्गनाभिर्गोपैस्तु प्राकृतात्मा दिगि कुलिशभृता विश्वकायोऽप्र-
मेयः । क्रुद्धः कंसेन कालो भयचकितदृशा योगिभिर्ध्येयमूर्तिर्द्रष्टो
रङ्गावसारे हरिरमरजनानन्दकृत्पातु युष्मान् ॥ १९४ ॥


बलभद्रः

निष्पात्याशु हिमांशुमण्डलमथः पीत्वा तदन्तं सुधां कृत्स्नं
चषकं हसन्निति हलापानाय कौतुहलात् । भो देव द्विजरासि
मादृशि सुरास्पर्शोऽपि न श्रेयसे मा मुञ्चेति तदर्थितो हलधरः
पायादपायाज्जगन् ॥ १९५ ॥ प्रेमोन्मामितरेवतीसुखगता-
मास्वाद्य कादम्बरीमुन्मत्तं क्वचिदुत्ततंक्वचिदपि भ्राम्यत्क्वचि-
त्क्वस्खलत् । रक्तापाङ्गमधीरलाङ्गलमलिष्यामागवराडम्बरं केशं
नः कवलीकरोतु सकलं पाकाभिरामं महः ॥ १९६ ॥
उष्णाळु क्वचिदर्कधामनि मनाङ् निद्रालु शीतानिले हालानां
गृह्यालु चुम्बदसकृल्लाजालु जायामुखम् । नित्यं निष्प-
तयालु तिर्यगवनीशय्याशयालु क्षणं गीतेभ्यः स्पृहयालु
धाम धवलं दीने दयालु श्रये ॥ १९७ ॥


रुक्मिणी

श्लाघ्याशेपतनुं सुदर्शनकरं सर्वाङ्गलीलाजितत्रैलोक्यां
चरणारविन्दललितेनाक्रान्तलोको हरिः । बिभ्राणा मुखमिन्दु-
सुन्दररुचं चन्द्रात्मचक्षुर्दधत्स्थाने या स्खततोरपश्यदधिका
सा रुक्मिणी वोऽवतात् ॥ १९८ ॥


राधा

राधा पुनातु जगदच्युतदत्तचित्ता मन्थानमाकलयती
दधिरिक्तपात्रे । यस्याः स्तनस्तबकचूचुकलोलदृष्टिर्देवोऽपि
दोहनधिया वृषभं दुदोह ॥ १९९ ॥ सुधाधाम्नः कान्ति-
स्तव वदनपङ्केरुहगुणैर्जितव म्लानत्वं व्रजति सहसा प्राण-
दयिते । वदत्येवं कान्ते दिवसविरहातङ्कचकिता तदङ्के
सलग्भा तव दिशतु राधा प्रियशतम् ॥ २०० ॥


नन्दकः

सान्द्रां मुदं यच्छतु नन्दको वः सोल्लासलक्ष्मीप्रतिबिम्ब-
गर्भः । कुर्वञ्जनस यमुनाप्रवाहसलीुलराधाचरणं मुरारेः
॥ २०१ ॥


वेणुः

क्रेङ्कारः स्मारकार्मुकस्य सुगतक्रीडापिकीनां रवो झङ्कारो
रतिमञ्जरीमधुलिहां लीलाचकोरीध्वनिः । तन्व्याः
कञ्चुलिकापसारणभुजाक्षेपस्वलत्कङ्कणक्वाणः प्रेम तनोतु वो
नववयोलास्याय वेणुस्वनः ॥ २०२ ॥


बुद्धः

षट्चक्रे क्रमभावनापरिगतं हृत्पद्ममध्यस्थितं
सपश्यञ्छिंवरूपिणं लयवशादात्मानमंत्व्याश्रितः । युष्माकं
मधुसूदनेो बुद्धवपुर्धारी स भूयान्मुदे यस्तिष्ठत्कमलासने
कृतश्चिर्युकैर्दा कलिक्षात्कृति ॥ २०३ ॥ रेतोरक्तमयान्यमूनि
अधिना विण्मूत्रपूर्णोदराण्यालोक्येव कलेवराणि विगलत्तो-
यार्द्रव्रणानि यः । मायाजालैनियन्त्रितानि घृणया नोन्मी-
लयत्यक्षिणी निर्व्याजप्रणिधाननिश्चलमसिर्बुद्धोऽ स बुद्धोऽस्तु
वः ॥ २०४ ॥ ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य
चक्षुः क्षणं पश्यानङ्गशरातुरं जनमिमं त्रातापि नो रक्षसि ।
मिथ्याकारुणिकोऽसि निर्घृणतरस्त्वत्तः कुतोऽन्यः पुमाञ्छ-
श्चन्मारवधूरिरित्यभिहितो बुद्धो जिनः पातु वः ॥ २०५ ॥
आबाहूद्धतमण्डलाग्ररुचयः सनद्धवक्षःस्थलाः सोष्माणो
व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्कशाः । उत्सृष्टाम्बरदृष्ट-
विग्रहभरा यस्य खराग्रैसरा योधा वारवधूतनाश्च न दधुः
क्षोभं स वोऽध्याज्जिनः ॥ २०६ ॥ बद्धा पद्मासनं यो
नयनयुगमिदं न्यस्य नासाग्रदेशे धृत्वा मूर्तो च शान्तौ
समरसमिलितौ चन्द्रसूर्याख्यवातौ । पश्यन्नन्तरविशुद्ध


पादटिप्पणी (Footnotes)

वाम-भागःदक्षिण-भागः
१ द्वारम्१ शब्द
२ लक्ष्मीपति, पक्षे,-वसन्त२ मूलाधार-स्वाधिष्ठान मणिपुर-अनाहत-विशुद्धिआज्ञाख्यानि षट् चक्राणि
३ चक्रधारी, पक्षे,-कुलाल३ परिपाटी
४ विष्णु, पक्षे,-शेष४ वासना
५ कृष्णपक्षे,-अहि कालिय, गरुडपक्षे,-अहिः सर्पः५ व्याप्तम्.
६ गरुड६ चित्तैकाग्र्यवशात्.
७ विष्णु, पक्षे,-वानर७ स्थित
८ सुरापानपात्रम्.८ 'जङ्घाया मध्यभागे तु संस्थेपो यत्र जङ्घया । पद्मासनमिति प्रोक्तं तदासनविचक्षणै ॥'
९ चन्द्रेण प्रार्थित..९ शानी
१० ज्ञानम्
११ संसारिणाम्.
१२ बद्धानि.
१३ चेतःसमाधिना-
१४ शरीरे.

दशावताराः २७

किमपि च परमं ज्योतिराकारहीनं सौख्याम्भोधौ निमग्नः स दिशतु भवता ज्ञानबोधं बुधोऽयम् ॥ २०७ ॥ कामेनाकृष्य चाप हतपटुपटहं वल्गुभिर्मारवीरैर्भ्रूभङ्गोक्षेपजृम्भास्मितललितदृशा दिव्यनारीजनेन । सिद्धैः प्रह्रोत्तमाङ्गैः पुलकितवपुषा विस्मयाद्वासवेन ध्यायन्त्यो योगपीठादचलित इति व पातु दृष्टो मुनीन्द्रः ॥ २०८ ॥ कि साक्षाच्चान्द्रभानोरमृतघनरसस्यन्दिनः सन्ति पादाः कि वा राका-शशाङ्को नहि तुहिनरुचिः कुत्रचिन्निष्कळङ्कः । साक्षाच्चिन्तामणिः कि विपुलफलमणेः सौकुमार्ये कुतस्त्यं संदेहान्मुग्धधीभिः प्रथममिति सुनेः पातु दृष्ट वपुर्वः ॥ २०९ ॥

कल्किः

उद्यत्करकरवालः शक्तिमिरुध्वसने महानिपुणः । कल्किहरिर्वः पायादपायतः कलिनिशान्तोत्थः ॥ २१० ॥ यवनीनयनाम्बुपूरणीभिर्हरिणीनामपनीय तापवह्निम् । सुकृतद्रुमसेकमाचरन्त धृतकल्क प्रणाममि निर्विकल्पम् ॥ २११ ॥ प्रेङ्खद्भाजितरङ्गसुन्मदगजग्राहप्रगल्भं भटव्यावलगत्स्फुटपुण्डरीकनिलयं डिण्डीरपिण्डावलिम् । म्लेच्छानीकमहार्णवं सुविपुल सङ्ग्रामकल्पावधौ यश्चौर्वाग्निरिवाभवद्दैयतु वः कल्पांनि कल्की हरिः ॥ २१२ ॥


सूर्यः

खण्डितनेत्रब्जोलिमङ्गुरञ्जनपण्डिताः । मण्डिताखिलदिक्प्रान्ताश्चण्डशोः पान्तु भानवः ॥ १ ॥ शुकतुण्डच्छविसवितुश्चण्डरुचेः पुण्डरीकवनबन्धोः । मण्डलमुदित वन्दे कुण्डलमाखण्डलशायाः ॥ २ ॥ अतिविततगगनसरणिप्रसरणपरिमुक्तविश्रमानन्दः । मरुदुल्लासितसौरभकमलाकरहासकृद्रविर्जयति ॥ ३ ॥ प्राचीकुङ्कुमतिलक पूर्वाचलरोहणकमाणिक्यम् । त्रिभुवनगृहैकदीप वन्दे लोककलोचन देवम् ॥ ४ ॥ कटुभिरपि कठोरचक्रवाकोत्करविरहरुज्वरशान्तिशीतवीर्यैः । तिमिरहतमय महोभिरञ्जयति जगन्नयनाघमुष्णभानुः ॥ ५ ॥ यद्विम्बमम्बरमणिर्यदपां प्रसूतिर्नक्तं निषिञ्चति यदग्निशिखासु भासः । ज्योत्स्ना निशासु हिमधाम्नि च यन्मयूखाः पूषा पुराणपुरुषः स नमोऽस्तु तस्मै ॥ ६ ॥ यो रक्ततामतितरामतुलं दधानो दिक्प्रौढदारपरिमोरहनवासवासः । योषिद्द्रयीपतिविडम्बनभृत्स शश्वत्त्यादायपायसमुदायहरो रविर्नः ॥ ७ ॥ ब्रह्माण्डसपुटकलेवरमध्यवर्ति चैतन्यपिण्डमिव मण्डलमस्ति यस्य । आलोकितोऽपि दुरितानि निहन्ति यस्तं मार्तण्डमादिपुरुषं प्रण-


१ फेनपिण्ड २ खण्डयतु ३ पापानि ४ नायिकाविशेषा ५ कमलम् ६ पूर्वदिश•

मामि नित्यम् ॥ ८ ॥ सिन्दूरस्पृहया स्पृशन्ति करुणा कुम्भस्थमाधोरणा मिल्ली पल्लवशङ्कया विचिन्वते सान्द्रद्रुमा द्रोणिषु । कान्ताः कुङ्कुमगङ्कया करतले मृद्रन्ति लग्नं च यत्तत्तेजः प्रथमोद्भव भ्रमकर सौरं चिरं पातु वः ॥ ९ ॥ एकस्मिन्नयने भृश तपति यः काले स दाहक्रमो येनातन्चत यत्प्रकागसमयेनैषा पदं दुर्लभम् । सा व्योमावयवस्य यन्न विदिता लोके गतिः शाश्वती श्रीसूर्यः सुरसेवितोऽपि हि महादेवः स नश्चायताम् ॥ १० ॥ जैम्मारातौभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुं रक्तैः सिक्ता इवौघैरुदयगिरितटीधातुधाराद्रवस्य । आयान्त्या तुल्यकालं कमलवनरुचेवारुणा वो विभूत्यै भूयासुर्भासयन्तो भुवनमभिनवा भानवो मानवीया ॥ ११ ॥ मुक्तिप्रह्वाय दातु मुकुलपुटकुटीकोटरक्रोडलीना लक्ष्मीमाक्रष्टुकामा इव कमलवनोद्घाटन कुर्वते ये । कालाकारान्यकाराननपतितजगन्माध्वसध्यसकल्या कल्याणं व क्रियासु किसलयरुचयस्ते करा भास्करम्य ॥ १२ ॥ साटोपव्योमहट्टोषितरजनिवणिङ्नायकोन्मुक्ततारा मुक्ताहारापहारात्तरलखगरवप्रोत्थिताकीर्तिशान्त्यै । कर्षन्नम्भोजकुम्भोदरकुहरबहिर्निःसरत्षट्पदालीकालव्यालीं करेणाकलयतु दिनकृत्कल्मषोन्मूलन वं ॥ १३ ॥ चैक्री चकोरपङ्क्ति र्हरिरपि च र्हरीन्र्धूर्जटिर्धूर्ध्वर्जान्तार्नक्षं नक्षत्रनाथोऽरुणमपि वरुणः कूबराय कुबेरः । रह सद्भूः सुराणा जगदुपकृतये नित्ययुक्तस्स यस्स स्तौति प्रीतिप्रसन्नोऽन्वहमुहिमरुचे. सोऽवतात्स्यन्दनो वः ॥ १४ ॥ कि छत्रं कि नु रत्नं तिलकमृत तथा कुण्डलं कौस्तुभो वा चक्र वा वारिज वेल्यमरयुवतिभिर्यद्विद्वेक्षिदेहे । ऊर्ध्वं मौलौ ललाटे श्रवसि हृदि करे नामिदेशे च दृष्ट पायात्तद्वोऽर्कबिम्ब स च दनुजरिपुर्वर्धमानः क्रमेण ॥ १५ ॥ शीर्णश्रोणाङ्घ्रिपाणीन्वैणिभिरेषंधनर्घैर्घराव्यक्तघोषान्दीर्घाँवैतानघोटैः पुनरपि घटयत्येक उल्लङ्घयय्यः ।' धर्मारोग्रोस्त्व वोऽन्तर्दिग्गुणर्घनैघृणानिर्निर्विनवृत्तेर्द्दत्तार्घाः सिद्धसङ्घैर्विदधतु घृणर्यः शीघ्रंमहोविघातम् ॥ १६ ॥

किरणाः

करजालमपूर्वचेष्टितं वस्तदभीष्टप्रदमस्तु तिग्मभासः । क्रियते भवबन्धनाद्विमुक्तिः प्रणतानामुपसेवितेन येन ॥ १७ ॥ युष्माकमम्बरमणेः प्रथमे मयूखास्ते मङ्गलं विदधतूदयराग-


१ इन्द्र. २ क्रयविक्रयस्थानम् ३ विष्णु ४ कीलकः ५ इन्द्र• ६ अश्वान् ७ यानमुखम् ८ चक्र ९ युगधर १० वेग• ११ चूडारत्नम् १२ यतो विष्णोर्नाभिदेशे कमलं वर्तते १३ वामनाकृत्या १४ कुष्ठरोगविशीर्णनासिकापादपाणीन् १५ क्षतविशिष्टे • १६ शरीरे. १७ चिरकाल ग्रस्तान् १८ सूर्यस्य १९ सततकृपा• २० रश्मय. २१ पापनाशम्

| २८ | सुभाषितरत्नभाण्डागारम् | [ १ प्रकरणम् | | :--- | :--- |

भाजः । कुर्वन्ति ये दिवसजन्ममहोत्सवेषु सिन्दूरपाटल-<br>मुखीरिव दिक्पुरंध्रीः ॥ १८ ॥ सिन्दूराणीव सीदत्कृपण-<br>कुण्ठवधूमूर्ध्नि ये सचरन्तः प्रेक्ष्यन्ते दिक्षु शैला शिखरभुवि<br>लसत्पद्मरागाङ्कुरा यैः । धुन्वन्ते ध्वान्तधाराः सह दुरित-<br>चयैर्दूरदृश्याः सुदृश्याः पान्तु त्वा पद्मबन्धोररुणकिरणाः<br>पूरणाः पद्मबन्धोः ॥ १९ ॥<br><br><div align="center">तुरगाः</div><br>अवतु नः सवितुस्तुरगावली समतिलङ्घिततुङ्गपयोधरा<sup></sup><br>स्फुरितमध्यगतोरणनायका<sup></sup> मरकतैकलतेव<sup></sup> नभःश्रियः ॥ २० ॥<br><br><div align="center">चन्द्रः</div><br>लालयन्तमरविन्दवनानि क्षालयन्तमभितो भुवनानि ।<br>पालयन्तमथ कोककुलानि ज्योतिषा पतिमहं महयामि ॥ १ ॥रविमावसते सतां क्रियायै सुधया तर्पयते सुरान्पितॄंश्च । तमसा<br>निशि मूर्च्छतां निहन्त्रे हरचूडानिहितात्मने नमस्ते ॥ २ ॥<br>स्वर्भानुप्रतिवारणारणमिलद्दन्तोद्भवैश्चालीर्पतयाळुदीधि-<br>तिसुधासारस्तुषारद्युतिः । पुष्पेष्वासनतत्प्रियार्पणरिणयानन्दा-<br>भिषेकोत्सवे देव प्राससहस्रधारकलशश्रीरस्तु नस्तुष्टये ॥ ३ ॥<br><br><br><div align="center">पृथिवी</div><br>स्वर्गौकोभिरदोनिवासिपुरुषारख्यातिशुद्धाध्वरस्वाहाकार-<br>वषट्क्रियोत्थममृतं स्वादीय आदीयते । आम्नायप्रवणैरलंकृति-<br>जुषेऽमुष्यै मनुष्यैः शुभैर्दिव्यक्षेत्रसरित्पवित्रवपुषे देव्यै<br>पृथिव्यै नमः ॥ १ ॥

१ मेघाः, पक्षे,-स्तनौ २ अरुणरूपो नायकः सारथिर्यस्याः, पक्षे,-अरुण आरक्तो नायको हारमध्यमणिः ३ सूर्यतुरगाणां हरितवर्णत्वादित्यर्थः१ गिलनम् २ छिद्रकरणसाधनम् ३ दन्तदशनकृतविवरपरम्परा ४ पतनशीला ५ मदनः ६ विवाहः ७ देवैः
<div align="center">

इति श्रीसुभाषितरत्नभाण्डागारे प्रथमं मङ्गलाचरणप्रकरणं समाप्तम्

</div>

द्वितीयं सामान्यप्रकरणम्


सुभाषितप्रशंसा

भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती । तस्याद्धि काव्यं मधुरं तस्मादपि सुभाषितम् ॥ १ ॥

सुभाषितेन गीतेन युवतीनां च लीलया । मनो न भिद्यते यस्य स योगी अथवा पशुः ॥ २ ॥

सुभाषितमयैर्द्रव्यैः संग्रहं न करोति यः । सोऽपि प्रेस्तावयज्ञेषु का प्रदास्यति दक्षिणाम् ॥ ३ ॥

संसारकटुवृक्षस्य द्वे फले ह्यमृतोपमे । सुभाषितरसास्वादः संगतिः सुजने जने ॥ ४ ॥

सुभाषितरसास्वादबद्धरोमाञ्चकञ्चुकाः । विनापि कामिनीसङ्गं कवयः सुखमासते ॥ ५ ॥

पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥ ६ ॥

धर्मो यशो नयो दाक्ष्यं मनोहारि सुभाषितम् । इत्यादिगुणरत्नानां संग्रही नावसीदति ॥ ७ ॥

संगीतपि साहित्यं सरस्वत्याः स्तनद्वयम् । एकमापातमधुरमन्यदालोचनामृतम् ॥ ८ ॥

शिशुर्वेत्ति पशुर्वेत्ति वेत्ति गानरसं फणी । साहित्यरसमाधुर्यं शंकगे वेत्ति वा न वा ॥ ९ ॥

द्राक्षा म्लानमुखी जाता शर्करा चाश्मतां गता । सुभाषितरसस्याग्रे सुधा भीता दिवं गता ॥ १० ॥

संसदि तदेव भूषणमुपकारकमेव धनं मुख्यम् । सूक्तं दधति सुवर्णं कल्याणमनर्घमिह धन्याः ॥ ११ ॥

कथमहि मनुष्यजन्म संप्रविशति सदसि विबुधगणितायाम् । येन न सुभाषितमृतमाह्लादि निपीतमातृप्तेः ॥ १२ ॥

अंकलितशब्दालंकृति-रनुकूला स्खलितपदन्निवेशापि । अभिसारिकेव रमयति सूक्तिः सोत्कंपशृङ्गारा ॥ १३ ॥

आस्वादितदयिताधरसुधारसस्येव सूक्तयो मधुराः । अकलितरसालमुकुलो न कोकिलः कैर्मुहुर्व्यथति ॥ १४ ॥

अवसरपठितं सर्वं सुभाषितत्वं प्रयात्यसूक्तमपि । क्षुधि कदर्शनमपि नितरां भोक्तुः संपद्यते स्वादु ॥ १५ ॥

यस्य वक्त्रकुहरे सुभाषितं नास्ति नाप्यवसरे प्रजलपति । आगतः सदसि धीमतामसौ लेप्यनिर्मित इवावभासते ॥ १६ ॥

सुभाषितं हारि विशल्यधोगलान्न दुर्जनस्यार्करिपोरिवामृतम् । तदेव धत्ते हृदयेन सज्जनो हरिमहॉरलमियातिनिर्मलम् ॥ १७ ॥

नायं प्रयाति विकृतिं विरसो न यः स्यान्न क्षीयते बहुजनैर्नितरां निपीतः । जाड्यं निहन्ति रुचिमेति करोति तृप्तिं नूनं सुभाषितरसोऽन्यर सातिशायी ॥ १८ ॥

धन्याः शुचीनि सुरभीणि गुणोम्भितानि वाग्विदूषः स्ववदनोपवनोद्गतायः । उधृत्य सूक्तिकुसुमानि सतां विविक्तवर्णानि कर्णपुलिनेष्ववतंसयन्ति ॥ १९ ॥

किं हारैः किमु कङ्कणैः किमसमैः कर्णावतंसैरलं केयूरैर्मणिकुण्डलैरलमलं साडम्बरैरम्बरैः । पुसामेकसखण्डितं पुनरिदं मन्यामहे मण्डनं यन्निष्पीडितपंवर्णा-मृतकरस्येन्दोपमाः सूक्तयः ॥ २० ॥

खिन्नं चापि सुभाषितेन रमते स्वीयं मनः सर्वदा श्रुत्वान्यस्य सुभाषितं खलु मनः श्रोतुं पुनर्वाञ्छति । अज्ञानज्ञानवतोऽप्यनेन हि वशीकर्तुं समर्थो भवेत्कर्तव्यो हि सुभाषितस्य मनुजैरावश्यकः संग्रहः ॥ २१ ॥

सुव्याहृतानि धीराणां फलतः परिचिन्त्य य । अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति ॥ २२ ॥

सुव्याहृतानि सूक्तानि सुकृतानि ततस्ततः । सचिन्वन् धीर आसीत शिलाहारी शिलं यथा ॥ २३ ॥


विद्याप्रशंसा

अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति । व्ययतो वृद्धिमायाति क्षयमायाति संचयात् ॥ १ ॥

अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् । सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः ॥ २ ॥

सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम् । अहार्यत्वादनर्घ्यत्वादक्षयत्वाच्च सर्वदा ॥ ३ ॥

हर्तुर्न गोचरं याति दत्ता भवति विस्तृता । कल्पान्तेऽपि न या नश्येत्किमन्यद्विद्यया समम् ॥ ४ ॥

ज्ञातिभिर्विभज्यैते नैव चोरेणापि न नीयते । दाने नैव क्षयं याति विद्यारत्नं


[पादटिप्पण्यः / Footnotes]

वामभागटिप्पणी (Left Column Notes):

  • १ प्रसङ्ग
  • २ न नश्यति
  • ३ पाषाणताम्
  • ४ काञ्चनम्, पक्षे, - सुवृत्तदैर्घ्यकम्
  • ५ पण्डितपूर्णाय व्युत्पत्यार्या च
  • ६ न कलिता शब्दस्यालकृतिर्यया अनुप्रामादिशब्दालकृतिशून्येष्यर्थ, पक्षे, -अकलित शब्दो यथैतादृग्यलंकृतिभूषणं यस्या सशब्दभूषणव स्वेडन्यस्य ज्ञानं भविष्यतीति धियेति भाव
  • ७ द्रुत रमप्रलायिका, पक्षे,-नायकुचित्तानुकूल्यवती
  • ८ कूटपदाना म्रथनं यत्र, पक्षे, -स्थानादन्यत्र पतनं यथा स्यात्तथा चर। विन्यासो यस्या
  • ९ सुभाषितम्, पक्षे,-शोभनोक्तिमती
  • १० उत्कृष्टाऽऽलिङ्गनारसवती, पक्षे,-अहमस्याय ममेति रतिपरिपोषवती
  • ११ मधुरम्
  • १२ वदति

दक्षिणभागटिप्पणी (Right Column Notes):

  • १ बिले
  • २ पङ्करचित
  • ३ राहो
  • ४ कौस्तुभमणि
  • ५ धिक्कारम्
  • ६ मान्यम्
  • ७ अन्यरसानतिक्रम्य वर्तत इत्यर्थ
  • ८ कर्णेभूषणैः
  • ९ कान्तिभि
  • १० पूर्ण
  • ११ किरणा
  • १२ नामत्युत्तम यस्यात्
  • १३ विभज्यते

३० सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्


महाधनम् ॥ ५ ॥ संयोजयति विद्यैव नीचगापि नरं सरित् । समुद्रमिव दुर्धर्षं नृप भाग्यमतः परम् ॥ ६ ॥ विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये । आद्या हास्याय वृद्धत्वे द्वितीयाद्रियते सदा ॥ ७ ॥ शुनः पुच्छमिव व्यर्थं जीवितं विद्यया विना । न गुह्यगोपने शक्तं न च दंशनिवारणे ॥ ८ ॥ सद्विद्या यदि का चिन्ता वैराकोदरपूरणे । शुकोऽप्यशनमाप्नोति राम रामेति च ब्रुवन् ॥ ९ ॥ अनपेक्षितगुरुवचना सर्वान्ग्रन्थीन्विभेदयति सम्यक् । प्रकटयति पररहस्यं विमर्शशक्तिर्निजा जयति ॥ १० ॥ वसुमतीपतिना न सरस्वती बलवता रिपुणापि न नीयते । समविभागहरैर्न विभज्यते विबुधबोधबुधैरपि सेव्यते ॥ ११ ॥ श्रियः प्रदुग्धे विपदो रुणद्धि यशांसि सूते मलिनं प्रमाष्टिं । संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धिः किल कामधेनुः ॥ १२ ॥ न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि । व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ॥ १३ ॥ मातेव रक्षति पितेव हिते नियुङ्क्ते कान्तेव चाभिरमयत्यपनीय खेदम् । लक्ष्मीं तनोति वितनोति च दिक्षु कीर्तिं किं किं न साधयति कल्पलतेव विद्या ॥ १४ ॥ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः ॥ १५ ॥ विद्या नाम नरस्य कीर्तिरतुला भाग्यक्षये चाश्रयो धेनुः कामदुघा रतिश्च विरहे नेत्रं तृतीयं च सा । सत्कारायतनं कुलस्य महिमा रत्नैर्विना भूषणं तस्मादन्यमुपेक्ष्य सर्वविषयं विद्याधिकारं कुरु ॥ १६ ॥


काव्यप्रशंसा

कान्पृच्छामः सुराः स्वर्गे निवसामो वयं भुवि । किं वा काव्यरसः स्वादुः किं वा स्वादीयसी सुधा ॥ १ ॥ निर्व्यथानि पद्यानि यद्यनाढ्यस्य का क्षतिः । भिक्षुकक्षाविनिक्षिप्तः किमिक्षुर्नीरसो भवेत् ॥ २ ॥ याता यान्ति च यातारो लोकाः शोकाधिका भुवि । काव्यसम्बन्धिनी कीर्तिः स्थायिनी निरपायिनी ॥ ३ ॥ नवोक्तिर्जातिरग्राम्या श्लेषोऽक्लिष्टः स्फुटो रसः । विकटाक्षरसंबन्धः कृत्स्नमेकत्र दुष्करम् ॥ ४ ॥ सद्भिर्मव्ये हिते काव्ये वृथा दुर्जनगर्जनम् । चण्डीशाङ्गीकृते चन्द्रेऽरुंतुदः किं विधुंतुदः ॥ ५ ॥ त एव पदविन्यासास्ता एवार्थविभूतयः । तथपि नव्यं भवति काव्यं ग्रथनकौशलात् ॥ ६ ॥ सरसापि कवेर्वाणी हरिनामाङ्किता यदि । सादरं गृह्यते तज्ज्ञैः शुक्तिर्मुक्तान्विता यथा ॥ ७ ॥ काव्यस्याग्रफलस्यापि कोमलस्येतरस्य च । बन्धच्छायाविशेषेण रसोऽप्यन्यादृशो भवेत् ॥ ८ ॥ शब्दशक्त्यैव कुर्वाणा सर्वदानवनिवृत्तिम् । काव्यविद्या श्रुतिगता स्यान्मृतस्यापि जीवनी ॥ ९ ॥ श्लिष्टा सैभङ्गा सद्वर्ण्या निर्दोषा सद्गुणा मृदुः । नानाभङ्गीविलासा चेत्कृतिर्विस्तृतिरन्यथा ॥ १० ॥ धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च । करोति कीर्तिं प्रीतिं च साधुकाव्यनिषेवणम् ॥ ११ ॥ उमामिमां समुद्धीक्ष्य शीतदीधितिशेखर । एषापि भारती भानुयुत सीत्कृत्य नर्तति ॥ १२ ॥ अध्वनि पदग्रहरूपर मदयति हृदयं न वा न वा श्रवणम् । काव्यमभिन्नमभाया मञ्जीर केलिवेलायाम् ॥ १३ ॥ अविदितगुणापि सुकवेर्भणितिः कर्णेषु वमति मधुधाराम् । ह्यनधिगतपरिमलापि हि हरति दृशं मालतीमाला ॥ १४ ॥ ख्यातिं गमयति सुजनं सुकविर्विदधाति केवलं काव्यम् । पुष्णाति कमलमम्भो लक्ष्म्या तु रविर्नियोजयति ॥ १५ ॥ कृतमन्दपदन्यासा विकचेश्रीश्चोशखण्डभङ्गवती । कस्य न कम्पयते कं जरेव जीर्णस्य सत्कवेर्वाणी ॥ १६ ॥ सरसा सालंकारा सुपदन्यासा सुवर्णमयमूर्तिः । आर्या तथैव भार्या न लभ्यते पुण्यहीनेन ॥ १७ ॥ सा कविता सा वनिता यस्याः श्रवणेन दर्शनेनापि । कविहृदयं विटहृदयं सरलं तरलं च सत्वरं भवति ॥ १८ ॥ अमरहिता सा कच्चवत्स्त्रीणां कुचवच्च सरंसहिता । लसदक्षरपीयूषाधरवत्कविता महात्मना जीयात् ॥ १९ ॥ सत्पात्रोर्पणयोचितसंतप्रतिबिम्बाभिनववस्तु । कस्य न जनयति हर्षं सत्काव्यं मधुरवचनं च ॥ २० ॥ सत्सूत्रसंविधानं सदलकारं सुवृत्तमच्छिद्रम् । को धारयति न कण्ठे सत्काव्यं माल्यमर्घ्यं च ॥ २१ ॥


पादटिप्पण्यः (Footnotes):

१ ज्ञानाय
२ मङ्गिला
३ श्लक्ष्णम्
४ नियोजयति
५ अन्तर्हितम्
६ उत्कृष्टानि
७ मर्मस्पृक्

१ कठिनस्त्येत्यर्थः
२ सर्वकाल नवसौख्यम्; पक्षे,-सर्वेषां रक्षसामानन्दम्
३ कविता, पक्षे,-काव्यस्य शुक्रस्य विद्या संजीविनीत्यर्थः
४ नानार्थशब्दयुक्ता
५ पदच्छेदवैचित्र्यादनेकार्थपदवती
६ कविता
७ रोग दुखदत्वात्
८ व्यङ्ग्यार्थशून्यम् यत्तु ध्वनिरुत्तमं काव्यं तद्भिन्नमित्यर्थः; पक्षे,-शिञ्जितशून्यम्
९ अनुप्रासमात्रार्थं पदग्रहं परमुत्कृष्टो यत्र; पक्षे,-अत्यन्तचरणसंलग्नम्
१० उक्ति
११ वर्षति
१२ सुप्तिङन्तादि; पक्षे,-चरणं
१३ प्रफुल्लशोभा; पक्षे,-विगता कच्चभीः केशशोभा यस्याः
१४ चारवो ये शब्दभङ्गा रचनाविशेषास्तद्वती; पक्षे,-स्खलितशब्दवती
१५ शिर
१६ अमरेभ्यो मूढेभ्यो हिता; पक्षे,-भ्रमेण भ्रान्त्या रहिता
१७ सरोमोलाभिः सहिता; पक्षे,-सरसेभ्यो हिता
१८ लसच्छोभायमानमक्षरमविनाशि पीयूषं तद्वन्माधुर्यं यस्मिन्, पक्षे,-लसन्त्यक्षराणि वर्णा एव पीयूषं यस्याम्
१९ स्थापनम्
२० सम्यग्बोध
२१ दोषरहितम्

काव्यप्रशंसा ३१


यदसेवनीयमसताममृतप्रायं सुवर्णविन्यासम् । सुरसार्थमयं काव्यं त्रिविष्टप वा समं विद्म. ॥ २२ ॥

सत्कविरमनाशी-र्निंस्तुषतरशब्दशालिपाकेन । तृप्तो दयिताधरमपि नाद्रियते का सुधा दासी ॥ २३ ॥

काव्यस्याक्षरमैत्रीर्भाजो न च कर्कशा न च ग्रन्थ्याः । शब्दा अपि पुरुषा अपि सौध एवार्थबोधाय ॥ २४ ॥

अन्तर्गूढानिधानव्यञ्जयतः प्रसद्-रहितस्य । सधर्मस्य नदस्य च न रसैः प्रीत्यै रसज्ञानाम् ॥ २५ ॥

आन्तरमिव बहिरिव हि व्यञ्जयितु रसमशेषत. सततम् । असती सत्कविसूक्तिः काचघटीति त्रय वेद ॥ २६ ॥

न ब्रह्मविद्या न च राज्यलक्ष्मीस्तथा यथेय कविता कवीनाम् । लोकोत्तरे पुसि निवेश्यमाना पुत्रीव हर्ष हृदये करोति ॥ २७ ॥

अनभ्रवृष्टिः श्रवणामृतस्य सरस्वतीविभ्रम-जन्मभूमिः । वैदर्भरीति. कृतिनामुदेति सौभाग्यलाभप्रति-भूः पदानाम् ॥ २८ ॥

सहोदरा. कुङ्कुमकेसराणा भवन्ति नून कविताविलासा । न शारदादेशमपास्य दृष्टस्तेषा यद-न्यत्र मया प्ररोहः ॥ २९ ॥

नमो नम. काव्यरसाय तस्मै निषिक्तमन्त. पृषतापि यस्य । सुवर्णता वक्रमुपैति सार्थोर्द्ध-वर्णता याति च दुर्जनस्य ॥३०॥

अर्थो गिरमपिहित पिहितश्च कश्चित्सौभाग्यमेति मरहट्टवधूकुचाम । नान्ध्रीपयोधर इवा-तितरा प्रकाशो नो गुर्जरोस्तन इवातितरा निगूढः ॥ ३१ ॥

रे रे खला. शृणुत मद्वचन समस्ताः स्वर्गे सुधास्ति सुलभा न तु सा भवद्भिः । कुर्मस्तदत्र भवतामुपकारकारि काव्यामृत पिबत तत्परमादरेण ॥ ३२ ॥

वाणी ममैव सरसा यदि रञ्जयित्री न प्रार्थये रसविदामवधानदानम् । सायंतनेषु मकरन्दवतीषु भृङ्गाः कि मल्लिकासु परैमन्त्रणमारभन्ते ॥ ३३ ॥

आख्यातनामवचनाचतुरस्रसन्धिसद्भावललितगुण सरस सुवृत्तम् । आसेदुषामपि दिं कविपुङ्गवाना तिष्ठत्य-खण्डमिह काव्यमय शरीरम् ॥ ३४ ॥

सरसपरिषत्कर्णश्राव्यं कवित्वरसायनं विरसमनसा नेतुं नेहामहे श्रवणान्तिकम् । मृगमदरस बिम्बोष्ठीना कठोरकुचोचितं जघननकटे क्लिन्ने लिम्पेज्जन्महिषस्य क ॥ ३५॥

अमृतजलधे. पाय पाय पयासि पयोधर. किरति करकास्ताराकारा यदि स्फटिकावना । तदिह तुलनामानीयन्ते क्षण कठिना पुन सततममृतस्यन्दोद्वारा गिर प्रैतिभावताम् ॥३६॥

प्रयच्छति चमत्कृति विरचनाविधौ चेतस. सभासु पठितो भवत्यसमसाधुवादासये । प्रथामुप-गतस्तनोत्यतितरामुदार यशो न पुष्यति मनोरथ कमिव काव्यचिन्तामणि. ॥ ३७ ॥

समुल्लसति वाचा सरसमधु-निष्यन्दलहरी समुन्मेषद्रेषी सकलरसपोषोपजनकः। न केषा-माधत्ते मनसि परितोष नवनवैर्विलासैरून्मीलद्विकचितमधूली-परिमलः ॥ ३८ ॥

यथा यूनस्तद्वत्परमरमणीयापि रमणी कुमाराणामन्त.करणहरण नैव कुरुते । मदुक्तिश्चेदन्तर्मद्-यति सुधीभूय सुधिया किमस्या नाम स्यादरसपुरुषा-नादरभरै. ॥ ३९ ॥

परिच्छिन्नस्वादोऽमृतगुडमधुक्षौद्रपयसा कदाचिच्याभ्यासाद्भजति ननु वैरस्यमधिकम् । प्रियाबिम्बोष्ठे वा रुचिरकविवाक्येऽप्यनवधिर्नवानन्दः कोऽपि स्फुरति तु रसोऽसौ निरुपमः ॥ ४० ॥

प्रैसत्तेयः पात्र तिलकयति यं सूक्तिरचना य आद्यः स्वादूना श्रुतिचुलुकलेहेन मधुना । यदात्मानो विद्याः परिणमति यश्चार्थवपुषा स गुम्फो वाणीना कविबृषनिशेव्यो विजयते ॥ ४१ ॥

सदा मध्ये यासामियमृतनिष्यन्दसरसा सरस्वत्युद्दामा वहति बहुमार्गी परिमलम् । प्रसाद ता एता धनपरिचिताः केन महता महाकाव्यव्योम्नि स्फुरितमधुरा यान्तु रुच्यः ॥ ४२ ॥

नव व्याकरणङ्गमेति पितरं न भ्रातर नार्किर्कं दूरात्सकुचि-तेव गच्छति पुनश्चाण्डालवच्छान्दसात् । मीमांसानिपुणं नपुसकमिति ज्ञात्वा निगस्त्यादरा काव्यालकरणङ्गमयेत्य कविता-कान्ता वृणीते स्वयम् ॥ ४३ ॥

रम्यार्थोक्तिनतूज्ज्वला रसमयप्राणा गुणोल्लासिनी चेतोरञ्जरीतिवृत्ति कवितापाकं वयो बिभ्रती । भावालकरणोचितागमवती सर्वत्र निर्दोष-ताशय्यार्मेङ्क्षति कामिनीव कविता कस्यापि पुण्यात्मनः ॥ ४४ ॥

निर्ह्रादं क्रकचक्षतै. किरति किं कर्णामृतं वल्लकी कि वा मुञ्चति मालती परिमलं पाषाणनिष्पेषणैः । इत्थं तारसर्कर्काशा धियमसौ जल्पोर्विकाल्याकुलैराकूटं कमनीय-कान्तिदमिरंतं कार्य कथ स्पन्दते ॥ ४५ ॥

यन्नाकृष्टसुवर्ण-सूत्रमिव यत्पद्यं सुमेरोस्तटादुन्मीलत्कुरुविन्दकन्दल इव स्वच्छः पदार्थस्तु यः । यत्राप्युल्लसदशुकान्तरलसत्कान्ता-कुचान्तोपमं व्यङ्ग्यं यत्तदहो कवित्वमपरं वाग्देवतोपप्लवः ॥ ४६ ॥

गुम्फ. पङ्कजकुड्मलद्युतिरुरस्तत्केसरोल्लासवानर्थो-ऽप्यन्तरसौरभप्रतितिभ व्यङ्ग्य चमत्कारि यत् । द्वित्रैर्यद्रसिकै-


पाद-टिप्पणी (Footnotes)

पाद-टिप्पणी (१–१९)पाद-टिप्पणी
१ सहृदयभिन्नानाम्; पक्षे,-पापवताम१ विदुषाम्
२ अमृततुल्यम्, पक्षे,-अमृतबहुलम्.२ मुरवल्ली
३ शोभनाक्षराणा विन्यासो ग्रथन यत्र, पक्षे-सुवर्णमयम्३ आनन्दस्य
४ शोभनरसार्थप्रचुरम्, पक्षे,-देवसमूहबहुलम्४ गच्छति.
५ प्रस्फोटनम्
६ निर्दोष
७ निर्दोषकव्यास्वादेनेत्यर्थ
८ एकवर्गघटितत्वादिरूपा
९ श्रुतिकटुक, पक्षे,-क्रूरतया
१० अविंदग्धप्रयुक्ता , पक्षे,-ग्राममात्रवासिन
११ व्याकरणसिद्धा , पक्षे,-निर्मलमतय..
१२ अभ्यन्तरे गूढस्थितान्, पक्षे,-अभ्यन्तरे निलीनान्
१३ प्रतिपाद्यविषयान्, पक्षे,-पदार्थान्
१४ व्यञ्जनाविधयानकुर्वतः; पक्षे,-अप्रकटयत .
१५ प्रसादेन काव्यगुणेन रहितस्य, पक्षे,-निर्मलतया रहितस्य
१६ काव्यस्य
१७ शृङ्गारादि., पक्षे,-जलम्.
१८ काश्मीरदेशम्.
१९ अन्येषामभिमतम्; अन्यै सह विचारविनिमयो वा.
३२सुभाषितरत्नभाण्डागारम्[ २ प्रकरणम्

...श्चिरं सहृदयैर्भृङ्गैरिवास्वाद्यते तत्काव्यं न पुनः भ्रमत्कुमुदै- र्यत्किंचिदुज्ज्वलितम् ॥ ४७ ॥ निन्द्यन्ते यदि नाम मन्द- मतिभिर्बकाः कवीनां गिरो रस्तूयन्ते न च नीरसेमृगदृशां वक्रा कटाक्षच्छटा । तद्दग्धव्यविदा सतामपि मनः किं नेहते वक्रतां धत्ते किं न हरः किरीटशिखरे वक्रां कला- मैन्दवीम् ॥ ४८ ॥ सानन्दप्रमदाकटाक्षविशिखैर्यैषां न भिन्नं मनो यैः संसारसमुद्रपातविधुरेष्वन्येषु पोतायितम् । यैर्दुर्वार- सरस्वतीविलसितं द्वित्रैः पदैर्गुम्फितं तेषामप्युपरि स्फुरन्ति मतयः कस्यापि पुण्यात्मनः ॥ ४९ ॥ वाणि त्वत्पदपद्मरेणु- कणिका या क्षान्तभूमिं सतां सम्प्राप्ता कवितालता परिणता सैवेयमुज्जृम्भते । त्वत्कर्णेऽपि चिराय यत्किसलयं सूक्तापदेशं शिरःकम्पभ्रंशितपारिजातकलिकागुच्छे विधत्ते पदम् ॥ ५० ॥

नाट्यप्रशंसा

प्रत्यङ्गमङ्कुरितसर्वरसायतारनव्योल्लसत्कुसुमराजिविराजि- बन्धम् । धर्मेतराशुरिव वक्रतयातिरम्यं नाट्यप्रबन्धमति- मङ्गलसंविधानम् ॥ १ ॥ देवानामिदमामनन्ति मुनयः कान्तं क्रतुं चाक्षुषं रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा । त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते नाट्यं भिन्न- रुचेर्जनस्य बहुधाप्येकं समाराधनम् ॥ २ ॥

कुकाव्यनिन्दा

किं तेन किल काव्येन मृद्यमानस्य यस्य ताः । उद्गन्धे- रिव नायान्ति रसामृतपरम्पराः ॥ १ ॥ किं तेन काव्यमधुना- प्लाविता रसनिर्झरैः । जडात्मानोऽपि नो यस्य भवन्त्यङ्कु- रितान्तराः ॥ २ ॥ यदा प्रकृत्यैव जनस्य रागिणो भृशं प्रदीप्तो हृदि मन्मथानलः । तदात्र भूयः किमनर्थपण्डितैः कुकाव्य- हव्याहुतयो निवेशिताः ॥ ३ ॥ तत्किं काव्यमनल्पपीत- मधुवत्कुर्यान्न यद्बुद्गतं मात्सर्यावृतचेतसां रसविशादप्युद्देति लोमसु । कम्पं मूर्ध्नि कपोलयुग्ममरुणं बाष्पाविले लोचने अध्यारोपितवस्तुकीर्तनपरं वाचः करालम्बनम् ॥ ४ ॥ या साधूनिव साधुवादमुखरान्मात्सर्यमूकानपि प्रोच्चैर्नो कुरुते सतां मतिमतां दृष्टिनं सा वास्तवो । या याताः श्रुतिगोचरं च सहसा हर्षोल्लसत्कंधरास्तिर्यञ्चोऽपि न मुक्तशष्पकवलास्ताः किं कवीनां गिरः ॥ ५ ॥

सामान्यकविप्रशंसा

जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः । नास्ति येषां यशःकाये जरामरणजं भयम् ॥ १ ॥ प्रस्तावे हेतुयुक्तानि च पठत्यविशङ्कितः । स कविस्तानि काव्यानि काव्ये तस्य परिश्रमः ॥ २ ॥ सुकवेः काव्यसौभाग्यं सुकविर्वेत्ति नापरः । कलाढवन्न जानाति परः कङ्कणचित्रताम् ॥ ३ ॥ सन्ति श्वान इवासंख्या जातिभाजो गृहे गृहे । उत्पादका न बहवः कवयः शरभा इव ॥ ४ ॥ कवयः परितुष्यन्ति नेतरे काव्य- सूक्तिभिः । न ह्यकूपारवत्कूपा वर्धन्ते विधुकान्तिभिः ॥ ५ ॥ कवीनां मानसं नौमि तरन्ति प्रतिभाम्भसि । यत्र हंसवयां- सीव भुवनानि चतुर्दश ॥ ६ ॥ अपूर्वो भाति भाग्याः काव्यामृतफले रसः । चर्वणे सर्वसामान्ये स्वादुवित्केवलः कविः ॥ ७ ॥ उत्फुल्लगलैरालापाः क्रियन्ते दुर्मुखैः सुखम् । जानाति हि पुनः सम्यक्कविरेव कवेः श्रमम् ॥ ८ ॥ ते धन्यास्ते महात्मानस्तेषां लोके स्थितं यशः । यैर्निबद्धानि काव्यानि ये वा काव्येषु कीर्तिताः ॥ ९ ॥ अमृतोन्मेक्षणे रागं कुर्वन्तु गरुडध्वजाः । कविर्गुरुडवन्मान्यमिन्द्रवज्रादिवृत्तकृत् ॥ १० ॥ काव्यमय्यो गिरो यावच्चरन्ति विशदा भुवि । तावत्सारस्वतं स्थानं कविरासाद्य तिष्ठति ॥ ११ ॥ अनन्त- पदविन्यासरचना सर्गसा कवेः । बुधो यदि समीपस्थो न कुंजन्मा पुरो यदि ॥ १२ ॥ कविः करोति पद्यानि लालय- त्युत्तमो जनः । तरुः प्रसूते पुष्पाणि मरुद्वहति सौरभम् ॥ १३ ॥ कविः करोति काव्यानि स्वादं जानन्ति पण्डिताः । सुन्दर्या अपि लावण्यं पतिर्जानाति नो पिता ॥ १४ ॥ कविः पिता पोषयति पालको रसिकः पतिः । कवितायुवतेर्नूनं सोदरास्तु विवेकिनः ॥ १५ ॥ तत्त्वं किमपि काव्यानां जानाति विरलो भुवि । मार्मिकः को मरन्दानामन्तरेण मधु- व्रतम् ॥ १६ ॥ साध्वीव भारती भाति सूक्तिसद्भूतचारिणी । आगम्यार्थवस्तुसंसर्गाद्वहिराज्ञा महाकवेः ॥ १७ ॥ कतिपय- निमेषवर्तिनि जन्मजरामरणविह्वले जगति । कल्पान्तकोटि- बन्धुः स्फुरति कवीनां यशःप्रसरः ॥ १८ ॥ कविवाक्या- मृततीर्थस्नानैनैः पूता भृशं यशोदेहाः । येषां त एव भूपा जीवन्ति मृता वृथैवान्ये ॥ १९ ॥ काव्यप्रपञ्चेपुच्छू रचयति काव्यं न सारविद्भवति । तरवः फलानि सुवते विन्दति सारं पतङ्गसमुदायः ॥ २० ॥ विगुणोऽपि काव्यबन्धः साधूना- मानने गतः स्वदते । फूत्कारोऽपि सुवंशैरनूद्यमानः श्रुतिं हरति ॥ २१ ॥ विद्वत्कवयः कवयः केवलकवयस्तु केवलं कपयः । कुलजा या सा जाया केवलजाया तु केवलं माया


पादटिप्पण्यः (Footnotes):

  • १ रोमहर्षम् २ कीर्तिशरीरे
  • १ स्वर्णकार २ समुद्र ३ अनेकपदानि, पक्षे,-विष्णुपदम्. आकाशमित्यर्थ ४ ब्रह्माण्डादिरससहिता, पक्षे,-वृष्टिप्रदा ५ कवयितु, पक्षे,-शुक्रस्य ६ पण्डित, पक्षे बुधग्रह ७ नास, पक्षे,-कु पृथ्वी तस्या जन्म यस्य मङ्गल इत्यर्थ ८ सान्निध्यम् ९ कीर्तिप्रकाश १० वित्त, निपुण. ११ सुवेणुभि