भारतकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

१२८ तैत्तिरीये आरण्यके

(६२)रु॒द्राय॑ रु॒द्रहो॑त्रे॒ स्वाहेत्या॑ह। रु॒द्रमे॒व भा॑गधेये॑न सम॑र्धयति(६२)। (६३)सर्व॑तः॒ समन॑क्ति। सर्व॑त एव रु॒द्रं निर॑वदयते(६३)। (६४)उद॑ञ्चं॒ निर॑स्यति। ए॒षा वै रु॒द्रस्य॒ दिक्। स्वाया॑मेव॒ दिशि॑ रु॒द्रं निर॑वदयते(६४)। (६५)अप॒ उप॑स्पृशति मेध्य॒त्वाय॑(६५)। (६६)नान्वी॑क्षेत। यद॒न्वीक्षेत॥ ६॥

चक्षु॑रस्य प्रमायु॑कः स्यात्। तस्मा॒न्नान्वीक्ष्यः॑(६६)। (६७)अपो॑परो माहो रात्रियै मा पाह्येषा ते अग्ने समि॒त्तया समि॑ध्यस्वाऽऽयु॑र्मे दा वर्च॑सा माञ्जीरित्या॑ह। आयु॑रे॒वास्मिन् वर्चो॑ दधाति। अपो॑परो मा रात्रिया अह्नो मा पाह्येषा ते अग्ने समि॒त्तया समि॑ध्यस्वाऽऽयु॑र्मे दा वर्च॑सा माञ्जीरित्या॑ह। आयु॑रे॒वास्मिन् वर्चो॑ दधाति(६७)। (६८)अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निः स्वाहा॒ सूर्यो॒ ज्योति॒र्ज्योतिः॒ सूर्यः॒ स्वाहेत्या॑ह। यथा॒ यजु॑रे॒वैतत्(६८)।


६२एतन्मन्त्रस्य भाष्यं४६० पृष्ठे द्रष्टव्यं ।
६३,,४६० ,,
६४,,४६० ,,
६५,,४६१ ,,
६६,,४६१ ,,
६७,,४६२ ,,
६८,,४६३ ,,

५ प्रपाठके ८ अनुवाकः। ६२६

(३९)ब्रह्मवादिनो॑ वदन्ति। होत॒व्य॑म॒ग्निहो॒त्रा३ न होत॒व्या३मिति॑ ॥ १० ॥

यद्यजु॑षा जुहु॒यात् । अय॑थापूर्वं॒माहु॑तीर्जुहुयात् । यन्न जुहु॒यात् । अ॒ग्निः परा॑भवेत् । भूः स्वाहेत्येव होत॒व्य॑म् । यथा॒पूर्व॒माहु॑तीर्जुहोति॑ । नाग्निः परा॑ भवति^(३९) । ^(४०)हुतग्ँ ह॒विर्मधु॑ह॒विरित्या॑ह । स्व॒दय॑त्ये॒वैनं॑^(४०) । ^(४१)इन्द्र॑त॒मेऽग्नावि॒त्याह॑ ॥ ११ ॥

प्रा॒णो वा इन्द्र॑तमोऽग्निः । प्रा॒ण ए॒वैनमिन्द्र॑तमेऽग्नौ जु॑होति^(४१) । ^(४२)पि॒ता नौ॑ऽसि॒ मा मा॑ हिग्ंसी॒रित्या॑हाहिं॑सायै^(४२) । ^(४३)अ॒श्याम॑ ते देव घर्म॒ मधु॑मतो॒ वाज॑वतः पितु॒मत॒ इत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते^(४३)। ^(४४)स्व॒धावि॑नो॒ऽशीम॑हि॒ त्वा मा मा॑ हिग्ंसी॒रित्या॑हाहिं॑सायै^(४४) । ^(४५)तेज॑सा॒ वा ए॒ते व्यृ॑द्ध्यन्ते । ये प्र॑व॒र्ग्ये॑ण॒ चर॑न्ति । प्रा॒श्नन्ति॑ । तेज॑ ए॒वात्मन्ध॑धते^(४५) ॥१२॥


३६ एतन्मन्त्रस्य भाष्यं ४६३ पृष्ठे द्रष्टव्यं ।
४० ,, ४६५ ,,
४१ ,, ४६५ ,,
४२ ,, ४६५ ,,
४३ ,, ४६५ ,,
४४ ,, ४६५ ,,
४५ ,, ४८५ ,,

६३०तैत्तिरीये आरण्यके

(४६)संव॒त्स॒रं न मा॒ꣳसम॑श्नीयात् । न रा॒मामुपे॑यात् । न मृ॒न्मये॑न पिबेत् । नाऽस्य॑ राम उच्छि॑ष्टं पिबेत् । तेज॑ ए॒व तत् सꣳश्य॑ति^(४६) । (४७)दे॒वा॒सु॒राः सं॑य॒त्ता आ॑सन् । ते दे॒वा वि॑ज॒यमु॑पय॒न्तः । वि॒भ्राजि॑ सौ॒र्ये ब्रह्म॑ स॒न्दध॑त । यत्किञ्च॑ दिवाकी॒र्त्य॑म् । तदे॒तेनैव व्र॒तेना॑ऽगोपायन् ॥ तस्मा॑दे॒तद् व्र॒तं चर्य॑म् । तेज॑सो गोपीथा॒य । तस्मा॑दे॒तानि॒ यजूं॑षि वि॒भ्राज॑ : सौ॒र्येत्याहुः^(४७)। (४८)स्वाहा॑ त्वा॒ सूर्य॑स्य र॒श्मिभ्य॒ इति॑ प्रातः सꣳसा॑दयति । स्वाहा॑ त्वा॒ नक्ष॑त्रेभ्य॒ इति॑ सा॒यं । ए॒ता वा ए॒तस्य॑ दे॒वता॑: । ताभि॑रे॒वैनं॑ सम॒र्धय॑ति^(४८) ॥ १३ ॥

अ॒कः(१), अ॒श्विनेत्या॑ह(२), प्र॒दिशो॒ गच्छेत्या॑ह(३), पि॒तॄणां(४), अ॒न्तःप॒रि॒धि पि॑न्व्यति(५), धार॒येत्या॑ह(६), वाचः॑(७), घ॒र्म्म॒पास्तेभ्य॑ ए॒वैनं॑ जुहोति(८), अ॒न्वीक्षे॑त(९), होत॒व्या३मिति॑(१०), अ॒त्रावि॒त्या॑ह(११), दध॑ते(१२), अगोपायत्, स॒प्त च॑(१३) ॥ अनु० ८ ॥


४६ एतन्मन्त्रस्य भाष्यं ४८६ पृष्ठे द्रष्टव्यं ।
४७ " " ४८६ "
४८ " " ४८७ "

५ प्रपाठके ६ अनुवाकः। ६३१

• अथ नवमोऽनुवाकः ।

^(१)घ॒र्म॒ या ते॑ दि॒वि शुगिति॑ ति॒स्र आहु॑तीर्जुहोति । छन्दो॑भिरे॒वास्यै॒भ्यो लो॒केभ्यः॒ शुच॒मव॑यजते^(१) । ^(२)इ॒य॒त्यग्रे॑ जुहोति । अ॒थेय॒त्यथेय॑ति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒व लो॒केभ्यः॒ शुच॒मव॑यजते^(२) । ^(३)अनु॑ नो॒ऽद्यानु॑म॒तिरित्याहा॑नुम॒त्यै^(३) । ^(४)दि॒वस्त्वा॑ प॒र॒स्याया इत्या॑ह । दि॒व ए॒वैमाँल्लो॒कान् दा॑धार^(४) । ^(५)ब्रह्म॑णस्त्वा प॒र॒स्याया इत्या॑ह ॥ १ ॥

ए॒ष्वेव लो॒केषु॑ प्र॒जा दा॑धार^(५) । ^(६)प्रा॒णस्य॑ त्वा प॒र॒स्याया इत्या॑ह । प्र॒जास्वे॒व प्रा॒णान् दा॑धार^(६) । ^(७)शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ । यत् प्र॑व॒र्ग्यः॑ । अ॒सौ खलु॒ वा आ॑दि॒त्यः प्र॑व॒र्ग्यः॑ । तं यद्द॑क्षि॒णा प्रत्य॑ञ्चमुद॑ञ्चमुद्वा॒सये॑त् । जि॒ह्मं य॒ज्ञस्य॒ शिरो॑ हरेत् । प्राञ्च॑मुद्वा॑सयति । पु॒र॒स्ता॑दे॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑दधाति ॥ २ ॥


एतन्मन्त्रस्य भाष्यं४६६पृष्ठे द्रष्टव्यं ।
,,५००,,
,,५००,,
,,५०१,,
,,५०२,,
,,५०३,,
,,५०३,,

4 H

६३२ तैत्तिरीये आरण्यके

प्रा॒ञ्चमुद्वा॑सयति । तस्मा॑द॒सावा॑दि॒त्यः पु॒रस्ता॒दुदै॑ति^(७) । ^(८)श॒फोप॑यमा॒न् धृवि॑त्राणि॒ धृष्टी॒ इत्य॒न्व॑वहरन्ति । सा॒त्मान॑मे॒वैनँ॑ सत॒नुं क॑रोति^(८) । ^(९)सा॒त्माऽमुष्मिँ॑ल्लो॒के भ॑वति । य ए॒वं वेद॑^(९) । ^(१०)औदु॑म्बराणि भवन्ति । ऊर्जा उ॑दु॒म्बरः॑ । ऊर्ज॑मे॒वाव॑रुन्धे^(१०) । ^(११)व॒र्त्म॑ना॒ वा॒ अन्वि॑त्य॒ ॥ ३ ॥

य॒ज्ञꣳ रक्षाँ॑सि जिघाँसन्ति । साम्ना प्रस्तो॒ताऽन्ववै॑ति । साम॒ वै र॑क्षो॒हा । रक्ष॑सामप॑हत्यै^(११) । ^(१२)त्रि॒र्निध॑नमुपै॑ति । त्रय॑ इ॒मे लो॒काः । एभ्य॑ एव लो॒केभ्यो॒ रक्षाँ॒स्यप॑हन्ति^(१२) । ^(१३)पुरु॑षः पुरुषो॒ निधन॑मुपै॑ति । पुरु॑षः पुरु॒षो हि रक्ष॑स्वी । रक्ष॑सामप॑हत्यै^(१३) ॥ ४ ॥

^(१४)यत् पृ॑थि॒व्यामु॑द्वा॒सये॑त् । पृ॒थि॒वीꣳ शु॒चार्प॑येत् । यद॒प्सु । अ॒पः शु॒चार्प॑येत् । यदोष॑धीषु । ओष॑धीः शु॒चार्प॑येत् । यद्वन॒स्पति॑षु । वन॒स्पतीँ॑ञ्छु॒चार्प॑येत् । हि- र॑ण्यं नि॒धायोद्वा॑सयति । अ॒मृतं॒ वै हिर॑ण्यं ॥ ५ ॥


एतन्मन्त्रस्य भाष्यं५०३ पृष्ठेद्रष्टव्यं ।
,,५०४,,
१०,,५०४,,
११,,५०४,,
१२,,५०४,,
१३,,५०५,,
१४,,५०५,,

५ प्रपाठके ६ अनुवाकः । ६३३

अ॒मृत॑ ए॒वैनं॒ प्रति॑ष्ठापयति॑⁽१४⁾ । ⁽१५⁾व॒ल्गुर॑सि॒ शं- युर्धाया॒ इति॑ त्रिः परि॑षि॒ञ्चन् पर्यै॑ति । त्रि॒वृद्धा अ॒ग्निः । यावा॑ने॒वाग्निः । तस्य॒ शुचं॑ शमयति॑⁽१५⁾ । ⁽१६⁾त्रिः पुनः॒ पर्यै॑ति । षट् सम्प॑द्यन्ते । षड् वा ऋ॒तव॑ः । ऋ॒तु- भि॑रे॒वास्य॒ शुचं॑ शमयति॑⁽१६⁾ । ⁽१७⁾चतु॑ःस्रक्ति॒र्नाभि॑- ऋ॒तस्येत्या॑ह ॥ ६ ॥ इ॒यं वा ऋ॒तं । तस्या॑ ए॒ष एव नाभि॑ः । यत् प्र॑व॒र्ग्यः॑ । तस्मा॑दे॒वमा॑ह⁽१७⁾ । ⁽१८⁾सदो॑ वि॒श्वायु॒रित्या॑ह । सदो॒ हीयं॑⁽१८⁾ । ⁽१९⁾अप॒ द्वेषो॒ अप॒ ह्वर॒ इत्या॑ह॒ भ्रातृ॑व्याप- नुत्त्यै॑⁽१९⁾ । ⁽२०⁾घ॒र्मैतत्तेऽन्न॑मे॒तत् पुरी॑ष॒मिति॑ द॒ध्ना मं- धुमिश्रे॑ण पूरयति । ऊ॒र्ग्वा अन्नाद्यं॒ दधि॑ । ऊ॒र्जैवैने॑- म॒न्नाद्ये॑न॒ समर्ध॑यति॑⁽२०⁾ ॥ ७ ॥ ⁽२१⁾अने॑शनायुको भवति । य ए॒वं वेद॑⁽२१⁾ । ⁽२२⁾र- न्ति॒र्नामा॑सि दि॒व्यो ग॑न्ध॒र्व इत्या॑ह । रू॒पमे॒वास्यै॑त-


१५ एतन्मन्त्रस्य भाष्यं५०६ पृष्ठे द्रष्टव्यं ।
१६ ,,५०६ ,,
१७ ,५०६ ,,
१८ ,,५०७ ,,
१९ ,,५०७ ,,
२० ,,५०८ ,,
२१ ,,५०८ ,,
२२ ,,५०६ ,,

4 ॥ 2

६३४ तैत्तिरीये आरण्यके

न्म॑हि॒मानँ॑ र॒न्तिं ब॑न्ध॒तां व्याच॑ष्टे^(२२) । ^(२३)सम॒हमा- यु॑षा॒ सं प्रा॒णेनेत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते^(२३) । ^(२४)व्य॑सै॒ योऽस्मान् द्वेष्टि॒ यञ्च॑ व॒यं द्वि॒ष्म इत्या॑ह । अ॒- भि॒चार॑ ए॒वास्यै॒षः^(२४) । ^(२५)अचि॑क्रद॒द् वृषा॒ हरि॒रि- त्या॑ह । वृषा॒ ह्येषः ॥ ८ ॥

वृषा॒ हरिः॑^(२५) । ^(२६)म॒हान्म॒ित्रो न दर्श॑त इत्या॑ह । स्तौत्ये॒वैन॑मे॒तत्^(२६) । ^(२७)चि॒दसि॑ समु॒द्रयो॑निरित्या॑ह । स्वामे॒वैनां॒ योनिं॑ गमयति^(२७) । ^(२८)नम॑स्ते अस्तु मा मा॑ हिꣳसी॒रित्या॑हाहि॑ꣳसायै^(२८) । ^(२९)विश्वाव॑सु॒ꣳ सो- मगन्ध॒र्व्वमित्या॑ह । यदे॒वास्य॑ क्रि॒यमा॑ण॒स्यान्त॒र्यन्ति॑ । तदे॒वास्यै॒तेनाप्या॑ययन्ति^(२९) । ^(३०)विश्वाव॑सुर॒भि तन्नो॑ गृ॒णात्वित्या॑ह ॥ ९ ॥

पू॒र्व्वमे॒वादि॑तं । उत्त॑रेणा॒भिगृ॑णाति^(३०) । ^(३१)धियो॑


संख्यासन्दर्भपृष्ठ
२३एतन्मन्त्रस्य भाष्यं५०६ पृष्ठे द्रष्टव्यं ।
२४,,५१० ,,
२५,,५१० ,,
२६,,५११ ,,
२७,,५११ ,,
२८,,५१२ ,,
२९,,५१३ ,,
३०,,५१४ ,,
३१,,५१४ ,,

५ प्रपाठके ६ अनुवाकः। ६३५

हिन्व॒ानो धिय॒ इन्व॑द॒व्यादित्या॑ह । ऋ॒तूने॒वास्मै॑ क- ल्पयति^(३१) । ^(३२)प्रासां॑ गन्ध॒र्व्वो अ॒मृता॑नि वोच॒दि- त्या॑ह । प्रा॒णा वा अ॒मृता॑: । प्रा॒णाने॒वास्मै॑ कल्पयति^(३२) । ^(३३)ए॒तन्त्वं दे॑व घर्म्म दे॒वो दे॒वानुपा॑गा इत्या॑ह । दे॒वो ह्येष सन् दे॒वानुपैति॑^(३३) । ^(३४)इ॒दम॒हं म॑नु॒ष्यो॑ मनु॒- ष्या॑नित्या॑ह ॥ १० ॥ म॒नु॒ष्यो॑ हि । ए॒ष सन् म॑नु॒ष्यानुपैति॑^(३४) । ^(३५)ईश्वरो॑ वै प्र॑व॒र्ग्यमु॑द्वासय॑न् । प्र॒जां प॒शून्त्सो॑मपी॒थम॑नूद्वास॑: सोम॑पीथानु॒मेहि॑ । स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॒णेत्या॑ह । प्र॒जामे॒व प॒शून्त्सो॑मपी॒थमा॒त्मन्ध॑त्ते^(३५) । ^(३६)सु॒मि॒त्रा न॒ आप॒ ओष॑धयः स॒न्वित्या॑ह । आ॒शिष॑मे॒वैतामाशा॑- स्ते^(३६) । ^(३७)दु॒र्म्मि॒त्रास्तस्मै॑ भूयासु॒र्य्योऽस्मान् द्वेष्टि॒ यञ्च॑ व॒यं द्वि॒ष्म इत्या॑ह । अ॒भि॒चार॑ ए॒वास्यै॒षः^(३७) ॥ ^(३८)प्र वा ए॒षोऽस्माँल्लो॒काच्च्य॑वते । यः प्र॑व॒र्ग्यमु॑द्वास-


३२ एतन्मन्त्रस्य भाष्यं ५१५ पृष्ठे द्रष्टव्यं ।
३३ ,, ५१६ ,,
३४ ,, ५१६ ,,
३५ ,, ६१६ ,,
३६ ,, ५१७ ,,
३७ ,, ५१७ ,,
३८ ,, ५१८ ,,

६३६ तैत्तिरीये आरण्यके

य॑ति । उदु॒ त्यं चि॒त्रमिति॑ सौरीभ्या॑मृ॒ग्भ्यां पुन॒रेत्य॑ गार्ह॑पत्ये जुहोति । अ॒यं वै लो॒को गार्ह॑पत्यः । अ॒स्मि- न्ने॒व लो॒के प्रति॑तिष्ठति । अ॒सौ खलु॒ वा आ॑दि॒त्यः सु॑- व॒र्गो लो॒कः । यत् सौरी भवत॑ः । तेनैव सु॑व॒र्गाँ - ल्लो॒कान्नैति॑^(२८) ॥ ११ ॥

ब्रह्म॑णस्त्वा पर॒स्ताया इत्या॑ह(१), दधा॑ति(२), अ॒न्वि॒त्य॑(३), रक्ष॒स्वी रक्ष॑सा॒मप॑हत्यै(४), व॒ हिर॑- ण्यं(५), आ॒ह(६), अ॒र्द्धय॑ति॒(७), ह्येषः(८), गृ॒णात्वि- त्या॑ह(९), मनु॒ष्या॑नि॒त्या॑ह(१०), अ॒स्यैषः(११), अ॑ष्टौ च॑ ॥ अनु० ९ ॥


अथ दशमोऽनुवाकः ।

$^{(१)}$प्र॒जाप॑तिं॒ वै दे॒वाः शु॒क्रं पयो॑ऽदुहन् । तदैभ्यो॒ न व्य॑भवत् । तद्भू॒र्त्य॑करोत् । तानि॒ शु॒क्रियाणि॒ सामा॑- न्यभवन् । तेषां॒ यो रसोऽत्य॑क्षरत् । तानि॑ शुक्रयजूँ- ष्य॑भवन् । शु॒क्रियाणां॒ वा ए॒तानि॒ शु॒क्रियाणि । सा॒म- पय॑सं वा ए॒तयो॑र॒न्यत् । दे॒वाना॑म॒न्यत् पय॑ः । यद् गोः पय॑ः ॥ १ ॥


१ एतन्मन्त्रस्य भाष्यं ५१६ पृष्ठे द्रष्टव्यं ।

५ प्रपाठके १० अनुवाकः । ६३७

तत्साम्नः॒ पय॑ः । यद॒जायै॒ पय॑ः । तद्दे॒वानां॒ पय॑ः । त- स्माद्यच्चैतैर्यजु॑र्भि॒श्चर॑न्ति । तत्पय॑सा चरन्ति । प्रजा॑- प॑तिमेव तद्दे॒वान् पय॑सान्नाद्ये॑न समर्द्धयन्ति॑^{(१)} । ^{(२)}एष ह॒ वै साक्षात् प्रव॒र्ग्यं भ॑क्षयति । यस्यै॒वं वि॒दुष॑ः प्रव- र्ग्य॑ः प्रवृ॒ज्यते॑^{(२)} । ^{(३)}उ॒त्त॒र॒वे॒द्यामुद्वा॑सयेत् तेज॑स्कामस्य । तेजो॒ वा उ॑त्तरवेदिः॑ ॥ २ ॥ तेज॑ः प्रव॒र्ग्यः॑ । तेज॑सै॒व तेज॑ः समर्द्धयति^{(३)} । ^{(४)}उ॒- त्त॒र॒वे॒द्यामुद्वा॑सयेदन्न॑कामस्य । शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ । यत् प्रव॒र्ग्यः॑ । मुख॑मुत्तरवेदिः॑ । शी॒र्ष्णैव मुख॒ꣳ सम्द॑- धात्यन्नाद्या॑य । अन्नाद एव भ॑वति^{(४)} । ^{(५)}यच्च॒ खलु॒ वा ए॒तमुद्वा॑सितं॒ वया॑ꣳसि पर्य्यासं॑ते । परि॒ वै ताꣳ समां॑ प्र॒जा वया॑ꣳस्यासते ॥ ३ ॥ तस्मा॑दुत्तरवे॒द्यामे॒वोद्वा॑सयेत् । प्र॒जानां॑ गोपीथा- य॑^{(५)} । ^{(६)}पुरो॒ वा प॒श्चाद्वादोद्वा॑सयेत् । पु॒रस्ता॑दा ए॒त- ज्ज्योति॒रुदे॑ति । तत्प॒श्चान्निम्रो॑चति । स्वामे॒वैनां॒ योनि॑-


एतन्मन्त्रस्य भाष्यं५२१पृष्ठे द्रष्टव्यं ।
,,५२१,,
,,५२१,,
,,५२१,,
,,५२२,,

६३८ तैत्तिरीये आरण्यके

मनूद्वासयति^(१)। ^(७)अ॒पां मध्य॒ उद्वा॑सयेत्। अ॒पां वा ए॒तन्मध्या॒ज्ज्योति॑रजायत। ज्योतिः॑ प्र॒वर्ग्यः॑। स्व ए॒वैनं॒ योनौ॑ प्रति॒ष्ठाप॑यति^(७)॥ ४ ॥

^(८)यं द्वि॒ष्यात्। यत्र॑ स स्यात्। तस्यां॑ दि॒श्युद्वा॑सयेत्। ए॒ष वा अ॒ग्निर्वै॑श्वान॒रः। यत्प्र॑व॒र्ग्यः॑। अ॒ग्निनै॒वैनं॑ वैश्वान॒रेणा॒भिप्रव॑र्त्तयति^(८)। ^(९)औदु॑म्ब॒र्य्याः शाखा॑या-मु॒द्वास॑येत्। ऊर्ग्वा उ॑दु॒म्बरः॑। अन्नं॑ प्रा॒णः। शुग्घ॒र्म्मः॥ ५ ॥

इ॒द॒म॒हम॒मुष्या॑मुष्याय॒णस्य॑ शु॒चा प्रा॒णमपि॑ दहा-मीत्या॑ह। शु॒चैवा॑स्य प्रा॒णमपि॑ दहति। ताज॒गार्त्ति॒मार्च्छ॑ति^(९)। ^(१०)यत्र॑ द॒र्भा उ॑प॒दीक॑सन्तताः स्युः। त-दु॒द्वास॑येद् वृष्टि॑कामस्य। ए॒ता वा अ॒पाम॑नू॒ज्जाव॑र्य्यो॒ नाम॑। यद्द॒र्भाः॑। अ॒सौ खलु॒ वा आ॑दि॒त्य इ॒तो वृष्टि॒मुदी॑रयति। असावे॒वास्मा॑ आ दि॒त्यो वृष्टिं॒ नि-य॑च्छति। ता आपो॑ निय॑ता॒ धन्व॑ना यन्ति^(१०)॥ ६ ॥

गोः पय॑ः(१), उत्तरवेदिः॑(२), आ॑सते(३), स्थापय-ति(४), घ॒र्म्मः(५), य॑न्ति(६)॥ अनु०१०॥


एतन्मन्त्रस्य भाष्यं५२२पृष्ठे द्रष्टव्यं।
,,५२२,,
,,५२३,,
१०,,५२३,,

५ प्रपाठके ११ अनुवाकः। १३६

अथैकादशोऽनुवाकः।

^(१)प्र॒जाप॑तिः सम्भ्रिय॒माण॑:। स॒म्राट् सम्भृ॑तः घर्म॑: प्र॒वृक्त॑:। म॒हा॒वी॒र उद्धा॑सितः। अ॒सौ खलु॒ वावैष आ॑दि॒त्यः। यत्प्र॑व॒र्ग्य॑:। स ए॒तानि॒ नामा॑न्यकुरुत^(१)। ^(२)य ए॒वं वेद॑। वि॒दुरे॑नं॒ नाम्ना॑^(२)। ^(३)ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ॥ १ ॥

यो वै वसी॑याꣳसं यथाना॒ममु॑प॒चर॑ति। पुण्या॑र्त्तिं॒ वै स तस्मै॑ कामयते। पुण्या॑र्तिमस्मै कामयन्ते। य ए॒वं वेद॑। तस्मा॑दे॒वं वि॒द्वान्। घर्म॒ इति॑ दिवाऽऽच॑क्षीत। स॒म्राडि॑ति॒ नक्त॑म्। ए॒ते वा ए॒तस्य॑ प्रि॒ये त॒नुवौ॑। ए॒ते अ॑स्य प्रि॒ये नाम॑नी। प्रि॒ययै॒वैनं॑ त॒नुवा॑ ॥ २ ॥

प्रि॒येण॒ नाम्ना॒ समर्ध॑यति। की॒र्त्तिर॑स्य पू॒र्वा ग॑च्छति ज॒नता॑माय॒तः^(३)। ^(४)गाय॒त्री दे॒वेभ्योऽपा॑क्रामत्। तां दे॒वाः प्र॑व॒र्ग्येणै॒वान्व॑व्यभवन्। प्र॒व॒र्ग्येणा॑प्नुवन्। यत्स॑-


१ एतन्मन्त्रस्य भाष्यं ५८० पृष्ठे द्रष्टव्यं ।
२ ” ५८२ ”
३ ” ५८२ ”
४ ” ५८३ ”

4 1

३४० तैत्तिरीये आरण्यके

तुर्वि॑ꣳश॒तिः ऋ॒त्वः प्र॒व॒र्ग्यं॑ प्र॒वृण॑क्ति । गा॒य॒त्रीमे॒व तदनु॒ वि भ॑वति । गा॒य॒त्रीमा॒प्नोति॑ । पूर्वो॑ऽस्य॒ जनं॑ य॒तः की॒र्त्तिर्ग॑च्छति⁽४⁾ । ⁽५⁾वै॒श्व॒दे॒वः सꣳसन्नः॑ ॥ ३॥

वस॑वः प्र॒वृक्तः॑ । सोमो॑ऽभिकी॒र्यमा॑णः । आ॒श्विनः॑ पय॒स्यानी॑यमा॑ने । मारु॒तः क्वथ॑न् । पौ॒ष्ण उद्व॑न्तः । सार॒स्व॒तो वि॒ष्यन्द॑मानः । मै॒त्रः श॒रं गृ॑हीतः । तेज॑ उद्य॑तो वा॒युः । ह्रियमा॑णः प्र॒जाप॑तिः । हूयमा॑नो वाग्घ्रु॒तः ॥ ४॥

अ॒सौ खलु वावैष आ॑दि॒त्यः । यत्प्र॑व॒र्ग्यः॑ । स ए॒तानि॒ नामा॑न्यकुरुत⁽५⁾ । ⁽६⁾य ए॒वं वेद॑ । वि॒दुरे॑नं॒ नाम्ना॑⁽१⁾ । ⁽७⁾ब्रह्मवा॒दिनो॑ वदन्ति । यन्मृ॒ण्मय॒माहुतिं॒ नाश्नु॒तेऽथ॑ । कस्मा॒देषो॑ऽश्रुत॒ इति॑ । वागे॒ष इति॑ ब्रूयात् । वा॒च्यै॑व वाचं॑ दधाति ॥ ५ ॥

तस्मा॑दश्रु॒तः⁽७⁾ । ⁽८⁾प्र॒जाप॑तिर्वा ए॒ष द्वाद॑शधा विहि॑तः । यत्प्र॑व॒र्ग्यः॑ । यत्प्राग्व॑का॒शेभ्यः॑ । तेन॑ प्र॒जा


५ एतन्मन्त्रस्य भाष्यं ५८४ पृष्ठे द्रष्टव्यं ।
६ ,, ५८५ ,,
७ ,, ५८५ ,,
८ ,, ५८६ ,,

५ प्रपाठके १२ अनुवाकः। ६४१

अ॑सृजत । अव॑का॒शैर्दे॒वासु॑रा॒न॑सृजत । यदूर्ध्वम॑व- का॒शेभ्य॑: । तेनान्न॑मसृजत । अन्नं॑ प्र॒जाप॑तिः । प्र॒- जाप॑ति॒र्वावैषः॑(८) ॥ ६ ॥

वद॑न्ति(१), त॒नुवा॑(२), स॒ᳵसन्न॑:(३), हू॒यमा॑नो॒ वाग्घृतः॑(४), दधा॑ति(५), ए॒षः(६), ॥ अनु०११ ॥


अथ द्वादशोऽनुवाकः ।

(१)सवि॒ता भू॒त्वा प्र॑थ॒मेऽह॑न् प्रवृ॑ज्यते । तेन॑ का- माᳵ एति । यद् द्वि॒तीयेऽह॑न् प्रवृ॒ज्यत॑ । अ॒ग्निर्भू॒त्वा दे॒वान॑ति । यत्तृ॒तीयेऽह॑न् प्रवृ॒ज्यते॑ । वा॒युर्भू॒त्वा प्रा- णाने॑ति । यच्च॑तु॒र्थेऽह॑न् प्रवृ॒ज्यत॑ । आ॒दि॒त्यो भू॒त्वा र॒श्मीने॑ति । यत्प॑ञ्च॒मेऽह॑न् प्रवृ॒ज्यते॑ । च॒न्द्रमा॑ भू॒त्वा नक्ष॑त्राण्येति ॥ १ ॥

यत् ष॒ष्ठेऽह॑न् प्रवृ॒ज्यते॑ । ऋ॒तुर्भू॒त्वा सं॑वत्स॒रमे॑ति । यत् स॑प्त॒मेऽह॑न् प्रवृ॒ज्यत॑ । धा॒ता भू॒त्वा शक्व॑रीमेति । यद॑ष्ट॒मेऽह॑न् प्रवृ॒ज्यते॑ । बृ॒हस्प॑तिर्भू॒त्वा गाय॒- त्रीमे॑ति । यन्न॑व॒मेऽह॑न् प्रवृ॒ज्यत॑ । मि॒त्रो भू॒त्वा


१ एतन्मन्त्रस्य भाष्यं ५८७ पृष्ठे द्रष्टव्यं ।
4 1 2

५६२ तैत्तिरीये आरण्यके

चि॒रतं॑ इ॒माँल्लो॒कानैति॑ । यद्द॑श॒मेऽह॑न् प्रवॄ॒ज्यतै॑ । वरु॑णो भू॒त्वा वि॒राज॑मेति ॥ २ ॥ यदै॑काद॒शेऽह॑न् प्रवॄ॒ज्यतै॑ । इन्द्रो॑ भू॒त्वा त्रि॒ष्टुभ॑- मेति॑ । यद्द्वा॑द॒शेऽह॑न् प्रवॄ॒ज्यतै॑ । सोमो॑ भू॒त्वा सू॒त्यामैति॑^(१) । ^(२)यत्पु॒रस्ता॑दुपसदां॑ प्रवॄ॒ज्यतै॑ । तस्मा॑दितः परा॑ङ्ङ॒मूँल्लो॒काग्ँ स्तप॑न्नेति । यदु॑प॒रिष्टा॑- दुपसदां॑ प्रवॄ॒ज्यतै॑ । तस्मा॑दमुतोऽर्वा॒ङि॒मांल्लो॒काग्ँ स्त- प॑न्नेति^(१) । ^(२)य ए॒वं वेद॑ । एव तप॑ति^(३) ॥ ३ ॥

नक्ष॑त्राण्येति(१), वि॒राज॑मेति(२), तप॑ति(३), ॥

अनु० ॥ १२ ॥

^(१)दे॒वा वै स॒त्रम्(१), सा॒वि॒त्रं(२), परि॑श्रिते॒(३), ब्रह्म॑न्प्रच॑रिष्यामः(४), अ॒ग्निष्ट्वा(५), शिरो॑०ग्री॒वा(६), दे॒वस्य॑०र॒शनां॑(७), विश्वा॒ आशा॑(८), घ॒र्म या ते॑(९), प्र॒जाप॑तिः०शु॒क्रं(१०), प्र॒जाप॑तिः सम्भ्रि॒यमा॑णः(११), स॒वि॒ता(१२), द्वाद॑श ॥ १२ ॥

दे॒वा वै स॒त्रम्, स ख॑दि॒रः, परि॑श्रिते, अ॒भिपूर्वं॑, अ॒द्यो रक्ष॑साम्, ग्रै॒ष्मोवे॑व, ब्रह्म॒ वै दे॒वानां॑, अ॒श्विना॑


२ एतन्मन्त्रस्य भाष्यं ५८८ पृष्ठे द्रष्टव्यं।
३ ,, ,, ५८८ ,,

५ प्रपाठके १२ अनुवाकः । ६४३

घ॒र्मं पा॒तं, प्रा॒णो वा इन्द्र॑तमो॒ऽग्निः, वृषा॒ हरिः॑, यो वै वसी॑याꣳसं यथाना॒मम्, अ॒ष्टोत्त॑रश॒तम् ॥ १०८ ॥ श्न॒स्तन्नो॒ मा हा॑सीत् ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑*। हरि॑: ओम् ॥


* ऊर्गङ्गिरसौ ग्रीवा आत्मा पुनरसौ तं यन्मुखं तेनाप्रतिशीर्ष्णायं चिन्वीतथ्यो सचितमनवानम्। इति A चिह्नितपुस्तकपाठः। ऊर्गङ्गिरसौ ग्रीवा आत्मापुनरसौ तं यन्मुखमिति i चिह्नितपुस्तकपाठः।

समाप्तोऽयं पञ्चमः प्रपाठकः॥

षष्ठप्रपाठके प्रथमोऽनुवाकः ।

तैत्तिरीये आरण्यके षष्ठप्रपाठके प्रथमोऽनुवाकः ।


हरिः ॐ । सं त्वा॑ सिञ्चामि॒ यजु॑षा प्र॒जामायु॒र्धन॑ञ्च ॥ ॐ शान्तिः॒ शान्तिः॒ शा॒न्तिः॑ ॥ ओम् ॥


तैत्तिरीये आरण्यकभाष्ये षष्ठप्रपाठके प्रथमोऽनुवाकः ।


श्रीगणेशाय नमः ।

यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरं ॥
प्रवर्ग्यब्राह्मणं प्रोक्तं पञ्चमे हि प्रपाठके ।
पितृमेधस्य मन्त्रास्तु दृश्यन्तेऽस्मिन् प्रपाठके ॥

तेषाञ्च पितृमेधमन्त्राणां विनियोगो भरद्वाजकल्पे बौधायन-
कल्पे चाभिहितः । तत्राचिताग्नेर्मरणसंशये दहनदेशञ्छोषयते
दक्षिणा प्रत्यक्प्रवणमित्यारभ्य भरद्वाज आह, अन्वारब्धे मृत
आहवनीये स्रुगाहुतिं* जुहोति, परे युवांसमिति ॥ बौधाय-
नोप्येवमेवाह, अथ गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं
गृहीत्वा प्रेतस्य दक्षिणं बाहुमन्वारभ्य जुहोति, परे युवांसमिति ।


* स्रुवाहुतिमिति E चिह्नितपुस्तकपाठः ।

६ प्रपाठके १ अनुवाकः । ६४५

(१)परे॑यु॒वाꣳसं॑ प्र॒वतो॑ म॒हीरनु॑ ब॒हुभ्यः॑ प॒न्थाम॑नप-
स्पशा॒नम् । वै॒व॒स्वत॑ꣳ स॒ङ्गम॑नं॒ जना॑नां य॒मꣳ राजा॑-
नꣳ ह॒विषा॑ दुवस्यत(१) । (२)इदन्त्वा॒ वस्त्रं॑ प्रथ॒मं न्वा॒ग॑-

पाठस्तु । (१)“परेयुवाꣳस०हविषा दुवस्यत”(१) इति । हे पितृमेध-
कर्त्तारः पितॄणां ‘राजानं’, ‘यमं’, ‘हविषा’, ‘दुवस्यत’ प्रीणयत ।
कीदृशं, ‘प्रवतः’ प्रकृष्टकर्मवतः, भूलोकवर्त्तिभोगसाधनं पुण्यमनु-
ष्ठितवतः पुरुषान्, ‘महीः’ तत्तद्भागोचित*भूप्रदेशविशेषान्, ‘अनु’,
‘परे युवाꣳसं’ क्रमेण मरणादूर्ध्वं प्रापितवन्तं, तथा ‘बहुभ्यः’
स्वर्गार्थिभ्यः पुण्यकृद्भ्यः, पुण्यकृतामर्थे, ‘पन्थां’ स्वर्गस्योचितं मार्गं,
‘अनपस्पशानं’ अबाधमानं, पापिन एव पुरुषान् स्वर्गमार्गबाधेन
नरकं प्रापयति नतु पुण्यकृत इत्यर्थः । ‘वैवस्वतं’ विवस्वतः सूर्य्यस्य
पुत्रं, ‘जनानां सङ्गमनं’ पापिनां गन्तव्यस्थानरूपं ॥

कल्पः । औदुम्बर्यामामन्द्यां कृष्णाजिनं दक्षिणाग्रीवमधर-
लोम आस्तीर्य तस्मिन् एनमुत्तानं निपात्योपान्तदशेनाहतेन
वाससा प्रोर्णोति, इदन्त्वा वस्त्रमिति । पाठस्तु । (२)“इदन्त्वा वस्त्रं
प्रथमं न्वागन्”(२) इति । हे प्रेत त्वां ‘इदं’, ‘वस्त्रं’, ‘प्रथमं नु’
प्रथममेव, ‘आगन्’ आगच्छतु ॥

कल्पः । अथास्येतरदपादत्ते, अपैतद्दुहेति, तत्पुत्रो भ्राता वा


* तत्तद्भोगोचितेति E, F, चिह्नितपुस्तकद्वयपाठः ।

६७६ तैत्तिरीये आरण्यके

न्^(१) । ^(२)अपैतदू॑ह॒ यदि॒हाबि॑भः पु॒रा । इ॒ष्टापू॒र्तमनु॒सम्पश्य॒ दक्षि॑णां॒ यथा॑ ते द॒त्तं ब॑हु॒धा वि ब॑न्धु॒षु^(३) । ^(४)इ॒मौ यु॑नज्मि ते॒ वह्नी॑ असुनी॒थाय॑ वो॒ढवे॑ । याभ्यां॑ य॒मस्य॒ साद॑नग्ँ सु॒कृता॑ञ्चापि॑ ग॒च्छता॑त्^(४) । ^(५)पू॒षा


अन्यो वा प्रत्यासन्नबन्धुः प्रतीतः परिधायेति । पाठस्तु । (१)“अपैतदूह • बहुधा वि बन्धुषु”(२) इति। हे प्रेत ‘यत्’ वस्त्रं, ‘पुरा’, त्वं ‘अबिभः’ धारितवानसि, ‘एतत्’, ‘अपोह’ अपसारय, ‘इष्टापूर्त्तं’ त्वया अनुष्ठितं श्रौतं स्मार्त्तञ्च यत् कर्म तत्, ‘अनुसम्पश्य’ अनुक्रमेण स्मर, ‘दक्षिणां’, च ब्राह्मणेभ्यो दत्तां ‘अनुसम्पश्य’, ‘ते’ त्वदीयन्धनं, ‘बन्धुषु’, प्रीतिदानरूपेण ‘बहुधा’, ‘यथा’ विशेषेण, ‘दत्तं’, तमपि प्रकारं ‘अनुसम्पश्य’, ततस्तदनुरूपं पुण्यलोकं गच्छेदित्यभिप्रायः ।

कल्पः । अथैनमेतया आसन्द्या सह तन्तल्पेन कटेना वा संवेष्ट्य दासाः प्रवयसो वहेयुः ; अथैनं अनसा वहन्तीत्येकेषां अनस्येद्युञ्ज्यात्, इमौ युनज्मि ते वह्नी असुनीथाय वोढवे । याभ्यां यमस्य सादनग्ँ सुकृताञ्चापि गच्छतात् इति । (४ मन्त्रः ।) हे प्रेत ‘ते’ तव, ‘असुनीथाय’ प्राणसदृशस्य शरीरस्य नयनाय, ‘वोढवे’ शकटं वोढुं, ‘वह्नी’ वोढारौ, ‘इमौ’ बलीवर्दौ, ‘युनज्मि’ शकटे योजयामि । ‘याभ्यां’ बलीवर्दाभ्यां, ‘यमस्य’, ‘सादनं’ स्थानं, ‘सुकृताञ्चापि’ पुण्यकृतां पुरुषाणामपि, स्थानं ‘गच्छतात्’ गमिष्यसि, तादृशौ ‘युनज्मि, इत्यन्वयः ।

६ प्रपाठके १ अनुवाकः । ६४७

त्वे॒तश्च्या॑वयतु॒ प्र वि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः । स त्वै॒तेभ्यः॒ परि॑ददात्पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्यः॑ सुवि॒दत्रे॑भ्यः⁽५⁾। ⁽६⁾पू॒षेमा आशा॒ अनु॑वेद॒ सर्वाः॒ सो अ॒स्माꣳ अभ॑यत-

कल्पः । अथैनमाददत आदीयमानमनुमन्त्रयते, पूषा त्वेतश्च्यावयतु प्र विद्वाननष्टपशुर्भुवनस्य गोपाः । स त्वैतेभ्यः परिददात्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रेभ्य इति, तृतीयमेतस्याध्वनो गत्वा निदधाति इति । (५ मन्त्रः।) हे प्रेत 'पूषा' योऽयं पोषको देवः, सोऽयं त्वां 'इतः' देशात्, 'प्रच्यावयतु' प्रचालयतु । कीदृशः, 'विद्वान्' गन्तव्यमार्गाभिज्ञः, 'अनष्टपशुः' वाहकाः मनुष्याः द्विपात्पशवः, अनड्वाहौ चतुष्पात्पशू, अनष्टा अनुपद्रुताः पशवो यस्यासौ 'अनष्टपशुः', वाहकोपद्रवराहित्येन नेतुं समर्थः । 'भुवनस्य गोपाः' सर्वस्य लोकस्य रक्षकः, 'सः' तादृशः पूषा, त्वां 'एतेभ्यः' पूर्वसिद्धेभ्यः, 'पितृभ्यः', 'परिददात्' प्रयच्छतु । यः अग्निः तव दाहं करिष्यति सः 'अग्निः,' 'सुविदत्रेभ्यः' सुष्ठु त्वदनुष्ठितं कर्म जानद्द्भ्यः, 'देवेभ्यः', त्वां प्रयच्छतु ।

कल्पः । अथैनमाददत आदीयमानमनुमन्त्रयते, पूषेमा आशा अनुवेद सर्वाः सो अस्माꣳ अभयतमेन नेषत् । स्वस्तिदा अघृणिः सर्ववीरोऽप्रयुच्छन् पुर एतु प्रविद्वान् इति, अर्द्धमेतस्याध्वनो गत्वा निदधाति इति । (६ मन्त्रः।) योऽयं 'पूषा', देवः,

4 J