तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
४ प्रपाठके ८ अनुवाकः । ४६५
घ॒र्माय॑ शिश्लृष्व^{(९)} । ^{(१०)}बृह॒स्पति॑स्त्वोप॑सीदतु^{(१०)} । ^{(११)}दान॑वः स्थ पेर॑वः । विष्व॑ग्वृ॒तो लोहि॑तेन^{(११)} ।
हे धेनो 'त्वा' त्वां, दोग्धृरूपः 'बृहस्पतिः' 'उपसीदतु' समीपे प्राप्नोतु ॥
बृहस्पतिशब्दतात्पर्यं दर्शयति । “बृहस्पतिस्त्वोपसीदत्वित्याह ॥ ३ ॥ ब्रह्म वै देवानां बृहस्पतिः । ब्रह्मणैवैनामुपसीदति” इति । (५ प्र० । ७ अ० । १२ म०) । 'देवानां' मध्ये, बृहस्पतेः परब्रह्मरूपत्वात् तेनैवोपसदनं कृतं भवति ॥
कल्पः । दानवः स्थ पेरव इति स्तनान् संमृश्येति । विष्वग्वृतो लोहितेनेति मन्त्रशेषः । (११ मन्त्रः) । हे स्तनायूयं, 'दानवः' क्षीरदानकुशलाः, 'पेरवः' वत्सेन पातुं योग्याः, 'लोहितेन' वत्सेन, 'विष्वग्वृतः' पृथग्भूत्वा वर्त्तमानाः, 'स्थ' । न हि स्तनदोहने रक्तमायाति ॥
पानयोग्यत्वकथनेन शुद्धिः सूचितेत्येतद्दर्शयति । “दानवः स्थ पेरव इत्याह । मेध्यानेवैनान् करोति” इति । (५ प्र० । ७ अ० । १३ म०) ॥
विष्वग्वृत इत्यनेन क्षीरस्य रक्ताद्व्यावृत्तिर्विवक्षितेति दर्शयति । “विष्वग्वृतो लोहितेनेत्याह व्यावृत्यै” इति । (५ प्र० । ७ अ० । १४ म०) ॥
कल्पः । अ॒श्विभ्यां॑ पिन्वस्व सर॑स्वत्यै पिन्वस्व पू॒ष्णे पि॑न्वस्व
312
४६६ तैत्तिरीये आरण्यके
(१२) अ॒श्विभ्यां॑ पिन्वस्व । सर॑स्वत्यै पिन्वस्व । पू॒ष्णे पि॑न्वस्व । बृह॒स्पत॑ये पिन्वस्व । इन्द्रा॑य पिन्वस्व । इन्द्रा॑य पिन्वस्व⁽१२⁾ ॥ ३ ॥
बृहस्पतये पिन्वस्वेति तृष्णीयसि* दोग्ध्रे दोग्धीति । स्थूले दोहनपात्रे दुह्यादित्यर्थः† । इन्द्राय पिन्वस्व इन्द्राय पिन्वस्वेति मन्त्रशेषः । (१२ मन्त्रः) । हे धेनो अश्विसरस्वत्यादिदेवार्थं 'पिन्वस्व' हविःप्रभूतं देहि ॥
प्रभूतदाहत्वं धेनोः प्रसिद्धमित्येतद्दर्शयति । “अश्विभ्यां पिन्वस्व सरस्वत्यै पिन्वस्व पूष्णे पिन्वस्व बृहस्पतये पिन्वस्वेत्याह । एताभ्यो ह्येषा देवताभ्यः पिन्वते” इति । (५ प्र० । ७ अ० । १ । ५ म०) ॥
बृहस्पत्यादिवदिन्द्रस्य सम्बन्धमात्रेण परितोषो न भवति किन्तु हविर्भागोऽप्यस्तोत्येतद्दर्शयति । “इन्द्राय पिन्वस्वेन्द्राय पिन्वस्वेत्याह । इन्द्रमेव भागधेयेन समर्द्धयति” इति । (५ प्र० । ७ अ० । १ । ६ म०) ॥
भागाधिक्येनेन्द्रमन्त्रावृत्तिं दर्शयति । “द्विरिन्द्रायेत्याह ॥ ॥ ४ ॥ तस्मादिन्द्रो देवतानां भूयिष्ठ भाक्तमः” इति । (५ प्र० । ७ अ० । १ । ७ म०) ॥
* वर्षीयसि इति तै० पु० पाठः ।
† दुह्यतोत्यर्थः इति तै० पु० पाठः ।
४ प्रपाठके ८ अनुवाकः । ४६७
(१३)गा॒यत्रो॑ऽसि । त्रै॒ष्टुभो॑ऽसि । जा॒गतम॑सि(१३) ।
(१४)स॒होर्ज्जो भा॒गेनोप॑मेहि(१४) । (१५)इन्द्रा॑श्विना॒ मधु॑नः
कल्पः । उपोत्तिष्ठन्तावग्नीध्रे पयसो प्रदाय पूर्व्वावभिहृत्य* शफोपयमानादत्ते गायत्रोऽसीति प्रथमं त्रैष्टुभोऽसीति द्वितीयं जागतमसीति तृतीयमित्युपयमनं प्रतिप्रस्थातेति । (१३ मन्त्रः) । तप्तस्य महावीरस्य हस्ताभ्यां ग्रहीतुमशक्यत्वात् सन्दंशवदुभयतः काष्ठद्वयमध्ये महावीरं सन्दष्टं कृत्वा काष्ठद्वयस्य मूलद्वयमग्रद्वयं च धृत्वा अध्वर्य्युप्रतिप्रस्थातारावानयतः तौ काष्ठविशेषौ शफावित्युच्येते । महावीरस्याधस्ताद्धार्य्यमाणः काष्ठविशेष उपयम† इत्युच्यते । हे प्रथमशफ त्वं गायत्रीच्छन्दःसम्बन्धी ‘असि’ । हे द्वितीयशफ त्वं त्रिष्टुवच्छन्दःसम्बन्धी ‘असि’ । हे उपयम‡ त्वं जगतोच्छन्दःसम्बन्धी ‘असि’ ॥
एतन्मन्त्रसाध्यमादानं विधत्ते । “गायत्रोऽसि त्रैष्टुभोऽसि जागतमसीति शफोपयमानादत्ते । छन्दोभिरेवैनानादत्ते” इति । (५ प्र० । ७ अ० । १८ म०) । गायत्र्यादिशब्दप्रयोगेण च्छन्दोभिरादानं सिध्यति ॥
कल्पः । सहोर्ज्जो भागेनोपमेहीति पय आग्नीध्रीयमाणं प्रतीक्षत इति । (१४ मन्त्रः) । आग्नीध्रेणानीयमान हे पयः ‘ऊर्ज्जः’ रसस्य, ‘भागेन’ ‘सह’ मां, ‘उपेहि’, मत्समीपे समागच्छ ॥
* पूर्व्ववदुद्रुत्य इति तै० पु० पाठः ।
† उपयमन इति तै० पु० पाठः ।
‡ उपयमन इति II चिह्नितपु०पाठः ।
| ४६८ | तैत्तिरीये आरण्यके |
|---|
सार॒घस्य॑ । घ॒र्मं पा॑त वसवो यज॑ताव॒ट्^(१५) । ^(१६)स्वाहा॑
एतन्मन्त्रबलेनोर्जो रसस्य भागः सम्पादितो भवतीति दर्शयति। “सहोर्जो भागेनोपमेहीत्याह। ऊर्ज्जं एवैनं भागमकः” इति। (५ प्र० । ७ अ० । १६ म०) ॥
कल्पः। इन्द्राश्विना मधुनः सारघस्येति महावीरे गोपयः आनयतीति। घर्मं पात वसवो यजता वड़िति मन्त्रशेषः। (१५ मन्त्रः) । हे 'इन्द्र' हे अश्विनौ, यूयं त्रयोऽपि 'मधुनः' सम्बन्धिनं 'घर्मं' घृतसहितं क्षीरं, 'पात' पिवत। कीदृशस्य 'मधुनः' 'सारघस्य' सरघा मधुमक्षिकाः ताभिर्निष्पादितं सारघं तादृशस्य मधुनः सम्बन्धेन हविषस्तद्वन्मधुररसवं हे 'वसवः' देवाः, 'यजत' यागं कुरुत, 'वट्' इदं हविर्दत्तमस्तु ॥
अस्मिन् मन्त्रे इन्द्रशब्देन सहाश्विशब्दस्य प्रयोगाभिप्रायं दर्शयति। “अश्विनौ वा एतद्यज्ञस्य शिरः प्रतिदधतावब्रूतां। आवाभ्यामेव पूर्वाभ्यां वषट् क्रियाता इति। इन्द्राश्विना मधुनः सारघस्येत्याह। अश्विभ्यामेव पूर्वाभ्यां वषट्करोति। अथो अश्विनावेव भागधेयेन समर्द्धयति” ॥५॥ इति। (५ प्र० । ७ अ० । २० म०) । धनुष ऊर्द्ध्वकोट्या छिन्नं 'एतद्यज्ञस्य शिरः' एनस्तद्देहे* प्रतिदधतौ, 'अश्विनौ' तस्मिन् काले, इदं वचनं 'अब्रूतां' । पूर्व्वभाविभ्यां 'आवाभ्यामेव' 'वषट्'-कारेण हविः-
* तद्देहे इति तै० पु० पाठः।
४ प्रपाठके ८ अनुवाकः । ४६६
प्रदातव्यमिति अतस्ताभ्यां प्रार्थितत्वात् ‘अश्विनौ’ इति मन्त्र उच्यते । तेनैताभ्यां प्रथमतॊ हविर्दत्तं भवति । अपि च पूर्व्वं भागरहितौ ‘अश्विनौ’ इदानीं भागेन समृद्धं करोति, ‘शिरः’ प्रतिधानवेलायामितरदेवान् प्रति ‘पूर्व्वाभ्यां’ इति वरस्य* दत्तत्वात् देवान्तरापेक्षयाश्विनोः पूर्व्वत्वं अतो नान्येभ्यो देवेभ्यः घर्म्मो दीयते । किन्तु इन्द्रसहिताश्विभ्यामेव ॥
मन्त्रस्योत्तरभागे वसुशब्देन वसूनामपि भागसिद्धिं दर्शयति । “घर्म्मं पात वसवो यजता वडियाह । वसूनेव भागधेयेन समर्द्धयति” इति । (५ प्र० । ७ अ० । २१ म०) ॥
अत्र मीमांसयां† वषट्शब्दं प्रशंसति । “यदषट्कुर्य्यात् । यातयामास्य वषट्कारः स्यात् । यन्न वषट्कुर्य्यात् । रक्षाꣳसि यज्ञꣳ हन्युः । वडियाह । परोक्षमेव वषट्करोति । नास्य यातयामा वषट्कारो भवति । न यज्ञꣳ रक्षाꣳसि घ्नन्ति” ॥६॥ इति । (५ प्र० । ७ अ० । २२ म०) । अत्रेदं विचार्य्यते । ‘वषट्’-शब्दः प्रयोक्तव्यो न वेति तत्प्रयोगे सति इदानीमेव गतसारत्वात्‡ सोमयागे भविष्यति वषट्कारो निःसारो भवेत् । तदप्रयोगे वज्रो वै वषट्कार इति श्रुतस्य वज्रस्याभावात् ‘रक्षांसि’ ‘यज्ञं’ विनाशयेयुः, अत उभयदोषपरिहाराय द्वितीयाक्षरं परित्यज्य ‘वट्’ इत्येव प्रयोक्तव्यं । तथा
* पदस्य इति तै० पु० पाठः ।
† मीमांसायां इति D चिह्नितपु० पाठः ।
‡ रसनामेव गतसारत्वात् इति D चिह्नितपु० पाठः
| ४७० | तैत्तिरीये आरण्यके |
|---|
त्वा॒ सूर्य्य॑स्य र॒श्मये॑ वृष्टिवन॑ये जुहोमि^(१६)। ^(१७)मधु॑
सति सम्पूर्णत्वाभावात् प्रत्यचः 'वषट्कारः' । 'न' भवति अंश एव ततः सद्भावात् परोक्षस्तिरोहितः, 'वषट्कारः' 'भवति' ततः सम्पूर्ण'वषट्कारः' 'न' गतसारः, एकदेशस्यापि विद्य- मानत्वात् । वज्रसद्भावेन 'रक्षांसि' अपि 'यज्ञं' 'न' विना- शयन्ति ॥
कल्पः । स्वाहा त्वा सूर्य्यस्य रश्मये वृष्टिवनये जुहोमीत्यु- द्यन्तमुष्माणमनुमन्त्रयत इति । (१६ मन्त्रः) । 'वृष्टिवनये' वृष्टि- प्रदानाय, 'सूर्य्यस्य रश्मये' हे ऊष्मन् त्वां, 'स्वाहा' 'जुहोमि' स्वाहाकारयोग्यामाहुतिं द्रव्यं कृत्वा 'जुहोमि' ॥
सूर्य्यायेत्यनुक्त्वा रश्मय इत्युक्तेस्तात्पर्य्यं दर्शयति । “स्वाहा त्वा सूर्य्यस्य रश्मये वृष्टिवनये जुहोमीत्याह । यो वा अस्य पुष्णो रश्मिः । स वृष्टिवनिः । तस्मा एवैनं जुहोति” इति । (५ प्र०। ७ अ०। १२ म०) । सूर्य्यो न साक्षाद्वृष्टिं प्रयच्छति किन्तु पुष्णरश्मिद्वारा अतः साक्षात् 'रश्मये' एव वृष्टिप्रदानाय, आहुतिर्युक्ता ॥
कल्पः । मधु हविरसीत्यजापय इति । (१७ मन्त्रः) । महावीर आनयतीत्यनुवर्त्तते । हे अजाक्षीर, त्वं मधुरं, 'हविः' 'असि' ॥
स्वादुकर्त्तुं मधुशब्दप्रयोग इति दर्शयति । “मधु हविर- सीत्याह । स्वदयत्येवैनं” इति । (५ प्र०। ७ अ०। २४ म०) ॥
४ प्रपाठके ८ अनुवाकः । ४०१
ह॒विर॑सि^{(१७)}। ^{(१८)}सूर्य्य॑स्य॒ तप॑स्तप^{(१८)}। ^{(१९)}द्यावा॑पृथि॒वीभ्यां॑ त्वा परि॑गृह्णामि^{(१९)}॥ ^{(२०)}अन्तरि॑क्षेण त्वोप॑- यच्छामि^{(२०)}। ^{(२१)}दे॒वानां॑ त्वा पितॄणामनु॑मतो॒ भर्त्तुं॑^k
कल्पः । सूर्य्यस्य तपस्तपे*तूष्णीमिति । उद्यन्तमभिमन्त्रयत इत्यनुवर्त्तते । (१८ मन्त्रः) । हे उखन् 'सूर्य्यस्य' 'तपः' सूर्य्य- सम्बन्धिनं तापमपि तापमतिशयेन तप्तं कुरु ॥
मन्त्रस्य स्पष्टार्थतां दर्शयति । "सूर्य्यस्य तपस्तपेत्याह । यथा यजुरेवैतत्" इति । (५ प्र०। ७ अ०। १५ म०) ॥
कल्पः । द्यावापृथिवीभ्यां त्वा परिगृह्णामीति शफाभ्यां महावीरं परिगृह्णाति । (१९ मन्त्रः) । हे महावीर त्वां, द्यावापृथिवीदेवतारूपाभ्यां 'शफाभ्यां' 'परिगृह्णामि' ॥
मन्त्रबलात् द्यावापृथिव्योपरिग्रहः सिध्यतीति दर्शयति । "द्यावापृथिवीभ्यां त्वा परिगृह्णामीत्याह । द्यावापृथिवीभ्या- मेवैनं परिगृह्णाति" ॥७॥ इति । (५ प्र०। ७ अ०। १६ म०) ॥
कल्पः । प्रच्छिन्नाग्रेण वेदेन भस्म प्रमृज्यान्तरिक्षेण त्वोप- यच्छामीत्युपयमनेन प्रतिप्रस्थातोपयच्छतीति । (२० मन्त्रः) । हे महावीर, त्वां, अन्तरिक्षदेवतारूपेण उपयमनाख्यकाष्ठ- पात्रेण, 'उपयच्छामि' शफनामकाभ्यां काष्ठाभ्यामुद्ध्रीयमाणे त्वयि तयोः सहाय्यरूपेणानेनाधस्तादुद्यच्छामि ॥
मन्त्रबलादन्तरिक्षदेवतासाहाय्यं सिध्यतीति दर्शयति ।
* तपेत्युष्माणमनुमन्त्रयते इति तै० पु० पाठः ।
3 N
| ४७२ | तैत्तिरीये आरण्यके |
|---|
श॒केय॑म्(२१) । (२२)तेजो॑ऽसि । तेजोऽनु॒प्रेहि॑ । दि॒वि स्पृ॒क्षा मा हि॑ᳵसीः । अ॒न्तरि॑क्षस्पृ॒क्षा मा हि॑ᳵसीः । पृ॒थि॒वि॒स्पृ॒क्षा मा हि॑ᳵसीः । सुव॑रसि॒ सुव॑र्मे यच्छ । दि॒वं य॑च्छ दि॒वो मा॑ पाहि(२२) ॥ ४ ॥
"अन्तरिक्षेण नोपयच्छामीत्याह । अन्तरिक्षेणैवेनमुपयच्छति । न वा एतं मनुष्यो भर्त्तुमर्हति" इति । (५ प्र० । ७ अ० । २७ म०) ॥
कल्पः । देवानां त्वा पितॄणामनुमतो भर्त्तुᳵ शकेयमित्यादायात्थाप्येति । (२१ मन्त्रः) । हे महावीर, 'देवानां', 'पितॄणां' वा अनुमतिं प्राप्तोऽहं त्वां 'भर्त्तुं' धारयितुं शक्तो भूयासं ॥
एतत्पाठेनो*भयानुमतिसिद्धिं दर्शयति । "देवानां त्वा पितॄणामनुमतो भर्त्तुᳵ शकेयमित्याह । देवैरेवैनं पितृभिरनुमत आदत्ते" इति । (५ प्र० । ७ अ० । २८ म०) ॥
कल्पः । तेजोऽसि तेजोऽनुप्रेहीति हरतीति । पाठस्तु । (२२) "तेजोऽसि ० दिवं यच्छ दिवो मा पाहि"(२२) इति । हे प्रवर्ग्य त्वं तेजोरूपः 'असि' । अतस्तेजोरूपमाहवनीयं 'अनु'लक्ष्य,† 'प्रेहि' प्रकर्षेण गच्छ, अत्युष्णस्त्वं द्युलोकादीन् स्पृशन्नपि 'मा हिᳵसीः'‡ तापं मा कुरु । 'सुवरसि' त्वमेव स्वर्ग-
* द्वारेण इति तै० पुस्तकपाठः ।
† अभिलक्ष्य इति तै० पु० पाठः ।
‡ माहिंसितं इति तै० पु० पाठः ।
४ प्रपाठके ८ अनुवाकः । ४७३
एहि॑, पाहि॑, पिन्व॒स्व, गृ॒ह्णामि॑, नव॑र्च ॥ अनु० ८ ॥
सुखरूपः 'असि' । अतः स्वर्गसुखं 'मे' प्र'यच्छ' । तत्- सुखाधारं द्युलोकं 'दिवं' 'मे' प्र'यच्छ' । 'दिवः' द्युलोकात्, मां, 'पाहि' । तत्र राक्षसप्रवेशं निवार्य्य पालय ॥
मन्त्रस्य पूर्व्वभागे तेजोऽनुप्रेहीत्यस्य तात्पर्य्यं दर्शयति । “विवा एनमेतदर्द्धयन्ति । यत् पश्चात् प्रवृज्य पुरो जुह्वति । तेजोऽसि तेजोऽनुप्रेहीत्याह । तेज एवास्मिन् दधाति” इति । (५ प्र० । ७ अ० । २६ म०) । आहवनीयस्य पश्चिमभागे गार्हपत्य- स्योत्तरदेशे प्रवर्ग्यं कृत्वा 'पुरः' पूर्व्वस्यां दिशि, आहवनीये 'जुह्वति' इति 'यत्' अस्ति एतेन 'एनं' प्रवर्ग्यं समृद्धिरहितं कुर्व्वन्ति, प्रवृञ्जनेनैव तेजसोपगतत्वात् अतः 'तेजोऽनुप्रेहि' इत्युक्त्या द्रव्ये 'तेजः' सम्पादितं भवति ॥
मध्यमभागस्याहिंसापरत्वं दर्शयति । “दिविस्पृङ्मा मा हिꣳसीरन्तरिक्षस्पृङ्मा मा हिꣳसीः पृथिवीस्पृङ्मा मा हिꣳ- सीरित्याहाहिꣳसायै” ॥८॥ इति । (५ प्र० । ७ अ० । ३० म०) ॥
तृतीयभागस्याशिःपरत्वं दर्शयति । “सुवरसि सुवर्मे यच्छ दिवं यच्छ दिवो मा पाहीत्याह । आशिषमेवैतामा- शास्ते” इति । (५ प्र० । ७ अ० । ३१ म०) ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके चतुर्थप्रपाठके अष्टमोऽनुवाकः ॥ ८ ॥
3 N 2
| ४७४ | तैत्तिरीये आरण्यके |
|---|
अथ नवमोऽनुवाकः ।
(१)समु॒द्राय॑ त्वा॒ वाता॑य॒ स्वाहा॑ । स॒लि॒लाय॑ त्वा॒ वाता॑य॒ स्वाहा॑ । अ॒ना॒धृ॒ष्याय॑ त्वा॒ वाता॑य॒ स्वाहा॑ । अ॒प्र॒ति॒धृ॒ष्याय॑ त्वा॒ वाता॑य॒ स्वाहा॑ । अ॒व॒स्यवे॑ त्वा॒ वाता॑य॒ स्वाहा॑ । दुव॑स्वते त्वा॒ वाता॑य॒ स्वाहा॑ । शि॒मिं॑दते त्वा॒ वाता॑य॒ स्वाहा॑ । अ॒ग्नये॑ त्वा॒ वसु॑मते॒ स्वाहा॑ । सोमा॑य त्वा रु॒द्रव॑ते॒ स्वाहा॑ । वरु॑णाय त्वादित्यव॑ते॒ स्वाहा॑ ॥ १ ॥
अथ नवमोऽनुवाकः ।
अष्टमे महावीरे घृतयुक्ते क्षीरप्रक्षेपलक्षणं प्रवृञ्जनमुक्तं । नवमे तस्य प्रवर्ग्यद्रव्यस्याहवनीये याग उच्यते । कल्पः । प्रभञ्जनावानं पञ्चवातनामानि व्याचष्टे समुद्राय त्वा वाताय स्वाहेत्यपि पञ्चोत्तराण्यग्नये त्वा वसुमते स्वाहेति । पाठस्तु । (१)“समुद्राय त्वा वाताय स्वाहा ॰ यमाय त्वाऽङ्गिरस्वते पितृमते स्वाहा”(१) इति । अत्र ‘वाताय’ इति विशेष्य निर्देशः । समुद्रादिशब्दविशेषणभूता नामधेयविशेषवाचिनः । हे प्रवर्ग्य त्वां, समुद्रनामकाय ‘वाताय’ ‘स्वाहा’ कथयामीत्यर्थः । निपातानामनेकार्थत्वात् । एवमुत्तरेष्वपि योज्यं । षष्ठसप्तमौ मन्त्रौ विकल्पार्थौ । वसुयुक्तायाग्नये अग्निनामकाय वातविशेषा-
षाय, त्वां, ‘स्वाहा’ कथयामि । एवमुत्तरत्रापि योज्यं । ऋग्भा-
४ प्रपाठके ६ अनुवाकः । ४७५
बृहस्पत॑ये त्वा विश्वदे॑व्यावते॒ स्वाहा॑ । स॒वि॒त्रे त्वा॑र्भू॒मते॑ वि॒भुमते॑ प्र॒भुमते॒ वाज॑वते॒ स्वाहा॑ । य॒माय॑ त्वाङ्गिर॑स्वते पितृमते॒ स्वाहा॑^(१) । ^(२)विश्वा॒ आशा॒ दक्षि॑णसत्^(१) ।
दिभिर्युक्ताय सवितृनामकाय वाताय कथयामि । अङ्गिरोभिः पितृभिश्च युक्ताय यमनामकाय वाताय कथयामि । अय- मपि मन्त्रोविकल्पार्थः ॥
एतैर्मन्त्रैः साध्यवातनामकथनं* विधत्ते । "शिरो वा एत- द्यज्ञस्य । यत् प्रवर्ग्यः । आत्मा वायुः । उद्यत्य वातनामान्याह । आत्मन्नेव यज्ञस्य शिरः प्रतिदधाति" इति । (५ प्र० । ७ अ० । ३२ म०) । आहवनीयं प्रतिनेतुं प्रवर्ग्यमुद्धृत्य वातनामकथनेन वायोरात्मत्वादात्मन्येव 'यज्ञस्य†' अग्निः प्रतिष्ठितो भवति ॥
तत्कथनमध्ये श्वासं वारयति । "अनवानं । प्राणानाꣳ सन्तत्यै" इति । (५ प्र० । ७ अ० । ३३ म०) । अवानं श्वासः स यथा न भवति तथा पठेत् । तच्च प्राणानामविच्छेदाय भवति ॥
मन्त्रसङ्ख्यां विधत्ते । "पञ्चाह ॥६॥ पाङ्क्तो यज्ञः । यावानेव यज्ञः । तस्य शिरः प्रतिदधाति" इति । (५ प्र० । ७ अ० । ३४ म०) । धानाकरम्भादिहविःपञ्चकयोगेन 'यज्ञः' 'पाङ्क्तः' स च 'या- वान्' अस्ति 'तस्य' सर्व्वस्य, 'शिरः'-नामपञ्चकेन प्रतिष्ठितं भवति ॥
उत्तरपञ्चकस्य प्रथममन्त्रे अग्निशब्देनादित्यो विवक्षित
* कथनविकल्पं इति तै० पुस्तकपाठः ।
† यज्ञशिरः प्रतिष्ठितं भवति इति तै० पुस्तकपाठः ।
४०६ तैत्तिरीये आरण्यके
इति दर्शयति । "अग्नये त्वा वसुवते स्वाहेत्याह । असौ वा आदित्योऽग्निर्वसुमान् । तस्मा एवैनं जुहोति" इति । (५ प्र० । ७ अ० । ३५ म०) । हविःप्रक्षेपाभावेऽपि स्वाहाशब्दप्रयोगमात्रेण जुहोतीत्युच्यते ॥
द्वितीयमन्त्रादौ सोमादिशब्दैः प्रसिद्धार्थतामेव विवक्षां दर्शयति । "सोमाय त्वा रुद्रवते स्वाहेत्याह । चन्द्रमा वै सोमो रुद्रवान् । तस्मा एवैनं जुहोति । वरुणाय त्वादित्यवते स्वाहेत्याह ॥१०॥ अप्सु वै वरुण आदित्यवान् । तस्मा एवैनं जुहोति । बृहस्पतये त्वा विश्वदेव्यावते स्वाहेत्याह । ब्रह्म वै देवानां बृहस्पतिः । ब्रह्मण एवैनं जुहोति” इति । (५ प्र० । ७ अ० । ३६ म०) ॥
अनन्तरमन्त्रे सवितृशब्देन संवत्सरस्य विवक्षां दर्शयति । “सविचे लर्भुमते विभुमते प्रभुमते वाजवते स्वाहेत्याह । संव- त्सरो वै सवितर्भूमान् विभुमान् प्रभुमान् वाजवान् । तस्मा एवैनं जुहोति” इति । (५ प्र० । ७ अ० । ३७ म०) ॥
अनन्तरमन्त्रे यमशब्देन प्राणस्य विवक्षां दर्शयति । “यमाय त्वाङ्गिरस्वते पितृमते स्वाहेत्याह । प्राणो वै यमोऽङ्गिर- स्वान् पितृमान् ॥११॥ तस्मा एवैनं जुहोति” इति । (५ प्र० । ७ अ० । ३८ म०) ॥
वातानां मन्त्रानुपसंहरति । “एताभ्य एवैनं देवताभ्यो जु- होति” इति । (५ प्र० । ७ अ० । ३९ म०) । समुद्रादिभ्यो यमा- न्तेभ्यस्त्रयोदशमन्त्रोक्ताभ्यः 'देवताभ्यः' होमः कृतो भवति ॥
४ प्रपाठके. ६ अनुवाकः। १७७
अनुष्ठेयमन्त्रसङ्ख्यां प्रशंसति । “दश सम्पद्यन्ते । दशाक्षरा विराट् । अन्नं विराट् । विराजैवान्नाद्यमवरुन्धे” इति । (५ प्र० । ७ अ० । ४० म०) । त्रयोदशेषु* त्रयाणां विकल्प्यार्थत्वेन पूर्व्वपञ्चकमुत्तरपञ्चकञ्चेत्येवमनुष्ठेयमन्त्राणां ‘दश’-त्वसम्पत्तिः, अतो विराड्-द्वारान्नलप्राप्तिः ॥
अथ रौहिणपुरोडाशौ विधत्ते । “रौहिणाभ्यां वै देवाः सुवर्गं लोकमायन् । तद्रौहिण्यो रौहिणत्वं । यद्रौहिणौ भवतः । रौहिणाभ्यामेव तद्यजमानः सुवर्गं लोकमेति” इति । (५ प्र० । ७ अ० । ४१ म०) । स्वर्गारोहत्याभ्यां पुरोडाशाभ्यामिति ‘रौहिणौ’ ताभ्यां स्वर्गप्राप्तिः ॥
रौहिणपुरोडाशयोर्दक्षिणोत्तरयोरपि होममन्त्रावुत्त- रानुवाके आम्नास्यमानावपि पुरोडाशविधिप्रसङ्गादिहैवा- पकृष्य व्याख्यायेते । “अहर्ज्योतिः केतुना जुषताꣳ सुज्योति- र्ज्योतिषाꣳ स्वाहा रात्रिर्ज्योतिः केतुना जुषताꣳ सुज्योतिर्ज्यो- तिषाꣳ स्वाहेत्याह । आदित्यमेव तदमुष्मिँल्लोकेऽह्नापरस्ता- द्दाधार । रात्रिया अवस्तात् । तस्मादसावादित्योऽमुष्मिँल्लो- केऽहोरात्राभ्यां धृतः” ॥ १२ ॥ इति । (५ प्र० । ७ अ० । ४२ म०) । अहर्देवता ‘केतुना’ अध्यक्षरूपेणादित्यमण्डलेन सह, ‘ज्योतिः’ ‘जुषतां’ प्रकाशं सेवतां । ‘ज्योतिषां’ मध्ये, ‘सुज्योतिः’ शोभन- ज्योतीरूपमहरुद्दिश्य, स्वाहुतमिदमस्तु । एवं रात्रिदेवता-
* त्रयोदशमन्त्रेषु इति तै० पुस्तकपाठः ।
४७८ तैत्तिरीयारण्यके
(२)विश्वान्देवान॑याडि॒ह(३) । (४)स्वाहा॑ ऋ॒तस्य॒ धर्म॑स्य ।
मन्त्रोऽपि व्याख्येयः, तत्तेन मन्त्रद्वयेन स्वर्गलोकात्* ‘परस्तात्’ उपरिभागे, अहर्द्देवतया सहितं ‘आदित्यं’ धारयति । ‘अवस्तात्’ अधोभागे, रात्रिदेवतया सहितं ‘आदित्यं’ धारयति । यस्मादेवं ‘तस्मात्’ स्वर्गे, ‘असावादित्यः’ देवताद्वयेन ‘धृतः’ वर्त्तते ॥
मनुष्यनामानि, पञ्चः, सीददित्याह, इन्द्रायेत्याह, अङ्कयति, घ्नन्ति, गृह्णाति, अहिꣳसायै, पञ्चाह, आदित्यवते स्वाहेत्याह, पितृमन्, एति, चत्वारि च ॥
इति पञ्चमप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥
कल्पः । अपरेणाहवनीयं दक्षिणाभिक्रामन् विश्वा आशा दक्षिणसदिति ब्राह्मणमीक्षत इति । (२ मन्त्रः) । दक्षिणदेशे सीदतीति ‘दक्षिणसद्’ ब्रह्मा, सोऽयं ‘विश्वा आशाः’ सर्व्वदिग्वर्त्तिनो देवान् प्रीणात्विति शेषः ॥
उक्तार्थपरत्वं मन्त्रस्य दर्शयति । “विश्वा आशा दक्षिणसदित्याह । विश्वानेव देवान् प्रीणाति । अथो दुरिष्ट्या एवैनं पाति” इति । (५ प्र० । ८ अनु० । १८ म०) । अनेन मन्त्रेण देवप्रीतिर्भवति । यागे सम्भावितदोषाच्च यजमानं पालयति ॥
कल्पः । विश्वान् देवानयाडिहेति होतारमिति । ईक्षत इत्यनुवर्त्तते । (३ मन्त्रः) । ‘इह’ कर्म्मणि, होता ‘विश्वान् देवान्’ ‘अयाट्’ इष्टवान् ॥
* स्वर्गलोके परस्तात् इति तै० पुस्तकपाठः ।
४ प्रपाठके ६ अनुवाकः । ४७६
मधो॑: पिवतमश्विना । स्वाहा॒ग्नये॑ य॒ज्ञिया॑य । शं यजु॑- र्भि:^(४) । ^(५)अ॒श्विना॑ घ॒र्मं पा॑तंꣵ हार्द्विवानं॑ ॥ २ ॥
अयाट्शब्देन सर्व्वदेवानां भागसमृद्धिं दर्शयति । “वि- श्वान् देवानयाडिहेत्याह । विश्वानेव देवान् भागधेयेन समर्द्धयति” इति । (५ प्र० । ८ अ० । २ म०) ॥
कल्पः । स्वाहाकृतस्य घर्मस्येति घर्म*मभिमन्त्र्येति । पा- ठस्तु । ^(४)“स्वाहाकृतस्य घर्मस्यं ० शं यजुर्भिः”^(४) इति । ‘अश्विना’ हे अश्विनौ, ‘स्वाहाकृतस्य’ स्वाहाकारेण समर्पितस्य, ‘मधोः’ मधुरस्य, ‘घर्मस्य’ प्रवर्ग्र्यद्रव्यस्य, रसं ‘पिवतं’, ‘यजु- र्भिः’ यजुर्देवताभिः, सहिताय ‘यज्ञियाय’ यज्ञयोग्याय, ‘अग्नये’ ‘शं’ सुखं यथा भवति तथा स्वाङ्कृतमस्तु ॥
मन्त्रस्य पूर्व्वभागेनाश्विनोर्भागसमृद्धिं दर्शयति । “स्वाहा कृतस्य घर्मस्य मधोः पिवतमश्विनेत्याह । अश्विनोवेव भाग- धेयेन समर्द्धयति” इति । (५ प्र० । ८ अ० । ३ म०) ॥
उत्तरभागे स्वाहेत्युच्चारणेन प्रवर्ग्र्येऽभिघारणं हविष्ठञ्च सम्पद्यत इति दर्शयति । “स्वाहाग्नये यज्ञियाय शं यजुर्भि- रित्याह । अभ्येवैनं घारयति । अथो हविरेवाकः” ॥१॥ इति । (५ प्र० । ८ अ० । ४ म०) ॥
कल्पः । अश्विना घर्मं पातमिति वषट्कृते जुहोतीति ।
* दुघ इति D चिह्नितपु० पाठः
30
४८० तैत्तिरीयारण्यके
अह॑र्दि॒वाभि॑रू॒तिभिः॑ । अनु॑ वां॒ द्यावा॑पृथि॒वी म॑ꣳसातां । स्वाहेन्द्रा॑य^{(५)}। ^{(६)}स्वाहेन्द्रावट्^{(६)}। ^{(७)}घ॒र्म्मं मे॑-
पाठस्तु । ^{(५)}“अश्विना घर्म्मं पातꣳ हार्द्दिवानं ॰ स्वाहे- न्द्राय”^{(५)} इति । हे अश्विनौ, ‘घर्म्मं’ प्रवर्ग्र्यं हविः, ‘पातं’ पिवतं । कीदृशं ‘हार्द्दिवानं’ हृदयप्रियातिशयो हार्द्दो मोऽस्यास्तीति हार्द्दिवा तादृशं, ‘अहः’ अह्नि अस्मिन् दिने, ‘दिवाभिः’ द्योतमानाभिः, ‘ऊतिभिः’ अन्नादिषयलक्षण- क्रियाभिः निमित्तभूताभिः, ‘पातं’ इति पूर्व्वत्रान्वयः । हे अश्विनौ, ‘वां’ युवां, द्यावापृथिव्यौ देवते, ‘अनु’ ‘मꣳसातां’ अनुमतौ कुरुतां । ‘इन्द्राय’ इदं स्वाहुतमस्तु ॥
कल्पः । स्वाहेन्द्राय*वदित्यनुवषट्कृता† इति । (६ मन्त्रः) । जुहोतीत्यनुवर्त्तते । ‘इन्द्रः’ इत्ययं शब्दः परमैश्वर्य्ययोगात् स्विष्टकृदग्निमाचष्टे । ‘स्वाहा’शब्द आहुतियोग्यतामाह । ता- दृशाय वषट् इदं हविः समर्पितं ॥
अश्विना घर्म्मं पातमित्युक्त्या तयोर्भागसमृद्धिं दर्शयति । “अश्विना घर्म्मं पातꣳ हार्द्दिवानमहर्द्दिवाभिरूतिभिरित्याह । अश्विनावेव भागधेयेन समर्द्धयति” इति । (५ प्र० । ८ अनु० । ५- म०) ॥
* स्वाहेन्द्रावट् H पु० पाठः ।
† वषट्कारः तै० पु० पाठः ।
४ प्रपाठके २ अनुवाकः । ४८१
पा॒तम॒श्विना॒ हार्द्दि॑वानं॑ । अह॑र्द्दि॒वाभि॑रू॒तिभि॑ः । अनु॑ वां॒ द्यावा॑पृथिवी अमं॑सातां । तं प्राञ्चं॑ यथावट् । नमो॑
अनुमंसातामिति पदेन द्यावापृथिव्योरनुज्ञा प्रार्थ्यत इति दर्शयति । “अनुवां द्यावापृथिवी मंसातामित्याहानुमत्यै” इति । (५ प्र० । ८ अ० । ६ म०) ॥
चतुर्थ्यन्तस्येन्द्रशब्दस्य प्रथमतः प्रयोगे कारणं दर्शयति । “स्वाहेन्द्राय स्वाहेन्द्रावडित्याह । इन्द्राय हि पुरोहूयते” इति । (५ प्र० । ८ अ० । ७ म०) । यस्मात् प्रधानदेवतारूपाय ‘इन्द्राय’ प्रथमत आहुतिः पश्चात् स्विष्टकृद्देवताया आहुतिर्युक्ता । तस्मादिन्द्रायेति मुख्यदेवताविवक्षया प्रथमप्रयोगः ॥
अत्रानुष्ठानक्रमं विधत्ते । “आश्राव्याह घर्मस्य यजेति । वषट्कृते जुहोति । रक्षसामपहत्यै । अनुयजति स्वगाकृत्यै” इति । (५ प्र० । ८ अ० । ८ म०) । प्रथममाश्रावणं कृत्वा, ततः ‘घर्मस्य’ ॐ ‘यज’ इति ब्रूयात् । हे होतः, ‘घर्मस्य’ प्रवर्ग्यस्यानुष्ठानार्थं, ‘यज’ याज्यां पठ । एवं प्रैषमुक्त्वा ततो होत्रा याज्यापाठेन ‘वषट्कृते’ सति अश्विना घर्ममित्यनेन मन्त्रेण जुहुयात् । एतच्च ‘रक्षसां’ अपघाताय भवति । ततोऽनु वषट्कारे होत्रा प्रयुक्ते सति स्वाहेन्द्रावडिति मन्त्रेण यजेत् । तच्च ‘स्वगाकृत्यै’ स्वाधीन*करणायोपयुज्यते ॥
* स्वाधीनत्व इति तै० पु० पाठः ।
३०२
४८२ तैत्तिरीये आरण्यके
दिवे॑। नम॑: पृथि॒व्यै॥ दि॒वि धा॑ इ॒मं य॒ज्ञं। य॒ज्ञमि॒मं दि॒वि धा॑:। दिवं॑ गच्छ। अ॒न्तरि॑क्षं गच्छ। पृ॒थि॒वीं ग॑च्छ। पञ्च॑ प्र॒दिशो॑ गच्छ। दे॒वान् घ॑र्म्म॒पान् ग॑च्छ। पि॒तॄन् घ॑र्म्म॒पान् ग॑च्छ^{(७)}॥ ३॥
कल्पः। घर्म्मपातमश्विनेत्यनुवाकशेषेणोपस्थायेत। पा- ठस्तु। ⁽७⁾“घर्म्मपातमश्विना हार्द्दिर्व्वानं ॰ पितॄन् घर्म्मपान् गच्छ”⁽७⁾ इति। हे अश्विनौ, अस्मिन् अहनि द्योतमान- रक्षणक्रियानिमित्तं हृदयप्रियातिशययुक्तं प्रवर्ग्ग्यद्रव्यं 'अपातं' युवां पीतवन्तौ। द्यावापृथिव्यौ च युवयोरनुमतिं दत्तवत्यौ 'प्राव्यं'* प्रकृष्टरक्षाहेतुं, 'तं प्राव्यं'† 'यथावत्' स्विष्टकृद्देवतायै यथावद्दत्तवानसि। द्यावापृथिव्योः प्रसादादस्य कर्मणो निष्पत्तेः ताभ्यां 'नमः' अस्तु। हे अश्वीन्द्ररूप प्रवर्ग्ग्यदेव, अस्म- दीयं 'इमं' 'यज्ञं' 'दिवि धाः' द्युलोके स्थापय, द्विरुक्ति- रादरार्था। हे प्रवर्ग्ग्य द्युप्रभृतिकं लोकत्रयं प्राप्नुहि तथा ऊर्द्धदिक्सहिताः प्राच्यादिपञ्चदिग्देवताः प्राप्नुहि। प्रवर्ग्ग्यस्य पातारो ये देवाः ये च पितरस्तानुभयान् प्राप्नुहि॥
होममन्त्रेण महोपस्थानमन्त्रस्य समानार्थतां दर्शयति। “घर्म्मपातमश्विनेत्याह ॥ २ ॥ पूर्व्वमेवादितं। उत्तरेणाभि- गृणाति” इति। (५ प्र०। ८ अ०। ६ म०) ॥
* प्राप्यं इति D चिह्नित पाठः।
† प्रवर्ग्ग्यं इति D चिह्नितपु०पाठः।
४ प्रपाठके ९ अनुवाकः। ४८३
आ॒दित्यव॑ते॒ स्वाहा॑, पा॒र्थिवा॑नं, पृथि॒व्यै, अ॒ष्टौ च॑ ॥ अनु० ९ ॥
अमंसतामित्यस्यातीतार्थवाचिशब्दस्य सिद्धानुज्ञापरत्वं दर्शयति । “अनु वां द्यावापृथिवी अमंसतामित्याहानुमत्यै” इति । (५ प्र० । ८ प्र० । १० म०) ॥
अनन्तरमन्त्रभागस्य स्पष्टार्थतां दर्शयति । “तं प्राञ्चं यथावषमो दिवे नमः पृथिव्या इत्याह । यथा यजुरेवैतत्” इति । (५ प्र० । ८ प्र० । ११ म०) ॥
हविषः स्वर्गप्राप्तिपरत्वमनन्तरभागस्य दर्शयति । “दिवि धा इमं यज्ञं यज्ञमिमं दिवि धा इत्याह । सुवर्गमेवैनं लोकं गमयति” इति । (५ प्र० । ८ प्र० । १२ म०) ॥
दिवं गच्छेति प्रार्थनाया हविषो लोकत्रयप्रतिष्ठापनार्थतां दर्शयति । “दिवं गच्छान्तरिक्षं गच्छ पृथिवीं गच्छेत्याह । एष्वेवैनं लोकेषु प्रतिष्ठापयति” इति । (५ प्र० । ८ प्र० । १३ म०) ॥
अथोत्तरवाक्यानां सर्व्वदिक्षु देवेषु पितृषु च हविषः प्रतिष्ठापनार्थतां दर्शयति । “पञ्च प्रदिशो गच्छेत्याह ॥ ३ ॥ दिक्ष्वेवैनं प्रतिष्ठापयति । देवान् घर्म्मपान् गच्छ पितॄन् घर्म्मपान् गच्छेत्याह । उभयेष्वेवैनं प्रतिष्ठापयति” इति । (५ प्र० । ८ प्र० । १४ म०) ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके नवमोऽनुवाकः ॥ ९ ॥
४८४ तैत्तिरीये आरण्यके
अथ दशमोऽनुवाकः ।
(१)इ॒षे पी॑पिहि । ऊ॒र्जे पी॑पिहि । ब्रह्म॑णे पीपिहि । क्ष॒त्राय॑ पीपिहि । अ॒द्भ्यः पी॑पिहि । ओष॑धीभ्यः पीपिहि । वन॒स्पति॑भ्यः पीपिहि । द्यावा॑पृथि॒वीभ्यां॑ पीपिहि । सु॒भू॒ताय॑ पीपिहि । ब्र॒ह्म॒व॒र्च॒साय॑ पीपिहि ॥ १ ॥ यज॑मानाय पीपिहि । मह्यं॒ ज्यैष्ठ्या॑य पीपिहि(१) ।
अथ दशमोऽनुवाकः ।
आहवनीये प्रवर्ग्यद्रव्येण होमो नवमेऽभिहितः । दशमे तद्द्रव्यशेषेणाग्निहोत्रहोमोऽभिधीयते । तत्रादौ किञ्चिदनुमन्त्रणमुच्यते । कल्पः । उपर्याहवनीये धार्य्यमाणं प्रतिप्रस्थाता शृतदध्ना पूरयतीषे पीपिह्यूर्जे पीपिहीति विचरन्तमनुमन्त्रयत इति । पाठस्तु । (१)“इषे पीपिहि ० मह्यं ज्यैष्ठ्याय पीपिहि”(१) इति । आहवनीयस्योपरि महावीरं धारयित्वा तत्रत्ये तप्ते घृते तप्तस्य दध्नः प्रक्षेपे सति प्रवर्ग्यो विचरति विशेषेण पात्रस्योर्द्ध्वं यदोद्गच्छति तदानीमुद्गच्छन्तं प्रवर्ग्यं सम्बोधेदमुच्यते । हे प्रवर्ग्य, ‘इषे’ अन्नार्थं, ‘पीपिहि’ त्वं प्रवृद्धो भव । तथा ‘ऊर्जे’ रसार्थं ब्राह्मणाद्यर्थञ्च, प्रवृद्धो भव । सुभूतं, शोभनं प्राणिजातं, ‘मह्यं ज्यैष्ठ्याय’ अध्वर्य्योर्मम प्रशस्तत्वाय, प्रवर्ग्यस्याभिवृद्ध्या सर्व्वमिदमभिवर्द्धत इत्यर्थः ॥