भारतकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

६ प्रपाठके ६ अनुवाकः। ७०५

^(२)दूर्वा॑णाँ स्त॒म्बमाह॑रै॒तां प्रि॒यत॑मां॒ मम॑ । इ॒मां दिशं॑ मनु॒ष्या॑णां॒ भूयि॑ष्ठा॒ऽनु विरो॑हतु^(३)। ^(४)काशा॑नाँ स्त॒म्बमाह॑र॒ रक्ष॑सामप॑हत्यै । य ए॒तस्यै॒ दिशः परा॑भवन्नघायव॒ो यथा॒ ते नाभव॒न्पुनः॑^(४)। ^(५)दर्भा॑णाँ स्त॒-

,त्वां,’ ‘ब्रह्माणः’ अभिज्ञा विप्राः, ‘ओषधीनां पय इत्’ सर्वासा- मोषधीनां सारमेव, ‘विदुः’ जानन्ति । ‘तासां’ ओषधीनां,‘मध्यात्’ सकाशात्, त्वां ‘आदधे’ आनीय स्थापयामि । किमर्थं, ‘चरुभ्यः’ ‘अपिधातवे’ चरूणामपिधानार्थं ॥

अथ द्वितीयामाह । ^(३)“दूर्वाणाँ स्तम्बमाहर ० भूयिष्ठाऽनु विरोहतु”^(३) इति। हे प्रेत ‘दूर्वाणां’, सम्बन्धिनं ‘स्तम्बं’, ‘आहर’ स्वीकुरु । ‘एतां’ दूर्वां, ‘मम’ स्वस्य, ‘प्रियतमां’, विद्धीति शेषः । ‘मनुष्याणां’, सम्बन्धिनीं ‘इमां’ दक्षिणां, ‘दिशं’, ‘अनु’, सा दूर्वा ‘भूयिष्ठा’ प्रभूता, ‘विरोहतु’ विविधमङ्कुरमुत्पादयतु ॥

अथ तृतीयामाह । ^(४)“काशानाँ स्तम्बमाहर ० यथा ते नाभवन् पुनः”^(४) इति । हे प्रेत ‘काशा’ख्यानां तृणानां ‘स्तम्बं’, ‘आहर’ स्वीकुरु । किमर्थं, ‘रक्षसामहत्यै’ । ‘एतस्यै’ पश्चिमायाः, ‘दिशः’, ‘अघायवः’ अघं पापमुपद्रवमिच्छन्तः, ‘ये’ वैरिणः, ‘पराभवन्’ पराकर्त्तारः आसन् । ‘ते’ वैरिणः, ‘यथा’, ‘पुनः’, ‘नाभवन्’ न भविष्यन्ति, तथा काशस्तम्बं स्वीकुरु ॥

अथ चतुर्थीमाह । ^(५)“दर्भाणाँ स्तम्बमाहर ० काण्ड-

4 Q 2

७०६ तैत्तिरीये आरण्यके

म्बमाह॑र पितॄणामोष॑धीं प्रि॒यां । अन्व॑स्यै॒ मूलं॑ जीवा॒- दनु॒ काण्ड॒मथो॒ फलं॑^{(५)} ॥ १ ॥ ^{(६, ७)}लो॒कं पृ॑णता॒ अ॑स्य सू॒ददो॑हसः^{(६, ७)}। ^{(८)}शं वा॒तः॑ शग्ं हि॒ते घृणिः॑ शर्मु॑ते सन्वोष॑धयः कल्प॑न्तां ते॒ दिशः॒ सर्वाः॑^{(८)}। ^{(९)}इदमे॒व मेतोऽप॑रामात्ति॒माराम॒ काञ्चन॑

मथो फलं”^{(५)} इति । हे प्रेत दर्भसम्बन्धिनं ‘स्तम्बं’, स्वीकुरु । इमां ‘ओषधीं’, ‘पितॄणां’, ‘प्रियां’, विद्धीति शेषः । ‘अस्यै’ दर्भ- रूपाया ओषध्याः, ‘मूलं’, ‘अनुजीवात्’ अनुक्रमेण जीवतु । तथा ‘काण्डं’, ‘फलं’, च ‘अनु’ क्रमेण, जीवतु, वर्धतामित्यर्थः ॥

कल्पः । लोकं पृणेति लोकम्पृणा उपदधाति, उत्तरया पुरीषेणा- नुविकिरति इति । तयोर्मन्त्रयोः प्रतीके दर्शयति । ^{(६, ७)}“लोकं पृण- ता अस्य सूददोहसः”^{(६, ७)} इति । लोकं पृण च्छिद्रं पृणेत्येको मन्त्रः। ता अस्येति द्वितीयः । एतौ चोभौ अपेत वीत इत्यनुवाके व्याख्यातौ ॥

कल्पः । उदपात्रेण उदुम्बरशाखया वा उक्षति, शं वात इति । पाठस्तु । ^{(८)}“शं वातः शग्ं हि०ते दिशः सर्वाः”^{(८)} इति । अयं मन्त्रः सप्तमानुवाके व्याख्यातः । ते सर्वा इत्येतावानेव विशेषः ॥

कल्पः । उपतिष्ठते, इदमेवेति । पाठस्तु । ^{(९)}“इदमेव मेतोप- रां • मित्रेण वरुणेन च”^{(९)} इति । इदानीं वर्त्तमानं ‘इदमेव’ एकं राष्ट्रं सम्पन्नं, ‘इतः’, ‘अपरां’, ‘कां’, चिदपि ‘आर्त्तिं’, ‘माराम’

६ प्रपाठके ६ अनुवाकः। ७०७

तथा॒ तद॒श्विभ्यां॑ कृ॒तं मि॒त्रेण॒ वरु॑णेन च॒^{(९)}} । ^{(१०)}वरु॑णो वार॑यादि॒दं दे॒वो वन॒स्पति॑: । आ॒त्य निॠ॑त्यै॒ द्वेषा॑च्च॒ वन॒स्पति॑:^{(१०)} । ^{(११)}वि॒धृ॑तिरसि विधा॒रया॒स्मद॒घा द्वेषा॑ꣳसि^{(११)} । ^{(१२)}श॒मि॒ श॒मयस्मद॒घा द्वेषा॑ꣳसि^{(१२)} ।

मा प्राप्नुताम् । 'तत्' अस्मदभीष्टं, 'अश्विभ्यां', देवाभ्यां, 'मित्रेण', 'वरुणेन', 'च', 'तथा कृतं' सम्पादितं ॥

कल्पः । वारुणशाखां पुरस्तान्निदधाति, वरुणो वारयादिति । पाठस्तु । ^{(१०)}“वरुणो वारयादिदं ० द्वेषाच्च वनस्पतिः”^{(१०)} इति । अयं 'वरुणा'ख्यः 'वनस्पतिर्देवः', 'इदं' कष्टं, 'वारयात्' निवारयतु । तथा सः 'वनस्पतिः', 'आर्त्यै' अन्यस्या अपि बाधायाः, 'निर्ऋत्यै' पापदेवतायै, 'द्वेषाच्च', वैरिकृतात्, पालयत्विति शेषः ॥

कल्पः । विधृतिलोष्टमुत्तरतः, विधृतिरसि इति । पाठस्तु । ^{(११)}“विधृतिरसि ० द्वेषाꣳसि”^{(११)} इति । हे लोष्ट त्वं 'विधृतिः' विधारकः, 'असि' । अतः 'अस्मत्तः सकाशात्, 'अघा' पापानि, 'द्वेषांसि' वैराणि च, 'विधारय' वियुज्यान्यत्र स्थापय ॥

कल्पः । शमीशाखां पश्चात्, शमि शमयेति । पाठस्तु । ^{(१२)}“शमि शमय ० द्वेषाꣳसि”^{(१२)} इति । हे 'शमि' एतन्नामकवृक्ष, 'अस्मत्' अस्मत्तः, 'अघा' पापानि, 'द्वेषांसि' वैराणि च, 'शमय' ॥

७०८ तैत्तिरीये आरण्यके

(१३)य॒व य॒वया॒स्मद्द्वेषा॒ꣲसि॑(१३) । (१४)पृथि॒वीं ग॑च्छा॒- न्तरि॑क्षं गच्छ॒ दिवं॑ गच्छ॒ दिशो॑ गच्छ॒ सुव॑र्ग- ञ्च॒ सुव॑र्गञ्च॒ दिशो॑ गच्छ॒ दिवं॑ गच्छान्तरि॑क्षं गच्छ पृ- थि॒वीं ग॑च्छा॒पो वा॑ गच्छ॒ यदि॒. तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रैः(१४) । (१५, १६)अ॒श्मन्व॑ती रेवती॒र्यद्दे॒ दे॒वस्य॑ सवि॒तुः प॒वित्रं॒ या रा॒ज्ञात्पन्नादुद्वयन्त॒मस॒स्परि॑ धा॒ता पु॑नातु(१५, १६) ॥ २ ॥ अ॒थो फलं॑, धा॒ता पु॑नातु ॥ अनु० ९ ॥


कल्पः । यवं दक्षिणतः, यव यवयेति । पाठस्तु । (१३)“यव यवय ॰ द्वेषाꣲसि”(१३) इति । पूर्ववद्व्याख्येयं ॥

कल्पः । अथैनमुपतिष्ठते, पृथिवीमिति । पाठस्तु । (१४)“पृथिवीं गच्छान्तरिक्षं ॰ प्रतिष्ठा शरीरैः”(१४) इति । आरोहावरोहाभ्यां पृथिव्यादिस्वर्गपर्यन्तप्राप्तिवाक्यानि स्पष्टानि। अपोवेत्यादिस्तु प्रथमानुवाके व्याख्यातः ॥

कल्पः । जघनेन चितिं कर्मादि समानमिति । तन्मन्त्राणां प्रतीकानि दर्शयति । अश्मन्वतीरेवतीः, यद्दे देवस्य सवितुः पवित्रं, या राज्ञात्पन्नात्, उद्वयन्तमसस्परि, धाता पुनाविति। (१५, १६-मन्त्राः ।) एते च मन्त्रास्तृतीयानुवाके व्याख्याताः ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके षष्ठप्रपाठके नवमोऽनुवाकः ॥ ९ ॥

६ प्रपाठक १० अनुवाकः । ७०६

अथ दशमोऽनुवाकः ।

(१)आरो॑हतायु॒र्जरसं॑ गृणा॒ना अनु॑पू॒र्वं यत॑माना॒ यति॑ष्ट । इ॒ह त्वष्टा॑ सु॒जनि॑मा सु॒रत्नो॑ दी॒र्घमायुः॑ कर-
तु जी॒वसे॑ वः^{(१)} ।
^{(२)}यथाऽहा॑न्यनुपू॒र्वं भव॑न्ति यथ॒र्तव॑


अथ दशमोऽनुवाकः ।

कल्पः । नवम्यां व्युष्टायां यज्ञोपवीतो अन्तरा ग्रामं श्मशान-
ञ्चाग्निमुपसमाधाय सम्परिस्तीर्य अपरेणाग्निं लोहितं चर्म आनडुहं
प्राचीनग्रीवमुत्तरलोमास्तीर्य तद्धेतसमालिनो ज्ञातीनारोहयति,
आरोहत इति । पाठस्तु । $^{(१)}$"आरोहतायुर्जरसङ्गृणानाः ० करतु
जीवसे वः" $^{(१)}$ इति । हे ज्ञातयः यूयं 'जरसं गृणानाः' जराव-
स्थां प्रार्थयमानाः, 'आयुः' आयुषो हेतुभूतं चर्म, 'आरोहत' ।
'अनुपूर्वं' ज्येष्ठमनु कनिष्ठो यथा भवति तथा, 'यतमानाः' प्रयत्नं
कुर्वन्तः, 'यतिष्ट' आरोहणप्रयत्नं कुरुत, 'इह' कर्मणि, 'त्वष्टा'
हविषां पापानां तनूकर्त्ता, अयमग्निः, 'सुजनिमा' शोभ-
नजन्मा, 'सुरत्नः' भक्तेभ्यो देयैः शोभनै रत्नैरुपेतः, 'वः' युष्मभ्यं,
'दीर्घमायुः' करोतु । 'जीवसे' जीवनाय*॥

कल्पः । अथैताननुपूर्वान् प्रकल्पयति, यथाऽहानि इति ।
पाठस्तु । $^{(२)}$"यथाहान्यनुपूर्वं ० आयूंषि कल्पयैषां" $^{(२)}$ इति ।


* 'इह' अस्मिन् कर्मणि, 'वः' युष्माकं, जीवनाय, 'सुजनिमा' शो-
भनजननोपेतः, 'सुरत्नः' शोभनाभरणोपेतः, 'त्वष्टा' प्रजापतिः, 'दीर्घमा-
युः', 'करतु' करोतु, 'जीवसे' जीवनाय । इति F चिह्नितपुस्तकपाठः ।

७१० तैत्तिरीये आरण्यके

ऋ॒तुभि॒र्यन्ति॑ क्लृ॒प्ताः । यथा॒ न पूर्व॒मप॑रो॒ जहा॑त्ये॒वा धा॑- त॒रायूग्ं॑षि कल्पयैषां॑(२) । ⁽²⁾न हि॑ ते अग्ने तनु॒वै क्रूरं च॒- कार॒ मर्त्यः॑ । क॒पिर्ब॑भस्ति॒ तेज॑नं॒ पुन॒र्जरा॒युर्गौरि॑व । अप॑ नः शोशु॑चद॒घमग्ने॑ शुशु॒ध्या र॒यिं । अप॑ नः शोशु॑च-


'यथा', लोके 'अहानि' दिनानि, 'अनुपूर्वं' 'भवन्ति' प्रतिपद् द्वितीयातृतीया चेत्येवमनुक्रमेणैव वर्त्तन्ते । 'यथा', च वसन्ता'द्यृतवः', 'ऋतुभिः', उत्तरोत्तरैः, 'क्लृप्ताः' सम्बद्धाः, 'यन्ति' गच्छन्ति, वर्त्तन्ते । 'यथा', च 'पूर्वं' पितरं, ज्येष्ठं वा, 'अपरः' पुत्रः, कनिष्ठो वा, 'न जहाति' न परित्यजति । हे 'धातः' प्रजापते, 'एव' एवं, अनेनैव प्रकारेण, 'एषां' ज्ञातीनां, 'आयूंषि', 'कल्पय' सम्पादय ॥

कल्पः । अथ वारुणेन स्रुवेण वारुण्यां सुचि चतुर्गृहीतमाज्यं गृहीत्वा जुहोति । न हि ते अग्ने तनुवै क्रूरं चकार मर्त्यः । कपिर्बभस्ति तेजनं पुनर्ज्जरायु गौरिव । अप नः शोशुचदघमग्ने शुशुध्या रयिं । अप नः शोशुचदघं मृत्यवे स्वाहेति । (३ मन्त्रः ।) हे 'अग्ने', 'ते' तव, 'तनुवै' शरीरार्थं, 'मर्त्यः' मनुष्यः, 'क्रूरं' उग्रं व्यापारं, 'न हि चकार' । 'कपिः' 'कपित्वच्चेष्टाकारी मनुष्यः, 'पुनः', 'तेजनं' उत्तेजनं यथा भवति तथा, 'बभस्ति' दीपयति । तत्र दृष्टान्तः, 'गौरिव जरायुः' यथा गौः स्वगर्भस्य रक्षार्थं जरायुपटं सम्पादयति, न तु क्रूरं करोति, तद्वत् । 'नः' अस्मदीयं, 'अघं'

६ प्रपाठके १० अनुवाकः। ७११

द॒घं मृ॒त्यवे॒ स्वाहा॑^(३)। ^(४)अ॒न॒ड्वाह॒मन्वा॑रभामहे स्व॒स्तये॑। स न॒ इन्द्र॑ इव दे॒वेभ्यो॒ वह्निः॑ सम्पा॑र॒णो भ॑व^(४)॥१॥ ^(५)इ॒मे जीवा वि मृ॒तैरा॒ववृ॑र्त्तिन्नभू॒द्भद्रा दे॒वहू॑तिर्नो अ॒द्य। प्राञ्चो॑ऽगामा नृ॒तये॒ हसा॑य॒ द्राघी॑य॒ आयुः॑ प्र-


पापं, 'अपशोशुचत्' अपगतं यथा भवति तथा दीप्यतां, दह्यतां । हे 'अग्ने', 'रयिं' धनं, 'शुशुग्धि' अतिशयेन शुद्धं कुरु । पुनरपि 'नः' अस्माकं, पापं अपगतं यथा भवति तथा दह्यतां । तदर्थं 'मृत्यवे', देवाय, स्वाहुतमिदमस्तु ॥

कल्पः । उत्तरेणाग्निं रोहितोऽनड्वान् प्राङ्मुखोऽवस्थितो भवति तं ज्ञातयोऽन्वारभन्ते, अनड्वाहमिति । पाठस्तु । ^(४)"अनड्वाहमन्वारभामहे ० सम्पारणे भव"^(४) इति । 'स्वस्तये' क्षेमाय, एतं 'अनड्वाहं', वयं 'अन्वारभामहे' हस्तेन स्पृशामहे । हे अनड्वन् 'सः' त्वं, 'देवेभ्यः' देवार्थं, 'इन्द्र इव', 'नः' अस्मदर्थं, 'वह्निः' दाहकः,* 'सम्पारणः' सम्यक् पारं प्रति नेता च, 'भव' ॥

कल्पः । प्राञ्चो गच्छन्ति, इमे जीवा इति । पाठस्तु । ^(५)"इमे जीवाः ० प्रतरान्दधानाः"^(५) इति । 'इमे जीवाः' ज्ञातयः, 'मृतैः', वियुज्य 'आववर्त्तिन्' आवृत्ताः । केनाभिप्रायेणेति तदुच्यते, 'अद्य' अस्मिन् दिने, 'नः' अस्माकं, 'भद्रा' कल्याणरूपा, 'देव-


* वाहक इति K चिह्नितपुस्तकपाठः ।

४ R

७१२ तैत्तिरीये आरण्यके

तरां॑ दधा॒नाः॥^(५)।। ^(६)मृ॒त्योः प॒दं यो॒पय॑न्तो॒ यदैम॒ द्रा-
घीय॒ आयुः॒ प्रत॒रां दधा॑नाः। आप्या॑यमानाः प्र॒जया॒
धने॑न शु॒द्धाः पू॒ता भ॑वथ यज्ञियासः॥^(६)।। ^(७)इ॒मं जी॒वेभ्यः॒
परि॒धिं द॑धामि॒ मा नो॒ऽनुगा॒दप॑रो॒ अर्द्धमे॒तं। श॒तं

ह्वतिः' देवानामाह्वानक्रिया, 'अभूत्' भवति । 'नृतये'* मनुष्यजय-
निमित्तं, 'हसाय' हास्यार्थं, हर्षार्थमित्यर्थः । 'प्राञ्चः' प्राञ्चः,
प्राङ्मुखाः सन्तः, 'अगाम' वयं गच्छामः । कीदृशा वयं, 'द्राघीय
आयुः' अत्यन्तं दीर्घमायुः, 'प्रतरां' इति, प्रकर्षेण, 'दधानाः'
धारयन्तः ॥

कल्पः । जघन्यः शमीशाखया पदानि लोपयते,† मृत्योः पद-
मिति । पाठस्तु । ^(६)“मृत्योः पदं योपयन्तः ० भवथ यज्ञियासः”^(६)
इति । 'मृत्योः' मृत्युरूपस्य अनडुहः, 'पदं'‡ स्थानं, 'यो लोपयन्तः'
रजसा प्रच्छाद्यमानाः सन्तः, 'यदा', 'एम' गच्छामः, तदा वयं
पूर्ववत् 'द्राघीय आयुः', 'प्रतरां' प्रकर्षेण, 'दधानाः', 'प्रजया ध-
नेन', च 'आप्यायमानाः' वर्द्धमानाः सन्तः, 'यज्ञियासः' यज्ञयोग्याः,
'शुद्धाः' शरीरशुद्धियुक्ताः, 'पूताः' द्रव्यशुद्धियुक्ताः, च 'भवथ' । हे
ज्ञातय इति द्रष्टव्यं ॥

कल्पः । अथ एभ्यः अध्वर्युर्दक्षिणतो अश्मानं परिधिं दधाति,
इमं जीवेभ्यः परिधिं दधामि इति । पाठस्तु । ^(७)“इमं जीवेभ्यः ०


* मृजये मनुष्यजयनिमित्तं इति F चिह्नितपुस्तकपाठः ।
† शमीशाखया अनडुत्पदानि संलोपयन्नेति इति E चिह्नितपुस्तकपाठः ।
‡ भूरूपमिति E चिह्नितपुस्तकपाठः ।

६ प्रपाठके १० अनुवाकः। ७१३

जीव॑न्तु श॒रदः॑ पु॒रूची॒स्तिरो मृ॒त्युं द॑द्महे॒ पर्व॑तेन^{(७)}। ^{(\८)}इ॒मा नारी॑रवि॒धवाः॑ सुपत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सम्मृ॑शन्ताम्। अन॒श्रवो॑ अनमी॒वाः सु॒शेवा॒ आरो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे॑^{(\८)}। ^{(\९)}यद॒ञ्जनं॑ त्रैककु॒दञ्जा॒तःँ हिम-

दद्महे पर्वतेन”^{(७)} इति। ‘इमं’ अश्मानं, ‘जीवेभ्यः’ जीवानाम्‌अर्थे, ‘परिधिं’ परिधानहेतुं, ‘दधामि’ स्थापयामि। ‘नः’ अस्माकं मध्ये, ‘अपरः’ यः कोऽपि, ‘एतं’ ‘अर्द्धं’ आयुषो भागं, ‘माऽनुगात्’ माऽनुगच्छतु। किन्तु ‘पुरूचीः’ विस्तृतिं गताः, ‘शरदः’ संवत्सरान्, ‘शतं जीवन्तु’। ‘पर्वतेन’ पर्वतसदृशेन पाषाणेन, ‘मृत्युं’, ‘तिरोदद्म- हे’ तिरोभूतं कुर्मः॥

कल्पः। अथैताः पत्नयो नयने सर्पिषा सम्मृशन्ति, इमा नारी- रिति। पाठस्तु। ^{(८)}“इमा नारीः ० योनिमग्रे”^{(८)} इति। ‘इमा नारीः’ एतास्त्रियः, ‘अविधवाः’ वैधव्यरहिताः, ‘सुपत्नीः’ शोभनप- तियुक्ताः सत्यः, ‘आञ्जनेन’ अञ्जनहेतुना, ‘सर्पिषा’, ‘सम्मृशन्तां’ चक्षुषी संस्पृशन्तु। ‘अनश्रवः’ अश्रुरहिताः, ‘अनमीवाः’ रोगरहिताः, ‘सुशेवाः’ सुष्ठु सेवितुं योग्याः, ‘जनयः’ जायाः, ‘अग्रे’ इतः परं, ‘योनिं’ स्वस्थानं, ‘आरोहन्तु’ प्राप्नुवन्तु॥

कल्पः। कुशतरुणकैस्त्रैककुदेनाञ्जनेनाङ्क्ते, यदाञ्जनमिति। पाठस्तु। ^{(९)}‘यदाञ्जनं त्रैककुदं ० अरातोर्जम्भयामसि’^{(९)} इति।

4 R 2

७१४ तैत्तिरीये आरण्यके

व॒तस्परि॑। तेनामृ॑तस्य मूले॒नारा॑तीर्जम्भयामसि^(९)॥
(१०)यथा॒ त्वमु॑द्भिन॒त्स्योष॑धे पृथि॒व्या अधि॑ ए॒वमि॒म उद्भि॑न्दन्तु की॒र्त्या यश॑सा ब्रह्मवर्च॒सेन॑^(१०)। (११)अ॒जोऽ-

‘हिमवतस्परि’ हिमवत्पर्वतस्योपरि, ‘जातं’ उत्पन्नं, ‘त्रैककुदं’ त्रिककुत्पर्वतसम्बन्धि, ‘यत्’ ‘आञ्जनं’, विद्यते। ‘अमृतस्य मूलेन’ सुखस्य कारणेन, ‘तेन’ अञ्जनेन, ‘अरातीर्जम्भयामसि’ शत्रून्विनाशयामः॥

कल्पः। अथैतानि कुशतरुणकानि समुच्चित्य दर्भस्तम्बे निदधाति, यथा त्वमिति। पाठस्तु। (१०)‘यथा त्वमुद्भिनत्स्योषधे ० यशसा ब्रह्मवर्चसेन’^(१०) इति। हे ‘ओषधे’ दर्भस्तम्ब, ‘पृथिव्याः’, उपरि ‘यथा त्वं’, ‘उद्भिनत्सि’ उत्पद्यसे, ‘एवं’, ‘इमे’ कुशाः, ‘कीर्त्यादिभिः सह ‘उद्भिन्दन्तु’ उत्पद्यन्तां। कीर्त्तियशसोः, लोकद्वयगतत्वेन भेदः॥

कल्पः। अजश्चैतदहः पचते यवौदनञ्च, अजोसीत्यजस्य प्राश्नीयात् इति। पाठस्तु। (११)“अजोसि ० द्वेषाꣳसि”^(११) इति। हे पक्वद्रव्य, त्वं ‘अजोसि’ अजसम्बन्ध्यसि, अतः ‘अस्मत्’, सकाशात्, ‘अघा’ पापानि, ‘द्वेषांसि’ वैराणि च, ‘अज’ ‘अपगमय’॥

कल्पः। यवौदनञ्च च प्राश्नाति, यवोसि इति। पाठस्तु।

६ प्रपाठके ११ अनुवाकः । ७१५

स्य॒जाऽस्म॒द्घा द्वेषाꣳ॑सि^{(११)}। ^{(१२)}यवो॑ऽसि यव॒याऽस्म॒द्घा द्वेषाꣳ॑सि^{(१२)}॥ २ ॥ स॒म्यार॑णे भव, जम्भयामसि॒, ची॒र्णि च॑ ॥ अनु० १० ॥


अथ एकादशोऽनुवाकः ।

^{(१)}अप॑ न॒: शोशु॑चद॒घमग्ने॑ शुशु॒ध्या र॒यिं । अप॑ न॒:


^{(१२)}"यवोऽसि ॰ द्वेषाꣳसि^{(१२)} इति । हे ओदन त्वं 'यवोऽसि' यवसम्बन्ध्यसि, अतः 'अस्मत्तः सकाशात्, अघा' पापानि, 'द्वेषांसि' वैराणि च, 'यवय' पृथक् कुरु ॥

इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके षष्ठप्रपाठके दशमोऽनुवाकः ॥ १० ॥


अथ एकादशोऽनुवाकः ।

पूर्वानुवाके मृत्यवे स्वाहेति यो होम उक्तः, तदनन्तरमेवैतैर्मन्त्रैर्द्वादश सुवाहुतीर्जुहुयात् । तत्र प्रथमं मन्त्रमाह । ^{(१)}"अप नः शोशुचत् ॰ शोशुचदघं"^{(१)} इति । पूर्वानुवाके व्याख्यातो मन्त्रः ॥

७१६तैत्तिरीये आरण्यके

शोशु॑चद॒घं⁽१⁾ । ⁽२⁾सु॒क्षे॒त्रिया सु॑गा॒तुया व॑सू॒या च॑ यजामहे । अप॑ नः शोशु॑चद॒घं⁽२⁾ । ⁽३⁾प्र यद्भन्दि॑ष्ठ ए॒षां प्रास्माका॑सश्च सू॒रय॑ः । अप॑ नः शोशु॑चद॒घं⁽३⁾ । ⁽४⁾प्र यद॑ग्नेः सह॑स्वतो॒ विश्व॑तो यन्ति सू॒रय॑ः । अप॑ नः शोशु॑चद॒घं⁽४⁾ । ⁽५⁾प्र यत्ते॑ अग्ने सू॒रयो॒ जाये॑महि॒ प्र ते॑ व॒यं । अप॑ नः शोशु॑चद॒घं⁽५⁾ ॥ १ ॥


अथ द्वितीयमाह । ⁽२⁾"सुक्षेत्रिया सुगातुया ॰ शोशुचदघं"⁽२⁾ इति । 'सुक्षेत्रिया' शोभनक्षेत्रयोग्यया, 'सुगातुया' शोभनगतियोग्यया, 'वसूया च' धनप्राप्तिहेतुभूतयापि, अनया आहुत्या 'यजामहे' पूजयामः । अप न इत्यादि पूर्ववत् ॥

अथ तृतीयमाह । ⁽३⁾"प्र यद्भन्दिष्ठ ॰ शोशुचदघं"⁽३⁾ इति । 'यत्' यदा, 'एषां' ज्ञातीनां, 'भन्दिष्ठः' अतिशयेन भद्रः पुरुषार्थः, प्राप्यते, तदानीं 'आस्माकासः' अस्मत्सम्बन्धिनः, 'सूरयश्च' विद्वांसोऽपि, पुत्रपौत्रादयः, प्राप्नुवन्तां ॥

अथ चतुर्थमाह । ⁽४⁾"प्र यदग्नेः ॰ शोशुचदघं"⁽४⁾ इति । यच्छब्दः प्रसिद्धवाची । 'यत्' प्रसिद्धाः, 'सूरयः' विद्वांसः, 'सहस्वतः' बलवतः, 'अग्नेः', सकाशात्, 'प्रयन्ति' प्रकर्षेण प्राप्नुवन्ति ॥

अथ पञ्चममाह । ⁽५⁾"प्र यत्ते अग्ने ॰ शोशुचदघं"⁽५⁾ इति । हे 'अग्ने', वयं 'ते' तव, 'यत्' प्रसिद्धाः, 'सूरयः', 'ते' त्वदीयाः,

६ प्रपाठके ११ अनुवाकः। ७१७

(६)त्वꣳ हि वि॑श्वतो॑मुख वि॒श्वतः॑ परि॒भूरसि॑ । अ॒प॒ नः॒ शोशु॑चद॒घं(६) । (७)द्विषो॑ नो वि॒श्वतो॑मुखाऽति॑ ना॒वेव॑ पारय । अ॒प नः॒ शोशु॑चद॒घं(७) । (८)स नः॑ सिन्धु॑मि- व ना॒वयाऽति॑पर्षा स्व॒स्तये॑ । अप॑ नः॒ शोशु॑चद॒घं(८) ।


प्राप्ताः, अतः, 'वयं', अपि, 'ते' त्वदीयाः, 'प्रजायेमहि' 'प्रक- र्षेण भूयास्म* ॥

अथ षष्ठमाह । ^{(६)}“त्वꣳहि विश्वतोमुख ॰ शोशुचदघं”^{(६)} इति । हे 'विश्वतोमुख' सर्वतो ज्वालायुक्त अग्ने, 'त्वं', 'विश्वतः' सर्वत्र, 'परिभूरसि' वैरिणां परिभवसि ॥

अथ सप्तममाह । ^{(७)}“द्विषो नो विश्वतोमुख ॰ शोशुचदघं”^{(७)} इति । हे अग्ने 'नः' अस्माकं, 'द्विषः' द्वेषिणः, 'मुखा' मुखानि, 'वि- श्वतः' सर्वस्माद्देशात्, 'अतिपारय' अतीत्य परतो नय। तत्र दृष्टान्तः। 'नावेव' यथा नावा परतस्तारयन्ति तद्वत् । यद्वा हे 'विश्वतोमुख' अग्ने, 'द्विषः' शत्रून्, 'अतिपारय', इति व्याख्येयं ॥

अथाष्टममाह । ^{(८)}“स नः सिन्धुमिव ॰ शोशुचदघं”^{(८)} इति । हे अग्ने 'सः' त्वं, 'नः' अस्माकं, 'स्वस्तये' क्षेमाय, 'अतिपर्ष' दुः- खजातमतीत्य परतः प्रापय । तत्र दृष्टान्तः, 'नावया सिन्धुमिव' यथा लोके नावा समुद्रन्तारयन्ति तद्वत् ॥


* हे अग्ने ये वयं ते तव सूरय स्तोतृनामैतत् प्रकर्षेण स्तोतारः । यच्छब्दश्रुतेस्तच्छब्दोऽध्याहर्त्तव्यः । ते वयं प्रजायेमहि प्रजां प्राप्नुयाम,तव प्रसादेन तव स्वभूता इति K चिह्नितपुस्तकपाठः ।

७१८ तैत्तिरीये आरण्यके

$^{(९)}$आपः॑ प्रव॒णादि॑व य॒तीर॒पास्मत्स्य॑न्दताम॒घं । अप॑ नः शोशु॑चद॒घं$^{(९)}$। $^{(१०)}$उ॒द॒नादु॑दका॒नीवा॒पास्मत्स्य॑न्दताम॒घं । अप॑ नः शोशु॑चद॒घं$^{(१०)}$॥ $^{(११)}$आन॒न्दाय॑ प्रमो॒दाय॑ पुनरागाँ॒स्वान् गृ॒हान् । अप॑ नः शोशु॑चद॒घं$^{(११)}$। $^{(१२)}$न वै तच् प्रमी॑यते॒ गौरश्वः॒ पुरु॑षः प॒शुः ।


अथ नवममाह। $^{(९)}$“आपः प्रवणादिव ॰ शोशुचदघं”$^{(९)}$ इति। ‘प्रवणात्’ निम्नदेशात् निमित्तभूतात्, ‘यतीः’ गच्छन्त्यः, * ‘आप इव’, ‘अस्मत्तः सकाशात्, ‘अघं’ पापं, ‘अपैत्य’ ‘स्यन्दन्तां’ प्रवाहरूपेण गच्छतु॥

अथ दशममाह। $^{(१०)}$“उदनादुदकानीव ॰ शोशुचदघं”$^{(१०)}$ इति। ‘उदनात्’ उन्नतप्रदेशस्थादनात् सकाशात्, अधः कुल्यया समागतानि ‘उदकानि’, यथा निम्नदेशं प्रति स्यन्दन्ते। तथा अस्मत्तः सकाशात्, ‘अघं’ अपेत्य ‘स्यन्दतां’ ॥

अथैकादशमाह। $^{(११)}$“आनन्दाय ॰ शोशुचदघं”$^{(११)}$ इति। ‘आनन्दाय’ मरणाभावनिमित्तसन्तोषाय, ‘प्रमोदाय’ विषयभोगनिमित्तप्रकृष्टहर्षाय, ‘पुनः’, अपि स्वकीयान् ‘गृहान्’, प्रति ‘आगां’ आगतोऽस्मि ॥

अथ द्वादशमाह। $^{(१२)}$“नवै तत्र प्रमीयते ॰ शोशुचदघं”$^{(१२)}$इति। ‘यत्र’ यस्मिन् देशे, ‘इदं ब्रह्म’ पूर्वोक्तं होममन्त्रजातं,


* निर्गता इति K चिह्नितपुस्तकपाठः ।

६ प्रपाठके १२ अनुवाक । ७१६

यचे॒दं ब्रह्म॑ क्रिय॒तै परि॑धिर्जी॒वना॑य॒ कमप॑ न॒ः
शोशु॑चद॒घं^(१९) ॥ २ ॥
अ॒घं, अ॒घं, च॒त्वारि॑ च ॥ अनु० ११ ॥


अथ द्वादशोऽनुवाकः ।

^(१)अप॑श्याम यु॒वति॒माच॑रन्तीं मृ॒ताय॑ जी॒वां परि॑णी-


'जीवनाय' जीवनार्थं, 'कं' सुखं, यथा भवति तथा, 'परिधिः' परिधानं क्रियते। 'तत्र' देशे, 'गौः', 'अश्वः', वा 'पुरुषः', अन्यो वा 'पशुः', 'न' एव 'प्रमीयते' सर्वथा न म्रियते। अतस्तदर्थं 'नः' अस्मदीयं, 'अघं', 'अपशोशुचत्' अपेत्य दग्धं भवतु ॥

इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके षष्ठप्रपाठके एकादशोऽनुवाकः ॥ ११ ॥

अथ द्वादशोऽनुवाकः ।

राजगव्या हननमुत्सर्गश्चेति द्वौ पक्षौ, तत्र हननपक्षे मन्त्राः पूर्वमेवोक्ताः, अथोत्सर्गपक्षे मन्त्रा उच्यन्ते । कल्पः । यद्युत्सृजन्ति, अपश्याम युवतिमाचरन्तीं, सस्वा नः स्वस्तये इत्येताभिः तिसृभिः प्रसव्यं राजगवीमग्नीन् प्रेतं दारुचितिं च परिणीयेत । तत्र प्रथमामाह । ^{(१)}“अपश्याम युवतिमाचरन्तीं ०

७२० तैत्तिरीये आरण्यके

यमा॑नां॑ । अन्धे॑न॒ या तम॑सा॒ प्रावृ॑ता॒ऽसि॒ प्राची॑म॒वा- ची॑मवयन्नरि॑ष्यै ॥ १) । ⁽२⁾मयै॒तां मा॑ꣳस्तां॑ भ्रियमा॑णा दे॒वी स॒ती पि॑तृलो॒कं यदैषि॑ । वि॒श्ववा॑रा॒ नभ॑सा॒ संव्य॑यन्त्यु-


अवाचीमवयन्नरिष्यै"⁽१⁾ इति । 'मृताय' मृतपुरुषार्थं, 'परिणीय- मानां', 'जीवां' जीवन्तीं, 'युवतीं' यौवनवत्पुष्टाङ्गीं, युवतिलेन भावितां वा वृद्धां, 'आचरन्तीं' आगच्छन्तीं, राजगवीं वयं 'अ- पश्याम'। 'या' राजगवी त्वं, 'अन्धेन तमसा' जरातिशयेन* मरणभीत्या वा दृष्टिप्रसारणाभावेन अत्यन्तनिबिडेन तमसा, 'प्रा- वृता', भवसि। 'अरिष्यै' अहिंसार्थं, 'प्राचीं' प्राङ्मुखीं, 'अवाचीं' अवाङ्मुखीं, तां राजगवीं, 'अवयन्' वयं अवैमः, जानीमः ॥

अथ द्वितीयामाह । ⁽२⁾"मयैतां माꣳस्तां ० पयसा वृणीहि"⁽२⁾ इति । 'मया', 'भ्रियमाणा' प्रपोष्यमाणा, राजगवी, 'एतां' रक्षितां त्वां, 'माꣳस्तां' मन्यतां, अहमनेन रक्षिता नतु मरिष्यामि इ- त्येवं निश्चिनोत्वित्यर्थः । हे राजगवि 'यत्' यस्मात्कारणात्, अनेनोपाकरणमात्रेण 'देवी' देवतात्मिका, 'सती', 'पितृलोकं', प्रति 'ऐषि' आगच्छसि । 'विश्ववारा' सर्वैर्वरणीया, प्रार्थनीया, 'नभ- सा' आकाशमार्गेण, 'संव्ययन्ती' द्युलोकं संवृण्वती, हे राजगवि तथाविधा त्वं 'नः' अस्माकं, 'उभौ लोकौ' एतल्लोकपरलोकौ,


* अन्धकारातिशयेनेति K चिह्नितपुस्तकपाठः ।

६ प्रपाठके १२ अनुवाकः। ७२१

भौ नौ लो॒कौ पय॑सा पृणीहि॑^(२) । ^(३)र॒यिष्ठाम॒ग्निं मधु॑म- न्तमु॒र्मिण॑मू॒र्जस्व॑न्तं त्वा॒ पय॑सोपसँसदेम । सँ र॒य्या समु॒ वर्च॑सा सच॑स्वा नः स्व॒स्तये॑^(३) । ^(४)ये जी॒वा ये च॑ मृ॒ता ये जा॒ता ये च॒ जन्या॑: । तेभ्यो॑ घृ॒तस्य॑ धार-


'पयसा' क्षीरेण, उभा'पृणीहि' आवृत्तौ कुरु, क्षीरपूर्णौ कुरु इत्यर्थः ॥

अथ तृतीयामाह । ^(३)“रयिष्ठामग्निं ० सचस्वा नः स्वस्तये”^(३) इति । हे अग्ने, वयं त्वां 'अग्निं', 'पयसा' पयोमु- ख्यभोग्यद्रव्यनिमित्तं, 'उपसँसदेम' समीपे सम्यक् प्राप्नुयाम । कीदृशमग्निं, 'रयिष्ठां' धने अवस्थितं, धनप्रदमित्यर्थः । 'मधुमन्तं' मधुरद्रव्ययुक्तं, 'ऊर्मिणं' उत्कर्षयुक्तं, 'ऊर्जस्वन्तं' बलवन्तं । हे अग्ने 'स्वस्तये' क्षेमार्थं, 'नः' 'अस्मान्,' 'रय्या' धनेन, 'संसृजख' सम्य- ग्योजय, 'वर्चसा' कान्त्यापि, सँसचस्व ॥

कल्पः । ये जीवा इत्यभिमृश्य, इति। पाठस्तु । ^(४)“ये जीवा ये च ० मधुधारा व्युन्दतो”^(४) इति । 'ये जीवाः' अस्मत्कुले जीवन्तो ये पुरुषाः सन्ति, 'ये च मृताः', सन्ति, 'ये', अपि इदानीं 'जाताः' उत्पन्नाः, 'ये च जन्याः' इतः परं जनयितव्याः, 'तेभ्यो धारयितुं' तान् सर्वान् पोषयितुं, 'घृतस्य', सम्बन्धिनी 'मधुधारा'

482

७२४ तैत्तिरीये आरण्यक

प्र॒व॒णात्, उ॒द॒नात्, आ॒न॒न्दाय॑, न व॒ तच्च॑, चतु॑र्विꣳश- तिः(११) ॥ अप॑श्याम्, ईणी॒हि, द्वाद॑श। द्वाद॑श (१२) ॥ परे॑ यु॒वाꣳसं॑,आया॑तुः ए॒तास्ते॑ स॒प्तवि॑ꣳशतिः (२७) ॥ ॐ तत्सत्। सन्त्वा॑ सिञ्चामि॒ यजु॑षा प्र॒जामायु॒र्धनं॑ च। ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑। हरिः ॐ॥

भक्षयतु । 'ओम्' वयमङ्गीकुर्मः । 'उत्सृजत' हे जनाः बद्धामेनां राजगवीं परित्यजत ॥

यो दर्शपूर्णमासादिपितृमेधान्त ईरितः।
कर्मकाण्डः समग्रोयं व्याख्यातो बालबुद्धये ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरार- ण्यके षष्ठप्रपाठके द्वादशोऽनुवाकः ॥ १२ ॥

समाप्तश्च षष्ठप्रपाठकः ॥

तैत्तिरीयं आरण्यके

सप्तमप्रपाठके प्रथमोऽनुवाकः ॥


हरिः ॐ ।

शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा ।
शं न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शन्नो॒ विष्णु॑रुरुक्र॒मः ।
नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्र-
ह्मा॑सि । त्वामे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि । ऋ॒तं व॑दि-
ष्यामि । स॒त्यं व॑दिष्यामि ॥ तन्माम॑वतु । तद्व॒क्तार॑म-
वतु । अव॑तु॒ मां । अव॑तु व॒क्तारं॑ । ॐ शा॒न्तिः शा॒न्तिः॒
शा॒न्तिः॑ ॥ १ ॥

सत्यं वदिष्यामि, पञ्च च ॥ अनु० १* ॥


अथ द्वितीयोऽनुवाकः ।

ॐ शीक्षां व्या॑ख्यास्यामः॑ । वर्णः॒ स्वरः॑ । मा॒त्रा
बल॑म् । साम॑ सन्ता॒नः । इत्युक्तः शीक्षाध्या॒यः ॥ १ ॥


* पूर्व्वपठितानुवाकेषु शान्तिमन्त्रा अनुवाकेषु न गणिताः । अत्र तु तद्विपरीतम् ॥

७२६ तैत्तिरीये आरण्यके

शीक्षां, पञ्च॑ ॥ अनु० २ ॥


अथ तृतीयोऽनुवाकः ।

सह॒ नौ॒ यशः॑ । सह॒ नौ ब्र॑ह्मव॒र्चसं॑ । अथातः॒ सꣳहि॑ताया उपनिषदं॑ व्याख्यास्यामः॑ । पञ्चस्वधिक॑रणे॒षु । अधिलोकमधिज्यौतिष*म॑धिविद्यमधिप्र॒जम॑ध्यात्मं । ता महासꣳहिता इत्याच॑क्षते । अथा॑धिलो॒कं । पृथि॒वी पूर्वरू॒पं । द्यौरुत्त॑ररू॒पं । आ॒काशः॑ स॒न्धिः ॥ १ ॥

वा॒युः स॒न्धानं॑ । इत्य॑धिलो॒कं । अथाधिज्यौतिषं॑* । अ॒ग्निः पूर्वरू॒पं । आदित्य उत्त॑ररू॒पं । आपः॑ स॒न्धिः । वैद्यु॒तः स॒न्धानं॑ । इत्य॑धिज्यौतिषं॑* । अथा॑धिवि॒द्यं । आचार्यः पूर्वरू॒पं ॥ २ ॥

अन्तेवास्युत्त॑ररू॒पं । वि॑द्या स॒न्धिः । प्रवच॑नꣳ सन्धानं॑ । इत्य॑धिवि॒द्यं । अथाधिप्र॒जं । माता पूर्वरू॒पं । पि॒तोत्त॑ररू॒पं । प्र॒जा स॒न्धिः । प्र॒जननं॑ꣳ स॒न्धानं॑ । इत्य॑धिप्र॒जं ॥ ३ ॥

अथा॑ध्या॒त्मं । अध॑रा॒ हनुः पूर्वरू॒पं । उत्तरा॒ हनुरुत्त॑ररू॒पं । वाक् स॒न्धिः । जिह्वा॑ स॒न्धानं॑ । इत्य॑ध्या-


* अधिज्यौतिषमिति सर्वत्र B, J, चिह्नितपुस्तकद्वयपाठः।