तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
श्लोक ७६ ] प्रथमाह्निकम् । ११९ त्यक्षविषयत्वमप्यस्ति , अन्यथा तत्पृष्ठभाविनो बुभुक्षेयम् इति विकल्पस्योदयो न स्यात् । सवि- कल्पकमानसप्रत्यक्षविषयत्वेऽप्यासां न कश्चिद्दोषः , तस्य वस्वाश्रयत्वेन प्रमाणत्वाभ्युपगमात् । एवं शिवोऽपि मानसप्रत्यक्षगोचरो भवत्येव, किं तु शक्तिद्वारेण इति विशेषः । यदुक्तं तत्रैवोत्तरग्रन्थे * ‘क्षुधाद्यनुभवो यत्र विकल्पस्तत्र नो भवेत् । वस्वाश्रयो विकल्पोऽपि तद्वस्तु घटवन्न च ॥ विकल्पो मानसः सूक्ष्मः शून्यशक्तिलयं गतः । तद्गतस्त्वन्यविच्छिन्नस्तेनासौ चित्तवर्जितः ॥ ज्ञानं चात्मेन्द्रियाश्लेषात्कर्ता ह्यात्मा मनः क्रिया । शिवः साध्योऽत्र मन्तव्यो विभुरप्येकधर्मतः ॥’ इति । यत्तु अस्य शून्यत्वमुक्तं तन्मायाक्षयोपचा- रेण तद्धर्मैः परिणामित्वादिभिः शून्यत्वाच्छून्यम्
- यदुक्तं, तस्य चार्थासंस्पर्शीत्वं रूपमिति तन्निर्दलयति, तत्र न्यायमाह वस्वा- श्रयत्वेनेत्यादि । विकल्पस्तत्र नो भवेदिति वस्वाश्रय इति हेतुत्वेनोक्तः , यदि वस्वाश्रयत्वं तर्हि घटवत् किं न प्रतिभासते, इत्यतो घटवन्न च इत्युक्तम् , तत्र हेतुः विकल्पो मानस इत्यादि । पं० ३ ख० पु० मानसप्रत्यक्षगोचरत्वे इति पाठः । पं० ५ क० पु० मानसगोचरो भवेत् इति पाठः । पं० १३ क० ग० पु० यस्त्वस्येति, मायापेक्षोपचारेणेति च पाठान्तरमस्ति ।
१२० श्रीतन्त्रालोकः । इत्युक्तम् । अन्यापेक्षया तु तदशून्यमेवेत्यर्थावाप्तम् । अतश्च शिवं शक्तिद्वारेण ज्ञात्वा दैशिकस्तत्र दीक्षया दीक्ष्यं योजयति इति न काचित्क्षतिः ॥७६॥ ननु सर्वात्मनार्थो ज्ञातो ज्ञातो भवति न तु अंशेन, विकल्पश्च सर्वात्मना अर्थं ज्ञातुं न शक्नोति- नियतांशाभिनिवेशित्वात् तस्य, अतः शिवस्तेन शक्तिद्वारेण विषयीकृतोऽपि सर्वात्मना तद्गोचरी- भावाभावान्न ज्ञातः इति प्रश्नशेषमाशङ्क्याह रसाद्यनध्यक्षत्वेऽपि रूपादेव यथा तरुम् । विकल्पो वेत्ति तद्वत्तु नादबिन्द्वादिना शिवम् ॥७७॥ विकल्पः अत्र निर्विकल्पकपृष्ठभावी ग्राह्यः । तेन स १ तरुं रूपरसाद्यात्मकमपि रूपाद्यात्मनैव गृह्णाति न रसाद्यात्मनापि निय २ तत्त्वात्तद् ३ ग्रहणस्य, १ स, विकल्पः । २ रसस्य हि जिह्वेन्द्रियास्वादेनैव ज्ञानं, रूपस्य तु चक्षुषैवेति । ३ रसरूपादेरित्यर्थः । पं० १ ख० पु० अन्यापेक्षया त्वतदिति अतश्चेतीयानेव पाठः । पं० ६ क० पु० नियताभिनिवेशित्वादिति पाठः ।
श्लोक ७७ ] प्रथमाह्निकम् । १२१ नहि सर्वात्मत्वेन अगृहीतत्वाद् अगृहीत एवासौ इति वक्तुं युज्यते अनुभवविरोधात् । तद्वत् नादबिन्द्वाद्यात्मकशक्तिद्वारेण शिवोऽपि ज्ञात एव भवति इति सिद्धान्तः । तदुक्तं तत्रैव 'प्रत्यक्षेण यथा वृक्षो रूपमात्राद्विगृह्यते । रसादयो गृहीता नो तथेशो ज्ञानशक्तितः ॥ गृह्यते तत्स्वभावेन वस्तुभावविवर्जनात् ।' इति । तथा 'बिन्दुर्नादस्तथा शक्तिः शून्यत्वे परिकल्पिताः । चेतसः स्थितिहेत्वर्थं पुनर्नित्यं स्थिरं भवेत् ॥ अतीन्द्रियः सुसूक्ष्मत्वात्सूक्ष्मा शक्तिः स तद्गतः । ज्ञानशक्तिर्मता सापि तज्ज्ञानाज्ज्ञात एव सः ॥' इति । एवं शक्तिरेव परतत्त्वाधिगमे परमुपायः इति सिद्धम् । सा च भुवनादिरूपतया अनन्त- प्रकारा इत्युक्तप्रायम् ॥७७॥ एवं यत्किंचन जडाजडात्मकविश्ववैचित्र्यं, यच्च तद्विषयं सृष्ट्यादि जाग्रदाद्यवस्थादि वा तत्सर्वं परमेश्वरस्य शक्तिस्फार एव इत्याह पं० १७ क० पु० जाग्रदवस्थादि इति पाठः । १६
१२२ श्रीतन्त्रालोकः । बहुशक्तित्वमस्योक्तं शिवस्य यदतो महान् । कलातत्त्वपुरार्णा¹णु²- पदादिभेदविस्तरः ॥७८॥ सृष्टिस्थितितिरोधान- संहारानुग्रहादि च । तुर्यमित्यपि देवस्य बहुशक्तित्वजृम्भितम् ॥७९॥ जाग्रत्स्वप्नसुषुप्तान्य- तदतीतानि यान्यपि । तान्यप्यमुष्य नाथस्य स्वातन्त्र्यलहरीभरः ॥८०॥ महामन्त्रेशमन्त्रेश- मन्त्राः शिवपुरोगमाः । अकलौ सकलश्चेति शिवस्यैव विभूतयः ॥८१॥ १ अर्णः वर्णाध्वा, २ अणुः मन्त्राध्वा । पं० ७ ग० पु० उक्तमित्यपीति पाठः । पं० ६ ख० पु० सुषुप्तानि तदतीतानीति पाठः ।
श्लोक ८२ ] प्रथमाह्निकम् । १२३ पदादि इति आदिशब्देन भूतभावग्रहणम् । सृष्टिस्थिती इत्यनेन कृत्यभेद उक्तः । तुर्यमित्य- न्यच्छब्दवाच्यं सृष्ट्यादीनामन्तर्वर्ति पूर्णं रूपम् । अनेन चतुष्टयार्थस्यापि आसूत्रणं कृतं, तेन स्थितौ संहारे तिरोधानानुग्रहयोरन्तर्भावः कार्यो येनैत- त्स्यात्, अन्यत्तुर्यं, जाग्रत्स्वप्न इत्यनेन अवस्थाभेद उक्तः । अकलौ इति विज्ञानाकलप्रलयाकलौ । अनेन प्रमातृभेदः ॥७८॥७६॥८०॥८१॥ तदेवं वैचित्र्यभाजः षट्त्रिंशत्तत्त्वात्मकस्य जगत- श्चिदानन्दैकघनः परमार्थः शिव एवानुप्राणकतया वर्तते इत्याह तत्त्वग्रामस्य सर्वस्य धर्मः स्यादनपायवान् । आत्मैव हि स्वभावात्मे- त्युक्तं श्रीत्रिशिरोमते ॥८२॥ पं० २ क० पु० इत्यन्यशब्दवाच्यमिति पाठः । पं० ४ क० पु० चतुष्टयस्याप्यासूत्रणमिति पाठः । पं० १० ख० पु० परमात्मा शिव इति पाठः । पं० १२ क० पु० तत्त्वग्रामस्य शार्वस्येति पाठः ।
१२४ श्रीतन्त्रालोकः । द्विविधो हि धर्मः पदार्थस्य-प्राणप्रदो विशेषाधान- हेतुश्च । आद्यो यथा सामान्यं, नहि गोत्वमन्तरेण गौः गौरेव भवति । द्वितीयो यथा गुणः, शुक्ला- दिर्हि लब्धसत्ताकं वस्तु विशिनष्टि । एवमिह आत्मैव तत्त्वसमूहस्य प्राणप्रदत्वात् स्वभावभूतो धर्मः अत एव अनपायवान् नित्यावियुक्तः इत्युक्तम् । हि शब्दो हेतौ । नन्वत्र किं प्रमाणम् इत्याश- ङ्क्योक्तम् ‘इत्युक्तं त्रिशिरोमत’ इति ॥८२॥ तत्रत्यमेव ग्रन्थं शास्त्रस्य शब्दार्थरूपतया द्वैविध्येन प्रवृत्तेरुभयथाप्याह हृदिस्थं सर्वदेहस्थं स्वभावस्थं सुसूक्ष्मकम् । सामूह्यं चैव तत्त्वानां ग्रामशब्देन कीर्तितम् ॥८३॥ समूह एव सामूह्यम् । ग्रामशब्दो हि समूहार्थ- वृत्तिः । ‘कवलीकृतनिःशेषतत्त्वग्रामस्वरूपकम् ।’ इत्यादिप्रयोगदर्शनात् । तच्च सर्वत्र बाह्ये देहे पं० १४ क० पु० ग्रामशब्दोऽपि इति पाठः ।
श्लोक ८४ ] प्रथमाह्निकम् । १२५ चान्तः साधारणासाधारणतया द्वैविध्येन वर्तमानम् इत्यर्थः । अत एव स्वभावे स्थावरजङ्गमाद्यात्मनि नियते रूपे स्थितम् । एवमपि हृदि बोधे स्थितं, तदैकात्म्येन परिस्फुरत् इति यावत्, अत एव सुसूक्ष्मम् अपरिच्छेद्यम् ॥८३॥ तत्त्वग्रामस्य चास्य न संकुचित आत्मः धर्मः, अपि तु परः इत्याह आत्मैव धर्म इत्युक्तः शिवामृतपरिप्लुतः । शिवामृतपरिप्लुतः इति परानन्दचमत्कारमयः इत्यर्थः। एवं स एव परमुपेयः इति तत्रैवावधातव्यम् इत्यपि सूचितम् । कश्च अत्र उपायो, येनैतत्साक्षात्कारो भवेत् इत्याह पं० ४ ख० पु० ऐकात्म्येन स्फुरदिति पाठः । पं० १० ख० पु० शिवानन्दपरिप्लुतपरमानन्दचमत्कारमय इति पाठः ।
प्रकाशावस्थितं ज्ञानं
१२६ श्रीतन्त्रालोकः । प्रकाशावस्थितं ज्ञानं भावाभावादिमध्यतः ॥८४॥ स्वस्थाने वर्तनं ज्ञेयं द्रष्टृत्वं विगतावृति । विविक्तवस्तुकाथित- शुद्धविज्ञाननिर्मलः ॥८५॥ ग्रामधर्मवृत्तिरुक्त- स्तस्य सर्वं प्रसिद्ध्यति । आदिशब्दाद्भावोऽपि, तेन भावाभावयोः भावयोर्वा यत् मध्यम् अन्तरालं तदवलम्ब्य प्रकाशे स्वात्मन्येव, न पुनर्भावाभावादिस्वरूपे अवस्थितं यत् ज्ञानं, तस्य स्वस्य आत्मनः स्थाने स्थितौ वर्तनं ज्ञेयं-ग्रामधर्मविषये वृत्तिर्ज्ञा- तव्या इत्यर्थः । इदमत्र तात्पर्यम् — भावद्वयस्य भावाभावयोर्वा प्रतीतिकाले मध्यं तद्द्वयावच्छेदहेतुं शून्यमुपलभ्य तद्भावाभावादि युगपत्त्यक्त्वा तत्रैव पं० १० क० पु० तद्वलब्धप्रकाशं स्वात्मन्येव न पुनर्भावस्वरूपे इति पाठः ।
श्लोक ८६ ] प्रथमाह्निकम् । १२७ सावधानस्य परमोपेये शिवामृतपरिप्लुते परमा- त्मनि वृत्तिर्जायते इति । तदुक्तं 'उभयोर्भावयोर्ज्ञाने ज्ञात्वा मध्यं समाश्रयेत् । युगपच्च द्वयं त्यक्त्वा मध्ये तत्त्वं प्रकाशते ॥ भावे त्यक्ते निरुद्धा चिन्नैव भावान्तरं व्रजेत् । तदा तन्मध्यभावेन विकसत्यति भावना ॥' इति । ज्ञेयम् इति काकाक्षिन्यायेन योज्यम् । तेन वर्तनमपि परमार्थसाक्षात्काररूपं द्रष्टृत्वं ज्ञेयम्, तच्च विगतावृत्ति विगता निवृत्ता भावाभावाद्यात्मकबाह्यरूपा आवृत्तिः यस्य तत्, बाह्यदेशाद्यवच्छेदशून्यम् इति यावत् । अथ च विगता परापरात्मना कालेन रहिता कलनात्मिका आवृत्तिः यस्य तत्, अकालकलितम् इत्यर्थः । तदुक्तं 'अपरः षोडशो यावत्कालः सप्तदशः परः । परापरस्तु यः कालः स प्रियेऽष्टादशः प्रभुः ॥ प्राण एकं त्रिधा कालं कृत्वा चैव त्यजेत्पुनः ।' पं० ३ क० पु० भावेन्यक्ते परमे शिवेति पाठः पं० ५ ख० पु० भावे न्यक्ते निरुद्धा चेदिति पाठः ।
१२८ श्रीतन्त्रालोकः । इति । तथा विगता पदैकादशकात्मिका आवृत्तिः यस्य तत्, तत्प्रतिनियततत्तद्ब्रह्मायाकारोज्झितम् इति यावत् । यदुक्तं ‘पदैकादशिका सा च प्राणे चरति नित्यशः । अकारश्च उकारश्च मकारो बिन्दुरेव च ॥ अर्धचन्द्रो निरोधी च नादो नादान्त एव च । शक्तिश्च व्यापिनी चैव समनैकादशी स्मृता ॥’ इति । अत एव च उन्मनाभिन्नप्रमातृरूपं परमार्थ- साक्षात्कारलक्षणमेतद्भवति इति पिण्डार्थः । तदुक्तं ‘उन्मना तु ततोऽतीता तदतीतं निरामयम् ।’ इति । अत एव तत्तद्देशकालाकारैः विविक्तम् अवच्छेदशून्यं यत् वस्तु महासत्तात्म परं तत्त्वं, तत्र कथितं सर्वागमेषु अविगानेन उक्तं यत् शुद्धं पराहंपरामर्शमयं विज्ञानं तेन निर्मलः तदैकात्म्या- पत्त्या खिलीकृतनिखिलबन्धो ग्रामधर्मवृत्तिः ‘भैरवाद्भैरवीं प्राप्तः ............ ।’ पं० १६ क० ख० पु० भैरवीप्राप्त इत्युक्तेरिति पाठः ।
प्रकाशावस्थितं ज्ञानं भावाभावादिमध्यतः ॥
श्लोकः ८५] प्रथमाह्निकम्। १२९ इत्याद्युक्तेरस्मद्गुरुभिरप्युक्तः इति श्रीकण्ठस्ये- यमुक्तिः । तदुक्तं तत्र 'चतुर्थं संप्रवक्ष्यामि ग्रामधर्मविभेदतः।' इत्याद्युपक्रम्य 'हृदिस्थं सर्वदेहस्थं स्वभावस्थं सुसूक्ष्मकम् । सामूह्यं चैव तत्त्वानां ग्रामशब्देन कीर्तितम् ॥ आत्मा वै धर्म इत्युक्तो ग्रामधर्मः प्रकीर्तितः । प्रकाशावस्थितं ज्ञानं भावाभावादिमध्यतः ॥ स्वस्थाने वर्तनं ज्ञेयं वर्तनं वृत्तिरुच्यते । वृत्तिस्तु स्वपदं ज्ञात्वा द्रष्टृत्वं परिपठ्यते ॥ प्रबुद्धं तद्विजानीयाद्बाह्यावरणवर्जितम् । परापरविनिर्मुक्तमेकादशपदोञ्झितम् ॥ स्वात्मन्यात्मनि यज्ज्ञानं शिवामृतपरिप्लुतम् । विविक्तवस्तुकथितशुद्धविज्ञाननिर्मलः ॥ ग्रामधर्मवृत्तिरुक्तस्तन्त्रेऽस्मिन्सर्वथोदितः ।' इति । एतदेव च 'अथ वा शिवमन्विच्छेदत्साधकः परतत्त्ववित् ।' इत्यादि 'स्थितिः कार्या तु तत्त्वस्था मध्यशक्तिप्रभान्विता ।' पं० ६ ग० पु० सामूह्यं सर्वतत्त्वानामिति पाठः । पं० ७ क० पु० आत्मैव धर्म इत्युक्तो ग्रामो धर्म इति पाठः । १७
१३० श्रीतन्त्रालोकः । इत्यन्ततत्रत्यग्रन्थार्थगर्भीकारेण ग्रन्थान्तरमुपक्षे- प्तुकामो ग्रन्थकारः स्वोक्त्या योजयति 'तस्य सर्वं प्रसिद्धयति' इति–तस्य ग्रामधर्मवृत्तेः प्राणापानग- तित्रोटनेन मध्यधामानुप्रवेशात् प्राप्तपरशक्तिसामर- स्यस्य सर्वं बाह्यमाभ्यन्तरं च प्रकर्षेण शिवाभेदम- यत्वेन सिद्धयति प्रथते इत्यर्थः । तदुक्तं 'शिवभावनयौषध्या बद्धे मनसि संसृते । काष्ठकुड्यादिषु क्षिप्ते रसवच्छ्लवहेमता ॥' इति ॥८४॥८५॥ अत आह ऊर्ध्वं त्यक्त्वाधो विशेत्स रामस्थो मध्यदेशगः ॥८६॥ ऊर्ध्वम् इति ऊर्ध्ववाहित्वात्प्राणम्, अध इति अधोवाहित्वादपानं, त्यक्त्वा इति तद्गतिं त्रोट- यित्वा, स ग्रामधर्मवृत्तिरर्थात् मध्यनाडीं प्रविशेत् । स च कीदृशः मध्यदेशगः मध्यनाडिकाया अपि यत् मध्यं तत्रस्था या बिससूत्राकारा शक्तिः तस्या पं० ६ क० पु० प्रसिद्धयतीति पाठः ।
श्लोकः ८६ ] प्रथमाह्निकम् । १३१ देश : अन्तर्व्योमरूप एकदेशस्तं गच्छति जानाति य : स : - तदेकतानतया तन्निष्ठः ईत यावत् । तदुक्तं 'मध्यनाडी मध्यसंस्थबिससूत्राभरूपया । ध्यातान्तर्व्योमया देव्या तया देवः प्रकाशते ॥' इति । अत एवोक्तं रामस्थः इति '..................एकाकी न रमाम्यहम् ।' इत्याद्युक्त्या रमते तत्तज्जडाजडात्मना विश्ववैचित्र्या- त्मना क्रीडति इति रामः परमात्मा, तत्र तिष्ठति तद्रूपतया परिस्फुरति इत्यर्थः । तदुक्तं त्रिशिरोभैरवे 'सेव्यमानमधोर्ध्वं तु प्राणापानोत्थरूढधीः । ऊर्ध्वं त्यक्त्वा तु प्रविशेद्रामस्थोऽत्रात एव च ॥' तत्रैवागूरणेन १ भगवत्या 'रामः किमुच्यते देव योऽत्रस्थः स च कः प्रभो । तस्याभ्यासः कथं नाम ब्रूहि सर्व महेश्वर ॥' १ आगूरणमाक्षेपः पं० ४ ख० पु० बिससूत्राभसूत्रयेति पाठः । पं० १४ क० पु० यत्रस्थः स च क इति पाठः ।
१३२ श्रीतन्त्रालोकः । इति पृष्टे, भगवता 'रामस्थं परमेशानि योगं यत्कीर्तितं मया । कथयामि यथातथ्यमभ्यासस्तस्य योगतः ॥' इत्यन्तेन प्रतिज्ञाय, तत्समाधानं बहुना ग्रन्थेन कृतम् ॥ ८६ ॥ इह च तदेव ग्रन्थकारः शब्दार्थद्वारेण पठति गतिः स्थानं स्वप्नजाग्र- दुन्मेषाणानिमेषणे । धावनं प्लवनं चैव आयासः शक्तिवेदनम् ॥८७॥ बुद्धिभेदास्तथा भावाः संज्ञाः कर्माशयनेकशः । एष रामो व्यापकोऽत्र शिवः परमकारणम् ॥८८॥ स्वप्नः विकल्पः, जाग्रत् ज्ञानं, उन्मेषणम् ईश्वर- दशा, निमेषणं सदाशिवदशा, आयासः 'अय गतौ' गत्यर्थो ज्ञानार्थः तेन अयः अयनं ज्ञानं तस्यासः क्षेपो निवृत्तिः - अज्ञानम् इत्यर्थः । धर्माद्या- अष्टौ
श्लोकः ८९ ] प्रथमाह्निकम् । १३३ बुद्धिधर्माः, संज्ञाः- यादृच्छिका डित्थादयः, कर्माणि- व्यापाराः । अनेन च गत्यादिना चतुर्दशकेन सकल- विश्वस्वीकारः कृतः । यच्चैतद्गत्यादि एष रामः- सकलविश्वावभासनक्रीडापरः परमात्मा परमेश्वरः, अत एवोक्तं 'व्यापकोऽत्र शिवः परमकारणम्' इति, अत्र इति गत्याद्युपलक्षिते विश्वस्मिन्, शिवस्यैव हि अयमशेषविश्वात्मा स्फारः इति भावः । तदुक्तं 'विषयेषु च सर्वेषु इन्द्रियार्थेषु च स्थितः । यत्र यत्र निरूप्येत नाशिवं विद्यते क्वचित् ॥' इति ॥८७॥८८॥ कथं चात्र तदैकात्म्यापत्तिलक्षणा स्थितिर्भवति इत्याह कल्मषघ्नीगामनसा स्मृतिमात्रनिरोधनात् । ध्यायते परमं ध्येयं गमागमपदे स्थितम् ॥८६॥ पं० ६ क० पु० शिवस्यैव हृदयमशेषेति पाठः । पं० १५ क० पु० ध्यायते सकलं ध्येयमिति पाठः ।
१३४ श्रीतन्त्रालोकः । परं शिवं तु व्रजति भैरवाख्यं जपादपि । येन क्षीणं कल्मषं तत्तद्भेदावभासकालुष्यं यस्य तादृशं मनो, मनुते इति मनो विमर्शात्मावबोधो यस्य तेन 'सर्वो विकल्पः स्मृतिः.......................।' इति नीत्या स्मृतिरेव केवला स्मृतिमात्रं शरीर- मुखहस्ताद्यात्मकं विकल्पनं, तस्य निरोधनम्—आका- राद्युल्लेखशून्यत्वेन प्रतिहननं, तदवलम्ब्य, तत्तन्नि- यताकारसंकोचाभावात् परमं ध्येयं शिवलक्षणं परम- कारणं ध्यायते स्वात्माभेदेन परामृश्यते । यदुक्तं 'ध्यानं या निश्चला बुद्धिर्निराकारा निराश्रया । न तु ध्यानं शरीरस्य मुखहस्तादिकल्पना ॥' इति । एवंविधो ध्याता, गमो गमनं गतिः, अगमश्च अगतिः स्थानं, ताभ्यामुपलक्षिते पदे समनन्त- पं० ५ क० पु० मनो मतिरिति विमर्शात्मेति पाठः । पं० १२ ख० ग० पु० निश्चला चिन्ता इति पाठः । पं० १३ क० पु० मुखचिन्तादिकल्पना इति पाठः ।
श्लोकः ९० ] प्रथमाह्निकम् । १३५ रोक्ते चतुर्दशविधे आश्रये स्थितम्, अत एव परं पूर्णम्, अत एव च भैरवाख्यं शिवं व्रजति - तत्समावे- शमाप्नोति इत्यर्थः । न केवलमयं ध्यानादेव शिवं व्रजति यावज्जपादपि इत्युक्तं-जपादपि इति ॥८६॥ कोऽसौ जपो नाम इत्याशङ्क्याह तत्स्वरूपं जपः प्रोक्तो भावाभावपदच्युतः ॥६०॥ तस्य शिवस्य, स्वरूपं परावाक्स्वभावम् आत्मरूपम् अर्थात् भूयो भूयः परामृश्यमानं जपः, अत एव भावाभावपदच्युतः-पूर्वोक्तनीत्या तन्मध्यस्फुरत्संवि- त्परामर्शमात्रसारः इत्यर्थः । तदुक्तं 'भूयो भूयः परे भावे भावना भाव्यते हि या । जपः सोऽत्र स्वयं नादो मन्त्रात्मा जप्य ईदृशः ॥' पं० १ ग० परिपूर्णमिति पाठः पं० ६ ख० पु० तत्स्वरूपो जपः प्रोक्त इति पाठः, पं० ७ ख० पु० पदाच्युत इति, पदाक्युत इति पाठान्तरं चास्ति । पं० ११ क० पु० परामर्शसार इति पाठः । पं० १२ ग० पु० परे तत्त्वे इति पाठः । क० पु० साध्यते हि या इति पाठः । पं० १४ क० पु० जप ईदृश इति पाठः ।
१३६ श्रीतन्त्रालोकः । इति। एवं ग्रामधर्मवृत्तिरेव रामस्थः इत्युक्तं स्यात्। तदुक्तं श्रीत्रिशिरोभैरवे ‘गच्छंस्तिष्ठन्स्वपञ्जाग्रदुन्मिषन्निमिषंस्तथा । धावनं प्लवनं चैव आयासः शक्तिवेदनम् ॥ बुद्धिभेदास्तथा भावाः संज्ञाः कर्माण्यनेकंशः । एतच्चतुर्दशविधं रामं तु परिकीर्तितम् ॥ व्यापितं देवदेवेन शिवेन परमात्मना । सर्वभावान्तरस्थेन अनेकाकारलक्ष्मणा ॥ कल्मषक्षीणमनसा स्मृतिमात्रनिरोधनात् । ध्यायते परमं ध्येयं गमागमपदे स्थितम् ॥ परं शिवं तु व्रजति भैरवाख्यं जपादपि । तत्स्वरूपं जपः प्रोक्तो भावाभावपदच्युतः ॥’ इति ॥६०॥ ननु प्रायः सर्वत्रैव ध्यानस्य व्यतिरिक्तसाकार- ध्येयविषयत्वं, जपस्य विकल्पात्मकवाचकवाच्यज- प्यनिष्ठत्वं चोक्तम्, इह पुनः स्वात्माभेदेन परामर्श- मात्रमेवोभयो रूपम् इति किमेतद् इत्याशंक्याह पं० १ क० पु० रामस्येति इति पाठः । पं० १२ क० पु० तत्स्वरूपो जप इति पाठः । पं० १४ क० पु० व्यतिरिक्ताकारध्येयेति पाठः ।
श्लोकः ९२ ] प्रथमाह्निकम् । १३७ तदत्रापि तदीयेन स्वातन्त्र्येणोपकल्पितः । दूरासन्नादिको भेद- श्चित्स्वातन्त्र्यव्यपेक्षया ॥६१॥ इह पराहंपरामर्शमात्रसारत्वात् स्वतन्त्रप्रका- शात्मा परमेश्वर एव परमार्थः इति तत्प्राप्तौ उप- देश्यभेदेन तदुपकल्पितमेव उपायानां नानात्वं, तेन चित्स्वातन्त्र्यप्रधानतया उल्लसित उपाय आसन्नः इत्युच्यते, अन्यथा तु इतरः इत्याह दूर इति । एव- मपि उपेयासन्नतया कस्यचिदेव उपायत्वम् इति नाशङ्क्यम् – उपायोपेयभावस्य द्वारद्वारिभावेन वक्ष्यमाणत्वात् ॥६१॥ एतदेवोपसंहरति एवं स्वातन्त्र्यपूर्णात्वा- दतिदुर्घटकार्ययम् । केन नाम न रूपेण भासते परमेश्वरः ॥६२॥ पं० ५ क० पु० इह अहंपरामर्शमात्रसारत्वादिति पाठः । १८
१३८ श्रीतन्त्रालोकः । रूपेण इति तत्तत्स्वशक्त्यात्मना इत्यर्थः ॥६२॥ अत एवाह निरावरणमाभाति भात्यावृतनिजात्मकः । आवृतानावृत्तो भाति बहुधा भेदसंगमात् ॥६३॥ इति शक्तित्रयं नाथे स्वातन्त्र्यापरनामकम् । इच्छादिभिरभिख्याभि- र्गुरुभिः प्रकटीकृतम् ॥६४॥ निरावरणम् इति शुद्धप्रकाशमयत्वात् , आवृत इति भेदकालुष्योदयात् , आवृतानावृत्तः इति शुद्ध- ज्ञानमयत्वेऽपि भेदकालुष्यासूत्रणात् , अत एव परापरपरापरत्वं , बहुधा इति एषणीयादिनानात्वात् अनेकप्रकारम् इत्यर्थः । निरावरणत्वेऽपि हि निषेध्यमानत्वाद् भेदस्य वासनामात्रेणावस्थानम् । पं० ६ क० ख० पु० भेदसंगम इति पाठः । पं० १४ क० पु० एषणीयत्वादिनानात्वादिति पाठः ।