तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
१६२ श्रीतन्त्रालोकः । न्तरोक्तनीत्या ध्यानादिनियतविधिनियन्त्रितत्वं, तद्- न्यथात्वमनवच्छेदः । यद्वक्ष्यति ‘साधकानां बुभुक्षूणां विधिर्नियतियन्त्रितः । मुमुक्षूणां तत्त्वविदां स एव तु निरर्गलः ॥’ इति । भगवतश्च एतत्सावच्छेदमपि रूपम् अनव- च्छिन्नपरस्वरूपानुप्राणितमेव, नहि तत्स्वरूपानुप्रवेशं विना किंचिदपि सिद्ध्येत् ॥१२३॥ एतदेव शब्दार्थद्वारकं गीताग्रन्थेन संवादयति येऽप्यन्यदेवताभक्ता इत्यतो गुरुरादिशत् । इत्यतः – इत्येवमादिकात् वाक्यकदम्बकादित्य- र्थः । गुरुरिति तात्त्विकार्थोपदेष्टा भगवान्वासुदेवः । तत्र हि ‘त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्रलोक- मश्नन्ति दिव्यान्दिवि देवभोगान् ॥’
- निरर्गलो नियतियन्त्रणारहित इत्यर्थः । पं० ३ क० पु० नियतयन्त्रित इति पाठः ।
श्लोक १२४] प्रथमाह्निकम् । १६३ इत्यादिना । 'क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।' इत्यादिना च भोगार्थिनाम् , 'अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥' इत्यादिना च मोक्षार्थिनाम्, अवच्छेदानवच्छेदाभ्यां क्रमेण स्वरूपमभिधाय पुनः सावच्छेदेऽपि रूपेऽन- वच्छिन्नं रूपम् अस्त्येव इत्यभिधातुम् 'येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥' इत्यादिना तेनोपदिष्टम् ॥ एतदेव व्याचष्टे ये बोधाद्व्यतिरिक्तं हि किंचिद्याज्यतया विदुः ॥ १२४ ॥ इत्यादिना इति, क्षीणे पुण्ये इति च १—२ पंक्तिद्वयस्थपाठः ग० पु० न वर्तते तथात्वे ३ पंक्तिस्थः 'च' इति नास्ति अतः अनुमीयते पुस्तकान्तरेषु पश्चात्प्र- क्षिप्तोऽधिकश्लोकपाठोऽस्तीति । पं० १३ ख० पु० बोधाद्यतिरिक्तमिति प्रथमः, बोधादतिरिक्तमिति लक्ष्यमाण शोधनः पाठोऽप्यस्ति । पं० १४ क० ख० पु० किंचित्पूज्यतयेति पाठः ।
१६४ श्रीतन्त्रालोकः । तेऽपि वेद्यं विविञ्चाना बोधाभेदेन मन्वते । ये याजका बोधाद् वेदित्रेकस्वभावात् स्वात्म- रूपाद्व्यतिरिक्तमन्यत् तत्तन्नियताकारमिन्द्रादिदैवतं याज्यतया विदुः जानीयुः, ते विच्छिन्ननियताकार- वत्त्वात् वेद्यमपि इन्द्रादिरूपं दैवतं श्रद्धातिशययो- गाद् गाढगाढं विमृशन्तः 'वेद्यो वेदकतामाप्तो वेदकः संविदात्मताम् । संवित्त्वदात्मा चेत्सत्यं तदिदं त्वन्मयं जगत्' ।। इत्यादिन्यायेन बोधाभेदेन — परप्रमात्रेकरूपस्वात्मम- यत्वेन अवबुध्यन्ते इत्यर्थः ॥ ननु देवतोद्देशेन द्रव्यत्यागो याग इत्युक्तेः द्रव्य- त्यागार्थमुद्दिष्टैव देवता भवति, न च बोधैकरूपस्य स्वात्मतत्त्वस्य तथात्वेन उद्देशोऽस्ति , कथमस्य याज्यत्वम् ? इत्याशङ्क्याह पं० १ क० ख० पु० तेऽपि बोधमिति पाठः । पं० ख० ४ अन्यत्तन्न नियताकारमिति पाठः । पं० ७ क० पु० मृशन्तोऽपि ते च इति पाठः । पं० ९ ख० पु० संवित्त्वदात्म चेदिति पाठः । पं० १० क० पु० प्रमात्रेकस्वात्मेति पाठः ।
श्लोक १२७ ] प्रथमाह्निकम् । १६५ तेनाविच्छिन्नतामर्श- रूपाहन्ताप्रथात्मनः ॥ १२५ ॥ स्वयं-प्रथस्य न विधिः सृष्ट्यात्मास्य च पूर्वगः । वेद्या हि देवतासृष्टिः शक्तेर्हेतोः समुत्थिता ॥ १२६ ॥ अहंरूपा तु संवित्ति- र्नित्या स्वप्रथनात्मिका । तेन बोधात्मत्वेन हेतुना, अस्य - स्वात्मतत्त्वस्य, ‘सकृद्विभातोऽयमात्मा’ इति न्यायेन अनवच्छिन्नतया प्रवृत्ताविरतेन रूपेण पराहंप्रकाशपरामर्शमयस्य, अत एव स्वयं प्रथस्य - प्रमाणादिनिरपेक्ष्येण स्वतः सिद्धस्य, विधिः - अप्रवृत्तप्रवर्तनात्मा, पूर्वभावी, तथा सृष्ट्यात्मा - तत्तत्सिद्धिसाधनस्वभावो न भवतीत्यर्थः । न खलु बोधस्वभावं स्वात्मतत्त्वं विधिविषयतामापद्यते - तस्य पं० ५ 'वेद्या हि' इति संपूर्णपदं ग० पुस्तकात्पूरितमस्ति । पं० ६ क० ख० पु० बोधात्महेतुनेति पाठः, क० ख० पु० स्वात्मतत्वस्य इति वाक्यं नास्ति । पं० १० क० ख० पु० अनवच्छिन्नतया अविरतेनेति पाठः ।
१६६ श्रीतन्त्रालोकः । विधिप्राप्यभावात्, यावदप्राप्तं हि विधेर्विषयः, न च स्वात्मनः कदाचित् अप्राप्तिरस्ति — आदिसिद्धतया सर्वदैव स्फुरणात् । ननु विधेर्नियोगभावनाद्यात्मतया बहुविधत्वमुक्तम्, स्वात्मा पुनः कस्य विधेर्विषयतां न भजते ? इत्याशङ्क्याह विधिर्नियोगस्त्र्यंशा च भावना चोदनात्मिका ॥ १२७ ॥ विधिः अप्रवृत्तप्रवर्तको, न पुनरज्ञातज्ञापकः । यदाहुः 'विधेर्लक्षणमेतावदप्रवृत्तप्रवर्तनम् । अतिप्रसङ्गदोषेण नाज्ञातज्ञापनं विधिः ॥' इति । स्वर्गयागयोश्च साध्यसाधनभावमवबो- धयतोऽस्यैव विधेः तावत्प्रवर्तकत्वं — यत् सप्रत्ययस्य पुंसः 'प्रवृत्तोऽहम्' इति ज्ञानजननम् । स च 'नियोग' पं० ३ क० पु० सर्वस्फुरणादिति पाठः । पं० ४ ख० पु० कस्य तावद्विषयेत्येवंविधः पाठः । पं० ६ ख० पु० नियोगस्त्र्यंशश्चेति पाठः । पं० ११ ख० पु० न ज्ञातज्ञापनं विधिरिति पाठः । पं० १२ ख० पु० अवबोधयतोऽस्यैतावत्प्रवर्तकत्वमिति प्रथमः पाठः । पं० १३ क० पु० प्रवृत्तोहम् इत्यारभ्य प्रत्ययवाच्य इत्यन्तः पाठो ग० पुस्त- कात्पूरितोऽस्ति ।
श्लोक १२७ ] प्रथमाह्निकम् । १६७ इति प्राभाकरैरुक्तः, ‘भावना’ इति भाट्टैः । तत्र तिङादिप्रत्ययवाच्यः ‘प्रवर्तितोऽहम्’ इति प्रेरणात्मकः कार्यात्मा अनुष्ठेयो धर्मो नियोगः । स च ‘दर्श-पौर्णमासाभ्यां यजेत स्वर्गकामः ।’ इत्यादावनुबन्धद्वयावच्छिन्नः प्रतीयते । याज्या- दिना हि अस्य विषयानुबन्ध उच्यते । ‘स्वर्गकामः’ इत्यनेन च अधिकारानुबन्धः, अत एव च द्वयनुबन्ध- बान्धवो ‘नियोगः’ इत्युद्धोष्यते । कांचिन् क्वचिन्नियुंक्ते इति नियोगस्वरूपम् इति । ‘भावना’ च भाव्यनिष्ठो भावकव्यापारः, भाव्यं स्वर्गादिफलं, तन्निष्ठस्त- दुत्पादकः पुरुषव्यापारो भावना । पुरुषो हि भवन्तं स्वर्गादिकमर्थं स्वव्यापारेण भावयति इति भावना इत्युच्यते । सा च द्विविधा - शब्दभावना अर्थभावना च इति । तस्याश्च किं, केन, कथं भावयेत् इति अंशत्रयापेक्षत्वात् त्र्यंशत्वम् । तदुक्तम् ‘सा धातोः प्रत्ययाद्वापि भावनावगता सती । अपेक्षतेऽशत्रितयं किं केन कथमित्यदः ॥’ इति । त्र्यंशा इति, तत्रार्थभावनायां ‘किम्’ इत्य- पेक्षायां स्वर्गः, ‘केन’ इत्यपेक्षायां यागः, ‘कथम्’ इत्य-
१६८ श्रीतन्त्रालोकः । पेक्षायां च व्रीह्यादि संबन्धनीयम् । एवं शब्दभाव- नायामपि, ‘किम्’ इत्यपेक्षायां भाव्या पुरुषप्रवृत्तिः, ‘केन’ इत्यपेक्षायां शब्दः, ‘कथम्’ इत्यपेक्षायाम् अर्थ- वादवाक्यव्यापारः संबन्धनीयः । चोदना वैदिकं विधायकं वाक्यम् । यदाहुः ‘चोदनेति क्रियायाः प्रवर्तकं वचनम् ।’ इति । एतच्चोभयत्रापि संबन्धनीयम् । तच्च प्रमाणा- न्तरप्रतिपन्नमेव अर्थमभिदधत् प्रमाणतां लभते, तं चार्थं साधयति । ‘ऐन्द्राग्नमेकादशकपालं निर्वपेत् ।’ इत्यादौ निर्वपणादिवदुद्दिष्टा इन्द्राद्या देवता अपि विधेयाः–द्रव्यदेवतासंबन्धस्यैव साक्षात्प्रतिपाद्यत्वात् ॥ १२४–१२५–१२६–१२७ ॥ तदेवाह तदेकसिद्धा इन्द्राद्या विधिपूर्वा हि देवताः । अहंबोधस्तु न तथा ते तु संवेद्यरूपताम् ॥ १२८ ॥ पं० १८ क० पु० संवेद्यरूपिण इति ख० पु० रूपितामिति पाठः ।
प्रकाशमानत्वात् न स्वसिद्धौ प्रमाणं किंचिदपेक्षते
श्लोक १२६ ] प्रथमाह्निकम् । १६६ उन्मग्नामेव पश्यन्त- स्त विन्दन्तोऽपि नो विदुः । तदुक्तं न विदुर्मां तु तत्त्वेनातश्चलन्ति ते ॥ १२६ ॥ विधिपूर्वाः-विधिरेव पूर्वं पूर्वभावि अनधिग- तार्थप्रकाशनात्मकं प्रमाणं यासां ताः तथोक्ताः, स्वात्मव्यतिरिक्ता हि देवताः वेद्यप्रायाः प्रमाणा- न्तराप्रतिपन्नाः शास्त्रेण साध्यन्ते इति युक्तः पक्षः। अहंबोधैकरूपः पुनः स्वात्मा पूर्वोक्तयुक्त्या सदैव प्रकाशमानत्वात् न स्वसिद्धौ प्रमाणं किंचिदपेक्षते इति युक्तमुक्तम् - अविधिपूर्वकमिति । तदेवाह अहं- बोधः इति । तथा इति विधिपूर्व इत्यर्थः । ननु याद प्रमाणादिनिरपेक्ष्येणैव स्वात्मा स्वयं प्रकाशते किमिति न सर्वदैव सर्वेषाम् ? इत्याशङ्क्याह - ते तु इत्यादि । त इति स्वात्मव्यतिरिक्तेन्द्रादिदेवता- याजकाः, तं सर्वदैव प्रकाशमानं स्वात्मानं - वेद्यवेद- पं० २ क० पु० तं वदन्तोऽपीति पाठः । पं० ४ ख० पु० मूलगीतास्वपि च्यवन्ति ते इति पाठः । पं० ६ ख० पु० स चैवेति पाठः । ० १३ क० पु० प्रमाण्यान्तरनैरपेक्ष्येणैवेति पाठः । २२
१७० श्रीतन्त्रालोकः । नान्यथानुपपत्त्या तदतिरिक्तस्य च अन्यस्य देवता- त्वानुपपत्तेः, वस्तुतो विदन्तोऽपि न विदुः — वेद्यताया एव प्राधान्येन दर्शनात् वेदित्रेकरूपतया न जानीयुः इत्यर्थः । अतश्च नियततत्तद्देवतादिरूपग्रहणेन च्यवन्ते इत्यर्थः । तदुक्तं तत्र 'न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते।' इति ॥ १२८-१२६ ॥ तदेव व्याचष्टे चलनं तु व्यवच्छिन्न- रूपतापत्तिरेव या । एतदपि तत्रत्येन ग्रन्थेनैव संवादयति देवान्देवयजो यान्ती- त्यादि तेन न्यरूप्यत ॥ १३० ॥ तेन इति व्यवच्छिन्नरूपतापत्तिलक्षणेन हेतुना इत्यर्थः। यदुक्तं 'यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः । भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥' इति ॥ १३० ॥ पं० २ क० पु० वदन्तोऽपीति पाठः ।
श्लोक १३२ ] प्रथमाह्निकम् । १७१ ननु यद्येवं कथमन्यदेवताभक्ता अपि यजन्ति इत्युक्तम् ? इत्याशङ्क्याह निमज्ज्य वेद्यतां ये तु तत्र संविन्मयीं स्थितिम् । विदुस्ते ह्यनवच्छिन्नं तद्भक्ता अपि यान्ति माम् ॥१३१॥ तत्र इति स्वात्मव्यतिरिक्तायां देवतायाम् । तद्भक्ताः स्वात्मव्यतिरिक्तदेवतायाजिन इत्यर्थः । माम् इति परबोधैकस्वभावम् आत्मानम् । अस्मिन् परमाद्वयमये संविन्मयतयावस्थानमेव यागः, तत्स- मापत्तिरेव च फलम् ॥१३१॥ ननु भगवद्वासुदेवेन उक्तस्य 'माम्' इति अस्म- च्छब्दस्य तदेकवाचकत्वात् कथं बोधमात्राभिधाय- कत्वमुच्यते ? इत्याशङ्क्याह सर्वत्रात्र ह्यहंशब्दो बोधमात्रैकवाचकः । पं० १६ क० पु० मात्रैकगोचर इति पाठः ।
प्रकाशादद्वितीयस्य अपोह्यस्य प्रतियोगिनः संभवोऽ-
१७२ श्रीतन्त्रालोकः । स भोक्तृप्रभुशब्दाभ्यां याज्ययष्टृतयोदितः ॥१३२॥ अत्र इति गीताग्रन्थे अनवच्छिन्नस्यैव बोध- मात्रस्य प्रतिपिपादयिषितत्वात्, अत एव केवल- स्यैव बोधस्य वाचकः पराम्रष्टा इत्युक्तम् । नहि प्रकाशादद्वितीयस्य अपोह्यस्य प्रतियोगिनः संभवोऽ- प्यस्ति — तस्य प्रकाशमानत्वाप्रकाशमानत्वविकल्पो- पहतत्वात् । यस्तु शरीरादौ ‘कृशोऽहम्’ इत्यादिः अहंविमर्शः स विकल्प एव — शरीराद्यपेक्षया परस्य अपोह्यस्य प्रतियोगिनः संभवात् । ननु यदि बोध एव अप्रतिपक्ष एकोऽस्ति, तत्कथं ‘मां यजन्ति’ इत्यादौ याज्ययष्टृतया भेदः पारमार्थिकः स्यात् ? इत्याशङ्क्याह — स भोक्तृ इत्यादि । बोध एव उभयात्मना स्फुरितः इति भावः । तदुक्तं तत्र ‘अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।’ इति ॥१३१॥ ननु एकश्च उभयात्मा च इति कथं संगच्छताम् ? इत्याशङ्क्याह
प्रकाशा संविदेव एका तत्तदात्मना स्फुरति इति
श्लोक १३३ ] प्रथमाह्निकम् । १७३ याजमानी संविदेव याज्या नान्येति चोदितम् । न त्वाकृतिः कुतोऽप्यन्या देवता न हि सोचिता ॥ १३३ ॥ संविदेव याज्या, इति उदितं - प्रतिज्ञातम् । न पुनः कुतोऽपि हेतोः अन्याकृतिः इन्द्रादिरूपा, सा च संवित् याजमान्येव, न पुनः अन्या-भिन्ना, याजमानी संविदद्वयमयी इत्यर्थः । सा हि एवंविधाकृतिः, आकृ- तिमती वा संविद्देवता नोचिता - संविदि भेदानुप- पत्तेः, संविदतिरिक्तस्य च जाड्यात् । न च जडस्य द्योतमानत्वाद्येकस्वभावं देवतात्वं युज्यते इति स्व- प्रकाशा संविदेव एका तत्तदात्मना स्फुरति इति युक्तमुक्तं ‘स एव याज्ययष्टृतयोदितः’ इति ॥१३३॥ अत एव च आदिसिद्धत्वात् संविदि न किंचि- द्विध्यादि सिद्धिनिमित्तमुक्तम् इत्याह पं० ८ क० पु० सा त्वेवं भिन्नाकृतिमती वा संविदिति पाठः । पं० ११ क० पु० द्योतमानत्वैकस्वभावमिति पाठः ।
१७४ श्रीतन्त्रालोकः । विधिश्च नोक्तः कोऽप्यत्र मन्त्रादि वृत्तिधाम वा । इह खलु वेदवाक्यानि मन्त्रब्राह्मणरूपत्वेन द्विधा । ब्राह्मणवाक्यान्यपि विध्यर्थवादनामधेयात्मकत्वेन त्रिधा । तत्र विधिवाक्यानां तावत् संविदि व्यापारो नास्ति इत्युक्तप्रायम् । एवं मन्त्रादेरपि तत्र नास्ति व्यापारः । यतो मन्त्रादिः वृत्तेः विधिव्यापारात्मनः क्रियाया धाम आश्रयः – तेन विना क्रियाया असंपत्तेः । न च संविदि वाच्यवाचकयाज्ययाजक- भावाद्यात्मकः कश्चिद्भेदः संभवति, एक एव आदि- सिद्धो बोधः इति सिद्धम् ॥ ननु यद्येवं तत्कथमयं जडाजडात्मा विश्वप्रसरः ? इत्याशङ्क्याह सोऽयमात्मानमावृत्य स्थितो जडपदं गतः ॥ १३४ ॥ आवृतानावृतात्मा तु देवादिस्थावरान्तगः । पं० २ क० पु० धाम या इति, ख० पु० मन्त्रादिवृत्तिर्धाम वा इति पाठः । पं० ३ क० पु० ब्राह्मणत्वेनेति पाठः ।
प्रकाशयेत्, अयमेव च आदिसर्गः तत्र तत्रागमेषु
श्लोक १३५ ] प्रथमाह्निकम् । १७५ जडाजडस्याप्येतस्य द्वैरूप्यस्यास्ति चित्रता ॥ १३५ ॥ आवृत्य इति स्वस्वरूपगोपनात्मिकया मायाशक्त्या संकोचवत्तामाभास्य इत्यर्थः । जडपदम् इति परप्रकाश्यभावराशिस্বরূপताम् इत्यर्थः । विश्वनि- र्माणेच्छुर्हि परमेश्वरः प्रथमं स्वाव्यतिरिक्तमेव विश्वं प्रकाशयेत्, अयमेव च आदिसर्गः तत्र तत्रागमेषु उच्यते, अनन्तरं च यदास्य मायया सर्गचिकीर्षा भवति तदा स्वस्वातान्त्र्यात् स्वात्मदर्पणे अनन्त- ग्राह्यग्राहकद्वयाभाससन्ततीराभासयति, स्वाङ्गरूप- भावराशिमध्यादेव हि देहप्राणबुद्धिशून्यानि स्वग- ताहन्तात्मककर्तृतार्पणेन ग्राहकीभावयति, तदपरं शब्दादि च इदन्ताविषयतया चिद्रूपतातिक्रमेण ग्राह्यतामापादयति, अत एव च देहादिः कर्तृतां ज्ञातृतां च स्वात्मनि धत्ते, तदितरच्च कार्यतां ज्ञेयतां च । अत एव चैषां जडाजडव्यपदेशः, तदाह 'आवृतानावृतात्मा' इति । एवमपि चास्य प्रकारवैचि- पं० १० क० ख० पु० संततीरुल्लासयतीति, ख० पु० स्वाङ्गभूतेति पाठः । पं० १६ ख० पु० जडाजडशब्दव्यपदेश इति पाठः ।
१७६ श्रीतन्त्रालोकः । ऽयेण आनन्त्यम् इत्याह 'जड' इत्यादि, चित्रता इति तत्र जडस्य तावच्छब्दादिभेदेन, तस्यापि तारम- न्द्यादिभेदेन बहुप्रकारत्वम्, अजडस्यापि सन्तान- भेदेन आनन्त्येऽपि बन्धत्रयस्य तारतम्यादिभेदेन नानात्वम् । संकुचिता प्रमातारो हि तत्तत्कर्माशाया- नुसारेण परिभ्राम्यन्तः तत्तदवस्थासु एकमपि स्वात्मानं धर्माधर्मादिबुद्धिभावरहितत्वेन तत्तदि- च्छापरिष्कृतत्वेन च नानाकारतया वैचित्र्येण जानते, जडं च विषयं सुखदुःखादिकारितया नानात्वेन परिविन्दन्ति इति ॥ १३४-१३५ ॥ एवं वैचित्र्यस्य किं निमित्तम् इत्याशङ्क्याह तस्य स्वतन्त्रभावो हि किं किं यन्न विचिन्तयेत् । तदुक्तं त्रिशिरःशास्त्रे संबुद्ध इति वेत्ति यः ॥ १३६ ॥ एतदेवार्थद्वारकं संवादयति-तदुक्तम् इत्यादिना । पं० ७ ख० पु० बुद्धिभावरससहितत्वेन तत्तदिच्छाबहिष्कृतत्वेनेति पाठः । पं० १५ ख० पु० स बुद्ध इति पाठः ।
श्लोक १३६ ] प्रथमाह्निकम् । १७७ इति वैचित्र्यं यो वेत्ति स संबुद्धः-सम्यग्बुद्ध इत्य- र्थः । त्रिशिरःशास्त्रे इति श्रीत्रिशिरोभैरवे । तत्र हि 'अन्यथा स्वल्पबोधस्तु तन्तुभिः कीटवद्यथा । मलतन्तुसमारूढः क्रीडते देहपञ्जरे ॥' इत्युपक्रम्य 'सम्यग्बुद्धस्तु विज्ञेयः·············।' इत्यादिना च 'नानाकारैर्विभावैश्च भ्राम्यते नटवद्यथा । स्वबुद्धिभावरहितमिच्छाज्ञेमबहिष्कृतम् ॥' इत्यन्तं बहूक्तम् ॥१३५॥ ननु देहादिर्ग्राहकतया अभिमतोऽपि जाड्याज्ज्ञेय एव इति तस्य कथमेवंविधं ज्ञानम् ? इत्याशङ्क्याह ज्ञेयभावो हि चिद्धर्म- स्तच्छायाच्छादयेन्न ताम् ॥१३६॥ ज्ञेयत्वं हि ज्ञानधर्मः, नहि अर्थं जानामि इत्य- र्थस्य कश्चिदतिशयः, अपि तु ज्ञानस्यैव तज्ज्ञान- रूपता । तदुक्तमत्रापि च पं० १ ख० पु० स बुद्ध इति पाठः । पं० ६ ख० पु० बुद्धः स विज्ञेय इति पाठः । पं० ६ क० ख० पु० इच्छाज्ञेयबहिष्कृतमिति, ग० पु० परिष्कृतमित्यपि पाठः । २३
१७८ श्रीतन्त्रालोकः । ‘..................ज्ञेयस्य ज्ञेयता ज्ञानमेव’ । इति । अत एव च तेषां ज्ञेयानां सतां देहादीनां छाया स्वेनैव स्वस्य आवरकत्वायोगात् न चितमा- च्छादयेत् - आवृणुयात्, येनैवं-विधं ज्ञानं न स्यात्, तेन देहादावात्मग्रहेऽपि आत्मनो न काचिच्चिद्रूपता- हानिः । तदुक्तं तत्रैव ‘ज्ञेयस्वभावश्चिद्रूपस्तच्छाया नैव च्छादयेत् ।’ इति ॥१३६॥ अत एवाह तेनाजडस्य भागस्य पुद्गलाणवादिसंज्ञिनः । अनावरणभागांशे वैचित्र्यं बहुधा स्थितम् ॥१३७॥ तेन इति चिदनाच्छादनेन हेतुना । अनावरण इति शुद्धसंविद्रूपे आत्मनि इत्यर्थः । देहादीनां हि संविद्रूपत्वेऽप्यामुखे ज्ञेयत्वेन अवभासादशुद्धत्वमपि संभवेत् ॥१३७॥ पं० १ क० ख० पु० संज्ञित इति पाठः ।
श्लोक १३६] प्रथमाह्निकम् । १७६ ननु संविदि भेदानुपपत्तेः कथं वैचित्र्यं संगच्छ- ताम् ? इत्याशङ्क्याह संविद्रूपे न भेदोऽस्ति वास्तवो यद्यपि ध्रुवे । तथाप्यावृतिनिर्ह्रास- तारतम्यात्स लक्ष्यते ॥१३८॥ आवृतेः — आणवस्य मलस्य, निर्ह्रासः परिक्षय- स्तस्य तारतम्यं मृदुमध्याधिमात्रात्मा अतिशयः ततो लक्ष्यते, इति—न तु साक्षात् संभवति इत्यर्थः, अत एव पूर्वं 'वास्तवः' इति विशेषणमुपात्तम् ॥१३८॥ किं च तत्ततारतम्यम् ? इत्याशङ्क्याह तद्विस्तरेण वक्ष्यामः शक्तिपातविनिर्णये । समाप्य परतां स्थौल्य- प्रसंगे चर्चयिष्यते ॥१३६॥ वक्ष्यामः इति । यद्वक्ष्यति पं० १४ क० पु० स चाप्यपरतामिति, ग० पु० समाप्य स्थिरतामिति पाठः । पं० १६ वक्ष्याम इति आरभ्य बहुप्रकारम् इत्यन्तः पाठो ग० पुस्तकात् पूरितोऽस्ति ।
१८० श्रीतन्त्रालोकः । 'तारतम्यप्रकाशो यस्तीव्रमध्यममन्दताः । ता एव शक्तिपातस्य प्रत्येकं त्रैधमास्थिताः ॥' इत्यादि बहुप्रकारम्, चर्चयिष्यते इति - लक्ष्यते परीक्ष्यते च इत्यर्थः । इह हि सर्वस्यैव वक्ष्यमा- णस्य प्रमेयजातस्य उद्देश एव भवेत् इति भावः । यद्वक्ष्यति 'विज्ञानभित्प्रकरणे सर्वस्योद्देशनं क्रमात्।' इति । तच्च अस्माभिर्ग्रन्थविस्तरभयात् प्रातिपद्येन न दर्शितम् इति स्वयमेव अवधार्यम् ॥ १३६ ॥ एवं मलनिर्ह्रासतारतम्यानुसारमेव आत्मनां भगवत्स्वरूपमपि प्रथते इत्याह अतः कंचित्प्रमातारं प्रति प्रथयते विभुः । पूर्णामेव निजं रूपं कंचिदंशांशिकाक्रमात् ॥१४०॥ कंचित् इति - तीव्रनिर्ह्रासितावृत्तितारतम्यम्, अंशां- पं० १४ क० पु० नित्यरूपमिति पाठः । पं० १६ क० क० पु० निर्ह्रासिनेति पाठः ।
प्रकाशमानत्वान्यथानुपपत्त्या परप्रकाशलक्षणा प्र-
श्लोक १४१] प्रथमाह्निकम् । १८१ शिकाक्रमात् इति - आवृत्तिनिर्ह्रासितारतम्यमन्दादि- प्रायत्वात् ॥१४०॥ ननु किं नाम पारमेश्वरस्य रूपस्य पूर्णत्वमपूर्ण- त्वं च ? इत्याशङ्क्याह विश्वभावैकभावात्म- स्वरूपप्रथनं हि यत् । अणूनां तत्परं ज्ञानं तदन्यदपरं बहु ॥१४१॥ विश्वेषां नीलसुखादीनां भावानां य एको भावः- प्रकाशमानत्वान्यथानुपपत्त्या परप्रकाशलक्षणा प्र- धाना सत्ता, तदात्म यत् स्वस्य आत्मनो रूपं तस्य यत्प्रथनम् - अविकल्पवृत्त्या साक्षात्करणं, तत् एव अणूनां परं पूर्णं पारमेश्वरं ज्ञानं, तत एवं-विधात् पूर्णात् ज्ञानात् अन्यत् विकल्पात्मकं शाक्तादि ज्ञानम्, अपरं - चित्स्वरूपप्रथाविरहादपूर्णं, बहु - वक्ष्यमाण- प्रकारेण अनेकप्रकारम् इत्यर्थः ॥१४१॥ तदेव बहुप्रकारत्वं दर्शयति तच्च साक्षादुपायेन तदुपायोदिनापि च ।