भारतकोश
संग्रह पर लौटें

वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

Vakyapadiya Brahmakanda of Bhartrihari with Commentary

भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished192 पृष्ठ

३. कारिका १०१-१५६: पश्यन्ती, मध्यमा व वैखरी वाक् एवं ब्रह्मकाण्ड उपसंहार

ब्रह्मकाण्डम् ] संस्कृत-हिन्दी-व्याख्योपेतम् [ १०३ व्यक्तिस्फोटवादिना हि अकारादिजातिर्नाभ्युपेयते अकारादिव्यक्तेरेकत्वं नित्यत्वं चाभ्युपगम्यते तच्च न युक्तम् अकारादिव्यक्तेरेकत्वे दण्ड अग्रम् इत्यत्र कालव्यत्यासः, दण्ड इत्यत्र शाब्दव्यत्यासः; अर्थः, अर्कः, वर्च इत्यत्र युगपद्देशपृथक्त्वेनोपलब्धिश्च नोपपद्येतेति अकारादीनां नानात्वमभ्युपेयम् ततश्च तद्रूपत्वाच्चैव सोऽयमकार इति प्रत्यभिज्ञोप- पत्तौ नाकारादिव्यक्तीनां नित्यत्वमास्थेयम् इति जातिस्फोटवादिन आकृतम् ॥ ९३ ॥ घटपदत्वादिकां जातिमनङ्गीकुर्वतामेके नित्यं शब्दतत्त्वमङ्गीकुर्वतां सिद्धान्तिनां मतमाह— जो लोग घटपदत्व रूपा जाति नहीं मानते किन्तु नित्य और एक शब्दतत्त्व मानते हैं उन सिद्धान्तवादियों का मत है कि— अविकारस्य शब्दस्य निमित्तैर्विकृतो ध्वनिः । उपलब्ध

१८८ वाक्यपदीयम् घटत्व आदि जातियों के आश्रय अनित्य घट आदि पदों से नित्य घटत्व जाति की अभिव्यक्ति होती है। इसलिए यह नहीं कहा जा सकता कि 'अभिव्यक्ति अनित्य की ही होती है' ॥९५॥ ननु समानदेशस्था एव घटादयः समानदेशस्थैर्दीपादिभिरभिव्यज्यन्ते न गृहा- न्तरस्था गृहान्तरस्थैरिति दर्शनात्। समानदेशस्थयोरेव व्यङ्ग्यव्यञ्जकभाव एष्टव्य इति ताल्वोष्ठादि व्यापारजन्यैः शब्दजशब्दन्यायेन श्रोत्रदेशस्थितैर्ध्वनिभिः कथमा- न्तरस्य स्फोटस्याभिव्यङ्ग्यता तदभावे चागतं शब्दानित्यत्वमत आह— यद्यपि जैसे समानदेशस्थ दीप समान देशस्थ घट का प्रकाशक है किन्तु गृहान्तरस्थ दीप गृहान्तरस्थ घटका प्रकाशक नहीं होता। वैसे ओष्ठ तालु आदि स्थानों में उत्पन्न और शब्दजशब्द न्याय से श्रोत्र देश तक आई हुई ध्वनि आन्तरस्फोट को व्यक्त नहीं कर सकती क्योंकि दोनों का देश समान नहीं है। तथापि— देशादिभिश्च सम्बन्धो दृष्टः कायवतामिह । देशभेदविकल्पेऽपि न भेदो ध्वनिशब्दयोः ॥ ९६ ॥ इह लोके कायवतां मूर्तानां परिच्छिन्नपरिमाणवतां घटादीनां देशादिभिः सम्ब- न्धः अयमेतद्देशस्थः अयमेतद्देशस्थः इत्येवंरूपो दृष्टः नामूर्तस्य शब्दस्य तस्य व्यापक- त्वेन सर्वदेशस्थत्वेन देशदेशिव्यवहाराभावात्। एवं च शब्दो नाभिव्यङ्ग्यः व्यञ्जकभिन्न- देशस्थत्वादिति स्वरूपासिद्धो हेतुरिति भावः। तुष्यतु दुर्जनन्यायेन ध्वनिशब्दयोः देश- भेदव्यवहारमभ्युपेत्याह—देशभेदविकल्पेऽपीति। ध्वनिशब्दयोः देशभेदवि- कल्पेऽपि देशयोः श्रोत्रहृदयाकाशरूपयोः औपाधिकभेदवत्त्वेऽपि वस्तुत आकाशस्य एकत्वेन न देशभेदः। अथ च औपाधिको भेद आश्रीयते तर्हि सा भेदप्रतीतिर्वस्तुशून्यतया विकल्पः तस्मिन् आश्रितेऽपि न भेदः नाधिकरणदेशभेदः ध्वनेः श्रोत्रद्वारा हृदयदेश- गमनेन¹ उभयोरेकदेशस्थत्वादिति भावः॥ तदुक्तं भाष्ये 'श्रोत्रोपलब्धिर्बुद्धिनिर्ग्राह्यः प्रयोगेणाभिज्वलितः आकाशदेशः शब्दः एकं च पुनराकाशम्' इति। कायवताम- पीति पाठे कायवतां परिच्छिन्नपरिमाणवतामपि सूर्यादीनामेकदेशस्थानामनेकदेशे प्रतिपात्रं प्रतिबिम्बानामभिव्यक्तिर्दृश्यते। यदाहुः—'एकेन बिम्बितेन प्रतिपात्रं पृथक् पृथक्। भिन्नानि प्रतिबिम्बानि जायन्ते युगपन्नृणाम्' इति किं पुनर्ब्रूमः शब्दस्य सर्वगतत्वेन ध्वनिदेशस्थत्वादिति भावः॥ ९६॥ इस श्लोक में मूर्त या देहवालों (घट आदिकों के ही देश-आदि सम्बन्ध होते हैं, अर्थात् ऊपर लिखा नियम मूर्तों के लिये है) अमूर्त ध्वनि और शब्द तो भिन्न भिन्न (जैसे ध्वनि का १. तदुक्तं परमलघुमञ्जूषायाम् 'अत्रेदं बोध्यम्—केनचिदुच्चार्यमाणे तु वैखरीनादः प्रयुक्तः स केनचिच्छ्रोत्रेन्द्रियेण गृहीतः। स नाद इन्द्रियद्वारा बुद्धिहृद्गतः (बुद्ध्यन्तःकरणेन हृदयदेशं गतः) सन्नयं बोधकं शब्दं स्वनिरूपकत्वादिना व्यञ्जयति तस्मादयं बोधः। स्फुटत्यर्थोऽस्मादिति व्युत्प- त्त्या स्फोटः। उच्चारयितुस्तु युगपदेव मध्यमावैखरीभ्यां नाद उत्पद्यते। तत्र वैखरीनादो वह्नेः फूत्कारवन्मध्यमनादप्रोत्साहकः मध्यमनादः स्फोटं व्यञ्जयतीति शीघ्रमेव ततोऽर्थबोधः। परस्य विलम्बेन मुखबधिरत्वात्' इति।

Here is the line-by-line transcription of the text in Devanagari Markdown:

ब्रह्मकाण्डम् ] संस्कृत-हिन्दी व्याख्योपेतम् १०६ श्रोत्राकाश और शब्द हृदयाकाश) देश में रहता है फिर भी स्थान भेद नहीं है। क्योंकि आकाश एक है और ध्वनि भी श्रोत्र द्वारा हृदयाकाश में पहुँचती है ॥ ९६ ॥ ननु जन्यजनकयोरेव नियतत्वं दृश्यते यथा तन्तुभिरेव पटः कपालाभ्यामेव घट इत्यादिः। न तु व्यङ्ग्यव्यञ्जकयोः घटव्यञ्जकेनापि दीपेन पटादेरभिव्यक्तेः । किञ्च नाभिव्यङ्ग्यभेदेऽभिव्यञ्जकनियमः मणिप्रदीपौषधिभिरपि घटाद्यभिव्यक्तेः । एवं च यदि ध्वनिशब्दयोर्व्यङ्ग्यव्यञ्जकभावः स्यात् तदा कण्ठाभिघातजेन ध्वनिना अकार एव तालव्यभिघातजेन चकार एवेति नियमो न स्यात् दृश्यते तु नियमः अतो ध्वनिशब्दयोर्जन्यजनकभाव एव न व्यङ्ग्यव्यञ्जकभाव इत्याशङ्कायामाह— यद्यपि जन्य और जनक (घट और कपाल,

११० वाक्यपदीयम् इन्द्रियाँ दो प्रकार की होती हैं। एक तो स्वसजातीय द्रव्य मात्र में समवेत गुण का ग्रहण करती हैं। जैसे घ्राण और श्रोत्र । और दूसरी सजातीय तथा स्वविजातीय द्रव्य समवेत गुण का ग्रहण करती हैं। जैसे चक्षु, रसना और त्वक् । तैजस आँख सजातीय तेज के और विजातीय पृथिवी के भी रूप का, रसना सजातीय जल और विजातीय पृथिवी के रस का और त्वक् सजातीय वायु और विजातीय पृथिवीके स्पर्श का ग्रहण करती है। घ्राण और श्रोत्र तो स्वसजातीय पृथिवी और आकाश में समवेत गन्ध तथा शब्द गुणों के ग्राहक हैं। 'इस प्रकार सदृशेन्द्रियग्राह्य गन्ध में जब अभिव्यञ्जक का नियम नहीं है तब सदृशेन्द्रिय ग्राह्य शब्द में भी अभिव्यञ्जक नियम नहीं होगा। किन्तु जन्यजनक भाव ही मानना चाहिये।' यह कहना ठीक नहीं, क्योंकि सदृशग्रहणानां च गन्धादीनां प्रकाशकम् । निमित्तं नियतं लोके प्रतिद्रव्यमवस्थितम् ॥ ९८ ॥ सदृशं स्वाश्रयसदृशमिन्द्रियं ग्रहणं ग्राहकं येषां ते

स्फोटस्य घट इति पट इति भेदश्चानुभूयते इति अभिव्यङ्ग्यधर्माभावात् स्फोटो ना- भिव्यज्यते किन्तूत्पद्यते एवेति न स्फोटस्य नित्यत्ता स्यादत आह— जो लोग स्फोट की अभिव्यक्ति का खण्डन करने के लिए कहते हैं कि जैसे अभिव्यञ्जक दीपक के वृद्धि और ह्रास से घट में वृद्धि और ह्रास नहीं होता तथा सैकड़ों दीपकों से देखा गया घट भी अनेक नहीं होता। वैसे अभिव्यञ्जक प्राकृतध्वनि के वृद्धि और ह्रास से अभिव्यङ्ग्य स्फोट में वृद्धि और ह्रास और अनेक प्राकृत ध्वनियों से घट पट आदि अनेक स्फोटों की अभिव्यक्ति नहीं होनी चाहिए किन्तु होती है। अतः स्फोट व्यङ्ग्य नहीं है' यह कहना असङ्गत है। क्योंकि— प्रकाशकानां भेदाँश्च प्रकाश्योऽर्थोऽनुवर्तते । तैलोदकादिभेदे तत्प्रत्यक्षं प्रतिबिम्बके ॥ ९९ ॥ प्रकाशकानाम् अभिव्यञ्जकानां भेदान् संख्याः चाङ् वृद्धिह्रासांश्च प्रकाश्यः अभिव्यङ्ग्यः अर्थः अनुवर्तते अभिव्यञ्जकभेदेऽभिव्यङ्ग्यभेदः अभिव्यञ्जकवृद्धौ अभि- व्यक्तवृद्धिः अभिव्यञ्जकहासे अभिव्यङ्ग्यह्रासश्च दृश्यते, क्व दृश्यते इत्याह—तदिति । तत् अभिव्यङ्ग्यस्य भेदः नानार्थं तैलोदकादिभेदे प्रतिबिम्बके प्रत्यक्षं तथा तैले श्यामं जले रक्ते, वज्रमणी लघु ततो दीर्घे दर्पणे ततो दीर्घे जले, खड्गे दीर्घं मुकुरे वर्त्तुलमि- ति अभिव्यञ्जकवृद्धिह्रासयोः अभिव्यङ्ग्यस्य मुखस्य वृद्धिह्रासौ अभिव्यञ्जकस्य दर्पण- जलपात्रादेश्च नानात्वे अभिव्यङ्ग्यस्य मुखप्रतिबिम्बस्य सूर्यचन्द्रप्रतिबिम्बस्य च नाना- त्वं एकस्यैव चैतन्यस्य अन्तःकरणोपाधिभेदेन नानात्वं च दृश्यते इति अभिव्यञ्जक- वृद्धौ अभिव्यङ्ग्यवृद्धेः अभिव्यञ्जकभेदे अभिव्यङ्ग्यभेदस्य च दृष्टत्वादभिव्यञ्जक- ध्वनेर्भेदे वृद्धौ चाभिव्यङ्ग्यस्य स्फोटस्य भेदो वृद्धिश्च न स्फोटाभिव्यङ्ग्यताविघातकौ इति भावः । तथा च 'यथा ह्येको ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुग- च्छन्' इति श्रुतिः 'एकधा बहुधा चैव दृश्यते जलचन्द्रवत्' इति स्मृतिश्च ॥ ९९ ॥ अभिव्यञ्जक के भेद (संख्या, वृद्धि और ह्रास) से अभिव्यङ्ग्य का भेद (संख्या, वृद्धि और ह्रास) भी होता है। इसका प्रत्यक्ष तैल और जल आदि के प्रतिबिम्ब में किया जा सकता है। जैसे एक ही व्यक्ति के मुख का प्रतिबिम्ब तैल में श्याम, जल में गौर, वज्रमणि में छोटा, दर्पण में बड़ा, जल में उससे भी बड़ा, तलवार में लम्बा, दर्पण में गोला दिखाई पड़ता है इससे यह सिद्ध होता है कि अभिव्यञ्जक के वृद्धि और ह्रास से अभिव्यङ्ग्य का वृद्धि और ह्रास तथा अभिव्यञ्जक के भेद में अभिव्यङ्ग्य का भेद भी होता है। इसलिए अभिव्यङ्ग्य में भेद, वृद्धि और ह्रास नहीं होता यह कहना अनुचित है ॥ ९९ ॥ ननु चन्द्रादिभ्योऽन्यत् प्रतिबिम्बं दर्पणाद्युत्पद्यते तच्च नानेव इति नाभिव्य- ञ्जकभेदेनाभिव्यङ्ग्यभेदः प्रतिबिम्बस्थले इति दृष्टान्तासङ्गतिरत आह— जो लोग कहते हैं कि चन्द्र और चन्द्र के प्रतिबिम्ब में भेद है। प्रतिबिम्ब अनेक है वह ही दर्पण आदि में दिखाई पड़ता है। अतः प्रतिबिम्ब को दृष्टान्त मानकर अभिव्यङ्ग्य और अभिव्यञ्जक भेद नहीं बन सकता। उनका कहना भी असङ्गत है। क्योंकि—

११२ वाक्यपदीयम् विरुद्धपरिमाणेषु वज्रादर्शजलादिषु । पर्वतादिसरूपाणां भावानां नास्ति सम्भवः ॥ १०० ॥ पर्वतपरिमाणापेक्षया विरुद्धं भिन्नमल्पं परिमाणं येषां तेषु विरुद्धपरि- माणेषु वज्रादर्शजलादिषु लघुपरिमाणेषु पर्वतादिसरूपाणां महापरिमाणां भावानां पर्वतादीनां चन्द्रादीनां च सम्भवः उत्पत्तिसम्भवः नास्ति । अयं भावः यन्महापरिमाणानां पर्वतहस्त्यादीनां लघुपरिमाणेषु दर्पणादिषु समावेशाभावेन तदारम्भकाणां तदवयवानां भानाभावेन तत्र नोत्पत्तिसम्भवः किन्तु दर्पणादिसम्बन्धे तेषामेव पर्वतादीनां तथावभासो जायते इति न दृष्टान्तासंगतिः ॥ १०० ॥ पर्वत के परिमाण की अपेक्षा अल्पपरिमाण वाले वज्र और दर्पण आदि छोटी वस्तुओं में महापरिणाम वाले पर्वत और चन्द्र आदि की उत्पत्ति नहीं हो सकती । इसलिए मानना पड़ेगा कि बड़े परिमाण वाले पर्वत आदि अल्पपरिमाण वाले दर्पण में समाविष्ट नहीं हो सकते फिर भी उनकी दर्पण में उत्पत्ति नहीं होती किन्तु बड़े परिमाण वाले पर्वत ही दर्पण में अभिव्यक्त होते हैं ॥ १०० ॥ एवं व्यञ्जकध्वनिकालकृतं स्फोटे कालभेदमुपपाद्योपसंहरति— तस्मादभिन्नकालेषु वर्णवाक्यपदादिषु । वृत्तिकालः स्वकालश्च नादभेदाद्विभाव्यते ॥ १०१ ॥ तस्मात् व्यङ्ग्ये व्यञ्जकधर्मानुगमदर्शनात् अभिन्नकालेषु स्वतः कालभेद- रहितेषु वर्णवाक्यपदादिषु तदाख्यस्फोटेषु नादभेदात् प्राकृतवैकृतध्वनिभेदात् वृत्तिकालः द्रुतादिवृत्तिकालः स्वकालः स्वीयस्य-स्वाभिव्यञ्जकस्य प्राकृतध्वने- र्मात्रादिकालश्च विभाव्यते प्रतीयते न तु तत्र वास्तवतादृशकालसम्बन्धोऽस्तीति भावः ॥ इयांस्तु विशेषः यत् प्राकृतः स्फोटेऽध्यस्यमानः ह्रस्वदीर्घप्लुतभेदव्यवहा- रकारणं वैकृतस्तु शब्देऽवधारिते भवन् गृहीतभेदत्वात् नाध्यारोपनिमित्तं किन्तु शब्दाद्द्रुतादिकालव्यवस्थानिमित्तम् तावत्कालं स्फोटोपलब्धिवारणमिति यावत् । तेन च न स्फोटभेद इति ह्रस्वत्वदीर्घत्वादिकं च ध्वनिधर्म एवेति स्फुटमुक्तं श्लोकवार्त्तिके— ‘स्वतॊ ह्रस्वादिभेदस्तु नित्यवादे विरुध्यते । सर्वदा यस्य सद्भावः स कथं मात्रिकः स्वयम् ॥ तस्मादुच्चारणं तस्य मात्रं कालं प्रतीयताम् । द्विमात्रं वा त्रिमात्रं वा न वर्णो मात्रिकः स्वयम् ॥’ इति ॥ १०१ ॥ इसलिए व्यङ्ग्य में व्यञ्जक धर्मों को देखकर यह मानना पड़ता है कि कालभेद रहित वर्ण, पद और वाक्य स्फोटों में नाद के (प्राकृत और वैकृतध्वनि के) भेद से द्रुतादि वृत्तियों का तथा वर्ण आदि का अभिव्यञ्जक प्राकृति ध्वनि का काल प्रतीत होता है । ~ ३

ब्रह्मकाण्डम् ] संस्कृत-हिन्दी-व्याख्योपेतम् ११३ इदानीं कार्यपक्षे नादस्फोटयोः स्वरूपमाह— जो लोग शब्द को अनित्य मानते हैं उनके मत में नाद और स्फोटका स्वरूप है— यः संयोगविभागाभ्यां करणैरुपजन्यते । स स्फोटः शब्दजाः शब्दा ध्वनयोऽन्यैरुदाहृताः ॥ १०२ ॥ करणैः कण्ठताल्वादिभिः संयोगविभागाभ्यां वायुसंयोगविभागाभ्यां यः शब्दः प्रथमम् उपजन्यते स स्फोटः बोधकः उत्तरोत्तरशब्दानां कारणं च ये च श- ब्दजाः स्फोटाख्यात् शब्दाज्जातास्ते ध्वनयः अन्यैः स्फोटकार्यत्ववादिभिः आचार्यैः उदाहृताः कथिताः ॥ नित्यत्वपक्षे तु संयोगविभागजध्वनिव्यङ्ग्यः संयोगविभागज- ध्वनिसंभूतनादाभिव्यङ्ग्यो¹ वा स्फोटः स्फोटरूपानुग्राहकाश्च यथोत्तरमपचीयमाना- भिव्यक्तिसमर्थाः द्रुतादिवृत्तिभेदव्यवस्थाहतवउपचयात्मका ध्वनय इति ॥ स्फोट को अनित्य मानने वाले तार्किक आचार्यों ने कहा है कि कण्ठतालु आदि के संयोग और विभाग के द्वारा जो उत्पन्न होता है वह स्फोट (वाचक शब्द) है और जो शब्दज शब्द हैं वे ध्वनियाँ हैं। वैशेषिकाः संयोगाद्विभागाच्छब्दाच्च शब्दोत्पत्तिरित्याहुः । तत्र यथा प्रथमं वातेनै- का वीचिरुत्पद्यते अनन्तरं तयैव तरङ्गान्तरं तेनाप्यन्यदिति पूर्वपूर्वतरङ्गेभ्य उत्तरोत्तर- तरङ्गाणामुत्पत्तिस्तथा भेरीदण्डसंयोगाद् वेणुदलविभागाद्वा शब्द आकाशदेशे निष्पद्यते स चायमसमवायिकारणतया शब्दान्तरमारभते तच्च शब्दान्तरमिति परम्परया श्रोत्रपथ- मवतीर्णो गृह्यते । 'भेरीशब्दो मया श्रुतः' इति धीस्तु भ्रम एव । अयं वीचीतरङ्ग- न्यायेन शब्दोत्पत्तिपक्षः ॥ इदमत्रावधेयम्—वैयाकरणा यं प्राकृतध्वनिरिति व्यवहरन्ति तमेव तार्किकाः वाचकशब्दं मन्यन्ते यं च ते वैकृतध्वनिरिति व्यवहरन्ति तं च तार्किकाः ध्वनिरिति व्यवहरन्तीति ॥ १०२ ॥ भेद केवल इतना है कि वैयाकरण जिसे प्राकृत-ध्वनि कहते हैं तार्किक उसे ही वाचक शब्द (स्फोट) मानते हैं और जिन्हें वैयाकरण वैकृतध्वनि कहते हैं। तार्किक उसे ध्वनि कहते हैं ॥ १०२ ॥ संयोगजो ध्वनिः स्फोटः स्फोटजास्तु ध्वनय इति पूर्वोक्तपक्षे प्रक्रियामाह— इसकी प्रक्रिया इस प्रकार है— अल्पे महति वा शब्दे स्फोटकालो न भिद्यते । परस्तु शब्दसन्तानः प्रचयापचयात्मकः ॥ १०३ ॥ अल्पे महति वा शब्दे वैकृतध्वनौ जाते स्फोटकालो ह्रस्वाकारादिकालः न भिद्यते शब्दस्य अमूर्तत्वेन अल्पत्वमहत्त्वादिपरिमाणाद्योगात् किन्तु मुख्याल्पत्व- महत्त्वानां सूचीपर्वतादीनां यथा सूची अल्पदेशं पर्वतश्चाधिकदेशं व्याप्नोति तथा शब्दो- १. नादपदेन वर्णः । १५ वा०

११४ वाक्यपदीयम् ऽपि अल्पमहान्तौ देशौ व्याप्नुवन् अल्पो महांश्च व्यपदिश्यते । सा चाधिकाल्पदेश- व्याप्तिर्वैकृतध्वनिकृता। परः कार्यभूतः शब्दसन्तानःप्रचयापचयात्मकः अधिक- देशव्याप्तिमान् अल्पदेशव्याप्तिमांश्च भवति। प्रचयोऽधिकदेशव्याप्तिः, अपचयोऽल्पदेश- व्याप्तिः इति कार्यभूतानां वैकृतध्वनीनां वशेन कारणभूता स्फोटशब्दाः अकारादयः प्रचिता उपचिता वा न व्यज्यन्ते उच्चैरुच्चारिते ह्रस्वाक्षरे केवलं ध्वनिरधिकदेशं व्याप्नोति अकारस्तु न भिद्यते इति भावः । शब्दोऽत्र ध्वनिः स च द्विविध उत्तरो- त्तरशब्दानां कारणरूपः कार्यरूपश्च। आद्यः स्फोटव्यञ्जकः स्फोट एव वा परः कार्यरूपः। तत्राद्यः प्राकृतः परो वैकृतः। तत्र कारणरूपस्य ध्वनेः कार्यजनने सामर्थ्यं भिद्यते, यथा भेरीदण्डाभिघातजस्य परम्परा दूरमनुपतति लोहकांस्याभिघातजस्य तु प्रत्यासन्नदेश- मिति ॥ १०३ ॥ शब्द (ध्वनि) चाहे छोटी हो या बड़ी किन्तु स्फोट काल (ह्रस्वादि काल) भिन्न नहीं है। क्योंकि शब्द अमूर्त है। इसलिए अल्पत्व महत्त्व परिमाण का उनसे कोई सम्बन्ध नहीं है। दूसरे जो कार्यरूप शब्द की परम्परा है वह प्रचय (अधिक देश में व्याप्त होना) और अपचय (अल्पदेश में व्याप्त होना) रूप है। तात्पर्य यह है कि ह्रस्व, दीर्घ, और प्लुत आदि व्यवहार स्फोट में नहीं हो सकते। क्योंकि अमूर्त शब्द में कोई परिमाण नहीं रह सकता। इसलिए ध्वनि का न्यूनदेश में रहना अल्पता और अधिक देश में रहना व्याप्ति महत्ता है ॥ १०३ ॥ अनित्यशब्दवादिनामेव मतान्तरमाह— शब्द को अनित्य मानने वाले ही कुछ लोगों का मत है— दूरात्प्रभेव दीपस्य ध्वनिमात्रं तु लक्ष्यते । घण्टादीनां च शब्देषु व्यक्तो भेदः स दृश्यते ॥ १०४ ॥ यथा प्रदीपः प्रभया सहोत्पद्यते एवं स्फोटोऽपि ध्वनिना सहोत्पद्यते, यथा प्रदीप-प्रभा दूरव्यापिनी एवं ध्वनिरपि । तत्र यथा दूरात् दीपस्य प्रभा प्रभामात्रं लक्ष्यते न दीपः एवं दूरात् ध्वनिमात्रं लक्ष्यते न स्फोटः घण्टादीनां च शब्देषु स्फोटनादयोः स भेदः व्यक्तो दृश्यते आदिपदेन कांस्यपात्रादिकं गृह्यते ॥ जैसे प्रभाके सहित व्यक्त दीपक को दूर से देखिए तो केवल प्रभा ही दिखाई पड़ती है, दीपक नहीं। वैसे ध्वनि के सहित व्यक्त स्फोट नहीं अनुभूत होता किन्तु ध्वनि ही अनुभूत होती है। यह भेद घण्टा आदि के शब्दों में स्पष्टरूप से दिखाई पड़ता है। केचित् तार्किका वीचीतरङ्गन्यायेन शब्दोत्पत्तिपक्षे सर्वतः प्रसरो नास्तीति सर्वतः प्रसरः शब्दसन्तानस्य यथा स्यादित्येतदर्थं यथा कदम्बगोलके ग्रन्थिदेशः सर्वासु दिक्षु केशरान्प्रसूते तथा आद्यः शब्दो दशसु दिक्षु बहून् शब्दानुत्पादयति तेऽप्यपरान् तेऽप्यपरान् उत्पादयन्तीत्याहुः । अयं च कदम्बगोलकन्यायेन दीपप्रभा- न्यायेन वा शब्दोत्पत्तिपक्षः ॥ १०४ ॥ [ ये तार्किक वीचीतरङ्गन्याय से शब्द की उत्पत्ति नहीं मानते किन्तु कदम्बगोलकन्याय वा

ब्रह्मकाण्डम् ] संस्कृत-हिन्दी-व्याख्योपेतम् ११५ दीपप्रभान्याय मानते हैं। क्योंकि वीचीतरङ्ग में सब दिशाओं में तरङ्ग का प्रसार नहीं होता और दीपकी प्रभा का अथवा कदम्बगोलक का हर दिशा में प्रसार होता है] ॥ १०४ ॥ अध्यवहितश्लोकाभ्यामुक्तमर्थं स्पष्टयति— इसे उदाहरण द्वारा स्पष्ट करते हैं। द्रव्याभिघातातप्रचितौ भिन्नौ दीर्घप्लुतावपि । कम्पे तूपरते जाता नादा वृत्तेर्विशेषकाः ॥ १०५ ॥ द्रव्यं स्थानं करणं च तयोरभिघातः शब्दहेतुभूतसंयोगः कण्ठादिभिर्वायूनां संयोग इति यावत्, तस्मात् द्रव्याभिघातात् भिन्नौ दीर्घप्लुतावपि प्रचितौ ध्वनिकारणवायुसंयोगप्रचयात् दीर्घप्लुतयोः प्रचयः विशिष्टप्रयत्नजनितेन वायुना स्थानेषु अभिघातो जायते तेन च वायौ कम्पो भवति तेनाभिघातपरम्परा भवति । यथा महता प्रयत्नेन वादितायां घण्टायामधिककालं घण्टायां कम्पोऽनुवर्तते तेन च घण्टामध्यस्थेन ( लम्बकेन ) विजुलीपदव्यपदेश्येन पुनः । पुनरभिघातो भवति स च कम्पः शब्दस्वरूपलाभपर्यन्तमनुवर्तते तस्मिन् कम्पे स्पन्दे उपरते निवृत्ते सति जाता नादाः वैकृतध्वनयः वृत्तेर्द्रुतावृत्तेः विशेषकाः भेदव्यवस्थाहेतवो भवन्ति न तु दीर्घप्लुतादेरिति भावः ॥ स्थान और प्रयत्नरूपी द्रव्य में अभिघात ( कण्ठादि स्थानों में वायु के संयोग ) से प्रचित ( बढ़े हुए ) दीर्घ और प्लुत आदि भेद हैं। इस अभिघात के जनक कम्पन के समाप्त होने पर जो नाद उत्पन्न होता है उसी से द्रुता आदि वृत्तियों के भेद की स्थापना होती है। दीर्घप्लुत आदि की नहीं। इदमत्रावधेयम्—नित्यशब्दपक्षे ध्वनीनां मात्रिकत्वात् नित्ये शब्दे मात्रि- कत्वमारोप्यते इति ह्रस्वत्वादिकं नाकारादिधर्मः कार्यशब्दपक्षे तु अकारादीनामेव मात्रिकत्वाद् ह्रस्वत्वादिकं तन्निष्ठमेव वैकृतध्वनिकृतभेदाभावस्तु पक्षद्वयेऽपि समान इति ॥ १०५ ॥ तात्पर्य यह कि शब्द की उत्पत्ति के पहले जितने कम्प हैं वे प्राकृत ध्वनि के हैं और शब्द के उत्पन्न होने के बाद जो अनुरणन है वह वैकृत ध्वनि का विषय है। नित्यशब्द वादियों के मत से ध्वनि ही मात्रिक है ह्रस्वत्व और दीर्घत्व आदि धर्म ध्वनि के हैं और शब्द पर उनका आरोप होता है। कार्य शब्द वादी के मत से तो अकार ही मात्रिक है और ह्रस्वत्व आदि धर्म उसी के हैं। इस प्रकार दोनों पक्षों से यह सिद्ध हुआ कि ह्रस्वत्व आदि धर्म वैकृत ध्वनि के भेद नहीं हैं ॥ १०५ ॥ मतान्तरमाह— अनवस्थितकम्पेऽपि करणे ध्वनयोऽपरे । स्फोटादेवोपजायन्ते ज्वाला ज्वालान्तरादिव ॥ १०६ ॥ करणे दन्तादौ अनवस्थितकम्पेऽपि अनुवर्त्तमानकम्पेऽपि अपरे ध्वनयः

'? Wait, look at the next word: म ू र् ध् न ्य भ ि ह त ो Wait, is that 'मूर्धन्यभिहतो' or 'मूर्ध्नाभिहतो'? Let's look at the consonant under 'मूर्': There is 'ध्' (dh), then 'न' (na) with virama or '्य' (ya)? Wait, look at "मूर्ध्नि"? No, "मूर्ध्ना"? Look at "मूर्ध्नि प्रतिहतो"? Wait, the letters are: म ू र् ध् न ्य भ ि ह त ो (mūrdhnyabhihato) - "मूर्धन्यभिहतो" or "मूर्ध्नाभिहतो" or "मूर्ध्नि चाभिहतो"? Look at: म ू (mū) र् ध् न ्य (rdhnya) भ ि (bhi) ह (ha) त ो (to) -> मूर्धन्यभिहतो or मूर्ध्नाभिहतो? Wait, if it's 'मूर्ध्ना', there would be an 'आ' matra. There is none. There is a 'य' curve. So 'मूर्धन्यभिहतो' or 'मूर्ध्नि चाभिहतो'? Wait, look at the letter between 'र्ध्व' and 'मूर्': Wait, is it '

ब्रह्मकाण्डम् ] संस्कृत-हिन्दी व्याख्योपेतम् ११७ भवति इति तदर्थः। शब्दी-भवतीत्युक्त्या शब्दस्य वायुपरिणामत्वं स्फुटीकृतम्। ततः 'संघातादीन् वाक्' इति सूत्रेण शब्दीभूतस्य वायोः वर्णभावापत्तिरुक्ता। अयमर्थः- यो वायुः वेणुशङ्खादिभिरुपहितः शब्दीभूतः स संघातः—पुरुषप्रयत्नः बाह्याभ्यन्तर- लक्षणः स आदिर्येषां स्थानादीनां ते तान् संघातादीन् प्राप्य वाक् वर्णो भवतीति। शब्दार्थप्रत्ययानामिति [ ३ पा० १७ सू० ] सूत्रे 'श्रोत्रं च ध्वनिपरिणाममात्र- विषयम्' इति व्यासभाष्यप्रतीकमादाय 'श्रोत्रं पुनर्वैश्वानरस्य वागिन्द्रियाभि- घातिनो यः परिणतिभेदो वर्णात्मा तेनाकारेण परिणतं तन्मात्रविषयम्' इति श्री वाचस्पतिमिश्राः। तस्मिन्नेव सूत्रे 'ध्वनिर्नाम वागिन्द्रियादिप्रविहितस्योदान- वायोः परिणतिभेदः तदभिघातात्तद्व

११८ वाक्यपदीयम् जैसे कारण (वायु को शब्द बनाने वाले प्रयत्न) के सामर्थ्य से वेग (एक संस्कार) और प्रचय (शिथिल संयोग) रूपी धर्म वाले वायु के संयोग बड़े बड़े पर्वतों को जब उखाड़ देते हैं तब कण्ठ तालु आदि का विभाग होना कठिन नहीं है ॥ १०९ ॥ जैनभिमतामणूनां शब्दभावापत्तिमाह— जैनों का मत है कि— अणवः सर्वशक्तित्वाद् भेदसंसर्गवृत्तयः । छायातपतमःशब्दभावेन परिणामिनः ॥ ११० ॥ सर्वशक्तित्वात् सर्वकार्यजननशक्तिमत्त्वात् भेदसंसर्गस्य शक्तिभेदमूलकारो- पितभेदसंसर्गस्य वृत्तिर्येषु ते, भेदो विभागः संसर्गः संयोगः तयोर्वृत्तिर्येषु ते वा भेद- संसर्गवृत्तयः अणवः परमाणवः छायातपतमः शब्दभावेन विभक्ताः छायातप- भावेन संयुक्ताश्च शब्दभावेन परिणामिनो भवन्तीति शेषः इति ॥ विभाग और संयोग जिनमें रहते हैं उन अणुओं में सब प्रकार के कार्यों को उत्पन्न कर सकने वाली एक शक्ति है जो विभक्त होने पर छाया, आतप और अन्धकार के रूप में तथा संयुक्त होने पर शब्द रूप में परिणत हो जाती है ॥ ११० ॥ एतदुक्तं भवति एकविधा एव परमाणवः छायारूपेण आतपरूपेण तमोरूपेण शब्दरूपेण च परिणमन्ते । नचैकविधस्य कथमनेकविधकार्यजनकत्वमिति वाच्य- म् । तेभ्यः सर्वविधकार्यजननदर्शनेन तेषु सर्वविध कार्यजननशक्तिमत्त्वानुमानेन तत्त- त्कार्यजननशक्तिभेदकृतभेदसमारोपेण भिन्नभिन्नपरमाणुभ्यो भिन्नभिन्नकार्यजननसंभ- वात् । अणूनां छायातपरूपविरुद्धपरिणामप्रतिपादनेन विरुद्धनानाशक्तियोगः एक- स्यैव वस्तुन इति सूचितम् ॥ ११० ॥ जैन मतानुयायियों का तात्पर्य यह है कि अणु में सब प्रकार के कार्य उत्पन्न करने की शक्ति होती है ये कभी छाया रूप से मेघ बनकर कभी आतपरूप से, कभी तम रूप से और कभी शब्द रूप से परिणत हुआ करते हैं । यहाँ यह शङ्का उत्पन्न होना अनुचित है कि एक ही परिमाणु में अनेक प्रकार के कार्य उत्पन्न करने की शक्ति कैसे होगी ? क्योंकि अणुओं में सब प्रकार की शक्ति है और शक्ति के भेद से कार्य में भेद हो जाना स्वाभाविक है । तात्पर्य यह है कि अणुओं के एक होने पर भी शक्ति का भेद उनमें मानना पड़ता है और इसी शक्ति के भेद के कारण भिन्न प्रकार की शक्तिवाले परमाणु से भिन्न-भिन्न प्रकार की वस्तु उत्पन्न होती है । अतः एक परमाणु का छाया, आतप, तम और शब्द रूप में परिणत हो जाना अनुचित नहीं है । नन्वणूनां नित्यतया सर्वदा सत्त्वात्कुतो न सर्वदा शब्दभावेन परिणाम इत्यत आह— यद्यपि अणु नित्य हैं अतः सर्वदा उनकी सत्ता तो स्वीकृत है फिर भी वे सर्वदा शब्द रूप में ही परिणत नहीं होते क्योंकि— स्वशक्तौ व्यज्यमानायां प्रयत्नेन समीरिताः । अभ्राणीव प्रचीयन्ते शब्दाख्याः परमाणवः ॥ १११ ॥

ब्रह्मकाण्डम् ] संस्कृत-हिन्दी-व्याख्योपेतम् ११६ प्रयत्नेन अर्थबोधनेच्छया समुपजातेन प्रयत्नेन शमीरिताः प्रेरिता शब्दा- रूपाः शब्दपरिणामस्वाच्छन्द द्रव्यव्याताः शब्दतन्मात्रारूपा वा परमाणवः स्वश- क्तौ घटशब्दाद्याकारपरिणमनशक्तौ व्यज्यमानायां सत्याम् अभ्राणीव वर्षाकाले मेघपरमाणव इव प्रचीयन्ते संहता भवन्ति इत्यर्थः । प्रयोक्तृयत्नेन संह्रियमाणाः शब्दत्वापत्तिशक्तियुक्ताः परमाणवः शब्दभावेन परिणमन्त इति न सर्वदा शब्दभावेन परिणाम इति भावः ॥ किन्तु जब किसी अर्थ को बताने की इच्छा से किये गए प्रयत्न द्वारा शब्द या शब्दतन्मा- त्रारूपी परमाणुओं को प्रेरणा मिलती है। तब उनकी शक्ति उन-उन शब्दों के रूप में व्यक्त होती है और वे ही परमाणु जैसे वर्षाकाल में मेघ के परमाणु आकाश में व्याप्त हो जाते हैं। वैसे शब्द के रूप में परिणत हो जाया करते हैं। इसी लिए नित्य अणुओं का सर्वदा शब्दरूप में परिणाम नहीं होता ॥ १११ ॥ शब्दस्याणुपरिणामता च-शब्दः पौद्गलिकः अस्मदादिप्रत्यक्षत्वे सति अचेतनत्वे च सति क्रियावत्त्वात् बाणादिवदित्यनुमानेन शब्दस्याकाशगुणत्वखण्डनप्रकरणे प्रमेय- कमलमार्त्तण्डे निरूपिता । मनसः आत्मनश्चापौद्गलिकत्वात् तत्र व्यभिचारवार- णाय क्रमेण सत्यन्तद्वयम् । सामान्ये व्यभिचारवारणाय विशेष्यम् । न च शब्दे क्रियावत्त्वमसिद्धम्, शब्दस्य निष्क्रियत्वे मस्य श्रोत्रेण ग्रहणं न स्यादसम्बन्धात् । न च श्रोत्रमेव शब्ददेशं गच्छतीति साम्प्रतं धर्माधर्माभ्यां संस्कृतकर्णशष्कुल्यवच्छिन्नभो- लक्षणश्रोत्रस्य निष्क्रियत्वात् शब्दोत्पत्तिदेशे श्रोत्रस्य गतिप्रतीत्यभावाच्च । किं च शब्दः पौद्गलिकः अस्मदादिप्रत्यक्षत्वे सति स्पर्शवत्त्वादित्यनुमानेन शब्दस्य पौद्गलि- कत्वसिद्धि । न च शब्दे स्पर्शवत्त्वमसिद्धमिति वाच्यम् शब्दः स्पर्शवान् स्वसंबद्धा- र्थान्तराभिधानहेतुत्वाद् गुरुत्ववत् इत्यनुमानेन तत्सिद्धेः । सुप्रतीतो हि कांस्यपात्र्या- दिष्वन्यभिसम्बन्धेन श्रोत्राद्यभिघातन्तरकार्यस्य बाधिर्यादेः प्रतीतेः । स चास्यास्पर्श- वत्वे न स्यात् नह्यस्पर्शवता काष्ठादिनाऽभिसम्बन्धेऽसौ दृष्टः । न च शब्दसहचरितेन वायुना तदभिघात इति वाच्यम् शब्दान्वयव्यतिरेकानुविधायित्वात्तस्य । न च शब्दो नपौद्गलिकः अस्मदाद्यनुपलभ्यमानरूपवत्त्वाद्यन्नैवं तदस्मदाद्युपलभ्यमान- रूपवत् यथा घट इत्यनुमानेन सप्रतिक्षप इति वाच्यम् द्वयणुकादिना पौद्गलिकेन व्यभिचारेण व्यतिरेकव्याप्तिग्रहासम्भवादिति ॥ १११ ॥ महाभाष्यदृष्ट्या ज्ञानस्य शब्दभावापत्तिमाह— महाभाष्यकार पतञ्जलिका मत है कि— अथायमान्तरो ज्ञाता सूक्ष्मवागात्मना स्थितः । व्यक्तये स्वस्य रूपस्य शब्दत्वेन विवर्तते ॥ ११२ ॥ आन्तरः ज्ञाता बुद्धिधिष्ठितमन्तःकरणं सूक्ष्मवागात्मना सूक्ष्मशब्दाकारता- क्तिमात्रेण स्थितः स एव जीवो विवरप्रवृत्तिरितिश्रुत्या। वैयाकरणमते वाच एवात्म-

खमिति भावः । वर्त्तमानः स्वस्य रूपस्य वृत्त्या एकबुद्धिविषयीभूतार्थविषयक- बोधेच्छाविशिष्टस्य स्वस्य व्यक्तये प्रकाशाय श्रोतृबोधाय शब्दत्वेन स्थूलशब्दभावेन विवर्त्तते वृत्तिविशिष्टान्तःकरणस्य शब्दभावापत्तिरेव ज्ञानस्य शब्दभावापत्तिरि- त्यर्थः । प्रयोक्तृज्ञानस्य शब्देनैवाभिलापसम्भवादिति भावः । केचित्तु — सूक्ष्मे वागात्मनि स्थिति इति पाठमभिप्रेत्य ज्ञाता जीवः ज्ञानात्मकेऽपि तस्मिन् ग्रहीतृव्यवहारोऽस्ति यथा शब्दतत्त्वमेवेदं वाङ्मनसाख्यमविभागमिति तेन ज्ञात- र्यपि वाग्रूपानुवेधः सूक्ष्मे भेदरूपोपसंहारादतीन्द्रिये वागात्मनि स्थितिः व्यक्तये तस्यामवस्थायां शब्दरूपस्य ज्ञानस्याविवेकेनानवधारणेन शब्दरूपव्यक्त्यर्थं स्थूले- न्द्रियगम्येन रूपेण विवर्तत इत्यर्थमाहुः । अन्येतु अभेदान्तरं ज्ञानं सूक्ष्मवागा- त्मना स्थितमिति पाठमभिप्रेत्य

संस्कृत-हिन्दी-व्याख्योपेतम् १२१ आगतः प्राप्तः सन् प्राणं वायुमाविशति अभिहन्ति स्वरूपं तत्र प्रत्यक्त्यात्मरूप- तामापादयति अथ अभिघातानन्तरमसो सवृत्तिकमनोयुक्तः प्राणः समुदीर्यते ऊर्ध्वं गमनाय प्रेर्यते इति यावत् ॥ ११३ ॥ वही ज्ञाता (अन्तःकरण) अर्थ बताने की इच्छा होने पर मन बन जाता है और वह जठराग्नि से संयुक्त होकर पाक प्राप्त करता है तथा प्राणवायु में धक्का लगा कर बाद में वृत्ति और मन के सहित प्राण ऊपर की ओर चलता है ॥ ११३ ॥ अन्तःकरणतत्त्वस्य वायुराश्रयतां गतः । तद्धर्मेण समाविष्टस्तेजसैव विवर्तते ॥ ११४ ॥ ततः अन्तःकरणतत्त्वस्य मनसः आश्रयतां गतो वायुः यत्र प्राणवायुर्नास्ति तत्र मनो नैव तिष्ठति यथा मृतशरीरे अतः प्राणवायुर्मनस आश्रय इत्युच्यते तद्धर्मेण मनोधर्मेण दाहेन ज्ञानरूपशब्देन वा समाविष्टः तेजसैव, जठराग्निमहकारेणैव विव- र्तते बहिः शब्दरूपो भवति । तेजसैवेति पाके यथा इन्धनं तेज आश्रयतां प्रतिपन्नं तन्मावेशादिन्धनरूपतां विहाय तेजोरूपं भवति तथा वायुः स्वरूपहानेन मनोरूपतां प्रतिपद्यत इत्यर्थः ॥ ११४ ॥ तब अन्तःकरणतत्त्वरूपी मन का आश्रय प्राणवायु मनोधर्म (पाक दाह—अथवा ज्ञानरूप शब्द) समाविष्ट होकर तेज (जठराग्नि) की सहायता से बाहर शब्द के रूप में भासित होता है ॥ ११४ ॥ विभज्य स्वात्मनो ग्रन्थीन् श्रुतिरूपैः पृथग्विधैः । प्राणो वर्णानभिव्यज्य वर्णेष्वेवोपलीयते ॥ ११५ ॥ दाहवशादेव प्राणः सवृत्तिकमनोरूपान्तःकरणयुतः स्वात्मनो ग्रन्थीन् कादिव- र्णरूपान् विभज्य पृथगवस्थाप्य पृथग्विधैः भिन्नैः श्रुतिरूपैः श्रूयमाणैः ध्वनिभिः वर्णान् अभिव्यज्य वर्णेष्वेवोपलीयते वर्णतः पृथक् न तिष्ठति किन्तु तद्रूप एव भवतीति सवृत्तिकमनोरूपान्तःकरणयुतस्य वायोर्यः शब्दभावेन परिणामः स एव ज्ञानस्य शब्दत्वापत्तिरिति द्रष्टव्यम् ॥ और दाह के वशीभूत होकर प्राण, वृत्ति विशिष्ट मनरूपी अन्तःकरण से युक्त होकर अपनी क, ख आदि वर्णरूपी ग्रन्थिका विभाग करके अनेक प्रकार से सुनाई पड़ने वाली ध्वनियों से शब्दों को अभिव्यक्त कर पुनः उन्हीं वर्णों में ही लीन होता है । अर्थात्, वृत्ति सहित मनरूपी अन्तःकरण से युक्त जो वायु का शब्द रूप में परिणाम है। 'ही ज्ञान का शब्दरूप होना है ॥ ११५ ॥ अयमेव क्रम उक्तः शब्दोत्पत्तौ पाणिनिशिक्षायाम्— 'आत्मा बुद्ध्या समेत्यार्थान् मनो युङ्क्ते विवक्षया । मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥ सोदीर्णो मूर्ध्व्यभिहतो वक्त्रमापद्य मारुतः । वर्णान् जनयते' इति ।

An exact, line-by-line transcription of the Devanagari text from the image:

अस्यार्थः—आत्मा = अन्तःकरणं न चैतन्यं तस्य निर्विकारत्वेन वृत्तिरूप- परिणामासम्भवात् अन्तःकरणविशिष्टस्य तत्सम्भवेऽपि चित्सन्निधौ अन्तःकरणस्यैव कर्तृत्वम् अयस्कान्तसन्निधानेऽयसः सक्रियत्वमिवेति सांख्यमनेन चेदम्। स चान्त- करणरूप आत्मा संस्काररूपेण स्वगतान्अर्थान्, बुद्ध्या—स्ववृत्त्या, समेत्यैकबुद्धिविषयान् कृत्वा तद्बोधनेच्छया मनो युक्तं करोति तदिच्छावान्मनः कायाग्निमाहन्ति स कायाग्निः मारुतं प्रेरयति स मारुतः उदीर्णः शब्दप्रयोगेच्छयोत्पन्नप्रयत्नाभिहताद्ग्निना नाभिप्रदेशा- दूर्ध्वं प्रेरितः वेगान्मूर्धपर्यन्तं गत्वा प्रतिनिवृत्तः वक्त्रं प्राप्य उष्ठयलसहायेन तत्तत्स्था- नेषु जिह्वाग्रादिस्पर्शपूर्वकं तत्तत्स्थानान्याहत्य पराद्याख्यमन्तः स्थितं शब्दं वर्णत्व

संस्कृत-हिन्दी-व्याख्योपेतम् १२३ प्राण में और बुद्धि में रहने वाली अर्थ रखने वाली शब्द की एक शक्ति है जो उसमें व्यवस्थित रूप से रहती है। वह ही कण्ठ तालु आदि स्थानों से अकारादि रूप में व्यक्त होती हुई क, ख, आदि भिन्न भिन्न रूपों में परिणत होती है। इस प्रकार शब्द की प्राण और बुद्धि में रहने वाली शक्ति ही कण्ठ आदि स्थानों से व्यक्त होकर क, ख, आदि भेदों का कारण बनती है ॥ ११७ ॥ द्विविधो हि शब्दः प्राणाधिष्ठानः बुद्ध्यधिष्ठानश्च । स प्राणबुद्धिशक्तिभ्यां प्रतिल- ब्धाभिव्यक्तिरर्थं बोधयति । तत्र प्राणो बुद्धिकरणेनान्तराविष्टः ऊर्ध्वमभिप्रवृत्तः तत्त- त्स्थानेषु विवर्तमानः अकारादिरूपेण भिन्नतया भासमानः अक्रमे शब्दात्मनि भेदानु- रागमात्रं सन्निवेशयति ॥ शब्दविषये मतभेदो भट्टपादैः श्लोकवार्तिके उक्तः— त्रिगुणः पौद्गलो वाप्याकाशस्याथवा गुणः । वर्

१२४ वाक्यपदीयम् इस संसार को उत्पन्न करने वाली वाच्यवाचक भाव रूप शक्ति शब्द में ही आश्रित है और इसी शब्द से प्रतीत होने वाला प्रतिभा रूपी यह भेद रूप ( घट-पट आदि ) व्यवहार प्रति व्यक्तियों को प्रतीत होने लगता है । अत्रेदं बोध्यम्—बाह्यस्य वस्तुनोऽभावात् प्रतिभैव वाक्यार्थः । तथाहि—यथा- वस्थिते वनितात्मनि बाह्योऽर्थे वासनानुसारेण कुणप इति कामिनीति भक्ष्यमिति प्रतिभा भवन्ति तथा असत्यपि व्याघ्रागमने व्याघ्र आगत इत्युक्ते शूराणामुत्साहः कातराणां भयं भवतीत्यिति शब्दादर्थप्रतिभा भवति इति प्रतिभामात्रं जगत् । अत एव असत्यपि बाह्येऽर्थे एष वन्ध्यासुतो याति, राहोःशिर इत्यादिवाक्यतोऽर्थप्रतिभा इति शब्द एव तत्तदाकारेण विवर्तत इति ॥ ११८ ॥ तात्पर्य यह है कि—शब्द से अतिरिक्त बाह्य वस्तु जब नहीं है तब वाक्यार्थ बोध केवल प्रतिभा ही मानना पड़ता है । जैसे किसी सुन्दरी स्त्री को देखकर कोई कुणप, कोई कामिनी, और कोई ( व्याघ्रादि ) भक्ष्य रूप में मानता है यह मानना भी एक प्रतिभा है । जैसे सिंह नहीं रहता फिर भी कोई कह दे कि 'सिंह आ गया' इस वाक्य के सुनने के मात्र ही शूरों में उत्साह और कातरों में भय उत्पन्न हो जाता है । इसे भी प्रतिभा ही कहते हैं । इससे यह सिद्ध हो जाता है कि जगत् प्रतिभा मात्र है । इसीलिए 'बन्ध्याका पुत्र जा रहा है' यह 'राहु का शिर है' इत्यादि वाक्यों से भी अर्थ प्रतिभा होती है और यह स्वीकार करना पड़ता है कि शब्द ही उन उन रूपों में भासित होता है ॥ ११८ ॥ षड्जादिभेदः शब्देन व्याख्यातो रूप्यते यतः । तस्मादर्थविधाः सर्वाः शब्दमात्रासु निश्रिताः ॥ ११९ ॥ षड्जादिभेदः षड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादादिः । शब्देन व्याख्यातः प्रतिपादितः सन् यतः रूप्यते उल्लिख्यते परिच्छिद्यते तस्मात् यतः तन्निबन्धनं षड्जादिभेदनिरूपणं तस्मात् शब्दमात्रासु शब्देषु सर्वा अर्थविधाः निश्रिताः आश्रिता शब्दतादात्म्यापन्ना इत्यर्थः । इदमेव वाचस्पतिमिश्रैस्ता- त्पर्यटीकायां—'षड्जादिषु शब्दापकर्षे अर्थप्रत्ययापकर्षात् तदुत्कर्षे त्वर्थप्रत्ययो- त्कर्षात् प्रत्ययस्य च प्रत्येयव्योरुपार्धीनोत्कर्षात् नामधेयोत्कर्षेणार्थोत्कर्षः अर्थस्य तादात्म्यं कथयति' इत्युक्तम् ॥ यह ही शब्द—षड्ज, ऋषभ, गान्धार, मध्यम, पञ्चम, धैवत और निषाद स्वरों के भेद शब्द से प्रतिपादित हैं । इससे यह निश्चय हो जाता है कि समस्त अर्थ या उनके भेद शब्द से ही उत्पन्न हुए हैं । इदमत्रावधेयम्—अन्वाख्येया षड्जादयः समाख्येया गवाद्यश्च सर्व एवार्थाः शब्देनाव्यारूढाः शब्दतादात्म्यापन्ना शब्दानुविद्धधिया प्रकाश्यन्ते गोपालाविपालाद- योऽपि गवामवीनां च संज्ञापदानि प्रकृत्यैव गवादीन् आकारयन्ति तस्मात्सर्वा अर्थ- विधाः समाख्येया अन्वाख्येया वा शब्दमात्रासु निश्रिता आरूढा इति ॥ ११९ ॥ अर्थ दो प्रकार के हैं एक अन्वाख्येय और दूसरा समाख्येय । ये दोनों प्रकार के अर्थ

संस्कृत-हिन्दी-व्याख्योपेतम् १२५ शब्दों के आश्रित हैं। षड्जादि स्वर असमाप्तमेव हैं तथा जितने सदा पद हैं सब समाप्तमेव हैं और सब शब्द की मात्रा में आश्रित हैं ॥ ११९ ॥ शब्दादेव सृष्टिरित्याह— शब्द से ही जगत् की उत्पत्ति हुई है। शब्दस्य परिणामोऽयमित्याम्नायविदो विदुः । छन्दोभ्य एव प्रथममेतद्विश्वं व्यवर्तत ॥ १२० ॥ अयं संसारः शब्दस्य परिणामः इति आम्नायविदः वेदविदः विदुः तमेव वेदमाह छन्दोभ्य इति । एतद्विश्वं प्रथमं सृष्ट्यादौ छन्दोभ्यः वेदेभ्यः एव व्यवर्तत वेदस्य विवर्त इत्यर्थः । तथाच श्रुतयः-‘एष वै छन्दस्यः साममयः प्रथमो बभूव वैराजः पुरुषः योऽन्नमसृजत तस्मात्पशवोऽजायन्त पशुभ्यो वनस्पतयो वनस्पतिभ्योऽग्निः' 'स उ एवैष ऋङ्मयो यजुर्मयः साममयो वैराजः पुरुषः' 'वागेव विश्वा भुवनानि जज्ञे' 'स भूरिति व्याहरत् भूमिमसृजत्' इति, स्मृतयः—'वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे' इति, पुराणा(नि च— 'विभज्य बहुधात्मानं स च्छन्दस्यः प्रजापतिः । छन्दोमयीभिर्मात्राभिर्बहुधैव विशेप- तम् ॥ साध्वी वाग्भूयसी येषु पुरुषेषु व्यवस्थिताः । अधिकं वर्तते तेषु पुण्यं रूपं प्रजापतेः ॥ प्रजापत्यं महत्तेजस्तत्पात्रेणैव संवृतम् । शरीरभेदे विदुषां स्वयोनिमु- पधावति ॥ यदेतन्मण्डलं भास्वद् धाम चित्रस्य राधसः । तद्भावमभिसम्भूय विद्यायां प्रविलीयते ॥' इति ॥ वेद और शास्त्रों के जानकार महर्षियों ने कहा है कि यह समस्त जगत् शब्द का परिणाम है और कल्प के आरम्भ में वेदों से ही विश्व का सृजन हुआ है ॥ १२० ॥ इदमत्र बोध्यम्—यद्यपि उपादानसमसत्ताककार्योत्पत्तिः परिणामः । यथा दुग्धस्य दधिभवनम् उभयोरपि व्यावहारिकसत्त्वात्, उपादानविषमसत्ताककार्यो- त्पत्तिर्विवर्तः। यथा शुक्तिकाया रजतभवनम्। शुक्तिकाया व्यावहारिकसत्त्वाद्रजतस्य च प्रातिभासिकसत्त्वात् । तथापि शब्दस्य परिणामोऽयमित्युपक्रम्य विश्वं व्यवर्तत इत्युपसंहरात् पूर्ववर्ति काले परिणामविवर्तयोः पर्यायत्वमासीदिति प्रतीयते । अतएव शान्तरक्षितेन तत्त्वसङ्ग्रहे अनादिनिधनमिति कारिकाम् 'नाशोत्पादामयालीढं यच्च शब्दमयं च तत् । यस्येदं परिणामोऽयं भावग्रामः प्रतीयते' इति अर्थतोऽनु- वदता विवर्तपदमपहाय परिणामपदं प्रयुक्तम् । अत एव च भवभूतिना 'पृथक् पृथगिवाश्रयते विवर्तान् आवर्तबुद्बुदतरङ्गमयानिकारान्' इति जलविकारे तर- ङ्गादौ विवर्तपदं प्रयुक्तम् । एवं च शब्दब्रह्मणो जगत् परिणामो वा विवर्तो वा वाक्यपदीयकृतामभिमत इति निर्धारयितुं दुष्करमिति प्रतीयते । तथापि सूक्ष्म- धिया शब्दब्रह्मविवर्त एव जगदित्यत्र वाक्यपदीयकृतामभिमत इति प्रतीयते। तथैव हेलाराजादिभिर्व्याख्यातत्वात् शब्दपरिणामवादपक्षोऽपि केषाञ्चिदासीदिति न्याय-

१२६ वाक्यपदीयम् मञ्जरीदर्शनात् 'इह तु अविसंवादात्प्रमाणं सदर्थतादात्म्यं शब्दस्य साधयत्येव' इति तात्पर्यटीकादर्शनाच्चावगम्यते ॥ विशेष—सत्ता तीन प्रकार की मानी जाती है। १. पारमार्थिक, २. व्यावहारिक, ३. प्रातिभासिक। जो कार्य उपादानकारण की सत्ता के समान सत्ता का उत्पन्न होता है उसे 'परिणाम' कहते हैं। जैसे दूध व्यवहारतः सत् है वैसे दूध का परिणाम दही भी व्यवहारतः सत् है। उपादान कारण की सत्ता से विषम सत्ता का कार्य जब उत्पन्न होता है तब उसे 'विवर्त' कहते हैं। जैसे शुक्तिका में रजत का भ्रम। क्योंकि शुक्तिका की सत्ता व्यावहारिक है और रजत की सत्ता प्रातिभासिक है। रजत का व्यवहार शुक्तिका में नहीं होता। इस प्रकार परिणाम और विवर्त शब्द के अर्थ में भी भेद प्रसिद्ध है। किन्तु इस कारिका में 'शब्दस्य परिणामोऽयम्' और 'विश्वं व्यवर्तत' इन उपक्रम और उपसंहार के वाक्यों से पता चलता है कि परिणाम और विवर्त शब्द पर्याय हैं। यह परिणाम और विवर्तशब्द का एक अर्थ में प्रयोग नया नहीं है। क्योंकि शान्तरक्षित ने 'तत्त्वसङ्ग्रह' में वाक्यपदीय की प्रथम कारिका का भावानुवाद करते हुए अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम्। विवर्ततेऽर्थ- भावेन प्रक्रिया जगतो यतः। के स्थान पर नाशोत्पादसमालीढं शब्दब्रह्माह्वयं च यत्। यत्तस्य परिणामोऽयं भावग्रामः प्रतीयते यह कारिका रचा है। इसमें विवर्त के पर्याय के रूप में परिणाम शब्द का प्रयोग किया है। 'भवभूति' ने भी 'उत्तररामचरित' में 'पृथक्पृथगिवाश्रयते विवर्तान् आवर्तबुद्बुदतरङ्गमयान् विकारान्' लिखते हुए परिणाम शब्द के पर्याय विकार शब्द का विवर्त के पर्याय के रूप में प्रयोग किया है। इस प्रकार 'वाक्यपदीय- कार'ने जगत् को शब्द का परिणाम कहा है अथवा विवर्त यह कहना कठिन है। फिर भी हेलाराज आदि टीकाकारों ने शब्द ब्रह्म का विवर्त ही जगत् को स्वीकार किया है। कुछ विद्वानों का मत है कि शब्दब्रह्म का विवर्त और वैखरी ध्वनि का परिणाम जगत् है। इस प्रकार 'विवर्तते' 'परिणामोऽयम्' दोनों की व्याख्या ठीक बैठती है। यह मत मण्डनमिश्र की 'स्फोटसिद्धि' की टीका 'गोपालिका' में स्पष्ट है। इदमत्रावधेयम्—सर्गाद्यकाले अनादिनिधनं सर्वग्राह्यग्राहकाकारवर्जितं पश्य- न्तीवाग्रूपं शब्दब्रह्म सृज्यमानप्रपञ्चवैचित्र्यहेतुप्राणिकर्मसहकृतम् अपरिमितनिरूपित- शक्तिविशेषविशिष्टमायासहितं सत् नामरूपात्मकनिखिलं प्रपञ्चं प्रथमं बुद्ध्यावाकलय्य इदं करिष्यामीति संकल्पयति ततो निजया कालाख्यया स्वातन्त्र्यशक्त्या समेतः आकाशादीनि अपञ्चीकृतानि तन्मात्रपदवाच्यान्युत्पादयति ततो भूतादय इति। यदाहुः— यः सर्वपरिकल्पनानामाभासेऽप्यनवस्थितः । तर्कागमानुमानेन बहुधा परिकल्पितः ॥ अन्तर्यामी स भूतानामाराद् दूरे च दृश्यते । सोऽत्यन्तमुक्तो मोक्षाय मुमुक्षुभिरुपास्यते ॥ प्रकृतित्वमपि प्राप्तान् विकारानकरोति सः । व्युध्रामेव ग्रीष्मान्ते महतो मेघमण्डलवान् ॥