वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
्तरगलत्पञ्चाशद्वर्णैः क्रमाद् ।" -> wait, does it have क्रमाद् । with a danda? Yes, क्रमाद् ।
Line 22:
"व्याप्तं येन चराचरात्मकमिदं शब्दार्थरूपं जगत् ॥"
Line 23:
"शब्दब्रह्म यदूचिरे सुकृतिनश्चैतन्यमन्तर्गतं"
Line 24:
"तद्भोऽन्यादृगिदं शशाङ्कसदृनं याधामधीशं महः ॥ इत्युक्तं संगच्छते ॥"
Wait, look at "शशाङ्कसदृनं":
श-शा-ङ्क-स-दृ-नं or शशाङ्कसदनं?
Wait! In Sharadatilaka: "शशाङ्कसदृशं" or "शशाङ्कसदनं"?
Look at the letter after दृ:
It is नं! Or is it शशाङ्कसदनं?
Wait, is there a ृ under द?
Look at सदृनं: yes, under the द there is ृ, wait, or is it शशाङ्कसदनं?
Wait, look at शशाङ्कसदृनं:
श शा ङ्क स द (with ृ?) नं.
Wait! In the image:
श
रूपं अर्थप्रत्यायकत्वात् तदुक्तरूपं त्वर्थप्रत्यययोरेकत्वात् प्रत्ययस्य च प्रत्येतरूपत्वात्तदधीनो- त्पत्तिकत्वाज्ज्ञानान्नामधेयरूपेणार्थरूपेणार्थस्य तादात्म्यं कथयति । नन्वस्त्वर्थसम्प्रत्ययो ना- मधेश्यसामानाधिकरण्येन नह्येतावता नामधेयात्मता सिद्ध्यति अस्ति हि पुरोवर्ति सामानाधिकरण्येन रजतप्रत्ययो नचैतावता शुक्तौ रजतात्मिका भवति तत्र विसं- वादात् शुक्तौ रजतात्मकत्वाभावेऽपि इहाविसंवादात् प्रमाणं सन् सामानाधिकरण्यानु- भवो नामधेयतादात्म्यं साधयत्यर्थानामिति । एवं च वैयाकरणाः निर्विकल्पके ज्ञाने घटघटत्वयोर्भानेन घटादितादात्म्यापन्नः घटशब्दोऽपि भासत इति मन्यन्ते । तथा च तात्पर्यटीकाकृतः ‘नामरहितमविकल्पकं नास्तीति ये विप्रतिपद्यन्ते तन्मत- मपाचिकीर्षुरभ्यस्यति भाष्यकारः यावदर्थं वै नामधेयशब्दाः’
संस्कृत-हिन्दी-व्याख्योपेतम् १३५ यथा अग्नेः प्रकाशकत्वं स्वरूपं यथा वा अन्तर्यामिणश्चैतन्यं स्वरूपं तथा सर्वबोधस्य शाश्वती नित्या वाग्रूपता वाग्रूपानुषङ्गः यदि उत्क्रामेत् निर्गच्छेत् चेत् तदा वाग्रूपतायाम सत्यामुत्पन्नोऽपि प्रकाशः न प्रकाशेत् पररूपानङ्गी- कारेण प्रकाशक्रियासाधनं न स्यात् हि यतः सा वाग्रूपता प्रत्यवमर्शिनी प्रकाशस्यापि प्रकाशिका व्यवसायप्रकाशकानुव्यवसाय इव । यदाहुः 'इह त्रीणि ज्योतींषि त्रयः प्रकाशाः स्वरूपपररूपयोगद्योतकाः तद्यथा योऽयं जातवेदाः यश्च पुरुषेष्वान्तरः प्रकाशः यश्च प्रकाशाप्रकाशयोः प्रकाशयिता शब्दाख्यः प्रकाशः तत्रैत- त्सर्वमुपनिबद्धं यावत्स्थाष्णु चरिष्णु च' इति । विमर्शः प्रकाशश्चेति तत्त्वद्वयं तत्र विमर्शः प्रकाशस्य प्रकाशक इति शैवैरङ्गीक्रियते तत्रास्माभिः विमर्शस्थानीया वाग- भ्युपेयते इति ॥ जैसे अग्नि का प्रकाशकत्व स्वरूप है और आत्मा का स्वरूप चैतन्य है वैसे अवबोध (ज्ञान) का वाग्रूप होना भी नित्य स्वरूप है । यह यदि कहीं निकल जाय तब उत्पन्न भी प्रकाश न प्रकाशित हो । क्योंकि वह वाग्रूपता जैसे अनुव्यवसाय व्यवसायात्मक प्रकाशक है वैसे प्रकाश का भी प्रकाशक है ॥ १२४ ॥ तद्यथा सर्वः प्रत्यय उपजायमान नानुलिखितशब्दक उपजायते शब्दोल्लेखवि- रहिणोऽनासादितप्रकाशस्वभासस्य प्रत्ययस्यानुत्पत्तिनिर्विशेषत्वात् इदमीदृशमित्या- दिपरामर्शमुषितशरीरे वेदने वेदनात्मकतैव न स्यात् । येऽपि हि वृद्धव्यवहारोपयो- गानासादनेनानासादितशब्दार्थसम्बन्धविशेषव्युत्पत्तयो बालदारकप्रायाः प्रमातार- स्तेऽपि 'तत्' 'सत्' 'किम्' इत्यादि शब्दजातमनुलिखन्तः न प्रतियन्ति किमपि प्रमेयमतः शब्दोन्मेषप्रभावाप्तप्रकाशस्वभावता सर्वप्रत्ययानाम् इति वाग्रूपाननुगमे संविदः प्रकाशशून्यतया अनधिगतविषयः सर्व एवान्धमूकप्रायो लोकः स्यात् । नच स्वप्ने स्मृतौ च वाग्रूपानुगमो नास्तीति भ्रमितव्यम् सूक्ष्मस्य शब्दभावनात्मकस्य वाग्रूपानुगमस्य तत्राप्यङ्गीकारात् । एवं निर्विकल्पके स्मृतावपि च सूक्ष्मवाग्रूपानुग- मोऽस्तीति मन्तव्यम् ॥ १२४ ॥ पुनरपि सर्वस्य वाग्रूपत्वे बीजमाह— सब व्यवहारों के मूल में वाणी ही है क्योंकि - सा सर्वविद्याशिल्पानां कलानां चोपबन्धनी । तद्वशादभिनिष्पन्नं सर्वं वस्तु विभज्यते ॥ १२५ ॥ सा वाक् सर्वविद्याशिल्पानां सर्वासां विद्यानां सर्वेषां शिल्पानां कलानां चतुःषष्टिकलानां च उपबध्यते अनया उपबन्धनी बोधिका तद्वशात् वाग्रूप- तावशाद् अभिनिष्पन्नं सर्वं वस्तु समुत्थाप्यमानं विभज्यते अयं घटः अयं पट इति निरूप्यते । अत एव वाग्व्यवहारेणानुपगृहीतमर्थरूपमसत्ता तुल्यम् आत्यन्तमप्रच-
१३६ वाक्यपदीयम् शशविषाणं गन्धर्वनगरं राहोः शिरः इत्यादिकं वाचा समुत्थाप्यमानं मुख्यसत्तयायुक्त- मिव भासते इत्यर्थः । और, वही वाणी सब विद्याओं, शिल्पों और कलाओं का बोध कराती है तथा उसी के द्वारा उत्पन्न घट, पट आदि समस्त वस्तुओं का विभाग भी सिद्ध होता है ॥ १२५ ॥ अयं भावः मनुष्याणां सर्वोऽपि लौकिके वैदिके वार्थे यो व्यवहारः स विद्या- शिल्पकलादिभिः प्रतिबद्धः मनुष्याधीनश्च स्थावरजङ्गमस्य व्यवहारः विद्यादयश्च वाग्रूपायां बुद्धौ निबद्धाः घटादीनां निष्पादनेऽपि प्रयोजकः 'एवं क्रियताम्' इत्युपदि- शति प्रयोज्यश्च 'एवं करोमि' इति समीहते स चासम्भवो वाग्रूपतामन्तरेणेति ॥ विद्याः—अष्टादश, ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः इति वेदाश्चत्वारः । शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम् इति वेदाङ्गानि षट् । पुराणानि न्यायो मीमांसा धर्मशास्त्राणि चेति उपाङ्गानि चत्वारि । अत्रोपपुराणानां पुराणे वैशे- षिकशास्त्रस्य न्याये वेदान्तशास्त्रस्य मीमांसायाम् महाभारतरामायणयोः सांख्यपा- तञ्जलपाशुपतवैष्णवादीनां च धर्मशास्त्रेष्वन्तर्भावः । इति मिलित्वा चतुर्दशविद्याः तदुक्तं—'पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥' इति । एता एव चतुर्भिः आयुर्वेदधनुर्वेदगान्धर्ववेदार्थशास्त्राख्यैरुपवेदैः सहिता अष्टादश विद्या भवन्ति । अर्थशास्त्रे—नीतिशास्त्रखड्गशास्त्रगजशास्त्रशिल्पशा- स्त्रसूपकारशास्त्राणामन्तर्भावः विस्तरस्तु महिम्नस्तोत्रान्तर्गत 'त्रयीसांख्यम्' इति श्लोक- व्याख्याने मधुसूदनसरस्वतीकृते द्रष्टव्यः । शिल्पम्—शिल्पशास्त्रं गृहादिनिर्माणप्रकारबोधकं शास्त्रम् । चतुः षष्टिकलाश्च—गीतम्, वाद्यम्, नृत्यम्, नाट्यम्, आलेख्यम्, विशेष- कच्छेद्यम्, तण्डुलकुसुमबलिविकाराः, पुष्पास्तरणम्, दशनवसनाङ्गरागाः, मणिभूमि- काकर्म, शयनरचनम्, उदकवाद्यम्, उदकघातः, अद्भुतदर्शनवेदिता, माल्यग्रथनकल्पः, शेखरापीडयोजनम्, नेपथ्ययोगः, कर्णपत्रभङ्गाः, गन्धयुक्तिः, भूषणयोजनम्, इन्द्र- जालम्, कौचुमारयोगाः, हस्तलाघवम्, चित्रशाकापूपभक्ष्यविकारक्रियाः, पानकरस- रागासवयोजनम्, सूचीवापकर्म, सूत्रक्रीडा, वीणाडमरुकवाद्यानि, प्रहेलिकाप्रतिमालाः, दुर्वाचकयोगाः, पुस्तकवाचनम्, नाटिकाख्यायिकादर्शनम्, काव्यसमस्यापूरणम्, पट्टिकावेत्रवानविकल्पाः, तर्कुकर्माणि, तक्षणम्, वास्तुविद्या, रूप्यरत्नपरीक्षा, धातु- वादः, मणिरागज्ञानम्, आकरज्ञानम्, वृक्षायुर्वेदयोगाः, मेषकुक्कुटलावकयुद्धविधिः, शुकसारिकाप्रलापनम्, उत्सादनम्, केशमार्जनकौशलम्, अक्षरमुष्टिकाकथनम्, म्लेच्छितकविकल्पाः, देशभाषाज्ञानम्, पुष्पशकटिकनिमित्तज्ञानम्, यन्त्रमातृका, धारणमातृका, असंवाच्यसम्पाठ्यम् , मानसीकाव्यक्रियाविकल्पाः द्युलितकयोगाः, अभिधानकोशच्छन्दोज्ञानम् , क्रियाविकल्पाः, ललितविकल्पाः, वस्त्रगोपनानि, द्यूतविशेषः, आकर्षनक्रीडा, बालक्रीडनकानि वैशयिकविद्याज्ञानम् , वैजयिकविद्या- ज्ञानम् , वैतालिकविद्याज्ञानम् , इति ॥ १२५ ॥
ब्रह्मकाण्डम् ] संस्कृत-हिन्दी-व्याख्योपेतम् १३७ किञ्च- और- सैषा संसारिणां संज्ञा बहिरन्तश्च वर्तते । तन्मात्रामनतिक्रान्तं चैतन्यं सर्वजन्तुषु ॥ १२६ ॥ सा एषा वाक् संसारिणां संज्ञा इत्युच्यते या बहिः बाह्यस्य लोकव्यवहार- स्य साधनं या च अन्तः सुखदुःखादिसंविद्रूपा वर्तते यतः सर्वजन्तुषु तन्मात्रां वाङ्मात्राम् अनतिक्रान्तं चैतन्यं वर्तते न स प्राणिविशेषो यस्य चैतन्ये वाग्रूपानु- गमो नास्तीत्यर्थः ॥ और, यही वाणी प्राणियों में चेतना शक्ति है जो बाह्य लोक-व्यवहार का साधन है तथा अन्तःकरण के सुख दुःख का ज्ञान कराती है । क्योंकि ऐसा कोई प्राणी नहीं है जहाँ चे तन हो और वाङ्मात्रा न हो ॥ १२६ ॥ अयं भावः यावद्वाग्रूपतानुवृत्तिस्तावदेव अन्तः संज्ञा सुखदुःखसंविन्मात्रा बहिः संज्ञा वाङ्निबन्धना लोकव्यवहारश्च वाग्रूपानुगमाभावे नियतमुत्सीदेत् । अतः- चैतन्येनाविष्टा नहि काचिज्जातिरस्ति यस्यां स्वपरसम्बोधनानुगमो वाचा न क्रियेत स्थावरेषु स्वसम्बोधनानुगम एव भवति जङ्गमेषु मनुष्येषु स्वपरसम्बोधनानुगमः । स च वाचा क्रियते इति चितिक्रिया वाक्परिग्रहरहिता न भवति इत्येके । वागेव चिति- क्रियारूपा इत्यन्ये । यदाहुः- भेदोद्ग्राहविशेषेण लब्धाकारपरिग्रहा । आम्नाता सर्वविद्यासु वागेव प्रकृतिः परा ॥ एकत्वमनतिक्रान्ता वाङ्नेत्रा वाङ्निबन्धनाः । पृथक् प्रत्यवभासन्ते वाग्विभागा गवादयः ॥ षड्द्वारां षडधिष्ठानां षडवबोधां षडव्ययाम् । ते मृत्युमतिवर्तन्ते ये वै वाचमुपासते ॥ इति । अयमर्थः-भिद्यन्त इति भेदाः गवादयः तेषामुद्ग्राहः स्वीकारः तदात्मको यो विशेषो भेदः तेन लब्ध आकारपरिग्रहो यया यतश्च भावनाकारपरिग्रहेण परा प्रकृतिस्तच्चैतन्यात्मना विवर्तत इति वाक्चैतन्ययोरभेदः ॥ वाचा नीयन्ते इति वाङ्नेत्राः शब्दा अर्थाश्च शब्दा अपि वाचमर्थरूपापन्नां प्रतिपादयन्ति तन्निबन्धनाः गवादय वाग्विभागाः वाचोऽभेदमनतिक्रान्ताः वर्तन्ते ॥ षड्द्वारां-स्वभावचरणा- भ्यासयोगादृष्टोपपादिताम् । विशिष्टोपहितां चेति प्रतिभां षड्विधां विदुः ॥ इति षड्विधा प्रतिभाद्वारं प्राप्त्युपायो यस्या वाचश्च बहुधा शक्तयो या हि षड्विधां प्रतिभां जनयन्ति । ये हि प्रतिभायाम् अर्थाकारास्तेऽस्या अधिष्ठानम् ताश्च प्रतिभा
१३८ | १। २८ वाचोऽव्यतिरिक्त इति ताभिः षड्प्रबोधां षडन्यां षडवयवाम् षोढैव च तस्याः प्रतिपादनव्यापारः। सर्वाणि चैतानि रूपाणि तस्या इति ॥ १२६ ॥ यतः वागेव संज्ञा अतः— प्राणियों में जो संज्ञा है वह वाणी ही है क्योंकि— अर्थक्रियासु वाक् सर्वान्समीहयति देहिनः । तदुत्क्रान्तौ विसंज्ञोऽयं दृश्यते काष्ठकुड्यवत् ॥ १२७ ॥ सर्वान् देहिनः अर्थक्रियासु जलाहरणादिकार्येषु वाक् समीहयति जलमा- नयेति प्रेरयति शब्दानुपग्रहे एव पदार्थादीनां समीहनं चेष्टनं भवतीति वाचैव युक्ताः प्राणिनश्चेष्टन्त इति भावः । तदुत्क्रान्तौ अयं देही व्यवहारयोग्यस्य परिच्छेद- स्य अभावात् काष्ठकुड्यवत् विसंज्ञो दृश्यते विसंज्ञ इति व्यवह्रियते ॥ १२७ ॥ क्योंकि, समस्त प्राणियों को कार्य करने के लिये वाणी ही प्रेरक है (जैसे पानी लाओ) और इसी वाणी के बन्द हो जाने पर यह देह काठ और भीत की तरह बिना चेतना का हो जाता है ॥ १२७ ॥ जाग्रद्दशायां वाग्रूपानुगममुक्त्वा स्वप्नेऽपि तमाह— जाग्रतावस्था की भाँति स्वप्नावस्था में भी वाणी का अनुगम होता है जैसे। अविभागे यथा कर्ता तया कार्ये प्रवर्तते । अविभागे तथा सैव कार्यत्वेनावतिष्ठते ॥ १२८ ॥ यथा प्रविभागे जाग्रदवस्थायां तया वाचा करणभूतया कर्ता देवदत्तादिः कार्ये घटादौ प्रवर्तते तथा अविभागे स्वप्नावस्थायां सैव वागेव कार्यत्वेना- वतिष्ठते वागेव भोक्तृतया भोग्यतया भोगतया च विवर्तत इत्यर्थः ॥ तथा च श्रुतिः—'भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्म चैतत्' । आह च— प्रविभज्यात्मनात्मानं सृष्ट्वा भावान् पृथग्विधान् । सर्वेश्वरः सर्वमयः स्वप्ने भोक्ता प्रवर्तते ॥ इति । जैसे जाग्रत अवस्था में वाणी से प्रेरित होकर कर्ता कार्य करने में प्रवृत्त होता है। वैसे स्वप्नावस्था में भी वाणी ही भोक्ता, भोग्य और भोगरूप में परिणत हो जाती है ॥ १२८ ॥ एतदुक्तं भवति जाग्रदवस्थायां कर्तृकर्मकरणविभागः सम्भवति बाह्यस्य तदानीं सत्त्वात् इति सा प्रविभाग इत्युच्यते स्वप्नावस्थायां तु वाग्रूपं शब्दब्रह्मैव कर्ता कार्यं करणं च तदानीं बाह्यस्याभावात् इति सा अविभाग इत्युच्यते । यद्यपि जागरणेऽपि सैव कर्ता कार्यं करणं च तथापि प्रसिद्धत्वादेवमुक्तम् कार्यत्वेन कर्तृत्वकरणत्वे उपलक्ष्येते ॥ केचित्तु—जाग्रदवस्थायां जीवपरमात्मनोः पार्थक्यात् सा प्रविभागावस्थोच्यते ।
संस्कृत-हिन्दी-व्याख्योपेतम् १३६ स्वप्ने तु 'यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्वं ह्यपीतो भवति' इति श्रुत्या यत्र सुप्तौ पुंसः स्वपितीति नाम भवति तदा पुरुषः सता सम्पन्नस्तेनैकीभूतः हि यतः स्वं सदात्मा- नमपीतो भवति लीनो भवति इत्यर्थः । मनः प्रचारोपाधिविशेषसम्बन्धात्क्रिया- र्थान् गृह्णँस्तद्विशेषापन्नो जीवो जागर्ति तद्वासनाविशिष्टः स्वप्नान् पश्यन् मनः शब्द- वाच्यो भवति स उपाधिद्वयोपरमे सुषुप्तावस्थायामुपाधिकृतविशेषाभावान्न स्वात्मनि प्रलीन इवेति स्वं ह्यपीतो भवतीत्युच्यते इति सा अविभागावस्थोच्यते इत्याहुः ॥ १२८॥ सर्वो हि विकारो वाच एवेति स्वमतं समर्थयते— समस्त जगत् वाणी का ही विकार है । स्वमात्रा परमात्रा वा श्रुत्या प्रक्रम्यते यथा । तथैव रूढतामेति तया ह्यर्थो विधीयते ॥ १२९ ॥ स्वमात्रा स्वस्वरूपं परमात्रा परस्वरूपं यथा भेदेन अभेदेन वा श्रुत्या वाचा प्रक्रम्यते प्रख्याप्यते तथैव भेदेनाभेदेन वा सः अर्थो रूढतां प्रसिद्धिमिति हि यतः तया वाचा अर्थो विधीयते बुद्धावारोप्यते इत्यर्थः ॥ जैसे स्वस्वरूप अथवा परस्वरूप भेद या अभेद रूप में वाणी से प्रतीत होता है वैसे ही भेद अथवा अभेद रूप में वह शब्द उसी अर्थ में रूढ़ हो जाता है । क्योंकि किसी भी अर्थ का ज्ञान शब्द के द्वारा ही होता है । अयं भावः यथा राहोः शिरोऽभिन्नत्वेऽपि राहोः शिर इति यथा वा पुरुषस्य चैतन्याभिन्नत्वेऽपि पुरुषस्य चैतन्यमिति शब्देन भेदः प्रतिपाद्यते यथा च आदेशस्य स्थानिभिन्नत्वेऽपि स्थानिवत्सूत्रेणाभेदः प्रतिपाद्यते तथैव सा रूढिं प्रसिद्धिं याति । शाब्दस्यैव महिमा यदसदर्यप्रकाशकं नाम । यदाहुः खण्डनकारा.—'अत्यन्ता- सत्यपि ह्यर्थे ज्ञानं शब्दः करोति च' इति । योगसूत्रेऽप्युक्तं 'शब्दज्ञानानुपाती वस्तु- शून्यो विकल्पः' इति । शब्दज्ञानमात्रेण बुद्धावनुपतति वस्तुशून्यः बाह्यार्थ- शून्यः विकल्पः विकल्पात्मकं ज्ञानमिति तदर्थः । अत्र योगवृत्तौ नागोजीभट्टाः 'स (विकल्पः) न प्रमाणान्तर्भूतः वस्तुशून्यत्वात् नापि विपर्ययान्तर्भूतः ज्ञानस्य याथार्थ्ये सति यादृशस्तद्याथार्थ्यनिबन्धनो व्यवहारः शब्दप्रयोगरूपस्तादृशव्यवहारस्येतोऽपि दर्शनात् । विपर्ययस्तु नैवम् बाधोत्तरमिदं रजतमिति शब्दप्रत्यययोरभावात् यथा चैतन्यं पुरुषस्य स्वरूपमिति अन्यथा चितेरेव पुरुषत्वादभेदनियतसम्बन्धरूपस्य षष्ठ्यर्थस्याप्रतीत्यापत्तिः भवति च चैत्रस्य गौरिति यथार्थशब्दवदत्रापि षष्ठ्यर्थे वृत्तिः ततो विशेपणादपि बोधश्च । एवं निष्कम्पः पुरुषः, तिष्ठति बाण, इत्याद्यपि द्रष्टव्यम् । अभावस्य अधिकरणमात्रत्वेन क्रियाभावस्य गतिनिवृत्तेश्च पुरुषेण बाणेन चानतिरे- कादाधाराधेयभावानुपपत्तेः' इति ॥ १२९ ॥ लोग 'राहु का शिर, और 'पुरुष का चैतन्य' इस प्रकार व्यवहार करते हैं और 'स्थानिव-
१४० वाक्यपदीयम् दादेशः' भी कहते हैं। वस्तुतः विचारा जाय तो शिर ही राहु है और चैतन्य ही पुरुष है। किन्तु व्यवहार अभेद में भेद मानकर होता है इसी प्रकार स्थानी और आदेश के भिन्न होने परभी स्वनिकट सूत्र भेद में अभेद सिद्ध करता है और वह उसी प्रकार भेद में अभेद, अथवा अभेद भी भेदरूप से प्रसिद्ध (रूढ) हो जाता ॥ १२९ ॥ एतदेव स्पष्टयति— उदाहरण द्वारा स्पष्ट करते हैं। अत्यन्तमत्तथाभूते निमित्ते श्रुत्युपाश्रयात् । दृश्यते ऽलातचक्रादौ वस्तवाकारनिरूपणा ॥ १३० ॥ निमित्ते बाह्ये अलातचक्रादौ अलातचक्रशशविषाणखपुष्पादिरूपेऽर्थे अत्यन्तमत्तथाभूते असत्येऽपि श्रुत्युपाश्रयात् शब्दबलात् यस्त्वाकारनिरू- पणा खपुष्पं भवत्सिद्धान्त इत्येवं शब्दप्रयोगो दृश्यते इति अत्यन्तासत्तमप्यर्थं शब्द एव जनयतीति सन्तमपि स एव जनयतीति शब्दमूलिकैव सृष्टिः अत
संस्कृत-हिन्दी-व्याख्योपेतम् १४१ क्योंकि अविद्या से आच्छन्न शब्द जीव और अविद्या से रहित शब्द ब्रह्म कहा गया है ॥ तथा च भागवतम्—'स एष जीवो विवरप्रसूतिः प्राणेन घोषेण च गुहां प्रविष्टः । मनोमयं सूक्ष्ममपेत्य रूपं मात्रा स्वरा वर्ण इति प्रसिद्धः ॥' इति छाया । सः शब्द एव जीवः विवरेषु हृदयाद्याकाशेषु प्रसूतिरभिव्यक्तिर्यस्य प्राणेन प्राणवायुपरिणामरूपेण घोषेण ध्वनिना गुहां हृदयशिरःकण्ठमूर्द्धरूपां प्रविष्टः सूक्ष्मं रूपम् अपेत्य त्यक्त्वा मनोमयम् अन्तःकरणपरिणामरूपं विकारं प्राप्येति शेषः । मात्रा स्वरा वर्ण इति प्रसिद्धिमुपगत इत्यर्थः । शब्द एव जीवभाव- मापद्यते स एव च अन्तःकरणद्वारा वर्ण इत्यादिप्रसिद्धिमुपगत इति भावः । एतदेवाहुर्महाभाष्यकाराः—'चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याँ आविवेश' इति । चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताश्च, त्रयो अस्य पादाः त्रयः काला भूतभविष्यद्वर्तमानाः, द्वे शीर्षे द्वौ शब्दात्मानौ नित्यः कार्यश्च, सप्तहस्ता- सो अस्य सप्त विभक्तयः, त्रिधा बद्धः त्रिषु स्थानेषु बद्धः उरसि कण्ठे शिरसीति वृषभो वर्षणात् रोरवीति शब्दं करोति कुत एतत् रौतिः शब्दकर्मा महो देवो मर्त्याँ आविवे- शेति महादेवः शब्दः मर्त्या मरणधर्माणो मनुष्यास्ताना विवेशेत्यर्थः' इति । अत्रो- द्योतः 'महान् परब्रह्मरूपः देवोऽन्तर्यामिरूपः शब्दो मर्त्येष्वाविष्ट इत्यर्थः' इति । एतदुक्तं भवति शब्दो द्विविधः नित्यः कार्यश्च नित्यः सर्वव्यवहारयोनिः संहृ- तक्रमः सर्वेषामन्तः संनिविष्टः सर्वविकाराणां प्रभवः शब्दब्रह्मरूपः । अयमेव अविद्या- वृतः सन् घटस्थितदीप इव नाना विषयान् भासयन् जीवभावमापन्नः कर्मणामाश्रयः सुखदुःखयोरधिष्ठानं घटादिनिरुद्धः प्रकाश इव भवति । कार्यः व्यावहारिकः पुरुषस्य वागात्मनः प्रतिविम्बोपग्राही घटपटादिशब्दरूप इति ॥ १३१ ॥ शब्दब्रह्मतादात्म्यभावोपयोगिनमुपायमाह— शब्दब्रह्म में तादात्म्य प्राप्त करने का उपाय यह है कि— तस्माद्यः शब्दसंस्कारः सा सिद्धिः परमात्मनः । तस्य प्रवृत्तितत्त्वज्ञस्तद्ब्रह्मामृतमश्नुते ॥ १३२ ॥ यस्मादुक्तं माहात्म्यं शब्दस्य तस्मात् यः शब्दसंस्कारः अपभ्रंशविवेकेन ज्ञानं सा परमात्मनः नित्यस्य शब्दब्रह्मणः सिद्धिः सिद्धयुपायः । अयम्भावः यथा- विधेन साधुत्वेन रूपेण शब्दतत्त्वे संश्रियमाणे अपभ्रंशरूपप्रतिबन्धकापगमे धर्मवि- शेष आविर्भवति ततः शब्दब्रह्मतादात्म्योपगमरूपा ब्रह्मणः प्राप्तिर्भवतीति । कथं शब्दसंस्कारः ब्रह्मप्राप्त्युपाय इत्याह—तस्य शब्दस्य प्रवृत्तितत्त्वज्ञः प्रवृत्तिः षड्- भावविकाररूपा तस्यास्तत्त्वं प्रतिभाख्या तां यो जानाति स तत् औपनिषदममृतं ब्रह्म अश्नुते तेनैकीभवतीत्यर्थः ॥
। ज्योतिरान्तरमासाद्य छिन्नग्रन्थिपरिग्रहः । परेण ज्योतिषा चैक्यं छित्त्वा ग्रन्थीन् प्रपद्यते ॥ इति ।" Wait! In Harivritti, the standard reading is: "परेण ज्योतिषा चैक्यं छित्त्वा ग्रन्थीन् प्रपद्यते ॥" Now look at what this book printed: It printed: "परेण ज्योति" then: Wait! Could it be "ज्योतिषैकत्वं" or "ज्योतिपैकत्वं"? Wait, "ज्योतिषा चैक्यं" -> 7 syllables? ज्यो-ति-षा (3) चै-क्यं (2) = 5. प-रे-ण (3) -> 3+5 = 8. Here it is: ज्यो-ति- (2) ... wait! If the typesetter had before them "ज्योतिषैकत्वं", wait: ज्यो (1) ति (2) षै (3) क (4) त्वं (5) = 5! Wait, if it was "ज्योतिपैकत्वं", why would anyone write that? "ज्योतिषा एकत्वं" -> misread as "ज्योतिषैकत्वं", and typesetter used 'प' instead of 'ष'! Wait, does it look like 'षै' or 'पै'? In Devanagari, 'ष' is literally 'प' with a diagonal slash. Often the diagonal slash in small fonts gets dropped or doesn't print
ब्रह्मकाण्डम् ] संस्कृत-हिन्दी व्याख्योपेतम् १४३ यथाहूरत्नकरणे— शब्दतत्वमघोषा वाग्ब्रह्म कुण्डलिनी ध्रुवम् । त्रिधा शक्तिः परा नादो महामायेति दैशिकैः ॥ बिन्दुरेव समाख्यातो व्योमानाहतमित्यपि । चतस्रो वृत्तयस्तस्या याभिर्व्याप्तास्त्रिधाणवः ॥ वैखरी मध्यमाभिख्या पश्यन्ती सूक्ष्मसंज्ञिता । तत्र सा वैखरी श्रोत्रग्राह्या यार्थस्य वाचिका ॥ स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा। प्रयोक्तॄणामियं प्रायः प्राणवृत्तिनिबन्धना ॥ केवलं बुद्धयुपादाना क्रमादूर्ध्वानुपासिनी। अन्तः संजल्परूपा तु न श्रोत्रमुपसर्पति ॥ प्राणवृत्तिमतिक्रम्य वर्तते मध्यमाह्वया । अविभागेन वर्णानां सर्वतः संहृतक्रमा ॥ स्वयं प्रकाशा पश्यन्ती मयूराण्डरसोपमा। स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी॥ पश्यां दृष्टस्वरूपायामधिकारो निवर्तते । पुरुषे षोडशकले तामाहुरमृतां कलाम् ॥ तामेव वाणीं सूक्ष्मरूपामाहुरात्मविदो जनाः । प्रत्यात्मनियता एता वृत्तयो बन्धनात्मिका ॥ आभ्यो विविक्तमात्मानं न हि पश्यन्ति पुद्गलाः । यदा वृत्तिशेषेण विलीना चित्तसंतथा ॥ तदा सूक्ष्मा विशुद्धैव चिदाभास्यविवेकतः ॥ इति । त्रिधाणवः — उत्तममध्यमाधमभेदेन ज्ञानादिमन्तः। पुद्गलाः — जीवाः । सूक्ष्मा- परा। यदा वृत्तिरिति । सूक्ष्मा तु अभिधेयबीजत्वेन सर्वभूतेष्ववस्थिता। पश्यन्त्या अपि कारणभूता चिद्वा अत्यन्तसंश्लेषात् तद्रूपेव भातीत्यर्थः ॥ अभिनवगुप्तपादाचार्यास्तु प्रकाशः विमर्शश्चेति वस्तुद्वयम्। प्रकाश एव शिवः विमर्शस्तु तस्य स्वातन्त्र्यशक्तिः उमा इति गीयते । अथापि प्रकाशस्य विमर्शाव्य- तिरेकेण विमर्शस्य प्रकाशाव्यतिरेकेणासत्त्वादेकमेव तद्वयमिति मन्यन्ते। तन्मता- नुसारिणोऽद्वैतिन इत्युच्यन्
१४४ वाक्यपदीयम् शब्दब्रह्मवादिमस्तु विमर्शः ( परा वाग् ) एव ब्रह्म तदेव अविद्यया नानारूपं भासते इति प्राहुः । यद्यपि परमार्थत परमेश्वराद्वयवादस्य ब्रह्माद्वयवादस्य शब्दब्रह्माद्वयवादस्य च नात्यन्तं भेदः यतः परमेश्वराद्वयवादे प्रकाशविमर्शयोः भेदाप्रतिभासात् प्रकाश एव विमर्शः ब्रह्मवादे च प्रकाश एवैकं तत्त्वम् शब्दब्रह्मवादे च विमर्श एवेति तथापि तत्त्वनिरूपणप्रणालीनां भिन्नतया त्रयाणां भिन्नतैव । अयमत्र निष्कर्षः—विमर्श एव च परा वाक् शब्द ब्रह्म इति च व्यपदिश्यते वैयाकरणैः । वैयाकरणमते शब्दब्रह्मणा तादात्म्यमेव जीवस्य मोक्षः मोक्षेऽपि शब्दा- त्मनावस्थितिरिति यावत् । सिद्धान्तशैवमते च मोक्षदशायामशुद्धवाग्रूपबन्धन स्यातिक्रमे शुद्धवाग्रूपस्यानुगमेऽपि तस्याः शुद्धतया चित्त्वेन प्रतिभासात् चिद्रूपैव तदानीं वाग्भवति जीवस्य च
संस्कृत-हिन्दी-व्याख्योपेतम् १४२ ननु यदिव्याकरणस्मृतेः प्रामाण्ये शब्दसाधुत्वज्ञानपूर्वकधर्माधिगमद्वारकः शब्द- ब्रह्मतादात्म्यलक्षणो मोक्ष उपपद्येत तदेव कुतः शब्दसाधुत्वबोधकव्याकरणस्मृतेः पौरुषेयतया स्वतः प्रामाण्यायोगादिति शङ्कां वेदमूलकत्वेन तत्प्रामाण्यबोधनेनापा- स्यन् पौरुषेयाणां सर्वागमानां वेदमूलकत्वात् प्रामाण्यमाह— यद्यपि शब्दसाधुत्वज्ञान से उत्पन्न धर्म द्वारा शब्द ब्रह्म में तादात्म्यरूप मोक्ष मिलता है, शब्दों का साधुत्व व्याकरण शास्त्र बतलाता है, व्याकरण शास्त्र मनुष्य निर्मित है वह भ्रमप्रमादादि मानव दोषों से दूषित होने के कारण स्वतः प्रमाण माना नहीं जा सकता। तथापि पौरुषेय आगम वेदमूलक होने के कारण प्रमाण माने जाते हैं क्योंकि— न जात्वकर्तृकं कश्चिदागमं प्रतिपद्यते । बीजं सर्वागमापाये त्रय्येवातो व्यवस्थिता ॥ १३३ ॥ जातु कदाचिदपि क
१४६ वाक्यपदीयम् जब धर्मशास्त्र विनष्ट हो जाते हैं और दूसरे धर्मशास्त्र जबतक नहीं उत्पन्न हो जाते इस अवधि के बीच में शिष्ट पुरुष श्रुति और स्मृति में वर्णित धर्मों का पालन परम्परा के आधार पर करते हैं तथा परम्पराओं का उल्लङ्घन नहीं करते ॥ १३४ ॥ ननु कपिलादीनां स्वभाविकमेव धर्माधर्मादिज्ञानं नागमान्तरमूलं न वा वेदमूल- मिति तदीयागमप्रामाण्यं स्वत एवेति न वेदमूलापेक्षेत्यत आह— जो लोग महर्षि कपिल आदि के ज्ञान को धर्मनिर्णय और अधर्मनिर्णय में स्वतः प्रमाण मानते हैं न कि वेदमूलक होने के कारण वे बड़ी भूल करते हैं। क्योंकि— ज्ञाने स्वाभाविके नार्थः शास्त्रैः कश्चन विद्यते । धर्मो ज्ञानस्य हेतुश्चेत्तस्याम्नायो निबन्धनम् ॥ १३५ ॥ कस्यचित् कपिलादेः स्वाभाविके प्रमाणान्तरानपेक्षे ज्ञाने धर्माधर्मविषयके इष्यमाणे शास्त्रैः कपिलादिदर्शनैः कश्चन अर्थः किमपि प्रयोजनं न विद्यते कपि- लादिवदन्येषामपि जीवानां स्वत एव धर्माधर्मविवोधसम्भवात् । अथ कपिलादीनां ज्ञानस्य धर्मो हेतुरिति तेषामेव धर्मानुग्रहवशादतीन्द्रियार्थविषयकं ज्ञानं भविष्यति न गृहीतकर्मणां मन्वाद्यवोधानामिति नागमप्रणयनवैयर्थ्यमिति चेत् तस्य अतीतार्थ- विषयकज्ञानहेतोर्धर्मस्य तदानीम् आम्नायो वेदो निबन्धनं मूलं नागमान्तरं तेषां विच्छिन्नत्वादिति भावः ॥ १३५ ॥ प्रमाणान्तर की अपेक्षा के बिना स्वाभाविक किसी भी व्यक्ति के धर्माधर्म विषयक ज्ञान में शास्त्रों का कोई प्रयोजन नहीं है क्योंकि सब लोगों के स्वाभाविक ज्ञान में कोई विशेष हेतु है तो वह वेद मूलक होने के अतिरिक्त और कुछ नहीं हो सकता ॥ १३५ ॥ ननु सर्वागमानां वेदमूलकत्वादेव प्रामाण्ये तर्काख्यं पूर्वोत्तरमीमांसाशास्त्रमनर्थकं तन्निर्णैतव्यार्थस्य अस्मदाद्युपलभ्यमानवेदादेवावगन्तुं शक्यत्वादत आह— यद्यपि जितने आगम हैं सब वेद मूलक हैं और वेद के ज्ञान हो जाने पर इन पूर्व- मीमांसा, उत्तरमीमांसा आदि दर्शनों की कोई आवश्यकता नहीं है। क्योंकि इन आगमों में वर्णित विषय वेद के द्वारा जाने जा सकते हैं तथाऽपि— वेदशास्त्राविरोधी च तर्कश्चक्षुरपश्यताम् । रूपमात्राद्धि वाक्यार्थः केवलान्नावतिष्ठते ॥ १३६ ॥ अपश्यताम् वेदार्थनिर्णयासामर्थ्यानां मन्दावबोधानां मादृशां वेदशास्त्राविरोधी वेदार्थव्यवस्थापकः तर्कः पूर्वोत्तरमीमांसालक्षणः चक्षुः हि यतः केवलात् तर्का- सहकृतात् रूपमात्रात् वेदशब्दस्वरूपमात्रात् वाक्यार्थः श्रुतितात्पर्यविषयीभूतोऽर्थः नावतिष्ठते न निश्चितो भवतीत्यर्थः । वेदार्थनिर्णयाय तर्काख्यं मीमांसाशास्त्रमा- वश्यकमत एवाहः 'यस्तर्केणानुसंधत्ते स धर्मो वेद नेतरः' इति भावः ॥ १३६ ॥ जो लोग वेद के अर्थ का निर्णय नहीं कर सकते उनके लिए वेद के अर्थ का व्यवस्थापक मीमांसा और वेदान्त रूपी तर्क ही नेत्र है। क्योंकि केवल वेद के शब्दमात्र से वेद का तात्पर्यार्थरूपी वाक्यार्थ निश्चित नहीं हो सकता ॥ १३६ ॥
संस्कृत-हिन्दी-व्याख्योपेतम् १४७ ननु को वेदतात्पर्यविषयीभूतोऽर्थः यदर्थं तर्कापेक्षेत्यत आह— वेद के वे तात्पर्यभूत अर्थ जिनके लिए तर्कशास्त्र की अपेक्षा की जाती हैं— सतोऽविवक्षा पारार्थ्यं व्यक्तिरर्थस्य लैङ्गिकी । इति न्यायो बहुविधस्तर्केण प्रविभज्यते ॥ १३७ ॥ ग्रहं संमार्ष्टि इत्यादौ ग्रहपदोत्तरैकवचनार्थस्यैकत्वस्य सतोऽविवक्षा¹ ततो बहूनां पात्राणां संमार्गः सिध्यति पारार्थ्यं परोद्देशप्रवृत्तकृतिक्याप्यत्वरूपमङ्गत्वं² ‘बर्हिर्देव³ सदनं दामि’ इत्यादिमन्त्राणां बर्हिर्लवनाङ्गत्वम् अर्थस्य ‘अक्ताः⁴ शर्करा उपदधाति’ इत्यादौ घृतसाधनकाञ्जनरूपस्य लैङ्गिकी अक्ता इति वाक्यसन्निधौ ‘तेजो वै घृतम्’ इति घृतस्तुतिरूपलिङ्गजन्या व्यक्तिः प्रतिपत्तिः इति इत्येवं रूपो बहुविधो न्यायः तात्पर्यनिर्णयः तर्केण मीमांसया प्रविभज्यते क्रियते ॥ १३७ ॥ वेद के तात्पर्य जानने के लिए अनेक तर्कों का प्रयोग होता है जैसे—सत् (वर्तमान) की अविवक्षा, पारार्थ्य और अर्थ की लिङ्ग द्वारा प्रतीति इस प्रकार के अनेक न्याय (तात्पर्य निर्णय) तर्कों (मीमांसा) के द्वारा किये जाते हैं। सतः अविवक्षा—‘ग्रहं संमार्ष्टि’ इस वाक्य में ग्रहपद के सामने द्वितीया का एक वचन अम् विभक्ति है। एक वचन के कारण एकत्व विवक्षापन्न है। यदि उक्त वाक्य में यह एकत्व भी वक्ता के तात्पर्य का विषय हो तो एक ग्रह का सम्मार्जन हो सकता है। दूसरे ग्रह (पात्र) बिना माँजे ही रह जायेंगे। अतः एकत्व की अविवक्षा कर दी जाती है। जिससे सब पात्र माँजे जा सकें। पारार्थ्य—पर (स्वर्ग और अग्निहोत्र) के उद्देश्य से प्रवृत्त पुरुष की, कृति का विषय अग्निहोत्र और दधी दोनों हैं। इसलिए स्वर्ग के प्रति अग्निहोत्र और अग्निहोत्र के प्रति दधी अङ्ग है। जैसे ‘बर्हिर्देव सदनं दामि’ इस मन्त्र में ‘दामि’ इस पद से छेदन की प्रतीति होने के कारण यह मन्त्र लवन (छेदन) में अङ्ग हो जाता है। ‘अक्ताः शर्करा उपदधाति’ इस वाक्य को सुनकर शर्करा को अक्त बनाने के लिए घृत और तैल या डाल्डा के सदृश हानिकारक पदार्थ उपयोग में लाया जा सकता है किन्तु उसी वाक्य के आगे ‘तेजो वै घृतम्’ इस वाक्य के रहने से प्रकरणवश घी की स्तुति शर्करा को १. ग्रहमिति। ग्रह इति पात्रविशेषस्य संज्ञा। ग्रहपदोत्तरद्वितीयार्थैकत्वस्य विवक्षणे ग्रहं- संमृज्यात् यं संमृज्यात् स चैक इत्येवं ग्रहोद्देशेन एकत्वसंमार्गोभयविधौ वाक्यभेदः स्यादिति एकत्वमविवक्षितम्। पशुना यजेतेत्यादौ तृतीयार्थैकत्वस्य विवक्षायामपि यागोद्देशेन एकत्ववि- शिष्टपशोर्विधानेन न वाक्यभेद इति न तत्रैकत्वाविवक्षा। २. परेति। परं स्वर्गादि अग्निहोत्रादि च तदुद्देशेन प्रवृत्तो यः पुरुषः तत्कृतिव्याप्यता अग्निहोत्रादौ दध्यादौ च इति स्वर्गं प्रति आग्निहोत्रः अग्निहोत्रं प्रति च दध्याद्यङ्गम्। ३. बर्हिरिति। दामीत्यस्य लवनप्रकाशकत्वात् अर्थप्रकाशनं लिङ्गमिति लिङ्गेन अस्य मन्त्रस्य लवनाङ्गत्वम्। ४. अक्ताः शर्करा इति। अक्ता इति पदेन सामान्यतः सर्वाञ्जनद्रव्यप्रसक्तौ घृतद्रव्यमेवाञ्जन- साधनत्वेन गृह्यते तत्सन्निधौ तेजो वै घृतमिति घृतस्तुतिरूपाल्लिङ्गात्।
धी में ही अस्त करना चाहिए न कि द्युतेतर में इस अर्थ की प्रतीति होती है। इसी प्रकार से अर्थ की लिङ्ग द्वारा प्रतिपत्ति के लिए अनेक प्रकार का न्याय तर्क ( मीमांसा ) के द्वारा करते हैं ॥ १३७ ॥ अयं पूर्वोक्तस्तर्कः शब्दमूलक एव इत्याह— यह तर्क भी शब्दमूलक ही है क्योंकि— शब्दानामेव सा शक्तिस्तर्को यः पुरुषाश्रयः । शब्दानुगतो न्यायोऽनागमेष्वनिबन्धनः ॥ १३८ ॥ पुरुषाश्रयः पुरुषनिष्ठः यः वाक्यभेदादिज्ञानलक्षणः तर्कः स शब्दानामेव शक्तिः सामर्थ्यम् न हि शब्दशक्तिमनपेक्ष्य पुरुषैः तर्कः कर्तुं शक्यते शब्दशक्तैः- एतादृशी अर्थप्रकरणलिङ्गादिभिरनुगमं कुर्वन्ति पुरुषे शब्दाश्रितमेव तर्कं पुरुषाश्रितं मन्यन्ते तमागममनुगृहीतं तर्कमधिकृत्यैव 'यस्तर्केणानुसंधत्ते स धर्मं वेद नेतर' इति- वचनम् अनागमेषु आगमनिरपेक्षेषु पुरुषेषु वर्तमानो यः शब्दाननुगतः शब्द- शक्त्याऽपरिगृहीतो न्यायस्तर्कः स अनिबन्धनः न आगमार्थनिर्णयजनक इत्यर्थः । एतादृशं शुष्कं तर्कमधिकृत्यैव 'हेतुकांन् बकबृत्तींश्च वाङ्मात्रेणापि नार्चयेत्' इति निषेध इति भावः ॥ १३८ ॥ लोगों को जो 'ग्रहं सम्माष्टिं' वाक्य के अर्थ में वाक्य भेद का तर्क होता है यह शब्दों की ही शक्ति है जो आगम को प्रमाण न मानकर केवल शब्द शक्ति से अपरिगृहीत तर्क है वह तो आगम के अर्थ निर्णय का कारण भी नहीं बन सकता ॥ १३८ ॥ ननु यथा अर्थबोधकत्वं साधुष्विव असाधुषु वर्तते तथा धर्मजनकत्वं साधुष्विवा- साधुष्वपि स्यादितिशङ्कामपाकर्तुं दृष्टान्तमाह— जैसे साधुशब्दों की भाँति असाधुशब्दों में अर्थबोधकत्व है वैसे साधुशब्दों की भाँति असाधुशब्दों में धर्मजनकत्व नहीं है क्योंकि— रूपादयो यथा दृष्टाः प्रत्यर्थं यतशक्तयः । शब्दास्तथैव दृश्यन्ते विषापहरणादिषु ॥ १३९ ॥ यथा तुल्येऽपि रूपत्वे नीलं चक्षुषोऽनुग्राहकं भास्वरं तूपघातकं तुल्येऽपि रसत्वे मधुरः श्लेष्माणं जनयति कटुकः पित्तम् इति दृष्टफलाः। यथा तुल्ये रूपयोगे वायव्योऽजः श्वेतगुण एवालभ्यते तुल्येऽपि जलत्वे मद्यं पापफलं तीर्थोदकं तु पुण्यफलमिति अदृष्टफला रूपादयः प्रत्यर्थं यतशक्तयो नियतशक्तयो दृष्टाः तथैव तुल्येऽपि शब्दत्वे केचन शब्दाः दृष्टेषु विषापहरणादिषु केचन सूक्तादयोऽभ्यस्यमाना अदृष्टेषु धर्मादिषु यतशक्तयो दृश्यन्ते ॥ १३९ ॥ जैसे सब रूपों में रूपत्व एक है किन्तु नील रूप नेत्र को ठण्डा करता है और चमकीला रूप आँखों को चकाचौंध पैदा करता है, सब रसों में रसत्व एक है किन्तु मधुर कफ पैदा करता है और कटु पित्त। इस प्रकार रूपादिकों की शक्तियाँ भिन्न-भिन्न विषयों में
ब्रह्मकाण्डम् ] संस्कृत-हिन्दी-व्याख्योपेतम् १४६ नियम हैं। वैसे सब शब्दों में रहने वाला शब्दत्व एक है। चाहे वह साधु हो या असाधु। फिर भी कुछ शब्द साँप का विष दूर करने के लिए नियम दिये जाते हैं। (अर्थात् उन्हीं शब्दों को पढ़ने से विष उतरता है) ॥ १३९ ॥ दृष्टान्तितमाह— यथैषां तत्र सामर्थ्यं धर्मेऽप्येवं प्रतीयताम् । साधूनां साधुभिस्तस्माद्भाच्यमभ्युदयार्थिभिः ॥ १४० ॥ यथा येषां केषाञ्चित् शब्दानां तत्र विषापहरणादौ सामर्थ्यं वर्तते एवं धर्मेऽपि साधूनां शब्दानां प्रतीयताम् यत एवं तस्मात् अभ्युदयार्थिभिः अदृष्टार्थिभिः पुरुषैः साधुभिर्भाच्यं नामाधुभिरित्यर्थः ॥ १४० ॥ जैसे कुछ शब्दों की शक्ति विष दूर करने में देखी गई है। वैसे शब्दत्व के एक होने पर भी वाक्य ज्ञान में केवल अर्थ ही ग्राह्य माना जाता है । सब जलों में जलत्व एक है फिर भी मद्य पापजनक और तीर्थोदक पुण्यजनक है। इसी प्रकार धर्म के विषय में साधु शब्दों को ही मानना चाहिए क्योंकि कल्याण चाहने वाले साधु का प्रयोग करते हैं असाधु का नहीं ॥१४०॥ ननु शब्दविशेषाणां विषापहारकत्वं प्रत्यक्षसिद्धं साधूनां तु अदृष्टजनकत्वं न प्रत्यक्षसिद्धं तत्कथं स्वीक्रियतामत आह— जिन शब्दों का सामर्थ्य प्रत्यक्ष है उनके बारे में प्रमाणान्तर की आवश्यकता नहीं किन्तु— सर्वेऽदृष्टफलानर्थानागमात्प्रतिपद्यते । विपरीतं च सर्वत्र शक्यते वक्तुमागमे ॥ १४१ ॥ सर्वो जनः अदृष्टफलानर्थान् यागादीनागमात् यजेत स्वर्गकाम इत्येवंरूपात् प्रतिपद्यते यागः स्वर्गसाधनमिति मनुते एवम् 'एकः शब्दः सम्यग् ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके च कामधुग्भवति' इत्येवंरूपात् आगमात् साधूनामपि अदृष्टजनकत्वं मन्यताम् । मन्त्रवत्त्वाविशेषात् साधूनामधर्मजननसामर्थ्यमेव किं न कल्प्यते इत्यत आह विपरीतमिति । एवं सति विपरीतम् आगमेव यस्य पुण्यजनकतोक्ता तस्य पापजनकत्वं यस्य पापजनकतोक्ता तस्य पुण्यजनकत्वमिति सर्वत्र आगमे वक्तुं शक्यते तथापि कंचिदागमं प्रमाणीकृत्य तदुपोद्वलकतया कांचिद्युक्तिमुदाहरन्तो दृश्यन्ते जना इत्यागमात् साधूनां पुण्यजनकत्वमसाधूनां च पापजनकत्वमिति मन्त- व्यम् नात्र विवदितव्यं तथा सति सर्वागमोच्छेद एव स्यादिति भावः ॥ १४१ ॥ जैसे जो शब्द अदृष्टजनक हैं उनका प्रामाण्य तो सब लोग 'यजेत स्वर्गकामः' इस प्रकार के आगम को ही मानते हैं। वैसे 'एक शब्दः सम्यग् ज्ञातः स्वर्गे लोके च कामधुग् भवति' इस प्रकार के आगम से साधु शब्दों को भी अदृष्टजनक मानते हैं। यदि कोई इसके विपरीत कल्पना करे कि जो पुण्यजनक हैं वे पापजनक और जो पापजनक वे पुण्यजनक तो सब आगमों के बारे में यह विपरीत कल्पना हो सकती है। अतः लोक व्यवहार को ध्यान में रखकर आगमों को प्रमाण मानना ही पड़ता है ॥ १४१ ॥
१५० वाक्यपदीयम् ननु कोऽसावागमः यद्बलेन साधुत्वज्ञानं येन च साधूनां पुण्यजनकत्वमित्यत आह — वह कौन आगम है जो साधुत्वज्ञान और उससे पुण्यजनकत्व ज्ञान करता है— साधुत्वज्ञानविषया सैषा व्याकरणस्मृतिः । अविच्छेदेन शिष्टानामिदं स्मृतिनिबन्धनम् ॥ १४२ ॥ यथा भक्ष्याभक्ष्यगम्यागम्यविषयाः स्मृतयो व्यवस्थिताः तासु निबद्धमाचारं च शिष्टा न व्यतिक्रामन्ति तथा साधुत्वज्ञानविषया वाच्यावाच्यविषया एषा व्याकरणस्मृतिर्वर्तते पारम्पर्यात् स्मृतो ह्यर्थः पुनः पुनर्निबध्यत इति इदं व्याकरणं शिष्टनामविच्छेदेन पारम्पर्येण स्मृतिनिबन्धनम् अनादिरागममूला चेयं स्मृतिः स्मृत्यन्तरवदत्यन्तमादरणीयेति तात्पर्यम् ॥ १४२ ॥ यह व्याकरण आगम शब्दों का साधुत्व बतलाना है और यह व्याकरण शिष्टों की अनादि परम्परा से चला आ रहा है अनादि ही आगम (वेद) मूलक है ॥ १४२ ॥ एवं शिष्टानुगृहीतस्मृतित्वेन व्याकरणस्मृतेः प्रामाण्यमुपपाद्य तस्याः सर्व- शब्दविषयकत्वमाह— वैखर्या मध्यमायाश्च पश्यन्त्याश्चैतदद्भुतम् । अनेकतीर्थभेदायास्त्रय्या वाचः परं पदम् ॥ १४३ ॥ अनेकतीर्थेन अनेकस्थानेन प्राणबुद्धिहृदयाख्येन भेदो यस्यास्तस्या अनेक- तीर्थभेदायाः वैखर्याः मध्यमायाः पश्यन्त्याश्च त्रय्या वाच एतदद्भुतं व्याकरणं परं पदम् परमं स्थानं व्याकरणेन त्रयी वाक् विज्ञातुं शक्येति भावः ॥ और वही व्याकरण स्मृति शिष्टों से आदृत होने से प्रमाणभूत है और समस्त शब्दों का ज्ञान इसी से होता है। क्योंकि प्राण, बुद्धि और हृदयरूपी अनेक स्थानों में वैखरी, मध्यमा और पश्यन्ती नाम से प्रसिद्ध तीन वाणियों का वही व्याकरण स्मृति ही उत्कृष्ट स्थान है। तत्र परश्रोत्रविषया श्लिष्टव्यक्तवर्णा प्राणवायुभावा भ्रष्टसंस्कारा च वैखरी । अन्तः सन्निवेशिनी परिगृहीतकमेव बुद्धिमात्रोपादाना सूक्ष्मप्राणवृत्त्यनुगता मध्यमा । क्रमसंहारभावेऽपि व्यक्तप्राणपरिग्रहेति केचित् । प्रतिसंहृतक्रमाः सत्यप्यभेदे समाविष्टक्रमशक्तिः पश्यन्ती सा चलाचला प्रति- लब्धसमाधाना च आवृता विशुद्धा च सन्निविष्टज्ञेयाकारा निराकारा च परिच्छिन्नार्थ- प्रत्यवभासा संसृष्टार्थप्रत्यवभासा प्रशान्तसर्वार्थप्रत्यवभासा च । तत्र व्यावहारि- कीषु सर्वासु वाग्व्यवस्थासु व्यवस्थिताः शास्त्रानुगदिताः पुण्योत्पादहेतुः परस्तु पश्यन्तीरूपमनपभ्रंशमसंकीर्णं लोकव्यवहारातीतं तस्या एव वाचो व्याकरणेन साधुत्वज्ञानलभ्येन वा शब्दपूर्वेण योगेन अधिगम इति । यदाह— गौरिव प्रक्षरत्येका रसमृत्तमशालिनी । दिव्यादिव्येन रूपेण भारती गौः शुचिस्मिता ॥
ब्रह्मकाण्डम् ] संस्कृत-हिन्दी-व्याख्योपेतम् १५१ एतयोरन्तरं पश्य सूक्ष्मयोः स्यन्दमानयोः । प्राणापानान्तरे नित्यमेका सर्वस्य तिष्ठति ॥ अन्या स्वप्रेर्यमाणेव विना प्राणेन वर्तते । जायते हि ततः प्राणो वाचमाप्याययन् पुनः ॥ प्राणेनाप्यायिता सेयं व्यवहारनिबन्धनम् । सर्वस्योच्छ्वासमासाद्य न वाग्वदति कर्हिचित् ॥ घोषिणी जातनिर्घोषा अघोषा च प्रवर्तते । तयोरपि च घोषिण्योनिर्घोषैव गरीयसी ॥ इति । पुनश्चाह—स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा । वैखरी वाक् प्रयोक्तॄणां प्राणवृत्तिनिबन्धना ॥ केवलं बुद्धयुपादाना क्रमस्वरूपानुपातिनी । प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते ॥ अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा । स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी ॥ सेयमापीयमानापि नित्यमागन्तु कैर्मलैः । अन्त्या कलेव सोमस्य नात्यन्तमभिभूयते ॥ तस्यां दृष्टस्वरूपायामधिकारो निवर्तते । पुरुषे षोडशकले तामाहुरमृतां कलाम् ॥ प्राप्तोपरागरूपा सा विप्लवैरनुपप्लवैः । वैखरी मध्यमाचैव गुणैर्न व्यपशीर्यते ॥ इति । स्थानेष्विति—ताल्वादिस्थानेषु, वायौ—प्राणसंज्ञे, विवृते अभिघातार्थं निरुद्धे सति कृतवर्णपरिग्रहेति हेतुद्वारा विशेषणं ततः ककारादिवर्णरूपस्वीकारात् वैखरी- संज्ञा वक्तृभिर्विशिष्टायां खरावस्थायां स्पष्टरूपायां भवा वैखरीति निरुक्तेः, केचित्तु विखर इति देहेन्द्रियसङ्घात उच्यते तत्रभवा वैखरीति, वाक् प्रयोक्तॄणां सम्बन्धिनी। यद्वा तेषु स्थानेषु । तस्याश्च प्राणवृत्तिरेव निबन्धनम् । यत्रैव निबद्धा सा तन्म- यत्वात् । या पुनरन्तः सङ्कल्प्यमाना क्रमवती श्रोत्रग्राह्यवर्णरूपाभिव्यक्तिरहिता वाक् सा मध्यमेत्युच्यते । तदुक्तं केवलं बुद्धयुपादानेति । अस्यार्थः स्थूलां प्राणवृत्तिं हेतुत्वेन वैखरीवदनपेक्ष्य केवलं बुद्धिरेवोपादानं हेतुर्यस्याः सा मध्यस्थत्वात् क्रम- रूपमनुगच्छति अस्याश्च मनो भूमाववस्थानम् । वैखरीपश्यन्त्योर्मध्ये भावाच्चमध्यमा वागिति । या तु ग्राह्यभेदक्रमादिरहिता स्वप्रकाशा संविद्रूपा वाक् सा पश्यन्ती- त्युच्यते तदुक्तम् अविभागा त्विति । अस्यार्थः पश्यन्ती वाच्यां वाच्यावाचकयोर्वि- भागेनावभासो नास्ति सर्वतश्च सजातीयविजातीयापेक्षायां संहृतो वाच्यानां
१५२ वाक्यपदीयम् वाचकानां च क्रमो देशकालकृतो यत्र क्रमविवर्त्तशक्तिरपु विद्यते। स्वरूपज्योतिः स्वप्रकाशा ध्येयवेदकभेदानतिक्रमात् सूक्ष्मा दुलंघ्या अनपायिनी कालभेदस्पर्शाभावात्। इदमत्रावधेयम् पश्यन्ती मध्यमा वैखरी चेति त्रिविधैव वाक्। त्रिविधापि सा स्थूला सूक्ष्मा परा चेति भेदत्रयेण भिद्यते इति वाचो नवभेदाः सम्पद्यन्ते। वर्णादीनां प्रविभागरहिता स्वरप्रधाना सङ्गीतरूपा वाक् स्थूला पश्यन्ती, जिगामा- रूपा सैव सूक्ष्मा पश्यन्ती, जिगामाहीना संविद्रूपा परा पश्यन्ती। एवं चर्मावनद्धे मृदङ्गादौ करघातादिना समुद्भूता ध्वनिरूपा वाक् स्थूला मध्यमा, विभागापन्ना सैव सूक्ष्मा मध्यमा, तादृशोद्धारहिता निरूपाधिका सैव परा मध्यमा। एवं परस्परवैलक्षण्यापादनेन स्फुटीकृतः वर्णरूपा वाक् स्थूला वैखरी, विवक्षारूपा सै