सामग्री पर जाएँ
भारतकोश
संग्रह पर लौटें

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

दानं पवित्रन्तु पितॄणामपि तारणम् ॥ ९॥ कौसुंभरक्तं दत्त्वा तु सौभाग्यं महदाप्नुयात् ॥ दानात्कुङ्कुमरक्तस्य लावण्यं महदाप्नुयात् ॥ १० ॥ रङ्गे- न्त्यैरनीलैश्च रक्तं दत्त्वा सुखी भवेत् ॥ यथायथा तु वस्त्रस्य भवतीह महर्घता ॥ ११ ॥ यथायथा शुभ्रता च तथा पुण्यफलं लभेत्॥ अन्येषा- मपि दानानामेतदेव प्रकीर्तितम् ॥ १२ ॥ सर्वदो वस्त्रदः प्रोक्तो यतः सर्वत्र वस्त्रवान् ॥ पूजामाप्नोति धर्मज्ञास्तद्धि तस्माद्विशिष्यते ॥ १३ ॥ वस्त्रदः सुचिरं कालं भुक्त्वा देवसुखान्दिवि ॥ विमानेनानर्कवर्णेन हंसयुक्तेन भास्वता ॥ १४ ॥ मानुष्यमासाद्य भवेत्यरोगः शौचान्वितः सौख्यपरो विनीतः ॥ जनाभिरामश्च तथा सुवेशः पूज्यश्च लोके विदुषां सदैव ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्र संवादे मुनीन्प्रति हंसगीतासु वस्त्रदानप्रशंसावर्णनो नाम त्रयोदशाधिकत्रिशततमोऽध्यायः ॥ ३१३ ॥ हंस उवाच ॥ धान्यानां ह्यत्तमं दानं कथितं द्विजपुङ्गवाः ॥ धान्येभ्योऽपि परं धान्यं रक्तशालिः प्रकीर्तितः ॥ १ ॥ रक्तशालिं नरो दत्त्वा सूर्यलोके महीयते ॥ दत्त्वा तथा सुगन्धाँश्च गन्धर्वैः सह मोदते ॥ २ ॥ कलमानां प्रदानेन शक्रलोके महीयते ॥ महाशालैः प्रदानेन वसूनां लोकमाप्नुयात् ॥ ३ ॥ काष्ठशालिं तथा दत्त्वा ऽअलकायां प्रसीदति ॥ व्रीहीनां चान्यधान्यानां दानात्स्वर्गमवाप्नुयात् ॥ ४ ॥ यव प्रदानेन नरः शक्रलोके महीयते ॥ तथा गोधूमदानेन वसूनां लोकमाप्नुयात् ॥ ५ ॥ प्रियो भवति लोकस्य प्रियेषु यः प्रयच्छति ॥ ददाति यस्तु श्यामाकं तस्य प्रीयन्ति देवताः ॥ ६ ॥ अन्येषां शूकधान्यानां प्रदानाद्धर्मरतो नरः ॥ स्वर्गलोकमानोति नात्र कार्या विचारणा ॥ ७ ॥ मुद्गदः शक्रलोकन्तु यमलोकन्तु माषदः ॥ यथेष्टं लोकमाप्नोति तथा विष्वास्तिलप्रदः ॥ ८ ॥ षष्टिकानां प्रदानेन लोकं नैर्रतं लभेत ॥ सचीणचणकं दत्त्वा लोकं वारुणमाप्नुयात् ॥ ९ ॥ वायव्यञ्च मसूराणि राजमाषाणि धानदम् ॥ अन्येषां शिम्बिधान्यानां दानात्सर्वमवाप्नु- यात् ॥ १० ॥ इक्षुसृष्टीकयोर्दानात्परं सौभाग्यमाप्नुयात् ॥ गुडप्रदस्तथारोग्यं सितादः काममीप्सितम् ॥ ११ ॥ फाणितस्य प्रदानेन परां तृप्ति- मवाप्नुयात् ॥ खण्डप्रदश्च सौभाग्यं सर्वान्कामानवाप्नुमदः ॥ १२ ॥ घृतदो जीवितं दीर्घ चारोग्यं तैलदस्तथा ॥ सर्वान्कामानवाप्नोति लवणं यः प्रयच्छति ॥ १३ ॥ सक्तुदस्तृप्तिमाप्नोति सिकतादस्तथा श्रियम् ॥ अकीर्तितानामन्येषां दानात्स्वर्गमवाप्नुयात् ॥ १४ ॥ पक्वान्नदानात्फलदं नृलोके शुक्कात्रमुक्तं हि तदाप्य यस्मात् ॥ यजन्ति यज्ञैः सततं द्विजेन्द्रास्तस्माच्च तत्पुण्यतमं प्रदिष्टम् ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु धान्यदानप्रशंसा नाम चतुर्दशाधिकत्रिशततमोऽध्यायः ॥ ३१४ ॥ ॥ हंस उवाच ॥

वि० ध०
॥४४०॥

तृ० खं०
अ० ३१६

सर्वेषामेव दानानामन्नदानं विशिष्यते ॥ अन्नदानात्परं दानं न भूतं न भविष्यति ॥१॥ नात्र पात्रपरीक्षा स्यान्न कालनियमास्तथा ॥ न च देशः परीक्ष्योऽन्नं देयमन्नं सदैव तत्॥२॥ अभूभ्यश्चापथेभ्यश्च पतितेभ्यस्तथैव च ॥ कृमिकीटपतङ्गानां देयमन्नं सदैव तु ॥३॥ अन्नं हि जीवितं लोके प्राणाश्चान्नेनिनबन्धनाः ॥ अन्नदः प्राणदो लोके सर्वदश्च तथान्नदः ॥ ४॥ भुक्त्वा तथा च यस्यान्नं सन्तः स्याद्द्विजोत्तमाः ॥ ज्ञातव्यं ब्राह्मणश्रेष्ठा यस्यान्नं तस्य सन्ततिः॥५॥ दातव्यं सर्ववर्णेष्यो भोक्तव्यं ब्राह्मणस्य च ॥ यस्यत्वेनोदरेस्थन्त ब्राह्मणे म्रियते द्विजाः ॥६॥ तान्तु योनिमवाप्नोति नात्र कार्या विचारणा ॥ भक्ष्यद्भिः स्वर्गमाप्नोति शक्रलोकन्तु भोज्यद्भिः ॥ ७॥ लेह्यद्भिर्वासवं लोके वसूनमपि चोष्यद्भिः ॥ वरुणं लोकमवाप्नोति तथा पानप्रदो नरः ॥ ८ ॥ पानकानि सुगन्धीनि शीतलानि प्रपच्छतः ॥ सर्वकामसमृद्धः स्यान्नात्र कार्या विचारणा ॥ ९ ॥ परमान्नप्रदानेन तृप्तिर्भवति शाश्वती ॥ पिपासमानो म्रियते गवां लोके महीयते ॥१०॥ यो दद्यादपारिक्लिष्टमन्नमन्वानि वर्तते ॥ श्रान्तायादृष्टपूर्वाय तस्य पुण्य फलं महत् ॥ ११ ॥ सहस्रपरिवेष्टुन्तु नरकं स न गच्छति ॥ विमानैनानार्कवर्णन स्वर्गलोके महीयते ॥ १२॥ अपहन्यात्तथा विप्रा एकस्यार्त्तस्य यत्क्षुधा ॥ तेनासौ कर्मणा प्रेत्य महत्फलमुपाश्नुते॥ १३॥ गवादिदत्तन्नं लोके यश्वास्त्य दयितं गृहे ॥ तत्तद्वणवते देयं तद्द्वाक्यमियच्छता ॥ १४ ॥ दानान्यनेकानि फलञ्च तेषां बहुप्रकारं पुरुषः समीक्ष्य ॥ श्रद्धान्वितो ब्राह्मणसात्तु कुर्याद्यत्तद्देवात्ममना नृलोके ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतास्वन्नदानप्रशंसा नाम पञ्चदशाधिकत्रिशततमोऽध्यायः ॥ ३१५ ॥ ॥ ऋषय ऊचुः ॥ कस्य दानस्य कः पात्रं तद्वदस्व महामते ॥ कस्मिन्देशे तथा काले किञ्चिद् दत्तं महाफलम् ॥ १ ॥ ॥ हंस उवाच ॥ ॥ न दानं यशसे दद्यान्नदद्यात्प्रोपकारिणे ॥ न नृत्यगीतशीलेभ्यो नास्तिकेभ्यश्च धार्मिकः ॥ २ ॥ पापशीले न दातव्यं कदाचिदपि किञ्चन ॥ पापशीले तु यदत्तं तद्दातुरदोषमावहेत् ॥ ३ ॥ धनदस्तेन पापेन शीघ्रमेव युज्यते ॥ तस्मात्प्राप्य धनं पुण्यं पुण्यशीलं समाचरेत् ॥ ४ ॥ धनदस्तेन पुण्येन योगमाप्नोत्यसंशयम् ॥ अन्नदानेन कर्तव्यं पात्रवेक्षणमप्यपि ॥ ५ ॥ अन्नं सर्वत्र दातव्यं धर्मकामेन वै द्विजाः ॥ सदोषोपि तु निर्दोष सगुणोतिगुणावहम् ॥ ६ ॥ तस्मात्सर्वप्रयत्नेन देयमन्नं सदैव तु ॥ विद्याध्ययनसक्तानामन्नदानं महाफलम् ॥ ७ ॥ शुभानामप्यथाऽन्वेषां कर्मणां द्विजपुङ्गवाः ॥ यथाश्रमुपयुञ्जानो नरः कर्माणि साधयेत् ॥ ८ ॥ कर्म साधयतः पुण्यमन्नदाता तथाऽश्नुते ॥ दत्त्वा नृपतिभीतानां धनिनाञ्च तथा धनम् ॥ ९ ॥ तस्कराम्भ्यश्च भीतानां फलमक्षयमश्नुते ॥ दियक्षता तथा दत्तं व्यसने हेतुमिच्छता ॥ १० ॥ दुःखान्वितानां दीना

॥४४०॥

नाक्षाख्यं तत्प्रकीर्तितम् ॥ विवाहमेखलाबन्धप्रतिष्ठादिषु कर्मसु ॥ १२॥ आपत्नेषु च यद्दत्तं तदक्षय्यमुदाहृतम् ॥ यज्ञोपकरणं द्रव्यं क्षत्रिये द्विज
पुङ्गवाः ॥ १२ ॥ पुण्योपयोगि तद्देयं शूद्रे शिल्पोपजीविनम् ॥ यस्योपयोगि यद्द्रव्यं देयं तस्यैव तद्भवेत् ॥ १३ ॥ येनेयेन च भाण्डेन
यस्य वृत्तिरुदाहृता ॥ तत् तस्यैव दातव्यं पुण्यकामेन धीमता ॥ १४ ॥ दण्डं कृष्णाजिनञ्चैव तथा विप्राः कमण्डलुम् ॥ चीरं पुण्यमवाप्नोति
दत्त्वैतां ब्रह्मचारिणे ॥ १५ ॥ वस्त्रं शय्यासनं धान्यं द्रव्यं वेश्म परिच्छदम् ॥ गृहस्थाय तु तद्दत्तं ज्ञेयं बहुफलं सदा ॥ १६ ॥ नीवारवल्कलं
शाकं फलमूलं च गोरसम् ॥ वानप्रस्थाय तद्दत्तमन्तं परिकीर्तितम् ॥ १७ ॥ भिक्षाप्रदानं यतये पात्रदानं तथा हितम् ॥ सौभाग्यद्रव्य
ताम्बूलरक्तवस्त्रादिकं स्त्रियः ॥ १८ ॥ स्त्रीणां प्रदानं दातव्यं भर्तुहस्ते तु नान्यथा ॥ प्रोक्तं संमहणं ह्येतद्द्भूतं भर्तुः प्रयच्छतः ॥ १९ ॥ अन्नं
प्रतिश्रयं चोभौ पान्थे दत्तं महाफलम् ॥ विवाहादिक्रियाकाले तत्क्रियासिद्धिकारकम् ॥ २० ॥ यः प्रयच्छति धर्मज्ञाः सोऽक्षय्येमवाप्नुयात् ॥
आतुरेभ्यो धनं दत्त्वा दानं बहुफलं लभेत् ॥ २१ ॥ बाले क्रीडनकं दत्त्वा मिष्टमन्नं तथैव च ॥ फलं मनोहरं वापि अभिप्रेतमफलं लभेत् ॥ २२ ॥
मिष्टान्नं मानवो दत्त्वा मिष्टानि तु कांक्षतम् ॥ अक्षयं फलमाप्नोति स्वर्गलोकं च गच्छति ॥ २३ ॥ श्रीविहीने तथा दत्त्वा भोजनं द्विजसत्तमाः ॥
वस्त्रं शुभं वा धर्मज्ञाः पुण्यं महदुपाश्नुते ॥ २४ ॥ कृपास्थानपरो विप्रा विद्युतैः पुरुषः श्रिया ॥ तस्यानुकम्पा कर्तव्या सतां वर्त्मनि तिष्ठतः
॥ २५ ॥ कार्ये समुद्यमं कृत्वा परेषां समुपस्थिते ॥ अक्षयं फलमाप्नोति नात्र कार्या विचारणा ॥ २६ ॥ यवसानां प्रदानेन धेनुमत्सु द्विजातिषु ॥
लवणानाञ्च धर्मज्ञा फलमक्षयमश्नुते ॥२७॥ प्रसवेषु तदा दत्तं व्यसनान्यभये ततः ॥ तद्दानमक्षयं प्रोक्तं पुरुषस्य विपश्चितः ॥२८॥दत्त्वा ब्राह्मण
शार्दूला जलमात्रमथार्थिने ॥ फलमक्षयमाप्नोति नात्र कार्या विचारणा ॥ २९॥ क्लेशं विना दत्तमथार्थिने तु दानं हि लोके फलदं निरुक्तम् ॥
अभ्यर्थितेनाथ ततो न कार्या विमानना त्वर्थिजनस्य शक्त्या॥३०॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनोत्युत्पत्ति र्हसगीतासु
पात्रविशेषेण दानविशेषवर्णनो नाम षोडशाधिकत्रिशततमोऽध्यायः ॥३१६॥ ऋषय ऊचुः ॥ दानं बहुफलं काले यस्मिन्यत्परिकीर्तितम् ॥ तद्व
मस्माकमाचक्ष्व त्वं हि सर्वविदुच्यसे ॥ १॥ हंस उवाच ॥ संवत्सरे तथा दानं तिलस्य च महाफलम् ॥ परिपूर्वे तथा दानं यवानां द्विजसत्तमाः
॥ २ ॥ इडापूर्वेऽन्नवस्त्राणां धान्यानां चानुपूर्वके ॥ उदांसंवत्सरे दानं रजतस्य महाफलम् ॥३॥ उत्तरे त्वयने प्रोक्तं वस्त्रदानं फलप्रदम् ॥ स्नानानु
लेपनादीनां वसन्ते द्विजपुङ्गवाः॥४॥पानकानां तथा ग्रीष्मे छत्राणां तदनन्तरे ॥ शरदभ्रस्य धर्मज्ञा वस्त्राणामपि हैमने॥५॥वह्निदानं नरः कुर्या

वि० ध० तृ० खं० अ० ३१७

॥४४१॥

सूर्यस्योदयनं प्रति ॥ शिशिरे सततं वह्निं तर्पयित्वा तथा तिलैः ॥ ६ ॥ कुल्माषं सघृतं दत्त्वा यथाशक्त्या द्विजातिषु ॥ कायाभिदीप्तिं प्राकाश्यं शत्रुनाशञ्च विन्दति ॥ ७॥ सूक्ष्मास्ताम्रघटांश्चैव सौवर्णैः कर्णकान्वितान् ॥ जलकुम्भोपरिकृतानक्षयं फलमश्नुते ॥ ८॥ मध्याह्ने प्रावृषि स्नातः सततं द्विजपुङ्गवाः ॥ तिलप्रदानान्मार्गे तु प्राप्यलोकं स गच्छति ॥ ९॥ प्रियंगुं फाल्गुने दत्त्वा प्रियो भवति भूतले ॥ चैत्रे चित्राणि वस्त्राणि सौभाग्यं महदश्नुते ॥ १०॥ अन्नपानां प्रदानेन वैशाखे स्वर्गमश्नुते ॥ छत्रदानं तथा ज्येष्ठे सर्वान्कामानवाप्नुते ॥ दत्त्वा चोपानहौ स्वर्गमाषाढे ध्रुवमश्नुते ॥ ११॥ श्रावणे वस्त्रदानस्य कीर्त्तितं सुमहत्फलम् ॥ प्रोष्ठपादे तथा मासि प्रदानात्कांसिनस्तस्य च ॥ १२ ॥ आश्विने घृतदानेन रूपवानभिजायते ॥ कार्त्तिके दीपदानेन सर्वत्रौजस्यमश्नुयात् ॥ १३ ॥ लवणं मार्गशीर्षे तु दत्त्वा सौभाग्यमश्नुते ॥ पौषे कनकदानेन परां पुष्टिं तथैव च ॥ १४ ॥ पुष्पाणां च सिते पक्षे दानं लक्ष्मीकरं स्मृतम् ॥ फलानां च तथा दानं कृष्णपक्षे महाफलम् ॥ १५॥ लवणागुडोपेतमपूपं सूर्यवासरे ॥ सहिरण्यं नरो दत्त्वा न रोगैरभिभूयते ॥ १६ ॥ एवंविधं चन्द्रदिने ददत्सौभाग्यमाप्नुयात् ॥ काष्ठदानं भौमदिने शत्रुनाशमवाप्नुयात् ॥ १७ ॥ बोधे क्रीडनकानाञ्च दानं बालेषु शस्यते ॥ जीवाह्नि वस्त्रदानेन परां पुष्टिं समश्नुते ॥ १८ ॥ सर्वत्र रतिमाप्नोति शुक्रे दत्त्वा रतिप्रियम् ॥ अभ्यङ्गं सौरदिवसे दत्त्वा जीवितमाप्नुयात् ॥ १९॥ कृत्तिकासु सुवर्णस्य दानं बहुफलं स्मृतम् ॥ रक्तवस्त्रस्य रोहिण्यां सौम्ये च लवणस्य चारु ॥ २०॥ मृगस्य तथाऽर्द्धायां चादित्ये रजतस्य च ॥ घृतस्य च तथा पुष्ये गन्धानांमथ सर्पभे ॥ २१ ॥ तिलानाञ्च मघायोगे प्रियङ्गोर्भगदैवते ॥ आर्यम्णे चाप्यपूपानां सावित्रे पायसस्य च ॥ २२ ॥ चित्रायां चित्रवस्त्राणां सक्तूनां वायुदैवते ॥ ऐन्द्राग्ने चैव लोहानां मैत्रे माल्यफलस्य च ॥ २३॥ छत्रस्य च तथा शाक्रे मूले मूलफलस्य च ॥ हिमस्य मधुयुक्तस्य दानमाप्ये महाफलम् ॥ २४ ॥ विश्वेश्वरेन्नदानस्य श्रवणे वसनस्य च ॥ धान्यस्य वासवे विप्रा वारुणे चौषधस्य च ॥२५॥ अजपादे च बीजानां सस्यानां तदनन्तरे ॥ गोरसानां तथा पौष्णे स्नानानामथ चाश्विने ॥ ॥ २६ ॥ तिलानाञ्च तथा दानं भरणीषु महाफलम् ॥ प्रतिपद्यथ पुष्पाणां द्वितीयायां घृतस्य च ॥ २७ ॥ तृतीयायां तु वस्त्राणां चतुर्थ्यां कनकस्य तु ॥ पञ्चम्यान्तु फलानां वै षष्ठयां स्नानस्य मानदाः ॥२८॥ सप्तम्यां चाप्यपूपानामष्टम्याञ्च गुडस्य च ॥ कुल्माषस्य नवम्यान्तु दशम्यां रजतस्य च ॥ २९ ॥ एकादश्यां सुवर्णस्य द्वादश्यां वसनस्य च ॥ त्रयोदश्यां सुगन्धानां सितायास्तदनन्तरम् ॥ ३० ॥ दानञ्च परमावश्यं पञ्चदश्यां महाफलम् ॥ वैशाखशुक्लपक्षे तु तृतीयायां द्विजोत्तमाः ॥ ३१ ॥ यद्ददाति नरश्रेष्ठस्तत्तदक्षय्यमश्नुते ॥ विशेषेण

॥४४१॥

तथा दानमशस्तानां महाफलम् ॥ ३२ ॥ माघे श्रवणसंयुक्ता युक्ता स्याद्द्वादशी यदा ॥ तिलदानं महत्पुण्यं विनापि श्रवणेन तु ॥ ३३ ॥ मासि भाद्रपदे शुक्ले नवम्यां द्विजपुङ्गवाः ॥ गोधूमभक्तां सगुडां दत्त्वा पुण्यमवाप्नुयात् ॥ ३४ ॥ एतानि दानानि च कालयोगे प्रोक्तानि पुण्यानि मया द्विजेन्द्राः ॥ देयानि सर्वाणि विनापि योगैर्योगेन पुण्यं त्वधिकं निरुक्तम् ॥ ३५ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मा- र्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु कालयोगे दानविधिवर्णनो नाम सप्तदशाधिकत्रिशततमोऽध्यायः ॥ ३१७ ॥ ऋषय ऊचुः ॥ व्रतं नक्षत्रसन्नाहं सदानं कथयस्व नः ॥ सर्वधर्मभृतां श्रेष्ठ प्रत्यक्षामलदर्शन ॥ १ ॥ हंस उवाच ॥ कृत्तिकासु महाभागाः पायसेन स- सर्पिषा ॥ संतार्य ब्राह्मणांत्साधूंल्लोकान्प्राप्नोत्यनुत्तमान् ॥ २ ॥ रोहिण्यां प्रथितैर्मांसैर्मधुरैश्च परैस्तथा ॥ पयोलुपानं दातव्यं चान्नाद्यार्थं द्वि- जातये ॥ ३ ॥ दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते ॥ गच्छेन् मातॄनपोढोऽकान्स्वर्गेवासमनुत्तमम् ॥ ४ ॥ आर्द्रार्या कृसरं दत्त्वा तैलमिश्रं सुपोषितः ॥ नरस्तरति दुर्गाणि क्षुरधारांस्तु पर्वतान् ॥ ५ ॥ पूपान्पुनर्वसौ दत्त्वा तथैवान्नांश्च शोभनम् ॥ यशस्वी रूपसंपन्नो बह्वन्नो जायते कुले ॥ ६ ॥ पुष्ये तु कनकं दत्त्वा कृतं वाकृतमेव च ॥ अनालोकेषु लोकेषु सोमवत्स विराजते ॥ ७ ॥ अश्लेषासु च यो रूप्यं वृषभं वा प्रयच्छति ॥ स सर्वभयनिर्मुक्तः शुभं चाप्यधिगच्छति ॥ ८ ॥ मघासु तिलपूर्णानि वर्धमानानि मानवः ॥ प्रदाय पुत्रपशुमानि- ह प्रेत्य च मोदते ॥ ९ ॥ फाल्गुनीपूर्वसमये ब्राह्मणानासुपोषितः ॥ भक्ष्यं फाणितसंयुक्तं दत्त्वा सौभाग्यमृच्छति ॥ १० ॥ घृतक्षीरसमायुक्तं विविधन्पाष्टिकौदनम् ॥ उत्तराविषये दत्त्वा स्वर्गलोके महीयते ॥ ११ ॥ यद्यत्प्रदीयते दानं चोत्तराविषये नरैः ॥ महाफलमतीतञ्च भवती- ति विनिश्चयः ॥ १२ ॥ हस्ते हस्तिरथं दत्त्वा चतुर्युक्तमुपोषितः ॥ नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान ॥ १३ ॥ चित्रायां वृषभं दत्त्वा पुण्यान्गंधांश्च मानवः ॥ चरत्यप्सरसां लोके रमते नन्दने वने ॥ १४ ॥ स्वातीष्वथ धनं दत्त्वा यदिष्टतममात्मनः प्राप्नोति लोकान्सु- शुभानिहैव च महद्यशः ॥ १५ ॥ विशाखायामनड्वाहं धेनुं दत्त्वा च दुग्धदाम् ॥ सप्रासङ्गं च शकटं सधान्यं वस्त्रसंमितम् ॥ १६ ॥ पितॄंश्च देवान्प्रीणाति प्राप्य चानन्त्यमश्नुते ॥ न च दुर्गाण्यवाप्नोति स्वर्गलोकं च गच्छति ॥ १७ ॥ दत्त्वा यथोक्तं विप्रेभ्यो वृत्तिमिश्रां स विन्दति ॥ नरकादींश्च स क्लेशांन्न प्राप्नोतीति निश्चयः ॥ १८ ॥ अनुराधासु प्रावारं वस्त्रान्तरसुपोषितः ॥ दत्त्वा युगशतं चापि नरः स्वर्गे महीयते ॥ १९ ॥ कालशाकं तु विप्रेभ्यो दत्त्वा मर्त्यः समूलकम् ॥ ज्येष्ठायमृद्धिमृद्धाम्च गतिमिष्टाम्च गच्छति॥२०॥ मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः ॥

वि० ध० तृ० खं० अ० ३१४

॥४४२॥

स पितॄन्प्रीणयत्येव गतिमग्र्याञ्च गच्छति ॥ २१ ॥ अथ पूर्वास्वाषाढासु दधिपात्रामुपोषितः ॥ कुले वृत्तोपसम्पन्ने ब्राह्मणे वेदपारगे ॥ २२ ॥ प्रदाय जायते प्रेत्य कुले स बहुगोकुले ॥ उदकुम्भं ससर्पिष्कं प्रसृतं मधुफानितम् ॥ २३ ॥ दत्त्वोत्तरास्वाषाढासु सर्वाङ्कामान्त्समश्नुते ॥ दुग्धं त्वभिजिते योगे दत्त्वा मधुघृताप्लुतम् ॥ २४ ॥ वर्षं नित्यं मनीषिभ्यः स्वर्गलोके महीयते ॥ श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव च ॥ २५ ॥ श्वेतेन याति यानेन स्वर्गलोकान्संवृतान् ॥ गोप्रयुक्तं धनिष्ठासु यानं दत्त्वा समाहितः ॥ २६ ॥ वस्त्रारिश्मन्वं सद्यः प्रेत्य राज्यं प्रपद्यते ॥ गन्धाञ्छतभिषग्योगे दत्त्वा सागुरुचन्दनान् ॥ २७ ॥ प्राप्नोत्यप्सरसां लोकान्रेत्य गन्धैश्च शाश्वतान् ॥ पूर्वाभाद्रपदायोगे राजमाषान्रदाय च ॥ २८ ॥ सर्वभक्ष्यफलोपेतं स वै प्रेत्य सुखी भवेत् ॥ औरभ्रं चोत्तरायोगे यस्तु मांसं प्रयच्छति ॥ २९ ॥ स पितॄन्प्रीणयत्येव प्रेत्य चानन्त्यमश्नुते ॥ कांस्योपदोहनां धेनुं रेवत्यां यः प्रयच्छति ॥ ३० ॥ स प्रेत्य कामानादाय दातारमुपतिष्ठते ॥ रथमुश्वसमायुक्तं दत्त्वाश्विन्यां नरोत्तमः ॥ ३१ ॥ हस्त्यश्वरथसम्पन्नं वर्चस्वी जायते कुले ॥ भरणीषु द्विजातिभ्यस्तैलधेनुं प्रदाय वै ॥ गाः सुप्रसूताश्चाप्नोति नरः प्रेत्य यशस्तथा ॥ ३२ ॥ नक्षत्रसत्रं कथितं मयैतद्यथेष्टलोकाभिगमाय पुंसाम् ॥ कृत्वा सकृत्प्राप्नुतस्तत्तु कल्पमास्ते सुखं देवपतिर्यथासौ ॥ ३३ ॥

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु नक्षत्रसत्रविधानं नामाष्टादशाधिकत्रिशततमोऽध्यायः ॥ ३१८ ॥

॥ ऋषय ऊचुः ॥ भूय एव त्वमाचक्ष्व दानानां कालयोगतः ॥ फलं द्विजवराख्यांकं प्रत्यक्षामलदर्शन ॥ १ ॥

॥ हंस उवाच ॥ संप्राप्य चैत्रमासस्य शुक्लां पक्षदशीं नरः ॥ चित्रं वस्त्रयुगं दत्त्वा सोपवासो द्विजातये ॥ २ ॥ ब्राह्मणांश्चापरं विप्राः सौभाग्यं महदाप्नुयात् ॥ वैशाख्यां पौर्णमास्यान्तु ब्राह्मणान्सप्त पञ्च वा ॥ ३ ॥ क्षोद्रेणोक्तैस्तिलैः कृष्णैर्वर्णचयंविधेः वेतरैः ॥ प्रीयतां धर्मराजेति यद्वा मनसि वर्तते ॥ ४ ॥ यावज्जीवकृतोत्पापात्तक्षणादेव मुच्यते ॥ तस्मिन्नेव तथा काले सकुरं कृष्णमार्गणम् ॥ ५ ॥ तिलैः प्रच्छाद्य वासोभिः सर्वतनैरलंकृतम् ॥ तपस्यन्ते च दातव्या मही सवनकानना ॥ ६ ॥ कृष्णाजिने तिलान्कृत्वा हिरण्यमधुसर्पिषा ॥ ददाति यस्तु विप्राय सर्व तरति दुष्कृतम् ॥ ७ ॥ सोपवासस्तथा ज्येष्ठे पूर्णे तु शशलक्ष्मण ॥ उपानहौ तथा छत्रं दत्त्वात्यन्तसुखी भवेत् ॥ ८ ॥ आषाढ्यामन्नदानस्य प्राप्नोत्यन्नं नरो बहु ॥ जलधेनुप्रदानेन श्रावण्यां स्वर्गमाप्नुयात् ॥ ९ ॥ गोदानं प्रोष्ठपादे तु पौर्णमास्यां महाफलम् ॥ आश्वयुज्यां कांस्यपात्रां घृतपूर्णां द्विजातये ॥ १० ॥ सुवर्णञ्च तथा दत्त्वा दीप्तिमांस्त्वभिजायते ॥ कार्त्तिक्यां चन्द्रपूर्णाभमन्यवर्णमथापि वा ॥ ११ ॥ रत्नैर्गन्धैस्तथा धान्यैर्बीजैश्चैवोक्षतैव च ॥

॥४४२॥

कृत्वा युक्तमथोक्षाणं दत्त्वा दीपान्समन्ततः ॥ १२ ॥ चन्द्रोदये नरो दत्त्वा सर्वपापैः प्रमुच्यते ॥ कान्तारे यममार्गे तु तेनासौ व्रजते सुखम् ॥ १३ ॥ सर्वाणि चास्य भोगानि तत्र चासौ प्रयच्छति ॥ मार्गशीर्षे तथा मासे पूर्णं शिशिरार्दितौ ॥ १४ ॥ महारजतयुक्तेन वाससा द्विजपुङ्गवान् ॥ आच्छाद्य कांस्यपात्रस्थं प्रस्थं कृत्वा समाहितः ॥ १५ ॥ लवणस्य तु शुक्लस्य चूर्णितस्य द्विजोत्तमाः ॥ दत्त्वा सुवर्णनाभन्तु तस्मिन्नेव द्विजातये ॥ १६ ॥ सौभाग्यंरूपलावण्ययुक्तो भवति मानवः ॥ गौरसर्षपकल्केन पौष्यामुत्साहितो नरः ॥ १७ ॥ गन्धस्याज्यस्य कुम्भेन सोऽभिषिक्तस्त्वनन्तरम् ॥ विरूढिस्थितस्तथा स्नातः सर्वबीजौषधीजलैः ॥ १८ ॥ गन्धस्तत्फलोपेतैर्घृतेन तदनन्तरम् ॥ स सुवर्णं मुखं दृष्ट्वा घृतं तत्प्रदद्याद्द्विजातये ॥ १९ ॥ घृतेन स्नपितं विष्णुं शक्त्या सम्पूजयेत्ततः ॥ घृतञ्च जुहुयाद्वह्नौ घृतं दद्याद्द्विजातये ॥ २० ॥ कृत्वैवं द्विगुणं द्वादश्योपवासः समाहितः ॥ कर्मणानेन धर्मज्ञाः पुष्टिमाप्नोत्यनुत्तमाम् ॥ २१ ॥ माघ्यां कृत्वा तिलैः श्राद्धं सर्वपापैः प्रमुच्यते ॥ स्वास्तीर्णं शयनं दत्त्वा फाल्गुन्यां ब्राह्मणस्य तु ॥ २२ ॥ रूपद्रविणसंयुक्तां भार्यां पक्षवतीं तथा ॥ नरः प्राप्नोति धर्मज्ञः पुष्टिमाप्नोत्यनुत्तमाम् ॥ २३ ॥ तथा नारीपि भर्तारं नात्र कार्या विचारणा ॥ पौर्णमासीषु चैतासु मासषट्सहितासु च ॥ २४ ॥ एतेषामेव दानानां फलं दशगुणं भवेत् ॥ महत्पूर्वासु चैतासु फलमक्षय्यमश्नुते ॥ २५ ॥ द्वादश्यां चैत्रशुक्लस्य चित्रवस्त्रप्रदो नरः ॥ अक्षयं फलमाप्नोति नाकलोके च गच्छति ॥ २६ ॥ वैशाखमासे द्वादश्यां रुक्मदानात्तथैव च ॥ छत्रोपानहयोर्दानाज्ज्येष्ठे मासि द्विजोत्तमाः ॥ २७ ॥ स्वास्तीर्णं शयनं दत्त्वा प्रीणयेद्भोगिशायिनम् ॥ आषाढशुक्लद्वादश्यां श्वेतद्वीपे महीयते ॥ २८ ॥ श्रावणे वस्त्रदानेन विष्णुलोके महीयते ॥ गोदः प्रयाति गोलोके मासि भाद्रपदे द्विजाः ॥ २९ ॥ प्रीणयेच्छिरसश्चाश्वं दत्त्वा तथाश्विने ॥ विष्णुलोकमवाप्नोति कुलमुद्धरति स्वकम् ॥ ३० ॥ सरोमवस्त्रदानेन कार्तिके दिवमाप्नुयात् ॥ प्रदानं लवणानान्तु मार्गशीर्षे महत्फलम् ॥ ३१ ॥ धान्यानाञ्च तथा पौषे दारूणां चाप्यनन्तरे ॥ फाल्गुने सर्वगन्धानां नात्र कार्या विचारणा ॥ ३२ ॥ भाग्यसंयुता चैत्री द्वादशी स्यान्महाफला ॥ हस्तयुक्ताथ वैशाखी ज्येष्ठे तु स्वातिना तथा ॥ ३३ ॥ ज्येष्ठायाञ्च तथाषाढे मूलोपेता च वैष्णवे ॥ तथा भाद्रपदे मासि श्रवणेन तु संयुता ॥ ३४ ॥ आश्विने द्वादशी पुण्या भवत्याज्यैर्ऋक्षसंयुता ॥ कार्तिके रेवतीयुक्ता सौम्ये कृत्तिकया तथा ॥ ३५ ॥ पौषे मृगशिरोपेता माघे चादित्यसंयुता ॥ फाल्गुने पुष्यसहिता द्वादशी पावना परा ॥ ३६ ॥ नक्षत्रयुक्तास्त्वेतास्तु तथा दानमुपोषितः ॥ सर्वकामफलं ज्ञेयमनन्तं द्विजसत्तमाः ॥ ३७ ॥ मेषसंक्रमणे भानोर्मेषदानं महाफलम् ॥ वृषसंक्रमणे दानं गवां प्रोक्तं तथैव च ॥ ३८ ॥

शयनासनदानञ्च मिथुनोपगते रवौ ॥ कर्कप्रवेशे सक्तूनां सितया च तथैव च ॥ ३९ ॥ गुडफाणितखण्डानां सितायाश्च तथा द्विजाः ॥ लवणो त्पलफालानाञ्च तथा हरितकस्य च ॥ ४० ॥ तथा चैवोदकुंभानां दानं ज्ञेयं महाफलम् ॥ सिंहप्रवेशे पात्राणां तैजसानां तथैव च ॥ ४१ ॥ कन्याप्रवेशे वस्त्राणां सुरभीणां तथैव च ॥ तुलाप्रवेशे धान्यानां बीजानामपि चोत्तमे ॥ ४२ ॥ कीटप्रवेशे वस्त्राणां वेश्मनां दानमेव च ॥ धन्विप्रवेशे वस्त्राणां यानानाञ्च महाफलम् ॥ ४३ ॥ मृगप्रवेशे दारूणां दानमग्नेस्तथैव च ॥ कुम्भप्रवेशे दानं तु गवामथ तृणस्य तु ॥ मीनप्रवेशे स्थानानां माल्यानामपि चोत्तमम् ॥ ४४ ॥ दानान्येतानि मया द्विजेन्द्राः प्रोक्तानि काले तु नरश्च दत्त्वा ॥ प्राप्नोति कामान्मनसा त्य भीष्टांस्तस्मात्प्रशंसन्ति महाप्रदानम्॥४५॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु द्वादशपौर्णमासीदानफल निरूपणं नामैकोनविंशाधिकत्रिशततमोऽध्यायः ॥ ३१९ ॥ ऋषय ऊचुः ॥ पुण्ययज्ञाक्रियाः प्रोक्ता ये नराशनसंयुताः ॥ तथा मध्यमवृत्तानां दानानि विविधानि च ॥ १ ॥ कथितान्यल्पवृत्तानां दानानि विविधानि च ॥ ये नरा विस्तरहितास्तेषां धर्मक्रियां वद ॥ २ ॥ हंस उवाच ॥ उपवासक्रिया तेषां परं धर्मकारणम् ॥ वित्तान्वितानाञ्च तथा प्रशस्ता सा महाफला ॥ ३ ॥ सायं प्रातस्तु भुञ्जानो नान्तरात्वोदकमपिबन् ॥ षड्भिरूषैर्नरो लोकं प्राप्नोति मनसेप्सितम् ॥ ४॥ ऽथमासानुवृत्तं चेत्तच्छ्रन्यं निर्व्यलीकं भवेत् ॥ यथेहलोकदं पुण्यं मानुष्येपि महाफलम् ॥ ५॥ उप वासं नरः कुर्वन्मासि द्विजोत्तमाः ॥ उषित्वा शुचिरं लोके मानुष्ये जायते यदा ॥ ६ ॥ तदा भवति दीर्घायुर्धनवान्बहुसंयुतः ॥ पक्षपक्षं तथा कुर्वन्द्दिगुणं फलमश्नुते ॥ ७ ॥ मासेमासे त्रिरात्रन्तु यः कुर्यान्मानवोत्तमः ॥ गाणपत्यमवाप्नोति स्वर्गलोकेऽप्सरोवृतः ॥ ८ ॥ पक्षपक्षे त्रिरात्रन्तु कृत्वा भवति पार्थिवः ॥ स्वर्गलोकात्पारिभ्रष्टः सुचिरेण महाबलः ॥ ९ ॥ द्विजास्त्रिकालं कुर्वीत न तु शूद्रः कथञ्चन ॥ षष्ठकाला शनं तस्य तपः परिमहोच्यते ॥ १० ॥ शूद्रस्त्रिरात्रं कुरुते विषये यस्य भूपतेः ॥ तस्य सीदति तद्राष्ट्रं व्याधिदुर्भिक्षतस्करैः ॥ ११ ॥ तपः कुर्वीत शूद्रस्तु चैकद्विदिवसान्तरम् ॥ यथाशक्ति द्विजश्रेष्ठान्तेन कामानवाप्नुते ॥ १२ ॥ अतः परन्तु वर्षानां मासेमासे द्विजोत्तमाः ॥ एक कालाशनानान्तु शृणुध्वं फलमुत्तमम् ॥ १३ ॥ चैत्रन्तु नियमो मासं चैकभक्तेन यः क्षिपेत् ॥ सुवर्णमणिमुक्ताढ्ये कुले महति जायते ॥ १४ ॥ निरस्यैदेकभक्तेन वैशाखे यो द्विजोत्तमः ॥ नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत् ॥ १५ ॥ ज्येष्ठामूलं तु यो मासमेकभक्तेन वर्तयेत् ॥ वैश्वर्यमतुलं श्रेष्ठं पुमांस्त्री वाभिजायते ॥ १६ ॥ आषाढमेकभक्तेन स्थित्वा मासमतन्द्रितः ॥ बहुधान्यो बहुधनो बहुपुत्रश्च जायते ॥ १७ ॥

श्रावणं नियतो मासमेकभक्तेन यः क्षिपेत् ॥ यत्र तत्राभिषेकेन युज्यते ज्ञातिवर्धनः ॥ १८ ॥ प्रौष्ठपादन्तु यो मासं यः कुर्यादेकभोजनम् ॥ धनाढ्यः स्फीतममुलं वैश्यं प्रतिपद्यते ॥ १९ ॥ तथैवाश्वयुजं मासमेकभक्तेन यः क्षिपेत् ॥ मेधावी वाहनाढ्यश्च बहुपुत्रश्च जायते ॥ २० ॥ कार्तिकन्तु नरो मासं यः कुर्यादेकभोजनम् ॥ शूरश्च बहुभार्य्यश्च कीर्त्तिमांश्चैव जायते ॥ २१ ॥ मार्गशीर्षन्तु वै मासमेकभक्तेन यः क्षिपेत् ॥ कृषिभागी बहुधनो बहुधान्यश्च जायते ॥ २२ ॥ पौषमासन्तु विप्रेन्द्रा भक्तैकेन यः क्षिपेत् ॥ सुभगो दर्शनीयश्च यशोभागी च जायते ॥ २३ ॥ माघन्तु नियतं मासमेकभक्तेन यः क्षिपेत् ॥ कृषिभागी बहुधनो धान्यवानभिजायते ॥ २४ ॥ भगोदवन्तु यो मासमेकभक्तेन यः क्षिपेत् ॥ श्रीमत्कुले ज्ञातिमुख्ये स महत्त्वं प्रपद्यते ॥२५॥ स्त्रीषु वल्लभतां याति वश्याश्चास्य भवन्ति ताः ॥ यथोक्तफलदाह्येते वर्षद्वादशभिः स्मृताः॥२६॥ यस्तु संवत्सरं पूर्ण मेकहारी भवेत्सदा ॥ अतिरात्रस्य यज्ञस्य फलं प्राप्नोति मानवः ॥२७॥ तथा संवत्सरं पूर्णमेकान्तरितभोजनः ॥ यज्ञं बहुसुवर्णञ्च ध्रुवमाप्नोति वै द्विजाः ॥२८॥ अब्दमर्द्धं तृतीयेह्नि भुंजानश्च तथा नरः ॥ वाजपेयस्य यज्ञस्य कथितं द्विजसत्तमाः ॥ २९ ॥ एककालं तु भुञ्जानस्त्वब्दमर्द्धं तु पञ्चमे ॥ स्वर्गे द्वादशपद्मानि वर्षाणां स च मोदते॥ ३० ॥ षष्ठेपष्ठे तथैवाऽहं त्वशानः प्रयतो नरः ॥ अष्टादश पदानि वर्षाणां दिवि मोदते ॥ ३१ ॥ दिवसे सप्तमे चाब्दं भुञ्जानस्त्वेकभोजनम् ॥ षट्त्रिंशत्स तु पद्मानि वर्षाणां दिवि मोदते ॥ ३२ ॥ अष्टमे दिवसे चाब्दं भुञ्जानः प्रयततः सदा ॥ पद्मानि नाके पञ्चाशद्वर्षाणां दिवि मोदते ॥ ३३ ॥ यस्तु संवत्सरं भुङ्क्ते दशमे दशमेऽहनि ॥ कल्पमेकं स विप्रन्द्र देववद्दिवि मोदते ॥ ३४ ॥ एकादशे तु दिवसे यः प्रातं प्राश्नुते हविः ॥ शतकल्पद्वयं नाके मोदते देववद्दिवि ॥ ३५ ॥ दिवसे द्वादशे यस्तु प्रांते वै प्राश्नुते हविः ॥ त्रीणि कल्पान्यसौ नाके भुंक्ते देवसुखान्त्रितः ॥ ३६ ॥ त्रयोदशे तु दिवसे यः प्रातं प्राश्नुते हविः ॥ तस्य कल्पानि चत्वारि गतिर्नार्क प्रकीर्तिता ॥ ३७ ॥ चतुर्दशी तु दिवसे यः प्रातं प्राश्नुते हविः ॥ सप्त तस्य तु कल्पानि गतिर्नार्क प्रकीर्तिता ॥ ३८ ॥ संवत्सरं तु भुञ्जानो नरः पञ्चदशे हविः ॥ नाके वसति धर्मात्मा देशे कल्पान्यसंशयम् ॥ ३९ ॥ अब्दमर्द्धं तथाऽष्टादश फलं दिनयुतेन यः ॥ स तु कल्पशतं विप्रा देववद्दिवि मोदते ॥ ४० ॥ दिने सप्तदशे प्राप्ते यः प्राशेदेकभोजनम् ॥ स्वर्गे स मोदते विप्राः पञ्च कल्पशतानि च ॥ ४१ ॥ अष्टादशे च दिवसे यः प्राशेदेकभोजनम् ॥ नाके कल्पं सहस्रं तु नरः कतर्भामोदते ॥ ४२ ॥ एकोनविंशे दिवसे यो भुंक्ते चैकभोजनम् ॥ स तु कल्पसहस्रन्तु सार्धं नाके च मोदते ॥४३॥ एककालं च भुञ्जानः प्राप्ते विंशतमे दिने ॥ कल्पानां तु सहस्रे द्वे नाकस्थः पूज्यते सुरैः ॥४४॥

वि० ध० ॥४४४॥ तृ० खं० अ० ३२१

एकविंशे तु दिवसे यः कुर्यादेकभोजनम् ॥ त्रीणि कल्पसहस्राणि तस्य नाके गतिर्भवेत् ॥ ४५ ॥ द्वाविंशे दिवसे प्राप्ते यो भुंक्ते चैकभोजनम् ॥ चत्वारि स च कल्पानां सहस्रं प्राप्नुयाद्दिवि ॥ ४६ ॥ त्रयोविंशे च दिवसे यः प्राश्नेदेकभोजनम् ॥ पञ्च कल्पसहस्राणि स्वर्गस्थः स तु मोदते ॥ ॥ ४७ ॥ चतुर्विंशे तु दिवसे यः प्राश्नेदेकभोजनम् ॥ सप्त कल्पसहस्राणि नाकस्थः स तु मोदते ॥ ४८ ॥ पञ्चविंशतमे चाह्नि यः प्राश्नेदेकभोजनम् ॥ दश कल्पसहस्राणि स्वर्गस्थः स तु मोदते ॥ ४९ ॥ षड्विंशे दिवसे यस्तु प्राश्नीयादेकभोजनम् ॥ स तु कल्पसहस्राणि चतुर्विंशः रो भवेत् ॥ ५० ॥ सप्तविंशे तु दिवसे यः प्राश्नेदेकभोजनम् ॥ स तु कल्पसहस्राणि नाकस्थोपि च मोदते ॥ ५१ ॥ अष्टाविंशे तु दिवसे यः प्राश्नेदेकभोजनम् ॥ स तु कल्पसहस्राणि चत्वारिंशत्तु मोदते ॥ ५२ ॥ एकोनत्रिंशे दिवसे यः प्राश्नेदेकभोजनम् ॥ स तु कल्पसहस्राणां पञ्चाशन्नाकगो भवेत् ॥ ५३ ॥ यस्तु त्रिंशद्दिने प्राप्ते चाश्नीयादेकभोजनम् ॥ स तु कल्प सहस्राणां नाकस्थः पूज्यते शतम् ॥ ५४ ॥ मासेमासे गते प्रायः प्राश्नीयादेकभोजनम् ॥ पौरुषं स दिनं नाके देववन्मोदते सदा ॥ ५५ ॥ सर्वे व्रतास्तु कव्याय वर्षमेकं सुवावहाः ॥ वर्षं तु फलदाः प्रोक्ता नात्र कार्या विचारणा ॥ ५६ ॥ स्नानं सर्वेषु कर्तव्यं कार्यो होमस्तथैव च ॥ न भोक्तव्यं तथा मांसं व्रतस्य फलमश्नुते ॥ ५७ ॥ आश्रित्य तीर्थं यदि वापि देवं व्रतान्यथैतानि महाफलानि ॥ कार्याणि नैतान्यधिकानिस्तु मासात्तः परं नानशनं प्रदिष्टम् ॥ ५८ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेय वज्रसंवादे मुनीन्द्राति हंसगीतासूपवासविधिवर्णनं नाम विंशत्यधिकत्रिशततमोऽध्यायः ॥ ३२० ॥ ॥ ऋषय ऊचुः ॥ ॥ केन काले कर्मणा केन प्राप्नुवन्ति नरोत्तमाः॥ तत्त्वमस्माकमाचक्ष्व त्वं हि सर्वविदर्हसि ॥ १ ॥ ॥ हंस उवाच ॥ ॥ ज्येष्ठस्यान्नं पितरं मातरं गुरुमेव च ॥ नित्यं सम्पूजयद्गत्या याम्यलोके महीयते ॥ २ ॥ भोजनाच्छादनाद्येन त्वतिथिं चैव पूजयेत् ॥ राजराजस्य लोकेषु मोदते नात्र संशयः ॥ ३ ॥ मेरोः समीपं गच्छन्वै नित्यमध्ययनतत्परः ॥ सुदर्शना यत्र च सा जम्बूः ख्याता द्विजातयः ॥ ४ ॥ नृत्ते गीते च कुशालं नन्दनं यान्ति ते वनम् ॥ हिमानि वृत्ता गच्छन्ति तथा चैवोत्तराकुरून् ॥ ५ ॥ नित्यं दानपराः सन्तो लोके गच्छन्ति शाश्वतम् ॥ आदित्यलोके गच्छन्ति तथा ये तपसि स्थिताः ॥ ६ ॥ तीर्थयात्रापरा यान्ति तथा लोके प्रचेतसः ॥ संग्रामे निहता यान्ति शक्रलोकमसंशयम् ॥ ७ ॥ प्रजापत्यं तथा यान्ति सम्यग्वृत्ता महीक्षितः ॥ गवां पत्या तथा यांति गोलोके मानवोत्तमाः ॥ ८ ॥ यान्ति लोकं च सूर्यस्य नित्यं ये सत्यभाषिणः ॥

॥४४४॥

प्रतिग्रहान्निवृत्ताश्च वसूनामपि मानवाः ॥ ९ ॥ वायुलोके महीयन्ते रोगिणां परिचारकाः ॥ लोकं गच्छन्त्यथामेयं वह्निंशुश्रूषणे रताः ॥ १० ॥ यांति ते नैर्ऋतं लोकं प्रपारक्षणतत्पराः ॥ भृगूणामपि लोकेषु मोदन्त्याकाशशायिनः ॥ ११ ॥ यांति चाङ्गिरसं लोकं व्रतेनानेन मानवाः ॥ मरुतां च तथा लोकं यांति यानप्रदा नराः ॥ १२ ॥ नासत्यलोके मोदन्ते तथौषधदायिनः ॥ रुद्रलोकं प्रपद्यन्ते गोविप्रनरवत्सलाः ॥ १३ ॥ स्वाचारनिरता यांति वैश्वदेवमसंशयम् ॥ आदित्यैः सह मोदंते दयावन्तस्तु ये नराः ॥ १४ ॥ ब्रह्मलोकं विष्णुलोकं रुद्रलोकं तथैव च ॥ तद्द्भक्तैरेव लभ्यन्ते नान्यथा द्विजसत्तमाः॥१५॥यस्य देवस्य यो भक्तिं सदा वहति मानवः॥सम्पदस्तस्य सालोक्यं यांति नास्त्यत्र संशयः॥ १६॥ लोकेषु दिव्येषु गतिर्मयोक्ता कर्मानुरूपा पुरुषस्य विप्राः ॥ अतः परं किं कथयाम्यहं वै तन्मे गदध्वं तपसि प्रधानाः ॥ १७ ॥ इति श्रीविष्णु- धर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु लोकविभागवर्णनो नामैकविंशत्यधिकत्रिशततमोऽध्यायः ॥ ३२१ ॥ ॥ ऋषय ऊचुः ॥ कथयस्वामिताप्राज्ञ स्त्रीणां धर्ममतः परम् ॥ तद्वयं श्रोतुमिच्छामस्त्वं हि सर्वविदुच्यसे ॥ १ ॥ ॥ हंस उवाच ॥ स्त्रीधर्मः पूर्व एवार्य विवाहे बन्धुभिः कृतः ॥ सधर्मचारिणी भर्तुर्भव द्विजसत्तमः॥२॥सा तु स्वभावा सुविमना सुविभक्ता सुदर्शना ॥ अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी ॥ ३ ॥ पुत्रवत्क्रमिवाभीक्ष्णं भर्तुर्वदनमीक्षती ॥ या साध्वी नियताचारा सा भवेद्धर्मचारिणी ॥ ४ ॥ अस्त्वेदं पतिधर्मं वै महाश्रमकृतं शिवम् ॥ या भवेद्धर्मपरमा नारी भर्तृसमव्रता॥५॥ देववत्सततं साध्वी भर्तारमनुपश्यति॥ शुश्रूषां परिचर्याञ्च देवतुल्यं प्रकुर्वती ॥६॥ वश्यभावेन सुमनाः सुव्रता सुसमाहिता ॥ अनन्यचित्ता सुमना भर्तुः सा धर्मभागिनी ॥७॥ पारुष्यमपि वोक्ता या हृष्टा वा क्रूरचक्षुषा ॥ सुप्र- सन्नमुखी भर्तुर्यानारी सा पतिव्रता॥८॥न चन्द्रसूर्यौ तद्रूपं नैव या च निरीक्षते॥ भर्तुर्वक्त्रं वरारोहा सा भवेद्धर्मभागिनी॥९॥दारिद्र्ये व्याधितं दीनं याचिना परिकीर्तितम् ॥ पतिम्पुत्रमिवारक्षेत्सा नारी धर्मभागिनी ॥ १० ॥ या नारी प्रयता दक्षा या नारी पुत्रिणी भवेत् ॥ पतिव्रता पतिप्राणा सा नारी धर्मभागिनी ॥ ११ ॥ शुश्रूषां परिचर्याञ्च करोत्यविमनाः सदा ॥ सुप्रतीता सुमनाः सा नारी धर्मभागिनी ॥ १२ ॥ न कामेषु न भोगेषु नैश्वर्ये न सुखे तथा ॥ स्पृहा यस्या यथा भर्तुः सा नारी धर्मभागिनी ॥ १३ ॥ कामार्थान्न ब्रता नित्यं गृहशुश्रूषणे रता ॥ सुसम्पृष्ट क्षया चैव गोशकृत्कृतलेपना ॥ १४ ॥ अग्निकार्यपरा नित्यं सदा पुष्पबलिप्रदा ॥ देवतातिथिभृत्यानां निरूप्य पतिना सह ॥ १५ ॥ शेषात्न- मुपभुञ्जाना यथान्याय यथाविधि ॥ तुष्टभृत्यजना नित्यं नारी धर्मेण युज्यते ॥ १६ ॥ श्वश्रूश्वशुरयोः पादाँस्तोष्यन्ती गुणान्विता ॥ माता ७५

वि० ध० ॥४४४॥

तृ० खं० अ० २२३

पितुरता नित्यं या नारी सा तपोधना ॥ १७ ॥ ब्राह्मणान्दुर्बलांस्तांश्चान्नतृष्णार्त्तांस्तथा ॥ विभज्येतेन या नारी सा पतिव्रतभागिनी ॥ १८ ॥ ऋतुस्नाता या नित्यं दृश्वरं स्पृष्टमानसा ॥ पतिव्रता पतिरता सा पतिव्रतभागिनी ॥ १९ ॥ पृथुमेतत्तपोधैर्व स्वर्गेभैव सनातनः ॥ या नारी भर्तृपरमा भवेद्भर्तृव्रता शिवा ॥२०॥ पतिर्हि देवो नारीणां पतिर्बन्धुः पतिर्गतिः ॥ पत्या गतिः समा नास्ति दैवतं वा यथा पतिः ॥२१॥ पतिः स्वर्गप्रदो नार्या यदा तल्पमना भवेत् ॥ यद्यत्कार्यमकार्यं वा यदि वा प्राणनाशनम् ॥ २२ ॥ पतिः पातकुयुक्तो वा व्याधितो वा कथ ञ्चन ॥ आपन्नो रिपुसंस्थो वा ब्रह्मशापादितोऽपि वा ॥ २३ ॥ आपच्छर्मानुमेधृत्य तत्कार्य्याविशङ्कया ॥ स्वातन्त्र्यपुक्तपरं हि पापं स्त्रीणां सदा तेन सदैव नारी ॥ स्वातन्त्र्यहीना सततमभैर्वृद्धि या काममेवार्कमितिधराय ॥ २४ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्र सं० मुनीश्वति हंसगीतासु स्त्रीधर्मनिरूपणो नाम द्वाविंशत्यधिकशततमोऽध्यायः ॥ २२२ ॥ ॥ हंस उवाच ॥ ॥ स्वेस्वे धर्मे व्यव स्थानं वर्णानां पृथिवीपतेः ॥ परो धर्मः सदा प्रोक्तस्तत्र यत्र भवेन्नरः ॥ १॥ देवब्राह्मणगोसाध्वीसाधूनामपि पूजनम् ॥ निग्रहश्च दुष्टानान्नृपधर्मे नैकारणम् ॥ २ ॥ समता व्यवहारेषु स्वयञ्चैवान्ववेक्षणम् ॥ राज्ञां धर्मं परं विद्यात्तथा वै चाष्टहस्तता ॥ ३ ॥ स्वदेशपालनं धर्मः परराष्ट्राभिभर्द्द नम् ॥ यज्ञदानक्रिया चैव संग्रामे चापलायनम् ॥ ४ ॥ मृगयासा तथा पानं गर्हितानि महीभुजाम् ॥ वाग्दण्डयोस्तु पारुष्यन्तथैवार्थस्य दूष णम् ॥ ५ ॥ सन्धिविग्रहदानानामासनस्य तथैव च ॥ द्वैधीभावस्य चाप्युक्ता सेवा वै संश्रयस्य च ॥ ६ ॥ ज्ञात्वा कालबलं राजा षाड्गुण्यस्य र् निश्चये ॥ इन्द्रियाणाञ्जयः यतः सदा स्याद्विजयबुद्धयाः ॥ ७ ॥ ततो भृत्यजयः कार्य्यः समस्तविनयस्ततः ॥ कामः क्रोधो मदो लोभो मानो हर्षस्तथैव च ॥ ८ ॥ आभ्यन्तरा विजेतव्या रिपवः षण्महीभुजा ॥ ततस्तु शत्रवो जेयाः कुल्यश्चैवेतरेक्रिमाः ॥ ९॥ भूमिमित्रहिरण्यानामर्जने यत्नवान्भवेत् ॥ धर्मार्थकामसस्त्रा च सदा कार्या महीक्षिता ॥ १० ॥ स्वाम्यमात्यञ्जनं दुर्गं कोशो दण्डः सुहृत्तथा ॥ राज्ये प्रकृतयः सप्त रक्ष्या यत्नेन भुभुजा ॥ ११ ॥ देवमन्त्रौषधोत्साहैः शक्तिभिर्युतस्तथा भवेत् ॥ मङ्गलाचारयुक्तानां सिध्यन्ते देशशक्तयः ॥ १२ ॥ चतुरङ्गबलं कुर्यात्सुभृतेश्च तथा नृपः ॥ कर्मणा मनसा वाचा सदा लोकं प्रसाद्येत् ॥ १३॥ महच्चावरणं कार्यमित्यमेव समृद्ध्ये ॥ राजा सहायसम्पन्नः पश्यञ्झाङ्गलं शिवम ॥ १४॥ देश्यशूद्रजनप्रायमरोगं देशमावसेत्॥ तत्र दुर्गाणि कुर्वीत स्वदुर्गश्च विशेषवत ॥ १५ ॥ धन्वदुर्गम्महीदुर्गं गिरिदुर्गन्तथैव च ॥ अदुर्गं वृक्षदुर्गञ्च नदीदुर्गन्तथैव च ॥ १६ ॥ एषामन्यतमे दुर्गे

धनधान्यसमायुते ॥ हस्त्यश्वरथसम्पन्ने मणिभूरूपशोभिते ॥ १७ ॥ पत्त्याढ्ये योधबहुले युद्धोपकरणैर्युते ॥ सुसञ्चिते धनाढ्ये च बहुपेये बहूदके ॥ १८॥ हस्त्यश्वरथगोवैद्यसांवत्सरयुते शुभे ॥ घृततैलोषधियुते सर्वोपकरणैस्तथा ॥ १९ ॥ प्राकारपरिखावप्रगोपुराट्टालकैर्युते ॥ पापतस्करदुर्धूर्त्तकुहूल्यादिवर्जिते ॥२०॥ दैवज्ञस्थपतिभ्यान्तु संमत्या शुभलक्षणम् ॥ तत्रावसेत्स्वयं राजा सर्वोपकरणैर्युतम् ॥ २१ ॥ कुलीनां रूपसम्पन्नां सवर्णाञ्च नराधिपः ॥ कुर्याद्भार्यां सुशीलाञ्च विनीतां धर्मवत्सलाम् ॥ २२ ॥ तया सह सदा राजा गृहस्थाश्रमचोदितम् ॥ पञ्चयज्ञविधानन्तु कारयेत् पुरोहितम् ॥ २३ ॥ यजेच्च विविधैर्यज्ञैः पूजयेद्देवतास्तथा ॥ देवतायतनान्कूपांस्तडागांश्चैव कारयेत् ॥ ॥ २४ ॥ उद्यानानि विचित्राणि गोब्राह्मणगृहाणि च ॥ दुष्टदण्डः सताम्पूजा धर्मेण च धनार्जनम् ॥ २५ ॥ राष्ट्ररक्षा समत्वञ्च व्यवहारेषु पञ्चकम् ॥ भूमिपानाम्महाप्रज्ञाः सर्वकल्मषनाशनम् ॥ २६ ॥ गवां लक्षणसंयुक्तं तुरगांश्चाभिपरीक्षयेत् ॥ सलक्षणं तथा रत्नं खड्गञ्चेक्षेत भूषणा- न्नृपः ॥ २७॥ दुर्गस्थश्च नियुञ्जीत ग्रामेग्रामे च पालकान् ॥ दशग्रामाधिपांश्चान्यं शतग्रामाधिपांस्तथा ॥ २८ ॥ देशेश्वरांस्तथा कुर्या- न्नगरस्थांश्च विशेषतः ॥ ग्रामदोषान्समुत्पन्नान् ग्रामपालः शमं नयेत् ॥ २९ ॥ अशक्तश्च दशेशाय स तु गत्वा निवेदयेत् ॥ शतेशाय दशेशस्तु शतेशो देशपाय च ॥३०॥ ग्रामादिपालकानां तु शौचाशौचं नराधिपः ॥ चारैः सुविदितं कुर्याज्ज्ञात्वा दुष्टांश्च घातयेत् ॥ ३१ ॥ राज्ञो हि रक्षा- धिकृताः परस्वादायिनः शठाः ॥ भूत्वा भवन्ति प्रायेण तेभ्यो रक्षेद्भृशम्प्रजाम् ॥३२ ॥ तथा च रक्षाधिकृताननुरूपेण योजयेत् ॥ विभवेन द्विज- श्रेष्ठाः परीक्ष्य च पुनःपुनः ॥३३॥ राजा कर्मानियुक्तानां क्षीणां प्रपञ्चजनस्य च ॥ प्रत्यहं कल्पयेद् वृत्तिं स्थानकर्मानुरूपतः ॥३४॥ आपदस्थांश्च नोच्छिन्द्याद्विशेषोदात्तकानपि ॥ सम्बन्धिभ्यश्च गृहीत्वाऽऽत्मन्मालाकारोपमो नृपः ॥ ३५ ॥ क्रयविक्रयमध्वानं भक्तञ्च सपरिच्छदम् ॥ योगक्षेमञ्च सम्प्रेक्ष्य वणिजो दापयेत्करम् ॥ ३६ ॥ यथा फलेन युज्येत राजा कर्त्ता च कर्मणाम् ॥ तथावेक्ष्य नरो राष्ट्रे कल्प- येत्सततं करम् ॥ ३७ ॥ पञ्चाशद्भागं आदायो राज्ञाम्पशुहिरण्ययोः ॥ धान्यानाञ्च तथा षष्ठं सस्यानाञ्च महीक्षिता ॥ ३८ ॥ षष्ठमेव तथा भागं माषाणां मधुसर्पिषाम् ॥ गन्धौषधिरसानाञ्च पुष्पमूलफलस्य च ॥ ३९ ॥ पत्रशाकतृणानाञ्च चर्मणां वैदलस्य च ॥ मृन्मयानाञ्च भाण्डानां सर्वस्याश्ममयस्य च ॥ ४० ॥ यत्किंचिदपि वर्षस्य दापयेत्करसंज्ञितम् ॥ व्यवहारेण जीवन्तं राष्ट्रे राज्यं पृथक्पृथक् ॥ ४१ ॥ राजदूतकरेभ्यश्च गृह्णीयात्सप्तकं शतम् ॥ पञ्चपञ्चाशतन्तत्र समिकः प्राप्तुमर्हति ॥ ४२ ॥ कारुकाञ्शिल्पिनश्चैव शूद्र-

धर्मोपजीविनः ॥ एकैकं कारयेत्कर्म मासिमासि महीपतिः ॥ ४३ ॥ स्वदेशपण्याच्छुल्कांशं गृह्णीयाद्दशमं नृपः ॥ विदेशपण्याच्च तथा देयमप्यंशतं समम् ॥ ४४ ॥ शुल्कस्थानमभिन्वेदकं न द्वितीयं कथञ्चन ॥ शुल्कं भूयस्तु गृह्णीयाच्चौरस्यामिति किल्विषम् ॥४५॥ न भिन्नकार्षापणमस्ति शुल्कं न शिल्पवृत्तौ न शिशौ न दूते ॥ न भैक्ष्यलब्धेन हतावशेषे न श्रोत्रिये प्रब्रजिते न यज्ञे ॥ ४६ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु राजधर्मनिरूपणो नाम त्रयोविंशत्यधिकत्रिशततमोऽध्यायः ॥ ३२३ ॥ ऋषय ऊचुः ॥ राज्ञो धर्मस्त्वया प्रोक्तो व्यवहारान्ववेक्षणम् ॥ तदस्माकं त्वमाचक्ष्व त्वं हि सर्वविदुच्यसे ॥ १॥ हंस उवाच ॥ आसीत्कृतयुगे पूर्वं प्रजाधर्मनिबन्धनः ॥ ततस्त्रेतायुगे तेषां धर्मो नाशमुपागमत् ॥ २ ॥ धर्मे नष्टे मनुष्याणां व्यवहारः प्रवर्तितः ॥ दृष्ट्वा च व्यवहारान्राजा दण्डधरः कृतः ॥ ॥ ३ ॥ कुलानि श्रेणयश्चैव गणाश्चाधिकृतो नृपः ॥ दृष्टारो व्यवहाराणां गुरवो ह्युत्तरोत्तरम् ॥ ४ ॥ व्यवहारान्नृपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह ॥ धर्मशास्त्रानुसारेण रागद्वेषविवर्जितः ॥ ५॥ कुलोद्वत्ता स्थिता धर्मे मन्त्रायुक्ताः श्रुतान्विताः ॥ राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥ ॥ ६ ॥ अपश्यता कार्यवशाद्व्यवहारान्नृपेण तु ॥ सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् ॥ ७ ॥ क्षत्रियस्तत्त्व वा वैश्यो न तु शूद्रः कदाचन ॥ यस्य राज्ञस्तु विषये शूद्रो धर्मविवेचकः ॥ ८॥ तस्य सीदति तद्राष्ट्रं दुर्भिक्ष्याद्व्याधितस्करैः ॥ विवादाद् द्विगुणं दंडं कूटकृत्साक्षिणस्तथा ॥ ९ ॥ द्विगुणं च तथा सभ्या रागद्वेषव्यवस्थिताः ॥ दुष्टैर्ह्यव्यवहारेण राजा वित्तं यदर्जितम् ॥ १० ॥ त्रि०, । तु दातव्यं ब्राह्मणेभ्यथ वांभसि ॥ स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः ॥ ११ ॥ आवेदति चेद्राज्ञे व्यवहारपदं हि तत् ॥ प्रत्यर्थिनस्तथा कुर्यादाह्वानं पृथिवीपतिः ॥ १२ ॥ अनागच्छञ्जितो राज्ञा विनेयः पुरुषो भृशम्॥ नदीसन्तारकारण्यदुर्गदेशोपप्लवादिषु ॥१३॥ नागतव्यो न स दंड्यः स्यान्नासौ राज्ञोऽपराध्नुति ॥ १४ ॥ निवृत्तकामो रोगात्तं विपद्युच्छ्र्वसने स्थितः॥१४॥ अभियुक्तस्तथान्येन राजकार्यरतस्तथा ॥ गवां प्रचारे गोपालाः सम्प्रत्काले कृषीवलाः ॥१५॥ शिल्पिनश्चैव तत्कालं चायुद्येचाश्च विग्रहे ॥ अपास्तव्यवहाराश्च दूतदानो मुखी व्रते ॥ १६ ॥ विषमस्थश्च नासाव्या नचैनांब्राह्वयेन्नृपः ॥ प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदितमर्थिनाः ॥ १७ ॥ समामासतदर्द्धाह्रर्जातिनामादिरिचितम् ॥ श्रुतार्थस्योत्तरं लेख्यं पूर्ववेदकसन्निधौ ॥१८॥ ततोर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् ॥ चतुर्थं तच्च कथितं सुनिभिस्तत्त्वदर्शिभिः ॥१९ ॥ लिखितं साक्षिणो भुक्तिश्चतुर्थी दैविकी क्रिया ॥ सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता ॥२० ॥ तत्सिद्धौ सिद्धिमप्नोति विपरीतमतोऽन्यथा ॥

अभियोगमननिस्तीर्य्य नैनं प्रत्यभियोजयेत् ॥ २१ ॥ कुर्य्यात्प्रत्यभियोगं च कलहे साहसेषु च ॥ उभयोः प्रतिश्रुतौ ग्राह्यौ समर्थौ कार्यनिर्णये ॥ ॥ २२ ॥ साहसस्तेयपारुष्ये ह्रीमिशापात्यये क्रियम् ॥ विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥ २३ ॥ देशाद्देशान्तरं याति सृक्किणी परिलेढि च ॥ ललाटं स्विद्यते चास्य मुखं वैवर्ण्यमेति च ॥ २४॥ परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषते ॥ अभियोगेऽथ वा साक्ष्ये दुष्टः स परिकीर्त्यते ॥ २५ ॥ आकारैरिङ्गितैर्गत्या चेष्टितैर्भाषितेन च ॥ नेत्रवक्त्रविकाराभ्यां गृह्यतेऽन्तर्गतं मनः ॥ २६ ॥ त्रिपक्षाद्दर्शितो ज्ञेयस्त्वत्तरस्याप्रयच्छतः ॥ सर्वेष्वेव विवादेषु बलवत्युत्तरा क्रिया॥२७॥आधौ प्रतिग्रहे क्रीते पूर्वातु बलवत्तरा ॥ सर्व्वपूर्वकस्त्वारम्भवहुशश्चेत्कृताँस्तथा ॥ तम् ॥२८॥ सर्व्वस्माद्द्धीयते चार्थादिति धर्मविदो विदुः ॥ बलोपधिनिवृत्ताँस्तु व्यवहाङ्गान्निवर्त्तयेत् ॥२९॥ स्त्रीनक्तमन्तरागारबहिःशत्रुकृताँस्तथा ॥ रोगार्त्तभीतव्यसनिबालशिष्यकृतस्तथा तु ॥ ३० ॥ अकृतानि विजानीयात्तथा दासकृतानि तु॥ गुरोर्वाक्येन शिष्यस्य पितृवाक्यात्सुतस्य च ॥ ३१ ॥ दासस्य स्वामिवाक्येन व्यवहारस्तु सिद्ध्यति ॥ ३२ ॥ पुरः पत्युरभावेन राजा वा पितृपुत्रयोः ॥ बाल आपाद्धरऽइषात्पोषण्डव्याभि विक्रमाः ॥ एतान्येव प्रमाणानि भर्ता यद्यनुमन्यते ॥ ३३ ॥ अप्राप्तव्यवहारस्य स्वातंत्र्यं मातृकृच्छ्रयते ॥ ३५ ॥ अस्वन्तन्त्रकृतान्यानुदुप्रमाणानि शस्यते ॥ ३४ ॥ पतौ व्यवहारज्ञः स्वतन्त्रः पितरं विना ॥ अनियुक्तवचो दण्ड्यो राजा रुक्मस्य कृष्णलम् ॥ नियुक्तो न नियुक्तो वा विद्या पंडिताः ॥ नानिर्युक्तेन वक्तव्यं व्यवहारं कथंचन ॥ ३६ ॥ लेखकस्य च सभ्यानां साक्षिणां यश्च दूषकः ॥३८॥ अनाहूतस्य चाह्वाने वाक्यमुदाहरन् ॥ ३७ ॥ सर्वस्वरहितः कार्यो लेखकोऽनुक्तलेखकः ॥ ३९ ॥ राजा तान्विनयेद्विप्रान्दण्डेन द्विगुणेन च ॥ सभा वा न प्र आहूतस्य च मोक्षणे ॥ अजितोऽस्मीति मन्वानो ब्रूयात्तं तु पराजितम् ॥ ३९ ॥ पादो धर्मस्य कर्त्तारं पादः साक्षिणमेव च ॥ ४१ ॥ वेष्टव्या वक्तव्यं वा समंजसम् ॥ ४० ॥ अब्रुवन्विब्रुवन्वापि नरो भवति किल्बिषी ॥ पादो धर्मस्य कर्त्तारं निन्दतो यत्र निन्यते ॥ ४२ ॥ एनो गच्छति कर्त्तारं मुच्यन्ते च सभा पादः सभासदः सर्वान्यादो राजानमृच्छति ॥ राजा भवत्यनेनास्तु निन्दार्हो यत्र निन्यते ॥ स्यात्तद्दण्डं दापयेन्नरः ॥दण्डं च स्वपणं सदः ॥ छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः॥४३॥भूतम्पद्यनुपन्यस्तं व्यवहारेण हीयते॥सपणश्चेद्विवादः धर्म्मात् तन्मध्ये न तत्सत्यं गच्छेत्लेनानुवि चैव धनिके धनमेव चा॥४४॥न सा सभा यत्र न संति वृद्धा न ते वृद्धा ये न वदंति धर्म्मम्॥न तद्धर्मं यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनानुवि द्धम्॥४५॥इति श्रीविष्णुधर्मोत्तरे तृ०ख० मा० संवादे सुनीन्द्राति हंसगीतासु व्यवहारनिरूपणो नाम चतुर्विंशत्युत्तरशततमोऽध्यायः ॥१२४॥

वि० ध० ॥४४७॥

तृ० खं० अ० ३२६

हंस उवाच ॥ संभोगो दृश्यते यत्र न दृश्येतागमः क्वचित् ॥ आगमः कारणं तत्र न भोगस्तत्र कारणम्॥१॥आगमोन विशुद्धेन भोगो याति प्रमाणताम् ॥ अविशुद्धागमो भोगः प्रामाण्यं नैव गच्छति ॥ २ ॥ आहैतवाभियुक्तः सन्त्रर्थानामुद्धरेत्पदम् ॥ भुक्तिरेव विशुद्धा स्यात्प्रातानां पितुस्तः क्रमात्॥३॥अन्वाहितः... हेले विस्पष्टयाचितम् ॥ अप्रत्यक्षं च यद्भुक्तं न चेंद्रेणेन जीर्यते॥४॥पश्यतोऽब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी ॥ परेण भुज्यमानाया धनस्य दशवार्षिकी ॥ ५ ॥ त्रिभिर्भव तु यद्भुक्तं पुरुषैस्तु यथाविधि ॥ लेख्यभावावपि तं तत्र चतुर्थः समवाप्नुयात् ॥ ६ ॥ आगमोप्याधिको भुक्तेर्विनापूर्वक्रमागतान ॥ आगमोपि बली नैव भुक्तिस्तत्रापि यत्र ना॥७॥आध्यात्मिकैस्ता स भृशं विनया दण्डिन विप्रा द्विगुणेन राज्ञा ॥ लोके न दुष्टः स तु कंटकः स्यात्पापात्मनां मूर्धनि तिष्ठतीति॥८॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु भोगलक्षणवर्णनो नाम पञ्चविंशत्युत्तरत्रिशततमोऽध्यायः ॥ ३२५ ॥ हंस उवाच ॥ पौरुषञ्चैव दिव्यञ्च निर्णयो द्विविधः स्मृतः ॥ द्विविधः पौरुषस्तत्र लिखितं साक्षिणस्तथा ॥ १ ॥ त्रिविधं लिखितं तत्र तस्य वक्ष्यामि लक्षणम् ॥ राजसाक्षिकमेकं तु द्वितीयं तु ससाक्षिकम् ॥२॥ स्वहस्तलिखितं नाम तृतीयं परिकीर्तितम्॥ नियुक्तकार्यस्य कृतं राजाधिकरणेपरम् ॥ ३ ॥ तदृष्ट्वंशृण्वन् मर्त्यैश्च स्वहस्तपरिश्चितम् ॥ तल्लेख्यं कथितं लोके राजसाक्षिकमित्युत॥४॥ यत्र कचन विप्रेन्द्रा लिखितं येन केनचित् ॥ चिन्हितं यत्स्वहस्तेन साक्षिभिश्च गुणान्वितैः ॥५॥ द्वाभ्यामूध्वं तु तज्ज्ञेयं लिखितञ्च ससाक्षिकम् ॥ साक्षी स्वहस्तलिखितै भवेद्यपि न वा भवेत्॥६॥ विनापि साक्षिभिस्तस्य प्रामाण्यमुपपद्यते ॥स्वहस्तलिखितं पत्रं बलात्कारेण कारितम्॥७॥हस्तप्रमाणं सर्वेषां तथोपधिकृते द्विजाः ॥ मत्तोन्मत्तकृतं लेख्यमस्वतंत्रन्कृतं च यत्॥८॥लेख्यं विना नास्ति सिद्धिः स्थावरस्य तु कर्हिचित् ॥ भुक्तिस्तत्र प्रमाणं वा भवेत्त्रिपुरुषगता॥९॥हस्तेन द्विपदं देयं साम्ना दद्याच्च तुष्पदम् ॥ स्थावराणां च सर्वेषां सिद्धिर्लेख्ये प्रतिष्ठिता ॥१०॥ देशाचाराविरुद्धं यद्धक्तावर्णविलक्षणम् ॥ तत्प्रमाणं स्मृतं लेख्यं विलुप्तमनमध्वमम् ॥ ११ ॥ प्राक्प्रसादाः प्रदीयन्ते पश्चादपि न पार्थिवाः ॥ देशजातिवितेषु न स्वात्स्वमी नृपः क्वचित् ॥ १२ ॥ समूहत्यं न भोगोऽस्ति लेख्यं तत्रापहारकम् ॥ उभयोरपि तत्र स्याद्भुक्तं येन स वै प्रभुः ॥ १३ ॥ चिरन्तनमविज्ञातं भुक्तं भोगान्न चालयेत् ॥ एकाहं लिखिते तस्यात्सम्भोगो यस्य तस्य तु ॥ १४ ॥ अर्वाक्कालिकल्पं तु लेख्येनैव विशोधयेत् ॥ मुद्राशुद्धं क्रियाशुद्धं पारंपर्योऽनुमोदितम् ॥ १५ ॥ अदूषितं च स्पष्टं च सिद्धिमभ्येति नान्यथा ॥ स्ववेशाल्कीर्तयेद्राज्ञा आत्मानं तदनन्तरम्॥ १६॥ दायाद्यप्रमाणं च सहसीमापरिच्छेदैः ॥ ततस्त्

॥४४७॥

लेखयेत्तत्र दानच्छेदोपवर्णनम् ॥ १७ ॥ तल्लेख्यं सिद्धिमाप्नोति मुद्रितं राजमुद्रया ॥ मतान्तरे तु लेख्यस्य श्रावणाच्छ्रवणे तथा ॥ १८ ॥ नैव सिद्धिर्निर्दिष्टा भावनान्या न चेद्भवेत् ॥ स्वहस्तलिखितं पत्रं निह्नुते तु विभावयेत् ॥ १९ ॥ वर्णैश्च तर्कैर्युक्तिभिः प्रायोगेण च युक्तिभिः ॥ यत्रर्णलेखको वापि साक्षी वापि मृते भवेत् ॥ २० ॥ लिखितान्ते प्रविष्टे तु धनी लेख्यं तु पाटयेत् ॥ असमग्रे प्रविष्टे तु लेख्ये दूरगते तथा ॥ ॥ २१॥ धनिकस्य धनी दद्याल्लिखितं स्वमथापरम् ॥ दैवदोषनिषिद्धं तु लेख्यं लेख्यं तु कारयेत् ॥ २२ ॥ अन्यमेवाधमर्णास्तु लेख्यं यत्स्मर्यते यदि ॥ समुद्रे तु पदा लेख्ये मृताः सर्वे तु तत्स्थिताः ॥ २३ ॥ लिखितं तत्प्रमाणं तु मृतेष्वपि हि साक्षिषु ॥ सोपध्यं यद्भवेल्लेख्यं दिव्याद्यैस्त त्साधयेत् ॥ २४ ॥ बलात्कारबलैर्लेख्यैः सत्यञ्चेच्छ्रवणाद्भवेत् ॥ ज्ञापितेनाप्यसिद्धिः स्यात्सिद्धिरस्त्यसमाधया स्मृता ॥ पितामहानां रिक्त्यानां प्रभुः पौत्रोऽपि गीयते ॥ २५ ॥ ये कूटकारा वसुधाधिपेन भृशं विनेयास्त्रिदशेशतुल्या वै ॥ ते कण्टकाः सर्वजनस्य विप्रास्तेषां निषेद्धा नृपति र्भवेद्वै ॥ २६ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु लेख्यलक्षणवर्णनो नाम षड्विंशत्युत्तरत्रिशततमो ऽध्यायः ॥ ३२६ ॥ ॥ हंस उवाच ॥ ॥ एकादशविधः साक्षी शास्त्रदृष्टो मनीषिभिः ॥ १ ॥ पञ्चविधस्तत्र षड्विधोऽकृत उच्यते ॥ १ ॥ लिखितः स्मारितश्चैव यदृच्छाभिज्ञ एव च ॥ गूढश्चोत्तरसाक्षी च कृतः पञ्चविधः स्मृतः ॥ २ ॥ ग्रामश्च प्राड्विवाकश्च राजा च व्यवहारिणाम् ॥ कार्येष्वाभ्यन्तरो यः स्यादर्थिना प्रहितः सदा ॥ ३ ॥ कुलं कुलविवादेषु षड्विधस्त्वपरोऽकृतः स्मृतः ॥ द्वयोर्विवादतोरेवं द्वयोः सत्सु च साक्षिषु ॥४॥ पूर्वपक्षो भवेद्यस्य भवेत्तस्य साक्षिणः ॥ आद्ययोः पूर्वपक्षस्य यस्मिन्नर्थवशाद्भवेत् ॥ ५ ॥ विवादे साक्षिणस्तत्र प्रष्टव्याः प्रतिवादिनः ॥ न परेण समुद्दिष्टमुपेयात्साक्षिणं प्रति ॥ ६ ॥ भेदे युक्ते न वाच्योन्यं हीयेतैनं समाचरेत् ॥ साक्षिदोषो यदि प्रेयादच्छेदापि दिगन्तरम् ॥ ७ ॥ तत्रोभयोः प्रमाणं तु प्रमाणे ह्यन्तरा क्रिया ॥ अनिर्दिष्टस्तु साक्षित्वे स्वयमेवैत्य यो वदेत् ॥ ८ ॥ सूचीतुलुकः स साक्षी तु न स साक्षित्वम र्हति ॥ न साक्षी नृपतिः कार्यों न कारुकुशीलवौ ॥ ९ ॥ न श्रोत्रियो न लिङ्गस्थो न सर्वेभ्यो विनिर्गतः ॥ न व्याधितो न वक्तव्यो न दस्युनै विकर्मकृत् ॥ १० ॥ न वृद्धो न शिशुर्नैको नान्ध्यो न विकलेन्द्रियः ॥ नार्त्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः ॥ ११ ॥ न श्रमातों न कामार्तं न क्रुद्धो नापि तस्करः ॥ नार्थसम्बन्धिनोभ्रातो न हायनविचारिणः ॥ १२ ॥ न दृष्टदोषाः कर्तव्या न व्याख्याता न दूषिताः ॥ स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः ॥ १३ ॥ शूद्राश्च साधुशूद्राणां मर्त्यानां प्रत्ययोन्त्यः ॥ अनुभावी तु यः कश्चित्कु

वि० ध० । तृ० खं० अ० ३२८ ॥४४८॥

र्यान्साक्ष्यं विवादिनाम् ॥ १४ ॥ अन्तर्वेश्मन्यरण्ये वा शरीरस्य तथात्यये ॥ स्त्रियोऽपि सम्भवे कार्या बालेन स्थविरेण वा ॥ १५ ॥ शिष्येण बन्धुना वापि दासेन भृतकेन वा ॥ बालवृद्धातुराणां तु साक्ष्ये तु वदतां मृषा ॥१६॥ जानीयाद्दैवसञ्चित्तस्मनसं तथा ॥ गृहिणः पुत्रिणो मौलाः शूद्रा विदधत्रयोन्वयः ॥ १७॥ अयुक्ताः साक्ष्यमर्हन्ति नये कूटञ्चनापि हि ॥ आत्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः ॥१८॥ बहुले परिगृह्णीयात्साक्षित्वे चेत्तनाविषम् ॥ समेषु त्वगुणोत्कृष्टं गृणिते वै द्विजोत्तमान् ॥१९॥ समक्षदर्शनात्साक्ष्यं श्रवणाच्चैव सिध्यति ॥ तत्र सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते ॥ २० ॥ साक्षी दृष्टश्रुतादन्यद्विब्रुवन्नरकं व्रजेत् ॥ पृष्टानि बद्धोऽपि वदेद्यथा दृष्टं यथाश्रुतम् ॥ २१ ॥ एको लुब्धस्त्वसाक्षी स्याद्बह्वोऽपि न वा क्वचित् ॥ स्वभावेनैव यद्ब्रूयुस्तद्ग्राह्यं व्यावहारिकम् ॥ २२॥ न जातु साक्षिणः प्राप्तानर्थिप्रत्यर्थिसन्निधौ ॥ प्राड्विवाको नियुञ्जीत विविनानेन सान्त्वयन् ॥ २३ ॥ यत्तथ्यो नयोर्वोच्यं कार्येऽस्मिंश्चितेऽपि वा ॥ तद् ब्रूत सर्वं सत्येन युष्माकं ह्यत्र साक्षित्वम् ॥ २४ ॥ देवब्राह्मणसान्निध्ये साक्ष्यं पृच्छेत्ततो द्विजाः ॥ उङ्मुखः प्राङ्मुखो वा पूर्वाह्ने वै शुचिः शुचीन् ॥ २५ ॥ ब्रूहीति ब्राह्मणं पृच्छेत्सत्यं ब्रूहीति पार्थिवम् ॥ गोबीजकाञ्चनैर्वेश्यं शूद्रं सर्वैस्तु पातकैः ॥ २६ ॥ ब्रह्मघ्ने ये स्मृता लोका ये च स्त्रीबाल घातिनः ॥ मित्रद्रुहः कृतघ्नस्य तते स्युर्ब्रवतां मृषा ॥ २७ ॥ जन्मप्रभृति यत्किञ्चित्किल्विषं त्वया कृतम् ॥ तत्सर्वं तस्य जानीहि यं पराजयसे मृषा ॥ २८ ॥ नग्नो मुण्डः कपाली च भिक्षार्थी क्षुत्पिपासितः ॥ अन्धः शत्रोगृहं गच्छेद्वत्सार्द्धमनृतं वदेत् ॥ २९ ॥ एतांस्तु दोषान्वीक्ष्य त्वं सर्वाननृतभाषणात् ॥ यथाश्रुतं यथादृष्टं सर्वमेवञ्जसा वद् ॥ ३० ॥ सत्यं साक्ष्यं ब्रुवन्साक्षी लोकान्प्राप्नोत्य नुत्तमान् ॥ इह चानुत्तमां कीर्तिं वाग्गेयां ब्रह्मपूजिता ॥ ३१ ॥ मन्यन्ते वै पापकृतो न कश्चित्पश्यतीति नः ॥ तांश्च देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः ॥ ३२ ॥ आदित्यचन्द्रावनलानिलौ च द्यौर्भूमिरापो हृदयं यमश्च ॥ अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥ ३३ ॥ इति श्रीविष्णुधर्मोत्तरे तंतीयखण्डे मा० वज्रसंवादे मुनीन्प्रति हंसगीतासु साक्षिनिर्णयो नाम सप्ताविंशत्युत्तरत्रिशत तमोऽध्यायः ॥३२८॥ हंस उवाच ॥ पौरुषे निर्णयः प्रोक्तो दिव्यं वक्ष्याम्यतः परम् ॥ असाक्षिकेषु तथ्येषु मिथो विवदमानयोः ॥ १ ॥ राजद्रोहाभिशापेषु साहसेषु तथैव च ॥ विवादे तत्त्वतः सत्यं शपथेनापि लम्भयेत् ॥ २ ॥ महाभियोगेषु दैवेषु कार्यार्थं शपथः कृताः ॥ वसिष्ठोऽदत्त शपथं समये जबने नृपे ॥ ३ ॥ न मृषा शपथं कुर्यात्स्वल्पेऽप्यर्थे नरो बुधः ॥ वृथा हि शपथं कुर्वन्प्रेत्य चेह च नश्यति ॥ ४ ॥

॥४४८॥

स्थावरेषु तु दिव्यानि वर्जनीयानि पार्थिवैः ॥ लिखितेन तथा भुक्त्या तेषां भवति साधनम् ॥ ५ ॥ कोशं घटं विषं चाग्नि मुदकं तत्तमापकम् ॥ फालं च तण्डुलं चैव दिव्यान्यष्टौ विदुर्बुधाः ॥ ६ ॥ कोशवर्जन्तु दिव्यानि सशिरस्कानि दापयेत् ॥ अशिरस्कः स्मृतः कोशः कालान्तरविभावनात ॥ ७ ॥ अशिरस्कानि दिव्यानि राजा कण्टकशोधनैः ॥ राज्ञा सर्वाणि देयानि स्वयं च परिमार्णिणा ॥ ॥ ८ ॥ लोभान्मोहाद्भयाद्वापि भिद्यन्ते साक्षिणः परैः ॥ अज्ञानाद्गालभावाच्च भेदं धर्मो व्यवस्थितः ॥ ९ ॥ सर्वद्रव्येषु कनकं मूल्यं तु परि कल्पयेत् ॥ माषकेण सुवर्णस्य......काल्यमसृखे द्विजम् ॥ १० ॥ सत्यं वदामीति शपेन्नान्यस्मिन् पार्थिव ॥ शङ्खामादाय वर्त्तव्यं क्षत्रियेण तथैव च ॥ ११ ॥ धेनुं संस्पृशता सत्यं वाच्यं वैश्येन वै द्विजाः ॥ शूद्रः कुर्वीत शपथं तथा सर्वैस्तु पातकैः ॥ १२ ॥ कृष्णलेन सुवर्णस्य तिलवृद्ध्या तु शापयेत् ॥ शूद्रांश्च शापयेद्राजा कदाचिदपि वै द्विजाः ॥ १३ ॥ विप्रवर्णं तथा कोशं वर्णिनां दापयेन्नृपः ॥ सुवर्णमाषकार्द्धमर्द्धमार्णमष्टम्य एव च ॥ १४ ॥ विप्रवर्जं तु विप्रोऽपि वर्णिनां पूरसंयुतम् ॥ कोशस्थाने तु शपथं कारयेद्विचारयन् ॥ १५ ॥ अतः परं तु दिव्यानां कुर्यादन्यतमं नरः ॥ यथा तथा महीपालः शृणुष्वं गदतो मम ॥ १६ ॥ न शीते तु घटं देयमुष्णकाले हुताशनम् ॥ वर्णिनां न तथा फालं तण्डुलं सुखरोगिणाम् ॥ १७ ॥ श्वाकसादितानां च ब्राह्मणानां च नो विषम् ॥ तत्तमापकमर्हन्ति सर्वे वर्णा निरत्ययम् ॥ १८ ॥ न व्याधिमरकाक्रान्ते देशे कोशं तु पातयेत् ॥ मन्त्रैरस्वदिदिव्यानि संध्यन्तीह मानवाः ॥ १९॥ प्रतिमन्त्रविद्भिः स्तम्भनानां विना शने ॥ नियुञ्जीत नरेन्द्रोपि निभृतं धनवत्सलाम् ॥ २० ॥ दिव्यानां स्तम्भकं ज्ञात्वा पापान्भ्रित्यं महीपतिः ॥ विवासयेत्स्वकाद्राष्ट्रात्ते हि लोकस्य कण्टकाः ॥ २१ ॥ तेषामन्वेषणे यत्नं राजा नित्यं समाचरेत ॥ ते हि पापसमाचारास्तस्कराद्वेषि तस्कराः ॥ २२ ॥ दृग्दृष्टिदोषा त्स्वल्पेपि दिव्येषु विनियोजयेत् ॥ महत्वपि न पार्थेषु धर्मज्ञान्धर्मवत्सलान् ॥ २३ ॥ ज्ञात्वा धार्मिष्ठतां राजा पुरुषस्य विचक्षणः ॥ स्वल्पे वाप्यथ वास्वल्पे शपथे तान्नियोजयेत् ॥ २४ ॥ न मिथ्यावचनं येषां जन्मप्रभृति विद्यते ॥ श्रद्ध्यात्यार्थिवस्तेषां वचने धर्मदर्शिनाम ॥२५ ॥ अत्यन्तोपहताः पापा नास्तिका भिन्नसेतवः ॥ दिव्यान्दर्हन्ति सर्वाणि स्वल्पदोषेपि अपि द्विजाः ॥ २६ ॥ आदौ भूमिं परीक्षेत घटस्यार्थे विच क्षणः ॥ इन्द्रस्थाने सभायां वा दिग्भागे पूर्वदक्षिणे ॥ २७ ॥ घटं निवेशयेत्तत्र सुसमायां तथा भुवि ॥ यज्ञियस्य तु वृक्षस्य कर्तव्यं मण्डप द्वयम् ॥ २८ ॥ मण्डपस्य प्रमाणं तु सप्तहस्तं प्रकीर्तितम् ॥ द्वौ हस्तौ निखनेत्काष्ठं दृश्यं स्याद्धस्तपञ्चकम् ॥ २९ ॥ अन्तरश्च तयोः कार्यं

वि० ध० ॥४४१॥

तृ० खं० अ० ३२८ ॥४४१॥

तथा हस्तचतुष्टयम् ॥ मण्डपोपरि काष्ठं च दृढं कुर्याद्विचक्षणः ॥ ३० ॥ चतुर्हस्तं तुलाकाष्ठं तद्व्रणं कारयेत्तथैव ॥ खदिरार्जुनवृक्षाणां शिशिपासालजं तथा ॥ ३१ ॥ तुलाकाष्ठं तु कर्तव्यं तथा वै शिक्यकद्वयम् ॥ प्राङ्मुखो निश्चलः कार्यः शुचौ देशे घटस्तथा ॥ ३२ ॥ वणिग्वसुवर्णकारौ च कुलालः कांस्यकारकः ॥ तुलाधारे घटः कार्यो रिपौ मित्रे तथा समः ॥ ३३ ॥ श्रावयेत्त्वादित्याविकोपि तुलाधारं विचक्षणः ॥ ब्रह्मघ्नो ये स्मृता लोका ये च स्त्रीबालघातिनाम् ॥ ३४ ॥ तुलाधरस्य ते लोकास्तुलां धारयतो मृषा ॥ पूर्वस्मिंस्तोलयिच्छुभ्रे स्नातं सुपोशितं नरम् ॥ ३५ ॥ द्वितीये मृत्तिकां शुद्धां गौरीं तु तोलयेद्बुधः ॥ इष्टकाभस्मपाषाणकपालस्थानि वर्जयेत् ॥ ३६ ॥ तुलयित्वा ततः पूर्वं तस्मात्तमवतारयेत् ॥ मूर्धिन पत्रं ततस्तस्य न्यस्तपत्रं निवेशयेत् ॥ ३७ ॥ मन्त्रश्चायं पुरा प्रोक्तः स्वयमेव स्वयम्भुवा ॥ ब्राह्मणस्त्वं सुता देवि तुलानाम्नीति कथ्यसे ॥ ३८ ॥ तुकारो गौरवो नित्यं लकारो लघूनि स्मृतः ॥ गुरुलाघवसंयोगात्तुला तेन निगद्यते ॥ ३९ ॥ संशयान्मोचयस्वेनं चाभिशस्तं नरं शुभे ॥ भूय आरोपयेत्तं तु नरं तस्यां सपत्रकम् ॥ ४० ॥ तुलितो यदि वर्धेत शुद्धो भवति धर्मतः ॥ हीयमाने न शुद्धः स्यादिति धर्मविदो विदुः ॥ ४१ ॥ शिक्यच्छेदस्तुलाभङ्गे पुनरारोपयेन्नरम् ॥ तथा निःसंशयं ज्ञानं भवतीति विनिश्चयः ॥ ४२ ॥ अग्नेर्विधिं प्रवक्ष्यामि शृणुध्वं गदतो मम ॥ सप्तमण्डलकान्कुर्याद्देवब्राह्मणसन्निधौ ॥ ४३ ॥ प्रत्यक्षं कारयेद्दिव्यं राज्ञो वाधिकृतस्य वा ॥ ब्राह्मणानां श्रुतवतां प्रकृतीनां तथैव च ॥ ४४ ॥ पश्चिमे मण्डले तिष्ठेत्प्राङ्मुखः प्राञ्जलिः शुचिः ॥ चरंस्त्वेवं यथा अस्मिन्कृत्वा चैव समौ करौ ॥ ४५ ॥ लक्षयेयुः क्षतादीनि हस्तयोस्तस्य कारिणः ॥ सप्ताश्वत्थस्य पत्राणि बध्नीयुः करयोस्ततः ॥ ४६ ॥ नवेन सितसूत्रेण कार्पासेन द्विजोत्तमाः ॥ ततस्तु सममं कृत्वा अङ्गुले त्वेकमायसम् ॥४७॥ पिण्डं हुताशसन्तप्तं पश्चात्तत्पलिकं दृढम् ॥ आदौ पूजां हुताशस्य कारयेद्बहुपार्थिपः ॥४८॥ रक्तचन्दनधूमाभ्यां रक्तपुष्पैस्तथैव च ॥ अभिशस्तस्य मन्त्रं च बध्नीयात्तस्य मूर्धनि ॥ ४९ ॥ मन्त्रेणानेन संयुक्तं ब्राह्मणाभिहितेन तु ॥ त्वमग्ने वेदाश्चत्वारस्त्वं च यज्ञेषु हूयसे ॥५०॥ त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम्॥ जठरस्थोऽपि भूतानां त्वं च वेत्सि शुभाशुभम्॥ पापेषु दर्शयात्मानमर्चिष्मान्भव पावक ॥ ५१ ॥ अथ वा शुद्धभावेषु शीतो भव महाबल ॥ ततोऽभिशस्तः शनैर्मण्डलानि परिक्रामेत् ॥ ५२ ॥ परिक्रम्य शनेर्जह्याल्लोहपिण्डं तथा क्षितौ ॥ विमुक्तहस्तं तं पश्चात्कारयेद्रीहिमर्दकम् ॥ ५३ ॥ निर्विकारौ करौ दृष्ट्वा शुद्धो भवति धर्मतः ॥ भग्नाङ्गो पातयेद्यस्तु दग्धो वा न विभाव्यते ॥५४॥ पुनस्तु चाहरेल्लोहं विधिरैष प्रकीर्तितः ॥ तोयस्याथ प्रवक्ष्यामि विधिं धर्म्यं सनातनम् ॥ ५५ ॥