भारतकोश
संग्रह पर लौटें

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

व्यवहाराध्यायः ३३५ क्रमम् । आदौ मध्येऽवसाने वा कर्मणो यद्विनिश्चितम् ॥' ( ना० ६।२ ) इति । तैश्च भृत्यैरुपस्कर ^१उपकरणं लाङ्गलादीनां प्रग्रहयोक्त्रादिकं यथाशक्त्या रक्षणी- यम् ; इतरथा कृष्यादिनिष्पत्त्यनुपपत्तेः ॥ १९३ ॥ भाषा—वेतन लेकर काम छोड़ देने वाले से दूना वेतन स्वामी को दिलावे । बिना वेतन लिये ही कार्य करना स्वीकार करके न करे तो वेतन के बराबर धन दिलावे । वे भृत्य भी उपस्करण ( हल आदि औजार की ) यत्न- पूर्वक रक्षा करें ॥ १९३ ॥ भृतिमपरिच्छिद्य यः कर्म कारयति तं प्रत्याह— ^२दाप्यस्तु दशमं भागं वाणिज्यपशुसस्यतः । अनिश्चित्य भृतिं यस्तु कारयेत्स महीक्षिता ॥ १९४ ॥ यस्तु स्वामी वणिक् गोमी क्षेत्रिको वा अपरिच्छिन्नवेतनमेव ^३भृत्यं कर्म कारयति स तस्माद्वाणिज्यपशुसस्यलक्षणात् कर्मणो यल्लब्धं तस्य दशमं भागं भृत्याय महीक्षिता राज्ञा दापनीयः ॥ १९४ ॥ भाषा—जो भृति ठहराये बिना भृत्यों से कार्य लेता है व्यापार, पशुपालन या खेती का काम लेता है उससे राजा तत्तत् कार्यों से होने वाले लाभ का दसवाँ भाग भृत्यों को दिलावे ॥ १९४ ॥ अनाज्ञप्तकारिणं प्रत्याह— देशं कालं च ^४योऽतीयाल्लाभं कुर्याच्च योऽन्यथा । तत्र स्यात्स्वामिनश्छन्दोऽधिकं देयं कृतेऽधिके ॥ १९५ ॥ यस्तु भृत्यः पण्यविक्रयाद्युचितं देशं कालं च पण्यविक्रयाद्यकुर्वन्दर्पादि- नोल्लङ्घयेत्तस्मिन्नेव वा देशे काले च लाभमन्यथा व्ययाद्यतिशयसाध्यतया हीनं करोति तस्मिन्भृतके भृतिदानं प्रति स्वामिनश्छन्द इच्छा भवेत् यावदि- च्छति तावद्दद्यान्न पुनः सर्वामेव भृतिमित्यर्थः । यदा पुनर्देशकालाभिज्ञतयाऽ- धिको लाभः कृतस्तदा पूर्वपरिच्छिन्नाय ^६भृतेरधिकमपि धनं स्वामिना भृत्याय दातव्यम् ॥ १९५ ॥ भाषा—जो भृत्य ( व्यापार योग्य ) स्थान और समय का उल्लंघन करके लाभ के स्थान पर हानि कराता है तो उसके वेतन के विषय में स्वामी अपने इच्छानुसार करे; किन्तु जब देश और समय के ज्ञान से वह अधिक लाभ कराता है तो उसे वेतन से अधिक धन देना चाहिए ॥ १९५ ॥ १. उपस्करणं । २. दाप्यस्त्वष्टमकं । ३. भृत्यकर्म । ४. यो यावत्कर्म कुर्यात् । ५. दर्पादिनानुल्लङ्घयेत् । ६. भृतेरपि किमपि धनमधिकं ।

३३६ याज्ञवल्क्यस्मृतिः

अनेकभृत्यसाध्यकर्मणि भृतिदानप्रकारमाह— यो यावत्कुरुते कर्म तावत्तस्य तु वेतनम् । उभयोरप्यसाध्यं चेत्साध्ये कुर्याद्यथाश्रुतम् ॥ १९६ ॥ यदा पुनरेकमेव कर्म नियतवेतनमुभाभ्यां क्रियमाणं उभयोरप्यसाध्यं चेद्ब्याध्याद्यभिभवाद्वाभ्यामपिषाड्ढादृबहुभिरपि यदि न परिसमापितं तदा यो भृत्यो यावत्कर्म करोति, तावत्तस्मै तत्कृतकर्मानुसारेण मध्यस्थकल्पितं वेतनं देयं, न पुनः समम् । नचावयवशः कर्मणि वेतनस्योपरिभाषितत्वाद्ददान- मिति मन्तव्यम् । साध्ये तूभाभ्यां कर्मणि निर्वर्तिते यथाश्रुतं यावत्परिभाषितं तावदुभाभ्यां देयं, न पुनः प्रत्येकं कृत्स्नं वेतनं, नापि कर्मानुरूपं परिकल्प्य देयम् ॥ १९६ ॥ भाषा—यदि एक ही कार्य को दो भृत्य करें और (व्याधि एवं आधि के कारण) वह समाप्त न हो सके तो जो जितना कार्य किये हो उसी के अनुसार उसका वेतन होता है और कार्य पूरा हो जाने पर जितना बताया जाय उतना उन दोनों को देना चाहिए ॥ १९६ ॥

आयुधीयभारवाहकौ प्रत्याह— ³अराजदैविकं नष्टं भाण्डं दाप्यस्तु वाहकः । प्रस्थानविघ्न⁴कृच्चैव प्रदाप्यो द्विगुणां भृतिम् ॥ १९७ ॥ न विद्यते राजदैविकं यस्य भाण्डस्य तत्तथोक्तम् । तच्चेदि प्रज्ञाहीनतया वाहकेन नाशितं तदा नाशानुसारेणासौ तद्भाण्डं दापनीयः । तदाह नारदः (६।९)—'भाण्डं व्यसनमागच्छेद्यदि वाहकदोषतः । दाप्यो यत्तत्र नश्येत्तु दैवराजकृतादृते ॥' इति । यः पुनर्विवाहाद्यर्थं मङ्गलवति वासरे प्रतिष्ठमानस्य तत्प्रस्थानौपयिकं कर्म प्रागङ्गीकृत्य तदानीं 'न करिष्यामि' इति प्रस्थानविघ्नमा- चरति तदासौ द्विगुणां भृतिं दाप्यः । अत्यन्तोत्कर्षहेतुकर्मनिरोधात् ॥ १९७ ॥ भाषा—राजा और दैव के उत्पात के बिना ले जाने वाले भृत्य से भाण्ड का नाश हो जाय तो उससे भाण्ड दिलावे; जो (विवाहादि मंगलकार्य के) प्रस्थान के समय विघ्न करे (जाने को कहकर न जावे) उससे वेतन का दूना धन दिलावे ॥ १९७ ॥

प्रक्रान्ते सप्तमं भागं चतुर्थे पथि ⁵संत्यजन् । भृतिमर्धपथे सर्वां प्रदाप्यस्त्याजकोऽपि च ॥ १९८ ॥


१. च । २. उभयोरप्यशाठ्यं चेच्छाठ्ये कुर्या(द्यथाश्रुतम्)यथाकृतम् । ३. अराजदैविकान्नष्टं । ४. विघ्नकर्ता च । ५. संत्यजेत् ।

[व्यपहाराध्यायः] ३३७

किंच,-प्रक्रान्ते अध्यवसिते प्रस्थाने स्वाङ्गीकृतं कर्म यस्त्यजति, असौ भृतेः सप्तमं भागं दाप्यः । नन्वत्रैव विषये 'प्रस्थानविघ्नकृत्' (व्य० १९७) इत्या- दिना द्विगुणभृतिदानमुक्तं, इदानीं सप्तमो भाग इति विरोधः । उच्यते,-भृत्य- न्तरोपादानावसरसंभवे स्वाङ्गीकृतं कर्म यस्त्यजति तस्य सप्तमो विभागः । यस्तु प्रस्थानलग्नसमय एव त्यजति, तस्य द्विगुणभृतिदानमित्यविरोधः । यः पुनः पथि प्रक्रान्ते गमने वर्तमाने सति कर्म त्यजति, स भृतेश्चतुर्थं भागं दाप्यः । अर्धपथे पुनः सर्वां भृतिं दाप्यः । यस्तु त्याजकः कर्मात्यजन्तं त्याजयति स्वामी पूर्वोक्तप्रदेशेष्वसावपि पूर्वोक्तसप्तमभागादिकं भृत्याय दापनीयः; एतच्चान्या- धितादिविषयम् । 'अथ्योऽर्त्तो न कुर्याच्चो दर्पात्कर्म यथोचितम् । स दण्ड्यः कृष्णलान्यष्टौ न देयं तस्य वेतनम् ॥' (८।२१५)-इति मनुवचनात् । यदा १पुनर्व्याधावपगतेऽन्तरितदिवसान्परिगणय्य पूरयति, तदा लभत एव वेतनम् । 'आर्तस्तु कुर्यात्स्वस्थः सन्यथाभाषितमादितः । स दीर्घस्यापि कालस्य स्वं लभेतेव वेतनम् ॥' (८।२१६) इति मनुस्मरणात् ॥ यस्त्वपगतव्याधिः स्वस्थ एवालस्यादिना स्वारब्धं कर्माल्पोनं न करोति, परेण वा न समापयति, तस्मै वेतनं न देयमिति । यथाह मनुः (८।२१७) - 'यथोक्तमार्तः स्वस्थो वा यस्त- त्कर्म न कारयेत् । न तस्य वेतनं देयमल्पोनस्यापि कर्मणः ॥' इति ॥ १९८ ॥ भाषा-प्रस्थान के समय कार्य करके जो मार्ग में छोड़ दे तो उस भृत्य से वेतन का सातवाँ भाग ले और आधे मार्ग में कार्य छोड़ दे तो उससे सम्पूर्ण भृति दिलानी चाहिए और जो उससे काम छोड़वाता है उससे भी सारी भृति दिलावे ॥ १९८ ॥ इति वेतनादानप्रकरणम् ।

अथ द्यूतसमाह्वयप्रकरणम् १७

अधुना द्यूतसमाह्वयाख्यं २विवादपदमधिक्रियते; तत्स्वरूपं नारदेनाभिहितम् (१६।१) - 'अक्षबधनशलाकाद्यैर्देवनं ३जिह्मकारितम् । पणक्रीडावयोभिश्च पदं द्यूतसमाह्वयम् ॥ इति । अक्षाः पाशकाः, बधनश्चर्मपट्टिका, शलाका दन्तादि- मय्यो दीर्घचतुरस्राः, 'आद्य'ग्रहणाच्च तुरङ्गादिक्रीडासाधनं करितुरङ्गरथादिकं गृह्यते । तैरप्राणिभिर्यद्देवनं क्रीडा पणपूर्विका क्रियते । तथा वयोभिः पक्षिभिः कुक्कुटपारावतादिभिः 'च' शब्दान्मल्लमेषमहिषादिभिश्च प्राणिभिर्या पणपूर्विका क्रीडा क्रियते, तदुभयं यथाक्रमेण द्यूतसमाह्वयाख्यं विवादपदम् । द्यूतं च समाह्वयश्च द्यूतसमाह्वयम् । तदुक्तं मनुना ( ९।२२३) - 'अप्राणिभिर्यत्क्रियते तल्लोके द्यूतमुच्यते । प्राणिभिः क्रियमाणस्तु स विज्ञेयः समाह्वयः ॥' इति ॥

१. व्याध्याद्यपगमे । २. व्यवहारपदमधि । ३. अक्षवभ्र ।

३३८ | याज्ञवल्क्यस्मृतिः तत्र द्यूतसभाधिकारिणो वृत्तिमाह— ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकं शतम् । गृह्णीयाद् धूर्तकितवादितराद्दशकं शतम् ॥ १९९ ॥ परस्परसंप्रतिपत्त्या कितवपरिकल्पितः पणो ग्लह इत्युच्यते । तत्र ग्लहे तदाश्रया शतिका शतपरिमिता तदधिकपरिमाणा वा वृद्धियंस्यासौ शतिकवृद्धिः, तस्माद् धूर्तकितवात्पञ्चकं शतमात्मवृत्त्यर्थं सभिको गृह्णीयात् । पञ्च पणा आयो यस्मिन् शते तत् पञ्चकं शतम् । 'तदस्मिन्वृद्धयायलाभ—' (पा० ५।१।- ४७) इत्यादिना कन् । जितग्लहस्य विंशतितमं भागं गृह्णीयादित्यर्थः । सभा- कितवनिवासार्था यस्यास्त्यसौ सभिकः । कल्पिताष्टादिनिखिलक्रीडोपरणस्त- दुपचितद्रव्योपजीवी सभापतिरुच्यते । इतरस्मात्पुनरपि पूर्णशतिकवृद्धेः कितवा- दशकं शतं जितद्रव्यस्य दशमं भागं गृह्णीयादिति यावत् ॥ १९९ ॥ भाषा—जुआ के खेल में धूर्त जुआरी (जीतने वाले) के धन में पाँच प्रतिशत सभिक (जुवा चलाने वाला) लेवे और दूसरों से दस प्रतिशत वसूल करे ॥ १९९ ॥ एवं क्लृप्तवृत्तिना सभिकेन किं कर्तव्यमित्याह— स सम्यक्पालितो १दद्याद्राज्ञे भागं यथाकृतम् । जितंमुद्ग्राहयेज्जेत्रे दद्यात्सत्यं वचः क्षमी ॥ २०० ॥ य एवं क्लृप्तवृत्तिर्द्यूताधिकारी स राज्ञा धूर्तकितवेभ्यो रक्षितस्तस्मै राज्ञे यथा संप्रतिपन्नमंशं दद्यात् ; तथा ३जितं यद् द्रव्यं तदुद्ग्राहयेत् बन्धकग्रहणेना- सेधादिना च पराजितसकाशादुद्धरेत् । उद्धृत्य च तद्धनं जेत्रे जयिने सभिको दद्यात् । तथा क्षमी भूत्वा सत्यं वचो विश्वासार्थं द्यूतकारिणां दद्यात् । तदुक्तं नारदेन (१६।२) - 'सभिकः कारयेद् द्यूतं देयं दद्याच्च तत्कृतम्' इति ॥२००॥ भाषा-वह सभिक राजा द्वारा संरक्षित होने पर उसे यथोचित अंश प्रदान करे और जीतने वाले को जीता हुआ धन दिलावे तथा क्षमाशील होकर दूसरे द्यूतकरों के विश्वास के लिये सत्य वचन देवे ॥ २०० ॥ यदा पुनः सभिको दापयितुं न शक्नोति, तदा राजा दापयेदित्याह— प्राप्ते नृपतिना भागे प्रसिद्धे धूर्तमण्डले । जितं ससभिके स्थाने दापयेदन्यथा नै तु ॥ २०१ ॥ १. भागं राज्ञे दद्याद्यथाश्रुतम् । २. जितमुद्ग्राहयेज्जेत्रे दद्यात्सत्यवचाः क्षमी । ३ जितं द्रव्यमुद्ग्राहयेत् । ४. प्राप्ते भागे च नृपतिः । ५. तु न ।

प्रसिद्धे अप्रच्छन्ने राजाध्यक्षसमन्विते ससभिके सभिकसहिते कितवस- माजे सभिकेन च राजभागे दत्ते राजा धूर्त्तकितवमविप्रतिपन्नं जितं पणं दाप- येत् । अन्यथा प्रच्छन्ने सभिकरहिते अदत्तराजभागे 'द्यूते जितपणं जेत्रे न दापयेत् ॥ २०१ ॥ भाषा—राजा ( सभिक से ) अपना अंश प्राप्त करने पर ज्ञात ( गुप्त नहीं अपितु राजा द्वारा संरक्षित ) द्यूतकरों के मण्डल में सभिक के निरीक्षण में जीता हुआ धन जीतने वाले को दिलावे अन्यथा ( संरक्षित द्यूतकरमण्डल न होने पर ) न दिलावे ॥ २०१ ॥ जयपराजयविप्रतिपत्तौ निर्णयोपायमाह— द्रष्टारो व्यवहाराणां साक्षिणश्च त एव हि । द्यूतव्यवहाराणां द्रष्टारः सभ्यास्त एव कितवा एव राज्ञा नियोक्तव्याः; न तत्र 'श्रुताध्ययनसंपन्ना' ( व्य० २ ) इत्यादिनियमोऽस्ति । साक्षिणश्च द्यूते द्यूतकरा एव कार्याः न तत्र 'स्त्रीबालवृद्धकितव-' ( व्य० ७० ) इत्यादि- निषेधोऽस्ति ॥— क्वचिद्द्यूतं निषेद्धुं दण्डमाह— राज्ञा संचिह्नं निर्वास्याः कूटक्षोपधिक्षेविनः ॥ २०२ ॥ कूटैरक्षादिभिरुपधिना च मतिवञ्चनहेतुना मणिमन्त्रौषधादिना ये दीव्यन्ति तान् श्वपदादिनाऽङ्कयित्वा राजा स्वराष्ट्राद्निर्वासयेत् । नारदेन तु निर्वासने विशेष उक्तः ( १६।६ )—'कूटाक्षदेविनः पापान् राजा राष्ट्राद्विवासयेत् । कण्ठेऽक्षमालामासज्य स ह्येषां विनयः स्मृतः ॥' इति । यानि च मनुवचनानि द्यूतनिषेधपराणि ( मनुः ९।२२४ )—'द्यूतं समाह्वयं चैव यः कुर्यात् कारयेत वा । तान्सर्वान्घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः ॥' इत्यादीनि, तान्यपि कूटा- क्षदेवनविषयतया राजाध्यक्षसभिकरहितद्यूतविषयतया च योज्यानि ॥ २०२ ॥ भाषा—जुए के व्यवहार को देखने वाले एवं साक्षी वे ही ( द्यूतकर ही) होते हैं। कपटपूर्वक ( मणि, मंत्र, औषध आदि से ) जुआ खेलने वाले को कुत्ते के पंजे आदि चिह्न से दागकर राज्य से निर्वासित कर देवे ॥ २०२ ॥ द्यूतमेकमुखं कार्यं तस्करज्ञानकारणात् । किंच, यत्पूर्वोक्तं द्यूतं तदेकमुखं एकं मुखं प्रधानं यस्य द्यूतस्य तत्तथोक्तं कार्यम् , राजाध्यक्षाधिष्ठितं राज्ञा कारयितव्यमित्यर्थः; तस्करज्ञानकारणात् । १. द्यूते पणं जेत्रे । २. सचिह्ना । २२ या०

३४० याज्ञवल्क्यस्मृतिः तस्करज्ञानरूपं प्रयोजनं पर्यालोच्य प्रायश्चौर्यार्जितधना एव कितवा भवन्ति, अतश्चौरविज्ञानार्थमेकमुखं कार्यम् ॥- द्यूतधर्मं समाह्वयेऽतिदिशन्नाह- एष एव विधिर्ज्ञेयः प्राणिद्यूते समाह्वये ॥ २०३ ॥ 'ग्लहे शतिकवृद्धेः' ( व्य० १९९ ) इत्यादिना यो द्यूतधर्म उक्तः, स एव प्राणिद्यूते मल्लमेषमहिषादिनिर्वर्त्ये समाह्वयसंज्ञके ज्ञातव्यः ॥ २०३ ॥ भाषा-चोरों के पहिचान के लिये एक व्यक्ति को द्यूत का प्रधान (अध्यक्ष) नियुक्त कर देना चाहिए । प्राणिद्यूत (पहलवान, भेंड़ा, भैंसा आदि को लड़ाकर खेले जाने वाले जुए) में भी ये नियम समझने चाहिए ॥ इति द्यूतसमाह्वयाख्यं प्रकरणम् । अथ वाक्पारुष्यप्रकरणम् १८ इदानीं वाक्पारुष्यं प्रस्तूयते; तल्लक्षणं चोक्तं नारदेन ( १५।१)-'देश- जातिकुलादीनामाक्रोशं न्यङ्गसंयुतम् । यद्वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते ॥' इति । देशादीनामाक्रोशं न्यङ्गसंयुतम् । उच्चैर्भाषणमाक्रोशः, न्यङ्गमवद्यं तदु- भययुक्तं यत्प्रतिकूलार्थमुद्वेगजननार्थं वाक्यं तद्वाक्पारुष्यं कथ्यते । तत्र 'कलह- प्रियाः खलु गौडाः' इति देशाक्रोशः । 'नितान्तं लोलुपाः खलु विप्राः' इति जात्याक्रोशः । 'क्रूरचरिता ननु वैश्वामित्राः' इति कुलाक्षेपः । आदिग्रहणात्स्व- विद्याशिल्पादिनिन्दया विद्वच्छिल्पादिपुरुषाक्षेपो गृह्यते । तस्य च दण्डतारत- म्यार्थं निष्ठुरादिभेदेन त्रैविध्यमभिधाय तल्लक्षणं तेनैवोक्तम् ( १५।२)- 'निष्ठुरार्लीकतीव्रत्वादपि तत्रिविधं स्मृतम् । गौरवानुक्रमात्तस्य दण्डोऽपि स्यात्क्रमाद् गुरुः ॥ साक्षेपं निष्ठुरं ज्ञेयमश्लीलं न्यङ्गसंयुतम् । पतनीयैरुपक्रोशै- स्तीव्रामाहुर्मनीषिणः ॥' इति । तत्र ^३धिङ्मूर्खं जाल्ममित्यादि साक्षेपम् । अत्र म्यङ्गमित्यसभ्यम् । अवद्यं भगिन्यादिगमनं तद्युक्तमश्लीलम् । सुरापोऽसीत्या- दिमहापातकाद्याक्रोशैर्युकं वचस्तीव्रम् ॥ तत्र निष्ठुराक्रोशे सवर्णविषये दण्डमाह- सत्यासत्यान्यथास्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणाम् । क्षेपं करोति चेद्दण्ड्यः पणानर्ध^४त्रयोदशान् ॥ २०४ ॥ न्यूनाङ्गाः करचरणादिविकलाः, न्यूनेन्द्रिया नेत्रश्रोत्रादिरहिताः, रोगिणो दुश्चर्मप्रभृतयः, तेषां सत्येनासत्येनान्यथास्तोत्रेण च निन्दार्थया स्तुत्या । १. खलु लोलुपाः । २. शिल्पादि । ३. धिङ्‌मूर्ख जाल्मस्त्वमित्यादि । ४. त्रयोदश ।

व्यवहाराध्यायः ३४१ यत्र नेत्रयुगलहीन श्चेोऽन्ध इत्युच्यते तत्सत्यम् । यत्र पुनश्चक्षुष्मानेवान्ध इत्युच्यते तदसत्यम् । यत्र विकृताकृतिरेव दर्शनीयस्त्वमसीत्युच्यते तदम्ब- त्थास्तोत्रम् । एवंविधैयैः क्षेपं निर्भर्त्सनं करोत्यसौ अर्धाधिकत्रयोदशपणान्दण्ड- नीयः । ( मनुः ८।२७४ )—'काणं वाऽप्यथवा खञ्जमन्यं वाऽपि तथाविधम् । तथ्येनापि ब्रुवन्दाप्यो दण्डं कार्षापणावरम् ॥' इति यन्मनुवचनं, तदतिदुर्वृत्तव- र्णविषयम् । यदा पुनः पुत्रादयो मात्रादीन् शपन्ति तदा शतं दण्डनीया इति तेनैवोक्तम् । ( मनुः ८।२७५ )—'मातरं पितरं जायां भ्रातरं श्वशुरं गुरुम् । आक्षारयञ्शतं दाप्यः पन्थानं चाददद् गुरोः ॥' इति, एतच्च सापराधेषु मात्रादिषु गुरुषु निरपराधायां च जायायां द्रष्टव्यम् ॥ २०४ ॥ भाषा—जो किसी विकलेन्द्रिय और रोगी आदि को सच्चे या झूठे ही निन्दापरक वचनों से आक्षेप करता है तो उससे साढ़े तेरह पण दण्ड लेना चाहिए ॥ २०४ ॥ अश्लीलाक्षेपे दण्डमाह— अभिगन्तास्मि भगिनीं मातरं वा तवेति हं । शपन्तं दापयेद्राजा पञ्चविंशतिकं दमम् ॥ २०५ ॥ 'त्वदीयां भगिनीं मातरं वा अभिगन्तास्मि' इति शपन्तं अन्यां वा 'स्व- जायामभिगन्ताऽस्मि' इत्येवं शपन्तं राजा पञ्चविंशतिकं पणानां पञ्चाधिका विंशतिर्यस्मिन्दण्डे स तथोक्तस्तं दमं दापयेत् ॥ २०५ ॥ भाषा—'तुम्हारी बहन या माँ का मैं अभिगन्ता ( जार ) हूँ' इस प्रकार का वचन कहकर गाली देने वाले से राजा पच्चीस पण दण्ड ले ॥ २०५ ॥ एवं समानगुणेषु वर्णिषु दण्डमभिधाय विषमगुणेषु दण्डं प्रतिपादयि- षुमाह— अर्धोऽधमेषु द्विगुणः परस्त्रीषूत्तमेषु च । अधमेष्वाक्षेप्त्रेपेक्षया न्यूनवृत्तादिगुणेष्वर्धो दण्डः । पूर्ववाक्ये पञ्चविं- शतेः प्रकृतत्वात्तदपेक्षयार्धः सार्धद्वादशपणात्मको द्रष्टव्यः । परभार्यासु पुनर- विशेषेण द्विगुणः पञ्चविंशत्यपेक्षयैव पञ्चाशत्पणात्मको वेदितव्यः । तथोत्त- मेषु च स्वापेक्षयाधिकश्रुतवृत्तेषु दण्डः पञ्चाशत्पणात्मक एव ॥ वर्णानां मूर्धावसिक्तादीनां च परस्पराक्षेपे दण्डकल्पनामाह— दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः ॥ २०६ ॥ १. नेत्रोऽन्ध इति । २. हि । ३. गृह्यः ।

१४२ याज्ञवल्क्यस्मृतिः वर्णा ब्राह्मणादयः, जातयो मूर्धावसिक्ताद्याः । वर्णाश्च जातयश्च वर्णजातयः उत्तराश्च अधराश्च उत्तराधराः, वर्णजातयश्च ते उत्तराधराश्च वर्णजात्युत्तराधराः, तैः वर्णजात्युत्तराधरैः परस्परमाक्षेपे क्रियमाणे दण्डस्य प्रणयनं प्रकर्षेण नयनमूह्यं वेदितव्यम् । तच्च दण्डकल्पनमुत्तराधरैरिति १विशेषेणोपादानादुत्तरा- धरभावापेक्षयैव कर्तव्यमित्यवगम्यते । यथा मूर्धावसिक्तं ब्राह्मणाद्धीनं क्षत्रियादु- त्कृष्टं चाक्रुश्य ब्राह्मणः क्षत्रियाक्षेपनिमित्तात्पञ्चाशत्पणदण्डात्किंचिदधिकं पञ्च- सप्तत्यात्मकं दण्डमर्हति, क्षत्रियोऽपि तमाक्रुश्य ब्राह्मणाक्षेपनिमित्ताच्छ्रुतदण्डो- दूनं पञ्चसप्ततिमेव दण्डमर्हति । मूर्धावसिक्तोऽपि तावाक्रुश्य तमेव दण्डमर्हति । मूर्धावसिक्ताम्बष्ठयोः परस्पराक्षेपे ब्राह्मणक्षत्रिययोः परस्पराक्रोशनिमित्तकौ यथा- क्रमेण दण्डौ वेदितव्यौ । एवमन्यत्राप्यूहनीयम् ॥ २०६ ॥ भाषा—हीन वर्ण की स्त्रियों के विषय में ऐसी गाली देने पर उपरोक्त दण्ड आधा होता है और उत्तम वर्ण की परस्त्री के लिये कहने पर दूना होता है । इसी प्रकार वर्ण और जाति की उच्चता एवं निम्नता का विचार करके दण्ड देना चाहिए ॥ २०६ ॥ एवं संवर्णविषये दण्डमभिधाय वर्णानामेव प्रतिलोमानुलोमाक्षेपे दण्डमाह— प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः । वर्णानामानुलोम्येन तस्मादर्धार्धहानितः ॥ २०७ ॥ अपवादा अधिक्षेपाः । प्रातिलोम्येनापवादाः प्रातिलोम्यापवादाः, तेषु ब्राह्मणाक्रोशकारिणोः क्षत्रियवैश्ययोर्यथाक्रमेण पूर्ववाक्याद् द्विगुणपदोपात्तपञ्चाश- त्पणापेक्षया द्विगुणाः शतपणाः, त्रिगुणाः सार्धशतपणा दण्डा वेदितव्याः । शूद्रस्य ब्राह्मणाक्रोशे ताडनं जिह्वाच्छेदनं वा भवति; यथाह मनुः ( ८।२६७ ) —‘शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति । वैश्योऽध्यर्धशतं द्वे वा शूद्रस्तु वधमर्हति ॥’ इति; विट्शूद्रयोरपि क्षत्रियादनन्तरैकान्तरयोस्तुल्यन्यायतया शतमध्यर्धशतं च यथाक्रमेण क्षत्रियाक्रोशे वेदितव्यम् । शूद्रस्य वैश्याक्रोशे शतम् । आनुलोम्येन तु वर्णानां क्षत्रियविट्शूद्राणां ब्राह्मणेनाक्रोशे कृते तस्माद्- ब्राह्मणाक्रोशनिमित्ताच्छ्रुतपरिमितात्क्षत्रियदण्डात्प्रतिवर्णमर्धस्यार्धस्य हानिं कृत्वावशिष्टं पञ्चाशत्पञ्चविंशतिसार्धद्वादशपणात्मकं यथाक्रमं ब्राह्मणो दण्डनीयः । तदुक्तं मनुना (८।२६८)—‘पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने । ७वैश्ये १. विशेषोपादानात् । २. दण्डाद्धीनं । ३. सर्ववर्णं । ४. प्रतिलोमा- पवादेषु । ५. वर्णान्त्याच्चानुलोम्येन तस्मादेवार्धहानतः । ६. पञ्चविंशत्यर्धं द्वादश । ७. वैश्यस्य चार्धपञ्चाशत ।

स्यादर्धपञ्चाशच्छूद्रे द्वादशको दमः ॥' इति ॥ क्षत्रियेण वैश्ये शूद्रे वाक्रुष्टे यथा- क्रमं पञ्चाशत्पञ्चविंशतिकौ दमौ । वैश्यस्य च शूद्राक्रोशे पञ्चाशदित्यूहनीयम्; 'ब्राह्मणराजन्यवत्क्षत्रियवैश्ययोः' ( १२।२४ ) इति गौतमस्मरणात् । —'विट्शू- द्वयोरेवमेव स्वजातिं प्रति तत्त्वतः' इति ( ८।२७७ ) मनुस्मरणाच्च ॥ २०७ ॥ भाषा—वर्णों की प्रतिलोमता से दोष लगाने पर (अर्थात् जब छोटी जाति वाला बड़ी जाति वाले को दोष लगावे तो) दूना, तिगुना दण्ड होता है और वर्णों की अनुलोमता से (बड़ी जाति वाले पर मिथ्या आरोप लगावे तो) वर्णानुसार दण्ड आधा कम होता जाता है ॥ २०७ ॥ पुनर्निष्ठुराक्षेपमधिकृत्याह— बाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः । शत्यस्तदर्धिकः पादनासाकर्णकरादिषु ॥ २०८ ॥ बाह्वादीनां प्रत्येकं विनाशे वाचिके वाचा प्रतिपादिते 'तव बाहू छिनद्मि' इत्येवंरूपे शत्यः शतपरिमितो दण्डो वेदितव्यः । पादनासाकर्णकरा- दिषु 'आदि'ग्रहणात्स्फिगादिषु वाचिके विनाशे तदर्धिकः तस्य शतस्यार्धं तदर्धं तद्यस्यास्त्यसौ तदर्धिकः, पञ्चाशत्पणिको दण्डो वेदितव्यः ॥ २०८ ॥ भाषा—बाहु, गर्दन, आँख, हड्डी, तोड़ने की धमकी देने पर। सौ पण और पैर, नाक, कान और हाथ आदि तोड़ने की धमकी देने पर उसके आधा अर्थात् पचास पण दण्ड होता है ॥ २०८ ॥ अशक्तस्तु वदन्नेवं दण्डनीयः पणान्दश । तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु ॥ २०९ ॥ किंच, यः पुनर्ज्वरादिना क्षीणशक्तिः 'त्वद्वाह्वाद्यङ्गभङ्गं करोमि' इत्येवं शप- न्त्यसौ दश पणान्दण्डनीयः । यः पुनः समर्थः क्षीणशक्तिं पूर्ववदाक्षिपत्यसौ पूर्वोक्त शतादिदण्डोत्तरकालं तस्याशक्तस्य क्षेमार्थं प्रतिभुवं दापनीयः ॥ २०९ ॥ भाषा—यदि अशक्त (ज्वरादि से क्षीण शक्ति वाला) इस प्रकार का वचन बोले तो उसे दस पण का दण्ड देना चाहिए और यदि शक्तिशाली व्यक्ति दुर्बल व्यक्ति से ऐसा वचन कहे तो उससे सौ पण दण्ड लेवे और उस (दुर्बल व्यक्ति) की रक्षा के लिये उससे प्रतिभू (जामिन) उपस्थित करावे ॥ २०९ ॥ तीव्राक्रोशे दण्डमाह— पतनीयकृते क्षेपे दण्डो मध्यमसाहसः । उपपातकयुक्ते तु दाप्यः प्रथमसाहसम् ॥ २१० ॥ १. स्ततोऽर्धिकः । २. क्षेमाच्च । ३. प्रथमसाहसः ।

३४४ याज्ञवल्क्यस्मृतिः पातित्यहेतुभिर्ब्रह्महत्यादिभिर्वर्णिनामाक्षेपे कृते मध्यमसाहसं दण्डः। उपपातकेसंयुक्ते पुनः 'गोघ्नस्त्वमसि' इत्येवमादिरूपे क्षेपे प्रथमसाहसं दण्डनीयः ॥ २१० ॥ भाषा—जो ऐसा (ब्रह्महत्यादि) मिथ्या आरोप लगावे जिससे पतित होने की संभावना हो तो मध्यम साहस का दण्ड और उपपातक (गोवध आदि का दोष) लगाने पर प्रथम (अधम) साहस का दण्ड देना चाहिए ॥ त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः । मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ॥ २११ ॥ किंच, त्रैविद्याः वेदत्रयसंपन्नास्तेषां राज्ञां देवानां च क्षेपे उत्तमसाहसो दण्डः । ये पुनर्ब्राह्मणमूर्धावसिक्तादिजातीनां पूगाः संघास्तेषामाक्षेपे मध्यम- साहसो दण्डः । ग्रामदेशयोः प्रत्येकमाक्षेपे प्रथमसाहसो दण्डो वेदितव्यः ॥२११॥ भाषा—तीनों वेदों के विद्वानों राजा और देवताओं पर आक्षेप करने से उत्तम साहस का दण्ड होता है । जाति, पूग (संघ) के आक्षेप में मध्यम साहस का और ग्राम तथा देश के आक्षेप में प्रथम साहस का दण्ड होता है ॥ २११ ॥ इति वाक्पारुष्यं नाम विवादपदप्रकरणम् । अथ दण्डपारुष्यप्रकरणम् १९ संप्रति दण्डपारुष्यं प्रस्तूयते, तत्स्वरूपं च नारदेनोक्तम् (१५।४)—'परगा- त्रेष्वभिद्रोहो हस्तपादायुधादिभिः । भस्मादिभिश्चोपघातो दण्डपारुष्यमुच्यते ॥' इति। परगात्रेषु स्थावरजङ्गमात्मकद्रव्येषु हस्तपादायुधैरादिग्रहणाद् ग्रावादिभिर्यो- ऽभिद्रोहो हिंसनं दुःखोत्पादनं तथा भस्मना आदिग्रहणाद्रजः पङ्कपुरीषाद्यैश्च य उपघातः संस्पर्शनरूपं मनोदुःखोत्पादनं तदुभयं दण्डपारुष्यम् । दण्ड्यतेऽनेनेति दण्डो देयः, तेन यत्पारुष्यं विरुद्धाचरणं जङ्गमादेर्द्रव्यस्य तद्दण्डपारुष्यम् । तस्य चावगोरणादिकारणभेदेन त्रैविध्यमभिधाय हीनमध्यमोत्तमद्रव्यरूपकर्मत्रैविध्या- त्पुनस्त्रैविध्यं तेनैवोक्तम् (१५।५-६)—'तस्यापि दृष्टं त्रैविध्यं हीनमध्योत्तमक्रमात् । अवगोरणनिःसङ्गापातनक्षतदर्शनैः ॥ हीनमध्योत्तमानां च द्रव्याणां समति- क्रमात् । त्रीण्येव साहसान्याहुस्तत्र कण्टकशोधनम् ॥' इति । निःसङ्गपातनं निःशङ्कप्रहरणम् । त्रीण्येव साहसानि त्रिप्रकाराण्येव । सहसा कृतानि दण्ड- १. वर्णानामाक्षेपे ।- २. संबन्धे तु । ३. जातिरूपाणां । ४. करण- भेदेन । ५. तस्योपहतं । ६. निःशङ्कपातन ।

व्यवहाराध्यायः ३४५ पारुष्याणीत्यर्थः । तथा वाग्दण्डपारुष्ययोरुभयोरपि द्वयोः प्रवृत्तकलहयोः- यः क्षमते न केवलं तस्य दण्डाभावः, किंतु पूज्य एव । तथा पूर्वं कलहे प्रवृत्तस्य दण्डगुरुत्वम् । कलहे च बद्धवैरानुसन्धातुरेव दण्डभाक्त्वम् । तथा तयोर्द्वयोर- पराधविशेषापरिज्ञाने दण्डः समः । तथा श्वपचादिभिरार्याणामपराधे कृते सज्जना एव दण्डदापनेऽधिकारिणः, तेषामशक्यत्वे तान् राजा घातयेदेव; नार्थं गृह्णीया- दित्येवं पञ्च प्रकारा विधयस्तेनैवोक्ताः ( ना० १५।७ )—'विधिः पञ्चविधस्तूक्त एतयोरुभयोरपि । पारुष्ये सति संरम्भादुत्पन्ने क्रुद्धयोर्द्वयोः ॥ स मन्यते यः क्षमते दण्डभाग्योऽतिवर्तते । पूर्वमाचारयेद्यस्तु नियतं स्यात्स दोषभाक् ॥ पश्चाच्चः सोऽप्यसत्कारी पूर्वे तु विनयो गुरुः । द्वयोरापन्नयोस्तुल्यमनुबध्नाति यः पुनः ॥ स तयोर्दण्डमाप्नोति पूर्वो वा यदि वेतरः । पारुष्यदोषावृतयोर्युगपत्संप्र- वृत्तयोः ॥ विशेषश्चेन्न लक्ष्येत विनयः स्यात्समस्तयोः । श्वपाकषण्डचण्डाल- व्यङ्गेषु वधवृत्तिषु ॥ हस्तिपव्रात्यदासेषु गुर्वाचार्यनृपेषु च । मर्यादातिक्रमे सद्यो घात एवानुशासनम् ॥ यमेव ह्यतिवर्तेरन्नेते सन्तं जनं नृषु । स एव विनयं १कुर्यान्नूनं विनयभाङ्नृपः ॥ मला ह्येते मनुष्याणां धनमेषां मलात्मकम् । अत- स्तान्घातयेद्राजा नार्थदण्डेन दण्डयेत् ॥' ( १५।९, १०, ११-१४ ) इति ॥ एवंभूतदण्डपारुष्यनिर्णयपूर्वकत्वादण्डप्रणयनस्य तत्स्वरूपसंदेहे निर्णय- हेतुमाह— २असाक्षिकहते चिह्नैर्युक्तिभिश्चागमेन च । द्रष्टव्यो व्यवहारस्तु कूटचिह्नकृतो ३ भयात् ॥ २१२ ॥ यदा कश्चित् 'रहस्यहरनेन हतः' इति राज्ञे निवेदयति, तदा ४चिह्नैर्वा- दिस्वरूपगतैर्लिङ्गैर्युक्त्या कारणप्रयोजनपर्यालोचनात्मिकया आगमेन जनप्र- वादेन 'च'शब्दाद्दिव्येन वा कूटचिह्नकृतसंभावनाभयात्परीक्षा कार्या ॥ २१२ ॥ भाषा—जो विना साक्षी उपस्थित किये हुए किसी पर एकान्त में मारने पीटने का अभियोग लगाता है तो चिह्नों, युक्ति ( कारण, प्रयोजन और पर्यालोचन ) और आगम द्वारा उसकी परीक्षा करे; कारण झूठे ( चोट के ) चिह्न बना लेने की भी शंका रहती है ॥ २१२ ॥ एवं निश्चिते साधनविशेषेण दण्डविशेषमाह— भस्मपङ्करजःस्पर्शो दण्डो दशपणः स्मृतः । अमेध्यपाणिंनिष्ठ्यूतस्पर्शने द्विगुणस्ततः ॥ २१३ ॥ १. कुर्यान्न तद्विनयभाक् । २. असाक्षिके हते । ३. कृताहते । कृताङ्गवात् । ४. चिह्नैर्मर्गादि । ५. द्विगुणः स्मृतः ।

३४६ याज्ञवल्क्यस्मृतिः समेष्वेवं परस्त्रीषु द्विगुणस्तूत्तमेषु च। हीनेष्वर्धदमो' मोहमदादिभिरदण्डनम् ॥ २१४ ॥ भस्मना पङ्केन रेणुना वा यः परं स्पर्शयत्यसौ दशपणं दण्डं दाप्यः । अमेध्यमिति अश्रुश्लेष्मनखकेशकर्णविट्दूषिकाभुक्कोच्छिष्टादिकं च गृह्यते । पार्ष्णिः पादस्य पश्चिमो भागः, निष्छ्यूतं मुखनिःसारितं जलम्, तैः स्पर्शने ततः पूर्वाद्दश- पणाद् द्विगुणो विंशतिपणो दण्डो वेदितव्यः ॥ पुरीषादिस्पर्शने पुनः कात्यायनेन विशेष उक्तः- 'छर्दिमूत्रपुरीषाद्यैरापाद्यः स चतुर्गुणः । षड्गुणः कायमध्ये स्यान्मूर्ध्नि त्वष्टगुणः स्मृतः ॥' इति । 'आद्य'ग्रहणाद्वसाशुक्रासृग्मज्जानो गृह्यन्ते । एवंभूतः पूर्वोक्तो दण्डः सवर्णविषये द्रष्टव्यः । परभार्यासु चाविशेषेण' । तथोत्तमेषु स्वापेक्षयाऽधिकश्रुतवृत्तेषु पूर्वोक्ताद्दशपणाद्विंशतिपणाच्च दण्डाद् द्विगुणो दण्डो वेदितव्यः । हीनेषु स्वापेक्षया ^२न्यूनवृत्तश्रुतादिषु पूर्वोक्तस्यार्धदमः पञ्चपणो दशपणश्च वेदितव्यः । मोहश्चित्तवैकल्यम् , मदो मद्यपानजन्योऽवस्थाविशेषः । 'आदि'ग्रहणाद् ग्रहावेशादिकम् । एतैर्युक्तेन भस्मादिस्पर्शने कृतेऽपि दण्डो न कर्तव्यः ॥ २१३-२१४ ॥ भाषा-भस्म, कीचड़ और धूल फेंकने पर दस पण का दण्ड होता है अमेध्य ( शरीर के विकार और जूठा भोजन ) फेंकने पर एड़ो से मारने पर और थूक फेंकने पर उससे दूना अर्थात् बीस पण दण्ड होता है। ये दण्ड समान वर्ण के व्यक्ति पर भस्म आदि फेंकने पर ही होते हैं। परस्त्री और उत्तम जाति के व्यक्ति को भस्मादि फेंककर पीड़ित करने पर दूना दण्ड होता है और अपनी अपेक्षा निम्नतर वर्ण एवं वृत्ति वाले को इस प्रकार पीड़ित करने पर आधा दण्ड होता है। मोह (भूल) और मदपान के कारण ऐसा अपराध करें तो दण्ड का भागी नहीं होता ॥ २१३-२१४ ॥ प्रातिलोम्यापराधे दण्डमाह- विप्रपीडाकरं छेद्यमङ्गमब्राह्मणस्य तु। उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्धिकः ॥ २१५ ॥ ब्राह्मणानां पीडाकरमब्राह्मणस्य क्षत्रियादेर्यदङ्गं करचरणादिकं तच्छेत्तव्यम् । क्षत्रियवैश्ययोरपि पीडां कुर्वतः शूद्रस्याङ्गच्छेदनमेव। (मनुः ८।२७९)- 'येन केनचिदङ्गेन हिंस्याच्छ्रेयांसमन्त्यजः। छेत्तव्यं तत्तदेवाश्य तन्मनोरनु- शासनम् ॥' इति । द्विजातिमात्रस्यापराधे शूद्रस्याङ्गच्छेदविधानाद्वैश्यस्यापि १. दमः प्रोक्तो मदादिभिः । २. न्यूनश्रुतादिषु । ३. च्छेद्यमङ्ग- मन्त्यजः-मनुः।

क्षत्रियापकारिणोऽयमेव दण्डः; तुल्यन्यायत्वात् । उद्गूर्णे वधार्थमुद्यते शस्त्रादिके प्रथमसाहसो दण्डो वेदितव्यः। शूद्रस्य पुनरुद्गूर्णेऽपि हस्तादिच्छेदनेमेव; (८।२८०)—'पाणिमुद्यम्य दण्डं वा पाणिच्छेदनमर्हति' इति मनुस्मरणात् ॥ उद्गूर्णार्थं शस्त्रादिस्पर्शने तु तदर्धिकः प्रथमसाहसार्धदण्डो वेदितव्यः ॥ भस्मादिसंस्पर्शे पुनः क्षत्रियवैश्ययोः 'प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमा' (व्य० २०७) इति वाक्पारुष्योक्तन्यायेन कल्प्यम् । शूद्रस्य तत्रापि हस्तच्छेद एव । (८।२८२)—'अवनिष्ठीवतो दर्पाद् द्वावोष्ठौ छेदयेन्नृपः । अवमूत्रयतो मेढ्रमवशर्धयतो गुदम् ॥' इति मनुस्मरणात् ॥ २१५ ॥ भाषा—ब्राह्मण को पीड़ा देने वाला यदि अब्राह्मण (क्षत्रिय आदि) हो तो उस अंग को (जिससे उसने पीड़ा पहुँचाई हो) काट डालना चाहिए । मारने के लिये शस्त्र उठाने पर प्रथम साहस का दण्ड होता है और शस्त्र छूकर छोड़ देने वाले को उसका (प्रथम साहस का) आधा दण्ड मिलता है ॥ २१५ ॥ एवं प्रातिलोम्यापराधे दण्डमभिधाय पुनः सजातिमधिकृत्याह— उद्गूर्णे हस्तपादे तु दशविंशतिकौ दमौ । परस्परं तु सर्वेषां शत्रे मध्यमसाहसः ॥ २१६ ॥ हस्ते पादे वा ताडनार्थमुद्गूर्णे यथाक्रमं दशपणो विंशतिपणश्च दण्डो वेदितव्यः । परस्परवधार्थं शस्त्रे उद्गूर्णे सर्वेषां वर्णिनां मध्यमसाहसो दण्डः ॥ (परस्पर अपने समान जाति वाले को) मारने के लिए हाथ और पैर उठाने पर दश पण और बीस पण और शस्त्र उठाने पर मध्यम साहस का दण्ड होता है ॥ २१६ ॥ पादकेशांशुककरोल्लुञ्चनेषु पणान्दश । ३पीडाकर्षांशुकावेष्टपादाध्यासे शतं दमः ॥ २१७ ॥ किंच, पादकेशवस्त्रकराणामन्यतमं गृहीत्वा य उल्लुञ्चति झटित्याकर्षयति असौ दशपणान्दण्ड्यः । पीडा च कर्षश्चांशुकावेष्टश्च पादाध्यासश्च पीडाकर्षांशु- कावेष्टपादाध्यासं तस्मिन्समुच्चिते शतं दण्ड्यः । एतदुक्तं भवति—अंशुके- नावेष्ट्य गाढमापीड्याकृष्य च यः पादेन घट्टयति, तं शतं पणान्दापयेदिति ॥ भाषा—पैर, केश, वस्त्र और हाथ पकड़कर बलपूर्वक खींचने में दश पण दण्ड होता है और जो पीड़ा पहुँचाते हुए, वस्त्र में बाँधकर, पैर से मारे उस पर सौ पण का दण्ड लगता है ॥ २१७ ॥ १. वर्णानां । २. कराङ्गुष्ठनेषु । ३. पीडाकर्षाङ्गनावेष्टय । ४. दम- येदिति ।

[३४८] याज्ञवल्क्यस्मृतिः

शोणितेन विना दुःखं कुर्वन्काष्ठादिभिर्नरः । द्वात्रिंशतं पणान्दण्ड्यो द्विगुणं दर्शनेऽसृजः ॥ २१८ ॥

किंच । यः पुनः शोणितं यथा न दृश्यते तथा मृदुताडनं काष्ठलोष्टादिभिः करोत्यसौ द्वात्रिंशतं पणान्दण्ड्यः ॥ यदा पुनर्गाढताडनेन लोहितं दृश्यते तदा द्वात्रिंशतो द्विगुणं चतुःषष्टिपणान्दण्डनीयः । ३त्वङ्मांसास्थिभेदे पुनर्विशेषो मनुना दर्शितः ( ८।२८४ )—'त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः । मांसभेत्ता च षण्णिष्कान्प्रवास्यस्त्वस्थिभेदकः ॥' इति ॥ २१८ ॥

भाषा—यदि कोई व्यक्ति लकड़ी आदि से मार कर बिना रुधिर निकाले दुःख पहुँचाता है तो बत्तीस पण दण्ड होता है और रुधिर दिखाई पड़ने पर उसके दूना दण्ड होता है ॥ २१८ ॥

करपाददंतो भङ्गे छेदने कर्णनासयोः । मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा ॥ २१९ ॥

किंच, करपाददन्तस्य प्रत्येकं भङ्गे कर्णनासस्य च प्रत्येकं छेदने रूढव्रण- स्योद्भेदने मृतकल्पो यथा भवति तथा हते ताडिते मध्यमसाहसो वेदितव्यः । अनुबन्धादिना विषयस्य साम्यमत्रापादनीयम् ॥ २१९ ॥

भाषा—हाथ, पैर, और दाँत तोड़ने पर, कान और नाक काटने पर, फोड़ा कुचल देने पर तथा मारते-मारते अधमरा कर देने पर मध्यमसाहस का दण्ड होता है ॥ २१९ ॥

चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने । कन्धराबाहुसक्थीनां च भङ्गे मध्यमसाहसः ॥ २२० ॥

किंच, गमनभोजनभाषणनिरोधे नेत्रस्य 'आदि' ग्रहणाज्जिह्वायाश्च प्रति- भेदने । कन्धरा ग्रीवा, बाहुः प्रसिद्धः, सक्थि ऊरुस्तेषां प्रत्येकं भञ्जने मध्य- मसाहसो दण्डः ॥ २२० ॥

भाषा—चलना, भोजन और बोलना रोक देनेपर, आँख आदि ( जिह्वा भी ) फोड़ने या काटने पर, ग्रीवा, बाँह और जंघा तोड़ने पर मध्यमसाहस का दण्ड होता है ॥ २२० ॥

एकं घ्नतां बहूनां च यथोक्ताद् द्विगुणो दमः । अपि च, यदा पुनर्बहवो मिलिता एकस्याङ्गभङ्गादिकं कुर्वन्ति, तदा यस्मिन्यस्मिन् अपराधे यो यो दण्ड उक्तस्तत्र तस्माद् द्विगुणो दण्डः प्रत्येकं


१. पीडां । २. पणान्दाप्यो । ३. मांसास्थिविभेदे । ४. दन्तभङ्गे । ५. सक्थ्वद्विग्भङ्गे । ६. उत्तमसाहसः ।

व्यवहाराध्यायः ३४६ वेदितव्यः । अतिक्रूरत्वात्तेषां प्रातिलोम्यानुलोम्यापराधेयोश्प्येतस्यैव सवर्णविष- येऽभिहितस्य दण्डजातस्य वाक्पारुष्योक्तक्रमेण हानिं वृद्धिं च कल्पयेत् ; 'वाक्पारुष्ये य² एवोक्तः प्रातिलोम्यानुलोमतः । स एव दण्डपारुष्ये दाप्यो राज्ञा यथाक्रमम् ॥' इति स्मरणात् ॥— कलहापहृतं देयं दण्डश्च द्विगुण³स्ततः ॥ २२१ ॥ किंच, कलहे वर्तमाने यच्चेनापहृतं तत्तेन प्रत्यर्पणीयम् । अपहृतद्रव्याद् द्वि- गुणश्चापहारनिमित्तो दण्डो देयः ॥ २२१ ॥ भाषा—बहुत से व्यक्ति मिलकर यदि एक व्यक्ति को मारे पीटे तो जिस-जिस अपराध का जो-जो दण्ड कहा गया है उसके दुगुना दण्ड देना चाहिए । कलह में ली हुई वस्तु लौटवानी चाहिए और उसके दूना दण्ड देना चाहिए ॥ २२१ ॥ दुःखमुत्पादयेद्यस्तु स समुत्थानजं व्ययम् । दाप्यो ⁵दण्डं च यो यस्मिन्कलहे समुदाहृतः ॥ २२२ ॥ किंच, यो यस्य ताडनाद्दुःखमुत्पादयेत्स तस्य व्रणरोपणादौ औषधार्थं पथ्यार्थं च यो व्ययः क्रियते तं दद्यात् । समुत्थानं व्रणरोपणम् । यस्मिन्क- लहे यो दण्डस्तं च दद्यात् , न पुनः समुत्थानजव्ययमात्रम् ॥ २२२ ॥ भाषा—जो किसी को मारपीट कर चोट पहुँचावे वह उसकी दवा और पथ्य में लगे हुए व्यय को भी चुकता करे । और जिस कलह में जो दण्ड कहा गया है वह दण्ड उस व्यक्ति को देना चाहिए ॥ २२२ ॥ परगात्राभिद्रोहे दण्डमुक्त्वाऽनन्तरं बहिरङ्गार्थनाशे दण्डमाह— अभिघाते तथा छेदे भेदे कुड्यावपातने । पणान्दाप्यः पञ्च दश विंशतिं तद्द्वयं तथा ॥ २२३ ॥ मुद्गरादिना कुड्यस्याभिघाते विदारणे ⁶द्विधाकरणे च यथाक्रमं पञ्चपणो दशपणो विंशतिपणश्च दण्डो वेदितव्यः । अवपातने पुनः कुड्यस्यैते त्रयो दण्डाः संमुच्चिता ग्राह्याः; पुनः कुड्यसंपादनार्थं च धनं स्वामिने दद्यात् ॥ २२३ ॥ भाषा—मुद्गर आदि से दीवाल को फोड़ने, छेद करने और गिराने पर क्रमशः पाँच, दस और बीस पण दण्ड तथा उसको बनवाने का व्यय (हानि पहुँचाने वाले से) दिलाया चाहिए ॥ २२३ ॥ १. पराधेऽप्येतस्यैव । २. य एवोक्तः प्रतिलोमानुलोमतः । स एव दण्डपारुष्ये राज्ञा कार्यों यथाक्रमम् । ३. स्तथा । ४. स्थानधनव्ययम् । ५. दण्डश्च । ६. द्वैधीकरणे । ७. समन्विताः ।

दुःखोत्पादि गृहे द्रव्यं क्षिपन्प्राणहरं तथा ।

३५० याज्ञवल्क्यस्मृतिः दुःखोत्पादि गृहे द्रव्यं क्षिपन्प्राणहरं तथा । षोडशाद्यः पणान्दाप्यो द्वितीयो मध्यमं दमम् ॥ २२४ ॥ अपि च, परगृहे दुःखजनकं कण्टकादि द्रव्यं प्रक्षिपन्षोडशपणान्दण्ड्यः । प्राणहरं पुनर्विषभुजङ्गादिकं प्रक्षिपन्मध्यमसाहसं दण्ड्यः ॥ २२४ ॥ भाषा—दूसरे के घर में दुःख उत्पन्न करने वाले (कण्टक आदि) और (विष, सर्प आदि) प्राण लेने वाले द्रव्य या जीव फेंकने वाले में पहले सोलह पण ॥ २२४ ॥ पश्वादिद्रोहे दण्डमाह— दुःखे च शोणितोत्पादे शाखाङ्गच्छेदने तथा । दण्डः क्षुद्रपशूनां तु द्विपणप्रभृतिः क्रमात् ॥ २२५ ॥ क्षुद्राणां पशूनां अजाविकहरिणप्रायाणां ताडनेन दुःखोत्पादने असृक्स्रा- वणे शाखाङ्गच्छेदने । 'शाखा' शब्देन चात्र प्राणसंचाररहितं शृङ्गादिकं लक्ष्यते । अङ्गानि करचरणप्रभृतीनि; शाखा चाङ्गं च शाखाङ्गं तस्य छेदने द्विपणप्रभृतिर्दण्डः । द्वौ पणौ यस्य दण्डस्य स द्विपणः । द्विपणः प्रभृतिरा- दिर्यस्य दण्डगणस्यासौ द्विपणप्रभृतिः । स च दण्डगणो द्विपणश्चतुष्पणः षट्प- णोऽष्टपण इत्येवंरूपो न पुनर्द्विपणस्त्रिपणश्चतुष्पणः पञ्चपण इति । कथमिति चेदुच्यते ? अपराधगुरुत्वात्तावत्प्रथमदण्डाद् गुरुतरमुपरितनं दण्डत्रितयमवगम्यते। तत्र चाश्रुतत्रित्वादिसंख्याश्रयणाद्वरं श्रुतिद्विसंख्याया एवाभ्यासाश्रयेण गुरु- त्वसंपादनमिति निरवद्यम् ॥ २२५ ॥ भाषा—बकरी, भेंड़, हरिण जैसे क्षुद्र पशुओं को मारकर रुधिर निकालने, और सींग आदि निर्जीव अंग काटने पर क्रमशः दो, चार, छः और आठ पण दण्ड होता है ॥ २२५ ॥ लिङ्गस्य छेदने मृत्यौ मध्यमो मूल्यमेव च । महापशूनामेतेषु स्थानेषु द्विगुणो दमः ॥ २२६ ॥ किंच, तेषां क्षुद्रपशूनां लिङ्गछेदने मरणे च मध्यमसाहसो दण्डः । स्वामिने च मूल्यं दद्यात् । महापशूनां पुनर्गोगजवाजिप्रभृतीनामेतेषु स्था- नेषु ताडनलोहित³स्रावणादिषु निमित्तेषु पूर्वोक्ताद्दण्डाद् द्विगुणो दण्डो वेदि- तव्यः ॥ २२६ ॥ भाषा—उन क्षुद्र पशुओं का लिङ्ग काटने और उन्हें मार डालने पर मध्यम साहस का दण्ड होता है और पशु का मूल्य भी देना होता है यदि १. अजाविहरिणानां । २. त्रिश्चतुष्पणः । ३. स्रावणादिनिमित्तेषु ।

व्यवहाराध्यायः ३५१ गाय, हाथी, घोड़ा जैसे बड़े पशु हों तो इन स्थानों पर चोट पहुँचाने पर पूर्वोक्त दण्ड से दुगुना दण्ड समझना चाहिए ॥ २२६ ॥ स्थावराभिद्रोहे दण्डमाह- प्ररोहिशाखिनां शाखास्कन्धसर्वविदारणे । उपजीव्यद्रुमाणां च विंशतेर्द्विगुणो दमः ॥ २२७ ॥ प्ररोहा अङ्कुरास्तद्वन्त्यः शाखाः प्ररोहिण्यः; याश्चिन्नाः पुनरुक्षाः प्रतिकाण्डं प्ररोहन्ति ताः शाखा येषां वटादीनां ते प्ररोहिशाखिनः; तेषां शाखाच्छेदने, यतो मूलशाखा निर्गच्छन्ति स स्कन्धः, तस्य छेदने; समूलवृक्षच्छेदने च यथाक्रमं विंशतिपणदण्डादारभ्य पूर्वस्मात्पूर्वस्मादुत्तरोत्तरो दण्डो द्विगुणः । एतदुक्तं भवति-विंशतिपणश्चत्वारिंशत्पणोऽशीतिपण इत्येवं त्रयो दण्डा यथाक्रमं शाखाच्छेदनादिष्वपराधेपु भवन्तीति । अप्ररोहिशाखिनामप्युपजीव्य- वृक्षाणामाम्रादीनां पूर्वोक्तेषु स्थानेषु पूर्वोक्ता एव दण्डाः, अनुपजीव्याप्ररोहि- शाखिषु पुनर्वृत्तेषु कल्प्याः ॥ २२७ ॥ भाषा-कोपलों से युक्त डालों वाले वृक्षों की शाखा और तना या सम्पूर्ण वृक्ष काटने पर यदि वह वृक्ष मनुष्य के जीविका-निर्वाह का साधन (आम आदि का) हो तो क्रमशः बीस, चालीस और अस्सी पण दण्ड लगता है ॥ २२७ ॥ वृक्षविशेषान्प्रत्याह- चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये । जातद्रुमाणां द्विगुणो दमो वृक्षे च विश्रुते ॥ २२८ ॥ चैत्यादिषु जातानां वृक्षाणां शाखाच्छेदनादिषु पूर्वोक्ताद्दण्डाद् द्विगुणः । विश्रुते च पिप्पलपलाशादिके द्विगुणो दण्डः ॥ २२८ ॥ भाषा-धार्मिक स्थान, श्मशान, सीमा, पवित्र स्थान और देवता के मन्दिर में उत्पन्न हुए वृक्ष और पीपल, पलाश आदि के वृक्ष की शाखा आदि काटने पर उपरोक्त दण्ड से दुगुना दण्ड होता है ॥ २२८ ॥ गुल्मादीन्प्रत्याह- गुल्मगुच्छक्षुपलताप्रतानौषधिवीरुधाम् । पूर्वस्मृतार्धदण्डः स्थानेषूक्तेषु कर्तने ॥ २२९ ॥ गुल्मा अनतिदीर्घनिबिडलता मालत्यादयः, गुच्छा अवल्लीरूपाः असरल- प्रायाः कुरण्टकादयः, क्षुपाः करवीरादयः सरलप्रायाः, लता दीर्घायतिन्यो १. पणाद्दण्डादारभ्य । २. दमो वृक्षेऽथ विश्रुते । 'दमा वृक्षं' ।

३५२ याज्ञवल्क्यस्मृतिः द्राक्षातिमुक्ताप्रभृतयः, प्रतानाः काण्डप्ररोहरहिताः १सरलयायिन्यः सारिवाप्रभृ- तयः, ओषध्यः फलपाकावसानाः शालिप्रभृतयः, वीरुधः छिन्ना अपि या विविधं प्ररोहन्ति ताः गुडूचीप्रभृतयः, एतेषां पूर्वोक्तेषु स्थानेषु विकर्तने छेदने पूर्वोक्ताद्दण्डादर्धदण्डो वेदितव्यः ॥ २२९ ॥ भाषा—गुल्म मालती जैसी ( छोटी और घनी लताएँ ), गुच्छ ( कुरण्टक जैसी लपटाने वाली लता ), द्रुप ( करवीर जैसी सीधी लता ), द्राक्षा जैसी बढ़ी लता, सीधी चलने वाली सारिवा आदि लताएँ, शालि आदि ओषधियों और गुडूची आदि विरधों को पूर्वोक्त स्थानों पर काटने का दण्ड उपरोक्त दण्ड से आधा होता है ॥ २२९ ॥ इति दण्डपारुष्यप्रकरणम् । अथ साहसप्रकरणम् २० संप्रति साहसं नाम विवादपदं व्याचिख्यासुस्तल्लक्षणं तावदाह— सामान्यद्रव्यप्रसभहरणात्साहसं स्मृतम् । सामान्यस्य साधारणस्य ३यथेष्टविनियोगानर्हत्वाँविशेषेण परकीयस्य द्रव्य- स्यापहरणं साहसम् । कुतः ? प्रसभहरणात् प्रसह्य हरणात्, बलावष्टम्भेन हरणादिति यावत् ॥ एतदुक्तं भवति—राजदण्डं जनाक्रोशं चोल्लङ्घ्य राजपुरुषे- तरजनसमक्षं यत्किंचिन्मारणहरणपरदारप्रधर्षणादिकं क्रियते तत्सर्वं साहसमिति साहस लक्षणम् । अतः साधारणधनपरधनयोर्हरणस्यापि बलावष्टम्भेन क्रियमाण- त्वात्साहसत्वमिति । नारदेनापि साहसस्य स्वरूपं विवृतम् (१।१४)—‘सहसा क्रियते कर्म यत्किंचिद्बलदर्पितैः । तत्साहसमिति प्रोक्तं सहो बलमिहोच्यते ॥’ इति । तदिदं साहसं चौर्यवाग्दण्डपारुष्यस्त्रीसंग्रहणेषु व्यासक्तमपि बलदर्पा- वष्टम्भोपाधितो भिद्यते इति दण्डातिरेकार्थं पृथगभिधानम् । तस्य च दण्डवै- चित्र्यप्रतिपादनार्थं प्रथमादिभेदेन त्रैविध्यमभिधाय तल्लक्षणं तेनैव विवृतम् ( १४।३-९ )—‘तत्पुनस्त्रिविधं ज्ञेयं प्रथमं मध्यमं तथा । उत्तमं चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक् ॥ फलमूलोदकादीनां क्षेत्रोपकरणस्य च । भङ्गाक्षेपोप- मर्दाद्यैः प्रथमं साहसं स्मृतम् ॥ वासःपश्वन्नपानानां गृहोपकरणस्य च । एतेनैव प्रकारेण मध्यमं साहसं स्मृतम् ॥ व्यापादो विषशस्त्राद्यैः परदाराभिमर्शनम् । प्राणोपरोधि यच्चान्यदुक्तमुत्तमसाहसम् ॥ तस्य दण्डः क्रियापेक्षः प्रथमस्य १. शिखायायिन्यः । २. हरणं साहसं । ३. यथेष्टविनियोग । ४. त्वाद्द्विशेषेण । ५. पाचिना भिद्यते ।

व्यवहाराध्यायः ३५३ शतावरः । मध्यमस्य तु शास्त्रज्ञैर्दृष्टः पञ्चशतावरः ॥ उत्तमे साहसे दण्डः सहस्रावर इष्यते । वधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने । तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसे ॥' इति ॥ वधादयश्चापराधतारतम्यादुत्तमसाहसे समस्ता व्यस्ता वा योज्याः ॥ तत्र परद्रव्यापहरणरूपे साहसे दण्डमाह— तन्मूल्याद् द्विगुणो दण्डो निह्नवे तु चतुर्गुणः ॥ २३० ॥ तस्यापहृतद्रव्यस्य मूल्यात् द्विगुणो दण्डः । यः पुनः साहसं कृत्वा 'नाहमकार्षम्' इति निह्नुते तस्य मूल्याच्चतुर्गुणो दण्डो भवति । एतस्मा- देव विशेषदण्डविधानात्प्रथमसाहसादि सामान्यदण्डविधानमपहारव्यतिरिक्तविषयं ज्ञायते ॥ २३० ॥ भाषा—सामान्य वस्तु के बलपूर्वक अपहरण को साहस कहते हैं। उसके लिए उस वस्तु के मूल्य का दुगुना दण्ड होता है और अपराध अस्वीकार करने पर उसका चौगुना दण्ड होता है ॥ २३० ॥ साहसिकस्य प्रयोजयितारं प्रत्याह— यः साहसं कारयति स दाप्यो द्विगुणं दमम् । यश्चैवमुक्त्वाऽहं दाता कारयेत्स चतुर्गुणम् ॥ २३१ ॥ यस्तु 'साहसं कुरु' इत्येवमुक्त्वा कारयत्यसौ साहसिकाइण्डाद् द्विगुणं दण्डे दाप्यः । यः पुनः 'अहं तुभ्यं धनं दास्यामि, त्वं कुरु' इत्येवमुक्त्वा साहसं कारयति स चतुर्गुणं दण्डं दाप्योऽनुबन्धातिशयात् ॥ २३१ ॥ भाषा—जो व्यक्ति साहस कराता है (करने के लिए उकसाता है) उससे साहसिक के दण्ड से दुगुना दण्ड लेना चाहिए और जो ऐसा कहे कि तुम करो जो लगेगा वह मैं दूँगा, उससे उसके चौगुना दण्ड लेवे ॥ २३१ ॥ साहसिकविशेषं प्रत्याह— २अर्ध्याक्षेपातिक्रमकृद् भ्रातृभार्याप्रहारकः । संदिष्टस्याप्रदाता च समुद्रगृहभेदकृत् ॥ २३२ ॥ सामन्तकुलिकादीनामपकारस्य कारकः । पञ्चाशतपणिको दण्ड एषामिति विनिश्चयः ॥ २३३ ॥ अर्ध्यस्यार्हंस्याचार्यादेशक्षेपमाज्ञातिक्रमं च यः करोति, यश्च भ्रातृभार्यां ताडयति तथा संदिष्टस्य प्रतिश्रुतस्यार्थस्याप्रदाता यश्च मुद्रितं गृहमुद्घाटयति तथा स्वगृहे क्षेत्रादिसंसक्तगृहक्षेत्रादिस्वामिनां कुलिकानां स्वकुलोद्भवानां १. कुर्वित्येवं वाचैव कारयति । २. अर्ध्याक्रोशाति ।

३५४ याज्ञवल्क्यस्मृतिः 'आदि' ग्रहणात् स्वग्राम्यस्वदेशीयानां च योऽपकर्ता, ते सर्वे पञ्चाशत्पणपरि- मितेन दण्डेन दण्डनीयाः ॥ २३२-२३३ ॥ भाषा—आचार्य आदि अर्घ्य व्यक्तियों को आक्षेप करने वाले, भाई की पत्नी को मारने वाले, सन्देश न कहने वाले, बन्द घर का द्वार तोड़ने वाले, सामन्त (जिसका खेत या घर सटा हुआ हो ऐसे) और अपने कुल में उत्पन्न व्यक्तियों का अपकार करने वाले से पचास पण का दण्ड लिया जाता है; यह निश्चय है ॥ २३२-२३३ ॥ स्वच्छन्दविधवागामी विक्रुष्टेऽनभिधावकः । अकारणे च विक्रोष्टा चण्डालश्चोत्तमांस्पृशेत् ॥ २३४ ॥ ²शूद्रप्रव्रजितानां च दैवे पित्र्ये च भोजकः । अयुक्तं शपथं कुर्वन्नयोग्यो योग्यकर्मकृत् ॥ २३५ ॥ वृषक्षुद्रपशूनां च पुंस्त्वस्य प्रतिघातकृत् । साधारणस्यापलापी दासीगर्भविनाशकृत् ॥ २३६ ॥ पितृ³पुत्रस्वसृभ्रातृदम्पत्याचार्यशिष्यकाः । एषामपतितान्योन्यत्यागी च शतदण्डभाक् ॥ २३७ ॥ किंच, नियोगं विना यः स्वेच्छया विधवा गच्छति, चौरादिभयाकुलै- र्विक्रुष्टे च यः शक्तोऽपि नाभिधावति, यश्च वृथाक्रोशं करोति, यश्च चण्डालो ब्राह्मणादीन्स्पृशति, यश्च शूद्रं ²प्रव्रजितान्दिगम्बरादीन्दैवे पित्र्ये च कर्मणि भोजयति, यश्चायुक्तं 'मातरं ⁴गमिष्यामि' इत्येवं शपथं करोति, तथा यश्च अयोग्य एव शूद्रादियोग्यकर्माध्ययनादि करोति, वृषो बलीवर्दः; क्षुद्रपशवोऽ- जाद्यस्तेषां पुंस्त्वस्य प्रजननशक्तेर्विनाशकः, 'वृक्षक्षुद्रपशूनाम्' इति पाठे हिंस्वाद्यौषधप्रयोगेण वृक्षादेः फलप्रसूनानां पातयिता, साधारणमपलपति साधारणद्रव्यस्य च वञ्चकः, दासीगर्भस्य च पातयिता, ये च पित्रादयोऽ- पतिता एव सन्तोऽन्योन्यं त्यजन्ति, ते सर्वे प्रत्येकं पणशतं दण्डार्हा भवन्ति ॥ २३४-२३७ ॥ भाषा—बिना नियोग के अपनी इच्छा से विधवा स्त्री के साथ संभोग करने वाला, भयातुर व्यक्ति की पुकार सुनकर शक्तिशाली होते हुए भी न दौड़ने वाला, बिना कारण के आर्त्तनाद करने वाला, और ब्राह्मण आदि उच्च वर्गों को छूने वाला चाण्डाल; शूद्र और संन्यासियों को देवयज्ञ एवं श्राद्ध में भोजन देने वाला, झूठी शपथ लेने वाला, और अपने वर्ण के अयोग्य कर्म करने वाला, बैल और बकरा आदि छोटे पशुओं को बधिया करने वाला, १. न्स्पृशन् । २. शूद्रः प्रव्रजितानां ३. पितापुत्र । ४. ग्रहीष्यामीत्येवं ।