भारतकोश
संग्रह पर लौटें

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

व्यवहाराध्यायः ३७१ भाषा—गांव के भीतर किसी का वध होने या किसी की चोरी होने पर यदि हत्यारे या चोर के गांव से बाहर न जाने का संकेत मिले तो ग्रामपाल का ही दोष रहता है। विवीत (सराय) में चोरी आदि हो तो उसके स्वामी का और उससे अन्यत्र मार्ग आदि में चोरी या वध होने पर मार्गपाल का दोष होता है ॥ २७१ ॥ स्वसीम्नि दद्याद् ग्रामस्तु पदं वा यत्र गच्छति । पञ्चग्रामी बहिः क्रोशाद्दशग्राम्यथवा पुनः ॥ २७२ ॥ किंच, यदा पुनर्ग्रामाद्बहिः सीमापर्यन्ते क्षेत्रे मोषादिकं भवति तदा तद्ग्राम- वासिन एव दद्युः, – यदि सीम्नो बहिborderपदं न निर्गतम् । निर्गते पुनर्यत्र ग्रामादिके चौरपदं प्रविशति स एव चौरोर्पणणादिकं कुर्यात् । यदा त्वनेकग्राम- मध्ये क्रोशमात्राद् बहिःप्रदेशे घातितो मुषितो वा चौरपदं च जनसंमर्दादिना भग्नं, तदा पञ्चानां ग्रामाणां समाहारः पञ्चग्रामी दशग्रामसमाहारो$^२$ दशग्रामी वा दद्यात् । विकल्पवचनं तु यथा तत्प्रत्यासत्त्यपहृतधनप्रत्यर्पणादिकं कुर्यादित्येव- मर्थम् । यदा त्वन्यतोऽपहृतं द्रव्यं दापयितुं न शक्नोति तदा स्वकोशादेव राजा दद्यात् । 'चौरहृतमवजित्य यथास्थानं गमयेत्स्वकोशाद्वा दद्यात्' (२०।४६-४७) इति गौतमस्मरणात् ॥ मुषितामुषितसन्देहे मानुषेण दिव्येन वा निर्णयः कार्यः। 'यदि तस्मिन्दाप्यमाने भवेन्मोषे तु संशयः। मुषितः शपथं दाप्यो बन्धुभिर्वापि साधयेत् ॥' इति वृद्धमनुस्मरणात् ॥ २७२ ॥ भाषा—अपने गांव की सीमा के भीतर चोरी आदि हुई हो तो उसका दण्ड गांव के निवासी देवें अथवा जिस गांव में चोरों के जाने के पदचिह्न दिखाई पड़े उस गांव के लोग देवें। यदि कई गांवों के बीच एक कोश की दूरी पर चोरी आदि की घटना हुई हो तो पांच गाँव या दश गांव मिलकर दण्ड देवे (चोरी आदि की क्षति पूरी करें) ॥ २७२ ॥ अपराधविशेषेण दण्डविशेषमाह— बन्दिग्राहांस्तथा वाजिकुञ्जराणां च हारिणः । प्रसद्यघातिनश्चैव $^३$शूलानारोपयेन्नरान् ॥ २७३ ॥ बन्दिग्राहादीन्बलावष्टम्भेन घातकांश्च नरान्शूलानारोपयेत् । अयं च वध- प्रकारविशेषोपदेशः । ( ९।२८० )—'$^४$कोष्ठागारायुधागारदेवतागारभेदकान् । हस्त्यश्वरथहर्तॄंश्च हन्यादेवाविचारयन् ॥' इति मनुस्मरणात् ॥ २७३ ॥ १. चौर्यार्पणादिकं । २. समाहारोपये दशग्रामी वा । ३. शूल- मारोपये । ४. अग्न्यागारा २४ या०

कार्यौ द्वितीयापराधे करपादैकहीनकौ ॥ २७४ ॥

३७२ याज्ञवल्क्यस्मृतिः भाषा—बलपूर्वक बन्दी को छुड़ाने वाले, घोड़ा और हाथी चुराने वाले और किसी का बलपूर्वक घात करने वाले पुरुषों को शूली पर चढ़ावे ॥२७३॥ उत्क्षेपकग्रन्थिभेदौ करसन्दंशहीनकौ । कार्यौ द्वितीयापराधे करपादैकहीनकौ ॥ २७४ ॥ किंच, वस्त्राद्युत्क्षिपत्यापहरतीत्युत्क्षेपकः, वस्त्रादिबद्धं स्वर्णादिकं विस्रम्भोत्कृत्य वा योऽपहरत्यसौ ग्रन्थिभेदकः, तौ यथाक्रमं करेण सन्दंशसदृशेन तर्जन्याऽङ्गुष्ठेन च हीनौ कार्यौ । द्वितीयापराधे पुनः करश्च पादश्च करपादं, तच्च तदेकं च करपादैकं, तद्धीनं ययोस्तौ करपादैकहीनकौ कार्यौ । उत्क्षेपकग्रन्थिभेदकयो- रेकमेकं करं पादं च छिन्द्यादित्यर्थः । एतदप्युत्तमसाहसप्राप्तियोग्यद्रव्यविषयम् । ‘तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसः’ ( १४।८ ) इति नारदवचनात् ॥ तृतीयापराधे तु वध एव । तथा च मनुः ( ९।२७७ )—‘अङ्गुलीग्रन्थिभेदस्य छेदयेत्प्रथमे ग्रहे । द्वितीये हस्तचरणौ तृतीये वधमर्हति ॥’ इति । जातिद्रव्य- परिमाणतो मूल्याद्यनुसारतो दण्डः कल्पनीय इति ॥ २७४ ॥ भाषा—उत्क्षेपक (वस्त्र आदि चुराने वाले उचक्का) और ग्रन्थिभेद (गिरहकट के क्रमशः हाथ और संदंश ( तर्जनी एवं अंगूठा ) काट लेना चाहिए। दुबारा अपराध में उसका एक हाथ और एक पैर भी काट देना चाहिए ॥ २७४ ॥ जातिद्रव्यपरिमाणपरिग्रहविनियोगवयःशक्तिगुणदेशकालादीनां दण्डगुरुलघु- भावकारणानामानन्त्यात्प्रतिद्रव्यं वक्तुमशक्तेः सामान्येन दण्डकल्पनोपायमाह— क्षुद्रमध्यमहाद्रव्यहरणे सारतो दमः । देशकालवयःशक्ति संचिन्त्यं दण्डकर्मणि ॥ २७५ ॥ क्षुद्राणां मध्यमानामुत्तमानां च द्रव्याणां हरणे सारतो मूल्याद्यनुसारतो दण्डः कल्पनीयः । क्षुद्रादिद्रव्यस्वरूपं च नारदेनोक्तम् । ( १४।१४-१६ ) ‘मृद्भाण्डासनखट्वास्थिदारुचर्मतृणादि यत् । शमीधान्यं कृतान्नं च क्षुद्रं द्रव्य- मुदाहृतम् ॥ वासः कौशेयवर्ज्यं च गोवर्ज्यं पशवस्तथा । हिरण्यवर्ज्यं लोहं च मध्यं व्रीहियवा अपि ॥ • हिरण्यरत्नकौशेयस्त्रीपुङ्भोगजवाजिनः । देवब्राह्मणराज्ञां च द्रव्यं विज्ञेयमुत्तमम् ॥’ त्रिप्रकारेष्वपि द्रव्येष्वौत्सर्गिकः प्रथममध्यमोत्तम- साहसरूपो दण्डनियमस्तेनैव दर्शितः ( १४।२१ )—‘साहसेषु य एवोक्तस्त्रिषु दण्डो मनीषिभिः । स एव दण्डः स्तेयेऽपि द्रव्येषु त्रिष्वनुक्रमात् ॥’ इति ॥ मृन्मयेषु मणिकमल्लिकादिषु गोर्वाजिंव्यतिरिक्तेषु च महिषमेषादिपशुषु ब्राह्मण- संबन्धिषु च कनकधान्यादिषु तारतमभावोऽस्तीति उच्चावचदण्डविशेषाकाङ्क्षायां १. हस्तपादौ तु । २. गोव्यतिरिक्तेषु । ३. तारतम्यभावोऽस्तीति ।

व्यवहाराध्यायः ३७३ मूल्याद्यनुसारेण दण्डः कल्पनीयः । तत्र च दण्डकर्मणि दण्डकल्पनायां तद्धेतुभूतं देशकालवयःशक्तीति सम्यक् चिन्तनीयम् । एतच्च जातिद्रव्यपरिमाणपरिग्रहा- दीनामुपलक्षणम् । तथा हि-'अष्टापाद्यं स्तेयकिल्बिषं शूद्रस्य द्विगुणोत्तराणीतरेषां प्रतिवर्णं विदुषोऽतिक्रमे दण्डभूयस्त्वम्' इति । अयमर्थः-'किल्बिष'शब्देनात्र दण्डो लक्ष्यते । यस्मिन्नपहारे यो दण्ड उक्तः स विद्वच्छूद्रकर्तृकेऽपहारेऽष्टगुण आपादनीयः । इतरेषां पुनर्विट्क्षत्रब्राह्मणादीनां विदुषां स्तेये द्विगुणोत्तराणि किल्बिषाणि षोडशद्वात्रिंशच्चतुःषष्टिगुणा दण्डा आपादनीयाः । यस्माद्विद्वच्छू- द्रादिककर्तृकेष्वपहारेषु दण्डभूयस्त्वम् । मनुनाप्ययमेवार्थो दर्शितः ( ८।३३७- ३३८)-'अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्विषम् । षोडशैव तु वैश्यस्य द्वात्रिंशत्क्षत्रियस्य तु ॥ ब्राह्मणस्य चतुःषष्टिः पूर्णं वापि शतं भवेत् । द्विगुणा वा चतुःषष्टिस्तद्दोषगुणवेदिनः ॥' इति ॥ तथा परिमाणकृतमपि दण्डगुरुत्वं दृश्यते । तथाह मनुः ( ८।३२०)-'धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः । शेषेष्वेकादशगुणं दाप्यस्तस्य च तद्धनम् ॥' इति ॥ विंशतिद्रोणकः कुम्भः । हर्तुर्ह्रियमाणस्वामिगुणापेक्षया सुभिक्षदुर्भिक्षकालाद्यपेक्षया वा ताडना- ङ्गच्छेदनवधरूपा दण्डा योज्याः ॥ तथा संख्याविशेषादपि दण्डविशेषो रत्नादिषु । ( मनुः ८।३२१।३२२)-'सुवर्णरजतादीनामुत्तमानां च वाससाम् । रत्नानां चैव सर्वेषां शतादभ्यधिके वधः ॥ पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते । शेषेष्वेकादशगुणं मूल्याद्दण्डं प्रकल्पयेत् ॥' इति ॥ तथा द्रव्यविशेषादपि ( ८।३२३)-'पुरुषाणां कुलीनानां नारीणां वा विशेषतः । रत्नानां चैव सर्वेषां हरणे वधमर्हति ॥' अकुलीनानां तु दण्डान्तरम् - 'पुरुषं हरतो दण्डः प्रोक्त उत्तमसाहसः । स्त्र्यपराधे तु सर्वस्वं कन्यां तु हरतो वधः ॥' इति ॥ क्षुद्रद्रव्याणां तु माषतो न्यूनमूल्यानां दमः; 'काष्ठभाण्डतृणादीनां मृन्मयानां तथैव च ॥ वेणुवैणवभाण्डानां तथा स्नाव्वस्थिचर्मणाम् ॥ शाकानामार्द्रमूलानां हरणे फलमूलयोः । गोरसेक्षुविकाराणां तथा लवणतैलयोः ॥ पक्वान्नानां कृतान्नानां मत्स्यानामौषधस्य च । सर्वेषामल्पमूल्यानां मूल्यादष्टगुणो दमः ॥' ( २२।४ ) इति नारदस्मरणात् ॥ यः पुनः प्रथमसाहसः क्षुद्रद्रव्येषु शतावरः पञ्चाशत्पर्यन्तोऽसौ माषमूल्ये तदधिकमूल्ये वा यथायोग्यं व्यवस्थापनीयः ॥ यत्तु पुनर्मानवं क्षुद्रद्रव्यगोचरवचनं-'तन्मूल्याद् द्विगुणो दमः' इति, तदल्पप्रयो- जनशरावादिविषयम् । तथापराधगुरुत्वादपि दण्डगुरुत्वम् । यथा-'संधि भित्त्वा तु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः । तेषां छित्त्वा नृपो हस्तौ तीक्ष्णशूले निवेशयेत् ॥' ( ८।३७६ ) इत्येवं सर्वेषामानन्त्यात्प्रतिद्रव्यं वक्तुमशक्येऽति-


१. मत्स्यानामौषधस्य च । सर्वेषामल्पमूल्यानां ।

[Page Header: ३७४ याज्ञवल्क्यस्मृतिः]

परिमाणादिभिः कारणैर्दण्डगुरुलघुभावः कल्पनीयः। पथिकादीनां पुनरल्पा- पहारे न दण्डः। यथाह मनुः (८।३४१)-'द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वे च मूलके। आददानः परक्षेत्रान्न दण्डं दातुमर्हति ॥', तथा-'चणकव्रीहि- गोधूमयवानां मुद्गमाषयोः। अनिषिद्धैर्ग्रहीतव्यो मुष्टिरेकः पथि स्थितैः ॥ तथैव सप्तमे भक्तं भक्तानि षडनश्नता। अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥' इति ॥ २७५ ॥ भाषा-छोटी, मध्यम आकार या मूल्य की और बड़ी वस्तु की चोरी में देश, काल, आयु और शक्ति को ध्यान में रखते हुए चोरी की वस्तु के मूल्य के अनुसार दण्ड निर्धारित करे ॥ २७५ ॥ अचौरस्यापि चौरोपकारिणो दण्डमाह- भक्तावकाशाग्न्युदकमन्त्रोपकरणव्ययान् । दत्त्वा चौरस्य वा हन्तुर्जानतो दम उत्तमः ॥ २७६ ॥ भक्तमशनम्, अवकाशो निवासस्थानम्, अग्निश्चौरस्य शीतापनोदार्थः, उदकं तृषितस्य, मन्त्रश्चौर्यप्रकारोपदेशः, उपकरणं चौर्यसाधनम्, व्ययः अपहा- रार्थम् देशान्तरं गच्छतः पाथेयम्, एतानि चौरस्य, हन्तुर्वा दुष्टत्वं जानन्नपि यः प्रयच्छति तस्योत्तमसाहसो दण्डः। चौरोपेक्षिणामपि दोषः-'शक्ताश्च य उपेक्षन्ते तेऽपि तद्दोषभागिनः ।' (१४।१९) इति नारदस्मरणात् ॥ २७६ ॥ भाषा-जो व्यक्ति चोर या हत्यारे को उसका पापकर्म जानते हुए भी भोजन, निवासस्थान, अग्नि, पीने के लिए जल, (चोरी की विधि की) सलाह, चोरी के साधनभूत उपकरण और चोरी के लिये कहीं जाते समय मार्ग-व्यय देता है उसे उत्तम साहस का दण्ड होता है ॥ २७६ ॥ शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः। उत्तमो वाऽधमो वापि पुरुषस्त्रीप्रमापणे ॥ २७७ ॥ किंच परगात्रेषु शस्त्रास्यावपातने दासीब्राह्मणगर्भव्यतिरेकेण गर्भस्य पातने चोत्तमो दमो दण्डः। दासीगर्भनिपातने तु 'दासीगर्भविनाशकृत्' (व्य. २३६) इत्यादिना शतदण्डोऽभिहितः। ब्राह्मणगर्भविनाशे तु 'हत्वा गर्भमविज्ञातम्' इत्यत्र ब्रह्महत्यातिदेशं वक्ष्यति। पुरुषस्य प्रमापणे स्त्रियाश्च शीलवृत्ताद्यपेक्षयोत्तमो वाऽधमो वा दण्डो व्यवस्थितो वेदितव्यः ॥ २७७ ॥ भाषा-किसी के शरीर पर शस्त्र चलाने और गर्भपात करने में उत्तम दण्ड होता है। पुरुष और स्त्री को मारने पर (शील एवं वृत्ति के अनुसार) उत्तम अथवा अधम दण्ड देना चाहिए ॥ २७७ ॥

१. ग्रहीतव्या मुष्टिरेका । २. द्व्ययम् । ३. वक्ष्यते ।

व्यवहाराध्यायः ३७५ विप्रदुष्टां स्त्रियं चैव पुरुषघ्नीमगर्भिणीम् । सेतुभेदकरीं चाप्सु शिलां बद्ध्वा प्रवेशयेत् ॥ २७८ ॥ अपि च, विशेषेण प्रदुष्टा विप्रदुष्टा, भ्रूणघ्नी स्वगर्भपातिनी च । या च पुरुषस्य हन्त्री सेतूनां भेत्त्री च,-एता गर्भरहिताः स्त्रीर्गले शिलां बध्वा भप्सु प्रवेशयेत् यथा न प्लवन्ते ॥ २७८ ॥ भाषा-(गर्भपात करने आदि के कारण) जो स्त्री अत्यन्त दुष्टा हो, और पुरुष की हत्या करने वाली हो, जिसने सेतु (पुल या बांध) तोड़ा हो उसके गर्भवती न होने पर उसके गले में शिला बांधकर पानी में डाल देवे ॥ २७८ ॥ विषाग्निदां पतिगुरुनिजापत्यप्रमापणीम् । विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रमापयेत् ॥ २७९ ॥ किंच, 'अगर्भिणीम्' इत्यनुवर्तते । या च परवधार्थमन्नपानादिषु विषं ददाति क्षिपति । या च दाहार्थं ग्रामादिष्वग्निं ददाति, तथा या च निजपति- गुरुंपत्यानि मारयति तां विच्छिन्नकर्णकरनासौष्ठीं कृत्वा भदान्तैर्दुष्टबलीवर्दैः प्रवाह्य मारयेत् । स्तेयप्रकरणे यदेतत्साहसिकस्य दण्डविधानं तत्प्रासङ्गिकमिति मन्तव्यम् ॥ २७९ ॥ भाषा-जिस स्त्री ने दूसरे को मारने के लिये अन्न में विष दिया हो, घर जलाने के लिए अग्नि दिया हो, जिसने पति, गुरु या अपनी सन्तान का वध किया हो (यदि वह गर्भिणी न हो तो) उसके कान, हाथ, नाक और ओठ काटकर उसे बैलों से मरवा डाले ॥ २७९ ॥ अविज्ञातकर्तृके हनने हन्तृज्ञानोपायमाह- अविज्ञातहतस्याशु कलहं सुतबान्धवाः । प्रष्टव्या योषितश्चास्य परपुंसि रताः पृथक् ॥ २८० ॥ ३अविज्ञातहतस्याविज्ञातपुरुषेण घातितस्य संबन्धिनः, सुताः प्रत्यासन्नबान्ध- वाश्च 'केनास्य कलहो जातः' इति कलहमाशु प्रष्टव्याः । तथा मृतस्य संबन्धिन्त्यो योषितो याश्च परपुंसि रता व्यभिचारिण्यस्ता अपि प्रष्टव्याः ॥ २८० ॥ भाषा-जिस व्यक्ति के हत्यारे का पता न हो उसके पुत्रों और बान्धवों से उसके कलह के विषय में पूछना चाहिए (अर्थात् इस प्रकार पूछना चाहिए कि इस मृत व्यक्ति का किसके साथ बैर था); उसकी व्यभिचारिणी स्त्रियों से भी अलग-अलग पूछना चाहिए ॥ २८० ॥ १. भ्रूणपुरुष । २. प्रवासयेत् । ३. अविज्ञातपुरुषेण ।

३७६ याज्ञवल्क्यस्मृति कथं प्रष्टव्या इत्यत आह— स्त्रीद्रव्यवृत्तिकामो वा केन वाऽयं गतः सह । मृत्युदेशसमासन्नं पृच्छेद्वापि जनं शनैः ॥ २८१ ॥ 'किमयं स्त्रीकामो द्रव्यकामो वृत्तिकामो वा?' तथा 'कस्यां किंवा संबन्धिन्यां वा स्त्रियामस्य रतिरासीत् ?', 'कस्मिन् वा द्रव्ये प्रीतिः ?', 'कुतो वा वृत्तिकामः?', 'केन वा सह देशान्तरं गतः?' इति नानाप्रकारं व्यभिचारिण्यो योषितः पृथ- क्पृथक् विश्वास्य प्रष्टव्याः । तथा मरणदेशनिकटवर्तिनो गोपाऽटविकाद्या ये जनास्तेऽपि विश्वासपूर्वकं प्रष्टव्याः । एवं नानाकारैः प्रश्नैर्हन्तारं निश्चित्य तदुचितो दण्डो विधातव्यः ॥ २८१ ॥ भाषा—यह स्त्री, धन, या वृत्ति किस की अभिलाषा रखता था अथवा किस के साथ गया था, इस प्रकार मृत्यु स्थान के निकटवर्ती मनुष्यों से विश्वास दिलाकर पूछना चाहिए ॥ २८१ ॥ क्षेत्रवेश्मवनग्रामविवीतखलदाहकाः । राजपत्न्यभिगामी च दग्धव्यास्तु कटाग्निना ॥ २८२ ॥ किंच, क्षेत्रं पक्वफलसस्योपेतम् , वेश्म गृहम् , वनमटवीं क्रीडावनं वा, ग्रामम्, विवीतमुक्तलक्षणम् , खलं वा ये दहन्ति, ये च राजपत्नीमभिगच्छन्ति तान्सर्वान्न कटैर्वैरणैर्गमयैर्वेष्टयित्वा दहेत् । क्षेत्रादेर्दाहकानां मारणदण्डप्रसङ्गाद्दण्ड- विधानम् ॥ २८२ ॥ भाषा—किसी दूसरे के खेत, (पकी फसल), घर, वन, (वाटिका) गाँव, बाड़ा और खलिहान को जलाने वाले तथा राजपत्नी के साथ व्यभिचार करने वाले को कट (सरहरी) में लपेटवाकर जला देना चाहिए ॥ २८२ ॥ इति स्तेयप्रकरणम् । अथ स्त्रीसंग्रहणप्रकरणम् २४ स्त्रीसंग्रहणाख्यं विवादपदं व्याख्यायते । प्रथमसाहसादिवण्डप्राप्त्यर्थं त्रेधा तत्स्वरूपं व्यासेन विवृतम् — 'त्रिविधं तत्समाख्यातं प्रथमं मध्यमोत्तमम् । अदे- शकालभाषाभिर्निर्जने च परस्त्रियाः ॥ कटाक्षावेक्षणं हास्यं प्रथमं साहसं स्मृतम्॥ प्रेषणं गन्धमाल्यानां धूपभूषणवाससाम् ॥ प्रलोभनं चान्नपानैर्मध्यमं साहसं स्मृतम् ॥ सहासनं विविक्ते तु परस्परमुपाश्रयः केशाकेशिग्रहश्चैव सम्यक् संग्रहणं स्मृतम् ॥' स्त्रीपुंसयोर्मिथुनीभावः संग्रहणाम् ॥ १. तत्प्रदेश । २. संभावा निर्जने । ३. समुदाहृतम् । ४. मपाश्रयः ।

व्यवहाराध्यायः ३७७ संग्रहणज्ञानपूर्वकत्वात्तत्कर्तुर्दण्डविधानस्य तज्ज्ञानोपायं तावदाह— पुमान्संग्रहणे ग्राह्यः केशाकेशि परस्त्रिया । सद्यो वा कामजैश्चिह्नः प्रतिपत्तौ द्वयोस्तथा ॥ २८३ ॥ संग्रहणे प्रवृत्तः पुमान् केशाकेश्यादिभिर्लिङ्गैर्ज्ञात्वा ग्रहीतव्यः । परस्पर- केशग्रहणपूर्विका क्रीडा केशाकेशि । 'तत्र तेनेदम्' (पा. २।२।२७) इति सरूपे' इति बहुव्रीहौ सति—'इच् कर्मव्यतिहारे' (पा. ५।४।१२७) इति समासान्त इच् प्रत्ययः । अव्ययत्वाच्च लुप्ततृतीयाविभक्तिः । ततश्चायमर्थः—परभार्यया सह केशाकेशिक्रीडनेनाभिनवैः कररुहदशनादिकृतव्रणैः रागकृतैर्लिङ्गैर्द्वयोः संप्रतिपत्त्या वा ज्ञात्वा संग्रहणे प्रवृत्तो ग्रहीतव्यः । 'परस्त्री'ग्रहणं नियुक्तावरुद्धादिब्युदा- सार्थम् ॥ २८३ ॥ भाषा—पराई स्त्री का केश पकड़ कर क्रीडा करने से, तत्काल काम- क्रीडा द्वारा बनाये गये (नखक्षत आदि) चिह्नों से अथवा दोनों की परस्पर प्रकट प्रीति देखकर (व्यभिचार में) प्रवृत्त पुरुष को पकड़े ॥ २८३ ॥ नीवीस्तनप्रावरणसक्थिकेशावमर्शनम् । अदेशकालसंभाषं सहैकासनमेव च ॥ २८४ ॥ किंच, यः पुनः परदारपरिधानग्रन्थिप्रदेशकुचप्रावरणजघनमूर्धरुहादिस्पर्शनं साभिलाष इवाचरति । तथा अदेशे निर्जने जनताकीर्णे वाऽन्धकाराकुले अकाले संलापनं करोति । परभार्यया वा सहैकमञ्चकादौ रिरंसयेवावतिष्ठते यः, सोऽपि संग्रहणे प्रवृत्तो ग्राह्यः । एतच्चाशङ्क्यमानदोषपुरुषविषयम्, इतरस्य तु न दोषः । यथाऽऽह मनुः (८।३५५)—'यस्त्वेवमनावारितः पूर्वमभिभाषेत कार- णात् । न दोषं प्राप्नुयात्किञ्चिन्नहि तस्य व्यतिक्रमः ॥' इति । यः परस्त्रिया स्पृष्टः क्षमतेऽसावपि ग्राह्य इति तेनैवोक्तम् (८।३५८)—स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तथा । परस्परस्यानुमते सर्वं संग्रहणं स्मृतम् ॥' इति । यश्च मयेयं विदग्धाऽसकृद्रमितचरीति श्लाघया भुजंगजनसमक्षं ख्यापयत्यसावपि ग्राह्य इति तेनैवोक्तम् । 'दर्पाद्वा यदि वा मोहाच्छ्लाघया वा स्वयं वदेत् । पूर्वं मयेयं भुक्तेति तच्च संग्रहणं स्मृतम् ॥' (ना० १२।६९) इति ॥ २८४ ॥ भाषा—(पराई स्त्री का) नीवी, चोली या आँचल, जाँघ और केश कामुकता पूर्वक छूने, अनुचित स्थान (एकान्त, भीड़ या अँधेरे) में और अयुक्त समय पर (जैसे रात्रि को) भाषण करने और एक साथ एक आसन पर बैठने वाले पुरुष को पकड़े ॥ २८४ ॥ १. परस्त्रियाः । २. सहैकस्थानमेव ।

प्रतिषिद्धयोः स्त्रीपुंसयोः पुनः सँल्लापादिकरणे दण्डमाह—

३७८ याज्ञवल्क्यस्मृतिः प्रतिषिद्धयोः स्त्रीपुंसयोः पुनः सँल्लापादिकरणे दण्डमाह— स्त्री निषेधे शतं दद्याद् द्विशतं तु दमं पुमान् । प्रतिषेधे तयोर्दण्डो यथा संग्रहरणे तथा ॥ २८५ ॥ प्रतिषिध्यत इति प्रतिषेधः पतिपित्रादिभिर्येन सह संभापणादिकं निषिद्धं तत्र प्रवर्तमाना स्त्री शतपणं दण्डं दद्यात् । पुरुषः पुनरेवं निषिद्धे प्रवर्तमानो द्विशतं दद्यात् । द्वयोस्तु स्त्रीपुंसयोः प्रतिषिद्धे प्रवर्तमानयोः संग्रहरणे संभोगे वर्णानुसारेण यो दण्डो वक्ष्यते स एव विज्ञेयः । एतच्च चारणादिभार्याव्यति- रेकेण । 'नैष चारणदारेषु विधिर्नात्मोपजीविषु । सञ्जयन्ति हि ते नारीं निगूढाश्चारयन्ति च ॥ ( ८।३६२ )—इति मनुस्मरणात् ॥ २८५ ॥ भाषा—पति, पिता भाई आदि ने जिस पुरुष के साथ बोलने के लिये मना किया हो उससे बोलने पर स्त्री सौ पण और इसी प्रकार का निषेध किये जाने पर भी किसी स्त्री से बोलने या संबन्ध रखने वाले पुरुष से दो सौ दण्ड दे । दोनों को वर्जित किया गया हो तो उन्हें वही दण्ड होता है जो उपर्युक्त संग्रहण आदि में होता है ॥ २८५ ॥ तमिदानीं संग्रहरणे दण्डमाह— सजातावुत्तमो दण्ड आनुलोम्ये तु मध्यमः । प्रातिलोम्ये वधः पुंसो नार्याः कर्णादिकर्तनम् ॥ २८६ ॥ चतुर्णामपि वर्णानां बलात्कारेण सजातीयगुप्तपरदाराभिगमने साशीतिपण- सहस्रं दण्डनीयः । यदा त्वानुलोम्येन हीनवर्णां स्त्रियमगुप्तामभिगच्छति, तदा मध्यमसाहसं दण्डनीयः । यदा पुनः सवर्णामगुप्तामानुलोम्येन गुप्तां वा व्रजति तदा मानवे विशेष उक्तः ( ८।३७८-३८३ )—'सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद् व्रजन् । शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह संगतः ॥' तथा— 'सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् । शूद्रायां क्षत्रियविशोः सहस्रं तु भवेद्दमः ॥' इति ॥ एतच्च गुरुसखिभार्यादिव्यतिरेकेण द्रष्टव्यम् ।—'माता मातृष्वसा श्वश्रूमातुलानी पितृष्वसा । पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥ दुहिताचार्यभार्या च सगोत्रा शरणागता । राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥ आसामन्यतमां गच्छन्गुरुतल्पग उच्यते । शिश्नस्यो- त्कर्तनात्तत्र नान्यो दण्डो विधीयते ॥' ( १२।७३—७५ ) इति नारदस्मर- णात् । प्रातिलोम्ये उत्कृष्टवर्णस्त्रीगमने क्षत्रियादेः पुरुषस्य वधः । एतच्च गुप्ता- विषयम् ; अन्यत्र तु धनदण्डः । 'उभावपि हि तावेव ब्राह्मण्या गुप्तया सह । विप्लुतौ शूद्रवद्दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥ ब्राह्मणीं यद्यगुप्तां तु सेवेतां वैश्यपार्थिवौ । वैश्यं पञ्चशतं कुर्यात्क्षत्रियं तु सहस्रिणम् ॥' ( ८।३७६।३७७ )

व्यवहाराध्यायः ३७९ इति मनुस्मरणात् । शूद्रस्य पुनरगुप्तामुत्कृष्टवर्णां स्त्रियं व्रजतो लिङ्गच्छेदनसर्व- स्वापहारौ; गुप्तां तु व्रजतस्तस्य वधसर्वस्वापहाराविति तेनैवोक्तम् । (मनुः ८।३७४ ) - 'शूद्रो गुप्तमगुप्तं वा द्वैजातं वर्णमावसन् । अंगुसमङ्गसर्वस्वैर्गुप्तं सर्वेण हीयते ॥' इति । नार्याः पुनर्हीनवर्णं व्रजन्त्याः कर्णयोः, 'आदि'ग्रहणात्रा- सादेश्च कर्तनम् । आनुलोम्येन वा सवर्णं वा व्रजन्त्या दण्डः कल्प्यः । अयं च वधाद्युपदेशो राज्ञ एव, तस्यैव पालनाधिकारात्न द्विजातिमात्रस्य । तस्य 'ब्राह्मणः परीक्षार्थमपि शस्त्रं नाददीत' इति शस्त्रग्रहणनिषेधात् । यदा तु राज्ञो निवेदनेन कालविलम्बनेन कार्यातिपाताशङ्का तदा स्वयमेव जारादीन्हन्यात् । (मनुः ८।३४८ )- 'शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते' । तथा (मनुः ८।३५१ ) - 'नाततायिवधे दोषो हन्तुर्भवति कश्चन । प्रकाशं वाऽप्रकाशं वा मन्युस्तं मन्युमृच्छति ॥' इति शस्त्रग्रहणमभ्यनुज्ञानाच्च । तथा क्षत्रियवैश्ययो- रन्योन्यस्त्र्यभिगमने यथाक्रमं सहस्र-पञ्चशतपणत्मकौ दण्डौ वेदितव्यौ । तदाह मनुः ( ८।३८२ ) - 'वैश्यश्चेत्क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् । यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमर्हतः ॥' इति ॥ २८६ ॥ भाषा-सजातीय परायी स्त्री से व्यभिचार करने पर उत्तम साहस का, वर्ण की अनुलोमता होने पर अर्थात् अपने से छोटी जाति का स्त्री से व्यभिचार करने पर मध्यम साहस का दण्ड होता है। वर्ण की प्रतिलोमता पर (अपने से उच्च जाति की स्त्री के साथ व्यभिचार करने पर) दोषी पुरुष का वध कर देना चाहिए और (अपने से नीच वर्ण के पुरुष के साथ व्यभिचार- रत) स्त्रियों का कान आदि काट लेना चाहिए ॥ २८६ ॥ पारदार्यप्रसङ्गात्कन्यायामपि दण्डमाह- अलंकृतां हरेत्कन्यामुत्तमं ³ह्यन्यथाऽधमम् । दण्डं दद्यात्सवर्णासु प्रातिलोम्ये वधः स्मृतः ॥ २८७ ॥ विवाहाभिमुखीभूतामलंकृतां सवर्णां कन्यामपहरन्नुत्तमसाहसं दण्डनीयः । तदनभिमुखीं सवर्णां हरन्प्रथमसाहसम् । उत्कृष्टवर्णजां कन्यामपहरतः पुनः क्षत्रियादेर्वध एव । दण्डविधानाच्चापहर्तृसकाशादाच्छिद्यान्यस्मै देयेति गम्यते ॥ २८७ ॥ भाषा-जिस का विवाह होने वाला हो उस आभूषणों से युक्त सवर्णा कन्या का अपहरण करने वाले को उत्तम साहस का दण्ड होता है; अन्यथा (ब्याही जाने वाली कन्या न होने पर) अधम साहस का दण्ड होता है; १. अगुरुमैकाङ्गसर्वस्वैः । २. हरेत्कन्य्याम् । ३. त्वन्यथाऽधमम । ४. सवर्णां तु प्राति ।

३८० याज्ञवल्क्यस्मृतिः उच्च जाति का कन्या का अपहरण करने वाले पुरुष का वध कर देना चाहिए ॥ २८७ ॥ आनुलोम्यापहरणे दण्डमाह— सकामास्वनुलोमासु न दोषस्त्वन्यथो दमः । यदि सानुरागां हीनवर्णां कन्यामपहरति तदा दोषाभावान्न दण्डः । अन्यथा . स्वनिच्छन्तीमपहरतः प्रथमसाहसो दण्डः ॥ कन्यादूषणे दण्डमाह— दूषणे तु करच्छेद उत्तमायां वधस्तथा ॥ २८८ ॥ 'अनुलोमासु' इत्यनुवर्तते । यद्यकामां कन्यां बलात्कारेण नखक्षतादिना दूषयति तदा तस्य करश्छेत्तव्यः । यदा पुनस्तामेवाङ्गुलिप्रक्षेपेण योनिक्षतं कुर्वन्दूषयति तदा मनूक्तषट्शतसहितोऽङ्गुलिच्छेदः । 'अभिसह्य तु यः कन्यां कुर्याद्दर्पेण मानवः । तस्याशु कर्त्ये अङ्गुल्यौ दण्डं चार्हति षट्शतम् ॥' ( मनुः ८।३६७ ) —इति । यदा पुनः सानुरागां पूर्ववद्दूषयति तदाऽपि तेनैव विशेष उक्तः ( मनुः ८।३६८ )—'सकामा दूषयंन्कन्यां नाङ्गुलिच्छेदामर्हति । द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये ।' इति । यदा तु कन्यैव कन्यां दूषयति, विदग्धा वा, तत्रापि विशेषस्तेनैवोक्तः । 'कन्यैव कन्यां या कुर्यात्तस्यास्तु द्विशतो दमः । या तु कन्यां प्रकुर्यात्स्त्री सा सद्यो मौण्ड्यमर्हति ॥ अङ्गुल्योरेव वा च्छेदं खरेणोद्वहनं तथा ॥' ( मनुः ८।३६९)—इति । 'कन्यां कुर्यात्' इति कन्यां योनिक्षतवतीं कुर्यादित्यर्थः ॥ तदा पुनरुत्कृष्टजातीयां कन्यामवि- शेषा³त्सकामासकामाम् वाऽभिगच्छति तदा हीनस्य क्षत्रियादेर्वध एव; 'उत्तमां सेवमानस्तु जघन्यो वधमर्हति' ( ८।३६६)—इति मनुस्मरणात् ॥ यदा सवर्णां सकामामभिगच्छति तदा गोमिथुनं शुल्कं तत्पित्रे दद्यात् , यदिच्छति; पितरि तु शुल्कमनिच्छति दण्डरूपेण तदेव राज्ञे दद्यात् । सवर्णांमकामां तु गच्छतो वध एव; यथाह मनुः ( ८।३६६)—'शुल्कं दद्यात्सेवमानः समामि- च्छेत्पिता यदि' ( ८।३६४)—'योऽकामा दूषयेत्कन्यां स सद्यो वधमर्हति । सकामां दूषयंस्तुल्लो न वधं प्राप्नुयान्नरः ॥' इति ॥ २८८ ॥ भाषा—कन्या का भी प्रेम होने पर और उसके ( पुरुष से ) निम्न जाति की होने पर दोष नहीं होता, अन्यथा ( कन्या का प्रेम न होने पर ) प्रथम साहस का दण्ड होता है; यदि ऐसी ( अर्थात् अपने से हीन जाति की १. स्त्वन्यथाऽधमः ( = प्रथमसाहसः) । २. दूषयंस्तुल्यो । ३. विशेषा- त्सरागामकामां ।

व्यवहाराध्यायः ३८१ और न चाहने वाली) कन्या को बलपूर्वक नखक्षत आदि से दूषित करने पर हाथ काटने और अपने से उच्च वर्ण की अनचाहती कन्या को दूषित करने पर वध का दण्ड होता है ॥ २८८ ॥ शतं स्त्रीदूषणे दद्याद् द्वे तु मिथ्याभिशंसने । पशून्गच्छञ्शतं दाप्यो हीनां स्त्रीं गां च मध्यमम् ॥ २८९ ॥ किंच, 'स्त्री'शब्देनात्र प्रकृतत्वात्कन्याऽवमृश्यते । तस्या यदि कश्चिद्विद्य- मानानेवापस्मारराजयक्ष्मादिदीर्घकुत्सितरोगसंसृष्टमैथुनत्वादिदोषान्प्रकाशय 'इय- मकन्या' इति दूषयति, असौ शतं दाप्यः । मिथ्याऽभिशंसने तु पुनरविद्यमान- दोषाविष्कारेण दूषणे द्वे शते दापनीयः । गोव्यतिरिक्तपशुगमने तु शतं दाप्यः । यः पुनर्हीनां स्त्रियमन्त्यावसायिनीमविशेषात्सकामामक़ामां वा गां चाभिगच्छ- त्यसौ मध्यमसाहसं दण्डनीयः ॥ २८९ ॥ भाषा—किसी कन्या का वास्तविक दोष भी प्रकाशित करने पर सौ पण और उस पर झूठा दोष लगाने पर दो सौ पण दण्ड दे । पशु मैथुन करने वाले से सौ पण दण्ड ले और हीन स्त्री एवं गाय में मैथुन करने वाले को मध्यम साहस का दण्ड होता है ॥ २८९ ॥ साधारणस्त्रीगमने दण्डमाह— अवरुद्धासु दासीषु भुजिष्यासु तथैव च । गम्यास्वपि पुमान्दाप्यः पञ्चाशत्पणिकं दमम् ॥ २९० ॥ 'गच्छन्' इत्यनुवर्तते । उक्तलक्षणा वर्णस्त्रियो दास्यः, ता एव स्वामिना शुश्रूषाहानिनिवृ॑दासार्थं गृह एव स्थातव्यमित्येवं पुरुषान्तरपभोगातो निरुद्धा अवरुद्धाः, पुरुषनियतपरिग्रहा भुजिष्याः, यदा दास्योऽवरुद्धा भुजिष्या वा भवेयुस्तदा तासु तथा । 'च'शब्दाद्वेश्यास्वैरिणीनामपि साधारणस्त्रीणां भुजिष्याणां च ग्रहणम् । तासु च सर्वपुरुषसाधारणतया गम्यास्वपि गच्छन् पञ्चाशत्पणं दण्डनीयः, परपरिगृहीतत्वेन तासां परदारतुल्यत्वात् । एतच्च स्पष्टमुक्तं नारदेन ( १२।७८।७९ )—'स्वैरिण्यब्राह्मणी वेश्या दासी निष्कासिनी च या । गम्याः स्युरानुलोम्येन स्त्रियो न प्रतिलोमतः ॥ आस्वेव तु भुजिष्यासु दोषः स्यात्परदारवत् । गम्यास्वपि हि नोपेयाद्य³तस्ताः सपरिग्रहाः ॥' इति ॥ निष्कासिनी स्वाम्यनवरुद्धा दासी । ननु च स्वैरिण्यादीनां साधारणतया गम्यत्वाभिधानमुक्तम् । नहि जातितः शास्त्रतो वा काश्चन लोके साधारणाः

१. मिथ्याभिशंसिते; । मिथ्याभिशंसिता । २. पशुं गच्छञ्शतं दाप्यो हीनस्त्रीं गां । ३. यतस्ताः परपरिग्रहाः ।

३८२ याज्ञवल्क्यस्मृतिः

स्त्रिय उपलभ्यन्ते । तथा हि-स्वैरिण्यो दास्यश्च तावद्वर्णस्त्रिय एव; ‘स्वैरिणी या पतिं हित्वा सवर्णं कामतः श्रयेत् । वर्णानामानुलोम्येन दास्यं न प्रति- लोमतः ॥’ इति मनुस्मरणात् ॥ नच वर्णस्त्रीणां पत्यौ जीवति मृते वा पुरुषा- न्तरोपभोगो घटते; ‘दुःशीलः कामवृत्तो वा गुणैर्वा परिवर्जितः । परिचार्यः स्त्रिया साध्व्या सततं देववत्पतिः ॥ कामं तु क्षपयेद्देहं पुष्पमूलफलैः शुभैः । न तु नामापि गृह्णीयात्पत्यौ प्रेते परस्य तु ॥’ ( मनुः ५।१५४-१५७ )—इति निषेधस्मरणात् ॥ नापि कन्यावस्थायाः साधारणत्वम् । पित्रादिपरिरक्षितायाः कन्याया एव दानोपदेशात् । दात्रभावेऽपि तथाविधाया एव स्वयंवरोपदेशात् । न च दासी भावात्स्वधर्माधिकारच्युतिः । पारतन्त्र्यं हि दास्यम् , न स्वधर्म- परित्यागः । नापि वेश्या साधारणी; वर्णानुलोमजन्यव्यतिरेकेण गञ्यजात्यन्तरा- संभवात् । तदन्तःपातित्वे च पूर्ववदेवागम्यत्वम् ; प्रतिलोमजत्वे तु तासां नितरामगम्यत्वम् । अतः पुरुषान्तरोपभोगे तासां निन्दितकर्माभ्यासेन पातित्यात् , पतितसंसर्गस्य निषिद्धत्वाच्च न सकलपुरुषोपभोगयोग्यत्वम् । सत्य- मेवम् । किं त्वत्र स्वैरिण्याद्युपभोगे पित्रादिरक्षकरा जदण्डभयादिदृष्टदोषाभावाद्व- म्यत्ववाचोयुक्तिः । दण्डाभावश्चावरुद्धासु दासीष्विति नियतपुरुषपरिग्रहोपाधितो दण्डविधानात्तदुपाधिरहितास्वर्थादवगम्यते । स्वैरिण्यादीनां पुनर्दण्डाभावो विधानाभावात् ॥ ‘कन्यां भजन्तीमुत्कृष्टों न किंचिदपि दापयेत् ॥’ इति लिङ्गनिदर्शनाच्चावगम्यते । प्रायश्चित्तं तु स्वधर्मस्खलननिमित्तं गम्यानां गन्तॄणां चाविशेषाद्भवत्येव । यत्पुनर्वेश्यानां जात्यन्तरासंभवेन वर्णान्तःपातित्वमनुमा- नादुक्तम्—‘वेश्या वर्णानुलोमाद्यन्तःपातिन्यः; मनुष्यजात्याश्रयत्वात् , ब्राह्मणा- दिवत्’ इति । तन्न; कुण्डगोलकादिभिरनैकान्तिकत्वात् । अतो वेश्याख्या काचि- ज्जातिरनादिर्वेश्यायामुत्कृष्टजातेः समानजातेर्वा पुरुषादुत्पन्नापुरुषसंभोगवृत्ति- र्वेश्येति ब्राह्मण्यादिवल्लोकप्रसिद्धिबलादभ्युपगैमनीयम् । नच निर्मूलैयं प्रसि- द्धिः । स्मर्यते हि स्कन्दपुराणे—‘पञ्चचूडा नाम काश्चनाप्सरसः, तत्सन्तति- र्वेश्याख्या पञ्चमी जातिः’ इति । अतस्तासां नियतपुरुषपरिणयनविधिविधुर- तया समानोत्कृष्टजातिपुरुषाभिगमने नादृष्टदोषो नापि दण्डः । तासु चानवरुद्धासु गच्छतां पुरुषाणां यद्यपि न दण्डस्तथाऽप्यदृष्टदोषोऽस्त्येव । ‘स्वदारनिरतः सदा’ ( ३।४५ ) इति नियमात् ।—‘पशुवेश्याभिगमने प्राजापत्यं विधीयते’ इति प्रायश्चित्तस्मरणाच्चेति निरवद्यम् ॥ २९० ॥ भाषा—यदि कोई पुरुष दूसरे की अवरुद्धा ( केवल स्वामी की सेवा के लिए रखी गई, जिसे घर से बाहर निकलना मना हो ) दासी और भुजिष्या

१. स्वार्थाद्गम्यते । २. मुत्कृष्टं । ३. उपगमनीया ।

(अर्थात् किसी विशेष पुरुष को सौंपी गई) दासी से संभोग करे तो उस दासी के गम्य होने पर भी पुरुष को पचास पण दण्ड लेवे ॥ २९० ॥ ‘अवरुद्धासु दासीषु’ (व्य० २९०) इत्यनेन दासीस्वैरिण्यादिभुजिष्याभि- गमने दण्डं विदधतस्तत्स्वभुजिष्यासु दण्डो नास्तीत्यर्थादुक्तं तस्यापवादमाह— प्रसह्म दास्यभिगमे दण्डो दशपणः स्मृतः । बहूनां यद्यकामाऽसौ चतुर्विंशतिकः पृथक् ॥ २९१ ॥¹ पुरुषसंभोगजीविकासु दासीषु स्वैरिण्यादिषु शुल्कदानविरहेण प्रसह्म बला- त्कारेणाभिगच्छतो दशपणो दण्डः । यदि बहव ²एकामनिच्छन्तीमपि बलात्कारेणाभिगच्छन्ति तर्हि प्रत्येकं चतुर्विंशतिपणपरिमितं दण्डं दण्डनीयाः । यदा पुनस्तदिच्छया भृतिं दत्त्वा पश्चादनिच्छन्तीमपि बलाद्व्रजन्ति तदा तेषाम- दोषः; यदि व्याध्याद्यभिभवस्तस्या न स्यात्ः ‘व्यथिता सश्रमा व्यग्रा राजकर्मपरायणा । आमन्त्रिता चेन्नागच्छेद्दण्ड्या वडवा स्मृता ॥’ इति नारदवचनात् ॥ २९१ ॥ भाषा—(पुरुष संभोग से जीविका चलाने वाली स्वैरिणी) दासियों से बलपूर्वक (बिना धन दिये ही) संभोग करने का दण्ड दस पण कहा गया है। यदि अनेक पुरुष मिलकर न चाहने वाली स्वैरिणी दासी के साथ बलात्कार करें तो उनमें से प्रत्येक से चौबीस पण दण्ड लेवे ॥ २९१ ॥ गृहीतवेतना वेश्या नेच्छन्ती द्विगुणं वहेत् । अगृहीते समं दाप्यः पुमानप्येवमेव हि ॥ २९२ ॥ यदा तु शुल्कं गृहीत्वा स्वस्थापि अर्थपतिं नेच्छति तदा द्विगुणं शुल्कं दद्यात् तथा शुल्कं दत्त्वा स्वयमनिच्छतः स्वस्थस्य पुंसः शुल्कहानिरेव । —‘शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विगुणं वहेत् । अनिच्छन्दत्तशुल्कोऽपि शुल्कहानिमवाप्नुयात् ॥’ इति तेनैवोक्तम् । तथाऽन्योऽपि विशेषस्तेनैव दर्शितः—‘अप्रयच्छंस्तथा शुल्कमनुभूय पुमान्स्त्रियम् । अक्रमेण च संगच्छन् ³पाददन्तनखादिभिः ॥ अयोनौ वाऽभिगच्छेद्यो बहुभिर्वाऽपि वासयेत् । शुल्क- मष्टगुणं दाप्यो विनयं तावदेव तु ॥ वेश्याप्रधाना यास्तत्र कामुकास्तद्गृहो- षिताः । तत्समुत्थेषु कार्येषु निर्णयं संशये विदुः ॥’ इति ॥ २९२ ॥ भाषा—शुल्क लेकर (और स्वस्थ होने पर भी) शुल्क देने वाले पुरुष से संभोग की इच्छा न रखने वाली वेश्या शुल्क का दूना धन देवे। १. अयोनौ गच्छतो...चाधिमेहतः...॥ २९२ ॥ २. मनभिलषन्तीं । ३. घातदन्तनखा ।

३८४ याज्ञवल्क्यस्मृतिः बिना शुल्क लिये ही संभोग की स्वीकृति देने के बाद नट जाने वाली वेश्या शुल्क के बराबर धन दे । इसी प्रकार का दण्ड वेश्या के समीप गये हुए पुरुष के विषय में भी होता है । ( यदि शुल्क देने के बाद स्वस्थ होने पर भी संभोग न करे तो फिर शुल्क वापस लेने का अधिकारी नहीं होता ) ॥२९२॥ अयोनौ गच्छतो योषां पुरुषं वोऽभिमेहतः । चतुर्विंशतिको दण्डस्तथा प्रव्रजितागमे ॥ २९३ ॥ किंच, यैस्तु स्वयोषां मुखादावभिगच्छति पुरुषं वाऽभिमुखो मेहति तथा प्रव्रजितां वा गच्छत्यसौ चतुर्विंशतिपणान्दण्डनीयः ॥ २९३ ॥ भाषा—स्त्री की योनि को छोड़ कर उसके मुख आदि किसी अन्य अंग में मैथुन करने वाले, पुरुष के समक्ष रति करने वाले और प्रव्रजिता (संन्यासिनी) का संभोग करने वाले पुरुष को चौबीस पण दण्ड लगता है ॥ २९३ ॥ अन्त्याभिगमने ⁴त्वङ्क्यः कुबन्धेन प्रवासयेत् । शूद्रस्तथार्थाऽन्त्य एव स्यादन्त्यस्यार्यागमे वधः ॥ २९४ ॥ किंच, अन्त्या चाण्डाली तद्गमने त्रैवर्णिकान्प्रायश्चित्तानभिमुखान् 'सहस्रं त्वन्त्यजस्त्रियम्' ( ८।३८५ ) इति मनुवचनात्पणसहस्रं दण्डयित्वा कुबन्धेन कुत्सितबन्धेन भगाकारेणाङ्कयित्वा स्वराष्ट्रात्रिर्वासयेत् । प्रायश्चित्ताभिमु- खस्य पुनर्दण्डनमेव । शूद्रः पुनश्चाण्डाल्यभिगमनेऽन्त्य एव चाण्डाल एव भवति । अन्त्यजस्य पुनश्चाण्डालादेरुत्कृष्टजातिस्त्र्यभिगमे वध एव ॥ २९४ ॥ भाषा—चाण्डाली से संभोग करने वाले पुरुष को, उसके शरीर पर भग की आकृति दागकर अपने राज्य से निर्वासित कर दे । शूद्र पुरुष ( चाण्डाली संभोग से ) चण्डाल ही हो जाता है और उत्तम जाति की स्त्री से रति करने पर चाण्डाल का वध होता है ॥ २९४ ॥ इति स्त्रीसंग्रहणप्रकरणम् । अथ प्रकीर्णकप्रकरणम् २५ व्यवहारप्रकरणमध्ये स्त्रीपुंसयोगाख्यमप्यपरं विवादपदं मनुनारदाभ्यां विवृ- तम् । तत्र नारदः ( १२।१ )—'विवाहादिविधिः स्त्रीणां यत्र पुंसा च कीर्त्यते । स्त्रीपुंसयोगसंज्ञं तद्विवादपदमुच्यते ॥' इति ॥ मनुरप्याह (९।२)—'अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् । विषयेषु च सज्जन्त्यः संस्थाप्या ह्यात्मनो १. अन्त्याभिगमने ०००॥२९३॥ २. चाभिमेहतः। विद्वान्द्वशपणो दण्डः । ३. स्वेच्छया योषां । ४. स्वाङ्क्य । ५. कबन्धेन । ६. स्तथाऽङ्क्य ।

एव सप्रपञ्चं प्रतिपादितमिति योगीश्वरेण न पुनरत्रोक्तम् ॥

व्यवहाराध्यायः ३८५ वशे ॥'इत्यादि ॥ यद्यपि स्त्रीपुंसयोः परस्परमर्थिप्रत्यर्थितया १'नृपसमक्षं व्यवहारो निषिद्धः, तथापि प्रत्यक्षेण कर्णपरम्परया वा विदिते तयोः परस्परातिचारे दण्डा- दिना दम्पती निजधर्ममार्गे राज्ञा स्थापनीयौ । इतरथा दोषभाग्भवतीति व्यव- हारप्रकरणे राजधर्ममध्येऽस्य स्त्रीपुंसधर्मजातस्योपदेशः । एतच्च विवाहप्रकरण एव सप्रपञ्चं प्रतिपादितमिति योगीश्वरेण न पुनरत्रोक्तम् ॥ सांप्रतं प्रकीर्णकाख्यं व्यवहारपदं प्रस्तूयते । तल्लक्षणं च कथितं नारदेन (१७.१-४)-'प्रकीर्णकेषु २विज्ञेया व्यवहारा नृपाश्रयाः । राज्ञामाज्ञाप्रतीघातस्त- त्कर्मकरणं तथा ॥ पुरःप्रदानं संभेदै३ः प्रकृतीनां तथैव च । पाखण्डिनैगमश्रेणि- गणधर्मविपर्ययाः ॥ पित्रापुत्रविवादश्च प्रायश्चित्तव्यसंक्रमः । प्रतिग्रहविलोपश्च कोपश्चाश्रमिणामपि ॥ वर्णसंकरदोषश्च तद्वृत्तिनियमस्तथा । न दृष्टं यच्च पूर्वेषु सर्वं तत्स्यात्प्रकीर्णके ॥' इति ॥ प्रकीर्णकं विवादपदे ये विवादा राजाज्ञोल्लङ्घन- तदाज्ञाकरणादिविषयास्ते नृपसमवायिनः । नृप एव तत्र स्मृत्याचारव्यपेतमार्गे वर्तमानानां प्रतिकूलतामास्थाय व्यवहारनिर्णयं कुर्यात् ॥ एवं च वदता यो नृपाश्रयो व्यवहारस्तत्प्रकीर्णकमित्यर्थाल्लक्षितं भवति ॥ तत्रापराधविशेषेण दण्डविशेषमाह— ४ऊनं ५वाऽभ्यधिकं ६वाऽपि लिखेद्यो राजशासनम् । पारदारिकचौरै७ वा मुञ्चतो दण्ड उत्तमः ॥ २९५ ॥ राजदत्तभूमेर्निबन्धस्य वा परिमाणान्यूनत्वमाधिक्यं वा प्रकाशयन् राज शासनं योऽभिलिखति, यश्च पारदारिकं चौरं वा गृहीत्वा राज्ञेऽनर्पयित्वा मुञ्चति तावुभावुत्तमसाहसं दण्डनीयौ ॥ २९५ ॥ भाषा—जो राजा की आज्ञा को घटा-बढ़ाकर लिखता है और जो परायी स्त्री से व्यभिचार करने वाले या चोर को पकड़ करके भी छोड़ देता है उसे उत्तम साहस का दण्ड होता है ॥ २९५ ॥ प्रसङ्गान्नृपाश्रयव्यतिरिक्तव्यवहारविषयमपि दण्डमाह— ८अभक्ष्येण द्विजं दूष्यो दण्ड्य उत्तमसाहसम् । मध्यमं क्षत्रियं वैश्यं प्रथमं शूद्रमर्धिकम् ॥ २९६ ॥ १. नृपसमीपं । २. र्णके पुनज्ञेया । ३. भेदश्च । ४. न्यूनं वा । ५. वाऽपि यो लिखेद्वाज । ६. वाऽप्यधि । ७. चौरौ । ८. द्विजं प्रदूष्याभक्ष्येण दण्ड्य उत्तमसाहसम् । क्षत्रियं मध्यमं वैश्यं प्रथमं शूद्रमर्धि- कम् । अभक्ष्यैदूषयन् विप्रं दण्ड उत्तमसाहसम् ।

३८६ याज्ञवल्क्यस्मृतिः मूत्रपुरीषादिना अभक्ष्येण अद्यानर्हेण दूष्यान्नपानादिमिश्रणेन स्वरूपेण वा ब्राह्मणं दूषयित्वा खादयित्वोत्तमसाहसं दण्ड्यो भवति । क्षत्रियं पुनरेवं दूषयित्वा मध्यमम् , वैश्यं दूषयित्वा प्रथमम् , शूद्रं दूषयित्वा प्रथमसाहस- स्यार्धम् , 'दण्ड्यो भवति' इति संबन्धः । लशुनाद्यभक्ष्यदूषणे तु दोषतारत- म्याद्दण्डतारतम्यूहनीयम् ॥ २९६ ॥ भाषा—मूत्र, पुरीष आदि अपवित्र या अभक्ष्य पदार्थ द्वारा ब्राह्मण के अन्न और जल को दूषित करने वाला उत्तम साहस के दण्ड का भागी होता है । क्षत्रिय को इस प्रकार दूषित करने वाला मध्यम साहस के, वैश्य को दूषित करने वाला प्रथम साहस के और शूद्र को इस प्रकार दूषित करने वाला प्रथम साहस के आधा दण्ड के योग्य होता है ॥ २९६ ॥ कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी । त्र्यङ्गहीनस्तु कर्तव्यो दाप्यश्चोत्तमसाहसम् ॥ २९७ ॥ किंच, रसवेधाद्यापादितवर्णोत्कर्षैः कूटैः स्वर्णैर्व्यवहारशीलो यः स्वर्णका- रादिः । यश्च विमांसस्य कुत्सितमांसस्य श्वादिसंबद्धस्य विक्रयशीलः सौनिकादिः, ‘च’शब्दात्कूटरजतादिव्यवहारी च, ते सर्वे प्रत्येकं नासाकर्णकरैस्त्रिभिरङ्गैर्हीनाः कार्याः । 'च'शब्दोस्त्र्यङ्गच्छेदेन समुच्चितमुत्तमसाहसं दण्डं दाप्याः । यत्पुनर्मनु- नोक्तम् ( ९-२९२ )—'सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः । प्रवर्तमान- मन्याये छेदयेल्लवशः क्षुरैः ॥' इति,-तदेतद् देवब्राह्मणराजस्वर्णविषयम् ॥२९७॥ भाषा—कूट स्वर्ण ( सोने का पानी चढ़ाकर बनाये गये खोटे सोने ) का व्यवहार करने वाले और निषिद्ध अर्थात् कुत्ते आदि का मांस बेचने वाले के तीन अंग ( नाक, कान और हाथ ) काट कर उन्हें उत्तम साहस का दण्ड देना चाहिए ॥ २९७ ॥ विषयविशेषे दण्डाभावमाह— चतुष्पादकृतो दोषो नापेहीति प्रजल्पतः । काष्ठलोष्टेषुपाषाणबाहुयुग्यकृतस्तथा ॥ २९८ ॥ चतुष्पादैर्गोजादिभिः कृतो यो दोषो मनुष्यमारणादिरूपोऽसौ गवादि- स्वामिनो न भवति, अपसरेति प्रकर्षेणोच्चैर्भाषमाणस्य । तथा लकुटलोष्टसायक- पाषाणोत्क्षेपणेन बाहुना युग्येन च युगं वहताश्वादिना कृतो यः पूर्वोक्तो दोषः सोऽपि काष्ठादीन्प्रास्यतो न भवत्यपसरेति प्रजल्पतः । काष्ठाद्युत्क्षेपणेन हिंसायां दोषाभावकथनं दण्डाभावप्रतिपादनार्थम् । प्रायश्चित्तं पुनरबुद्धिपूर्वककरणनिमित्त मस्त्येव । काष्ठादिग्रहणं च शक्तितोमरादेरुपलक्षणार्थम् ॥ २९८ ॥ १. द्रव्यरूपेण । २. शब्दवाद्यङ्गच्छेदेन । ३. 'ण बाह्रायुग्य' ।

व्यवहाराध्यायः ३८७ भाषा—'हटो हटो' इस प्रकार चिल्लाकर स्वामी के सावधान करने पर भी यदि चौपाए ( गाय, बैल, हाथी आदि ) कोई दोष करें अर्थात् किसी को मार दें तो स्वामी का दोष नहीं होता; इसी प्रकार हटने के लिये आवाज देते हुए काठ, ढेला, बाण, पत्थर फेंकने से, हाथ चलाने से और रथ में जुते हुए घोड़ों से किसी को चोट लगने पर भी फेंकने, चलाने या हाँकने वाले का दोष नहीं होता ॥ २९८ ॥ छिन्ननस्येन यानेन तथा भग्नयुगादिना । पश्चाच्चैवापसरता हिंसने स्वाम्यदोषभाक् ॥ २९९ ॥ किंच, नसि भवा रज्जुर्नस्या छिन्ना शकटादियुक्तबलीवर्दंनस्या रज्जुर्य- स्मिन्द्याने तत् छिन्ननस्यं शकटादि तेन, तथा भग्नयुगेन 'आदि'ग्रहणाद्भग्ना- क्षचक्रादिना च यानेन पश्चात्पृष्ठतोऽपसरता 'च'शब्दात्तिर्यगपगच्छता प्रतिमुखं वागच्छता च मनुष्यादिहिंसने स्वामी प्राजको वा दोषभाङ् न भवति । अतत्प्र- यत्नजनितत्त्वाद्धिंसनस्य । तथा च मनुः ( ८।२९१।२९२ )—'छिन्ननस्ये भग्नयुगे तिर्यक्प्रतिमुखागते । अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥ छेदने चैव यन्त्राणां योक्त्ररश्म्योस्तथैव च । आक्रन्दे सत्यपैहीति न दण्डं मनुर- ब्रवीत् ॥' इति ॥ २९९ ॥ भाषा—गाड़ी में बैलों को नाँधने के लिए लगी हुई रस्सी ( जोता ) के टूटने पर और जुए आदि के टूटने से तथा यान ( गाड़ी ) के पीछे चलने से किसी मनुष्य आदि की हिंसा हो जाय तो यान का स्वामी दोषी नहीं होता ॥ २९९ ॥ उपेक्षायां स्वामिनो दण्डमाह— शक्तोऽप्यमोक्षयन्स्वामी दंष्ट्रिणां शृङ्गिणां तथा । प्रथमं साहसं दद्याद्विक्रुष्टे द्विगुणं तथा ॥ ३०० ॥ अप्रवीणप्राजकप्रेरितैर्दंष्ट्रिभिर्गजादिभिः शृङ्गिभिर्गवादिभिर्वध्यमानं सम- र्थोऽपि तत्स्वामी यद्यमोक्षयन्नुपेक्षते, तदा अकुशलप्राजकनियोजननिमित्तं प्रथमसाहसं दण्डं दद्यात् । यदा तु 'मारितोऽहम्' इति विक्रुष्टेऽपि न मोक्षयति तदा द्विगुणम् । यदा पुनः प्रवीणमेव प्राजकं प्रेरयति तदा प्राजक एव दण्ड्यो न स्वामी । यथाह मनुः ( ८।२९४ )—'प्राजकश्चेद्भवेदाप्तः प्राजको दण्डमर्हति' इति ॥ प्राजको यन्ता । आप्तोऽभियुक्तः । प्राणिविशेषाच्च दण्डविशेषः कल्पनीयः । यथाह मनुः ( ८।२९६-९८ )—'मनुष्यमारणे क्षिप्रं चौरवत्किल्बिषी भवेत् । १. तिर्यगपसरता । २. आक्रन्दनेप्यपैहीति । २५ या०

३८८ याज्ञवल्क्यस्मृतिः प्राणभृत्सु महस्त्वर्धं गोगजोष्ट्रहयादिषु ॥ क्षुद्राणां च पशूनां तु हिंसायां द्विशतो दमः । पञ्चाशत्तु भवेद्दण्डः शुभेषु मृगपक्षिषु ॥ गर्दभाजाविकानां तु दण्डः स्यात्पञ्चमाषकः । माषकस्तु भवेद्दण्डः श्वशूकरनिपातने ॥' इति ॥ ३०० ॥ भाषा—दाँत वाले (हाथी आदि) और सींग वाले (बैल आदि) पशुओं का स्वामी यदि समर्थ होते हुए भी इनके आक्रमण से किसी को न छुड़ावे तो उसे प्रथम साहस का दण्ड होता है और यदि उस व्यक्ति के (जिसे पशु मार रहा हो) रक्षा के लिये चिल्लाने पर भी नहीं बचाता तो वह प्रथम साहस के दण्ड से दूना दण्ड का भागी होता है ॥ ३०० ॥ जारं चौरेत्यभिवदन्दाप्यः पञ्चशतं दमम् । उपजीव्य धनं मुञ्चंस्तदेवाष्टगुणीकृतम् ॥ ३०१ ॥ किंच, स्ववंशकलङ्कभयाज्जारं पारदारिकं 'चौर ! निर्गच्छे'त्यभिवदन् पञ्च- शतं पणानां पञ्च शतानि यस्मिन्दमे स तथोक्तस्तं दमं दाप्यः । यः पुनर्जा रह- स्ताद्धनमुपजीव्य उत्कोचरूपेण गृहीत्वा जारं मुञ्चत्यसौ यावद् गृहीतं तावदष्ट- गुणीकृतं दण्डं दाप्यः ॥ ३०१ ॥ भाषा—यदि कोई अपने कुल की प्रतिष्ठा बचाने के लिए जार (अर्थात् व्यभिचारी) को चोर-चोर कहकर भाग जाने दे तो उससे पाँच सौ पण दण्ड लेना चाहिए और यदि उस जार से उत्कोच के रूप में धन लेकर उसे छोड़ दे तो उसके अठगुना दण्ड होता है ॥ ३०१ ॥ राज्ञोऽनिष्टप्रवक्तारं तस्यैवाक्रोशकारिणम् । तन्मन्त्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत् ॥ ३०२ ॥ किंच, राज्ञोऽनिष्टस्यानभिमतस्यामित्रैस्तोत्रादेः प्रकर्षेण भूयो भूयो वक्तारं तस्यैव राज्ञ आक्रोशकारिणं निन्दाकरणशीलं तदीयस्य च मन्त्रस्य स्वराष्ट्रविवृद्धिहेतोः परराष्ट्रापचयकरस्य वा भेत्तारं अमित्रकर्णेषु जपन्तं तस्य जिह्वामुत्कृत्य स्वराष्ट्रा निष्कासयेत् । कोशापहरणादौ पुनर्वध एव । (मनुः ९।२७५)—'राज्ञः कोशापहतॄंश्च प्रतिकूलेषु च स्थितान् । घातयेद्विवि- धैर्दण्डैररीणां^३ चोपकारकान् ॥' इति मनुस्मरणात् । विविधैः सर्वस्वापहाराङ्गच्छे- दवधरूपैरित्यर्थः । सर्वस्वापहारेऽपि यद्यस्य जीवनोपकरणं तन्नापहर्तव्यम् चौर्यो- पकरणं विना । यथाह नारदः— (१७।१०,११) 'आयुधान्यायुधीयानां बाह्यादी- न्वाह्यजीविनाम् । वेश्यास्त्रीणामलङ्कारान्वाद्यातोद्यादि तद्विदाम् ॥ यच्च यस्योप- करणं येन जीवन्ति कारुकाः । सर्वस्वहरणेऽप्येतन्न राजा हर्तुमर्हति ॥' इति । १. क्षुद्रकाणां पशूनां तु । २. मित्रैस्तवादेः । ३. चोपजापकान् ।

व्यवहाराध्यायः ३८६ ब्राह्मणस्य पुनः 'न शारीरो ब्राह्मणे दण्डः' (गौ० १२।४६) इति निषेधाद्वध- स्थाने शिरोमुण्डनादिकं कर्तव्यम् - 'ब्राह्मणस्य वधो मौण्ड्यं पुरात्रिर्वासनाङ्कने । ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन तु ॥' इति मनुस्मरणात् ॥ ३०२ ॥ भाषा-पुनः पुनः राजा का अहित कहने वाले, उसकी निन्दा करने वाले और उसकी (राजनीति की) गुप्त बातों को खोलने वाले की जीभ काटकर अपने राज्य से निकाल देना चाहिए ॥ ३०२ ॥ मृताङ्गलग्नविक्रेतुर्गुरोस्ताडयितुस्तथा । राजयानासनारोढुर्दण्ड उत्तमसाहसः ॥ ३०३ ॥ किंच' मृतशरीरसंबन्धिनो वस्त्रपुष्पादेर्विक्रेतुः गुरोः पित्राचार्यादेस्ताडयितुः तथा राजानुमतिं विना तद्यानं गजाश्वादि आसनं सिंहासनादि आरोहतश्चोत्तम- साहसो दण्डः ॥ ३०३ ॥ भाषा-शव के ऊपर की वस्तु (वस्त्र आदि) बेचने वाले, पिता एवं आचार्य आदि को ताड़ना देने वाले और राजा की सवारी या सिंहासन पर बैठने वाले को उत्तम साहस का दण्ड होता है ॥ ३०३ ॥ द्विनेत्रभेदिनो राजद्विष्टादेशकस्तथा । विप्रत्वेन च शूद्रस्य जीवतोऽष्टशतो दमः ॥ ३०४ ॥ किंच, यः पुनः क्रोधादिना परस्य नेत्रद्वयं भिनत्ति । यश्च ज्योतिःशास्त्रवित् गुर्वादिहितेच्छुव्यैतिरिक्तॊ राज्ञो द्विष्टमनिष्टं 'संवत्सरान्ते तव राज्य- च्युतिर्भविष्यति' इत्येवमादिरूपमादेशं करोति । तथा च यः शूद्रो भोजनार्थं यज्ञोपवीतादीनि ब्राह्मणलिङ्गानि धारयति तेषामष्टशतो दमः । अष्टौ पणशतानि यस्मिन्दमे स तथोक्तः । 'श्राद्धभोजनार्थं पुनः शूद्रस्य विप्रवेषधारिणस्तप्त- शलाकया यज्ञोपवीतवद्वपुष्यालिखेत्' इति स्मृत्यन्तरोक्तं द्रष्टव्यम् । वृत्त्यर्थं तु यज्ञोपवीतादिब्राह्मणलिङ्गधारिणो वध एव । - 'द्विजातिलिङ्गिनः शूद्रांश्चातयेत्' इति स्मरणात् ॥ ३०४ ॥ भाषा-किसी की दोनों आँखें फोड़ने वाले, राजा के अनिष्ट (राज्यनाश आदि) की बात फैलाने वाले और शूद्र होकर ब्राह्मण का वेष बनाकर जीविका निर्वाह करने वाले को आठ सौ पण दण्ड होता है ॥ ३०४ ॥ रागलोभादिनाऽन्यथा व्यवहारदर्शने दण्डमाह - ⁴दुर्दृष्टांस्तु पुनर्द्दष्ट्वा व्यवहारान्नृपेण तु । सभ्याः सजयिनो दण्ड्या विवादाद् द्विगुणं दमम् ॥३०५॥ १. न शारीरो दण्डः । २. मध्यमसाहसः । ३. हितेप्सु । ४. सभ्य- स्तद्वा तु दुर्दृष्टान्नथ । ५. द्विगुणं पृथक् ।

३६० याज्ञवल्क्यस्मृतिः दुर्द्दष्टान्स्मृत्याचारप्राप्तधर्मोल्लङ्घनेन रागलोभादिभिरसम्यग्विचारितत्वेनाश- क्क्यमानान् व्यवहारान्पुनः स्वयं राजा सम्यग्विचार्य निश्चितदोषाः पूर्वसभ्याः संजयिनः प्रत्येकं विवादपदे यो दमः पराजितस्य तद्द्विगुणं दाप्याः। अप्राप्तजेतृ- दण्डविधिपरत्वाद्धनस्य रागाल्लोभादित्यादिना श्लोकेनापौनरुक्त्यम् । यदा पुनः साक्षिदोषेण व्यवहारस्य दुर्द्दष्टत्वं ज्ञातं तदा साक्षिण एव दण्ड्याः, न जयौ नापि सभ्याः । यदा तु राजानुमत्या व्यवहारस्य दुर्द्दष्टत्वं ज्ञातं तदा सर्व एव राजसहिताः सभ्यादयो दण्डनीयाः ।—'पादो गच्छति कर्त्तारं पादः साक्षिणमृच्छति । पादः सभासदः सर्वान्पादो राजानमृच्छति ॥' (८।१७) इति वचनात् । एतच्च प्रत्येकं राजादीनां दोषप्रतिपादनपरं, न पुनरेकस्यैव पापा- पूर्वस्य विभागाय । यथोक्तम्—'कर्तृसमवायिफलजननस्वभावत्वादपूर्वस्य'इति ॥ भाषा—पहले सभासदों द्वारा अधर्मपूर्वक देखे गये व्यवहार पर फिर से न्याय के साथ विचार करके राजा पहले विजयी घोषित किये गये व्यक्ति और सभासदों से विवाद में हारने वाले पर जितना दण्ड होता हो उसका दूना धन पृथक्-पृथक् ले ॥ ३०५ ॥ न्यायतो निर्णीतव्यवहारस्य प्रत्यावर्त्तयितुर्द्दण्डमाह— यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः । तमायान्तं पुनर्जित्वा दापयेद् द्विगुणं दमम् ॥ ३०६ ॥ यः पुनर्न्यायमार्गेण पराजितोऽपि औद्धत्यात् 'नाहं पराजितोऽस्मि' इति मन्यते तमायान्तं कूटलेख्याद्युपन्यासेन पुनर्धर्माधिकारिणमभितिष्ठन्तं धर्मेण पुनः पराजयं नीत्वा द्विगुणं दण्डं दापयेत् ॥ नारदेनाप्युक्तम्—'तीरितं चानुशि- ष्टं च मन्येत विधर्मतः । द्विगुणं दण्डमास्थाय तत्कार्यं पुनरुद्धरेत् ॥' इति । तीरितं साक्षिलेख्यादिनिर्णीतमनुद्भूतदण्डम् । अनुशिष्टमुद्धृतदण्डम् । दण्डप- र्यन्तं नीतमिति यावत् । यत्पुनर्मनुवचनम् ( ९।२३३ )—'तीरितं चानुशिष्टं च यत्र क्वचन विद्यते । कृतं तद्धर्मतो ज्ञेयं न तत्प्राज्ञो निवर्त्तयेत् ॥' इति, तदर्थिप्रत्यर्थिनोरन्यतरवचनाद्व्यवहारस्याधर्मतो वृत्तत्वाशङ्कायां पुनर्द्विगुणदण्ड- प्रतिज्ञापूर्वकं व्यवहारं प्रवर्त्तयेत् , न पुनर्धर्मतो वृत्तत्वनिश्चयेऽपि राज्ञा लोभा- दिना प्रवर्त्तयितव्य इत्येवंपरम् । यत्पुनर्नृपान्तरेणापि न्यायापेतं कार्यं निर्वत्तितं तदपि सभ्यैःपरीक्षणेन धर्म्ये पथि स्थापनीयम् । 'न्यायापेतं यदन्येन राज्ञा ज्ञान- कृतं भवेत् । तदप्यन्यायविहितं पुनर्न्याये निवेशयेत् ॥' इति स्मरणात् ॥३०६॥ भाषा—जो न्यायतः पराजित होने पर भी स्वयं को पराजित नहीं मानता उसे पुनः धर्मपूर्वक पराजित करके राजा उससे दुगुना दण्ड वसूल करे ॥३०६॥ १. अपिसहिताः । २. दुर्द्दष्टा तदा । ३. रैकैकस्यैव ।