भारतकोश
संग्रह पर लौटें

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

३९० अभिज्ञानशाकुन्तलम्

राजा—(बालकमुपलालयन्)—न चेन्मुनिकुमारोऽयम् अथ कोऽस्य व्यपदेशः। तापसी—पुरुवंसो। [ पुरुवंशः। ] राजा—(आत्मगतम्) कथमेकान्वयो मम। अतः खलु मदनुकारिणमेनम्-भवती मन्यते। अस्त्येतत्पौरवाणामन्त्यं कुलव्रतम्।

भवनेषु १रसाधिकेषुपूर्वं क्षितिरक्षार्थमुशन्ति ये निवासम्। २नियतैकपतिव्रतानि पश्चात्तन्मूलानि गृहीभवन्ति तेषाम्॥ २०॥

आकृतिः = आकारः, अपरिचितस्य = अदृष्टपूर्वस्यात् अपि ते अप्रतिलोमः = अविरुद्धः अनुकूलः संवृत्तः = जातः इति = हेतोः विस्मापिता = आश्चर्य पतिताऽस्मि।

अथ राजा बालकमुपलालयन् इच्छानुरूपं प्रवर्तमानं बालं प्रेरयन् तापसीं पृच्छति-हे आर्ये ! न चेत् यदि अयं = एषः न मुनिकुमारः = ऋषिपुत्रः अथ = तदा कः अस्य = बालकस्य व्यपदेशः ? = वंशः ? यद्यसौ न मुनिकुमारः तर्हि किं कुलमस्य ?

तापसी—पुरुवंशः = पुरुवंशोत्पन्नोऽयम्।

राजा--कथं = किम् मम = दुष्यन्तस्य एकान्वयः एकः = समानः अन्वयः = वंशो यस्य स एकान्वयः = समानवंश ममापि पुरुवंशोद्भूतत्वेन पौरवत्वात् अतः = अनेन कारणेन खलु = निश्चयेन मामनुकरोतीति मदनुकारी तं मदनुकारिणं, एनं बालकं अत्र-भवती = पूज्या तापसी मन्यते = संभावयति (किन्तु) पौरवाणां = पुरुवंशोत्पन्नानां राज्ञां एतत् अन्ते भवमन्त्यं = वानप्रस्थाश्रमकालपालनीयम् कुलस्य व्रतं कुलव्रतं = कुलाचारः, वंशपरम्पराप्राप्तो नियमः। क्षत्रियाणां वानप्रस्थाश्रम एवान्त्याश्रमः, तेषां सन्यासानधिकारात्। तथा च स्मृतिः--

मुखजानामयं धर्मः यद्विष्णोलिङ्गधारणम्। बाहुजातोरुजातानामयं धर्मो न विद्यते ॥

अन्वयः-- पूर्वं ये क्षितिरक्षार्थं रसाधिकेषु भवनेषु निवासमुशन्ति पश्चात्तेषां नियतैक-यतिव्रतानि तन्मूलानि गृहीभवन्ति।

पुरुवंश समुद्भूवोऽयं बाल इति तपस्विन्या उत्तरं श्रुत्वा आश्रमसद्भावसंगति


राजा—(उस बालक का लाड़ प्यार करता हुआ) यदि वह मुनिकुमार नहीं है तो, इसका वंश क्या है? **तापसी--**यह पौरववंश का क्षत्रिय कुमार है। राजा—(अपने आप) क्या मेरा सगोत्र (एक वंशवाला) है। यही कारण है कि पूज्या तपस्विनी इसे मेरे समान आकार वाला मान रही है। पुरवंशियों का यह अन्तिम कुलव्रत भी है कि—

जो पहले युवावस्था में पृथ्वी का पालन करने के लिए भोगों में परिपूर्ण भव्य भवनों के निवास की इच्छा रखते हैं, वे ही पीछे वृद्धावस्था में नियमित रूप से यतिव्रत धारण कर वानप्रस्थ का जीवन बिताते हुए वृक्षों के नीचे अपना घर बनाकर निवास करते हैं ॥२०॥

विशेष—आदिकाल से ही भारतीय संस्कृति का यह उदात्त सिद्धान्त था कि युवावस्था में राजा लोग प्रजारञ्जन करते हुए अपने शासन द्वारा पृथ्वी का धर्मपूर्वक पालन करते थे। वृद्धावस्था में अपने योग्य उत्तराधिकारी पुत्र को राज्य पर अभिषिक्त करके विषयसुख से विमुख होकर

पाठा०—१. सुधासितेषु। २. विहृतैकयतिव्रतानि।

सप्तमोऽङ्कः

३९१

( प्रकाशम् ) न पुनरात्मगत्या मानुषाणामेष विषयः ।

तापसी—जह भद्दमुहो भणादि अच्छरासंबंधेण इमस्स जणणी एत्थ देवगुरुणो तवोवणे प्पसूदा । [ यथा भद्रमुखो भणत्यप्सरःसंबन्धेनास्य जनन्यत्र देवगुरोस्तपोवने प्रसूता । ]


वितर्कयन् दुष्यन्तो ब्रूते--भुवनेष्विति । पूर्वं वार्धकादर्वाचीने यौवने वयसि ये पुरुवंशोद्भूवा राजनः क्षितिरक्षार्थं = पृथ्वीपालनार्थं, नत्विन्द्रियसुखार्थम् रसाधिकेषु रसः= रागः शृङ्गारादिः मधुरादिः आस्वादश्चैते अधिकाः पर्याप्ताः येषु यद्वा एतैरधिकानि उत्तमानि तेषु रसाधिकेषु अथवा रसैः = भोगैः अधिकेषु आढ्येषु भवनेषु = गृहेषु प्रासादेषु च निवासं = स्थितिम्, उशन्ति = वाञ्छन्ति । पश्चात् = अन्ते वयसि, वार्द्धक्ये तेषां = पुरुवंशीयानां राज्ञां नियतैकव्रतानि नियतं = नियमयुक्तं व्यवस्थितम् एकं पावनं यतिव्रतं = वानप्रस्थव्रतं येषु तानि नियतैकयतिव्रतानि, तरुमूलानि, वृक्षतलानि । नियतैकपतिव्रतानीति पाठे तु नियता=नियमयुक्ता तपःसन्तोषादियुक्ता एका = केवला पतिव्रता = धर्मपत्नी येषु तानि नियतैकपतिव्रतानि = निरन्तरतपस्विव्रतानुष्ठानोचितानि अथवा नियता नियमचारिणी, पुत्रादिरहिता एका पतिव्रता सहचरी येषु तानि नियतैकव्रतानि तरुमूलानि = वृक्षतलानि अगृहाणि गृहाणि भवन्तीति गृहीभवन्ति = निवासाय सम्पद्यन्ते ।

**अयं भावः—**धर्मशीलाः पौरवाः धर्मरक्षार्थमेव यौवने भव्येषु राजप्रासादेषु निवसन्ति । वार्द्धक्ये तु मुनिव्रतं ग्रहीतुकामाः सुयोग्ये तनये राज्यरक्षणभारं विन्यस्य एकया पतिव्रतया प्रधानभार्यया साकं वानप्रस्थाश्रमे तपोवने निवसन्ति । तेषामेवान्यतमस्य कस्यापि राजर्षेरयं बालकः सम्भवतीति तपोवनेऽपि पुरुवंशोद्भवस्यास्य निवासो युक्त एव प्रतिभाति । अत्र रूपकानुप्रासावलङ्कारौ मालभारिणी वृत्तञ्च ॥ २० ॥

अस्त्वेतत् पौरवाणा कुलव्रतं ( प्रकाशम् ) तथापि एषः = हेमकूटः न पुनः आत्मगत्या = स्वस्यस्वरूपेण मानवगत्या मानुषाणां = मनुष्याणाम् एव विषयः = गोचरः । अयं हेमकूटो मनुष्याणामभूमिः कथमयं मानुषो बालः अत्रागत इति तावत् पृच्छामीतिभावः ।

तापसी—भद्रमुखः = सौम्यः यथा भणति = वदति तथैव = भवदुक्तं सत्यमेव मनुष्या अत्रागन्तुमशका अप्सरःसम्बन्धेन = अप्सरोभिः देवाङ्गनाभिः सम्बन्धस्तेन अप्सरःसम्बन्धेन देवाङ्गनासम्बन्धेन अस्य बालकस्य जननी = जनयित्री माता इह देवगुरोः = देवतानां गुरोः पितुः महर्षेः कश्यपस्य तपोवने = आश्रमे मारीचाश्रमे प्रसूता = एनं बालं प्रसुषुवे ।


अपनी अर्द्धाङ्गिनी = धर्मपत्नी के साथ जंगल में जाकर पतिव्रत लेकर वृक्षों के नीचे तपस्या करते हुए अपने जीवन को चरितार्थ करते थे। यहाँ यतिव्रत का तात्पर्य वानप्रस्थ है। वानप्रस्थावस्था में पत्नी नियमयुक्त रहती है। अतः यहाँ पुत्रजन्म की संभावना नहीं। वह आश्रम कश्यप और अदिति आदि देवजाति का है। यहाँ मनुष्य पुरुवंशी बालक का होना असंभव है।

( प्रकट में ) यह स्थान मनुष्य के लिए अपनी स्वाभाविक गति का विषय नहीं है। अर्थात् मनुष्य अपनी शक्ति से यहाँ नहीं पहुँच सकता। इस बालक के माता-पिता मनुष्य होकर यहाँ कैसे पहुँच गये?

**तापसी—**हाँ, भलेमानुष ! आप ठीक कह रहे हैं? अप्सरा मेनका से सम्बन्ध होने के कारण इसकी मां ने यहाँ देवपिता कश्यप के आश्रम में इसको पैदा किया है।

३९२ | अभिज्ञानशाकुन्तलम्


राजा—( अपवार्य ) हन्तः ¹द्वितीयमिदमाशाजननम् । ( प्रकाशम् ) अथ सा तत्रभवती किमाख्यस्य राजर्षेः पत्नी ।

तापसी- को तस्स धम्मदारापरिच्चाइणो णाम संकीतिदुं चितिसदि । [ कस्तस्य धर्मदारपरित्यागिनो नाम संकीर्तयितुं चिन्तयिष्यति । ]

राजा—( स्वगतम् ) इयं खलु कथा मामेव लक्ष्यीकरोति । यदि तावदस्य शिशोर्मातरं नामतः पृच्छामि । अथवाऽनार्यः परदारव्यवहारः ।


राजा—हन्त, हर्षं द्वितीयं- प्रथमं भुजस्पदनं ततोऽन्यत् इदं = अप्सरसःसम्बन्धः अथवा प्रथमं पौरववंशतया द्वितीयमप्सरःसम्बन्धतया आशाजनकमित्यर्थः शकुन्तलाया मेनका-पत्यत्वात् आशायाः = मनोरथस्य जननं = उत्पत्तिरिति आशाजननम् = अभिलाषपूर्ति-हेतुः ( प्रकाशम् ) पृच्छति-**अथ सा=**तत्र भवती=अस्य बालकस्य जननी किमाख्या यस्य स तस्य किमाख्यस्य = किन्नामधेयस्य राजर्षेः = राज्ञः पत्नी = धर्मपत्नी ?

तापसी—धर्मदारपरित्यागिनः = धर्मार्थंदाराः धर्मदाराः धर्मदारान् परित्यजति तच्छीलः = धर्मदारपरित्यागी तस्य धर्मदारापरित्यागिनः = धर्मभार्यापरित्यागपरस्य अकारणं पत्नीं परित्यक्तवतः नाम = नामधेयं संकीर्तयितुं = कथयितुं उच्चारयितुमपि कः चिन्तयिष्यति = चिन्तामपि करिष्यति । तस्मात् पापिनः तस्य नाम न कथयामीति भावः ।

राजा—( स्वगतं चिन्तयन्नाह ) इदं कथा = एतद्बालविषयिणी कथा, दारपरित्याग-कथा चर्चा वा मामेव लक्ष्यी करोति = सूचयति । यदि = चेत् तावत् यद्येषा पितुर्नाम न कथयति तर्हि अस्य शिशोः = अमुष्य बालकस्य नामतः = नाम्ना मातरं = जननीं पृच्छामि, किन्नामास्य मातुरिति पृच्छामि अथवा = किन्तु परदारव्यवहारः परस्य = अन्यस्य दाराणां = पत्नीनां व्यवहारः चर्चा, अनार्यः आर्यजनविगर्हितः अनुचितः परदार-सम्बन्धिनी जिज्ञासा ।


राजा—( मुँह को दूसरी ओर फेरकर तथा हाथ से आड़कर ) वाह, यह दूसरी आशा-जनक बात है ( प्रगट रूप से ) अच्छा, आदरणीया जी, वह इस बालक की मां किस राजर्षि की अर्द्धाङ्गिनी हैं ?

विशेष— राजा के लिए प्रथम आशाजनक बात यह थी कि यह बालक पुरुवंश से सम्बन्ध रखने वाला है । दूसरी आशाजनक बात यह है कि इसकी मां अप्सरा से सम्बद्ध है । राजा दुष्यन्त को यह बात भली भाँति विदित थी कि शकुन्तला मेनका अप्सरा की पुत्री है । जिसकी यह उपेक्षा नहीं कर सकती है । इसलिए दुष्यन्त को इस प्रसंग से अपनी ओर दृढ़ता होती चली जा रही है ।

तापसी— अपनी धर्मपत्नी का त्याग करने वाले उस पापी व्यक्ति का नाम लेने का कौन विचार करेगा ।

विशेष— अपनी धर्मपत्नी का परित्याग धर्मशास्त्रों में अधर्म माना गया है । अतः अधार्मिक व्यक्ति का नाम लेना पापजनक होता है । इसलिए तापसी कह रही है कि अर्द्धांगिनी धर्मपत्नी के त्यागरूप पाप करने वाले उस पुरुष नाम कौन लेगा ?

राजा—( मन ही मन ) मालूम होता है—यह कथा तो मुझे ही लक्ष्य करती है । यह क्या बात है । अच्छा इसकी माता का नाम पूछता हूँ । ( कुछ सोचकर ) अथवा परस्त्री का नाम आदि पूछना तो भले मनुष्यों का काम नहीं है । स्त्री का नाम पूछना अशिष्टता है ।


पाठा०—१. द्वितीयमिदमाश्वासजननम् ।

सप्तमोऽङ्कः

३९३

( प्रविश्य मयूरहस्ता )

तापसी--सव्वदमण सउंदलावण्णं पेक्ख । [ सर्वदमन शकुन्तलावण्यं प्रेक्षस्व । ]

बालः--( सदृष्टिक्षेपम् ) कहिं वा मे अज्जू ? [ कुत्र वा मम माता ? ]

उभे--णामसारिस्सेण वंचिदो माउवच्छलो । [ नामसादृश्येन वञ्चितो मातृवत्सलः । ]

द्वितीया--वच्छ इमस्स मित्तिआमोरअस्स रम्मत्तणं देख त्ति भणिदो सि । [ वत्स अस्य मृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि । ]

राजा--( आत्मगतम् ) किं वा शकुन्तलेत्यस्य मातुरार्या । सन्ति पुनर्नामधेयसादृश्यानि । अपि नाम मृगतृष्णिकेव नाममात्रप्रस्तावो मे विषादाय कल्पते ।


( अथ मृण्मयूरहस्ता मृदः = मृत्तिकाया मयूरः = शिखी हस्ते = करे यस्याः सा मृण्मयूरहस्ता प्रविश्य = अन्तरङ्गत्य )

तापसी--हे सर्वदमन ! शकुन्तस्य पक्षिणो मृत्तिकामयूरस्य लावण्यं = सौन्दर्यं प्रेक्षस्व = पश्य ।

बालः--सदृष्टिक्षेपं = चतुर्दिक्षु चक्षुःपातपूर्वकं शकुन्तलावण्यमित्यस्य शकुन्तलावर्णमित्यर्थं कल्पयित्वा पृच्छति-मम = मे माता=जननी शकुन्तला कुत्र=क्व वा ? शकुन्तलावर्णमित्यस्य प्राकृतच्छायाभेदेनार्थद्वयं भवति-शकुन्तलस्य पक्षिणोमयूरस्य लावण्यं सौन्दर्यं शोभां वा यद्वा शकुन्तलायाः वर्णं = रूपमिति ।

उभे--नामसादृश्येन नाम्नः सादृश्येन तुल्यतया वञ्चितः = भ्रान्तः मातृवत्सलः = मातुः = जनन्याः वत्सलः = प्रियतरः एष बालकः, शकुन्तलेतिमातृनामाक्षराण्याकर्ण्य तत्सादृश्येन वञ्चित इति भावः ।

द्वितीया--अन्यथाविप्रतिपत्तिं व्यपोहति--वत्स ! अस्य शकुन्तस्य मृत्तिकामयूरस्य लावण्यं = रम्यत्वं पश्य = विलोकयेति भणितः = कथितोऽसि, न शकुन्तलायाः स्वमातुर्वर्णं प्रेक्षस्वेति भणितोऽसीति भावः ।

राजा--बालकस्य तापस्याश्च व्यवहारात् अवगतमर्थमात्मगतं चिन्तयति-अस्य =


( मिट्टी के बने मोर को लेकर तापसी का प्रवेश )

तापसी—सर्वदमन ! इस शकुन्त ( पक्षी ) के लावण्य-सौन्दर्य को देखो, या शकुन्तला के वर्ण को देखो ।

बालक—( इधर उधर आँख घुमाकर देखता है ) कहाँ है मेरी मां ?

विशेष—यहाँ 'शकुन्त-लावण्यम्' के प्राकृत अनुवाद में वक्रोक्ति श्लेष के होने के कारण दो अर्थ होते हैं । ( १ ) शकुन्तस्य पक्षिणः लावण्यं = सौन्दर्य प्रेक्षस्व ( २ ) शकुन्तलायाः वर्णं-रूपं पश्य । इस प्रकार इस पद के दो अर्थ होने के कारण सर्वदमन 'शकुन्तला के वर्ण रूप को देख' यह दूसरा ही अर्थ समझकर कहता है कि यहाँ है तेरी माता शकुन्तला ?

दोनों—नाम के सादृश्य से ही मातृभक्त यह बेचारा बालक ठगा गया और अपनी माता को देखने के लिए उत्सुक हो गया है ।

दूसरी तापसी—अरे, मैंने तो कहा है कि इस शकुन्त = पक्षी मोर का लावण्य = सौन्दर्य को देख ।

राजा—( मन ही मन ) क्या शकुन्तला इसकी मां का नाम है किन्तु नामों की समानता तो बहुत मिलती है । क्या मृगतृष्णा की तरह शकुन्तला नाम का आ जाना मेरे दुःख के लिये है ।

३९४ | अभिज्ञानशाकुन्तलम्

**बालः--**अज्जए ! रोअदि मे एसो भद्दमोरओ। [ मातः ! रोचते म एष भद्रमयूरः । ] ( इति क्रीडनकमादत्ते )

प्रथमा--( विलोक्य सोद्वेगम् ) अम्हहे रक्खाकरंडअं से मणिबंधे ण दीसदि। [ अहो रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते । ]

**राजा--**अलमलमावेगेन । ^१नन्विदमसस्य सिंहशावविमर्दोत्परिभ्रष्टम् । ( इत्यादातुमिच्छति )


बालकस्य मातुः = जनन्या आख्या = नाम किं वा शकुन्तलेति = अस्ति किम् ? अस्य माता शकुन्तला तदर्थं मत्पुत्र एवेति भावः । इदं तृतीयमाशाजनकं विधूय पुनरयमाशङ्कते सन्ति = भवन्ति पुनः = तु नामधेयस्य = नाम्नः सादृश्यानि = तुल्यता नाममात्रसादृश्यं बहुत्र दृश्यते इत्यर्थः नाममात्रप्रस्तावः = नामधेयमात्रप्रसङ्गः मृगतृष्णिकेव = मृगमरीचिकेव यथा मृगतृष्णिकायां जलभ्रान्ति न वस्तुतस्तत्र जलं भवति तथैवात्रशकुन्तलेति नाममात्रसादृश्यं न मे प्रिया सा स्यादिति मे = मम विषादाय = विषादं जनयितुं खेदाय अपि नाम कल्पते = किं स्विज्जायते ।

बालः—मात ! एषः = अयं भद्रमयूरः = सुन्दरः शिखी मे = मह्यं रोचते, प्रीतोऽहमनेन सुन्दरेण शिखिना ।

प्रथमा—( विलोक्य ससंभ्रमं वदति ) अहो रक्षार्थं बद्धं करण्डकं-रक्षाकरण्डकं = रक्षार्थं बद्धं ओषधिग्रन्थिभेदः रक्षावीटिका 'काण्डे मधु कोशे स्याद्वीटिका खड्गकोशयोः।' अस्य = बालकस्य मणिबन्धे = प्रकोष्ठे करतलमूले बद्धो न दृश्यते = नावलोक्यये । तद्दर्शनात्तापस्या उद्वेगः ।

राजा—अलमावेगेन = आवेगो न कर्तव्यः अङ्गुल्या निर्दिशन् प्राह-इदं रक्षाकरण्डकम्, ननु सिंहशावकविमर्दात् = सिंहशावकेन केसरिकिशोरेण यो विमर्दः = संघर्षः तस्मात् परिभ्रष्टं च्युतं सत् भूमौ पतितम् ( इति = एवमुक्त्वा तत् आदातुमिच्छति = ग्रहीतुमपक्रमते ।


**बालक—**मां ? वह सुन्दर मोर मुझे बहुत अच्छा लग रहा है। ( ऐसा कहकर खिलौने को हाथ में लेता है )

पहली तपस्विनी—( देखकर घबड़ाहट के साथ )। अरी मैया री मैया, इसके हाथ में तो वह रक्षा-सूत्र नहीं दिखाई दे रहा है ?

**विशेष—**देवताओं में लोग अपने कल्याण को कामना से या बच्चों के मङ्गल की इच्छा से पीले वस्त्र या सूत्र में देवी-देवता का भस्म, जड़ी-बूटी आदि बाँध देते हैं, जिसे ताबीज या रक्षासूत्र भी कहते हैं। हिन्दुशास्त्रों के अनुसार रूप से संस्कार १६ माने जाते हैं, उनमें चतुर्थ संस्कार जातकर्म संस्कार है। इस संस्कार में बालक के जन्म के अनन्तर पिता नाल काटने के पहले ही नवजात शिशु की जीभ पर सुवर्ण शलाका से ॐ लिख देता है तथा उसे घृत एवं मधु चटाता है—

प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते।
मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम् ॥ म० स्मृ० २।२९

**राजा—**आर्ये, आप घबड़ाइए मत, सिंह शिशु के रगड़ से इसका रक्षा-सूत्र हाथ से यहाँ गिर पड़ा है। ( यह कहकर राजा उसे उठाना चाहता है। )


पाठ०—१. नन्वयमस्य ।

सप्तमोऽङ्कः ३९५

उभे--मा खु एवं अवलंबिअ। कहं गहीवं णेण। [ मा खल्विदमवलम्ब्य। कथं गृहीतमनेन। ] ( इति विस्मयादुरोनिहितहस्ते परस्परमवलोकयतः )

राजा--किमर्थं प्रतिसिद्धा स्मः ?

प्रथमा--सुणादु महाराओ। एसा अवराजिदा णाम ओसही इमस्स जातकम्म-समए भववदा मारीएण दिण्णा। एत किल मादापिदरो अप्पाणं च वज्जिअ अवरो भूमिपडिदं ण गेण्हादि। [ शृणोतु महाराजः ! एषाऽपराजितानामौषधिरस्य जातकर्मसमये भगवता मारीचेन दत्ता। एतां किल मातापितरावात्मानं च वर्जयित्वाऽपरो भूमिपतितां न गृह्णाति। ]

राजा--अथ गृह्णाति।


उभे—तापस्यौ राजानं निषेधयतः-मा खलु अवलम्ब्य = आदाय, मा खलु नहि नहि एतत्त्वया ग्राह्यम् म्रियसे इति वाक्यशेषः। राजा तदादत्ते न म्रियते ते आहतुः कथं गृहीतमनेन इति विस्मयात् = आश्चर्येण तापस्यौ ते। उरोनिहितहस्ते उरसि-वक्षसि निहितः स्थापितः हस्तः=करो याभ्यान्ते उरोनिहितहस्ते परस्परं=अन्योन्यमवलोकयतः=पश्यतः। प्रायो विस्मये स्त्रीणां हस्त उरसि निहितो भवति।

राजाकिमर्थं-केन कारणेन प्रतिषिद्धाः = निवारिताः स्मः, रक्षाकरणमाददाना वयं भवतीभ्यां कस्माद्धेतोः निषिद्धामहे इति भावः।

प्रथमा—ओषध्या विकाराभावादयमस्य बालकस्य जनकः सम्भवतीति निश्चिन्वाना वदति-शृणोतु = आकर्णयतु महाराजः = श्रीमान्, एषा अपराजिता नाम औषधिः अस्य=बालकस्य जातकर्मसमये = जातकर्मनामकसंस्कारावसरे भगवता = श्रीमता मारीचेन = मरीचिपुत्रेण कश्यपेन दत्ता = समर्पिता। एतामोषधिं किल = खलु मातापितरौ = जननीजनकौ आत्मानं स्वं च वर्जयित्वा = त्यक्त्वा अपरः = अन्यः भूमौ = पृथिव्यां पतितां=निहितम् नादत्ते = न गृह्णाति। भूमिपतिते मातापितृभ्यामात्मना च ग्रहीतुं शक्यते नेतरेणेति भावः। जातकर्मसंस्कारो नाभिकर्तनात् पूर्वं क्रियते। तथाहि—

प्राङ्नाभिकर्तनात् पुंसो जातकर्म विधीयते।
मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम् ॥

राजाअथ गृह्णाति = यदि अन्यः कश्चन गृह्णाति तर्हि किं स्यादित्यर्थः।


दोनों तापसी—अरे आप इसे मत छुइए, मत छुइए (देखकर) क्या इसे इन्होंने उठा लिया ? (ऐसा कहकर दोनों तापसियाँ आश्चर्य से छाती पर हाथ रखकर परस्पर देखती हैं।)

राजा—आप लोगों ने इस यंत्र को उठाने में मुझे क्यों रोका था ?

पहली तापसी—महाराज ! सुनें, यह अपराजिता नामकी महाप्रभावशाली दिव्य महौषधि है। यह इस बालक के जातकर्म के समय पूज्य कश्यपजी ने इसके हाथ में बाँध दी थी। इसको भूमि पर गिर जाने पर, या तो स्वयं बालक अथवा इस बालक के माता-पिता ही इसे उठा सकते हैं, अन्य कोई नहीं उठा सकता।

राजा—यदि इसे कदाचित् कोई अन्य उठा ले, तो क्या होता है ?

३९६ | अभिज्ञानशाकुन्तलम्


प्रथमा--तदो तं सप्पो भविअ दंसइ । [ ततस्तं सर्पो भूत्वा दशति । ]
राजा--भवतीभ्यां कदाचिदस्याः प्रत्यक्षीकृता विक्रिया ?
उभे--अणेअसो [ अनेकशः ] ।
राजा--( सहर्षं आत्मगतम् ) कथमिव संपूर्णमपि मे मनोरथं नाभिनन्दामि । ( इति बालं परिष्वजते )
द्वितीयाः--सुव्वदे ! एहि ! इमं वुत्तंतं णिअमव्वावुडाए सउंदलाए णिवेदम्ह । [ सुव्रते एहि । इमं वृत्तान्तं नियमव्यापृतायै शकुन्तलायै निवेदयावः । ] ( इति निष्क्रान्ते )
बालः--मुच्च मं । जाव अज्जाए सआसं गमिस्सं । [ मुञ्च माम् । यावन्मातुः सकाशं गमिष्यामि । ]


प्रथमा--ततः तं = ग्रहीतारं सर्पो भूत्वा दशति, एषा औषधिः भूमिपतिता यदि अन्येन गृह्यते तर्हि सैव सर्पो भूत्वा तं दशतीत्यर्थः ।
राजा--भवतीभ्यां युवाभ्यां कदाचित् = जातुचित्, अस्याः विक्रिया = सर्पत्वे परिणतिरूपो विकारः = परिवर्तनम्, प्रत्यक्षीकृता = साक्षात् दृष्टा किम् ?
उभे--अनेकशतः = बहुशः बहुषु कालेषु अस्या औषधेः = विक्रिया प्रत्यक्षीकृतेत्यर्थः ।
राजा--अथौषधिविक्रियांभावदयं शिशुः ममैवौरस इति निश्चिन्वानः पौरवो राजा दुष्यन्तः सहर्षमात्मगतं विचिन्तयति--कथमिव = किमिव सम्पूर्णमपि मे मनोरथम् = समस्तमपि निजं मनोऽभिलाषम् अनुरूपपुत्रलाभरूपं नाभिनन्दामि = न सम्भावयामि न प्रशंसामि ? अनुचितमेतत् सर्वथाऽभिनन्दनीयमेव पुत्रं प्राप्तवानस्मीतिभावः ( इति एवमुक्त्वा ततो बालं = शिशुं परिष्वजते = आलिङ्गति बालपरिष्वङ्गेनानन्दमनुभवति । )
द्वितीया--सुव्रते ! एहि = आगच्छ, इमं = पूर्वोक्तं वृत्तान्तं, नियमव्यापृतायै नियमे-पूजादौ वियोगिनीव्रते च व्यापृतायै प्रसक्तायै = रतायै शकुन्तलायै प्रियसख्यै निवेदयावः = सूचयावः ( इति--एमुक्त्वा ततो निष्क्रान्ते = निर्गते ) ।
बालः--राज्ञा दुष्यन्तेन परिष्वक्तो बालो राजनं वदति--मुञ्च = त्यज मां यावत् मातुः = जनन्या सकाशं = समीपे गमिष्यामि = यास्यामि ।


पहली तापसी--तो यह महौषधि सर्प होकर उसे डस लेती है।
राजा--क्या इस बात की कभी आप लोग ने मेरे सिवा कहीं अन्यत्र परीक्षा की है।
दोनों तापसी--एक बार नहीं, किन्तु अनेकों बार हम लोग इस बात की परीक्षा कर चुकी हैं। जब-जब किसी दूसरे ने उठाया है तब-तब इस महौषधि ने सर्प बनकर उसे काट लिया है।
राजा--( हर्षपूर्वक मन ही मन ) तब तो मैं अपने पूर्ण हुए मनोरथ ( = शकुन्तला और अपने पुत्र की प्राप्ति ) का अभिनन्दन = प्रशंसा क्यों न करूँ। ( बालक को उठाकर अपनी छाती से लगाता है। )
दूसरी तापसी--सुव्रते ! आओ चलें और अपराजिता महौषधि आदि के इस वृत्तान्त को नियमव्रतशीला तपस्विनी शकुन्तला को जाकर सुनायें ( ऐसा कहकर दोनों चली जाती हैं )
विशेष--यहाँ 'नियम व्यापृतायै' पद से व्यक्त होता है कि शकुन्तला अबतक अपने पति दुष्यन्त की प्राप्ति के लिए हमेशा प्रयास करती थीं।
बालक--मुझे छोड़ दो, मुझे छोड़ दो, मैं तो अपनी माता के पास जाऊँगा।

सप्तमोऽङ्कः

३९७

राजा— पुत्रक ! मया सहैव मातरमभिनन्दिष्यसि ।
बालः— मम खु तादो दुस्सदो। ण तुमं। [ मम खलु तातो दुष्यन्तः। न त्वम् ]
राजा— ( सस्मितम् )—एष विवाद एव प्रत्याययति ।
( ततः प्रविशत्येकवेणीधरा शकुन्तला )
शकुन्तला— विआरकाले वि पकिदित्थं सव्वदमणस्स ओसहिं सुणिअ ण मे आसा आसि अत्तणो भाअहेएसु । अहा जहा साणुमदीए आचक्खिदं तह संभावी-अदि एदं । [ विकारकालेऽपि प्रकृतिस्थां सर्वदमनस्यौषधिं श्रुत्वा न मे आशासीदात्मानो भागधेयेषु । अथवा यथा सानुमत्याख्यातं तथा संभाव्यत एतत् । ]


राजा— पुत्रक ! आयुष्मन् ! मया सह = साकमेव मातरं स्वस्य जननीं अभिनन्द-यिष्यसि = मया सहैव मातुः सकाशं गमिष्यसि, न तु एकल इत्यर्थः ।

बालः— राज्ञा पुत्रक इत्यामन्त्रितो बालः तं पुनर्वदति—मम खलु तातः = पिता दुष्यन्तः न त्वम्—अहं हि दुष्यन्तस्य पुत्रोऽस्मि स एव मां पुत्रक इति आमन्त्रयितुं शक्नोति, न त्वमित्यर्थः ।

राजा— बालकस्य वचनेन प्रहृष्टो राजा सस्मितमाह—एष विवाद एव विरुद्धो वादः विवादः—पुत्रक इत्यामन्त्रणस्य विरुद्धः प्रतिवादः प्रत्यायति = प्रत्ययं जनयति मम खलु तातो दुष्यन्त इति स्पष्टोक्तेः प्रत्यय इत्यर्थः ।

( ततः = तदनन्तरं, पश्चात् एकवेणीधरा = एकस्या वेण्याः धरा एकवेणीधरा एकामेव वेणीं धारयन्ती शकुन्तला प्रविशति = रङ्गमञ्चे दृश्यते ।
प्रोषितभर्तृकायाः एकवेणीधारणमाचारः, विरहचिह्नमिदम् )

शकुन्तला— अथ सानुमत्या कथितेन वृत्तान्तेन किञ्चिदाश्वस्ता पुनः तापसीभ्यां निवे-दितं वृत्तान्तं निशम्य शकुन्तला चिन्तयति—विकारस्य = परिवर्तनस्य कालेऽपि समयेऽपि विकारयोग्यकालेऽपि सर्वदमनस्यौषधि सर्वदमनस्य = शिशोः। ओषधिं रक्षाकरण्डकवर्ति-नीम् अपराजितां प्रकृतिस्थाम् = अविकाराम् श्रुत्वापि = आकर्ण्यापि तच्छ्रवणेन स्वभागमने


राजा— प्यारे बेटे ! मेरे साथ ही अपनी माता के पास चलकर उसे अभिनन्दित करना ।
बालक— मेरे पिता तो राजा दुष्यन्त हैं, तुम नहीं ?
राजा— ( मुसकराकर ) यह विवाद ही मुझे विश्वास दिलाता है कि मैं ही तेरा पिता दुष्यन्त हूँ ।

विशेष— इसके पहले नाम वृत्तान्त, आदि प्रमाणों में कुछ शङ्का का अवसर था, किन्तु सर्वदमन ने अब दुष्यन्त को अपना पिता बताकर उनके संदेह का सर्वथा निराकरण कर दिया । अनन्तर राजा ने उसे पुत्रक सम्बोधन कर अपना लिया ।

( तदनन्तर एक चोटी को धारण की हुई शकुन्तला प्रवेश करती है )

विशेष— भारतीय धर्मशीला नारियों की यह प्रथा है कि वे अपने पति के वियोग में एक ही चोटी धारण करती हैं । इस प्रकार शकुन्तला का एक चोटी धारण करना दुष्यन्त के विरह का प्रतीक है ।

शकुन्तला— परिवर्तन के अवसर पर सर्वदमन की औषधि को अविकृत सुनकर भी मुझे अपने भाग्य पर ऐसी आशा न थी कि पतिदेव मुझे खोजते हुए कभी यहाँ आयेंगे अथवा जैसा सानुमती के द्वारा कहा गया था, उससे यह संभव भी है। अर्थात् माता-पिता के अतिरिक्त उठाये जाने पर सर्प हो जाने वाली सर्वदमन के हाथ में बँधी हुई अपराजिता महौषधि उठाने पर भी

३९८ अभिज्ञानशाकुन्तलम्

राजा—( शकुन्तलां विलोक्य )— ^१अये ^२सेयमत्रभवती शकुन्तला यैषा—

वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः ।
अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहव्रतं बिभर्ति ॥ २१ ॥

निश्चितेऽपि आत्मनः = स्वस्य भागधेयेषु = भाग्येषु मे = मम आशा = सम्भावना नासीत् अथवा = पक्षान्तरे मे आशास्थानमस्ति यथा = यत् सानुमतया = सानुमती नामका-प्सरसा आख्यातं = कथितं तथा तत् सम्भाव्यते = सम्भवम् एतत् = पुरो दृश्यमानम् भर्तृस्वीकरणम् ।

शकुन्तलामालोकयन् राजा प्राह—अये = अहो सा = पूर्वानुभूता इयं = एषा पुरो-दृश्यमाना अत्रभवती = मान्या शकुन्तला या एषा = पुरतः, शकुन्तलां वर्णयति—वसने इति ।

अन्वयः—( या एषा ) परिधूसरे वसने वसाना नियमक्षाममुखी धृतैकवेणी सा इयं शुद्धशीला शकुन्तला अतिनिष्करुणस्य मम दीर्घविरहव्रतं बिभर्ति ।

उपस्थितां शकुन्तलामालोक्य नृपतिर्दुष्यन्ती निजमनसि विमृशति—वसने परिधूसरे वसानेति । या एषा दृश्यमाना परितः = सर्वतः धूसरे इति परिधूसरे = मलिने वसने = द्वे वस्त्रे उत्तरीयोपसंव्याने, अधरोत्तरवस्त्रे वस्त्रयुगलं वसाना = परिदधाना नियमक्षाममुखीनियमैः = व्रताङ्गैः उपवासादिभिः क्षामं मुखं = वदनं यस्याः सा नियमक्षाममुखी, व्रतनियमाचरणादिशुष्कवदना धृता एका वेणी यया सा धृतैकवेणिः । एकवेणीधारिणी जटीभूतकेशधारिणी अत्रविशेषणत्रयेण विरहव्रतस्वरूपमुक्तम् । इतोमुखमागच्छन्ती सा इयं शुद्धशीला—शुद्धं निष्कलङ्कं शीलं स्वभावो यस्याः सा शुद्धशीला = साध्वी सदाचारा शकुन्तला = मुनिदुहिता अतिनिष्करुणस्य = अतिनिर्दयस्य सुतरां क्रूरस्य मम दीर्घविरहव्रतं दीर्घं = बहुकालं विरहस्य व्रतं विरहोचितमाचारं बिभर्ति = धारयति ।

अयं भावः—परिधूसरं युगलवस्त्रं परिदधानां व्रतनियमादिभिकृशाङ्गीं केवलमेक-

विकृत नहीं हुई यह बात सुनकर भी मुझे अपने भाग्य पर भरोसा नहीं था कि आर्यपुत्र मुझे लेने के निमित्त स्वयं आये हैं अथवा सानुमती ने जो मुझे उनके पश्चात्ताप तथा विरहदशा का जो वृत्तान्त सुनाया था, उससे तो यह बात सम्भव भी हो सकती है ।

राजा—( शकुन्तला को देखकर ) हाँ, यही वह माननीया शकुन्तला है, जो मैले-कुचैले पुराने कपड़े पहने हुए नियमों के पालन से क्षीण और उदास मुखवाली एक वेणी को धारण किये हुए शुद्धशीला, करुणाशून्य, अत्यन्त, निर्दयी मेरे लिए मेरे ही कारण से इस प्रकार विरहिणी व्रत का पालन कर रही है ॥ २१ ॥

**विशेष—**प्राचीन भारत से विरहिणी स्त्रियाँ अपने पति के वियोग में न तो आकर्षक वस्त्र पहनती थीं, न शरीर का प्रसाधन ही करती थीं । वे अपने शिर के बालों को दो नहीं एक ही चोटी बनाती थीं, तप, व्रत, उपवास आदि के द्वारा अपने शरीर को कृश बना डालती थीं । इससे उनकी प्रबल पतिभक्ति की सूचना मिलती थी । पति के स्थायी विरह में भी शृंगार न करना और एक चोटी ही रखना सती स्त्रियों का व्रत माना गया है । तप में लगा दुःखी व्यक्ति वस्त्र एवं सजावट से विमुख रहता है, जिससे कपड़े गन्दे हो जाते हैं ।

पाठ०—१. सहर्षखेदम् । २. इयमत्रभवती ।

सप्तमोऽङ्कः ३९९

**शकुन्तला—( पश्चात्तापविवर्णं राजानं दृष्ट्वा )—**ण खु अज्जउतो विअ । तदो को एसो दाणिं किदरक्खामंगलं दारअं मे गतसंसग्गेण दूसेदि । [ न खल्वार्यपुत्र इव । ततः क एष इदानीं कृतरक्षामङ्गलं दारकं मे गात्रसंसर्गेण दूषयति ]

बालः—( मातरमुपेत्य ) अज्जुए ! एसो कोवि पुरिसो मं पुत्त त्ति आलिंगदि । [ मातः ! एष कोऽपि पुरुषो मां पुत्र इत्यालिङ्गति । ]

**राजा—**प्रिये क्रौर्यमपि मे त्वयि प्रयुक्तमनुकूलपरिणामं संवृत्तम्, यदहमिदानीं त्वया प्रत्यभिज्ञातमात्मानं पश्यामि ।


वेणीं धारयन्ती सरलस्वभावां शकुन्तलामालोकय राजा दुष्यन्त आत्मनोऽतिनिर्दयत्वं विचारयति । एतादृशीयमतिकठोरहृदयस्यैव मम कारणादेतादृशं विरहिणीव्रतं बिभर्तीति नूनमहं सापराध इति भावः । अत्र स्वभावोक्तिकाव्यलिङ्गालङ्कारौ मालामरिणी वृत्तञ्च ॥२१॥

शकुन्तला—( पश्चात्तापेन विवर्णं राजानं दृष्ट्वा वदति-- ) न खलु निश्चयेन आर्यपुत्रः = स्वामी इव = यथा ततः = तर्हि क एषः = कोऽयं इदानीम् = अधुना कृतरक्षामङ्गलं = कृतं विहितं रक्षारूपं मङ्गलं शुभं यस्य स तम् कृतरक्षामङ्गलम् = विहितरक्षासंस्कारविशेषम् मे दारकं = मम पुत्रकं गात्रस्पर्शेन = स्वशरीरसम्पर्केण आलिङ्गनेन दूषयति = कलुषी करोति ।

बालकः—( मातरमुपेत्य वदति ) मातः ! = जननि ! एषः = अयं मत्समीपे स्थितः कोऽपि अज्ञातः पुरुषः = नरः मां पुत्र इति = सुत इत्येवं मत्वा आलिङ्गति = परिष्वजते ।

राजा—प्रिये ! = दयिते ! त्वयि = त्वां प्रति प्रयुक्तम् = त्वामधिकृत्य कृतम् आचरितं क्रौर्यमपि = निर्दयतापि अनुकूलपरिणामं अनुकूलः = सरसः परिणामः = विपाकः यस्य तत् अनुकूलपरिणामं = अभीष्टफलप्रदम्, संवृत्तम् = जातम् प्रत्याख्यानं पश्चात्तापत्या परिणतं यत् अहं इदानीम् = अधुना त्वया = भवत्या प्रत्यभिज्ञातं = संस्मृतं परिचितम् (ननु निराकृतम् ) आत्मानं = स्वं पश्यामि = विलोकयामि । साधु ते शीलं यन्मया विमानितापि मयि न विरक्तासीदितिभावः ।


शकुन्तला—( पश्चात्ताप के कारण विवर्णवदन कान्तिहीन राजा को देखकर ) यह तो आर्यपुत्र नहीं प्रतीत होते हैं, तो फिर वह कौन पुरुष है जो रक्षाविधान से रहित मेरे पुत्र को अपनी गोद में लेकर अपने शरीर सम्पर्क से अपवित्र कर रहा है ?

बालक—( अपनी माता के पास जाकर ) माँ यह कौन है जो मुझे पुत्र, पुत्र कहकर बड़े प्रेम से अपनी छाती से लगा रहा है ?

**राजा—**प्रिये ! मैंने तुम्हारे साथ जो क्रूरता का व्यवहार किया था, उसके अनुरूप ही यह परिणाम हुआ है अर्थात् उस समय जैसे मैंने तुझे नहीं पहचाना था उसी प्रकार अब तुम भी मुझे नहीं पहचान रही हो। अतः अब तो मुझे पहचानो, मैं वही दुष्यन्त हूँ, जिसने उस समय तुम्हारा प्रत्याख्यान किया था, अब मैं ही तुमसे स्वीकार करने की प्रार्थना करता हूँ ।

**विशेष—**तात्पर्य यह है कि अब पवित्र हृदय से राजा दुष्यन्त का कहना है कि प्रिये, मैंने तेरे साथ बड़ी ही क्रूरता की थी, निर्दय बनकर तुम्हें छोड़ दिया, किन्तु इस क्रूरता का भी परिणाम उत्तम हुआ है । नियम संयम के पालन से तुम्हारा जीवन परम पवित्र हो गया, तुम पतिव्रता सिद्ध हो गई हो, महर्षि के पावन आश्रम में पुत्ररत्न उत्पन्न हुआ, और उसके बालसंस्कार यहाँ पवित्र ऋषियोंके हाथों सम्पन्न हुआ ? और ऋषियों के अमोघ आशीर्वाद से बालक को अप्रतिम तेज मिला ।

४०० अभिज्ञानशाकुन्तलम्

शकुन्तला—( आत्मगतम् )—हिअअ अस्सस अस्सस । परिच्चत्तमच्छरेण अणुअम्पिअम्हि देवेण । अज्जईत्तो खु एसो । [ हृदय आश्वसिहि आश्वसिहि । परित्यक्तमत्सरेणानुकम्पितास्मि दैवेन । आर्यपुत्रः खल्वेषः । ]

राजा—प्रिये ।

स्मृतिभिन्नमोहतमसो दिष्ट्या प्रमुखे स्थितासि मे सुमुखि ।
उपरागान्ते शशिनः समुपगता रोहिणी योगम् ॥ २२ ॥

शकुन्तला—हृदय ! आश्वसीहि, आश्वसीहि = धैर्यं धारय, धैर्यं धारय परित्यक्तः = परिहृतः विसृष्टः मत्सरः = मच्छुभद्वेषः असूया येन स तेन परित्यक्तमत्सरेण दैवेन = विधिना अनुकम्पितास्मि = दयापात्रीकृतास्मि । एषः = अयं खलु = नूनम् आर्यपुत्रः = स्वामी । पूर्वं यो हि विधिः वामो भूत्वा आर्यपुत्रेण सह मम संगतिं न सेहे, स एवाद्य सदयो भूत्वा तमिह समानीय मया सार्द्धं योजितवानिति भावः ।

अन्वयः—हे सुमुखि ! दिष्ट्या स्मृतिभिन्नमोहतमसः मे प्रमुखे स्थितासि । शशिनः उपरागान्ते रोहिणी योगं समुपगता ॥ २२ ॥

अथ राजा पूर्ववृत्तविस्मरणात् मया त्वयि क्रौर्यमाचरितमिति वदन् तामावर्जयितुं वदतिस्मृतीति = हे सुमुखि सुष्ठु = शोभनं मुखं = वदनं यस्याः सा सुमुखी तत्सम्बुद्धौ हे सुमुखि ! = हे प्रसन्नवदने प्रिये ! दिष्ट्या = सौभाग्येन स्मृतिभिन्नमोहतमसः-स्मृत्या = स्मरणे भिन्नं = दूरीकृतं मोह एव तमः = अज्ञानं यस्य स तस्य स्मृतिभिन्नमोहतमसः स्मरणापगतमोहान्धकारस्य मम = दुष्पन्तस्य प्रमुखे = संमुखे स्थितासि तव योगो मम जात इति भावः । शशिनः = चन्द्रमसः उपरागः = राहुग्रसनं तस्यान्ते = निवृत्तौ उपरागान्ते = ग्रहणान्ते रोहिणीयोगं रोहिण्या। योगो रोहिणीयोगः तं रोहिणियोगम् = रोहिणीनक्षत्रसंयोगं भर्तृसान्निध्यरूपं सम्बन्धं समुगता = प्राप्ता ।

अयं भावः—प्रिये पुरा मोहान्धेन मया संमुखमागतापि मम कठोरहृदयतया त्वं निराकृता । सांप्रतं सौभाग्यमहिम्ना स्मरणेन मे मोहोऽपगतः । यथा दुष्टेन राहुणा ग्रहेण ग्रस्तश्चन्द्रमाः दक्षपुत्र्या स्वप्रियया रोहिण्या वियुज्यते, मुक्तश्च पुनः तया संयुज्यते तथैवाहं निर्मलमानसोऽपि प्राक् मोहान्धकारेणाच्छन्नः सौभाग्येनाधुना मुक्तः पुनस्त्वया सह संयुक्तो जात इति ग्रहणावसाने चन्द्रमसः स्वकान्तया रोहिण्या सह सम्बन्ध इव मया शह त्वत्समागमोऽयमिति भावः । अत्र निदर्शनदृष्टान्तालङ्कारौ आर्या वृत्तञ्च ॥ २२ ॥

शकुन्तला—( मन ही मन ) हृदय ! धैर्य धारण करो, धैर्य धारण करो, भाग्य ने अब दोषभाव को छोड़कर मेरे ऊपर अनुकम्पा की है, ये पतिदेव ही हैं।

राजा—हे प्रिये ! शोभनवदने !

सौभाग्य से स्मरण हो आने के कारण समाप्त अज्ञान रूपी अन्धकार वाली आज मेरे समक्ष खड़ी हो, जैसे ग्रहण के पश्चात् रोहिणी चन्द्रमा से मिल जाती है, वैसे मेरे अज्ञान दूर हो जाने पर तेरा समागम उचित ही है ॥ २१ ॥

सप्तमोऽङ्कः

४०१

शकुन्तला—जेदु जेदु अज्जउत्तो···। [ जयतु जयत्वार्यपुत्रः··· ] ( इत्यर्द्धोक्ते बाष्पकण्ठी विरमति )।

राजा—सुन्दरि !

बाष्पेण प्रतिषिद्धेऽपि जयशब्दे जितं मया ।
यत्ते दृष्टमसंस्कारपाटलोष्ठपुटं मुखम् ॥ २३ ॥

शकुन्तला—जयतु जयतु आर्यपुत्रः = सर्वोत्कर्षेण वर्तताम् आर्यपुत्रः = स्वामी ( इति = इदम् अर्द्धोक्ते अर्द्धम् = अपूर्णमेव उक्ते = कथिते बाष्पकण्ठी = दुःखज उष्मा—बाष्पः कण्ठे = गले यस्याः सा बाष्पकण्ठी विरमति बाष्पोद्गमः स्मर्यमाणस्य दुःखस्य, अनुभूतमानस्यानन्दस्य चानुभावः ।

राजा दुष्यन्तश्चाद्धोक्तिं कुर्वाणः शकुन्तलामभिधत्ते—सुन्दरि ! = हे सुमुखि ।

अन्वयः—जय शब्दे बाष्पेण प्रतिषिद्धेऽपि मया जितम् । यत् असंस्कारपाटलोष्ठपुटं ते मुखं दृष्टम् ।

बाष्पासन्नकण्ठीं तत्क्षणविशेषदृश्यां शकुन्तलामालोक्य नृपो दुष्यन्तः तां प्रियां चाटुभिः प्रीणयन् अभिधत्ते—बाष्पेणेति । हे सुन्दरि ! जयशब्दे = जयस्य शब्दे राजसन्निधौ उच्चारणीये जयतु जयतु इति शब्दे बाष्पेण = दुःखोष्मणा प्रतिषिद्धेऽपि अवरुद्धेऽपि स्पष्टमनुच्चारितेऽपि मया जितं = मया ऋद्धिः प्राप्ता विजयो मे जातः जयशब्दे प्रतिषिद्धेऽपि तदर्थो मया लब्ध इत्यर्थः कुत इति चेत्—यत् = यस्मात् असंस्कारपाटलोष्ठपुटम् संस्कारः = अलंकारादिना रञ्जनं तस्याभावात् = असंस्कारात् पाटलन् ईषद्रक्तं यद्वा असंस्कारेऽपि पाटलं स्वभावाद्रक्तम् ओष्ठयोः पुटं यस्मिंस्तत् असंस्कारपाटलोष्ठपुटम् = अकृत्रिममनोहरम्, अकृत्रिमारुणप्रभोद्भासितोष्ठपुटललितं यद्वा असंस्कारमलिनवर्णोष्ठपुटम् ते = तव मुखं = वदनं दृष्टम् = मया आलोकितम् ।

अयं भावः—हे प्राणप्रिये ! प्रवर्द्धमानेन बाष्पोद्गारेण कण्ठप्रतिरोधात् भवत्योच्चार्यमाणे जयशब्देऽपि मया तदर्थोऽवगतः । यस्मात् मन्निमित्तविरहधारणाद् अकृत्रिमारुणप्रभाभासितमलिनवर्णोष्ठपुटं त्वदीयं मुखमालोक्य कृतार्थोऽस्मि । धन्योऽहं यदीदृशं मां कठोरहृदयमुद्दिश्य भवती दीर्घं विरहव्रतं बिभर्ति । तस्मात् त्वदाननावलोकनात्परं को नाम मम विजयः संभवति । अत्र विरोधाभास-काव्यलिङ्ग-विभावनालङ्कारा अनुष्टुप् छन्दश्च ॥ २३ ॥


शकुन्तला—आर्य-पुत्र विजयी बनें । ( ऐसा आधा ही कहने पर आँसू से गला भर जाने के कारण चुप हो जाती है । )

राजा—सुन्दरि !

जय शब्द से आँसू से रोक लिए जाने पर भी मेरे द्वारा विजय हासिल कर लिया गया, क्योंकि बिना प्रसाधन के भी रक्त होठों से युक्त तुम्हारा मुख देख लिया गया ॥ २३ ॥

विशेष—दुष्यन्त के कहने का तात्पर्य है कि जब तुम हमारे लिए जय शब्द कह रही थी, तब उस समय आँसुओं से तुम्हारा गला भर आया था और तुम अपना वाक्य पूरा न कर सकी ।

26
२६ शाकु०

४०२अभिज्ञानशाकुन्तलम्

**बालः—**आज्जुए को ! एसो । [ मातः ! क एषः । ]
**शकुन्तला—**वच्छ ! दे भाअहेआईं पुच्छेहि । [ वत्स ! ते भागधेयानि पृच्छ । ]
राजा—( शकुन्तलायाः पादयोः प्रणिपत्य )

सुतनु ! हृदयात्प्रत्यादेशव्यलीकमपैतु ते
किमपिमनसः संमोहो मे तदा बलवानभूत् ।
प्रबलतमसामेवंप्रायाः शुभेषु प्रवृत्तयः
स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया ॥ २४ ॥

निजजनन्या साकं संलपन्तं दुष्यन्तं दृष्ट्वा सर्वदमनो स्वमातरं शकुन्तलां पृच्छति--
मातः = हे जननि ! एषः = अयं कः ?

शकुन्तला—वत्स ! = आयुष्मन् ! ते = तव स्वस्य भागधेयानि = भाग्यं पृच्छ— अत्र क एष इत्यस्योत्तरं ते भाग्यमेव दातुं प्रभवति, प्रत्यादिष्टाहं कथं ब्रूयां क एष इति । यदि त्वं सम्राट्सुतः चक्रवर्ती भवेरिति ते भाग्यं तदा अयं ते पिता इति वक्तुं न्याय्यम् । अथेहशं ते भाग्यं यदिहैव वने वसन् तपश्चरिष्यसि तदा धराधिपोऽयं दुष्यन्त इत्येवास्य पर्याप्तः परिचयः । अथवा येषां फलमस्य दर्शनं लाभः तानि भाग्यानि पृच्छ यद्वा एनं पृच्छेत्यर्थः ।

राजा—( शकुन्तलायाः पादयोः प्रणिपत्य ) इदं परित्यागपरिहारार्थं प्रणिपतनम् ।

**अन्वयः—**हे सुतनु ! ते हृदयात् प्रत्यादेशव्यलीकम् अपैतु । तदा किमपि बलवान् मे मनसः सम्मोहः अभूत् । शुभेषु प्रबलतमसां प्रवृत्तयः एवं प्रायः । हि अन्धः शिरसि क्षिप्तां स्रजमपि अहिशङ्कया धुनोति ॥ २४ ॥

शकुन्तलाहृदयात् निराकरणदुःखं दूरीकर्तुं प्रयतमानो नृपो दुष्यन्तः तां प्रियां शकुन्तलाममुनयन्नाह—सुतनु इति । सुशोभना तनुर्यस्या सा सुतनू तत्सम्बुद्धौ हे सुतनु = हे शोभनाङ्ग ते = तव हृदयात् = मनसः प्रत्यादेशव्यलीकं प्रत्यादेशात् = प्रत्याख्यानात् जातं यत् व्यलीकं = अप्रियं तत् प्रत्याख्यानव्यलीकम् = मत्कृतप्रत्याख्यानजनिताप्रीति। “व्यलीकं त्वप्रियेऽनृते”, इत्यमरः । उपैतु = दूरीभवतु । तदा प्रत्याख्यानकाले स्वदागमनकाले किमपि = कुतोऽप्यनिर्वचनीयकारणात् बलवान् = अधिकः मे = मम मनस। = हृदयस्य सम्मोहः = आज्ञानं, विस्मृतिः अभूत् = जातः । शुभेषु = श्रेयस्साधनेषु प्रबलतमसां प्रबलं = अधिकं तमः = तमोगुणः येषां ते तेषां प्रबलतमसां बलवंद-


**बालक—**माँ यह कौन है ?
**शकुन्तला—**बेटा, अपने भाग्य से पूछो !
राजा—( शकुन्तला के पैर पर गिरकर )
हे सुन्दरि अब तुम्हारे हृदय से मेरे द्वारा किये गये अप्रिय परित्याग का दुःख निकल जाना चाहिए । उस समय मेरे मन में अद्भुत प्रबल अज्ञान उत्पन्न हो गया था, क्योंकि मङ्गलप्रद वस्तुओं के विषय में प्रबल तमोगुणवालों की प्रवृत्तियाँ इसी तरह होती हैं । अन्धा व्यक्ति शिर में पहिनाई हुई पुष्प-माला को सर्प की आशङ्का से झटक कर दूर फेंक देता है । अतः अब तुम अपने मन से उसे बिल्कुल निकाल दो और उसे भूल जाओ ॥ २४ ॥

**विशेष—**इस पूरे पद्य में क्षमा की प्रार्थना है । अज्ञान के कारण ही वैसा हुआ जानबूझ कर नहीं । अब यह अज्ञान चला गया । अज्ञान में मनुष्य शुभ को भी अशुभ ही समझता है । अज्ञान


CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

सप्तमोऽङ्कः

४०३

शकुन्तला—उट्ठेदु अज्जउत्तो । णूणं मे सुअरिअप्पडिबंधअं पुराकिदं तेसु दिअहेसु परिणाममुहं आसि जेण साणुक्कोसो वि अज्जवुत्तो मइ विरसो संवुत्तो । [ उत्तिष्ठत्वार्यपुत्रः । नूनं मे सुचरितप्रतिबन्धकं पुराकृतं तेषु दिवसेषु परिणाममुखमासी-द्येन सानुक्रोशोऽप्यार्यपुत्रो मयि विरसः संवृत्तः । ]

( राजोत्तिष्ठति )

शकुन्तला—अह कहं अज्जउत्तेण सुमरिदो दुक्खभाई अअं जणो । [ अथ कथमार्यपुत्रेण स्मृतो दुःखभागययं जनः । ]


ज्ञानावृतमनसां शुभेषु = स्वशुभप्रदेष्वपि वस्तुषु वृत्तयः = मनोवृत्तयः एवं प्रायाः = शुभत्यागरूपा भवन्ति । हि = यतः अन्धः = चक्षुर्हीनः शिरसि मस्तके क्षिप्तां = परिधा-पितां स्रजमपि = सुरभिपुष्पमालापि अहिशङ्कया = सर्पभ्रान्त्या धुनोति = तिरस्करोति शिरसो व्यस्यति ।

अयं भावः—हे शशाङ्कतिलके प्रिये ! प्राक् मत्कृतनिराकृतिदुःखं स्वहृदयात् निष्का-सनीयम्, यतो मया जानता तन्न कृतम् । तदानीं काले मम हृदये ( सुलभकोपात् महर्षे दुर्वाससः शापात् ) प्रबलः सम्मोह आसीत् । इदानीमङ्गुलीयकदर्शनेन सो व्यपगतः । यथा नेत्रहीनः पुमान् केनापि पुंसा निजगले निहितां सुरभिपुष्पमालामपि सर्पस्याशङ्कया स्वकी-याद् गलान्निस्सार्य दूरमुत्क्षिपति तथैव पूर्वं ते प्रत्याख्यानकाले स्मृतिहीनेन मया स्वयमु-पस्थितापि त्वं प्रत्याख्याता । अतो मया महद्दुःखमनुभूतमत्यन्तं क्लेशिता च भवती । तदेत्सर्वमजानता कृतं मत्वा क्षम्यतामिति तात्पर्यम् । अत्राप्रस्तुतप्रशंसा-भ्रान्तिमत्-काव्य-लिङ्ग-दृष्टान्ताऽलङ्काराः हरिणीवृत्तं च ॥ २४ ॥

शकुन्तलाआर्यपुत्र = स्वामी उत्तिष्ठतु नूनं = निश्चयेन तर्कयामि तेषु दिवसेषु पुराकृतं मे = मम सुचरितप्रतिबन्धकं सुचरितस्य = पुण्यकर्मणः तत्कार्यस्य च सुखस्य प्रतिबन्धकं प्रतिरोधकम् परिणामसुखपाकाभिमुखम् आसीत् येन सानुक्रोशोऽपि सदयोऽपि, सानुरागोऽपि विरसः = अपरक्तः, उदासीनः संवृत्तः = जातः । यदाहं भवता तिरस्कृता तदा मे सुखस्य विलोपि किमप्यदृष्टमेवासीत्, येन पुण्यफलं सुखं निरुद्धम् । इत्थं ममैव पापस्यायं परिणामः, न ते कश्चन दोषः ।

( राजा उत्तिष्ठति )

शकुन्तलाअथ कथं = केन प्रकारेण आर्यपुत्रेण = स्वामिना दुखं भजति तच्छीलः दुःखभागी = दुःखभोगशीलः अयं जनः = अहं स्मृतः


से मैं अन्धा हो गया था और अन्धा अच्छी वस्तु को भी शक से बुरी समझता है, जो अन्धे के लिए स्वाभाविक है । जैसे कोई अन्धा व्यक्ति किसी के द्वारा गले में पहनाई हुई माला को साँप समझकर फेंक देता है, उसी प्रकार माला-सी मोहक तुझको मैंने भी छोड़ दिया था ।

शकुन्तला—आर्य पुत्र ! उठें निश्चय ही पुण्यकर्म का अवरोधक पूर्वजन्म में किया हुआ मेरा पाप उन दिनों फलोन्मुख था, जिससे सहृदय होते हुए भी आर्यपुत्र मुझ पर निर्दय हो गये थे ।

( राजा उठता है )

शकुन्तला—मुझ दुःखिया को आर्यपुत्र ने कैसे याद किया ? अर्थात् मुझसे किये गये विवाह की बात आपको कैसे याद आ गयी ?

४०४अभिज्ञानशाकुन्तलम्

राजा—उद्धृतविषादशल्यः कथयिष्यामि—

मोहान्मया सुतनु ! पूर्वमुपेक्षितस्ते
यो बाष्पबिन्दुरधरं परिबाधमानः ।
तं तावदाकुटिलपक्ष्मविलग्नमद्य
१बाष्पं प्रमृज्य विगतानुशयो २भवेयम् ॥ २५ ॥
( इति यथोक्तमनुतिष्ठति )


राजा—उद्धृतविषादशल्यः उद्धृतं = हृदयात् दूरीकृतं उत्खातं विषादरूपं क्लेश-रूपं शल्यम् = शङ्कुर्येन स उद्धृतविषादशल्यः कथयिष्यामि = वदिष्यामि । पूर्वं त्वल्लोचन-परिमार्जनेन सुखितो भूत्वा ततः पश्चात् कथयिष्यामीत्यर्थः ।

अन्वयः— हे सुतनु ! यः बाष्पबिन्दुः पूर्वं ते अधरं परिबाधमानः मया मोहात् उपेक्षित आकुटिलपक्ष्मविलग्नं तं बाष्पं अद्य प्रमृज्य विगतानुशयः भवेयं तावत् ॥ २५ ॥

अथ शकुन्तलया स्वस्मरणकारणं पृष्टो नृपतिर्दुष्यन्तो ब्रवीति—मोहान्मयेति । हे सुतनु = हे शोभनाङ्गि ! यः = बाष्पबिन्दुः—बाष्पस्य = नेत्रजलस्य बिन्दुः=कणः पूर्वं=प्रत्याख्यानकाले ते = तव अधरं = अधरोष्ठं परिबाधमानः = सर्वतः पीडयन् नेत्रयोः निर्गत्य कपोलावतिक्रम्य अधरे स्थितः मया = परमविवेकेना धर्मभीरुणा दुष्यन्तेन मोहात् = अज्ञानात् उपेक्षितः = अपरिभृष्टः आकुटिलपक्ष्मविलग्नं-आकुटिलेषु = ईषद्वक्रेषु पक्ष्मसु = नेत्रलोमसु विलग्नं-सम्बद्धं तं तथाभूतं बाष्पं = नेत्रजलबिन्दुम् अद्य=इदानीम् प्रमृज्य = शोधयित्वा विगतानुशयः विगतः = अपगतः अनुशयो = पश्चात्तापो यस्य स विगतानुशयः भवेयं = स्याम् ।

अयं भावः— प्रिये ! आवयोर्हृद्गतः शोकशङ्कु यावन्नोद्ध्रियते तावत् भवत्या स्मरण-कारणं कथयितुं न शक्नोमि । प्रथमं ते अश्रु प्रमृज्य विगतविषादे भूत्वा पश्चात् सकलं वृत्तं कथयिष्यामि अतोऽनुजानीहि मां त्वां बाष्पं परिमार्जितम् । अत्र विशेषोक्ति-व्यतिरेका-नुप्रासा अलङ्कारः वसन्ततिलकावृत्तं च ॥ २५ ॥

( इति = एवमुक्त्वा यथोक्तमनुतिष्ठति = अश्रुपरिमार्जनं करोति )


राजा— पहले अपने हृदय के काँटे को उखाड़कर पुनः इस बात को तुझसे कहूँगा।

हे सुन्दरि ! तुम्हारे अधर को पीड़ित करती हुई जो आँसू की बूँदें मेरे द्वारा अज्ञानवश पहले परित्याग के समय उपेक्षित कर दी गईं थीं, कुछ तिरछी पलकों में लगी हुई उसी आंसू को पोंछकर सम्प्रति मैं पश्चात्तापविहीन हो जाऊँगा ॥ २५ ॥

( ऐसा कहकर शकुन्तला के आँसुओं को पोंछता है । )

विशेष— स्मृति क्यों आई ? इसको बताने से पहले अपने हृदयशोक रूपी कांटों को निकालना जरूरी है, तभी शान्ति से कोई बात बतलाई जा सकती है । क्षमा मांगने, आँसू पोछने आदिसे वह कांटा निकलेगा । प्रिये ! निरपराध तुझे त्यागने का मेरे हृदय में बड़ा कष्ट है । यह कष्ट मेरे हृदय में नुकीली कील की भांति गड़ रहा है । पहले तुम मुझे क्षमा कर दो, मेरा कष्ट दूर हो जाय तो, फिर मैं बतलाऊँगा कि मैंने तुझे कैसे याद किया ।

इस पद्य में बाष्प शब्द दो बार आया है । अतः यह खटकता है । यदि चतुर्थचरण के दूसरे बाष्प शब्द के स्थान पर कान्ते संबोधन कर दिया जाय तो अधिक उचित होगा ।

पाठा०—१. कान्ते ! प्रमृज्य । २. भवामि ।

सप्तमोऽङ्कः

४०५

शकुन्तला—( नाममुद्रां दृष्ट्वा ) अज्जउत्त ! इदं ते अंगुलीअअं [ आर्यपुत्र ! इदं तेऽङ्गुलीयकम् । ]

राजा—'अस्मादङ्गुलोयोपलम्भात्खलु स्मृतिरुपलब्धा ।

**शकुन्तला—**विसमं किदं णेण जं तदा अज्जउत्तस्स पच्चअकाले दुल्लहं आसि । ( विषमं कृतमनेन यत्तदार्यपुत्रस्य प्रत्ययकाले दुर्लभमासीत् । )

**राजा—**तेन ह्यृतुसमवायचिह्नं प्रतिपद्यतां लताकुसुमम् ।

**शकुन्तला—**ण से विस्ससामि । अज्जउत्तो एव्व णं धारेदु । [ नास्य विश्वसिमि । आर्यपुत्र एवैतद्धारयतु ]

( ततः प्रविशति मातलिः )


अश्रुपरिमार्जनसमये दुष्यन्तस्य हस्तेऽङ्गुलीयकं विलोक्य शकुन्तला तं पृच्छति— आर्यपुत्र ! = हे स्वामिन् ! इदं तव करे विद्यमानं ते = तव अङ्गुलीयकं = मुद्रा, कथमागतम् इदन्तु मदङ्गुलो पूर्वमार्यपुत्रेण परिधपितासीदिति प्रश्नः ।

राजा—अस्माद् = अङ्गुलीयोपलम्भात् , अङ्गुलीयस्य = मुद्रायाः उपलम्भात् = धीवर द्वाराऽङ्गुलीयकप्राप्तेः खलु = एव स्मृतिः = स्मरणम् उपलब्धा = प्राप्ता ।

शकुन्तला—उपालभते अनेनाङ्गुलीयकेन, विषमं = विसदृशं, कष्टं, कृतमुत्पाद्यपितम्, यत् = यस्मात् प्रत्ययकाले = प्रत्यायनकाले प्रमाणोपस्थापनसमये दुर्लभं = अप्राप्यमासीत् = अभूत् ।

राजा—तेन हि = यद्येतेन प्रत्यायनं तर्हि लता = लतेव तन्वी त्वं ऋतुसमवायचिह्नं-ऋतुना = वसन्तेन ( मया ) यः समवायः = पुनः समागमः तस्य चिह्नं = सूचकं कुसुमं = पुष्पं ( इदमङ्गुलीयकम् ) प्रतिपद्यताम् = प्राप्नोतु तन्वोलता ऋतुसमागमचिह्नं पुष्पमिव तन्वङ्गी भवती एवं मत्समागर्माचन्हमिदमङ्गुलीयकं धारयतु इत्यर्थः ।

शकुन्तला—अस्याऽङ्गुलीयकस्य तदङ्गुलीयकं न विश्वसिमि = न प्रमाणं मन्ये, पूर्वं प्रत्यायनकाले असांन्निध्येन विषमाचरणादिति भावः । अत आर्यपुत्र एव = श्रीमानेव एतत् = अङ्गुलीयकं धारयतु

( ततः = तदनन्तरमेव मातलिः प्रविशति )


शकुन्तला—( नामाङ्कित अंगूठी के देखकर ) = आर्यपुत्र क्या यह वही अंगूठी है? जिसे आपने मेरी अंगुली में पहनाया था, जो मेरे हाथ से जल में गिर गई थी।

**राजा—**हाँ यह वही अंगूठी है और अकस्मात् आश्चर्यजनक रूप से इस अंगूठीकी प्राप्ति से ही वस्तुतः तुम्हारी मुझे याद आ गई ।

**शकुन्तला—**इस अंगूठी ने उस समय बहुत अनुचित किया था, जो कि आपको विश्वास दिलाने के समय मुझे दुर्लभ हो गई थी ।

**राजा—**तो ऋतु के समागम चिह्न स्वरूप लता जैसे पुष्पों को धारण करती है, उसी प्रकार मेरे समागम के फलस्वरूप तुम भी इस अंगूठी को अब पुनः धारण करो ।

**शकुन्तला—**मैं इसका विश्वास नहीं करती, आपही इसे धारण करें ।

( तदनन्तर मातलि का प्रवेश )


पाठा०—१. अस्मादङ्गुतोपलम्भात्खलु ।

४०६ अभिज्ञानशाकुन्तलम्

मातलिः—दिष्ट्या धर्मपत्नीसमागमेन पुत्रमुखदर्शनेन चायुष्मान् वर्धते ।

राजा—$^१$अभूतसंपादितस्वादुफलो मे मनोरथः । मातले ! न खलु विदितोऽयमाखण्डलेन वृत्तान्तः स्यात् ।

मातलिः—( सस्मितम् ) किमीश्वराणां परोक्षम् । एत्वायुष्मान् । भगवान्मारीचस्ते $^२$दर्शनं वितरति ।

राजा—शकुन्तले अवलम्ब्यतां पुत्रः । त्वां पुरस्कृत्य भगवन्तं द्रष्टुमिच्छामि ।


मातलिःदिष्ट्या = मागधेयेन, धर्मपत्नी समागमेन = भार्यामिलनेन, पुत्रमुखदर्शनेन = सुताननावलोकनेन च आयुष्मान् = चिरञ्जीवी वर्द्धते = बुद्धिं प्राप्नोति ।

राजासम्पादितस्वादुफलः—सम्पादितं = युष्माभिर्देवेन वा साधितं स्वादु = मधुरं फलं = पुत्रकलत्रञ्च यस्य स सम्पादितस्वादुफलः = सञ्जातमधुरफलः मे = मम मनोरथः = अभिलाषः, कामनाऽभूत् = जातः । मातले ! = इन्द्रसारथे ! अयं वृत्तान्तः मम पुत्रपत्नीसमागम्यरूपः आखण्डलेन = इन्द्रेण न खलु विदितः स्यात् = मम मनोरथफलावाप्तिराखण्डलेन न वेद्यते किमितिभावः ।

मातलिः—( सस्मितमाह ) ईश्वराणां = प्रभूणां परोक्षकम् = अगोचरम् किम् ? विज्ञातमेवैतद् वृत्तान्तेमिन्द्रस्येतिभावः । मारीचाश्रमप्रवेशं सूचयन्नाह—एतु = आगच्छतु आयुष्मान् = चिरञ्जीवी भगवान् मारीचः—पूज्यो मरीचिपुत्रः कश्यपः ते = तुभ्यं दर्शनावसरं वितरति = ददाति ।

राजा—मातलेर्वचनमङ्गीकुर्वन् राजा दुष्यन्तः शकुन्तलामाह—शकुन्तले ! = प्रिये ! / पुत्रः = स्वात्मजः अवलम्ब्यतां = स्वाङ्के गृह्यताम् त्वां = भवतीम् पुरस्कृत्य = अग्रे निधाय, भगवन्तं = पूज्यं महर्षिकाश्यपं द्रष्टुम् = विलोकितुम् इच्छामि = कामये ।


मातलि—बड़े हर्ष की बात है कि सौभाग्य से आप अपनी धर्मपत्नी को प्राप्तकर अपने औरसपुत्र सर्वदमन के मुख को देखकर आज हर्षान्वित हो रहे हैं । अतः आपको बधाई है ।

राजा—मातले ! मेरे मनोरथ में स्वादिष्ट फल लग गया, इन्द्रसारथे ! इन्द्र को तो यह समाचार नहीं विदित होगा ?

विशेष—यह प्रसंग परममित्र इन्द्र को भी ज्ञात हो जाय, जिससे उन्हें मेरी खुशी होगी । उनके पास आने से ही यह सौभाग्य प्राप्त हुआ यह राजा दुष्यन्त का सौहार्द है ।

मातलि—( मुस्कराकर ) ऐश्वर्यशालियों के लिए कौन सी बात छिपी हुई है; चिरंजीवी, आप आयें पूज्य महर्षि मरीचिपुत्र कश्यपजी ने आपको दर्शन देना स्वीकार कर लिया है ।

विशेष—मुस्कुरा कर बोलना सौहार्द का चिह्न है । मुस्कराने का दूसरा अभिप्राय है मातलि यह सब सोचकर कि यह सब इन्द्र का ही रचा नाटक है, राजा को पता ही नहीं आनन्द ले रहा है । ब्रह्मपुत्र महर्षि मरीचि की महिमा अद्भुत है, जिससे कश्यप जी के महत्व को बढ़ाने के लिए ही उन्हें मारीच कहा गया है ।

राजा—प्रिये शकुन्तले ! अपने इस पुत्र को अपनी गोद में लेकर मेरे साथ चलो, तुम्हें साथ ले करके ही मैं भगवान् कश्यप जी का दर्शन करना चाहता हूँ ।


पाठा०—१. सुहृत्सम्पादिताव साधुतरफलो । २. दर्शनमिच्छति ।

सप्तमोऽङ्कः ४०७

शकुन्तला—हिरिआमि अज्जउत्तेण सह गुरुसमीवं गंतुं । [जिह्रेम्यर्थपुत्रेण सह गुरुसमीपं गन्तुम् ।]

राजा—१अप्याचरितव्यमभ्युदयकालेषु । एह्येहि । (सर्वे परिक्रामन्ति)

(ततः प्रविशत्यदित्या सार्धमासनस्थो मारीचः ।)

मारीचः—(राजानमवलोक्य) दाक्षायणि !

पुत्रस्य ते रणशिरस्ययमग्रयायी २दुष्यन्त इत्यभिहितो भुवनस्य भर्ता । चापेन यस्य विनिवर्तितकर्म जातं तत्कोटिमत्कुलिशमाभरणं मघोनः ॥ २६ ॥


शकुन्तला—अत्र राज्ञाऽनुष्ठानमङ्गीकुर्वाणा शकुन्तला सलज्जमाह—आर्यपुत्रेण = स्वामिना सह = साकम् गुरूणां = पूज्यानां समीपे = सन्निधौ गन्तुं = यातुम् जिह्रेमि = लज्जे ।

राजा—शकुन्तलाया लज्जां परिहरन् दुष्यन्तः प्राह—अभ्युदयकालेषु = मङ्गलोत्सवादिसमयेषु आचरितव्यमपि = कर्तव्यमेव । एहि = आगच्छ । आभ्युदयिककालेषु भर्त्रा सह गुरुसाक्षात्कारणमाचार एवेति तंन्त्र लज्जाकरणमनुचितमेवेति भावः (सर्वे सकलाः जनाः परिक्रामन्ति मण्डलानि कृत्वा गच्छन्ति) ।

(ततः पश्चात् प्रविशति रङ्गमञ्चे दृश्यते अदित्या पत्न्या सार्धं सहैव आसनस्थः = आसने उपविष्टः मारीचः = मरीचिपुत्रः महर्षिः कश्यपः) ।

मारीचः—अथ अदित्या भार्यया सहामने समासीनः महर्षिः कश्यपः राजानं दृष्ट्वा स्वपत्नीं दक्षपुत्रीमदिति कथयति—पुत्रस्येति

अन्वयः—अयं दुष्यन्तः इत्यभिहितः भुवनस्य भर्ता ते पुत्रस्य रणशिरसि अग्रयायी (अस्ति) यस्य चापेन विनिवर्तितकर्म (सत्) कोटिमत् तत् कुलिशं मघोनः आभरणं जातम् ।

स्वभार्यया दक्षपुत्र्या अदित्या साकमासने समासीनः परिसमाप्ताह्निककृत्यो महर्षिः कश्यपः नृपतिं दुष्यन्तं दृष्ट्वा तत्प्रभावं वर्णयन्नदितिं प्रत्याह—पुत्रस्येतिअयं = एषः पुरोदृश्यमानो जनः दुष्यन्त इत्यभिहितः—दुष्यन्त इति नाम्ना प्रसिद्धः दुष्यन्तनाम-


शकुन्तला—आर्य पुत्र, मुझे तो आपके साथ गुरुजनों के पास जाते हुए लज्जा आ रही है ।

राजा—उत्सव और आनन्द के समय तो पति पत्नी को साथ ही गुरुजनों का दर्शन करना चाहिए, अतः तुम भी मेरे साथ चलो । (सभी घूमते हैं ।)

(अदिति के साथ आसन पर विराजमान मारीच कश्यप जी का प्रवेश)

मारीच—(राजा को देखकर अपनी पत्नी से) दाक्षायणि ! युद्ध में तेरे पुत्र इन्द्र के साथ आगे आगे चलने वाला दुष्यन्त नाम से संसार में प्रसिद्ध पृथ्वी का चक्रवर्ती राजा तेरे सामने उपस्थित है, जिसके धनुष से ही सम्पादित कृत्यवाला तीक्ष्ण जगाद्विदित वज्र इन्द्रका आभूषण बन कर रह गया है ॥ २६ ॥

विशेष—महर्षि कश्यप की पत्नी अदिति प्रजापति दक्ष की पुत्री थीं, इसलिए उन्हें दाक्षायणी कहा गया है—दक्षस्यापत्यं स्त्रीदाक्षायणी तत् सम्बुद्धौ हे दाक्षयणि ! देवराज इन्द्र का वज्र देवशत्रु


पाठा०—१. आचरितमेतदभ्युदयकालेषु । २. दुःषन्त ।

४०८ अभिज्ञानशाकुन्तलम्

अदितिः—संभावणीआणुभावा से आकिदी । [ संभावनीयानुभावाऽस्याकृतिः ] ।

मातलिः—आयुष्मन् ! एतौ पुत्रप्रीतिपिशुनेन चक्षुषा दिवौकसां पितरावायु-ष्मन्तमवलोकयतः। तावुपसर्प ।


ज्ञेयकः भुवनस्य = भूमण्डलस्य पृथिव्याः भर्ता = पालक ते = तव पुत्रस्य = तनयस्य इन्द्रस्य रणशिरसि = समरमूर्ध्नि अग्रयायी = अग्रेसरः पुरोयायी भुवनस्य साक्षाद्भुवो-भर्ता परोक्षतः दिवोऽपीतिभावः । यस्य = दुष्यन्तस्य चापेन = धनुषा विनिवर्तितकर्म— विनिवर्तितं = असुरसंहारात् शमितं कर्म = शत्रुहननरूपं कार्यं यस्य तत् विनिवर्तित-कर्म =** समाप्तस्वकार्यं तत् कोटिमत् = निर्व्यापारत्वेन कुण्ठितास्त्रं तत् प्रसिद्धं कुलिशं = वज्रं मघोनः = इन्द्रस्य आभरणं = शोभामात्रफलकत्वात् = भूषणमात्रम् जातं = सम्पन्नम् ।

**अयं भावः—**निर्वर्तिताह्निकक्रियस्वभार्यया आदित्या सहासने सुखासीनः महर्षिः कश्यपो राजानं दुष्यन्तं वीक्ष्य तत्प्रभावातिशयं वर्णयन्नदितिं ब्रूते—देवि ! दुष्यन्त इति नाम्ना विश्वस्मिन् प्रख्यातस्तव पुत्रस्येन्द्रस्य परमः सहायकः, सखा देवासुरसंग्राम-पुरोगामी एष न केवलं भूमण्डलमेव शास्ति अपितु महेन्द्रस्यापि साहाय्यकरणात् अयं स्वर्गस्यापि पालकश्चक्रवर्ती राजास्ति । अस्य धनुषा शत्रूणां संहारादिन्द्रस्य वज्रं कुण्ठि-तास्त्रं सत् हस्ताभरणमात्रं सम्पन्नम् । मघोनो हस्ते तन् कुलिशं केवलमाभरणरूपतयैव तिष्ठति, तत्कार्यमसुरविनाशस्तु सम्प्रति अस्य धनुषैव क्रियते । अतो विश्वस्य संरक्षण-कार्यमस्मिन् विन्यस्य सुखं शेते विश्वम्तो महेन्द्रः । अत्रोदात्तरूपककाव्यालिङ्गाऽलङ्काराः वसन्ततिलका वृत्तं च ।। २९ ।।

अदितिः—अस्य = राज्ञः आकृतिः = शरीरं सम्भावनीयानुभावा संभावनीयः = ऊह्यः अनुभावः = प्रभावः यस्याः सा सम्भावनीयानुभावा = प्रभावशालिनी 'यत्राकृतिस्तत्र गुणा वसन्ति' इति न्यायात् आकृत्यैव ज्ञायतेऽयं महानुभाव अस्याकृत्या तादृशमनुभावं पश्यमीति भावः ।

मातलिः—आयुष्मन् = चिरञ्जीविन् । एतौ दिवोकसां-दिवः = स्वर्गः ओकः = गृहं येषां ते तेषां दिवोकसां = देवानां पितरौ = जनकौ अदितिकश्यपौ पुत्रप्रीतिपिशुनेन = पुत्रप्रीतिः पुत्रसहचरत्वाद्राज्ञः स्नेहः तस्याः पिशुनेन = सूचकेन पुत्रवत्स्नेहं = सूचयतः चक्षुषा = नेत्रेण आयुष्मन्तं = त्वाम् अवलोकयतः इन्द्रतुल्येन स्नेहेन त्वां पश्यतः तौ उपसर्प = तयोः समीपे गच्छ ।


दैत्य-दानवों के वध के निमित्त बना था, किन्तु जब शत्रु राक्षसों का विनाश अब राजा दुष्यन्त का धनुष ही करता है । अतः वज्र के समस्त कार्य राजा के धनुष से ही सम्पन्न हो जाते हैं । काम न होने से अब वज्र केवल इन्द्र के हाथ की शोभामात्र बढ़ाता है । अतः आभूषण बनकर रह गया है ।

**अदिति—**ठीक है । इसकी आकृति से ही प्रतीत होता है कि यह कोई प्रभावशाली व्यक्ति है ।

**मातलि—**हे आयुष्मन् ! देखिए पुत्र की तरह प्रीति की सूचना देने वाले अपने नेत्रों से ये देवताओं के माता-पिता = अदिति और कश्यप आपको देख रहे हैं । अतः आप इनके पास चलकर इनको प्रणाम करें ।

सप्तमोऽङ्कः ४०९

राजा—मातले एतौ—

प्राहुर्द्वादशधा स्थितस्य मुनयो यत्तेजसः कारणं भर्तारं भुवनत्रयस्य सुषुवे यद्यज्ञभागेश्वरम् । ^१यस्मिन्नात्मभवः परोऽपि पुरुषश्चक्रे भवायास्पदं द्वन्द्वं दक्षमरीचिसंभवमिदं तत्स्रष्टुरेकान्तरम् ॥ २७ ॥

**राजा—**अदितिकश्यपौ वीक्ष्य राजा दुष्यन्तो मातलिमिन्द्रसारथि ब्रूते--मातले ! एतौ = इमौ अदितिः कश्यपश्च । प्राहुरिति ।

**अन्वयः—**इदं तत् दक्षमरीचिसंभवं स्रष्टुः एकान्तरं द्वन्द्वम्, यत् मुनयः द्वादशधा स्थितस्य तेजसः कारणं प्राहुः । तत् भुवनत्रयस्य भर्तारं यज्ञभागेश्वरं सुषुवे । यस्मिन् आत्मभवः परः पुरुषोऽपि भवाय आस्पदं चक्रे ॥ २७ ॥

अथेन्द्रसारथेः मातलेः वचनेनादितेः पतिम्भगवन्तं कश्यपं द्रष्टुमुपसर्पन् नृपो दुष्यन्तः तद् युगल समक्षमवलोक्य मातलि प्रति सादरमब्रवीत्—प्राहुर्द्वादशधेति । इदं पुरोदृश्यमानं तत्प्रसिद्धं दक्षमरीचिसम्भवं = दक्षश्च मरीचिश्च दक्षमरीची तयो = सम्भवः उत्पत्तिस्थानं यस्य तत् दक्षमरीचिसम्भवं = दक्षप्रजापतिमरीचिसंजातम् स्रष्टुः = ब्रह्मणः एकान्तरम् एकः = दक्षः मरीचिश्च अन्तरे = मध्ये यस्य तत् ब्रह्मपौत्रम् **द्वन्द्वं-**मिथुनं यत् मुनयः = ऋषयः द्वादशधा = द्वादशमूर्तिधरया, द्वादशकलात्मकतया स्थितस्य = विद्यमानस्य तेजसः = आदित्यस्य, कारणं = निदानम् प्राहुः = आमनन्ति, वदन्ति । यद्वा द्वादशधा स्थितस्य तेजसः—द्वादशसु मासेषु द्वादशमूर्तिधरस्य तेजसः सूर्यस्य कारणं प्राहुः = आमनन्ति मुनय इत्यर्थः । यत् भुवनानां = भूर्भुवः स्वर्लक्षणानां लोकानां त्रयं = त्रयी तस्य भर्तारं = स्वामिनं पालकं यज्ञभागेश्वरं--यज्ञे = क्रतौ भागः = अंशः येषां ते यज्ञभागाः देवाः तेषामीश्वरं = इन्द्रं सुषुवे = जनयामास । यस्मिन् द्वन्द्वे आत्मभुवः =


**राजा—**हे मातले ! जिसको ऋषिमुनि बारह महीनों के तेजस्वी बारह सूर्यों का कारण कहते हैं, तीनों लोकों अधिपति, यज्ञों के फलभोक्ता इन्द्र को भी जिसने जन्म दिया है, संसार के कल्याण के लिए परम पुरुष भी जिसके यहां आकर वामन के रूप में अवतीर्ण हुए हैं। दक्ष और मरीचि से उत्पन्न अदिति और कश्यप जो ब्रह्माजी के एक पीढ़ी के बाद उत्पन्न युगल जोड़ी प्रसिद्ध है, क्या वही जोड़ी ये दोनों हैं ॥ २७ ॥

**अर्थात्—**ब्रह्मा जी के मानस पुत्र प्रजापति दक्ष की पुत्री अदिति तथा ब्रह्माजी के मानस पुत्र महर्षि मरीचीजी के पुत्र कश्यप मुनि इन दोनों की जोड़ी जो संसार में प्रसिद्ध है, जिससे बारह रूप में स्थित बारह महीनों के सूर्य उत्पन्न हुए हैं, त्रिलोक रक्षक, यज्ञ-भाग-भोक्ता इन्द्र भी जिसके पुत्र हैं तथा परम पूज्य विष्णु भी जिनके यहां वामन रूप में अवतीर्ण हुए हैं, क्या यही स्त्री-पुरुष की जोड़ी अदिति एवं कश्यप ये दोनों हैं ।

**विशेष—**ज्योतिष्चक्र निरुपण के अनुसार प्रत्येक मास के अलग-अलग सूर्य माने जाते हैं । वस्तुतः एक ही सूर्य बारह महीनों में बारह रूप धारण करते हैं । उनके बारह-बारह रूप मान लिये गये हैं । इस दृष्टि से सूर्य को द्वादशभागविभक्त कहा गया है । भगवान् विष्णु अपनी इच्छा के अनुसार ही जन्म ग्रहण करते हैं । अतः उन्हें आत्मभव कहा जाता है । भगवान् विष्णु देवकार्य-साधन के लिए कश्यप के द्वारा अदितिजी के गर्भ में वामनरूप से अवतीर्ण हुए थे । अतः ये दोनों


पाठा०—१. यस्मिन्नात्मभुवः ।