भारतकोश
संग्रह पर लौटें

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

४१४ || अभिज्ञानशाकुन्तलम्

मातलिः— एवं विधातारः प्रसीदन्ति ।

राजा— भगवन् इमामाज्ञाकरीं वो गान्धर्वेण विवाहविधिनोपयम्य कस्यचित् कालस्य बन्धुभिरानीतां स्मृतिशैथिल्यात्प्रत्यादिशन्नपराद्धोऽस्मि तत्रभवतो ^१युष्मत्सगोत्रस्य कण्वस्य । पश्चादङ्गुलीयकदर्शनादूढपूर्वां तद्दुहितरमवगतोऽहम् । तच्चित्रमिव मे प्रतिभाति ।


लोके प्राक् पुष्पोद्गमः तदनु फलं जायते इत्थमेव प्राङ्मेघमण्डलाविर्भावः पश्चात् तत्कार्यं जलवर्षणं जायते परं लोकोत्तरतपःसिद्धेः भवतस्तु पूर्वमेव पुत्रकलत्रलाभरूपं फलं पश्चाद्दर्शनं जातमित्यहो भवतां प्रभावातिशयः ।

मातलिः— नात्र विस्मयस्यावकाश इत्याशयेन मातलिराह—एवम् अनेन विधिना विधातारः = ईश्वराः समर्थपुरुषा प्रसीदन्ति = अनुगृह्णन्ति । आयुष्मताऽयं क्रमो लौकिक उक्तः, अलौकिकस्तु इतो भिन्न एव । इच्छासिद्धयो महात्मानो यदेवेच्छन्ति तत्तदैव सम्पद्यते इत्यर्थः ।

राजा— अथ शकुन्तला-विस्मरणकारणं जिज्ञासमानो राजा दुष्यन्तो महर्षि पृच्छति—भगवन् ! = जगद्गुरो ! वः = युष्माकम् आज्ञां करोति तच्छीला आज्ञाकरी ता-माज्ञाकरीं इमां आदेशपालिनीं आज्ञाकरीं शकुन्तलां गान्धर्वेण = गन्धर्वविवाहविधिना उपयम्य = विवाह्य परिणीय कस्यचित् कालस्य पश्चात् = किञ्चित्कालानन्तरं बन्धुभिः = तापसैः शार्ङ्गरवादिभिः आनीतां = उपस्थापिताम् स्मृतेः = स्मरणस्य शैथिल्यात् दुर्बल-त्वात्, स्मृतिभ्रंशात् प्रत्यादिशन् = निराकुर्वन् युष्माभिः समानं गोत्रं यस्य युष्मत्स-गोत्रस्य = भवद्वंशीयस्य तत्रभवतः = पूज्यस्य कण्वस्य काश्यपेयस्य अपराद्धोऽस्मि = कृता-पराधोऽस्मि । पश्चात् = तदनु, अङ्गुलीयकस्य मुद्रिकाया दर्शनात् = अवलोकनात् पूर्वं = प्राक् ऊढां = परिणीतां तद् दुहितरं = तस्यपुत्रीं शकुन्तलाम् अवगतः = ज्ञातवान् अहम् तत् = साक्षाद्दृष्टायामज्ञानम्, अङ्गुलीयकदर्शनात् ज्ञानं चित्रमिव = आश्चर्यमिव मे = मम प्रतिभाति = प्रतीयते ।


का कल्याण पहले ही हो जाता है तथा बाद में दर्शन होते हैं । दुष्यन्त अपने पुत्र तथा पत्नी का लाभ प्राप्त कर कश्यपजी का दर्शन करते हैं । यहां कल्याण रूपी कार्य पहले हो गया और दर्शन रूपी कारण बाद में हुआ ।

मातलि— हे आयुष्मन् ! भाग्यविधाता संसार के माता पिता की प्रसन्नता इसी प्रकार सद्यः फलप्रद होती है ।

राजा— भगवन् मैंने आपकी आज्ञाकारिणी इस शकुन्तला के साथ गान्धर्व विवाह की विधि से विवाह करके कुछ काल के बाद जब इसके बन्धु लोग मेरे यहाँ इसे पहुँचाने आये तब स्मृति की शिथिलता के कारण मैंने इसका परित्याग कर दिया है । इस प्रकार आपके सगोत्र ( आपकी सन्तान ) पूजनीय काश्यप कण्व मुनि ( शकुन्तला के धर्म पिता ) का मैंने बहुत बड़ा अपराध किया है । अनन्तर अंगूठी के मिल जाने पर मुझे स्मरण हो आया है कि मैंने शकुन्तला के साथ अवश्य विवाह किया था । यह बात मुझे बड़ी विचित्र लगती है ।


पाठा०—१. युष्मद्गोत्रस्य ।

सप्तमोऽङ्कः

४१५

यथा गजो नेति समक्षरूपे तस्मिन्नपक्रामति संशयः स्यात् ।
पदानि दृष्ट्वा तु भवेत्प्रतीतिस्तथाविधो मे मनसो विकारः ॥ ३१ ॥

मारीचः—वत्स अलमात्मापराधशङ्कया । संमोहोऽपि त्वय्यनुपपन्नः । श्रूयताम् ।
राजा—अवहितोऽस्मि ।


अथ स्वप्रतीतेरसम्भवदृष्टान्तेन चित्रत्वं समर्थयति--यथेति ।

अन्वयः—यथा समक्षरूपे गजो न इति अपक्रामति तस्मिन् संशयः स्यात्, पदानि-दृष्ट्वा तु प्रतीतिर्भवेत् मे मनसः विकारः तथाविधः ( अस्ति ) ॥ ३१ ॥

पूर्वं शकुन्तलाया विस्मृतिः, पश्चात्तदङ्गुलीयकदर्शनेन स्मृतिश्चेति स्वप्रतीतेरसम्भव-दृष्टान्तप्रदर्शनपूर्वकमाश्चर्यजनकत्वमुपपादयति--यथा गज इति । यथा = येन प्रकारेण पाददर्शनविकारेण समक्षरूपे समक्षं = प्रत्यक्षं रूपं = स्वरूपं यस्य स तादृशे कस्मि- श्चित्सत्त्वे गजो न = नायं हस्तीति मिथ्या ज्ञानं ततः अपक्रामति । तिरोहिते सति तस्मिन् गजो नेति, मिथ्या ज्ञानविषयीभूते तस्मिन् सत्त्वे संशयः = गजो वा न वेति सन्देहः स्यात् । पदानि = भूमौ तन्न्यासप्रतिबिम्बानि दृष्ट्वा = विलोक्य प्रतीतिः = सत्यं मया दृष्टो गज एवेति सम्प्रत्ययो भवेत् मे = मम मनसः चित्तस्य विकारः = चित्तभ्रमः पूर्वस्यामुपस्थि- तायामियं न मम भार्येति पुनस्तिरोहितायां भार्या वा न वा पश्चादङ्गुलीयकदर्शनेन मम भार्यैवेति प्रतीतिः ताथाविधः तादृशः अस्ति । अङ्गुलीयकदर्शनसाध्या प्रतीतिः साक्षा- द्दर्शनेन कथन्न जातेति चित्रं मया न बुध्यते इति भावः ॥ ३१ ॥

मारीचः—आत्मापराधशङ्कया आत्मनः = स्वस्य अपराधः = दोषः तस्य शङ्का = सन्देहः तया आत्मापराधशङ्कया = अपराद्धोऽहं कण्वस्येति ज्ञानेन अलं = ईदृशी शङ्का मास्तु सर्वदा प्रबुद्धस्य मम कथं तदा संमोहोऽभूदित्याशङ्कामपनयति--संमोहोऽपि = त्वयि यः तदा संमोहः = चेतोविकृतिरभूत् सोऽपि उपपन्नः युक्त एव, कारणाधीन एव श्रूयतां = आकर्ण्यताम् संमोहकारणं वर्णयामि ।

राजा—अवहितोऽस्मि = संमोहकारणं श्रोतुं सावधानोऽस्मि ।


जैसे किसी के सामने हाथी के होने पर भी 'यह हाथी नहीं है' ऐसा विश्वास हो, और उसके चले जाने पर सन्देह हो, और पुनः उसके पदचिह्नों को देखकर विश्वास किया जाय कि वह हाथी ही था, ठीक इसी प्रकार मेरे मन का विकार था । कृपया यह मेरा सन्देह दूर कीजिए ॥ ३१ ॥

विशेष—एक दिन कोई व्यक्ति सड़क से किनारे बैठा था, उसने सामने से ही एक विशालकाय राजा का हाथी निकल गया । उसे सन्देह हो गया कि यह हाथी है या नहीं? अन्त में निश्चय किया वह हाथी नहीं है । उसके चले जाने पर उसके पदचिह्नों को देखकर निश्चय किया कि शायद वह हाथी ही था ।

ठीक यही दशा दुष्यन्त की भी है, शकुन्तला को सामने आने पर कहा कि यह मेरी पत्नी नहीं तिरस्कृत होकर चले जाने पर उसे पश्चाताप हुआ, फिर अंगूठी मिल जाने पर तो विश्वास ही हो गया है कि यह मेरी विवाहिता पत्नी ही थीं ।

मारीच—बेटा शकुन्तला को भूलने में तुम अपना अपराध = दोष बिल्कुल न समझो तुम्हारा वह तो सहेतुक था । उसका कारण भी सुनो—

राजा—भगवन् मैं सुनने के लिए सावधान हूँ, कृपया आप कहें ।

४१६ अभिज्ञानशाकुन्तलम्

मारीचः- यदैवाप्सरस्तीर्थावितरणात्प्रत्यक्षवैकल्यां शकुन्तलामादाय मेनका दाक्षायणीमुपगता तदैव ध्यानादवगतोऽस्मि दुर्वाससः शापादियं तपस्विनी सहधर्म-चारिणी त्वया प्रत्यादिष्टा नान्यथेति। स चायमङ्गुलीयकदर्शनावसानः।

राजा- (सोच्छ्वासम्) एष वचनीयान्मुक्तोऽस्मि।

शकुन्तला- (स्वगतम्) दिट्ठिआ अकारणपच्चादेसी ण अज्जउत्तो। ण हु सत्तं अत्ताणं सुमरेमि। अहवा पत्तो मए स हि सावो विरहसुण्णहिअआए ण विदिदो। अहो सहीहिं संदिट्ठम्हि भत्तुणो अगुलीयअं दंसइदव्वं त्ति। [दिष्ट्याऽ-कारणप्रत्यादेशी नार्यपुत्रः। न खलु शप्तमात्मानं स्मरामि। अथवा प्राप्तो मया स हि शापो विरहशून्यहृदयया न विदितः। अतः सखीभ्यां संदिष्टास्मि भर्तुरङ्गुलीयकं दर्शयितव्य-मिति।]


मारीचः- यदा = यस्मिन् समये एव अप्सरस्तीर्थावितरणात् अप्सरस्तीर्थे = शक्र-तीर्थे यदवतरणं = पर्यायप्राप्तं सान्निध्यं कर्तुं गमनं तस्माद्धेतोः प्रत्यक्षवैकल्यां प्रत्यक्षं = साक्षात् दृष्टं वैकलव्यं = व्यग्रता कातरता यस्या सा तां प्रत्यक्षवैकल्याम् शकुन्तलां = स्वतनयाम् आदाय = गृहीत्वा मेनका = मेनका नाम्नी अप्सरा दाक्षायणीं = दक्षकन्याम-दितिमुपगता = आगता स्वयं कन्यायाः शोकं पश्यन्ती अनुकम्प्यमाना तां गृहीत्वाऽत्र प्राप्ता तदैव = तस्मिन्नेव क्षणे ध्यानात् = चिन्तनात् अवगतः = योगजेन प्रत्यक्षेण ज्ञातवान् अस्मि यत् दुर्वाससः = तन्नाम्नो महर्षेः शापात् अनिष्टाशीर्वचनात् तपस्विनी = दीना, अनुकम्पनीया सहधर्मचारिणी सहचरी धर्मपत्नी शकुन्तला त्वया भवता दुष्यन्तेन प्रत्या-दिष्टा = प्रत्याख्याता नान्यथा = नापरोऽत्र हेतु। स च अयं शापः अङ्गुलीयकदर्शनावसानः- अङ्गुलीयकस्य = मुद्रिकाया दर्शनमेव अवसानं समाप्तिसीमा यस्य स अङ्गुलीयकदर्शना-वसानः = अङ्गुलीयकदर्शननावसानमात्रोद्धारः।

राजा- (सोच्छ्वासम् = गभीरश्वासेन सह आह) एषः = अयं अहं वचनीयात् = लोका-पवादात्, निन्दातः मुक्तोऽस्मि रक्षितोऽस्मि धर्मदारत्यागी अयं दुष्यन्तो नास्य नाम संग्रााह्यमिति निन्दापगतेत्यर्थं।

शकुन्तला- (स्वगतम् = आत्मगतम्) आह दिष्ट्या = सौभाग्येन आर्यपुत्रः = स्वामी अकारणपरित्यागी-न कारणं यत्र तदकारणमकारणं प्रत्यादेशो यस्य स अकारणप्रत्या


मारीच- तभी अप्सरातीर्थ के घाट से अत्यन्त विकल शकुन्तला को लेकर मेनका दाक्षायणी के पास आई तभी ध्यान से मैंने जान लिया था कि दुर्वासा के शाप के कारण यह बेचारी सहधर्म-चारिणी शकुन्तला तुम्हारे द्वारा तिरस्कृत हुई है, न कि अन्य कारण से और वह शाप भी अंगूठी देखते ही समाप्त हो जाने वाला है।

राजा- (लम्बी सांस लेकर) अब मैं अपनी पत्नी के परित्याग होने वाले लोकापवाद = लोकनिन्दा से मुक्त हो गया।

शकुन्तला- (अपने मन) यह सौभाग्य की बात है कि आर्यपुत्र बिना कारण के ही परित्याग करने वाले नहीं हैं, किन्तु मुझे दुर्वासा ने कब शाप दिया यह याद नहीं आ रहा है अथवा शाप मुझे मिला होगा, किन्तु उस समय मैं विरह के कारण शून्यहृदय थी, अतः उसे जान न पाई (इसीलिए मेरी विदाई के अवसर पर मेरी प्रियसखियों ने मुझे बड़े ही आग्रह से सावधान कर दिया था कि यदि वह राजा तुझे न पहचाने तो उसके दिये हुए इस अङ्गुलीयक को ही परिचय स्वरूप उसे दिखा देना)।

सप्तमोऽङ्कः ४१७

मारीचः—वत्से ! ^१चरितार्थाऽसि । सहधर्मचारिणं प्रति न त्वया मन्युः कार्यः । पश्य—

शापादसि प्रतिहता ^२स्मृतिरोधरुक्षे भर्तर्यपेततमसि प्रभुता तवैव ।
छाया न मूर्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा ॥ ३२ ॥


दोषी = अकारणपरित्यागी न । आर्यपुत्रेण शापकारणादेवाऽहं प्रत्यादिष्टा न त्वकारणमिति नात्र आर्यपुत्रस्य दोषः । न खलु = निश्चयेन आत्मानं शापयुक्तं = स्वं शप्तं न स्मरामि । अथवा प्राप्तो मया स हि शापः विरहशून्यहृदयया विरहेण शून्यं = वियोगेन ज्ञानरहितं हृदयं = आन्तरं यस्याः सा तया विरहशून्यहृदयया ( मया ) न ज्ञातः = न विदितः । अतः अनेन कारणेन सखीभ्यां = आलीभ्यां ( अनुसूयाप्रियंवदाभ्याम् ) संदिष्टा = अहमुक्ताऽस्मि भर्तुः = पत्युः अङ्गुलीयकं = मुद्रा दर्शयितव्यम्, प्रत्यभिज्ञानमन्तराऽर्यपुत्रायाऽङ्गुलीयकं दर्शयितव्यमिति आश्रमपरित्यागकाले सखीभ्यामहमुक्तास्मि । असति शापे ताभ्यामेवमुक्तं न भवेत् ।

मारीचः— अथ शकुन्तलाया संशयं समुन्मूलयितुं महर्षिः कश्यपः प्राह—वत्से ! विदिताऽर्था = ज्ञातवस्तुतत्त्वा सहधर्मचारिणं = सहचरं पतिं प्रति न त्वया मन्युः = कोपः कार्यः = करणीय । पश्य = अवलोकय ।

अन्वयः— शापात् स्मृतिरोधरुक्षे भर्तरि प्रतिहता असि । अपेततमसि ( तस्मिन् ) तवैव प्रभुता ( अस्ति ) छायामलोपहतप्रसादे दर्पणतले न मूर्छति, शुद्धे तु सुलभावकाशा ( भवति ) ।

महर्षि कश्यपः शकुन्तलामुपदिशति—शापादिति । शापात् = दुर्वाससा दत्तादनिष्टाशीर्वचनात् स्मृतिरोधरुक्षे स्मृतेः=स्मरणस्य रोधः=स्मरणावरक तमः तेन रुक्षे=निःस्नेहकर्कशे भर्तरि = पत्यौ पत्युर्मनसि प्रतिहताऽसि = प्राप्तप्रतिघातासि, अलब्धप्रवेशासि भर्त्रा प्रत्याख्यातासीत्यर्थः । अत्र तस्य दोषो नास्ति । अपेततमसि अधुना अपेतं = दूरीभूतं तमः = शापलक्षणं स्मृतिरोधकमज्ञानं यस्मात् तत्तस्मिन् अङ्गुलीयकदर्शनेन शापनिवृत्त्या विगताज्ञाने भर्तरि तवैव = भवत्या एव प्रभुता = प्रभुत्वं सामर्थ्यमस्ति छाया = प्रतिबिम्बं, **मलोपहतप्रसादे--**मलेन आगन्तुकेन दोषेण रजसा श्यामिकया वा उपहतः=दूरी-


मारीच—( शकुन्तला को देखकर ) बेटी, अब तो तू अपने परित्याग के सच्चे कारण को जान ही गई, तू कृतकृत्य हो गई । अतः अब इसके लिए शोक या अपने पति पर इसके लिए कुछ भी क्रोध मत करना कि इन्होंने मेरा परित्याग कर दिया था । देख,

दुर्वासा के शाप के कारण स्मृति लुप्त हो जाने के कारण ही दुष्यन्त द्वारा तेरा परित्याग हुआ था । अब उसका स्मृति-भ्रंश रूप अज्ञान दूर हो गया । अतः अब तेरे पतिपर तेरी प्रभुता पुनः अक्षुण्ण है । धूल पड़ जाने के कारण स्वच्छता के विनष्ट हो जाने पर शीशे में प्रतिबिम्ब स्पष्ट नहीं दिखाई पड़ता, किन्तु उसके स्वच्छ हो जाने पर स्पष्ट दिखाई पड़ता है ॥ ३२ ॥

विशेष— महर्षि कश्यप के कहने का अभिप्राय है कि बेटी शकुन्तले ! अब दुष्यन्त पर तुम्हारी प्रभुता, जादू काम करेगी, तुम इनकी पटरानी बनोगी, तुम्हारी बात इनके लिए महामन्त्र होगी


पाठ०—१. विदिताथाऽसि । २. करणीयः । ३. स्मृतिलोपरूक्षे ।

२७ शाकु०

४१८अभिज्ञानशाकुन्तलम्

राजा—यथाह भगवान्।
मारीचः—वत्स! कच्चिदभिनन्दितस्त्वया विधिवदस्माभिरनुष्ठितजातकर्म पुत्र एष शाकुन्तलेयः।
राजा—भगवन्! अत्र खलु मे वंशप्रतिष्ठा।
मारीचः—तथा भाविनमेनं चक्रवर्तिनमवगच्छतु भवान्। पश्य—

कृतः प्रसादः = निर्मलता यस्य स तस्मिन् दर्पणतले दर्पणस्य = आदर्शस्य तले = पृष्ठे न मूर्च्छति न प्रसरति शुद्धे तु निर्मले पुनः तस्मिन् सुलभावकाशः सुलभः = सुखप्राप्यः अवकाशः = स्थानं यथा तादृशी भवति अत्यन्तं व्यक्ता दृश्यते इत्यर्थः।
**अयं भावः—**वत्से शकुन्तले! सुलभकोपस्य महर्षेः दुर्वाससः शापप्रभावातिशयादेव पूर्वं दुष्यन्तेन त्वं निराकृतासि। तत्र तस्य नास्ति अणुरपि दोषः। तदानीं तस्य हृदयं दुर्वाससः शापप्रभावादज्ञानावृतमासीत्, परं सांप्रतमङ्गुलीयकदर्शनेन शापापगमेन अज्ञानेऽपगते तस्य विशुद्धे हृदये मृजावदाते निर्मले दर्पणे प्रतिबिम्बमिव त्वमेव लब्धावकाशा तस्य हृदयेश्वरी भूत्वा सुखमास्व त्वामन्तरा तस्य विशुद्धे हृदये नान्यस्याः कस्याश्चित् स्थानं स्थास्यतीतिभावः॥ ३२ ॥

राजा—यथाह भगवानिति = उचितं वदति श्रीमान्।
मारीचः—वत्स != दुष्यन्त! अस्माभिः = मया आश्रमस्थमुनिगणसाहाय्येन विधिवत् = यथाशास्त्रम् अनुष्ठितजातकर्म अनुष्ठितं = सम्पादितं कृतं जातकर्म = जननोत्तरं सद्यः कार्यं जातकर्मसंस्कारः यस्य स अनुष्ठितजातकर्म पुत्रः = सुतः एषः = अयं शकुन्तलाया अपत्यं पुमान् शाकुन्तलेयः = शकुन्तलानन्दनः सर्वदमनः त्वया = भवता अभिनन्दितः कच्चित् ? = किम् ? उत्सङ्गादिना त्वया संभावितो भवतु इति मे कामः।
राजा—वंशस्याविच्छेदमेवजिगमिषुः मुनिं पृच्छति-भगवन् = महात्मन्! अत्र खलु = शाकुन्तलेये बालके एव मे = मम वंशप्रतिष्ठा = कुलस्थितिः वंशगौरवं, पुरुवंशसन्ततेः अयं निदानम् ?
मारीचः—तथाभाविनं = वंशप्रतिष्ठाकरं, एनं = अमुं भविष्यन्तं चक्रवर्तिनं = सम्राजं च अवगच्छतु = जानातु भवान् = त्वम्। अयं तव वंशप्रतिष्ठाकरः चक्रवर्ती च भविष्यतीति भवता ज्ञातव्यमित्यर्थः।


तुम्हारे पुत्र चक्रवर्ती सम्राट् बनेगा इनका हृदय स्वच्छ हो गया। दुर्वासा के शाप से जायमान मोह के दूर हो जाने पर ये निर्मल मन से तुम्हारा सर्वविध कल्याण करेंगे। इनकी रूखाई में इनका दोष नहीं था, दुर्वासा का शाप ही कारण था।

**राजा—**भगवन्! आप जो कहते हैं वह सर्वथा सत्य है। (अब इस शकुन्तला से पूर्ववत ही प्रेम करता हूँ।)
**मारीच—**वत्स दुष्यन्त! क्या तू ने हमलोगों के द्वारा विधिपूर्वक किये गये जातकर्म संस्कार वाले इस शकुन्तला से उत्पन्न पुत्र का अभिनन्दन स्वीकार किया या नहीं?
**राजा—**भगवन्! इस पर ही मेरे वंश की प्रतिष्ठा निर्भर है अर्थात् यही मेरे राज्य का उत्तराधिकारी बनेगा।
**मारीच—**बेटा तुम इसी प्रकार इसे अपने वंश का प्रतिष्ठापक चक्रवर्ती समझना। देखो—


पाठा०—१. जातकर्मादिक्रियः।

सप्तमोऽङ्कः ४१९

रथेनानुद्घातस्तिमितगतिना तीर्णजलधिः
पुरा सप्तद्वीपां जयति वसुधामप्रतिरथः ।
इहायं सत्त्वानां प्रसभदमनात् सर्वदमनः
पुनर्यास्यत्याख्यां भरत इति लोकस्य भरणात् ॥ ३३ ॥

अन्वयः—अयम् अप्रतिरथः अनुद्घातस्तिमितगतिना रथेन तीर्णजलधिः पुरा सप्तद्वीपां वसुधां जयति । इह सत्त्वानां प्रसभदमनात् सर्वदमनः । पुनः लोकस्य भरणात् भरत इति आख्यां यास्यति ॥ ३३ ॥

राज्ञा दुष्मन्तेन निजतनयस्य सर्वदमनस्य वंशप्रतिष्ठाकरत्वमुद्दिश्य पृष्टो महर्षिः कश्यपः तस्य भाविफलं वर्णयन् आशंसते—रथेनेति । अयम् = एषः शाकुन्तलेयः अप्रतिरथः न विद्यते प्रतिद्वन्दी रथो यस्य स अप्रतिहतरथः = अद्वितीयो महारथी निःसपत्नः, अनुद्घातस्तिमितगतिना = अस्खलितनिष्कम्पवेगेन रथेन = स्यन्दनेन तीर्णजलधिः तीर्णाः = लङ्घिताः जलधयः = समुद्राः येन स तीर्णजलधिः = उत्तीर्णसागरः पुरा = प्रथमं सप्तद्वीपां सप्त = सप्तसंख्याकानि जम्बूप्रभृतीनि द्वीपानि यस्यां सा तां सप्तद्वीपां वसुधां पृथिवीं जयति = जेष्यति । इह = आश्रमे सत्त्वानां = सिंहव्याघ्रादीनां प्राणिनां प्रसभदमनात् प्रसभं = हठेन बलात्कारेण दमनात् = अभिभवात् शासनात् सर्वदमनः = सर्वदमन इत्याख्यां प्राप्तः पुनः = भूयोऽपि लोकस्य = जनस्य भुवनस्य भरणात् = रक्षणात् पोषणाद्वा भरत इत्याख्यां = अभिधां यास्यति = गमिष्यति ।

अर्थ भावः—राज्ञा दुष्मन्तेन तस्य तनयस्य वंशप्रतिष्ठाकरत्वमुद्दिश्य परिपृष्टो महर्षिः कश्यपः तस्य भाविशुभफलं निर्दिशन्नाह—आयुष्मन् ! अयं शकुन्तलायां जातस्ते तनयो नूनं त्वद्वंशप्रतिष्ठापको भविष्यति । प्रथममयं वेगवता रथेन सप्तसागरां धरित्रीं विजित्यैक-


भविष्य में यह अद्वितीय महारथी होकर कहीं भी नहीं रुकने वाले अपने अस्खलित वेगवान् रथ से सातों समुद्रों को पार करके सातों द्वीपों से युक्त समस्त पृथ्वी के मण्डल को जीतेगा और हमारे इस आश्रम में तो सभी जीवों का बलात्कार से दमन करने के कारण इसका नाम सर्वदमन रखा गया है। आगे अपनी प्रजा का अच्छी तरह से भरण, पालन और पोषण करने के कारण यह भरत के नाम से विख्यात होगा ॥ ३३ ॥

विशेष—पौराणिक साहित्य के अनुसार सम्पूर्ण पृथ्वी सात द्वीपों में विभक्त है, सातों द्वीप सात समुद्रों से घिरे हुए हैं। द्वीपों के नाम है जम्बूद्वीप, प्लक्षद्वीप, शाल्मलिद्वीप, कुशद्वीप, क्रौञ्चद्वीप, शाकद्वीप, और पुष्करद्वीप । इन द्वीपों के मध्यभाग में जम्बूद्वीप है उसमें नव वर्ष हैं, उन नव वर्षों के मध्यवर्ती इलावृत्तवर्ष के मध्य में स्वर्णमय सुमेरुगिरि है सुमेरु के ऊपरी भाग में स्वर्गपुरी की स्थिति कही गई है।

कविवर कालिदास ने इस श्लोक के चतुर्थ चरण के अनुसार ‘पुनर्यास्यत्याख्यां भरत इति लोकस्य भरणात्’ डुभृञ् धारण पोषणयोः धातु से भरत शब्द की निष्पति मानते हुए कहा है कि इन्हीं भरत के नाम पर इस देश का नाम भारत पड़ा है और वायुपुराण भी इसी का स्पष्ट संकेत करता है कि प्रतापी राजा दुष्यन्त से शकुन्तला में उत्पन्न भरत से ही इस देश का नाम भारत हुआ है।

चक्रवर्ती ततो यज्ञे दौष्यन्तिर्नृपसत्तम !
शकुन्तलायां भरतो यस्य नाम्ना तु भारतम् । ९९।११३

पाठा०—१. ॰गतिनोत्तीर्णं । २. सप्तद्वीपामवति ।

४२० अभिज्ञानशाकुन्तलम्

**राजा—**भगवता कृतसंस्कारे सर्वमस्मिन् वयमाशास्महे।

**अदितिः—**भववं! इमाए दुहिदुमणोरहसम्पत्तीए कण्वो वि दाव सुदवित्थारो करीअदु। दुहिदुवच्छला मेणआ इह एव्व उपचदंती चिट्ठदि। [ भगवन्! अनया दुहितृमनोरथसंपत्त्या कण्वोऽपि तावच्छ्रुतविस्तारः क्रियताम्। दुहितृवत्सला मेनकेहैवोप-चरन्ती तिष्ठति। ]

शकुन्तला— ( आत्मगतम् ) मणोरहो खु मे भणिदो भववदीए। [ मनोरथः खलु मे भणितो भगवत्या। ]


च्छत्रः सम्राट् भविष्यति। इदानीम् अस्मिन् ममाश्रमे सर्वेषां सिंहव्याघ्रादीनां सत्त्वानां दमनात् सर्वदमन इत्यभिधां गतः, अग्रे चासौ जनानां रक्षणात् भुवनस्य पालनात् भरत इति नाम्ना प्रसिद्धो भविष्यति तथा च महाप्रभावो दीर्घायुः सौभाग्यसम्पन्नोऽयं ते तनयो नूनं चक्रवर्ती राजा भविष्यति। अतो भवताऽस्य सौभाग्यविषये निश्चिन्तेन भाव्यमिति भावः। न कोऽपि संशयः कार्यः। अत्र स्वभावोक्ति-भाविककाव्यलिङ्गालङ्काराः शिखरिणी छन्दश्च ॥ ३३ ॥

राजा—भगवता = पूज्येन श्रीमता कृतः संस्कारो यस्य सः तस्मिन् कृतसंस्कारे = सम्पादितजातकमंसंस्कारेऽस्मिन्नर्भके सर्वमाशास्महे = सकलं संभावयामि।

अदितिः—भगवन् = स्वामिन् ! अनया दुहितृमनोरथसम्पत्या दुहितुः = पुत्र्याः शकुन्तलायाः यो मनोरथः = अभिलाषः भर्त्रा प्रतिग्रहरूपः तस्य या सम्पत्तिः = सिद्धिः तया दुहितृमनोरथसम्पत्त्या = पुत्रीमनोरथसिद्ध्या कण्वः = शकुन्तलाधर्मपिता अपि तावत् श्रुतविस्तारः श्रुतः = आकर्णितः विस्तारः = व्यासोक्तिः, आमूलवर्णनं येन स श्रुतविस्तारः क्रियतां = विधीयताम् कण्वस्याप्येतदभ्युदयसंविभागो भवत्विति भावः। दुहितृवत्सला—दुहितरि वत्सला = स्नेहवती दुहितृवत्सला पुत्रीस्नेहवती मेनका इहैव = आश्रमे एव उप-चरन्ती = अस्मान् सेवमाना श्रुतविस्तारैव तिष्ठति

शकुन्तला—( शकुन्तलाऽदित्युरुक्तमात्मगतमभिनन्दति ) मनोरथः खलु मे भणितो


किन्तु श्रीमद्भागवत विष्णुपुराण आदि इस बात को नहीं मानते हैं उनका कहना है कि स्वायम्भुव मनु के पुत्र राजा प्रियव्रत की वंशपरम्परा में ऋषभदेव के ज्येष्ठ पुत्र जडभरत हुए हैं, उन्हीं के नाम से इस देश का नाम भारत हुआ है—

तेषां वै भरतः श्रेष्ठो नारायण परायण।
विख्यातं वर्षमेतद् यन्नाम्ना भारतमुत्तमम् ॥ श्रीमद्भाग० ११।२१।१७

अपि च—ततश्च भारतं वर्षमेतल्लोकेषु गीयते।

भरताय यतः पित्रा दत्तं प्रातिष्ठता वनम् ॥ वि. पु. २।१।३२

**राजा—**आपके द्वारा संस्कार किये गये इस बालक में हमलोग सब कुछ आशा करते हैं। जिसका संस्कार आपने हाथों से किया है, उससे सभी बातों की आशा है।

**अदिति—**भगवन्! अपनी पुत्री के पूर्ण हुए इस मनोरथ वैभव से कण्व को भी विदित करा देना चाहिए और पुत्री वत्सला मेनका तो हम लोगों की सेवा करती हुई यहीं उपस्थित है। अतः उसे तो ज्ञात हो ही जायेगी।

शकुन्तला—( मन ही मन ) पूज्या अदिति ने वस्तुतः मनोरथ ही कह दिया। अर्थात् मेरे पिता महर्षि कण्व को भी इसकी सूचना अवश्य मिलनी चाहिए।

सप्तमोऽङ्कः४२१

मारीचः— तपःप्रभावात्प्रत्यक्षं सर्वमेव तत्रभवतः ।
राजा— अतः खलु मम नातिक्रुद्धो मुनिः ।
मारीचः— तथाप्यसौ प्रियमस्माभिः श्रावयितव्यः । कः कोऽत्र भोः ।

( प्रविश्य )

शिष्यः— भगवन् अयमस्मि ।
मारीचः— गालव ! इदानीमेव विहायसा गत्वा मम वचनात्तत्रभवते कण्वाय प्रियमावेदय यथा—पुत्रवती शकुन्तला तच्छापनिवृत्तौ स्मृतिमता दुष्यन्तेन प्रतिगृहीता इति ।


भवत्या = यदहमिच्छामि तदेव भवत्या देव्या अदित्या भणितं = प्रस्तुतमित्यर्थः । मम हृदयेऽप्येवमस्ति यत्तातओऽवगच्छतु वृत्तान्तमिमम् ।
मारीचः—तपःप्रभावात् = तपस्यामहिम्ना तपोबलेन तत्र भवतः मान्यस्य कण्वस्य सर्वमेव = सकलमेव वृत्तम् प्रत्यक्षं = दृश्यम् । कण्वस्य महर्षेः सति ध्याने सकलमेव प्रत्यक्षमवगतं भवति । अतो न तत्र सन्देष्टव्यमित्यर्थः ।
राजा—अतः = अस्माद्धेतोः ध्यानबलाद्विदित सकलवृत्तान्तत्वादेव मुनिः = महर्षिः कण्वः नातिक्रुद्धः = नातिकुपित किन्तु लघूकोप एव, अत एव मां न शप्तवानित्यर्थः ।
मारीचः— अथ मारीचः लौकिकं विचारमनुस्मरन् ब्रवीति—तथापि कण्वे ध्यानबलात् विदितवृत्तान्तेऽपि असौ = स अस्माभिः प्रष्टव्यः = प्रियमेतद् वृत्तं विदितं किं ते इत्याभाषितव्य श्रावयितव्यो वा कः कोऽत्र भोः = क इह तिष्ठति ?
शिष्यः—भगवन् = श्रीमन् अयं = अहमस्मि उपस्थितोऽस्मि, आज्ञापयेत्यर्थः ।
मारीचः—गालव ! इदानीं = साम्प्रतम्, विहायसा = आकाशमार्गेण शीघ्रं गत्वा मम वचनात् = मम वचनमवलम्ब्य तत्र भवते मान्याय कण्वाय प्रियं = प्रियकरं वृत्तम् आवेदय = कथय यथा = यत् पुत्रवती = पुत्रसहिता शकुन्तला तच्छापनिवृत्तौ तस्याः शापः तच्छापः तस्य निवृत्तौ = समाप्तौ अवसाने स्मृतिमता = लब्धस्मृतिना दुष्यन्तेन प्रतिगृहीता = स्वीकृता इति


मारीच—यद्यपि अपने तप के प्रभाव से यह वृत्तान्त पूर्णरूप में भगवान् कण्व को पहले ही से विदित है ।
राजा—इसीलिए कण्वमुनि मेरे ऊपर अधिक क्रुद्ध नहीं हुए ।
मारीच—तथापि पुत्रसहित अपनी पुत्री शकुन्तला का उसके पति के द्वारा पुनः स्वीकार कर लेने का शुभ समाचार हमें कण्व को सुनाना ही है । बाहर कौन है ?

( प्रवेश करके )

शिष्य—भगवन् मैं उपस्थित हूँ, क्या आज्ञा है ?
मारीच—गालव ! तुम अभी आकाशमार्ग से जाकर मेरी ओर से आदरणीय कण्व से यह प्रिय समाचार सुना दो कि पुत्रसहित शकुन्तला अपने शाप की समाप्ति पर स्मरण करने वाले दुष्यन्त के द्वारा प्रसन्नतापूर्वक ग्रहण कर ली गई है ।

४२२अभिज्ञानशाकुन्तलम्

**शिष्यः—**यदाज्ञापयति भगवान् । ( इति निष्क्रान्तः । )

**मारीचः—**वत्स ! त्वमपि स्वापत्यदारसहितः सख्युरखण्डलस्य ^१रथमारुह्य ते राजधानीं प्रतिष्ठस्व ।

राजा—( सप्रणामम् ) यदाज्ञापयति भगवान् ।

**मारीचः—**अपि च—

तव भवतु विडौजाः प्राज्यवृष्टिः प्रजासु त्वमपि विततयज्ञो वज्रिणं प्रीणयस्व । युगशतपरिवर्तनेवमन्योन्यकृत्यैः नयतमुभय लोकानुग्रहश्लाघनीयैः ॥ ३४ ॥


**शिष्यः—**भवान् = श्रीमान् यत् = यथा आज्ञापयति = आदिशति ( इति = इत्युक्त्वा निष्क्रान्तः = निर्गतः )

**मारीचः—**अथोपसंहर्तुमिच्छन् महर्षिः राजानं दुष्यन्तमूचे—वत्स ! = आयुष्मन् ! त्वमपि = भवानपि स्वापत्यदारसहितः स्वस्य = आत्मनः अपत्येन = सन्तत्या पुत्रेण सर्वदमनेन दारैः = शकुन्तलाया च सहितः समेतः सख्युः = सुहृदः आखण्डलस्य = महेन्द्रस्य रथं = स्यन्दनमारुह्य ते = तव स्वस्य राजधानीं = प्रधाननगरीं प्रतिष्ठस्व = प्रयाहि ।

**राजा—**यदाज्ञापयति भगवान् = श्रीमान् यत् = यथा आज्ञापयति = उपदिशति तथैव स्वां राजधानीं गमिष्यामीत्यर्थः ।

**मारीचः—**अपि च—

**अन्वयः—**विडौजाः तव प्रजासु प्राज्यवृष्टिः भवतु, त्वमपि, विततयज्ञः ( सन् ) वज्रिणं प्रीणयस्व एवम् उभयलोकानुग्रहश्लाघनीयैः अन्योन्यकृत्यैः युगशतपरिवर्तन् नयतम् ।

उभयोर्महेन्द्रदुष्यन्तयोः युवयोः पारस्परिकसहयोगेन विश्वकल्याणं भविष्यतीत्याशंसन् कश्यप आशिषं प्रयुङ्क्ते—तवेति । विडौजाः—वेवेष्टीति विट् = व्यापकम् ओजः = बलं तेजो वा यस्य सः यद्वा विशति भिनत्ति रिपूनिति विडम् = शत्रुभेदकम् ओजो यस्य स विडौजाः = इन्द्रः तव = भवतो दुष्यन्तस्य प्रजासु = जनेषु राष्ट्रे वा प्राज्यवृष्टिः प्राज्या = प्रभूता वृष्टिः = वर्षणं यस्य स प्राज्यवृष्टिः पर्याप्तवर्षः भवतु = काले काले प्रभूतं जलवर्ष-


**शिष्य—**आपकी जैसी आज्ञा । ( ऐसा कहकर निकल जाता है । )

मारीच—( राजा के प्रति ) बेटा, तुम भी अपने पुत्र और पत्नी को साथ लेकर अपने मित्र इन्द्र के रथ पर सवार होकर अपनी राजधानी हस्तिनापुर के लिए प्रस्थान करो ।

राजा—( प्रणामपूर्वक ) भगवन् ! आपकी जैसी आज्ञा ।

मारीच—और भी—

इस समय हमें तुमको यही आशीर्वाद देना है कि तुम्हारे राज्य में हमेशा इन्द्र यथेच्छ वर्षा करें और तुम भी बड़े-बड़े महान् यज्ञों को करके इन्द्र को सर्वदा प्रसन्न करते रहो । इस प्रकार तुम्हारा कार्य इन्द्र करें, तुम्हारे राज्य में उत्तम वृष्टि हो और तुम इन्द्र का यज्ञ आदि करते रहो ।


पाठ०—१. रथमास्थाय ।

सप्तमोऽङ्कः / ४२३

राजा—भगवन् यथाशक्ति श्रेयसे यतिष्ये ।

मारीचः—वत्स ! किं ते भूयः प्रियमुपकरोमि ।

राजा—अतः परमपि प्रियमस्ति ! यदिह भगवान् प्रियं कर्तुमिच्छति तर्हीदमस्तु । ( भरतवाक्यम् )—


णेन भूमण्डलं पुष्यतु । त्वमपि = भवान् दुष्यन्तोऽपि विततयज्ञः वितताः = विस्तीर्णाः यज्ञाः = इष्टयो येन स विततयज्ञः = विस्तृतनानेकयज्ञः, आहतानेकाश्वमेधादियागः वज्रिणं = इन्द्रं प्रीणयस्व = प्रसादय उभयलोकानुग्रहश्लाघनीयैः उभयोः द्वयोः लोकयोः द्यावापृथिव्योः अनुग्रहेण = उपकारेण श्लाघनीयानि = प्रशंसनीयानीति उभयलोकानुग्रहश्लाघनीयैः = देवलोकभूलोकोपकारकप्रशंसनीयै, अन्योन्यकृत्यैः अन्योन्यस्य परस्परस्य कृत्यैः = यज्ञादिभिः सुवर्षाणादिमिश्च कार्यैः, युगशतपरिवर्तन् युगानां = कलिद्वापरत्रेतासत्य-युगानां शतानि युगशतानि तेषां परिवर्तः = परिवृत्तयः इति युगशतपरिवर्तस्तान् युगशत-परिवर्तन् = अनेकयुगसहस्रपरिवर्तनानि नयतं = गमयतम् ।

अयं भावः—महर्षिः कश्यपः द्वयोः लोकवीरयोः शुभाशंसनं कुर्वन्नुपदिशति—राजन् दुष्यन्त ! त्वमिन्द्रश्चोभावपि परस्परसौहार्देनोभयोः भूलोकस्वर्गलोकयोः कल्याणं कुर्वाणो दीर्घकालमतिवाहयतम् युवयोश्च सहस्रं समाः परस्परं प्रीतिर्भवतादिति भावः । अत्र परिवृत्तिरलङ्कारः मालिनी वृत्तञ्च ॥

राजा—भगवन् ! = श्रीमन् ! यथाशक्ति शक्तिमनतिक्रम्य यथाशक्ति—यथासामर्थ्यम्, श्रेयसे = लोककल्याणाय यतिष्ये = भवदाज्ञानुसारं कार्यं कर्तुं प्रयतिष्ये ।

मारीचः—एवं पत्नीपुत्रप्राप्तिप्रमुदितं मातलिना संयोजितं शक्रस्य स्यदनं समारुह्य स्वां राजधानीं हस्तिनापुरं प्रतिष्ठमानस्य राजर्षेः दुष्यन्तस्य प्रियचिकीर्षया पुनरपि पृच्छति महर्षिः कश्यपः—वत्स ! =आयुष्मन् ! ते = तव भूयः = पुनरपि पत्नीपुत्रप्राप्त्यधिकं प्रियम् = अभीष्टमुपकरोमि ।

राजा—अतः परमपि अस्मात् मनोरथसिद्धेः आशिषश्च परं = अधिकम् प्रियमस्ति ? = प्रियमस्ति किम् ? नास्त्येवेति काकुः । तथापि यदि = चेत भवान् किमपि = प्रियं चिकीर्षत्येव तर्हि इदं = वक्ष्यमाणं । ( भरतवाक्यं = भरतस्य नटस्य वाक्यं = वचनं मङ्गलाशंसनात्मकम् ) अस्तु = जायताम् ।


इस क्रम में तुम दोनों स्वर्ग एवं भूतल दोनों लोकों के उपकार के कारण अपने-अपने प्रशंसनीय कार्यों से सैकड़ों वर्ष बताओ ॥ ३४ ॥

विशेष—पुराणों में कालमान की गणना के अनुसार युग चार होते हैं—सत्ययुग, त्रेतायुग, द्वापरयुग और कलियुग । इन चारों युगों के बीतने को एक चौकड़ी कहते हैं । ये एक के बाद एक आते हैं । इस प्रकार यह चौकड़ी निरन्तर आती-जाती रहती है । महर्षि कश्यप के कहने का तात्पर्य यह है कि इस प्रकार तुम लोग दोनों लोकों का उपकार करते हुए सैकड़ों चौकड़ा व्यतीत करो ।

राजा—मैं अपनी शक्ति भर लोकमङ्गल के लिए हमेशा प्रयास करता रहूँगा ।

मारीच—वत्स ! अच्छा कहो, मैं इससे अधिक और क्या तुम्हारा प्रियकारक उपकार करूँ ।

राजा—भगवन् ! इससे भी अधिक और क्या भला हो सकता ? यदि आप कुछ और भी उपकार करना चाहते हैं तो यह भी हो—

४२४ अभिज्ञानशाकुन्तलम्

प्रवर्ततां प्रकृतिहिताय पार्थिवः सरस्वती श्रुतिमहतां महीयसाम्¹। ममापि च क्षपयतु नीललोहितः पुनर्भवं ²परिगतशक्तिरात्मभूः ॥ ३५ ॥

**अन्वयः—**पार्थिवः प्रकृतिहिताय प्रवर्तताम् । श्रुतिमहतां सरस्वती महीयताम् । परिगतशक्तिः आत्मभूः नीललोहितः ममापि च पुनर्भवं क्षपयतु ॥ ३४ ॥

महर्षेः कश्यपस्य प्रभावात् सफलमनोरथोऽपि राजा दुष्यन्तो पुनरपि प्रियं प्रार्थयते—**प्रवर्ततामिति—**पार्थिवः-पृथिव्यामीश्वरः पार्थिवः = क्षितिपतिः प्रकृतिहिताय प्रकृतिः = प्रजा तस्याः हिताय = कल्याणाय श्रेयसे प्रवर्तताम् = प्रवृत्तो भवतु श्रुतिमहतां = श्रुत्या वेदज्ञानेन शास्त्रश्रवणेन वा महतां = वरिष्ठानां सरस्वती = वाणी यद्वा श्रुतिमहता = श्रोत्रेन्द्रियपूजिता, चमत्कारिणी सरस्वती = कविवाणी, महीयताम् = उत्कृष्टं गौरवं लभताम् यद्वा श्रुतिमहता = वेदवर्णिता सरस्वती = भगवती शारदा न हीयताम् = नाल्पसारा भवतु ! परिगतशक्तिः परिगता = मिलिता, नित्यसमवायिनी शक्तिः शिवा, यस्य स परिगतशक्तिः यद्वा परितः = सर्वतः गताः = व्याप्ताः शक्तयो यस्यासौ परिगतशक्तिः = सर्वशक्तिसम्पन्नः आत्मभूः-आत्मना = स्वयं भवतीत्यात्मभूः = स्वयम्प्रकाशः नीललोहितः-वामे नीलः दक्षिणे लोहितः इति नीललोहितः = भगवान् सदाशिवः ममापि = सूत्रधारस्य कवे-र्कालिदासस्य च पुनर्भवं = पुनर्जन्म, जन्मान्तरं नाशयतु !

**अयं भावः—**दयासिन्धो महर्षे ! भवदीयानुग्रहादहं सफलाभिलाष सम्पन्नः नातः परं किमपि प्रार्थनीयमस्ति । तथापि यदि भवान् प्रियं चिकीर्षति तर्हीदमस्तु—समस्ताः पृथिवीपतयः स्वसुखनिरपेक्षः सन्तः प्रजानामेव श्रेयसे सर्वदा प्रवर्तन्ताम्, महाकवीनां

राजा लोग प्रजा के हित कार्यों में हमेशा लगे रहें, चारों वेदों में गीयमान कीर्ति भगवती सरस्वती जगत् में पूजा को प्राप्त हों, या वैदिक वाङ्मय में प्रशंसित महान् कवियों की वाणी गौरव-मण्डित हो। और सर्वशक्तिमान् स्वयम्भू भगवान् सदाशिव मेरे पुनर्जन्म को = जन्मांतर प्राप्ति को समाप्त करें। अर्थात् भगवान् शिव की कृपा से मेरा जन्म-मरणरूप भवबन्धन हमेशा के लिए छूट जाय।

**विशेष—**नाटक के आदि और अन्त में मङ्गलाचरण प्रशस्त माना गया है। तदनुसार इस नाटक के आदि में नान्दी और अन्त में भरतवाक्य मंगल के रूप में प्रयुक्त है।

नाटकों के भरतवाक्यों में प्राणिमात्र की भलाई की कामना निहित रहती है। नाटकों में अन्तिम श्लोक जो प्रशस्ति के रूप में आता है, उसे भरतवाक्य कहते हैं। भरत नट को कहते हैं, नाटक के अन्त में समस्त अभिनेता एक साथ जो मङ्गलकामना करते हैं, उसे भरतवाक्य कहते हैं या नट लोग नाट्यशास्त्र के प्रवर्तक आचार्य भरतमुनि के प्रति अपनी श्रद्धा व्यक्त करने के निमित्त अपने वाक्य को भरतवाक्य कहते हैं।

इस भरतवाक्य में श्रुतिमहती शब्द के दो अर्थ हैं—एक वेदों में प्रतिपादित महत्त्वशाली संस्कृत विद्या तथा दूसरा अर्थ वैदिक वाङ्मय में स्थित समृद्ध संस्कार विद्या तथा आत्मभू शब्द का तात्पर्य है—बिना किसी तत्त्व अथवा बिना किसी की सहायता के स्वयं अपनी इच्छा से जन्म धारण करने वाले। अतः आत्मभू शब्द कभी ब्रह्मा जी के लिए, कभी विष्णु के लिए और कभी शिव के लिए आवश्यकतानुसार प्रयुक्त होता रहता है। प्रकृत में आत्मभू शब्द का अर्थ है अनादिदेव भगवान् शिव जी।


पाठा०—१. महीयताम् ।
२. परिगतभक्तिरात्मभूः

सप्तमोऽङ्कः ४२५

( इति निष्क्रान्ताः सर्वे )

( सप्तमोऽङ्कः )

समाप्तमिदमभिज्ञानशाकुन्तलं नाम नाटकम् ।


सरसाः कविताश्च सहृदयानां हृदयेषु चमत्कारं जनयित्वा विशिष्टसम्मानं लभन्ताम्, सर्वशक्तिशाली पार्वतीपतिः परमेश्वरश्च जन्मान्तरं निरस्य शाश्वतं पदं दिशत्विति शम् । अत्र समुच्चयालङ्कारः रुचिरा वृत्तञ्चास्ति ॥ ३५ ॥

इति कविवरकालिदासप्रणीतस्याभिज्ञानशाकुन्तलनामकनाटकस्य सप्तमेऽङ्के पं० श्रीकृष्णमणित्रिपाठिना संस्कृते कृता विमलाख्या व्याख्या समाप्ता ।

इत्थं समाप्तमिदमभिज्ञानशाकुन्तलं नाम नाटकम् ।


पुराणों ने अनुसार अमृत पानकर अमर होने के निमित्त देवता एवं दानवों द्वारा किये गये समुद्रमन्थन के अवसर पर अमृत निकलने के पूर्व निर्गत विष से चराचर जगत् को उसके शमन के लिए देवता तथा दानवों की प्रार्थना पर दयालु भगवान् शङ्कर ने विषपान कर लिया था। तदनुसार शिवजी के गले में अटके हुए उस हलाहल विष से उनका कण्ठ काला पड़ गया और उनकी जटा लाल हो गई। इसलिए वे परम कृपालु शिवजी नीललोहित कहे जाते हैं।

ततः करतलीकृत्य व्यापि हालाहलं विषम् ।
अभक्षयन् महादेवः कृपया भूतभावनः ॥ ( ८।७।४२ )
यस्यापि दर्शयामास स्ववीर्यं जलकल्मषः ।
यच्चकार गले नीलं तच्च साधो विभूषणम् ॥ ( ८।७।४३ )

इस प्रकार कविवर कालिदास द्वारा प्रणीत अभिज्ञानशाकुन्तल नामक नाटक में सप्तम अङ्क पर पं० श्रीकृष्णमणि त्रिपाठी द्वारा की गयी राष्ट्रभाषा हिन्दी में सुधा नामक व्याख्या समाप्त ।

अभिज्ञानशाकुन्तल नामक नाटक समाप्त ।

परिशिष्टम्

सुभाषित-वाक्यानि

अङ्गुलीयकमेवनिदर्शनमवश्यं भाव्यचिन्तनीयः समागमो भवति ।
अचेतनं नाम गुणं न लक्षयेत्० ।
अतनुषु विभवेषु ज्ञातयः सन्तु नाम० ।
अतिस्नेहः पापशङ्की ।
अत्यारूढिर्भवति महतामप्यपभ्रंशनिष्ठा ।
अनतिक्रमणीयानि श्रेयांसि ।
अनतिक्रमणीयं मे सुहृद्वाक्यम् ।
अनायः परवारव्यवहारः ।
अनियन्त्रणानुयोगस्तपस्विजनो नाम ।
अनिर्वर्णनीयं परकलत्रम् ।
अनुपपन्नं खल्वीदृशं त्वयि ।
अनुशयदुःखायेवं हतहृदयं संप्रति विबुद्धम् ।
अन्यमेव भागधेयमेते तपस्विनो निर्वर्णयन्ति यो रत्नराशीनपि विहायाभिनन्द्यते ।
अपरिचितस्यापि तेऽप्रतिलोमः संवृत्तः ।
अपूर्वः खलु वो निर्प्रहाः ।
अरण्ये मया रुदितम् ।
अर्थो हि कन्या परकीय एव ।
अवश्यंभाव्यचिन्तनीयः समागमो भवति ।
अवसरोपसर्पणीया राजानः ।
अस्य बालस्य तेऽपि संवादिनो आकृतिरिति विस्मितास्मि ।
अस्त्येतद् अन्यसमाधिभीरुत्वं देवानाम् ।
अहं तु तामाश्रमललामभूतां शकुन्तलामधिकृत्य ब्रवीमि ।
अहो कामी स्वतां पश्यति ।
अहो चेष्टाप्रतिरूपिका कामिजनमनोवृत्तिः ।
अहो विघ्नवत्यः प्रार्थितार्थसिद्धयः ।
अहो सर्वास्ववस्थासु रमणीयत्वमाकृतिविशेषाणाम् ।
आपन्नस्य विषयनिवासिनो जनस्यार्तिहरेण भवितव्यम् ।
आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः ।

सुभाषित वाक्यानि

४२७

आशङ्कसे यदग्निं तदिदं स्पर्शक्षमं रत्नम् ।
इदं तत् प्रत्युत्पन्नमतिस्त्रैणमिति यदुच्यते ।
इष्टप्रवासजनितान्यबलाजनस्य दुःखानि नूनमतिमात्रसुदुःसहानि ।
उत्सर्पिणी खलु महतां प्रार्थना ।
उत्सवप्रियाः खलु मनुष्याः ।
उपपन्नः खल्वस्याङ्गुलीयागमः ।
उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी ।
एवमात्माभिप्रायसंभावितेष्टजनचित्तवृत्तिः प्रार्थयिता विडम्ब्यते ।
एवमादिभिरात्मककार्यनिर्वर्तिनीनामनृतमयवाङ्‌मधुभिराकृष्यन्ते विषयिणः ।
एष दास्याः पुत्रः कुसुमरसपाटच्चरः तत्र भवत्या वदनकमलमभिलंघते ।
एष नामानुग्रहो यच्छूलावदतार्य हस्तिस्कन्धे प्रतिष्ठापितः ।
एषोऽत्रभवान् नदीमतिक्रम्य मृगतृष्णिकां संक्रान्तः ।
ओदकान्तं स्निग्धो जनोऽनुगन्तव्यः ।
क इदानीं शरीरनिर्वापयित्रीं शारदीं ज्योत्स्नां पटान्तेन वारयति ।
क इदानीं सहकारमन्तरेणातिमुक्तलतां पल्लवितां सहते ।
कथमिवानीं तातस्याङ्कात् परिभ्रष्टा मलयतटोन्मूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्यामि ।
कदापि सत्पुरुषाः शोकवास्तभ्या न भवन्ति ।
कष्टं खल्वनपत्यता ।
कस्तस्य धर्मदारपरित्यागिनो नाम संकीर्तयितुं चिन्तयति ।
कादम्बरी साक्षिकमस्माकं प्रथमसौहार्दमिष्यते ।
किं शोभनो ब्राह्मण इति कल्पयित्वा राज्ञा प्रतिग्रहो दत्तः ?
किमत्र चित्रं यदि विशाखे शशाङ्कलेखामनुवर्तेते ।
किमिव हि मधुराणां मण्डनं नाकृतीनाम् ।
किमीश्वराणां परोक्षम् ।
को नामोष्णोदकेन नवमालिकां सिञ्चति ।
कोऽन्यो हुतवहाद् दग्धुं प्रभवति ।
गण्डस्योपरि पिण्डकः संवृत्तः ।
गुर्वपि विरहदुःखमाशाबन्धः साहयति ।
ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः ।
छाया न मूर्च्छति मलोपहतप्रसादे ।
तपः षड्भागमक्षयं ददत्यारण्यका हि नः ।

४२८ अभिज्ञानशाकुन्तलम्

तमस्तपति घर्मांशौ कथमविर्भविष्यति ।

तात ! शकुन्तला विरहितं शून्यमिव तपोवनं कथं प्रविशाव ।

तेजोद्वयस्य युगपद्व्यसनोदयाभ्याम् ।

त्रिशङ्कुरिवान्तराले तिष्ठ ।

दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ।

दिष्ट्या धूमाकुलितदृष्टेरपि यजमानस्य पावके एवाहुतिः पतिता ।

न खलु धीमतां कश्चिदविषयो नाम ।

ननु प्रवातेऽपि निष्कम्पा गिरयः ।

न प्रभातरलं ज्योतिरुदेति वसुधातलात् ।

नरनासिका लोलुपस्य जीर्णऋक्षस्य कस्यापि मुखे पतिष्यसि ।

पुण्याश्रमदर्शनेन तावदात्मानं पुनीमहे ।

पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते ।

प्रतिपन्नमाधीयतां यत्नः ।

प्रमाणमन्तःकरणप्रवृत्तयः ।

बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ।

बहुल्लभा राजानः श्रूयन्ते ।

भवानेवाविनीतानां शासिताऽस्य वारणे प्रभविष्यति ।

भवितव्या खलु बलवती ।

भवितव्यानां द्वाराणि भवन्ति सर्वत्र ।

भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूवन्धुभिः ।

मनोरथा नाम तटप्रपाताः ।

मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।

मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु ।

रन्ध्रोपनिपातिनोऽनर्थाः ।

राजरक्षितव्यानि तपोवनानि नाम ।

राज्ञां तु चरितार्थता दुःखोत्तरैव ।

लभेत प्रार्थयिता न वा श्रियं ।

लोको नियम्यत इवात्मदशान्तरेषु ।

वत्से ! सुशिष्यपरिदत्ताविद्येवाशोचनीया संवृत्ता ।

वयं तत्त्वान्वेषी मधुकर हतास्त्वं खलु कृती ।

वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः ।

विकारं खलु परमार्थतोऽज्ञात्वाऽनारम्भः प्रतीकारस्य ।

सुभाषित वाक्यानि

४२९

विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम ।
विवक्षितं ह्यनुक्तमनुतापं जनयति ।
शिखण्डके ताड्यमानस्याप्सरसा वीतरागस्येव नास्तीदानीं मे मोक्षः ।
शुद्धे तु दर्पणतले सुलभावकाशा ।
श्रिया दुरापः कथमीप्सितो भवेत् ।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ।
सदृशमेतत् पुरुवंशप्रदीपस्य भवतः ।
सन्ततिच्छेदनिरवलम्बनानां कुलानां मूलपुरुषावसाने सम्पदः परपुरुषमुपतिष्ठन्ते ।
सरसिजमनुविद्धं शैवलेनापि रम्यम् ।
सर्वः कान्तमात्मीयं पश्यति ।
सर्वः प्रार्थितमर्थमधिगम्य सुखी संपद्यते जन्तुः ।
सर्वः सगन्धेषु विश्वसिति द्वावप्यत्रारण्यकावेव ।
सर्वास्ववस्थासु रमणीयताकृतिविशेषाणाम् ।
सागरमुज्झित्वा कुत्र वा महानद्यवतरति ।
सुविहित प्रयोगतयार्यस्य न किमपि परिहास्यते ।
स्निग्धजनसंविभक्तं हि दुःखं सह्यवेदनं भवति ।
स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशंकया ।
स्वयमक्ष्याकुलीकृत्याश्रुकारणं पृच्छसि ?
स्वाधीनकुशलाः सिद्धिमन्तः ।

सुभाषित-श्लोकाः

अतः परीक्ष्य कर्तव्यं विशेषात् संगतं रहः ।
अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम् ॥ ५।२४

अनेन कस्यापि कुलाङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् ।
कां निर्वृतिं चेतसि तस्य कुर्यात् यस्यायमङ्कात् कृतिनः प्ररूढः ॥ ७।१९

आपरितोषाद् विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।
बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥ १।२

असंशयं क्षत्रपरिग्रहक्षमा, यदार्यमस्यामभिलाषि मे मनः ।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरण प्रवृत्तयः ॥ १।२५

आलक्ष्यदन्तमुकुलाननिमित्तहासैरव्यक्तवर्णरमणीयवचःप्रवृत्तीन् ।
अङ्काश्रयप्रणयिनस्तनयान् वहन्तो धन्यास्तदङ्गरजसा मलिनीभवन्ति ॥ ७।१७

इदं किला व्याजमनोहरं वपुस्तपःक्षमं साधयितुं य इच्छति ।
ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेतुमृषिर्व्यवस्यति ॥ १।१८

औत्सुक्यमात्रमवसाययति प्रतिष्ठा क्लिश्नाति लब्धपरिपालनवृत्तिरेव ।
नातिश्रमापनयनाय यथा श्रमाय राज्यं स्वहस्तधृतदण्डमिबातपत्रम् ॥ ५।६

कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि ।
तमस्तपति घर्मांशौ कथमाविर्भविष्यति ॥ ५।१४

क्व वयं क्व परोक्षमन्मथो मृगशावै सममेधितो जनः ।
परिहासविजल्पितं सखे ! परमार्थेन न गृह्यतां वचः ॥ २।१८

ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां कुरुते ।
प्रायः स्वं महिमानं क्षोभात् प्रतिपद्यते हि जनः ॥ ६।३१

प्राहुर्द्वादशधा स्थितस्य मुनयो यत्तेजसः कारणं
भर्तारं भुवनत्रयस्य सुषुवे यद्यज्ञभागेश्वरम् ।
यस्मिन्नात्मभुवः परोऽपि पुरुषश्चक्रे भवायास्पदं
द्वन्द्वं दक्षमरीचिसम्भवमिदं तत्स्रष्टुरेकान्तरम् ॥ ७।२७

भवन्ति नम्रास्तरवः फलागमैर्नवाम्बुभिर्दूरविलम्बिनो घनाः ।
अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥ ५।१२

भानुः सकृद्युक्ततुरङ्ग एव रात्रिन्दिवं गन्धवहः प्रयाति ।
शेषः सदैवार्हितभूमिभारः षष्ठांशवृत्तेरपि धर्म एषः ॥ ५।४

सुभाषित-श्लोकाः ४३१

मानुषोषु कथं वा स्यादस्य रूपस्य सम्भवः ।
न प्रभातरलं ज्योतिरुदेति वसुधातलात् ॥ १।२५

मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः
सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः ।
उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले
मिथ्यैव व्यसनं वदन्ति मृगयामीदृग् विनोदः कुतः ॥ २।५

रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान् पर्युत्सुको भवति यत् सुखितोऽपि जन्तुः ।
तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थिराणि जननान्तरसौहृदानि ॥ ५।२

शमप्रधानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेजः ।
स्पर्शानुकूला इव सूर्यकान्तास्तदन्यतेजोऽभिभवाद् वमन्ति ॥ २।७

शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्तुर्विप्रकृताऽपि रोषणतया मा स्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥ ४।१७

सतीमपि ज्ञातिकुलैकसंश्रयां जनोऽन्यथा भर्तृमतीं विशङ्कते ।
अतः समीपे परिणेतुरिष्यते प्रियाऽप्रिया वां प्रमदा स्वबन्धुभिः ॥ ५।१७

सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्मलक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव मधुराणां मण्डनं नाकृतीनाम् ॥ १।२०

सहजं किल यद् विनिन्दितं न खलु तत्कर्म विवर्जनीयम् ।
पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव श्रोत्रियः ॥ ६।१

सिद्ध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः संभावनागुणमवेहि तमीश्वराणाम् ।
किं वाऽभविष्यदरुणस्तमसां विभेत्ता तं चेत् सहस्रकिरणो धुरि नाकरिष्यत् ॥ ७।४

स्त्रीणामशिक्षितपटुत्वममानुषीषु संदृश्यते किमुत याः प्रतिबोधवत्यः ।
प्रागन्तरिक्षगमनात् स्वमपत्यजातमन्यैर्द्विजैः परभृताः खलु पोषयन्ति ॥ ५।२२

नाट्यशास्त्र के कुछ पारिभाषिक शब्द

**नान्दी—**नाटक के आरम्भ में जिस पद्य के द्वारा देवता राजा आदि का अभिनन्दन किया जाय, उसे नान्दी कहते हैं—नन्द्यन्ते = स्तूयन्ते देवतादयो यस्यामिति नान्दी। साहित्यदर्पण में विश्वनाथ भट्टाचार्य ने नान्दी की परिभाषा इस प्रकार की है—

आशीर्वचनसंयुक्ता स्तुतिर्यस्मात् प्रयुज्यते।
देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता ॥ ६।२४

अर्थात् ग्रन्थ की निर्विघ्न समाप्ति के लिए आशीर्वादात्मक वाक्यों से युक्त नाटक के आरम्भ में की गई देवता, ब्राह्मण, नृप आदि की माङ्गलिक प्रार्थना को नान्दी कहा जाता है। इस नान्दी के लिए अपेक्षित है कि इसके द्वारा शङ्ख, चन्द्र, पद्म, चक्रवाक, कैरव आदि मङ्गलास्पद वस्तुओं की अभिव्यञ्जना हो जाय। नान्दी चतुष्पदा, अष्टपदा तथा द्वादशपदा भी होती है। जैसे —

माङ्गल्यशङ्खचन्द्राब्ज कोककैरवशंसीनी ।
पदैर्युक्ताद्वादशभिरष्टाभिर्वा पदैरुत ॥ सा० द० ६।२५

भरतमुनि ने अपने नाट्यशास्त्र में कहा है कि—

देवद्विजनृपादीनामाशीर्वादपरायणा ।
नन्दन्ति देवता यस्मात्तस्मान्नान्दीति संज्ञिता ॥

काव्यप्रदीप में लिखा है कि—

नन्दन्ति काव्यानि कवीन्द्रवर्गाः कुशालवाः पारिषदश्च सन्तः।
यस्मादलं सज्जन सिन्धुहंसी तस्मादियं सा कथितेव नान्दी ॥

**सूत्रधार:—**नाटक का वह प्रधान नट जो नाटकीय कथा वस्तु के भिन्न-भिन्न उपकरणों के सूत्र को सम्भाले रहता है, उसे सूत्रधार कहते हैं—सूत्रं धारयतीति सूत्रधारः। जैसे—

नाट्योपकरणादीनि सूत्रमित्यभिधीयते।
सूत्रं धारयतीत्यर्थे सूत्रधारो निगद्यते ॥

अर्थात् नाट्य के विभिन्न उपकरणों को सूत्र कहते हैं और जो पात्र उन्हें सँभालना है उसे सूत्रधार कहते हैं। सूत्रधार की अन्य सरल एवं संक्षिप्त परिभाषा यह है कि प्रधान नट विशेष को सूत्रधार कहते हैं जो सर्वप्रथम रंगमञ्च पर आकर वर्णनीय कथावस्तु की सूचना देता है।

वर्णनीयं कथासूत्रं प्रथमं येन सूच्यते।
रंगभूमि समासाद्य सूत्रधारः स उच्यते ॥

परिशिष्टम्

४३३

जर्मनी के प्रसिद्ध विद्वान् पिशेल साहब ने कठपुतली के नाच से नाटकों की उत्पत्ति मानी है। कठपुतली के नाच में व्यवस्थापक नचानेवाला सूत्र (डोरी) पकड़कर पुतलियों को नचाता है। इस आधार पर उसे सूत्रधार कहते हैं। शारदा-तनय के अनुसार वह कथावस्तु, नायक, रस आदि का सूत्र अर्थात् संक्षेप में वर्णन करता है अतः उसे सूत्रधार कहते हैं—

सूत्रयन् काव्यनिक्षिप्तवस्तुनेतृकथारसान् । नान्दीश्लोकेन नान्द्यन्ते सूत्रधार इति स्मृतः ॥

इस प्रकार सूत्रधार रंगमञ्च का प्रधान अधिकारी और व्यवस्थापक ही नहीं होता है अपितु वह रंगमञ्च को सजाने की कला में भी प्रवीण होता है। वह नाटक के नायक, कवि और कथावस्तु के गुणों का संक्षेप में वर्णन करता है—

आसूत्रयन् गुणान् नेतुः कवेरपि च वस्तुनः । रंगप्रसाधनप्रौढः सूत्रधार इहोदितः ॥

प्रस्तावना—जिसमें नाटक की कथावस्तु को प्रस्तुत किया जाय, उसे प्रस्तावना या आमुख कहते हैं। जैसे—

नटी विदूषको वापि पारिपार्श्वक एव वा सूत्रधारेण सहिताः संलापं यत्र कुर्वते । चित्रैर्वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर्मिय । आमुखं तत्त विज्ञेयं नाम्ना प्रस्तावनाऽपि सा ॥

अर्थात् नाटक का वह भाग जिसमें नाटक प्रारम्भ होने के पहले नटी विदूषक या पारिपार्श्वक अपने प्रस्तुत कार्य के सम्बन्ध में सुन्दर एवं रोचक शब्दों में सूत्रधार के साथ वार्तालाप करते हैं उसे आमुख या प्रस्तावना कहते हैं। इसमें विचित्र उक्तियों के द्वारा वार्तालाप होता है तथा बड़े कौशल से नाटक आरम्भ होता है—

सूत्रधारो नटीं ब्रूते मारिषं वा विदूषकम् । स्वकार्यं प्रस्तुताक्षेपि चित्रोक्त्या यत्तदामुखम् ॥

प्रयोगातिशय—यदि किसी एक ही प्रयोग में अन्य प्रयोग आरम्भ हो जाय और उसी के द्वारा पात्र का प्रवेश कराया जाय तो उसे प्रयोगातिशय कहते हैं। जैसे—

यदि प्रयोग एकस्मिन् प्रयोगोऽन्यः प्रयुज्यते । तेन पात्रप्रवेशश्चेत् प्रयोगातिशयस्तदा ॥

प्रयोगातिशय प्रस्तावना का ही एक भेद है।

विष्कम्भक—विष्कम्भक नाटक के किसी भी अङ्क के आदि में आने वाला वह भाग है, जिसमें मध्यम श्रेणी के दो पात्रों द्वारा पारस्परिक वार्तालाप में बीती हुई या आने-वाली नाटकीय कथा वस्तु से सम्बद्ध घटनाओं की सूचना दी जाती है।

विष्कम्भक दो प्रकार का होता है, एक शुद्ध विष्कम्भक दूसरा सङ्कीर्ण विष्कम्भक शुद्ध विष्कम्भक उसे कहते हैं, जिसमें एक या दो पात्र माध्यमश्रेणी के हों और संस्कृत भाषा का ही प्रयोग करते हों। सङ्कीर्ण विष्कम्भक वह होता है जिसमें

28 २८ शाकु०