ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
अध्या०२ख०२(८)] ऐतरेयारण्यकम् । २६९
सूक्तानि । तेषु “अभूरेकः” इति प्रथमं पञ्चर्चं सूक्तम् । “अपूर्व्या पुरुतमानि” [ ऋ० सं० म० ६ सू० ३२ ऋ० १ ] इति द्वितीयम् । “ य ओजिष्ठः ” [ ऋ० सं० म० ६ सू० ३३ ऋ० १ ] इति तृतीयम् । “ सं च त्वे ” [ ऋ० सं० म० ६ सू० ३४ ऋ० १ ] इति चतुर्थम् । “ कदा भुवन् ” [ ऋ० सं० म० ६ सू० ३५ ऋ० १ ] इति पञ्चमम् । “ सत्रा मदासः ” [ ऋ० सं० म० ६ सू० ३६ ऋ० १ ] इति षष्ठम् । “ अर्वाग्रथम् ” [ ऋ० सं० म० ६ सू० ३७ ऋ० १ ] इति सप्तमम् । “अपादितः” [ ऋ० सं० म० ६ सू० ३८ ऋ० १] इत्यष्टमम् । तान्येतान्यष्टावपि प्रत्येकं पञ्चर्चानि । “कथा महाम् ” इत्येतत्सूक्तमेकादशर्चम् । तच्च संपातशब्देन व्यवह्रियते । “इन्द्रो मदाय” इत्येका पाङ्किच्छन्दस्का । तत्सर्वं पठित्वाऽन्ते सूददोहसं पठेत् ।
उक्तयोर्दक्षिणोत्तरपक्षयोरनुसंधेयं कंचिद्विशेषं दर्शयति—
राथंतरो दक्षिणः पक्षः पञ्चदशः स्तोम एकशतं वसिष्ठप्रासाहा
बार्हत उत्तरः सप्तदशः स्तोमो द्विशतं भरद्वाजप्रासाहः, इति ।
योऽयमत्र दक्षिणः पक्षः सोऽयं राथंतरो रथंतरसामसंबन्धी । तेन साम्ना स्तुतिकाले पञ्चदशः स्तोमः संपाद्यते । ऋक्त्वयस्य विष्टुतिब्राह्मणोक्तप्रकारेणाऽऽवृत्त्या पञ्चदशसंख्याका ऋचो यस्मिन्स्तोमे संपाद्यन्ते सोऽयं पञ्चदशः स्तोमः । तदात्मकोऽयं दक्षिणः पक्षः । “ अभि त्वा शूर ” [ ऋ० सं० म० ७ सू० ३२ ऋ० २२ ] इत्यारभ्य “इत्था हि सोमः” [ ऋ० सं० म० १ सू० ८० ऋ० १ ] इत्येतदन्तमृग्जातमेकाधिकं शतं संपद्यते, तदात्मकोऽयं दक्षिणः । तमिमं वसिष्ठो नाम मुनिः स्वसामर्थ्येन संपादितवान् । अतोऽयं वसिष्ठप्रासाहः । एवमुत्तरपक्षेऽपि योजनीयम् । पक्षयोर्ऋक्स्तोमात्मकत्वं तैत्तिरीया आमन्नन्ति—“ पञ्चदशोऽन्यः पक्षो भवति । सप्तदशोऽन्यः ” इति ।
भागान्तरं दर्शयति—
भद्रं पुच्छं द्विपदासु , इति ।
पादद्वयोपेतास्त्वृक्षु भद्रनामकं यत्साम तत्संबन्धी शस्त्रस्य पुच्छभागः ।
द्विपदा ऋचो दर्शयति—
इमा नु कं भुवना सीषधामाऽऽयाहि वनसा
इमा नु कं०—ऋ० सं० म० १० सू० १५७ ऋ० १ । आयाहि वनसा०—ऋ० सं० म० १ सू० १७२ ऋ० १ ।
१ ग. ॰मं सू॰ ।
२७० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [५पञ्चमारण्यके-
सहेति नव समाम्नाता अथासमाम्नाताः , इति । “इमा नु कं भुवना” इत्यादि सूक्तं पञ्चर्चम् । “आयाहि” इत्यादिकमृक्च- तुष्टयोपेतम् । तदुभयमेलनादृचो नव संपद्यन्ते । ताश्चात्र संहिताग्रन्थे समाम्नाताः । अथान्याः काश्चिदसमाम्नाताः शाखान्तरगता विद्यन्ते । तासु प्रथमामाह— प्र व इन्द्राय वृत्रहन्तमाय विप्रा गाथं गायत यज्जुजोषत्, इति । हे विप्रा ऋत्विजो वो युष्माकं वृत्रहन्तमायातिशयेन शत्रुघातिन इन्द्रायेन्द्र- प्रीत्यर्थं गाथं गायत । गातव्यं यत्सामजातमस्ति तत्सर्वं प्रकर्षेण गायत । यत्साम स इन्द्रो जुजोषत्प्रीत्या सेवते तद्गायत । द्वितीयामृचमाह— अर्चन्त्यर्कं देवतावस्वर्का आस्तोभति श्रुतो युवा स इन्द्रः, इति । अर्का अर्चयितारो विप्रा देवतासु मध्येऽर्कमर्चनीयमिन्द्रमर्चन्ति पूजयन्ति । श्रुतो वेदेषु प्रख्यातो युवा यौवनसंपन्नः स इन्द्र आस्तोभति सर्वत उत्साहं करोति । तृतीयामृचमाह— उपप्रक्षे मधुमति क्षियन्तः पुष्यन्तो रयिं धीमहे तमिन्द्र, इति । हे इन्द्र तं त्वां धीमहे वयं ध्यायामः । कीदृशा वयं मधुमत्युपप्रक्षे क्षियन्तः । प्लक्षवृक्षसंपादितानि पात्राण्यत्र प्लक्षशब्देन विवक्षितानि, तेषां समीपवर्ती यागप्रदेश उपप्रक्षः । सरसो(चासौ) मध्वादिमाधुर्यरसोपेतत्वान्मधुमांस्तादृशे प्रदेशे क्षियन्तो निवसन्तः । तथा रयिं पुष्यन्तो धनं वर्धयन्तः । चतुर्थीमृचमाह— विश्वतो दावन्विश्वतो न आभर यं त्वा शविष्ठमीमहे, इति । हे इन्द्र शविष्ठमतिशयेन बलयुक्तं यं त्वामीमहे प्राप्नुमो याचामहे वा स त्वं हे विश्वतो दावन्सर्वेषां प्राणिनां धनादि दत्तत्तादृशस्त्वं नोऽस्माकं विश्वतः सर्व- स्माद्देशादाभर धनादिकमानय । पञ्चमीमृचमाह— स सुप्रणीते नृतमः स्वराळसि मंहिष्ठो वाजसातये, इति ॥ हे इन्द्र सुप्रणीते सुष्ठु संपादितेऽस्मिन्कर्मणि वाजसातयेऽस्मभ्यमन्नदानाय मंहि- ष्ठोऽतिशयेन पूजितः संस्त्वं नृतम उत्तमः पुरुषः स्वराट्स्वयमेव राजसि, न तु परतन्त्र इत्यर्थः ।
१ घ. ङ. देवेषु ।
षष्ठीमृचमाह—
अध्या० २ ख० २ (८)] ऐतरेयारण्यकम् । २७१
षष्ठीमृचमाह— त्वं ह्येक ईशिषे सनादमृक्त ओजसा, इति । हे इन्द्र त्वं हि त्वमेवैक एवौजसा परकीयेन बलेनामृक्तोऽमार्जितोऽतिरस्कृतः सनात्सनितुमस्मभ्यं धनादिकं दातुमीशिषे समर्थोऽसि ।
सप्तमीमृचमाह— विश्वस्य प्रस्तोभ विद्वान्पुरा वा यदि वेहाऽऽस नूनम् , इति । विश्वस्य सर्वस्य जगतः प्रस्तोभ प्रकर्षेणोत्साहजनक हे इन्द्र पुरा वाऽस्मदनुष्ठानात्प्रागेव वा भवान्विद्वानासास्मद्ऋत्वैर्ज्ञानोपपन्नः । यदि वाऽथवेहास्मिन्कर्मणि नूनमवश्यं भवान्विद्वानास ।
अष्टमीमृचमाह— इषं नो मित्रावरुणा कर्तनेळां पीवरीमिषं कृणुही न इन्द्र, इति । मित्रावरुणा हे मित्रावरुणौ युवां नोऽस्माकमिषमन्नमिर्लां भूमिं च कर्तन कुरुतम् । हे इन्द्र नोऽस्माकं पीवरीं प्रभूतामिषमन्नं कुरु ।
नवमीमृचमाह— शं पदं मघं रयिषणि न सोमो अव्रतं हिनोति न स्पृशद्रयिः, इति । हे इन्द्र रयिषणि हविर्लक्षणस्य धनस्य दातरि मयि शं सुखं पदं निवासस्थानं मघं धनं च संपादयेति शेषः । योऽयं सोमः सोऽयमव्रतमनुष्ठानरहितं न हिनोति न पणयति । रयिः फलभूतं धनमपि न स्पृशदनुष्ठानरहितं पुरुषं न प्राप्नोति । ता एता नवसंख्याका अस्यां संहितायाम समाम्नाता ऋचः ।
पुनरप्यसमाम्नाताः सूत्रगते षष्ठाध्याये पठिता द्विपदा ऋचो दर्शयति— एष ब्रह्मेति तिस्रः, इति । "एष ब्रह्मा य ऋत्वियः" इत्येका । "विसृतयो यथा" इति द्वितीया । त्वामिच्छवसस्पत इति तृतीया ।
संहितायां समाम्नातान्यृगन्तराणि चत्वारि दर्शयति — आधूर्ष्वस्मा इत्येका सूददोहा यद्वावानेति धाय्या सूददोहाः, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके द्वितीयाध्याये द्वितीयः खण्डः ॥ २ ॥ (८) ॥
आधूर्ष्वस्मै०—ऋ० सं० म० ७ सू० ३४ ऋ० ४ । यद्वावान०—ऋ० सं० म० १० सू० ७४ ऋ० ६ । १ क. ॰मेक । २ ग. ॰पत्न्रैः । यं॰ ।
२७२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [५पञ्चमारण्यके-
“आधूर्ष्व” इति द्विपदा, तां पठित्वा सूददोहसं पठेत्। ततः “यद्द्यावान पुरुतमम्” इत्येतां चतुष्पदामृचं धाय्यासञ्ज्ञितां पठित्वा पुनरपि सूददोहसं पठेत्॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये पञ्चमारण्यके द्वितीयाध्याये द्वितीयः खण्डः ॥ २ ॥ ( ८ ) ॥
अथ तृतीयः खण्डः। ( नवमः )
पूर्वोक्तपुच्छभागशंसनादूर्ध्वं शंसनीयं शस्त्रभागं दर्शयति— गायत्री तृचाशीतिः, इति। तिसृणामृचां समूहस्तृचस्तादृशानां तृचानामशीतिस्तृचाशीतिः। चत्वारिंशदधिकशतद्वयसंख्याका ऋच इत्यर्थः। सेयमशीतिर्गायत्रीछन्दस्का पठनीया।
प्रतिज्ञाताः सर्वा ऋचो दर्शयति— महाँ इन्द्रो य ओजसेति तिस्र उत्तमा उद्धरति पुरोळाशं नो अन्धस इति तिस्र इन्द्र इत्सोमपा एक इत्येतत्प्रभृतीनां तिस्र उत्तमा उद्धरति तासां स्वादवः सोमा आयाहीत्येतामुद्धृत्य न ह्यन्यं बळाकरमित्येतां प्रत्यवदधाति जज्ञानो नु शतक्रतुरित्येका पुरुहूतं पुरुष्टुतमिति शेष उद्धेदमभि श्रुता मघमित्युत्तमामुद्धरति प्रकृतान्यूजीषिण आ घा ये अग्निमिन्धत आ तू न इन्द्र क्षुमन्तमिति सूक्ते सूददोहाः, इति ॥ इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके द्वितीयाध्याये तृतीयः खण्डः ॥ ३ ॥ ( ९ ) ॥
महाँ इन्द्रो०—ऋ० सं० म० ८ सू० ६ ऋ० १। पुरोळाशं नो अन्धस०—ऋ० सं० म० ८ सू० ७८ ऋ० १। इन्द्र इत्सोमंपाः०—ऋ० सं० म० ८ सू० २ ऋ० ४। स्वादवः सोमाः०—ऋ० सं० म० ८ सू० २ ऋ० २८। न ह्यन्यं बळाकरम्०—ऋ० सं० म० ८ सू० ८० ऋ० १। जज्ञानो नु शतक्रतुः०—ऋ० सं० म० ८ सू० ७७ ऋ० १। पुरुहूतं पुरुष्टुतम्०—ऋ० सं० म० ८ सू० ९२ ऋ० २। उद्धेदमभि श्रुता मवम्०—ऋ० सं० म० ८ सू० ९३ ऋ० १। प्रकृतान्यूजीषिणः०—ऋ० सं० म० ८ सू० ३२ ऋ० १। आ घा ये अग्निम्०—ऋ० सं० म० ८ सू० ४९ ऋ० १। आ तू न इन्द्र क्षुमन्तम्०—ऋ० सं० म० ८ सू० ८१ ऋ० १ ] ।
अध्या०२ख०४(१०)] ऐतरेयारण्यकम्। २७३
“महाँ इन्द्रः” इत्येतत्सूक्तमष्टाचत्वारिंशद्भिर्ऋग्भिरुपेतं तस्मिन्सूक्ते “शतमहम्” [ऋ० सं० म० ८ सू० ६ ऋ० ४६] इत्यादिकाः सूक्तावसानभागस्थास्तिस्र ऋच उद्धृत्य “सोमपेयाय वक्षतः” [ऋ० सं० म० ८ सू० ६ ऋ० ४९] इत्यन्तमेव पञ्चचत्वारिंशद्भिर्ऋग्भिरुपेतं पठेत् । तत ऊर्ध्वम् “पुरोळाशं नो अन्धसः” इत्यादिकास्तिस्र ऋचः पठेत् । “ इदं वसो सुतमन्धः ” [ ऋ० सं म० ८ सू० २ ऋ० १ ] इत्यस्मिन्द्विचत्वारिंशद्भिर्ऋग्भिरुपेते सूक्ते प्रथमतः पठितास्तिस्र ऋचः परित्यज्य “इन्द्र इत्सोमपाः ” इत्यादिकं पठेत् । तत्रापि “ इत्था धीवन्तम् ” [ ऋ० सं म० ८ सू० २ ऋ० ४० ] इत्यादिका अवसानभागस्थास्तिस्र ऋच उद्धृत्य “ ये अस्मिन्काममाश्रियन् ” [ ऋ० सं० म० ८ सू० २ ऋ० ३९ ] इत्यन्तमेव षट्त्रिंशद्भिर्ऋग्भिरुपेतं पठेत् । तस्यापि मध्ये “ स्वाद्वः सोमाः ” इत्येतामृचमुद्धृत्य तस्याः स्थाने “ न ह्यन्यम् ” इत्येतामृचं प्रत्यवदध्यात् । तया प्रत्यवहितया सहितं षट्त्रिंशदृक्समूहं पठित्वा तदूर्ध्वं “ जज्ञानो नु ” इत्येकामृचं पठेत् । “ पान्तमा वः ” [ ऋ० सं० म० ८ सू० ९२ ऋ० १ ] इत्यस्मिन्सूक्ते त्रयस्त्रिंशद्भिर्ऋग्भिरुपेते प्रथमामृचं परित्यज्य “ पुरुहूतम् ” इत्यारम्य द्वात्रिंशद्भिर्ऋग्भिरुपेतः सूक्तशेषः पठनीयः । “ उद्घेदभि ” इत्यस्मिन्सूक्ते चतुस्त्रिंशद्भिर्ऋग्भिरुपेते “ इन्द्र इषे ” [ ऋ० सं० म० ८ सू० ९३ ऋ० ३४] इत्यादिकामुत्तमामृचमुद्धृत्यावशिष्टं त्रयस्त्रिंशद्भिर्ऋग्भिरुपेतं सूक्तं पठेत् । “ प्रकृतानि ” इत्यादिकं त्रिंशद्भिर्ऋग्भिरुपेतं सूक्तं पठेत् ।
“ आ घा ये अग्निम् ” इति सूक्तं द्विचत्वारिंशद्भिर्ऋग्भिरुपेतं पठेत् । “ आ तू न इन्द्र ” इत्यादिकं नवभिर्ऋग्भिरुपेतमेकं सूक्तं तत उपरितनम् । “ आ प्रद्रव ” [ ऋ० सं० म० ८ सू० ८२ ऋ० १ ] इत्यादिकं नवर्चं सूक्तं ते द्वे अपि सूक्ते पठेत् । ततः सूददोहाः पठनीया । एवं सति सूददोहसः प्राचीनाश्चत्वारिंशदधिकशतद्वयसंख्याका ऋचः, ततस्तृचाशीतिः संपद्यते ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये पञ्चमारण्यके द्वितीयाध्याये तृतीयः खण्डः ॥ ३ ॥ ( ९ )
अथ चतुर्थः खण्डः । ( दशमः )
गायत्र्यास्तृचाशीतेरूर्ध्वं शंसनीयं भागं दर्शयति—
बार्हती तृचाशीतिः, इति ।
* अत्रैकवचनान्तः पाठः साधुः, विंशत्याद्याः सदैकत्व इत्यनुशासनात् । एवमग्रेऽपि तत्र तत्र बोध्यम् ।
३५
२७४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [५पञ्चमारण्यके-
बृहतीच्छन्दोयुक्ता काचित्तृचाशीतिः पठनीया । तत्रत्या ऋचो विविच्य दर्शयति—
मा चिदन्यद्विशंसतेत्येकया न त्रिंशत्पिबा सुतस्य रसिन इति विंशतेः सप्तमीं चाष्टमीं चोद्धरति यदिन्द्र प्रागपागुदगिति चतुर्दश वयं घ त्वा सुता- वन्त इति पञ्चदश मो षु त्वा वाघतश्चनेत्येतस्य द्विपदां चोद्धरति राथंतरं च प्रगाथमथ हास्य नकिः सुदासो रथमित्येतं प्रगाथमुद्धृत्य त्वामिदा ह्यो नर इत्येतं प्रगाथं प्रत्यवदधात्यभि प्र वः सुराधसमिति षड्वालखिल्यानां सूक्तानि यः सत्राहा विचर्षणिरिति शेषोऽयं ते अस्तु हर्यत इति सूक्ते उभयं शृणवच्च न इति सप्तमीं चाष्टमीं चोद्धरति तरोभिर्वो विदद्वसुमित्युत्तमामुद्धरति यो राजा चर्षणीनामित्येकादश तं वो दस्म- मृतीषहमा नो विश्वा सुहव्यो या इन्द्र भुज आभर इति नव सूददोहाः, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके द्वितीयाध्याये चतुर्थः खण्डः ॥ ४ ॥ ( १० )
मा चिदन्यत्०—ऋ० सं० म० ८ सू० १ ऋ० १ । पिबा सुतस्य०—ऋ० सं० म० ८ सू० ३ ऋ० १ । यदिन्द्र प्रागपागुदक्०—ऋ० सं० म० ८ सू० ४ ऋ० १ । वयं घ त्वा सुतावन्तः०—ऋ० सं० म० ८ सू० ३३ ऋ० १ । मो षु त्वा वाघतश्चन०—ऋ० सं० म० ७ सू० ३२ ऋ० १ । नकिः सुदासो०—ऋ० सं० म० ७ सू० ३२ ऋ० १० । त्वामिदा ह्यो नरः०—ऋ० सं० म० ८ सू० ९९ ऋ० १ । यः सत्राहा विचर्षणिः०—ऋ० सं० म० ६ सू० ४६ ऋ० ३ । अयं ते अस्तु हर्यतः०—ऋ० सं० म० ३ सू० ४४ ऋ० १ । उभयं शृणवच्च नः०—ऋ० सं० म० ८ सू० ६१ ऋ० १ । तरोभिर्वो विदद्वसुम्०—ऋ० सं० म० ८ सू० ६६ ऋ० १ । यो राजा चर्षणीनाम्०—ऋ० सं० म० ८ सू० ७० ऋ० १ । तं वो दस्ममृतीषहम्०—ऋ० सं० म० ८ सू ८८ ऋ० १ । आ नो विश्वा सुहव्यः०—ऋ० सं० म० ८ सू० ९० ऋ० १ । या इन्द्र भुज आभर०—ऋ० सं० म० ८ सू० ९७ ऋ० १ ।
अध्या० २ ख० ४ (१०) ऐतरेयारण्यकम् । २७५
“मा चिदन्यत्” इत्यादिकं चतुस्त्रिंशद्भिर्ऋग्भिरुपेतं सूक्तं तस्य सूक्तस्यावसानभागस्थाः “स्तुहि स्तुहि” [ऋ० सं० म० ८ सू० १ ऋ० ३०] इत्यादिकाः पञ्च परित्यज्य “स्तोमासो अवृत्सत” [ऋ० सं० म० ८ सू० १ ऋ० २९] इत्यन्तमेवैकोनत्रिंशद्भिर्ऋग्भिरुपेतं पठेत् । “पिबा सुतस्य” इत्येतस्मिंश्चतुर्विंशद्भि(तिभि)र्ऋग्भिरुपेते सूक्ते विंशतिसंख्याया ऊर्ध्वम् “यं मे दुः” [ऋ० सं० म० ८ सू० ३ ऋ० २१] इत्याद्याश्चतस्र ऋचः परित्यजेत् । अवशिष्टायां विंशतावपि “अभि त्वा पूर्वपीतये” [ऋ० सं० म० ८ सू० ३ ऋ० ७] इत्येतां सप्तमीम् । “अस्येन्द्रो वावृधे” [ऋ० सं० म० ८ सू० ३ ऋ० ८] इत्येतामष्टमीं च परित्यज्यावशिष्टाभिरष्टादशभिर्ऋग्भिरुपेतं सूक्तं पठेत् । “यदिन्द्र प्रागपागुदक्” इत्यादिकमेकविंशतिभिर्ऋग्भिरुपेतं सूक्तम् । तत्रान्तिमाः “प्र पूषणम्” [ऋ० सं० म० ८ सू० ४ ऋ० १९] इत्यादिकाः सप्त परित्यज्य “वहन्तु सवने दुप” [ऋ० सं० म० ८ सू० ४ ऋ० १४] इत्यन्तमेव चतुर्दशभिर्ऋग्भिरुपेतं पठेत् । “वयं घ त्वा” इति सूक्तमेकोनविंशतिभिर्ऋग्भिः समेतं [तस्मिन्सूक्ते] “न हि षस्तव” [ऋ० सं० म० ८ सू० ३३ ऋ० १] इत्यादिकाश्चतस्रः परित्यज्य “मदाय धुक्ष सोमपाः” [ऋ० सं० म० ८ सू० ३३ ऋ० १९] इत्यन्तमेव पञ्चदशभिर्ऋग्भिरुपेतं पठेत् । “मो षु त्वा” इत्यादिकं सप्तविंशतिभिर्ऋग्भिरुपेतं तस्मिन्सूक्ते “रायस्कामः” [ऋ० सं० म० ७ सू० ३२ ऋ० ३] इत्येतां द्विपदामृचमुद्धरेत् । तथा रथंतरसामसंबन्धिप्रगाथम् “अभि त्वा शूर” [ऋ० सं० म० ७ सू० ३२ ऋ० ऋ० २२] इत्यादिकमृगद्वयमुद्धरेत् । ततोऽवशिष्टं चतुर्विंशतिभिर्ऋग्भिरुपेतं तत्सूक्तं पठेत् । तत्रापि “नकिः सुदासः” इत्येतं प्रगाथमुद्धृत्य तस्य स्थाने “त्वामिदा ह्यो नरः” इत्येतं प्रगाथं प्रक्षिप्य पठेत् । “अभि प्र वः” [ऋ० सं० म० ८ वाल० सू० १] इत्यादिकानि वालखिल्यानां संहितायामाम्नातानि षट्पञ्चाशद्भिर्ऋग्भिरुपेतनि षट्सूक्तानि पठेत् । “त्वामिद्धि हवामहे” इत्यादिकं चतुर्दशभिर्ऋग्भिरुपेतं सूक्तं तस्मिन्नादित आरभ्य द्वे ऋचौ परित्यज्य “यः सत्राहा” इत्यादिकं द्वादशभिर्ऋग्भिरुपेतं सूक्तशेषं पठेत् । “अयं ते अस्तु” इति पञ्चर्चमेकं सूक्तम् । “आ मन्द्रैः” [ऋ० सं० म० ३ सू० ४९ ऋ० १] इति पञ्चर्चं द्वितीयं सूक्तं ते उभे सूक्ते पठेत् । “उभयं शृणवच्च नः” इत्यादिकमष्टादशर्चं सूक्तं तस्य मध्ये “त्वं होहि” [ऋ० सं० म० ८ सू० ६१ ऋ० ७] इत्यादिकां सप्तमीम् । “त्वं पुरू सहस्राणि” [ऋ० सं० म० ८ सू० ६१ ऋ० ८] इत्यादिकामष्टमीं चोद्धृत्यावशिष्टं षोडशर्चं सूक्तं पठेत् । “तरोभिर्वः” इत्यादिकं पञ्चदशर्चं सूक्तं तस्मिन्नुत्तमाम् “सोम इन्द्रः”
२७६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [५पञ्चमारण्यके-
ऋ० १९] इत्यादिकामुद्धृत्यावशिष्टं चतुर्दशर्चं पठेत् । "यो राजा चर्षणी- नाम्" इत्येतत्पञ्चदशर्चं सूक्तं [ तस्मिन्सूक्ते ] "त्वं न इन्द्राऽऽसाम्" [ ऋ० सं० म० ८ सू० ७० ऋ० १२] इत्यादिकाश्चतस्र ऋचः परित्यज्यावशिष्ट- मेकादशर्चं पठेत् । "तं वो दस्मम्" इत्यादिकं षडृचं सूक्तं पठेत् । "आ नो विश्वास्" इत्यादिकमपि षडृचं सूक्तं पठेत् । "या इन्द्र" इत्यादिकं पञ्चदशर्चं सूक्तं तस्यावसानभागस्थाः "विश्वाः पृतनाः" [ ऋ० सं० म० ८ सू० ९७ ऋ० १०] इत्यादिकाः षडृचः परित्यज्य "न त्वा देवास आसत" [ ऋ० सं० म० ८ सू० ९७ ऋ० ९] इत्यन्तं नवर्चं पठेत् । ततः सूददोहसं पठेत् । एवं सति सूददोहसः प्राचीना बार्हती तृचाशीतिः संपद्यते ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयारण्यकभाष्ये पञ्चमारण्यके द्वितीयाध्याये चतुर्थः खण्डः ॥ ४ ॥ (१०)
अथ पञ्चमः खण्डः । ( एकादशः )
बार्हत्यास्तृचाशीतेरूर्ध्वं शंसनीयभागं दर्शयति— औष्णिही तृचाशीतिः , इति । उष्णिक्छन्दोयुक्ता काऽपि तृचाशीतिः पठनीया । तत्रत्या ऋचो विविच्य दर्शयति— य इन्द्र सोमपातम इति सूक्ते तम्वभि प्रगायतेत्युत्तमामु- द्धरतीन्द्राय साम गायत सखाय आशिषामहीति तिस्र उत्तमा उद्धरति य एक इद्विदयत आयाह्यद्रिभिः सुतं यस्य त्यच्छम्बरं मद इति त्रयस्तृचा गायत्र्यः संपदोषिण्हः सप्त सप्त गायत्र्यः षट्पळुष्णिहो भवन्ति यदिन्द्रा॒हं यथा त्वं प्र संम्राजं चर्षणीनामिति सूक्ते
य इन्द्र सोमपातमः०—ऋ० सं० म० ८ सू० १२ ऋ० १ । तम्वभि प्रगा- यत०—ऋ० सं० म० ८ सू० १९ ऋ० १ । इन्द्राय साम गायत०—ऋ० सं० म० ८ सू० ९८ ऋ० १ । सखाय आशिषामहे०—ऋ० सं० म० ८ सू० २४ ऋ० १ । य एक इद्विदयते०—ऋ० सं० म० १ सू० ८४ ऋ० ७ । आयाह्य- द्रिभिः०—ऋ० सं० म० ५ सू० ४० ऋ० १ । यस्य त्यच्छम्बरं०—ऋ० सं० म० ६ सू० ४४ ऋ० १ । यदिन्द्रा॒हं०—ऋ० सं० म० ८ सू० १४ ऋ० १ । प्र संम्राजं०—ऋ० सं० म० ८ सू० १६ ऋ० १ ।
अध्या० २ ख० १(११)] ऐतरेयारण्यकम् । २७७
उत्तरस्योत्तमे उद्धरति वार्त्रहत्याय शवस इत्युत्तमा-
मुद्धरति सुरूपकृत्नुमूतय इति त्रीण्येन्द्रसानसिं रयि-
मिति सूक्ते य आनयत्परावत इति तिस्र उत्तमा उद्ध-
रति रेवतीर्नः सधमाद इति तिस्रः सूददोहाः, इति ।
“य इन्द्र” इत्येतत्त्रयस्त्रिंशदृचमेकं सूक्तम् । “इन्द्रः सुतेषु” [ ऋ० सं म० ८ सू० १३ ऋ० १ ] इतीदमपि त्रयस्त्रिंशदृचं सूक्तं ते उभे सूक्ते पठेत्। “तम्वभि” इत्यादिके सूक्ते चरमम् “अरं क्षयाय” [ ऋ० सं० म० ८ सू० १९ ऋ० १३ ] इत्यादिकामृचमुद्धृत्य “अस्माकेभिर्नृभिरत्रा खर्जय” [ ऋ० सं० म० ८ सू० १९ ऋ० १२ ] इत्येतदन्तं द्वादशर्चं सूक्तं पठेत् । “इन्द्राय साम” इत्यादिकं द्वादशर्चं सूक्तं तदपि पठेत् । “सखायः” इत्यादिकं त्रिंशदृचं सूक्तं तस्मिन्नन्तिमा “यथा वरो” [ ऋ० सं० म० ८ सू० २४ ऋ० २८ ] इत्यादिकास्तिस्र ऋच उद्धृत्य “वभ्रदासस्य तुविनृम्ण नीनमः” [ ऋ० सं० म० ८ सू० २४ ऋ० २७] इत्यन्तं सप्तविंशत्यृचं सूक्तं पठेत् । “य एकः” इत्यादिकरेकस्तृचः, “आयाहि” इत्यादिद्वितीयस्तृचः । “यस्य त्यत्” इत्यादिस्तृतीयस्तृचः । त एते त्रयस्तृचाः पठनीयाः । इत ऊर्ध्वं गायत्रीछन्दस्का ऋचः पठनीयाः । ताश्च गायत्र्य उष्णिक्त्वेन संपादनीयाः । तत्संपादनं कथमिति [तदुच्यते-] । सप्त गायत्र्यो मिलित्वा षळु(डु)ष्णिहः संपद्यन्ते । सप्तम्यां गायत्र्यामक्षरचतुष्काणि षड्विद्यन्ते । तेष्वेकैकं चतुष्कमेकैकस्यां गायत्र्यां योजनीयम् । ततोऽष्टाविंशत्यक्षरत्वादुष्णिगेव संपद्यते । एवं सप्तसु गायत्रीषु षळु(डु)ष्णिहः संपन्ना भवन्ति । सर्वासपि गायत्रीष्वेवमुष्णिक्त्वं संपादनीयम् । सप्त सप्त गायत्र्यः षट्षळुष्णिहो भवन्ति” इति वीप्सा पठिता । “यदिन्द्राहम्” इत्यादिकं पञ्चदशर्चं गायत्रीछन्दस्कं सूक्तं पठेत् । “प्र सम्राजम्” इत्यादिकं द्वादशर्चं सूक्तम्, “आयाहि सुषुमा हि ते” [ ऋ० सं० म० ८ सू० १७ ऋ० १ ] इति पञ्चदशर्चं सूक्तम् , ते उभे गायत्रीछन्दस्के सूक्ते पठनीये । तत्रोत्तरसूक्तस्योत्तमे द्वे “वास्तोष्पते” [ ऋ० सं० म० ८ सू० १७ ऋ० १४ ] इत्यादिके उद्धृत्यावशिष्टं त्रयोदशर्चम् “न्यास्मिन्दध्र आ मनः” [ऋ० सं० म० ८ सू० १७ ऋ० १३ ] इत्येतदन्तमेव पठनीयम् । “वार्त्रहत्याय”
वार्त्रहत्याय शवसे०—ऋ० सं० म० ३ सू० ३७ ऋ० १ । सुरूपकृत्नुमूतये०—ऋ० सं० म० १ सू० ४ ऋ० १ । ऐन्द्र सानसिं०—ऋ० सं० म० १ सू० ८ ऋ० १ । य आनयत्परावतः०—ऋ० सं० म० ६ सू० ४९ ऋ० १ । रेवतीर्नः सधमादे०—ऋ० सं० म० १ सू० ३० ऋ० १३ ।
२७८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [५पञ्चमारण्यके-
इत्यादिकमेकादशर्चं गायत्रीच्छन्दस्कं सूक्तं तत्रोत्तमाम् "अर्वावतो नः" [ ऋ० सं० म० ३ सू० ३७ ऋ० ११ ] इत्येतामृचमुद्धृत्य "उत्ते शुष्मं तुरामसि" [ऋ० सं० म० ३ सू० ३७ ऋ० १] इत्यन्तमेव दशर्चं पठेत्। "सुरूपकृत्नुम्" इत्यादिकं गायत्रीच्छन्दस्कं दशर्चमेकं सूक्तम्, "आ त्वेता निषीदत" [ ऋ० सं० म० १ सू० ५ ऋ० १ ] इत्यादिकमपि गायत्रीच्छन्दस्कं दशर्चं तच्च द्वितीयं सूक्तम्, "युञ्जन्ति ब्रघ्नम्" [ ऋ० सं० म० १ सू० ६ ऋ० १ ] इत्यादिकमपि गायत्रीच्छन्दस्कं तत्तृतीयं सूक्तम्, तान्येतानि त्रीणि सूक्तानि पठेत्। "इन्द्र सानसिम्" इति गायत्रीच्छन्दस्कं दशर्चमेकं सूक्तम्, "इन्द्रे हि मत्स्यन्धसः" [ ऋ० सं० म० १ सू० ९ ऋ० १ ] इत्येतदपि गायत्रीच्छन्दस्कं दशर्चं द्वितीयं सूक्तम्, एते उभे पठेत्। "य आनयत्" इत्यादिकं त्रयस्त्रिंशदृचं गायत्रीच्छन्दस्कं सूक्तं तस्मिन्नुत्तमाः "अधिब्रुवुः" [ ऋ० सं० म० ६ सू० ४५ ऋ० ३१ ] इत्यादिकास्तिस्र ऋच उद्धृत्य "अस्मान्राये महे हिनु" [ ऋ० सं० म० ६ सू० ४५ ऋ० ३० ] इत्यन्तं त्रिंशदृचं सूक्तं पठेत्। "रेवतीर्नः" इत्यादिका गायत्रीच्छन्दस्कास्तिस्र ऋचः पठेत्। "यदिन्द्राहम्" इत्यारभ्य "रेवतीर्नः" इति तृचान्तास्त्रयस्त्रिंशदधिका(क)शतसंख्याका गायत्र्योऽत्र पठनीयाः, ताश्च पूर्वोक्तप्रकारेण सप्तसु सप्तसु षट्पळ्(ङ्)ष्णिकः संपद्यन्ते। तथा सति चतुर्दशाधिकशतसंख्याका उष्णिकः संपन्नाः। "य इन्द्र सोमपातमः" इत्याद्यासु स्वतः सिद्धा उष्णिकः षड्विंशत्यधिकाः(क) शतसंख्याकाः। तासां सर्वासां मेलनादौष्णिही तृचाशीतिः संपद्यते। तां पठित्वाऽन्ते सूदोहसं पठेत्।
तृचाशीतिशंसनं कंचिद्विशेषं विधत्ते—
इत्येतास्तिस्रस्तृचाशीतयः सर्वा अर्धर्चशः, इति ।
इत्येवं पूर्वमुक्ता गायत्रीबृहत्युष्णिच्छन्दस्कास्तृचाशीतयो याः सन्ति ताः सर्वा अर्धर्चशोऽर्ध[र्च?]मर्हन्ति। प्रथमेऽर्धर्चेऽवसाय पश्चादुत्तरमर्धर्चं पठेहित्यर्थः।
अशीतिष्वन्नबुद्धिमभिप्रेत्यान्नरूपेण ताः प्रशंसति—
अन्नमशीतयः, इति ।
या उक्ता अशीतयस्ताः पक्ष्याकारस्य शस्त्रस्यान्नस्थानीयाः। तथात्वेन मनसि तां भावयेदित्यर्थः।
वक्ष्यमाणस्य वशानाम्न ऋक्समूहस्योदरत्वानुस्मरणमभिप्रेत्य प्रशंसति—
उदरं वशः, इति ।
वशाख्य ऋक्संघः पक्ष्याकारस्य शस्त्रस्योदरम्। तथात्वेन भावयेदित्यर्थः।
अध्या० २ ख० ५ (११)] ऐतरेयारण्यकम् । २७९
वशनामकमृक्संघं विधत्ते—
त्वाऽवतः पुरूवसविति वशः सनितः सु सनितरित्येत- दन्तो ददीरेकण इति द्विपदा नूनमथेत्येकपदा ता अस्य सूददोहस इत्येतदन्तः सूददोहाः सूददोहाः, इति ॥ इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके द्वितीयाध्याये पञ्चमः खण्डः ॥ ५ ॥ (११)
इति बह्वृचब्राह्मणारण्यककाण्डे पञ्चमारण्यके द्वितीयोऽध्यायः ॥ २ ॥
“त्वाऽवतः” इत्यादिकं त्रयस्त्रिंशदृचं सूक्तम् । तस्मिन्सूक्ते “सनितः सु सनितः” इत्यृक्, एषा विंशतितमा । तदन्तानां विंशतिसंख्याकानादृचां समूहो वशनामकः । तन्मध्ये “ददीरेक्वणः¹” इति काचिदृक्पठिता, सा द्विपदा द्रष्टव्या । “नूनमथ” इत्यक्षरचतुष्टयात्मिका काचिदृगेकपदा । एतदुभयं मन्त्रबुद्धिभ्रमव्यावृत्तयं विशिष्यते । अध्ययनकाले वशाख्य ऋक्संघः “सनितः सु सनितः” इत्येतदन्तः । प्रयोगकाले तु “ता अस्य सूददोहसः” इत्येतामप्यृचं पठित्वा स एकविंशत्यृगात्मको वशः प्रयोक्तव्यः । अन्ते पठितायाः सूददोहसः पुनर्द्विरावृत्तिरध्यायसमाप्तिद्योतनाथी ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये पञ्चमारण्यके द्वितीयाध्याये पञ्चमः खण्डः ॥ ५ ॥ (११)
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे बह्वृचब्राह्मणारण्यककाण्डभाष्ये पञ्चमारण्यके द्वितीयोऽध्यायः ॥ २ ॥
त्वाऽवतः पुरूवसो०—ऋ० सं म० ८ सू० ४६ ऋ० १ । सनितः सु सनितः–ऋ० सं० म० ८ सू० ४६ ऋ० २० । ददीरेक्वणः० ऋ० सं० म० ८ सू० ४६ ऋ० १९ । नूनमथ—ऋ० सं० म० ८ सू० ४६ ऋ० १९ ।
- एतदुपरि ख. पुस्तके टिप्पणिकारूपेण कियांश्चिद्ग्रन्थो वर्तते स यथा—“अत्र सूददोहसा सहैकविंशतिसंख्यासंपादनं प्रथमारण्यकविरुद्धम् । तत्र हि-एकविंशतेः पृथक्सूददोहसः शंसनं विहितम् । अतोऽत्रैवं व्याख्येयम् । यद्यपि ब्राह्मणे 'वशं शंसति ता एकविंशतिर्भवन्ति' इत्येकविंशतेः शंसनं विहितं तथाऽपि आस एतु य ईं वदेति एकविंश्या आस आदिकानीतस्य पृथुश्रवसो दानस्तुतिरिति सर्वानुक्रमयुक्त्यैन्द्रीत्वाभावस्य स्पष्टत्वात्ततः प्राचीनानामेवात्र शंसनं कार्यमित्यभिप्रेत्याऽऽह—सनितः सु सनितरित्येतदन्त इति । नन्वेवं विंशतेः शंसने ब्राह्मणोक्तैकविंशतिसंख्यायाः कथमप-
¹ ग. ‘टिर्वैकं’ ।
अथ तृतीयोऽध्यायः ।
तत्र प्रथमः खण्डः । ( १२ )
पक्षिरूपस्य शस्त्रस्योरुभागं [ वक्तुं ] प्रतिजानीते—
ऊरू, इति।
यावूरू तौ कथ्येते इति शेषः ।
[ प्रतिज्ञातमर्थमाह— ]
इन्द्राग्नी युवं सु न इत्येतस्यार्धर्चान्गायत्रीकारमु-
त्तरमुत्तरस्यानुष्टुप्कारं प्रागुत्तमायाः प्र वो महे
मन्दमानायान्धस इति निविद्धानं वनेन वायो
न्यधायि चाकन्यो जात एव प्रथमो मनस्वानिति
ते अन्तरेणाऽऽयाह्यर्वाङुपवन्धुरेष्ठा विधुं दद्राणं
समने बहूनामित्येतदावपनं दशतीनामैन्द्रीणां
त्रिष्टुब्जगतीनां बृहतीसंपन्नानां यावतीरावपेरं-
स्तावन्त्यूर्ध्वमायुषो वर्षाणि जिजीविषेत्संवत्सरा-
त्संवत्सराद्दशतो न वा त्यम् षु वाजिनं देवजूत-
मिन्द्रो विश्वं विराजतीत्येकपदेन्द्रं विश्वा अवी-
वृधन्नित्यानुष्टुभं तस्य प्रथमायाः पूर्वमर्धर्चं शस्त्वो-
इन्द्राग्नी युवं सु नः०—ऋ० सं० म० ८ सू० ४० ऋ० १। प्र वो महे मन्द-
मानायान्धसः०—ऋ० सं० म० १० सू० ९० ऋ० १ । वनेन वायो०—ऋ०
सं० म० १० सू० २९ ऋ० १ । यो जात एव प्रथमो मनस्वान्०—ऋ० सं०
म० २ सू० १२ ऋ० १ । आयाह्यर्वाङ्०—ऋ० सं० म० ३ सू० ४३ ऋ० १।
विधुं दद्राणं समने बहूनाम्०—ऋ० सं० म० १० सू० ५६ ऋ० ५ । त्यम् षु
वाजिनं देवजूतं०—ऋ० सं० म० १० सू० १७८ ऋ० १ । इन्द्रं विश्वा अवी-
वृधन्०—ऋ० सं० म० १ सू० ११ ऋ० १ ।
पत्तिरित्यत आह—दर्दीरेकृण इति द्विपदा नूनमथेत्येकपदेति । अयमर्थः—विंशी ऋग्दर्दीरेक्ण इत्याद्या । सा चार्धर्द्वयात्मिका । तत्राऽऽधार्धर्चस्य द्विपदावच्छंसनम् । द्वितीयस्य त्वेकपदावच्छंसनम् । एवं विभागेन शंसन एकविंशतेः संपत्तिर्भवतीति । यद्यपि दर्दीरेक्ण इत्यर्धस्य द्विपदत्वं नूनमथेत्यस्यैकपदात्वं च प्रातिशाख्यविरुद्धं तथाऽपि सूत्रकृता श्रुत्यन्तरमूलकतयेत्थं विभागः कृत इति ज्ञेयम् । प्रथमारण्यके विंशखण्डे भाष्यकारैरपि विभागेनैवैकविंशतिसंख्या पूरिता । अत्र तु विपरीतमुक्तं तदाशयो न ज्ञायते ” इति ।
अध्या० ३ ख० १(१२) ऐतरेयारण्यकम् । २८१
त्तरेणार्थर्चेनोत्तरस्याः पूर्वमर्धर्चं व्यतिषजति
पादैः पादाननुष्टुप्कारं प्रागुत्तमायाः पूर्वस्मात्पूर्व-
स्मादर्धर्चादुत्तरमुत्तरमर्धर्चं व्यतिषजति प्रकृत्या
शेषः पिबा सोममिन्द्र मन्दतु त्वेति षड्योनिष्ट
इन्द्र सदने अकारीत्येतस्य चतस्रः शस्त्वो-
त्तमामुपसंतत्योपोत्तमया परिदधाति , इति ।
"इन्द्राग्नी युवं सु नः" इत्यादिकं सूक्तं द्वादशर्चम् । अत्र " न हि वाम् " [ ऋ० सं० म० ८ सू० ४० ऋ० २ ] इत्येषा द्वितीया शक्वरीच्छन्दस्का । "एवेन्द्राग्निभ्याम्" [ऋ० सं० म० ८ सू० ४० ऋ० १२] इत्येपोत्तमा त्रिष्टुप्छन्दस्का । अवशिष्टा दशर्चः प्रत्येकं षट्पदा महापङ्क्तिच्छन्दस्काः । तासु दशसु पादत्रयात्मकमेकैकमर्धर्चं गायत्रीं कृत्वा शंसेत् । पादद्वयेऽवसाय तृतीयपादे प्रणवो गायत्रीकरणम् । येयं शक्वरी द्वितीया तस्या अपि पादत्रयात्मकं पूर्वार्धं गायत्रीसमयेनैव शंसेत् । उत्तरार्धं तु पादचतुष्टयात्मकमनुष्टुभं कृत्वा शंसेत् । द्वितीयपादेऽवसाय चतुर्थपादे प्रणवप्रयोगोऽनुष्टुप्करणम् । एवमुत्तमायास्त्रिष्टुभः प्राचीना एकादशसंख्याका ऋचः शस्त्वा त्रिष्टुभमुत्तमां विशेषोक्त्यभावात्सामान्यप्राप्तिमनुसृत्य शंसेत् । प्राक्छन्दांसि त्रैष्टुभादित्यनेन सूत्रवाक्येन(ण) त्रिष्टुभोऽर्वाचीनानां गायत्र्यादीनामर्धर्चशंसनविधानात्त्रिष्टुभः पादशंसनं सामान्यतः प्राप्तम् । एकस्मिन्पादेऽवसायोत्तरस्मिन्पादे प्रणवप्रयोगः पादशंसनम् । तेन क्रमेणोत्तमां शंसेत् । ततः " प्र वो महे " इत्यादिकं निविद्धानसंज्ञकं सप्तर्चं सूक्तं शंसेत् । निवित्संज्ञकानीन्द्रो देव इत्यादीनि पदानि शंसनकाले यस्मिन्सूक्ते धीयन्ते प्रक्षिप्यन्ते तत्सूक्तं निविद्धानम् । " वनेन वायो " इत्येतदष्टर्चं सूक्तं शंसेत् । " यो जात एव " इति पञ्चदशर्चं सूक्तं पठेत् । यद्यायुष्कामः स्यात्तदानीमनयोः सूक्तयोर्मध्ये " आयाह्यर्वाङ् " इत्यष्टर्चं सूक्तम् " विधुं दद्राणम् " इत्येकामृचं च प्रक्षिपेत् । अनेन प्रक्षेपेण कियदायुरधिकं भवतीति तदुच्यते । दशसंख्याकानां मण्डलानां समूहरूपत्वाच्छाकल्यसंहिता दर्श[ती]शब्देनोच्यते । तस्यां संहितायामुत्पन्ना ऋचो दैशत्यः, तास्वपि दर्शतीष्विन्द्रदेवताकास्त्रिष्टुप्छन्दस्का जगतीच्छन्दस्का वा स्वबुद्धिकौशलेनाक्षरसंख्यया गणयित्वा बृहत्यः संपाद्यन्ते । तथाविधानां बृहतीनां यावतीनामावापो भवति तावन्ति वर्षा-
पिबा सोममिन्द्र मन्दतु त्वा०—ऋ० सं० म० ७ सू० २३ ऋ० १ । योनिष्ट इन्द्र सदने अकारि०—ऋ० सं० म० ७ सू० २४ ऋ० १ ।
१ क. ख. घ. ङ. ॰शतयीशब्दे॰ । २ क. ख. घ. ङ. दशत्ययः । ३ क. ख. घ. ङ. ॰शतयीष्वि॰ ।
२८
२८२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [५प्रथमारण्यके-
ण्ययं पुमान्पू(मानायुषः पू)र्वप्रसिद्धादूर्ध्वं जीवितुमिच्छेत् । प्रक्षेपकाले यावन्तः संव- त्सरा अधिकजीवनायापेक्षितास्तेषु संवत्सरेष्वेकैकस्मात्संवत्सरान्निमित्तभूताद्दशतो दश बृहतीनां समूहान्वावपेत् । न वेति पक्षान्तरम् । एकैकसंवत्सरनिमित्तमेकैका बृहतीति तस्याभिप्रायः । एवं च सति प्रकृते त्रिष्टुप्छन्दस्कानां नवानां प्रक्षिप्तत्वा- दक्षरगणनया ता एकादश बृहत्यः संपद्यन्ते । ततस्तावदायुर्र्वर्धते । “त्यमू षु” इति तृचात्मकं सूक्तं पठेत् । तत ऊर्ध्वम् “इन्द्रो विश्वं विराजति” इत्येतामेक- पदामृचं शाखान्तरगतां पठेत् । “इन्द्रं विश्वाः” इत्यष्टर्चमनुष्टुप्छन्दस्कं सूक्तं तच्च व्यतिषङ्गेण शंसेत् । कोऽसौ व्यतिषङ्गप्रकारः सोऽयमभिधीयते—प्रथमायाः पूर्वार्धं (पूर्वमर्धर्चं) यथापाठं शस्त्रोत्तरेणार्धर्चेन सह द्वितीयस्या ऋचः पूर्व- मर्धर्चं व्यतिषजेत् । एवमुत्तरायाः । तत्र पादैः पादा अनुषञ्जनीयाः । प्राचीनासु सप्तस्वप्यृक्षु परस्परं व्यतिषङ्गं कृत्वा तेनैव व्यतिषङ्गेणानुष्टुभं कृत्वा शंसेत् । एवं च सति प्रथमायामृच्यध्ययनक्रमेणैव पादत्रयं पठित्वा द्वितीयस्या ऋचः प्रथमपाद- माकृष्य चतुर्थपादत्वेन योजयेत् । सेयमेकाऽनुष्टुप् । ततः प्रथमायामृचि चतुर्थपादं द्वितीयस्यां द्वितीयपादं च संयोज्य प्रथममर्धर्चं कुर्यात् । ततो द्वितीयस्यां तृतीयपादं तृतीयस्यां प्रथमपादं च संयोज्य द्वितीयमर्धर्चं कुर्यात् । सेयं द्वितीयाऽनुष्टुप् । एवमु- त्तराष्वप्येकैकपादान्तरितत्वेन द्वौ द्वौ पादौ संयोज्यार्धर्चान्कृत्वा द्वाभ्यां द्वाभ्याम- र्धर्चाभ्यामेकैकाऽनुष्टुप्संपादनीया । उत्तमायाः प्रागेवं संपादितात्पूर्वस्मात्पूर्वस्मा- दर्धर्चादूर्ध्वं संपादितमुत्तरमुत्तरमर्धर्चं संयोजयेत् । ता एताः परस्परव्यतिषक्ताः सप्ता- नुष्टुभः पठित्वा तत ऊर्ध्वं प्रकृत्या यथाम्नातपाठेनैव शेषः शस्त्रस्यान्तिमो भाग एका- र्धर्चः पठनीयः । एवं सति सूक्तस्याऽऽद्यन्तयोरर्धर्चयोर्यथाम्नातपाठः, मध्यगतानां चतुर्दशानामर्धर्चानां व्यतिषङ्गपाठ इत्युक्तं भवति । “पिबा सोमम्” इति । नवर्चं सूक्तं तत्रान्तिमास्तिस्रः परित्यज्याऽऽदौ षडृचः पठेत् । “योनिष्ट इन्द्र” इति षडृचं सूक्तं तत्राऽऽदौ चतस्रः पठित्वा तदनन्तरं षष्ठीं पठेत् । पठित्वा च ततः पूर्वभाविन्या “एष स्तोमः” [ऋ० सं० म० ७ सू० २४ ऋ० ५] इत्यनया पञ्चम्या परिदधाति निष्केवल्यशस्त्रं समापयेत् ।
अथ होतृर्जपं विधत्ते—
परिहित उक्थ उक्थसंपदं जपति, इति ।
प्रकृतिभूतेऽग्निष्टोमे होता निष्केवल्यशस्त्रादूर्ध्वम् “उक्थं वाचीन्द्रायोपशृण्वते त्वा” इति मन्त्रं जपति । तत्रोक्थं वाचीन्द्रायेत्येतावानुक्थसंपदङ्गभागः । उपशृण्वते त्वेत्येतावानुक्थवीर्यभागः । उक्थशब्दः शस्त्रवाची । तथा सत्यत्र निष्केवल्यशस्त्रस्य
१ घ. ङ. 'त्वादृशाक्ष' । २ घ. ङ. द्वितीयपादं ।
अध्या०३ ख० २(१३)] ऐतरेयारण्यकम् । २८३
उक्थे समाप्ते सत्युक्थसंपदङ्गं होता जपेत् । उक्थं वाचीन्द्रायेत्येतावदेव जपेदित्यर्थः ।
वीर्यभागे प्रतिनिधिं विधत्ते—
उक्थवीर्यस्य स्थान उक्थदोहः, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके तृतीयाध्याये प्रथमः खण्डः ॥ १ ॥ ( १२ )
योऽयमुक्तवीर्यभाग उपशृण्वते त्वेत्येवंरूपस्तत्सस्थान उक्थदोहाख्यो मन्त्रः पठनीयः । शाखान्तरगतो मूर्धा लोकानामित्यारभ्य यज्ञसमार्द्धं मे धुक्ष्वेत्यन्तो मन्त्रस- मूह उक्थदोहसंज्ञकः ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये पञ्चमारण्यके तृतीयाध्याये प्रथमः खण्डः ॥ १ ॥ ( १२ )
अथ द्वितीयः खण्डः । ( त्रयोदशः )
तस्मिन्नुक्थदोहे प्रथमं मन्त्रमाह—
मूर्धा लोकानामसि वाचो रसस्तेजः प्राणस्याऽऽयतनं मनसः संवेशश्चक्षुषः संभवः श्रोत्रस्य प्रतिष्ठा हृदयस्य सर्वम् । इन्द्रः कर्माक्षितममृतं व्योम । ऋतं सत्यं विजिग्यानं विवाचनमन्तो वाचो विभुः सर्वस्मादुत्तरं ज्योतिरुधरप्रतिवादः पूर्वं सर्वे वाक्परागर्वाक्सप्तु सलिलं धेनु पिन्वति । चक्षुः श्रोत्रं प्राणः सत्यसंमितं वाक्प्रभूतं मनसो विभूतं हृदयोद्यं ब्राह्मणभर्तृमन्नशुभे वर्षपवित्रं गोभगं पृथिव्युपरं वरुणवयिव्रतं तपस्तन्विन्द्रज्येष्ठं सहस्रधारमयुताक्षरममृतं दुहानम्, इति ।
निष्ककेवल्यनामक हे उक्थ त्वं पृथिव्यादिलोकानां सर्वेषां मूर्धा शिरःस्थानी- योऽसि । वागिन्द्रियस्य सारभूतमसि । प्राणस्य तेजः शक्तिरूपमसि । मनस आयतनमाश्रयोऽसि । चक्षुरिन्द्रियस्य संवेशः स्वविषये प्रवेशनसामर्थ्यमसि । श्रोत्रेन्द्रियस्य संभवः शब्दग्रहणाद्योत्पन्नवृत्तिरूपमसि । हृदयस्याष्टदलस्य प्रति- ष्ठाऽऽधारभूतो देहोऽसि । निष्केवल्य नैतावदेव त्वं किं तु जगति यद्विद्यते तत्सर्वं त्वमसि । इन्द्र इत्यारभ्य दुहानमित्यन्तेन ग्रन्थेन तदेव सर्वं प्रत्येकमुदाहृत्य
^१ क. ख. घ. ङ. 'स्थानमसि ।
२८४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रपाठमारण्यके-
प्रदर्श्यते। इन्द्रः सहस्राक्षः। कर्म दर्शपूर्णमासादिकम्। ❊अक्षरमकारादिकम्। अमृतं पीयूषम्। व्योमाऽऽकाशः। ऋतं मनसा यथावस्तु चिन्तनम्। सत्यं वाचा यथावस्त्वभिधानम्। विजिग्यानं विजयशीलं राजादिकम्। विवाचनं विशेषेण वक्तुं समर्थम्। वाचः शब्देकालस्यान्तः पर्यवसानभूमिः। स चान्तो विभुर्वक्तव्यस्यार्थाभिवादने समर्थः। सर्वस्मात्प्रकाशजातादुत्तरं ज्योतिरादित्यरूपम्। ऊधो गवां स्तनसमूहः। अप्रतिवादो विद्वत्कथायां प्रतिवाद्युक्तिराहित्यम्। यस्य यस्य वस्तुनो यद्यत्पूर्व कारणरूपं तत्सर्वरूपम्। परागवार्गुत्तमाधमरूपा या वागस्ति तद्रूपम्। समु² नाना-³विधविमृद्भिः सहितं सलिलं वृष्ट्युदकं धेनु पिन्वति, यथा धेनुः क्षीरप्रदानेन प्रीणयति तद्वद्वृष्ट्युदकं सस्यनिष्पादनेन प्रीणयति। चक्षुःश्रोत्रप्राणा इन्द्रियवायुरूपाः। लोके यद्व्यवहारजातं सत्यसंमितमनृतोक्तिरहितं वाक्प्रभूतं शब्दैः संपूर्ण मनसो विभूतमर्थपर्यालोचकस्य मनःसंबन्धि भूत्वा विशेषेण व्यवस्थितं तादृशं वाग्व्यवहारजातं सर्वम्। हृदयौग्रं हृदये मनसि रँच्यमानं⁴ युद्धादिकमुग्रं कर्म। ब्राह्मणभर्तृ ब्राह्मणा भर्तारः पोषका यस्याध्ययनादेस्तद्ब्राह्मणभर्तृकम्। अन्नशुभे अन्नं व्रीहियवादिकं शुभं विवाहादिकम्। वर्षपवित्रं वृष्ट्युदकेन प्रक्षालिततया शुद्धं भूप्रदेशजातम्। गोभगं गवां संबन्धि शुद्धिहेतुत्वादिरूपं सौभाग्यजातम्। पृथिव्युपरं पृथिव्यां निखन्यमानं यूपस्य मूलम्। वरुणप्रत्वितमं वृक्षाधिपतिना वरुणेन तत्सहकारिणा ❊वायुना चातिशयनेतं प्राप्तम्। इततममित्यस्मिन्नर्थे तकार एको लुप्तः। तपस्तनु तपसा कृशं मुनिशरीरजातम्। तदेव वृष्टिवायूपद्रवसहिष्णुत्वादरुणवायुभ्यामतिशयेन प्राप्तमित्युच्यते। इन्द्रज्येष्ठम्। तदेव मुनिशरीरजातमित्रादप्यधिकं हिरण्यगर्भादिपदसाधकत्वात्। सहस्रधारमयुताक्षरम्। अमृतं दुहानम्। यदा यज्ञेषु देवार्थं गौर्दुह्यते तदा तस्य क्षीरस्य धारा देवानामग्रे सहस्रसंख्याकाः संपद्यन्ते। अत एव दोहनप्रकरणे—“वसूनां पवित्रमसि सहस्रधारम्” इति मँत्रा⁵ आम्नाताः। तत्र दोहनप्रकरणे समाम्नातेषु यान्यक्षराणि विद्यन्ते तान्ययुतसंख्याकानि बहुलानीत्यर्थः। बहुधाराभिर्बहुक्षरैश्चोपेतं यदमृतं क्षीरं तद्दुहानं गोकुलम्। इत्थं सर्वमुदाहृत्य प्रदर्शितम्।
अथ द्वितीयं मन्त्रमाह—
एतास्त उक्थ भूतय एता वाचो विभूतयः।
ताभिर्म इह धुक्ष्वामृतस्य श्रियं महीम्, इति।
* अक्षितशब्दस्य व्याख्यानमेतत्। + मूले ह्रस्वश्छान्दसः।
१ ग. ˚ब्दजातस्यां। २ ग. ˚वं प˚। ३ क. ख. घ. ङ. ˚विप्रुषै˚। ४ क. ख. घ. ङ. रिध्यमानं। ५ क. ख. घ. ङ. मन्त्र।
तृतीयं मन्त्रमाह—
अध्या० ३ ख० २ (१३)] ऐतरेयारण्यकम् । २८५
हे उक्थ निष्केवल्यशस्त्र मूर्धा लोकानामित्यादिना सर्वमिन्द्र इत्यादिना [च] त्वया पूर्वमभिहिता एताः सर्वास्ते तव भूतय ऐश्वर्याणि । न केवलं तैः शब्दैः प्रतिपाद्यानामर्थानामेव विभूतित्वं किंन्त्वेता वाचः शब्दा अपि तव विभूतयः । ताभिर्विभूतिभिः सर्वाभिर्मे मदर्थमिहास्मिन्कर्मण्यमृतस्य विनाशरहितस्य स्वर्गसंबन्धिनीं महीं श्रियं प्रौढां संपदं धुक्ष्व संपादय ।
तृतीयं मन्त्रमाह— प्रजापतिरिदं ब्रह्म वेदानां ससृजे रसम् । तेनाहं विश्वमाप्यासं सर्वान्कामान्दुहां महत्, इति ।
पुरा प्रजापतिर्वेदानां रसं सारभूतमिदं ब्रह्म प्रौढं महाव्रतं निष्केवल्यं वा सृष्टवान् । तेन कर्मणा शस्त्रेण वाऽहं होता विश्वं सर्वं फलमाप्यासम् । प्राप्तो भूयासम् । तथा सर्वान्कामान्भोगान्महदतिशयेन दुहां संपादयामि ।
चतुर्थं मन्त्रमाह— भूर्भुवः स्वस्त्रयो वेदोऽसि । ब्रह्म प्रजां मे धुक्ष्व, इति ।
ये भूरादयस्त्रयो लोका यश्च वेदो हे उक्थ तत्सर्वं त्वमसि । मह्यं ब्रह्म वेदं प्रजां च पुत्रादिकां धुक्ष्व संपादय ।
पञ्चमषष्ठसप्तमाष्टमान्मन्त्रानाह— आयुः प्राणं मे धुक्ष्व । पशून्विशं मे धुक्ष्व । श्रियं यशो मे धुक्ष्व । लोकं ब्रह्मवर्चसमभयं यज्ञसमृद्धिं मे धुक्ष्व, इति ।
विशं धनसंपादिनीं प्रजाम् । लोकं स्वर्गाख्यम् । स्पष्टमन्यत् । मूर्धा लोकानामित्यादिकमुक्थदोहार्यं मन्त्रसंघं होता प्रथमं स्वयं जपित्वा पश्चादध्वर्युं वाचयेदिति विधत्ते—
इति वाचयत्यध्वर्युमबुद्धं चेदस्य भवति, इति ।
अस्याध्वर्योरिदं मन्त्रस्वरूपमबुद्धं चेदनवगतं यदि भवति तदा होता पाठयेत् । अवगतत्वे स्वयमेव जपेदित्यर्थः ।
तस्माज्जपादूर्ध्वं होतुः कर्तव्यं विधत्ते— ओमुक्थशा यज सोमस्येतीज्यायै संप्रेषितो ये यजामह इत्यागूर्य नित्ययैव यजति व्यवान्येवानुवषट्करोति, इति ।
१ ग. 'ति । प्र' ।
२८६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [५पञ्चमारण्यके-
यदाऽध्वर्युरोमुक्थशा इत्यादिप्रैषमन्त्रं पठति तदानीं होता यागार्थं संप्रेषितः सन्नादौ ये यजामह इत्युच्चार्य नित्ययैव प्रकृतिगतया “ पिबा सोममिन्द्र ” [ ऋ० सं० म० ७ सू० २३ ऋ० १ ] इत्यनयैव यजेत् । तामेव याज्यां पठेदि-त्यर्थः । तत उच्छ्वासमकृत्वैवानुवषट्कारं कुर्यात् । सोमस्याग्ने वीहीत्येतं प्राकृतमेवानु-वषट्कारमन्त्रं पठेत् ।
अनुमन्त्रणे विशेषाभावं दर्शयति—
उक्तं वषट्कारानुमन्त्रणम्, इति ।
प्रकृतौ वौगोज इत्यादिकं यदनुमन्त्रणमुक्तं तदेवात्रापि द्रष्टव्यम् ।
अध्वर्योः कर्तव्यं होत्राऽपेक्षणीयं दर्शयति—
आहरत्यध्वर्युरुक्थपात्रमतिग्राह्यांश्चमसांश्च, इति ॥
भक्षणार्थमुक्थपात्रातिग्राह्येषु चमसेषु च यः सोमरसोऽवशेषितस्तमध्वर्युर्होतारं प्रत्यानयेत् ।
होतुः कर्तव्यं विधत्ते—
भक्षं प्रतिख्याय होता प्राङ्मेङ्खादवरोहति, इति ।
अध्वर्युणा समाहृतं भक्षं ज्ञात्वा प्राङ्मुखो भूत्वा [होता] प्रेङ्खादवरोहेत् ।
अध्वर्यूणां कृत्यं विधत्ते—
अथैतं प्रेङ्खं प्रत्यञ्चमवबध्नन्ति यथा शंसि- तारं भक्षयिष्यन्तं नोपहनिष्यसीति, इति ।
शंसिता होता प्रेङ्खस्य स्थाने स्वयमुपविश्य सोमं भक्षयिष्यति तदानीं तस्य होतुः प्रेङ्खेनो(णो)पपातो मा भूदित्यभिप्रेत्य तं प्रेङ्खं पश्चान्नीत्वोपरि बध्नीयुः ।
भक्षणस्थानं विधत्ते—
प्रेङ्खस्य ह्यायतनमासीनो होता भक्षयति, इति ।
समन्त्रकं भक्षणं विधत्ते—
अथैतदुक्थपात्रं होतोपसृष्टेन जपेन भक्षयति । वाग्देवी सोमस्य तृप्यतु । सोमो मे राजाऽऽ- युःप्राणाय वर्षतु । स मे प्राणः सर्वमायुर्दुह्वां महत्, इति ।
उपसृष्टेनेतरानुज्ञापूर्वकेण वाग्देवीत्यादिमन्त्रजपेन युक्त उक्थपात्रगतं सोमं भक्ष-येत् । सोमस्य रसेन वाग्देवता तृप्ता भवतु । स च सोमोऽस्माकं राजा सन्वायुर्हे-तुभूतप्राणार्थं वृष्टिं जनयतु । स च प्राणो मम सर्वमायुर्महत्संपूर्णं यथा भवति तथा दुह्वां संपादयतु ।
१ घ. ङ. वागौज । २ ग. ङ. ˚भूतः प्रा˚ ।
अध्या० ३ ख० २ (१३)] ऐतरेयारण्यकम् । २८७
अथ तृतीयसवने विशेषं विधत्ते—
उत्तमादाभिप्लविकात्तृतीयसवनमन्यद्वैश्वदेवाग्निवि- द्धानादस्य वामस्य पलितस्य होतुरिति सलिल- स्य दैर्घतमस एकचत्वारिंशत्तानोभद्रीयं च तस्य स्थान ऐकाहिकौ वैश्वदेवस्य प्रतिपदनुचरौ, इति।
अभिप्लवनामके षळ(ड)हे यदुत्तमं षष्ठमहस्तस्मादह्रोऽस्मिन्महाव्रतनामकेऽह्नि तृतीयसवनमतिदेष्टव्यम् । विश्वेषां देवानां स्तुतिवाचकानि निवित्पदानि यस्मिन्नानो-भद्रीयसूक्ते पठिष्यन्ते तस्मात्सूक्तं वैश्वदेवं निविद्धानं तस्मादन्यत्पूर्वभावि सर्वमाभिप्ल-विकवद्युज्य(वत्प्रयुज्य) तस्य निविद्धानसूक्तस्य स्थाने "अस्य वामस्य" इत्येतदानो-भद्रीयं चेत्येतदुभयं पठनीयम् । " अस्य वामस्य " इति सूक्तं द्विपञ्चाशदृचं तस्मिन्न-न्तिमा एकादश परित्यज्यावशिष्टमेकचत्वारिंशत्संख्याकमृक्समूहं पठेत् । स च समूहः सलिलस्य संबन्धी " गौरीर्मिमाय सलिलानि तक्षती " [ऋ० सं० म० १ सू० १६४ ऋ० १] इति तत्रत्यायामृच्यभिधानात् । दीर्घतमा नाम कश्चिदृषिस्तेन दृष्टः " वेदिषदे प्रियधामाय " [ ऋ० सं० म० १ सू० ४० ऋ० १ ] इत्या-दिको बहूनां सूक्तानां संघो दी(दै)र्घतमसः । तस्मिन्संधे " अस्य वामस्य " इत्येत-दपि सूक्तमवस्थितम् । तस्य सूक्तस्यात्र सलिलसंबन्धो दीर्घतमःसंबन्धानुस्मरणार्थम-भिहितः । चोदकप्राप्तस्य वैश्वदेवनिविद्धानस्य स्थाने " अस्य वामस्य " " आ नो भद्राः " इति द्वयं पठेत् । इत्येतावानत्र विशेषः । एकाह्ने विश्वजिन्नामके भवावैका-हिकौ यौ प्रतिपदनुचरौ वैश्वदेवस्य विहितौ तावेवात्र महाव्रतेऽपि वैश्वदेवशस्त्रस्य प्रतिपदनुचरौ कर्तव्यौ । प्रारम्भे पठनीयस्तृचः प्रतिपत् । तदनन्तरभावी तृचोऽनु-चरः । " तत्सवितुर्वृणीमहे " [ ऋ० सं० म० ५ सू० ८२ ऋ० १ ] इत्येष तृचः प्रतिपत् । " अद्या नो देव सवितः " [ ऋ० सं० म० ५ सू० ८२ ऋ० ४ ] इत्ययं तृचोऽनुचर इत्यर्थः ।
अथाऽऽग्निमारुतशस्त्रे विशेषं विधत्ते—
च्यवेत चेद्यज्ञायज्ञीयमग्ने तव श्रवो वय इति षट्स्तोत्रियानुरूपौ यदीलान्दं भूयसीषु चेत्स्तुवी-
अस्य वामस्य पलितस्य होतुः०—ऋ० सं० न० १ सू० १६४ ऋ० १ । आ नो भद्राः०—ऋ० सं० म० १ सू० ८९ ऋ० १ । अग्ने तव श्रवो वयः०— ऋ० सं० म० १० सू० १४० ऋ० १ ।
१ ख. ग. प्र. ड. ॰तः । नोइ' ।
२८८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [५पञ्चमारण्यके-
रत्नाऽग्निं न स्ववृक्तिभिरिति तावतीरनुरूपः, इति ।
यज्ञायज्ञीयमित्येकं साम । इलान्दमित्यपरं साम । ते उभे सामनी महाव्रते छन्दोगैर्विकल्पेन प्रयुज्येते । तत्र यदा यज्ञायज्ञीयं प्रयुक्तं तदानीं बह्वृचैराग्निमारुतशस्त्रकृतिरेवं क्रियते । “ वैश्वानराय धिषणाम् ” [ ऋ० सं० म० ३ सू० २ ऋ० १ ] इत्येकं सूक्तम् । “ शं नः करति ” [ ऋ० सं० म० १ सू० ४३ ऋ० ६ ] इत्येका । “ प्रयज्यवः ” [ ऋ० सं० म० ५ सू० ५५ ऋ० १ ] इत्येकं सूक्तम् । “ यज्ञायज्ञा वः ” [ ऋ० सं० म० ६ सू० ४८ ऋ० १ ] इत्येकः प्रगाथः । “ देवो वः ” [ ऋ० सं० म० ७ सू० १७ ऋ० ११ ] इत्यपरः “ जातवेदसे ” [ ऋ० सं० म० १ सू० ९९ ऋ० १ ] इत्येका । “ आपो हि ष्ठा ” [ ऋ० सं० म० १० सू० ९ ऋ० १ ] इत्यादिः प्राकृतः शस्त्रशेष इति । यदा तु सामगैर्यज्ञायज्ञीयं साम परित्यज्य तस्य स्थाने इलान्दनामकं साम गीयते तस्मिन्पक्षे पूर्वोक्तं प्रगाथद्वयं परित्यज्य तस्य स्थाने “ अग्ने तव ” इत्यादयः षडृचः पठनीयाः । तत्राऽऽद्यस्तृचः स्तोत्रियः । “ इरज्यन् ” [ ऋ० सं० म० १० सू० १४० ऋ० ४ ] इत्यादिको द्वितीयस्तृचोऽनुरूपः । तत्रेलान्दं साम प्रथमतृचे गीयत इत्येकः पक्षः । तृचद्वयेऽपि गीयत इत्यपरः पक्षः । एकतृचगानपक्षे स्तोत्रियानुरूपावृक्तौ । भूयसीषु तृचद्वयगतासु सर्वासूवृक्षु यदि सामगाः स्तुवीरंस्तदानीं स्तोत्रियाणामृचां षट्संख्योपेतत्वादनुरूपेऽपि “ आऽग्निं न स्ववृक्तिभिः ” [ ऋ० सं० म० १० सू० २१ ऋ० १ ] इत्याद्यास्तावतीः षट्संख्याका ऋचः शंसेत् । स एतावानाग्निमारुतशस्त्रे विशेषः ।
आरण्यकादौ य उपक्रान्तो महाव्रतप्रयोगस्तमिममुपसंहरति—
संपन्नं महाव्रतं संतिष्ठत इदमहराग्निष्टोमो यथा-
कालमवभृथं प्रेड्रं हरेयुः संदहेयुर्बृसीः, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके तृतीयाध्याये
द्वितीयः खण्डः ॥ २ ॥ (१३)
महाव्रतविषयं यद्धौत्रं तत्संपूर्णम् । इदं महाव्रताख्यमहश्च समाप्तम् । तच्चाहरग्निष्टोमसंस्यं तस्यावभृथकाले प्रेड्रं होमपात्रैः सह जलसमीपे हरेयुः । याश्च बृस्य इतरेषामासनार्थं निर्मितास्ताः सर्वा बृसीर्वेदिदहनकाले दहेयुः ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये
पञ्चमारण्यके तृतीयाध्याये द्वितीयः खण्डः ॥ २ ॥ ( १३ )
आऽग्निं न स्ववृक्तिभिः०—ऋ० सं० म० १० सू० २१ ऋ० १ ।
१ ग. घ. ङ. ॰ब्दोष । २ ग. ॰तू । ए' ।