भारतकोश
संग्रह पर लौटें

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

१.] । आयुर्वेदप्रकाशः । १७ शुद्धाः सन्तो मृता अमृता वा यथावचनं योज्या नाशुद्धा इति दिक् ॥ इह खलु पुरुषेण दुःखस्य निरुपाधिद्वेषविषयत्वात्तदभाव- श्चिकीर्षितव्यो भवति, सुखमपि निरुपाधिप्रेमास्पदतया गवे- षणीयं, तदेतत्पुरुषार्थद्वयम् । अत्र स्रक्चन्दनललनादिविषयाणां सत्यपि तत्कारणत्वे (सुखकारणत्वे) नान्तरीयकदुःखसंभेदा- दनर्थपरंपरापरिचितत्वान्मूर्खाणामाकाशोड्रङ्गवदाभासमानत्वा- दनैकान्तिकत्वाद्विरोधिनां युगपद्दृश्यमानत्वादत्यन्ताविरहि- तत्वाच्च परिहरणीयम् । एकान्तात्यन्तः पुनरेतेऽभ्युपायाः खलु हरिहरब्रह्माण इव तुल्या एव संभवन्ति—ज्ञानयोगः, प्राणयोगो, रसयोगश्चेति । ननु, कथमेतेषां तुल्यतेत्यपेक्षायां ब्रूमः—मोक्षोपाये बृहद्वासिष्ठे भुशुण्डोपाख्याने वसिष्ठवा- क्यम्— असाध्यः कस्यचिद्योगः कस्यचिज्ज्ञाननिश्चयः । द्वौ प्रकारौ ततो देवो जगाद परमः शिवः । प्राणानां वा निरोधेन वासनानोदनेन वा ॥ १२५ ॥ इत्यादि तस्मादेतेषां समानत्वमनवद्यम् । तत्राद्ययोः केवलं पक्व- कषायाणामपि कथञ्चन साध्यत्वात्, चरमे पुनर्भोगलोलु- पानामप्यधिकारित्वात्ताभ्यां समीचीनोऽयमिति कस्य न प्रतिभाति । किञ्चास्य भगवन्निर्या॑सकतया सेवकानां स्वसं- भूतसकलधातुत्वापादकस्य भगवतो रसराजस्य गुणसिन्धोः कियन्तो मूर्च्छनाः, ताः प्रसङ्गाल्लिख्यन्ते । अथाव्यभिचरित- व्याधिघातकत्वं मूर्च्छना, तत्प्रकारा बहुविधाः । तत्र १ आकाशोद्रङ्गवद्गन्धर्वनगरवदित्यर्थः । 'कोशाण्डवदाभासमानत्वात्' ख. । 'केशरकस्तूरिकाकोशवदाभासमानत्वात्' क. । २ सुखकारणत्वमिति भावः ।

१८ आयुर्वेदीयग्रन्थमाला । [ अध्यायः निर्गन्धसगन्धभेदेन द्विविधा भवति मूर्च्छना । निर्गन्धमू- र्च्छना तु विषाद्यौषधिभिरेकरूपा परमयोगिनां संमता । सगन्धा तु बहिर्धूमान्तर्धूमनिर्धूमतस्त्रिविधा । त्रिवि- धाऽपि केवलं गन्धपिष्टि-गन्धबद्ध-गन्धजीर्ण-सगन्धकजली- धातुपिष्टिभेदेन पञ्चधा । धातुपिष्टिश्च कनकरजतशुल्वघनस- त्त्वकालायसभेदैः पञ्चधा । किंच मूर्च्छना जारणा इत्यने- र्थान्तरं प्रायः । सा चेष्टिका-काचकूपी-काचसंपुट-सुवर्णयन्त्र- भेदेनान्तर्धूमबहिर्धूमाभ्यां द्विविधा । तत्र षड्गुणगन्धकजा- रणा साधीयसी निगद्यते—सा तु स्वेदनमर्दनादिसंस्काराव- बद्धस्य रसराजस्य कार्या । बन्धनं तु स्वाभाविकद्रवत्वे सति वह्निनाऽनुड्डीयमानत्वं मूर्तिबद्धत्वं, तत्तु नियमनान्तैः संसा- रैर्भवति । अथ यदि स्वेदनादिसंस्कारान् कर्तुमसमर्थः, तं प्रति सुगमरसशोधनोपाया अप्युक्ताः सन्ति । ते यथा—तत्र पारद- ग्रहणे तत्परीक्षामाहुः । यथा— अन्तःसुनीलो बहिरुज्ज्वलो यो मध्याह्नसूर्यप्रतिमप्रकाशः । योज्योऽथ धूम्रः परिपाण्डुरश्च चित्रो न योज्यो रसकर्मसिद्धयै ॥ इति ॥ शोधनं यथा— राजीरसोनमूषायां रसं क्षिप्त्वा विबन्धयेत् । वस्त्रेण दोलिकायन्त्रे स्वेदयेत्काञ्जिकैर्द्यहम् ॥ १२७ ॥ दिनैकं मर्दयेत्पश्चात् कुमारीसंभवैर्द्रवैः । तथा चित्रकजैः क्वाथैर्मर्दयेदेकवासरम् ॥ १२८ ॥ काकमाचीरसैस्तद्वद्दिनमेकं तु मर्दयेत् । त्रिफलायास्ततः क्वाथै रसो मर्द्यः प्रयत्नतः ॥ १२९ ॥ १ 'पामरयोगिनां' क. । २ 'इत्यर्थान्तरं' क. । ३ 'अनुच्छिद्यमान- त्वम्' ख. ।

१. ] आयुर्वेदप्रकाशः । १९ ततस्तेभ्यः पृथक्कुर्यात् सूतं प्रक्षाल्य काञ्जिकैः । ततः क्षिप्त्वा रसं खल्वे रसादर्धं च सैन्धवम् ॥ १३० ॥ मर्दयेन्निम्बुकरसैर्दिनमेकमनारतम् । ततो राजी रसोनश्च मुख्यश्च नवसागरः ॥ १३१ ॥ एतै रससमैस्तद्वत् सूतो मर्द्यस्तुपाम्बुना । ततः संशोष्य चक्राभं कृत्वा लिप्त्वा च हिङ्गुना ॥ १३२ ॥ द्विस्थालीसंपुटे धृत्वा पूरयेल्लवणेन च । अधःस्थाल्यां ततो मुद्रां दद्याद्दृढतरां बुधः ॥ १३३ ॥ विशोष्याग्निं विधायाधो निषिञ्चेदम्बु चोपरि । ततस्तु दद्यात्तीव्राग्निं तदधः प्रहरत्रयम् ॥ १३४ ॥ एवं निपत्य यात्यूर्ध्वं रसो दोषविवर्जितः । अथोर्ध्वपिठरीमध्ये लग्नो ग्राह्यो रसोत्तमः ॥ १३५॥ इति । एवं रसे गृहीते पुनस्तोलिते हीने सति पुनस्तद्यन्त्रं संमुद्य शेषस्योर्ध्वपातनं कृत्वा रसो ग्राह्य इति गुरुसंप्रदायः । अथा- न्यत्रापि— एतावतस्तु संस्कारान् सूतस्य कर्तुमक्षमैः । तन्मुख्यान् कियतः कृत्वा ग्राह्यो रोगापनुत्तये ॥ १३६ ॥ रसराजलक्ष्म्यां— दग्धोर्णागृहधूमसाररजनीरक्तेष्टिकाकाञ्जिकैः पिष्ट्वा व्योषकुमारिकानलवरानिम्बुद्रवैर्वासराम्¹ ॥ व्योषाद्यम्बुनि दोलया रचितया स्विन्नं सुताम्राङ्घ्रियुक् । पिष्टं भाण्डतलाजलाश्रयगतं सूतं समभ्युद्धरेत् ॥ १३७ ॥ लवणसलिलदोलायन्त्रमध्ये दिनैकं भुजगनयनवन्ध्याभृङ्गकल्रकान्तरस्थः ।


१ 'वा रसम्' क. ।

२० । आयुर्वेदीयग्रन्थमाला । [ अध्यायः तदनु दहनतोये काञ्जिके खेदितः स्यात् सपटुमरिचशिग्रुयुक्तः श्रीरसेन्द्रः ॥ १३८ ॥ एतावदप्यशक्तः कर्तुं सूतस्य शोधनं मनुजः । स्वेदनमर्दनमूर्ध्वं पातनमेतत्त्रयं कुर्यात् ॥ १३९ ॥ रसरत्नाकरे शोधनं यथा— अथातः संप्रवक्ष्यामि दोषाष्टकनिवारणम् । इष्टकारजनीचूर्णैः षोडशांशै रसस्य तु ॥ १४० ॥ मर्दयेत्तप्तखल्वे हि जम्बीरोत्थद्रवैर्दिनम् । खल्वं लोहमयं वाऽथ पाषाणोत्थमथापि वा ॥ १४१ ॥ काञ्जिकैः क्षालयेत्सूतं नागदोषं विमुञ्चति । विशालाङ्कोलचूर्णेन वङ्गदोषं विनाशयेत् ॥ १४२ ॥ राजवृक्षो मलं हन्ति चित्रको वह्निदूषणम् । चाञ्चल्यं कृष्णधत्तूरस्त्रिफला विषनाशनम् ॥ १४३ ॥ कटुत्रयं गिरि हन्ति असह्याग्निं त्रिकण्टकः । प्रतिदोषं कलांशेन तत्र चूर्णं सकन्यकम् ॥ १४४ ॥ सुवस्त्रगालितं खल्वे सूतं क्षिप्त्वा यथाक्रमम् । प्रत्येकं प्रत्यहं यत्नात् सप्तरात्रं विमर्दयेत् ॥ १४५ ॥ उद्धृत्य चारनालेन मृद्भाण्डे क्षालयेत्सुधीः । सर्वदोषविनिर्मुक्तः सप्तकञ्चुकवर्जितः । जायते शुद्धसूतोऽयं योजयेद्रसकर्मणि ॥ १४६ ॥ तप्तखल्वलक्षणम् ।— अजाशकृत्तुषाग्निं च खनयित्वा भुवि क्षिपेत् । तस्योपरिस्थितं खल्वं तप्तखल्वमिदं भवेत् ॥ १४७ ॥ अथान्यन्मतम्— भूगर्तेऽजशकृत्तुषानलपुटे संस्थापिते लोहजे खल्वे जम्भजकाञ्जिकेन बलिना सार्धं दशांशेन सः । १ 'विशोधयेत्' क. । २ 'जम्भल' क. । ३ 'रसांशेन' क. ।

१.] आयुर्वेदप्रकाशः । २१ संमर्द्यः परिपात्य यन्त्रविधिना निष्कासितः सप्तधा । शुद्धः पारदमर्दकैर्निगदितो वैद्यैरवैद्यैर्नरैः ॥ १४८ ॥ अथान्यन्मतम्— श्रीखण्डं देवदारुं च काकतुण्डीजयाद्रवम् । कर्कोटीमुसलीकन्याद्रवं दत्त्वा विमर्दयेत् ॥ १४९ ॥ दिनैकं पातयेत्पात्रे तच्छुद्धं विनियोजयेत् । अथान्यत्सिद्धमतम्— कुमार्या च निशाचूर्णैर्दिनैकं मर्दयेद्रसम् ॥ १५० ॥ पातयेत्पातनायन्त्रे शुद्धो भवति पारदः । अथान्यत्सिद्धमतम्— एकेन लशुनेनापि शुद्धो भवति पारदः ॥ १५१ ॥ तप्तखल्वे मासमेकं पिष्टो लवणसंयुतः । अथवा ग्राहयेत्सूतं दरदात्तन्निगद्यते ॥ १५२ ॥ कञ्चुकैर्नागवङ्गाद्यैर्विमुक्तो रसकर्मणि । हिङ्गुलाकृष्टसूतस्तु जीर्णगन्धसमो गुणैः ॥ १५३ ॥ निम्बपत्ररसैः पेष्यं हिङ्गुलं याममात्रकम् । जम्भीराणां द्रवैर्वाऽथ पात्यं पातनयन्त्रके ॥ १५४ ॥ तं सूतं योजयेत्पश्चात्सप्तकञ्चुकवर्जितम् । इत्येवं शुद्धमाख्यातं यथेष्टैकं प्रकारयेत् ॥ १५५ ॥ अन्यत्रापि— अथवा दरदाकृष्टं स्विन्नं लवणाम्बुभिस्तु दोलायाम् । रसमादाय यथेच्छं कर्तव्यस्तेन भेषजो योगः ॥ १५६ ॥ निम्बूरसेन संपिष्टात् प्रहरं दरदाद्दृढम् । ऊर्ध्वपातनयन्त्रेण ग्राह्यो निर्मलो रसः ॥ १५७ ॥ इति सुगमशोधनम् ॥ १ ‘पारदकर्मठैः’ क. । २ ‘पातयेत्पश्चात्’ क. ।

२२ आयुर्वेदीयग्रन्थमाला । [ अध्यायः अथैवं शोधितस्य मुखकरणमुक्तं तन्त्रान्तरे ।— सास्यो रसः स्यात्पटुशिग्रुतुत्थैः सराजिकैः सोषणकैस्त्रिरात्रम् । पिष्टस्ततः स्विन्नतनुः सुवर्णमुखानयं खादति सर्वधातून् ॥ अन्यन्मतम् ।— अथ पङ्कबिन्दुकीयैश्च रसो मर्द्यस्त्रिवासरम् । लवणाम्लैर्मुखं तस्य जायते ग्रांसलोलुपम् ॥ १५९ ॥ ‘अथवा बिन्दुलीकीटैः’ इत्यपि पाठान्तरम् । शार्ङ्गधरोऽपि— कालकूतो वत्सनाभः शृङ्गीकश्च प्रदीपनः । हालाहलो ब्रह्मपुत्रो हारिद्रः सक्तुकस्तथा ॥ १६० ॥ सौराष्ट्रिक इति प्रोक्ता विषभेदा अमी नव । अर्कसेहुण्डधत्तूरलाङ्गलीकरवीरकाः ॥ १६१ ॥ गुञ्जाहिफेनावित्येताः सप्तोपविषजातयः । एतैर्विमर्दितः सूतश्छिन्नपक्षः प्रजायते ॥ १६२ ॥ मुखं च जायते तस्य धातूंश्च ग्रसतेतराम् । अथवा त्रिकटु क्षारौ राजी लवणपञ्चकम् ॥ १६३ ॥ रसोनो नवसारश्च शिग्रुश्चैकत्र चूर्णितैः । समांशैः पारदादेतैर्जम्बीरोत्थद्रवेण च ॥ १६४ ॥ निम्बुतोयैः काञ्जिकैर्वा सोष्णखल्वे विमर्दयेत् । अहोरात्रत्रयेण स्याद्रसे धातुचरं मुखम् ॥ १६५ ॥ वस्तुतस्तु दीपनस्यैवापरपर्यायो मुखकरणमिति न पृथक् संस्कारः, तत्साधकान्यूनविंशतिकर्माणीति नियमभङ्गात् ॥ अथैवं संशुद्धरसे आदौ गन्धकजारणा । शिवागमे— अजीर्णं तु अबीजं तु सूतकं यस्तु घातयेत् । ब्रह्महा स दुराचारी मम द्रोही महेश्वरि ! ॥ १६६ ॥ १ ‘धातुघस्मरम्’ ख. । २ ‘त्वरन्’ क. ।

१. ] आयुर्वेदप्रकाशः । २३ अन्यत्रापि— गुरुशास्त्रे परित्यज्य विना जारितगन्धकात् । रसं निर्माति दुर्मेधाः शपेत्तं परमेश्वरः ॥ १६७ ॥ तत्र गन्धकजारणा बहिर्धूमान्तर्धूमभेदेन द्विविधा । आद्या यथा—‘तत्र षड्गुणगन्धकजारणक्रिया साधीयसी निगद्यते’ इत्युक्तं प्रागेव ॥ रसगुणबलिजारणं विनाऽयं न खलु रुजां हरणक्षमो रसेन्द्रः ॥ न जलदकलधौतपाकहीनः स्पृशति रसायनतामिति प्रतिज्ञा ॥ १६८ ॥ तन्निमित्तकं सिकतायन्त्रद्वयं कथ्यते । यथा—निरवधिनि- ष्पीडितमृद्वस्त्रादिपरिलिप्तामतिकठिनकाचघटीमग्रे वक्ष्यमाण- प्रकारां रसगर्भिणीमधस्तर्जन्यङ्गुलिप्रमाणितच्छिद्रायामनुरूप- स्थालिकायामारोप्य छिद्रस्य परितो द्वित्र्यङ्गुलिमितेन लवणेन निरन्तरालीकरणपुरःसरं सिकताभिरापूर्य वर्धमानकमारोपणीयः; क्रमतश्च त्रिचतुराणि पञ्चषाणि वा वासराणि ज्वलनज्वालया पचनीयमित्येकं यन्त्रं; हस्तैकमात्रप्रमाणभूगर्भान्तर्निखातां प्रागुक्तकाचघटीं नातिचिपिटमुखीं नात्युच्चमुखीं मषी- भाजनप्रायां खर्परचक्रिकया काचचक्रिकया वा निरुद्धवदन- विवरां मृण्मयीं वा घटीं विधाय करीषैरुपरि पुटो देय इत्य- न्यद्यन्त्रम् । ‘यन्त्रमध्ये तु भूधरः’ इति त्रिविक्रमः । ‘कूर्मयन्त्रे रसे गन्धं षड्गुणं जारयेद्बुधः’ इत्यन्ये । अत्र पक्षे राग- स्तथा न स्यात्, तेनादौ त्रिगुणं जारयित्वा शेषः कच्छपि- कोदरे देयः, तदा रागः साधुः स्यात् । अत्र कज्जलिमन्तरेण केवलगन्धकमपि साम्येन जारयन्ति ॥ १ प्राग्वत्काचघटी’ ख. ।

२४ आयुर्वेदीयग्रन्थमाला । [ अध्यायः अथ रससिन्दूरादिष्वनुभूतगन्धकजारणाप्रकारमाह ।— कूपीकोटरमागतं रसगुणैर्गन्धैस्तुलायां विभुं विज्ञाय ज्वलनं क्रमेण सिकतायन्त्रे शनैः पाचयेत् । वारंवारमनेन १वृद्धिविधिना गन्धक्षये सिद्धये सिन्दूराद्युदितोऽनुभूय भणितः कर्मक्रमोऽयं मया ॥ अत्र सप्तमृत्कर्पटैः समुद्रां कूपिकां कृत्वा वालुकायन्त्रे प्रहर- चतुष्टयमग्निं दद्यात्, यथाद्रव्यं वा पुनःपुनरेवं पाकं कुर्यात्, कूपिकायन्त्रं दृढं न भवेत्तदा पुनर्नवीनं संपादयेत्, यदि रस- सिन्दूरं स्यात्तदोर्ध्वपातनेन हिङ्गुलवन्निष्कासयेदित्येके । अन्ये- ऽपि गन्धकजारणप्रकारा यत्राध्याये द्रष्टव्याः । आरोटकम्- न्तरेण हिङ्गुलगन्धकाभ्यां पिष्टाभ्यामपि सिन्दूररसः संपाद्यः । आरोटकशब्दस्तु शुद्धपर्यायवाचकः ॥ अन्यच्च— त्रिगुणमिह रसेन्द्रमेकमंशं कनकपयोधरतारपङ्कजानाम् । रसगुणवलिभिर्विधाय पिष्टिं रचय निरन्तरमम्बुभिः कुमार्याः॥ इति कज्जलीकरणम् । आषड्गुणमधरोत्तरसमादिवलिजारणेन योज्योऽयं योगः । पिष्टी पात्या कजलिकार्थं जारणार्थं च । प्रकारोऽयमधोयन्त्रे- णैव सिध्यति, न पुनरूर्ध्वयन्त्रेणेति कज्जली ॥ काचमृत्तिकयोः कुपी हेम्नोऽयस्तारयोरपि । कीलालायःकृतो लेपः खटिकालवणाधिकः ॥ १७० ॥ अनेन यन्त्रद्वितयेन भूरि हेमाभ्रसत्त्वान्यपि जारयन्ति । यथेच्छमच्छैः स्वमनोविचारैर्विचक्षणाः पल्लवयन्तु भूयः ॥१७१ एतन्त्रिनेत्रादिप्रयोगविषयं न

१. ] आयुर्वेदप्रकाशः । २५ अन्तर्धूमविपाचितषड्गुणगन्धेन जारितः सूतः । स भवेत्सहस्रवेधी तारे ताम्रे भुजङ्गे च ॥ १७३ ॥ रसरत्नाकरे ।— जीर्णे शतगुणे गन्धे शतवेधी भवेद्रसः । सहस्रगुणिते जीर्णे सहस्रांशेन वेधयेत् ॥ १७४ ॥ एतत्प्रकारस्तु तत्रैव द्रष्टव्यः; प्राधान्यं षड्गुणस्य सर्वसं- मतम् ॥ अथ षड्गुणगन्धकजारणायां कच्छपयन्त्रं यथा— आकण्ठं कलशं भूमौ निखाय जलसंभृतम् । शरावस्तन्मुखे स्थाप्यो मध्ये छिद्रसमन्वितः ॥ १७५ ॥ नीरावियोगिनीं तत्र छिद्रे काचविलेपिताम् । मृन्मूषां स्थापयेत्तस्यामूर्ध्वाधस्तुल्यगन्धकम् ॥ १७६ ॥ रसं निक्षिप्य तस्योर्ध्वं शरावेण विमुद्रयेत् । वन्योपलानि तस्योर्ध्वं ज्वालयेद्गुरुमार्गतः ॥ १७७ ॥ स्वाङ्गशीतं समुद्धृत्य पुनस्तुर्यांशगन्धकम् । दत्त्वा पूर्वक्रमेणैव जारयेत् षड्गुणं बलिम् ॥ १७८ ॥ इति ॥ अथान्यप्रकारः ।— सूते गन्धं रसैकांशं निक्षिप्य मृदुखल्वके । तावत्संकुट्टयेत्पिण्डं भवेद्वा ताम्रपात्रके ॥ १७९ ॥ तत्तुल्यं गन्धकं दत्त्वा रुद्ध्वा तल्लोहसंपुटे । पुटयेद्भूधरे यन्त्रे यावज्जीर्यति गन्धकः ॥ १८० ॥ एवं पुनः पुनर्गन्धं दद्यादाषड्गुणं बुधः ॥ १८१ ॥ इति ॥ अथ कच्छपयन्त्रेण गन्धकजारणमाह शार्ङ्गधरः— मृत्कुण्डे प्रक्षिपेन्नींर तन्मध्ये च शरावकम् । महत्कुण्डपिधानाभं मध्ये मेखलया युतम् ॥ १८२ ॥ १ 'समगुणे' ख. । ३

२६ आयुर्वेदीयग्रन्थमाला । [ अध्यायः लिप्त्वा च मेखलामध्यं चूर्णेनात्र रसं क्षिपेत् । रसस्योपरि गन्धस्य चूर्णं दद्यात्समांशकम् ॥ १८३ ॥ दत्त्वोपरि शरावं च भस्ममुद्रां प्रदापयेत् । तस्योपरि पुटं दद्याच्चतुर्भिर्गोमयोपलैः ॥ १८४ ॥ एवं पुनः पुनर्गन्धं षड्गुणं जारयेद्बुधः । गन्धे जीर्णे भवेत्सूतस्तीक्ष्णाग्निः सर्वकार्यकृत् ॥१८५॥इति॥ रसरत्नाकरे— संस्थाप्य गोमयं भूमौ पक्कमूषां तथोपरि । तन्मध्ये कटुतुम्बीयुत्थं तैलं दत्त्वा रसं क्षिपेत् ॥ १८६ ॥ काकमाचीद्रवो देयस्तैलतुल्यः पुनःपुनः। गन्धकं व्रीहिमात्रं च क्षिप्त्वा तां च निरोधयेत् ॥१८७॥ (१तत्पृष्ठे श्रावकं देयं पूर्णं वा वह्निखर्परम् । स्वाङ्गशीतलतां ज्ञात्वा जीर्णतैलं च गन्धकम् । काकमाचीद्रवं चाग्निं दत्त्वा दत्त्वा तु जारयेत् ॥ १८८ ॥) मूषाधो गोमयं सान्द्रं दत्त्वा चोर्ध्वं च पावकम् । षड्गुणं गन्धकं जार्य सूतस्यैवं मुखं भवेत् ॥ १८९ ॥ इत्याद्यजारणम् ॥ अथान्त्यं यथा— सूतप्रमाणं सिकताख्ययन्त्रे दत्त्वा बलिं मृद्घटितेऽल्पभाण्डे । तैलावशेषं च रसं निदध्यान्मग्नार्धकायं प्रविलोक्य भूयः १९० आषड्गुणं गन्धकमल्पमल्पं क्षिपेद्रसो जीर्णबलिर्बलीयान् । रसेषु सर्वेषु नियोजितोऽयमसंशयं हन्ति गदं जवेन ॥ १९१ ॥ इति गन्धकजारणम् ॥ १. अयं पाठः ख. पुस्तके नोपलभ्यते.

१. ] आयुर्वेदप्रकाशः । २७ अथ स्वर्णजारणम् । तदुक्तं— गन्धकजारणमादौ कुर्यादथ जारणं सुवर्णस्य । जलधरसत्त्वस्य ततो जारणमथ सर्वलोहानाम् ॥ १९२ ॥ अथ तदुपयोगिविडकथनम् । काञ्चनादिग्रसनतीव्रबुभुक्षा- कराणि द्रव्याणि विडानि कथ्यन्ते । यथा— वज्रकण्टकवज्राग्रं विद्धमष्टाङ्गुलं मृदा । विलिप्य गोविशाल्पाग्नौ पुटितं तत्र शोषितम् ॥ १९३ ॥ त्र्यहं वज्रिबिले क्षिप्तो ग्रासार्थी जायते रसः । ग्रसते गन्धहेमादिवज्रसत्त्वादिकं क्षणात् ॥ १९४ ॥ मूर्च्छाध्यायोक्तषड्गुणवलिजीर्णपिष्टिकोत्थितरसः खल्वेऽ- त्यन्तं बुभुक्षितो घनहेमवज्रसत्त्वादि त्वरितमेव ग्रसतीत्यन्य- प्रकारः। एतद्वयमपि कृत्वा व्यवहरन्त्यन्ये । अथान्ये विडाः— सतुत्थं टङ्कणं सर्जिः पटु ताम्रे त्र्यहोषितम् । काञ्जिकं भावितं तेन गन्धाद्यं चरति क्षणात् ॥ १९५ ॥ बिडे सकाञ्जिके क्षिप्तो रसः स्याद्ग्रासलालसः । ग्रसते सर्वलोहानि सर्वसत्त्वानि वज्रकम् ॥ १९६ ॥ अथान्यप्रकारः ।— शङ्खचूर्णं रविक्षीरैरातपे भावयेद्दिनम् । तद्वज्जम्बीरजद्रावैर्द्दिनैकं धूमसारकम् ॥ १९७ ॥ सौवर्चलमजामूत्रैर्भाव्यं यामचतुष्टयम् । कण्टकारीं च संक्वाथ्य दिनैकं नरमूर्तके ॥ १९८ ॥ खर्जिक्षारं तिन्तिडीकं कासीसं तु शिलाजतु । जम्बीरोत्थद्रवैर्भाव्यं पृथग्यामचतुष्टयम् ॥ १९९ ॥

२८ | आयुर्वेदीयग्रन्थमाला। [अध्यायः निस्तुषं जयपालं च मूलकानां द्रवैर्दिनम् । सैन्धवं टङ्कणं गुञ्जां दिनं शिग्रुजटाम्भसा ॥ २०० ॥ एतत्सर्वं समांशं तु मर्द्यं जम्बीरजद्रवैः । तद्गोलं रक्षयेद्यत्नाद्विडोऽयं वडवानलः ॥ २०१ ॥ अनेन मर्दितः सूतः संस्थितस्तप्तखल्वके । स्वर्णादिसर्वलोहानि सत्त्वानि ग्रसते क्षणात् ॥ २०२ ॥ इति वडवानलो बिडः ॥ मूलकार्द्रकवह्नीनां क्षारं गोमूत्रगालितम् । वस्त्रपूतो द्रवो ग्राह्यो गन्धकं तेन भावयेत् । शतवारं खरे घर्मे विडोऽयं हेमजारणे ॥ २०३ ॥ इति सिद्धलक्ष्मीश्वरतन्त्रोक्तो बिडः ॥ एवं बिडान्तराण्यपि तन्त्रान्तरादनुसर्तव्यानि। इति बिडकथनम्॥ चतुःषष्ट्यंशकं हेमपत्रं मायूरमायुना । विलिप्तं तप्तखल्वस्थे रसे दत्त्वा विमर्दयेत् । दिनं जम्बीरतोयेन ग्रासे ग्रासे त्वयं विधिः ॥ २०४ ॥ शनैः संस्वेदयेद्दर्जे बद्ध्वा सपटुकाञ्जिके । भाण्डके त्रिदिनं सूतं जीर्णस्वर्णं समुद्धरेत् ॥ २०५ ॥ अधिकस्तोलितश्चेत्स्यात्पुनः स्वेद्यः समावधि । द्वात्रिंशत्षोडशाष्टांशक्रमेण वसु जारयेत् ॥ २०६ ॥ रूप्यादिषु च सत्त्वेषु विधिरेवंविधः स्मृतः । चूलिकालवणं गन्धमभावे शिखिपित्ततः ॥ २०७ ॥ इति स्वर्णरूप्यादिसर्वसत्त्वजारणविधिः ॥ अथ तप्तखल्वलक्षणम् ।— अजाशकृत्तुषाग्निं च खातयित्वा भुवि क्षिपेत् । तस्योपरि स्थितो लोहखल्वः स तप्तखल्वकः ॥ २०८ ॥ इति तप्तखल्वलक्षणम् ॥

१. ] आयुर्वेदप्रकाशः । २१ अथ सिद्धमते दोलायन्त्रेण हेमजारणं यथा— सग्रासं पञ्चषड्‌भागैर्यवक्षारैर्विमर्दयेत् ॥ सूतं तत्षोडशांशेन गन्धेनाष्टांशकेन वा ॥ २०९ ॥ ततो विमर्द्य जम्बीररसे वा काञ्जिकेऽथवा । दोलापाको विधातव्यो दोलायन्त्रमिदं स्मृतम् ॥ २१० ॥ दिनत्रयं वा जीर्णावधि दोलापाको विधातव्य इति भावः ॥ इति दोलाजारणम् ॥ अथान्यत्सिद्धमते कच्छपयन्त्रेण काञ्चनग्रसनं, यथा— शश्वद्धृताम्बुपात्रस्थशरावच्छिद्रसंस्थिता । पक्कमूषा जले तस्यां रसोऽष्टांशविडावृतः ॥ २११ ॥ संरुद्धो लोहपात्र्याऽथ मुद्रितो दृढमुद्रया । वालुकां तदुपर्यष्टाङ्गुलमानां विनिक्षिपेत् ॥ २१२ ॥ हठात्तदुपरि ध्मातो रसस्तद्गर्भसंस्थितः । मायूरमायुना लिप्तं काञ्चनं ग्रसति ध्रुवम् ॥ २१३ ॥ इति कच्छपयन्त्रम् ॥ उक्तं च— सच्छिद्रं सलिलापूर्णभाण्डवक्त्रे शरावकम् । दत्त्वा छिद्रे पक्कमूषा देया नीरावियोगिनि । तस्यां विडावृतः सूतो देयो लोहावृते मुखे ॥ २१४ ॥ दत्त्वा वालुकामुपरि मुद्रां दत्त्वा शनैः शनैः । ध्मातो ध्मातो ग्रसत्येव काञ्चनं सूक्ष्मतां गतम् ॥ २१५ ॥ खल्पं सपित्तताप्याक्तं शनैर्देयं समावधि । देहार्थं, धातुवादार्थं प्रयच्छन्त्यल्पबुद्धयः ॥ २१६ ॥ इत्यपि कच्छपयन्त्रम् ॥ १ 'काञ्चनकरणं' ख. ।

३० आयुर्वेदीयग्रन्थमाला । [ अध्यायः अथ मतान्तरं यथा— कुण्डाम्भसि लोहमये सबिडं सग्रासमीशजं पात्रे । अतिचिपिटलोहपात्र्या पिधाय संलिप्य वह्निना योज्यः ॥२१७ इयतैव रसायनतात्पर्यं पर्यवसति, किंतु वादस्य न प्राधान्यम् ॥ इति हेमजारणा ॥ अथ संप्रत्युभयप्राधान्येन जारणा यथा, तत्र घनसत्त्वजा- रणम् । यत उक्तं— घनरहितबीजजारणसंप्राप्तदलादिसिद्धिकृतकृत्याः । कृपणाः प्राप्य समुद्रं वराटिकालाभसंतुष्टाः ॥ २१८ ॥ मुक्त्वैकमभ्रसत्त्वं नान्यो रसपक्षकर्तनसमर्थः । तेन निरुद्धप्रसरो नियम्यते बध्यते च सुखम् ॥ २१९ ॥ रक्तं पीतं च हेमार्थे कृष्णं हेमशरीरयोः । तारकर्मणि तच्छुक्लं काचकिट्टं सदा त्यजेत् ॥ २२० ॥ त्रुटिशो दत्त्वा मृदितं सोष्णे खल्वेऽभ्रसत्त्वहेमादि । चरति रसेन्द्रः क्षितिखगवेतसजम्बीरबीजपूरारम्लैः ॥ २२१ क्षितिखगः कासीसम् । अम्लाभावे पूर्वसाधितकाञ्जिक- मपि ज्ञेयम् । अन्यच्च— अभ्रकजारणमादौ गर्भद्रुतिजारणं च हेम्नोऽन्ते । यो जानाति न वादी वृथैव सोऽर्थक्षयं कुरुते ॥ २२२ ॥ इत्यभ्रकसत्त्वजारणा ॥ अथ गर्भद्रुतिः । व्योमसत्त्वसमांशेन ताप्यसत्त्वेन संयुतम् । साकल्येन चरेद्देवी गर्भद्रावी भवेद्रसः ॥ २२३ ॥ एवं हेमताराद्यादयः खखरिपुणा निर्व्यूढाः प्रयोजनमव- लोक्य प्रयोज्याः । गर्भद्रुतिमन्तरेण जारणैव न स्यात् ।

१.] आयुर्वेदप्रकाशः । ३१ अतस्तल्लक्षणमाह—वह्निव्यतिरेकेऽपि रसग्रासीकृतानां (लो- हानां) द्रवत्वं गर्भद्रुतिः ॥ बीजानां संस्कारः कर्तव्यस्तार्प्यसत्त्वसंयोगात् । येन द्रवन्ति गर्भे रसराजस्याम्लवर्गेण ॥ २२४ ॥ शिलया निहतं नागं ताप्यं वा सिन्धुना हतम् । ताभ्यां तु मारितं बीजं सूतके द्रवति क्षणात् ॥ २२५ ॥ अथ दोलाजारणम् ।— षडम्लक्षारगोमूत्रस्नुहीक्षीरप्रलेपिते । बहिश्च बद्धे वस्त्रेण भूर्जे ग्रासनिवेशितम् ॥ २२६ ॥ क्षारारनालमूत्रेषु स्वेदयेत्रिदिनं भिषक् । क्रमेणानेन दोलायां जार्यं ग्रासचतुष्टयम् । ततः कच्छपयन्त्रेण ज्वलने जारयेद्रसम् ॥ २२७ ॥ इति गर्भद्रुतिः ॥ अथ ग्रासस्य चारणप्रमाणम् । चतुःषष्ट्यंशकः पूर्वो द्वात्रिंशांशो द्वितीयकः । तृतीयः षोडशांशस्तु चतुर्थोऽष्टांश एव च ॥ २२८ ॥ चतुःषष्ट्यंशकग्रासाद्दण्डधारी भवेद्रसः । जलौकावद्द्वितीये तु ग्रासयोगे सुरेश्वरि ॥ २२९ ॥ ग्रासेन तु तृतीयेन काकविष्ठासमो भवेत् । ग्रासेन तु चतुर्थेन दधिमण्डसमो भवेत् ॥ २३० ॥ अन्यत्तु दुर्जरत्वान्न लिखितम् । भगवद्गोविन्दपादास्तु कलांशमेव ग्रासं लिखन्ति । यथा— पञ्चभिरेवं ग्रासैर्घनसत्त्वं जारयित्वाऽऽदौ । गर्भद्रावे निपुणो जरयति बीजं कलांशेन ॥ २३१ ॥ १ 'कोऽपि तादृशः प्रथमम्' इति रसहृदये पाठः । २ 'रसराजस्याम्ल्यो- गेन' ३ दण्डधारी भवेत् वस्त्रान्न क्षरतीत्यर्थः ।

३२ आयुर्वेदीयग्रन्थमाला । [ अध्यायः तन्मते चतुःषष्टिश्चत्वारिंशत्त्रिंशद्विंशतिषोडशांशाः पञ्च ग्रासाः ॥ अथ रञ्जनम् । तारकर्मण्यस्य न तथा प्रयोगो दृश्यते ॥ केवलं निर्मलं ताम्रं वापितं दरदेन तु । कुरुते त्रिगुणं जीर्णं लाक्षारसानिभं रसम् ॥ २३२ ॥ गन्धकेन हतं नागं जारयेत्कमलोदरे । एतस्य त्रिगुणे जीर्णे लाक्षाभो जायते रसः ॥ २३३ ॥ कमलोदरे ताम्रे । एतत्तु नागसंबंधान्न रसायनकर्मणि । किंवा यथोक्तसिद्धबीजोपरि त्रिगुणताम्रोत्तारणादनु तद्बीजं समजीर्णं सत् तन्नेत्रेणैव रञ्जयति ॥ कुनटीहतकरिणा वा रविणा वा ताप्यगन्धकहतेन । दरदनिहतासिना वा निर्व्यूढं हेम तद्बीजम् ॥ २३४ ॥ .......................वलिना व्यूढं केवलार्कमपि ॥ [L1

१.] आयुर्वेदप्रकाशः। ३३ वङ्गाभ्रं वाहयेत्तारे गुणानि द्वादशैव तु । एतद्बीजे समे जीर्णे शतवेधी भवेद्रसः ॥ २३८ ॥ अथ हेमबीजम्— नागाभ्रं वाहयेद्धेम्नि द्वादशैव गुणानि च । प्रतिबीजमिदं श्रेष्ठं पारदस्य तु बन्धनम् ॥ २३९ ॥ माक्षिकेण हतं ताम्रं तारं वा रञ्जयेन्मुहुः । तं नागं वाहयेद्बीजे द्विषोडशगुणानि च ॥ २४० ॥ बीजमेतद्वरं श्रेष्ठं नागबीजं प्रकीर्तितम् । समचारितमात्रेण सहस्रांशेन विध्यति ॥ २४१ ॥ अथ रञ्जनार्थं सारणार्थं च तैलम् ।— मञ्जिष्ठा किंशुकं चैव खदिरं रक्तचन्दनम् । करवीरं देवदारु सरलो रजनीद्वयम् ॥ २४२ ॥ अन्यानि रक्तपुष्पाणि पिष्ट्वा लाक्षारसेन तु । तैलं विपाचयेत्तेन कुर्याद्बीजादिरञ्जनम् ॥ २४३ ॥ द्विगुणं रक्तपुष्पाणां रक्तपीतगणस्य च । क्वाथं, चतुर्गुणं क्षीरं, तैलमेकं सुरेश्वरि ॥ २४४ ॥ ज्योतिष्मतीकरञ्जाक्षकडुतुम्बीसमुद्भवम् । पाटलाकाकतुण्ड्यम्बुमहाराष्ट्रीरसैः पृथक् ॥ २४५ ॥ भेकशूकरमेषाहिमत्स्यकूर्मजलौकसाम् । वसया चैकया युक्तं षोडशांशैः सुपेषितैः ॥ २४६ ॥ भूलतामलमाक्षीकद्वन्द्वमेलापकौषधैः । पाचितं गालितं चैव सारणातैलमुच्यते ॥ २४७ ॥ अत्र गन्धर्वतैलमपि रसहृदयस्वरसात् । अथ द्वन्द्वमेलापकौ- षधानि—'ऊर्णातङ्कणगिरिजतुमहिषीकर्णाक्षिमलशक्रगोपकर्क- टकाः' इति द्वन्द्वमेलापकौषधानि ॥

३४ आयुर्वेदीयग्रन्थमाला । [ अध्यायः अथाऽपरम्— यथाप्राप्तैः श्वेतपुष्पैर्नानावृक्षसमुद्भवैः । रसं चतुर्गुणं योज्यं कङ्गुणीतैलमध्यतः ॥ २४८ ॥ पचेत्तैलावशेषं तु तस्मिंस्तैले निषेचयेत् । द्रावितं तारबीजं तदेकविंशतिवारकम् । रञ्जितं जायते सम्यग्रसराजस्य रञ्जनम् ॥ २४९ ॥ अन्यच्च— कुटिले बलमत्यधिकं रागस्तीक्ष्णे च पन्नगे स्नेहः । रागस्नेहबलानि तु कमले नित्यं¹ प्रशंसन्ति ॥ २५० ॥ बलमास्तेऽभ्रकसत्त्वे जारणरागाः प्रतिष्ठितास्तीक्ष्णे । बन्धस्तु सारलोहे क्रमणं²मथ नागवङ्गगतम् ॥ २५१ ॥ क्रामति तीक्ष्णेन रसस्तीक्ष्णेन च जीर्यते ग्रासः । हेम्नो योनिस्तीक्ष्णं रागान् गृह्णाति तीक्ष्णेन ॥ २५२ ॥ तदपि च दरदेन हतं हत्वा वा माक्षिकेण रविसहितम् । वासितमपि वासनया घनवच्चार्यं च जार्यं च ॥ २५३ ॥ घनवदभ्रकवत् ॥ सर्वैरेभिर्लोहैर्माक्षिक³मृदितैर्द्रुतैस्तथा गर्भे । बिडयोगेन च जीर्णे⁴ रसराजो बन्धमुपयाति ॥ २५४ ॥ निर्बीजे⁵ समजीर्णे पादोने षोडशांशतया । अर्धेन पादकनकं पादेनैकेन तुल्यकनकं च ॥ २५५ ॥ समादिजीर्णस्य सारणायोग्यत्वं शतादिवेधकत्वं च; इतो न्यूनजीर्णस्य पत्रलेपाधिकार एव । यथा—

१ 'शंसन्ति धातुविदः' इति रसहृदये पाठः । २ 'सारणमथ नागवङ्गाभ्यां' इति रसहृदये पाठः । ३ 'माक्षिकनिहतैः' इति रसहृदये पाठः । ४ 'जीर्णैः' जीर्णो' ख. । ५ 'निर्बीजं समजीर्णे पादैकेनैव षोडशांशेन । अर्धेन पादयोगं पादेनैकेन तुल्यकनकं च ॥' इति रसहृदये पाठः ।

१. ] आयुर्वेदप्रकाशः । ३५ अत्यम्लितमुद्वर्तिततारारिष्टादिपत्रमतिशुद्धम् । आलिप्य रसेन ततः क्रामणलिप्तं पुटेषु विश्रान्तम् ॥ २५६ पुटः प्रायेण चूलिकाधस्तादस्य ॥ अर्धेन मिश्रयित्वा हेम्ना श्रेष्ठेन तद्दलं पुटितम् । क्षितिखगषड्रक्तमृदा वर्णपुटोऽयं ततो देयः ॥ २५७ ॥ अर्धेनेत्युपलक्षणम् । क्षितिखगः कासीसम् ॥ अन्यच्च— रज्जुभिर्भेकवङ्गेभैः स्तम्भयोः सारलोहयोः । बध्यते रसवेतण्डो युक्त्या श्रीगुरुदत्तया ॥ २५८ ॥ शिलाचतुष्कं गन्धेशौ काचकूप्यां सुवर्णकृत् । कीलालायःकृतो योगः खटिकालेपनाधिकः ॥ २५९ ॥ मण्डूकपारदशिलाबलयः समानाः संमर्दिताः क्षितिविलेशयमन्त्रिजिव्हैः । यन्त्रोत्तमेन गुरुभिः प्रतिपादितेन स्वल्पैर्दिनैरिह पतन्ति न विस्मयध्वम् ॥ २६० ॥ लोहं गन्धं टङ्कणं आमयित्वा तेनोन्मिश्रं भेकमावर्तयेत्तु । तालं कृत्वा तुर्यवङ्गान्तराले रूपस्यान्तस्तच्च सिद्धोक्तबीजे २६१ लोहभेकि सिद्धमते तारभेकीति बीजद्वयम् ॥ द्रुतदर्दुरपूतिलोहसेकः कुरुते हिङ्गुलखण्डपक्षखण्डम् ॥ २६२ १ भेको अभ्रकं, इभो नागः । २ सारलोहयोः स्वर्णरौप्ययोः । ३ रसवे- तण्डो रसमातङ्गः । ४ मण्डूको अभ्रकम् । ५ '-यन्त्रजिव्हैः' क. । क्षितिः कासीसं, विलेशयो नागः, मन्त्रिजिव्होऽग्निः काञ्चनमित्यर्थः । ६ यन्त्रोत्तमेन भूधरयन्त्रेण । ७ गन्धं टङ्कणं च आमयित्वा संमर्द्य, तेनोन्मिश्रं लोहं भेकं (अभ्रकं) च वह्नौ आवर्तयेत् द्रावयेत्, तत् 'लोहभेकि' नाम सिद्धबीजम् । तुर्यवङ्गान्तराले तालं कृत्वा (तालयोगेन वङ्गं हत्वेत्यर्थः ) तद्वङ्गं रूपस्यान्तर्द्द- द्यात्, तच्च रूप्यं सिद्धोक्तबीजे (पूर्वोक्तबीजे) आवर्तयेत् । इदं तु 'तारभेकि' नामसिद्धबीजम् । ८ दर्दुरः अभ्रकं, पूतिलोहौ नागवङ्गौ, तेषां मिलितानां द्रुतानां सेको हिङ्गुलखण्डस्योपरि कृतश्चेत्तस्य पक्षखण्डं पक्षच्छेदं करोति, हिङ्गुलभस्म जायते इत्यर्थः ।

३६ आयुर्वेदीयग्रन्थमाला । [ अध्यायः शशिहेलिहिरण्यमूषिका ध्रुवमक्षीणधियामनेन लक्ष्मीम् । इति सिद्धमते खोटः ॥ अत्रभेकादिशब्दा धातुवाचका इत्यलं रहस्यप्रकाशेन ॥ गन्धै२तैलयुगलाऽयसिमध्ये पूतिवारिवशं३मेष्यति पिष्टी । तैलभेकवलिकल्पितपिष्टीसंयमः प्लवगपूत्यभिषेकैः ॥२६३॥ दरदस्यापि पिष्टीत्वेन गृहीतत्वात्पूर्वकर्मणि संबन्धः ॥ इति सिद्धमते खोटः ॥ अधोऽष्टाङ्गुलतश्चुल्याः सिध्यन्ति सिकतावृताः । रसगन्धशिलासर्पाः पाकाद्यग्निविपक्रिमाः ॥ २६४ ॥ खोटान्तरम् ।— साल्लूर५कुटिलार्कस्वरम्भापामार्गभस्मना । हस्तीव बध्यते वक्रलोहखण्डिकया रसः ॥ २६५ ॥ खोटान्तरम् ।— भेकभास्करगन्धायोवङ्गस्य क्षारभस्मना । हस्तीव बध्यते लोहवक्रचक्रिकया रसः ॥ २६६ ॥ इति रञ्जनवेधनानि ॥ अथ बाह्यद्रुतयः । एतास्तु केवलामारोटकमेव मिलिता निबध्नन्ति, फलमस्य कल्पप्रमितमायुः; किंवा पूर्वोक्तग्रासक्रमजारिताः पूर्वोक्तफल- १ शशिः तारं, हेलिरर्कस्ताम्रं, हिरण्यं स्वर्णं, एतेषां मूषिका ध्रुवं लक्ष्मीं करोति, तस्यामुपर्युक्तसेकेनेत्यर्थः । २ गन्धतैलयुगला गन्धतैलसहिता पिष्टी नाम दरदः, पूतिवारिवशमेष्यति पूतिलोहौ यौ नागवङ्गौ तयोर्द्रुतिर्नाम द्रवः तस्य वशमेष्यति वह्नावनुड्डयनेनेत्यर्थः । ३ 'वशमेति च' ख. । ४ तैल- भेकवलिभिर्मिलितैः कल्पिता या दररूपा रसगन्धकयोः पिष्टी, तस्याः प्लवगपूत्य- भिषेकैः प्लवगोऽभ्रकं, पूतिलोहौ नागवङ्गौ, तेषां मिलितानां द्रुतानामभिषेकेन संयमो भवतीत्यर्थः । ५ 'माल्लूर'—क. । CCO Gurukul Kangri Collection, Haridwar, Digitized by eGangotri