भारतकोश
संग्रह पर लौटें

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

) र (ra) वो (vo) द्भा (dbhaa) or द्भ (dbha) वात् (vaat) । Wait, look at: "दभ्रमभ्रवोद्भावात्" -> Is it "दभ्रमभ्रवोद्भवात्"? Look at: द् + अ = द? No, it is 'द्' (with virama? No, there is no virama after त्वा!). It's: वज्रजातत्वाद् (connected to) अभ्र... Wait, there is an 'अ'! Look at the letter after त्वाद्: Wait, is that a virama under त्वाद्? No, after त्वा, there is: द् (with halanta? No, it's द् + अ = द? Or त्वा followed by द् with virama, then अ?) Look: त, व, जा, त, त्वा, द्, अ, म, भ्र, र, वो, द्भ, वा, त् Wait, let's count the characters in line 2:

  1. द्भ्रं [space]
  2. ज्र
  3. जा
  4. त्वा
  5. द्
  6. भ्र
  7. वो
  8. द्भ
  9. वा
  10. त् 17

७८ आयुर्वेदौयग्रन्थमाला। [अध्यायः अथ वज्राभ्रकगुणाः— अभ्रं कषायं मधुरं सुशीतमायुःकरं धातुविवर्धनं च । हन्त्यात्रिदोषव्रणमेहकुष्ठप्लीहोदरग्रन्थिविषकृमींश्च ॥ १४ ॥ रोगान् हन्ति दृढयति वपुर्वीर्यवृद्धिं विधत्ते तारुण्याढ्यं रमयति शतं योषितां नित्यमेव । दीर्घायुष्यान् जनयति सुतान् विक्रमैः सिंहतुल्या- न्मृत्योर्भीतिं हरति सततं सेव्यमानं मृताभ्रम् ॥ १५ ॥ अथाशुद्धस्य मारणे दोषमाह— पीडां विधत्ते विविधां नराणां कुष्ठं क्षयं पाण्डुगदं च शोफम् । हृत्पार्श्वपीडां च करोत्यशुद्धमभ्रं हि तद्दुर्द्धरं वह्निहृत्स्यात्॥१६॥ अथ मृताभ्रस्यापि लक्षणगुणदोषानाह— निश्चन्द्रकं सुसूक्ष्मं च लोचनाञ्जनसंनिभम् । तदा तु मृतमित्युक्तमभ्रकं नान्यथा मृतम् ॥ १७ ॥ अन्यच्च— मृतं निश्चन्द्रतां यातमरुणं चामृतोपमम् । सचन्द्रं विषवद्वर्ज्यं मृत्युकृद्व्याघ्ररोमवत् ॥ १८ ॥ व्याघ्रश्मश्रुरोम यद्वन्मारयति तद्वदित्यर्थः ॥ अस्य मारणे पुटसंख्यामाह— शतादिस्तु सहस्रान्तः पुटो देयो रसायने । दशादिस्तु शतान्तः स्याद्व्याधिनाशनकर्मणि ॥ १९ ॥ सहस्रपुटपक्षे तु भावना पुटनं भवेत् । मर्दनं तु तथा न स्यादिति प्राचां हि संमतम् ॥ २० ॥ अथास्यानुपानं मात्राप्रमितिश्च— वेल्लव्योषसमन्वितं घृतयुतं वल्लोन्मितं सेवितं दिव्याभ्रं क्षयपाण्डुरुग्ग्रहशिकाशूलं च कुष्ठामयम् । १ 'तज्जाठरवह्निहृत्' ग ।

४. ] आयुर्वेदप्रकाशः । ७९ ऊर्ध्वश्वासगदं प्रमेहमरुचिं कासामयं दुर्धरं मन्दाग्निं जठरव्यथां विजयते योगैरशेपामयान् ॥ २१ ॥ इति रसवाग्भटात् ॥ अथ शोधनम्— वज्राभ्रकं धमेद्वह्नौ ततः क्षीरे विनिक्षिपेत् । सप्तधा भिन्नपत्रं तत्तण्डुलीयाम्लयोर्द्रवैः ॥ २२ ॥ भावयेदष्टयामं तदेवं शुध्यति चाभ्रकम् । मतान्तरम्— वज्राभ्रकं वह्नितप्तं निक्षिप्तं सप्तसप्तधा ॥ २३ ॥ गोदुग्धे त्रिफलाक्वाथे काञ्जिके सुरभीजले । शुद्धिमायाति मलतः प्रक्षिप्तं वा त्रिधा त्रिधा ॥ २४ ॥ रसमञ्जर्याम्— अथवा बदरीक्वाथे ध्मातमभ्रं विनिक्षिपेत् । मर्दितं पाणिना शुष्कं धान्याभ्रादतिरिच्यते ॥ २५ ॥ अथैवं शुद्धस्य धान्ययोगेन सूक्ष्मीकरणं तस्य धान्याभ्रक- मिति संज्ञा; तत्प्रकारो यथा— पादांशशालिसंयुक्तमभ्रं बद्ध्वाऽथ कम्बले । त्रिरात्रं स्थापयेन्नीरे क्लिन्नं वै मर्दयेत्करैः ॥ २६ ॥ तन्नीरे एव यत्नेन यावत्सर्वं स्रवेत्ततः । कम्बलाद्गलितं सूक्ष्मं वालुकासदृशं च यत् । तद्धान्याभ्रकमित्युक्तं मारणं चाप्यथो भवेत् ॥ २७ ॥ अत्र नीरं तु काञ्जिकमेव; यत उक्तं वार्तिककृता— चूर्णाभ्रं शालिसंयुक्तं वस्त्रबद्धं हि काञ्जिके । निर्यातं मर्दनाद्यत्तद्धान्याभ्रमिति कथ्यते ॥ २८ ॥

८० आयुर्वेदीयग्रन्थमाला । [ अध्यायः अथैवं संस्कृतस्य मारणमुच्यते— धान्याभ्रकस्य भागैकं द्वौ भागौ शुद्धटङ्कणात् । पिष्ट्वा तदन्धमूषायां रुद्ध्वा तीव्राग्निना पचेत् । स्वभावशीतलं चूर्णं सर्वयोगेषु योजयेत् ॥ २९ ॥ इत्येकंपुटि ॥ मृत्पात्रे तु समावर्त्य समटङ्कणमभ्रकम् । ढालयेत्पयसि क्षिप्रं पिष्ट्वा निश्चन्द्रतां व्रजेत् ॥ ३० ॥ इत्येकपुटि ॥ धान्याभ्रकं समादाय शोषयित्वा तु मर्दयेत् । अर्कक्षीरैर्दिनं मर्द्यमर्कमूलद्रवेण च ॥ ३१ ॥ चक्राकारं ततः कृत्वा शोषयेदातपेन तु । वेष्टयेदर्कपत्रैश्च सम्यग्गजपुटे पचेत् ॥ ३२ ॥ पुनर्मर्द्यं पुनः पाच्यं सप्तवारं प्रयत्नतः । ततो वटजटाक्वाथैस्तद्वद्देयं पुटत्रयम् । म्रियते नात्र संदेहः सर्वरोगेषु योजयेत् ॥ ३३ ॥ इति दशपुटि ॥ अथ वाग्भटः— धान्याभ्रं कासमर्दस्य रसेन परिमर्दितम् । पुटितं दशवारेण म्रियते नात्र संशयः । तद्वन्मुस्तारसेनापि तण्डुलीयरसेन च ॥ ३४ ॥ इति दशपुटि ॥ धान्याभ्रकं समादाय मुस्ताक्वाथैः पुटत्रयम् । तद्वत्पुनर्नवानीरैः कासमर्दरसैस्तथा ॥ ३५ ॥ १ एकश्चासौ पुटश्च एकपुटः, सोऽस्त्यस्मिन्निति एकपुटि, अभ्रकभस्मेत्यस्य विशेषणमेतत् । एकपुट्योरादौ पूर्वकालैकेत्यादिना समानाधिकरणतत्पुरुषः, ततोऽदन्तत्वादिन-प्रत्ययः । एवं दशपुटीत्यादावपि ज्ञेयम् ।

४. ] आयुर्वेदप्रकाशः । ८१ कासमर्दः ‘कसौंदी’ इति भाषा ॥ नागवल्लीदलैस्तद्वत्सूर्यक्षीरैः पुटत्रयम् । क्वाथैर्वटजटोत्थैश्च त्रिः पुटेन्मुसलीजलैः ॥ ३६ ॥ त्रिर्गोक्षुरकषायेण त्रिः पुटेद्वानरीरसैः । मोचाकन्दरसैः पाच्यं त्रिवारं कोकिलाक्षजैः ॥ ३७ ॥ रसैः पुटेत्ततो लोध्रैः क्षीरादेकं पुटं मुहुः । दध्ना घृतेन मधुना स्वच्छया सितया तथा ॥ ३८ ॥ एकमेकं पुटं दद्यादभ्रस्यैवं मृतिर्भवेत् । सर्वरोगहरं व्योम जायते योगवाहकम् ॥ ३९ ॥ कामिनीमददर्पघ्नं शस्तं पुंस्त्वोपघातिनाम् । वृष्यमायुःकरं शुक्रवृद्धिसंतानकारकम् ॥ ४० ॥ इत्येकचत्वारिंशत्पुटि ॥ दुग्धत्रयं कुमार्यम्बु गङ्गापुत्रं नृमूत्रकम् । वटशुङ्गंमजारक्तमेभिरभ्रं सुमर्दितम् । शतधा पुटितं भस्म जायते पद्मरागवत् ॥ ४१ ॥ दुग्धत्रयमिति वटदुग्धं, स्नुहीदुग्धं, अर्कदुग्धं च; गङ्गापुत्रं भद्रमुस्ता । इति शतपुटि ॥ श्रीगोविन्दपादास्तु अन्यान्येव गगनमारकाणि भेषजानि लिखन्ति; यथा—अर्कदुग्धं १, वटदुग्धं २, सेहुण्डदुग्धं ३, घृतकुमारी ४, पञ्चाङ्गुलमूलपत्राणि ५, काकमाची ६, मुस्ता ७, वटप्ररोहः ८, बस्तशोणितं ९, विल्वमूलपत्राणि १०, अग्निमन्थः ११, टिण्डुकः १२, पाटली १३, श्रीपर्णी १४, शालिपर्णी १५, पृश्निपर्णी १६, कण्टकारी १७, कदम्बः १८, बृहती १९, गोक्षुरः २०, तिलपर्णी २१, खरमञ्जरी २२, गुडः २३, सिद्धार्थको धवलः २४, पालङ्क्या २५, मालती २६, गोमूत्रं २७, हरीतकी २८, धात्री २९, विभीतकः ३०,

८२ आयुर्वेदीयग्रन्थमाला। [ अध्यायः तालीसपत्रं ३१, चित्रकमूलपत्रं ३२, जलकुम्भी ३३, ताल- मूली ३४, वृषः ३५, वाजिगन्धा ३६, अगस्त्यपत्रं ३७, भृङ्गराजः ३८, कदलीकन्दरसः ३९, सप्तपर्णः ४०, देवदारु ४१, गुडूची ४२, धत्तूरः ४३, कासमर्दकः ४४, मातुलानी ४५, लोध्रः ४६, तुलसी ४७, दूर्वा ४८, मारीषः ४९, मूष- कपर्णी ५०, दाडिमपल्लवाः ५१, घोण्टा ५२, शङ्खपुष्पी ५३, नागवल्ली ५४, पिण्डीतगरं ५५, श्वेतपुनर्नवा ५६, हिलमो- चिका ५७, मण्डूकपर्णी ५८, तिक्तिका ५९, मदनः ६०, इत्यादिभिर्मर्दनपुटैनेरैकैकेनाप्यभ्रको मारणीयः । इति अभ्र- कमारणीयगणः । आभिर्यथालाभं सहस्रपुटा देयाः । यथा- संख्यं च प्रत्येकं सप्तदशपुटाः प्रायशो भवन्ति । एवं सहस्र- संख्या पूर्यते । इति सहस्रपुटी ॥ अथारुणभस्मन आकाङ्क्षा भवति चेत्तत्प्रकारो रसपद्धत्यां— अथ नागबला भद्रमुस्ता दुग्धं वटस्य च । यद्वा वटजटातोयं हरिद्रावारिणा पुटेत् ॥ ४२ ॥ मञ्जिष्ठाक्वाथतोयेन सर्वैरेभिर्यथाक्रमम् । पुटितं भावनायोगाच्चरमे पुटने मुहुः । जायते ह्यरुणं चाति भस्म वज्राभ्रकोद्भवम् ॥ ४३ ॥ अथैवं मृतस्याभ्रकस्यामृतीकरणाख्यः संस्कार उक्तः । अरुणभस्मनस्तु पुनरमृतीकरणेन गुणवृद्धिर्वर्णहानिश्च भवति । तद्यथा— त्रिफलोत्थकषायस्य पलान्यादाय षोडश । गोघृतस्य पलान्यष्टौ मृताभ्रस्य पलान् दश ॥ ४४ ॥ एकीकृत्य लोहपात्रे पाचयेन्मृदुवह्निना । द्रवे जीर्णे समादाय सर्वरोगेषु योजयेत् ॥ ४५ ॥

४.] आयुर्वेदप्रकाशः । ८३ अथान्यत्रापि— वराम्बु गोघृतं चाभ्रं कलापङ्दिक्समांशकम् । मृद्वग्निना पचेल्लौह्याममृतीकरणं त्विदम् ॥ ४६ ॥ गोघृतेनैवामृतीकरणमुक्तं; तद्यथा— तुल्यं घृतं मृताभ्रेण लोहपात्रे विपाचयेत् ॥ घृते जीर्णे ततश्चूर्णं सर्वकार्येषु योजयेत् ॥ ४७ ॥ इत्यमृतीकरणम् ॥ अथाभ्रकसेविनां वर्ज्यपदार्थानि कथ्यन्ते— क्षाराम्लविदलं कोलं कर्कटी कारवेल्लकम् । वृन्ताकं च करीरं च तैलं चाभ्रे विवर्जयेत् ॥ ४८ ॥ अथाभ्रकसत्त्वनिष्कासनविधिः कथ्यते ।— चूर्णीकृतं गगनपत्रमथारनाले धृत्वा दिनैकमवशोष्य च सूरणस्य । भाव्यं रसैस्तदनु मूलरसैः कदल्याः पादांशटङ्कणयुतं शफरैः समेतम् ॥ ४९ ॥ पिण्डीकृतं तु बहुधा महिषीमलेन संशोष्य कोष्ठगतमाशु धमेद्दृढाग्नौ । सत्त्वं पतत्यतिरसायनजारणार्थं योग्यं भवेत्सकललोहगुणाधिकं च ॥ ५० ॥ एवं पतिते सत्त्वे ततः किं कार्यं तदाह— कणशो यद्भवेत्सत्त्वं मूषायां प्रणिधाय तत् । मित्रपञ्चकयुग्ध्मातमेकीभवति घोषवत् ॥ ५१ ॥ घृतमधुगुग्गुलुगुञ्जाटङ्कणमेत्तत्तु मित्रपञ्चकं नाम । मेलयति सप्तधातूनङ्गाराग्नौ तु धमनेन ॥ ५२ ॥

८४ आयुर्वेदीयग्रन्थमाला । [ अध्यायः अथास्य सत्त्वस्य शोधनमारणमाह— अयोवच्छोधनं तस्य मारणं तद्वदेव तु । यद्वा—मारितं ताम्रवद्गन्धपारदाभ्यां निषेचयेत् ॥ ५३ ॥ पिण्डीकृतं तु बहुधेत्यस्य व्याख्या—तिन्दुकप्रमाणान् बहुपिण्डान् गोलकान् कृत्वेत्यर्थः । कोष्ठगतमिति व्याख्या— अधःपातनकोष्ठां स्थापितम् । मारणं तद्वदेव तु व्याख्या— त्रिफलादिभिर्लोहवद्भावयित्वा विंशतिवारं षष्टिवारं शतवारं वा पुटयित्वा सत्त्वभस्म संपाद्यं भक्षणार्थं, रसे जारणार्थं तु शोधयित्वा जार्यम् ॥ अथास्य गुणाः— सत्त्वमभ्रस्य शिशिरं त्रिदोषघ्नं रसायनम् । विशेषात्पुंस्त्वजननं वयसः स्तम्भनं परम् ॥ ५४ ॥ नानेन सदृशं किंचिद्भैषज्यं पुंस्त्वकृत्परम् । सत्त्वसेवी वयःस्तम्भं लभते नात्र संशयः ॥ ५५ ॥ अथान्यच्च— सर्वेषामुपपूर्वाणां रसानां सत्त्वमारणम् । कर्तव्यं भस्मसूतेन गन्धकेनाग्निगर्भके ॥ ५६ ॥ यत्रोपरसभागोऽस्ति रसे तत्सत्त्वयोजनम् । कर्तव्यं षड्गुणाधिक्याद्रसज्ञत्वमभीप्सता ॥ ५७ ॥ अथ सामान्यतः सर्वेषां सत्त्वपातनमुच्यते— गुडः पुरस्तथा लाक्षा पिण्याकं टङ्कणं तथा । ऊर्णा सर्जरसश्चैव क्षुद्रमीनसमन्वितम् ॥ ५८ ॥ सत्त्वपातनद्रव्येण संयुक्तं खल्वमध्यके । एतत्सर्वं तु संचूर्ण्य छागदुग्धेन पिण्डकाः ॥ ५९ ॥ कृत्वा ध्माताः खराङ्गारैः सत्त्वं मुञ्चन्ति निश्चितम् ।

४.] आयुर्वेदप्रकाशः । ८५ पाषाणमृत्तिकादीनां लोहानां च पृथक्पृथक् । अन्येषामप्यसाध्यानां व्योमसत्त्वस्य का कथा ॥ ६० ॥ अथ सत्त्वप्रसङ्गाद्द्रुतयोऽपि लिख्यन्ते; अत्र केचिद्वदन्ति— द्रुतयो नैव जायन्ते शास्त्रे प्रोक्ता अपि ध्रुवम् । विना शम्भोः प्रसादेन न सिध्यन्ति कदाचन ॥ ६१ ॥ इत्येवमस्तु, तथाऽपि शास्त्रारूढत्वात्कदाचिद्भाग्ययोगाच्छ- ङ्करभक्त्या सिध्यन्ति, अतो मयाऽत्र लिख्यन्ते; यथा— अगस्त्यपत्रनिर्या सैर्मर्दितं धान्यकाभ्रकम् । सूरणोदरमध्ये तु निक्षिप्तं लेपितं मृदा ॥ ६२ ॥ गोष्ठभूमौ खनित्वा तु हस्तमात्रे हि पूरितम् । मासान्निष्काशितं तच्च जायते पारदोपमम् ॥ ६३ ॥ इत्यभ्रकद्रुतिः ॥ निजरसबहुपरिभावितसुरदालीचूर्णमात्रवापेन । द्रवति पुनः संस्थानं भजते गगनं न कालेऽपि ॥ ६४ ॥ इत्यभ्रकद्रुतिः ॥ निजरसशतपरिभावितकञ्चुकिकन्दोत्थचूर्णपरिवापात् । द्रुतमास्तेऽभ्रकसत्त्वं तथैव सर्वाणि लोहानि ॥ ६५ ॥ इत्यभ्रकसत्त्वद्रुतिः सर्वलोहद्रुतिश्च ॥ अथानेकद्रुतिमेलनमाह— ^१कृष्णागरुनाभिसितै रसोनसितरामठैरिमा द्रुतयः । सोष्णे मिलन्ति मर्द्याः स्त्रीकुसुमपलाशवीजरसैः ॥ ६६ ॥ अथ मुक्ताफलानां द्रुतिं तथाऽन्येषामपि रत्नानां द्रुतिप्रकारमाह— मुक्ताफलानि सप्ताहं वेतसाम्लेन भावयेत् । जम्बीरोदरमध्ये तु धान्यराशौ निधापयेत् ॥ ६७ ॥ १ 'कृष्णागुरुणा मिलितै' ग. । ८

८६ आयुर्वेदीयग्रन्थमाला । [अध्यायः पुटपाकेन तच्चूर्णं द्रवते सलिलं यथा । कुरुते योगराजोऽयं रत्नानां द्रावणं प्रिये ॥ ६८ ॥ इति मुक्तादिरत्नद्रुतयः ॥ अगस्त्यपुष्पनिर्य्यासैर्मर्दितं सूरणोदरे । गोष्ठभूस्थं घनं मासं जायते जलसंनिभम् ॥ ६९ ॥ इत्यपि धान्याभ्रकद्रुतिः । द्रुतीनां प्रयोजनं तु रसेन्द्रे जारणार्थमुपयुज्यन्त इति ज्ञेयम् । अथाभ्रकस्य महाप्रयोगानाह— लक्ष्मीविलासाभ्रं तु शृङ्गाराभ्रकमेव च । सम्यग्झारितमित्यादि नित्यनाथोदिताभ्रकम् ॥ ७० ॥ एते महाप्रयोगाश्च वीर्य्यस्तम्भाधिकारके । लिखितास्ते मया नेह पुनरुक्त्या प्रकीर्तिताः ॥ ७१ ॥ अन्यच्च— निश्चन्द्रमभ्रकं भस्म धात्रीव्योषविडङ्गकम् । भृङ्गाम्बुना जलैर्वाऽपि खल्वे मर्द्य द्वियामकम् ॥ ७२ ॥ गुटिकां कारयेत्सर्वां छायाशुष्कां सुरक्षयेत् । एकैकां भक्षयेत्प्राज्ञो वर्षमेकं निरन्तरम् ॥ ७३ ॥ द्वितीये तु पुनर्वर्षे भक्षयेद्गुटिकाद्वयम् । एवं संवत्सरेणैव गुटिकैकां विवर्धयेत् ॥ ७४ ॥ त्रिवर्षस्य प्रयोगोऽयमभ्रकस्य प्रकीर्तितः । अनेन क्रमयोगेन व्योम्नः शतपलं नरः ॥ ७५ ॥ अद्याद्भवेन्न संदेहो वज्रकायो महाबलः । मासत्रयेण रक्ताख्यं क्षयं श्वासं सुदारुणम् ॥ ७६ ॥ पञ्चकासांश्च हृच्छूलं ग्रहण्यर्शोगदांस्तथा । आमवातं तथा शोषं पाण्डुरोगं सुदारुणम् ॥ ७७ ॥ CCO, Gurukul Kangri Collection, Haridwar, Digitized by eGangotri

५.] आयुर्वेदप्रकाशः । ८७ मृत्युकल्पं महाव्याधिं वातपित्तकफोद्भवम् । हन्त्यष्टादशकुष्ठानि नृणां पथ्याशिनां ध्रुवम् ॥ ७८ ॥ इत्यभ्रककल्पः ॥ इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिते आयु- र्वेदप्रकाशे चतुर्थोऽध्यायः ॥ ४ ॥ अथ पञ्चमोऽध्यायः । अथ हरितालस्य नामलक्षणगुणशोधनमारणाध्यायः । हरितालं तु तालं स्यादालं तालकमित्यपि । हरितालं द्विधा प्रोक्तं पत्राख्यं पिण्डसंज्ञकम् ॥ १ ॥ तयोराद्यं गुणैः श्रेष्ठं ततो हीनगुणं परम् । स्वर्णवर्णं गुरु स्निग्धं सपत्रं चाभ्रपत्रवत् ॥ २ ॥ पत्राख्यं तालकं विद्याद्गुणाढ्यं तद्रसायनम् । निष्पत्रं पिण्डसदृशं स्वल्पसत्त्वं तथा लघु । स्त्रीपुष्पहारकं स्वल्पगुणं तत् पिण्डतालकम् ॥ ३ ॥ तालकगुणाः— हरितालं कटु स्निग्धं कषायोष्णं हरेद्विषम् । कण्डूकुष्ठादिरोगास्रकफपित्तकचव्रणान् ॥ ४ ॥ अथाशुद्धस्यासम्यग्मारितस्य च दोषानाह— हरति च हरितालं चारुतां देहजातां सृजति च बहुतापानङ्गसंकोचपीडाः । वितरति कफवातौ कुष्ठरोगं विदध्या- दिदमशितमशुद्धं मारितं वाऽप्यसम्यक् ॥ ५ ॥ शोधितं हरितालं तु कान्तिवीर्यविवर्धनम् । कुष्ठादिपापरोगघ्नं जरामृत्युहरं परम् ॥ ६ ॥ अशुद्धतालमायुघ्नं कफमारुतमेहकृत् । तापस्फोटाङ्गसंकोचान् कुरुतेऽतो विशोधयेत् ॥ ७ ॥

८८ आयुर्वेदीयग्रन्थमाला। [अध्यायः अथ मृतलक्षणम्— तालं मृतं तदा ज्ञेयं वह्निस्थं धूमवर्जितम्। सधूमं न मृतं प्राहुर्वृद्धवैद्या इति स्थितिः॥ ८॥ इयं परीक्षा वृद्धानां मुखेभ्य एव श्रुत्वा मया पद्येन निबद्धा, परं रसशास्त्रेषु कुत्रापि न दृष्टा; भवतु सत्येयं, नह्य- मूला प्रसिद्धिरिति न्यायात्। अथ तालकशोधनम्— तालकं कणशः कृत्वा बद्धा पोटलिकां ततः। दोलायन्त्रेण यामैकं सचूर्णे काञ्जिके पचेत्॥ ९॥ यामैकं दोलया तद्वत्कूष्माण्डस्वरसे ततः। तिलतैले पचेद्यामं यामं च त्रैफले जले। दोलायन्त्रे चतुर्यामं पक्वं शुध्यति तालकम्॥ १०॥ अथ तालकस्य मारणविधिः— पत्राख्यं तालकं शुद्धं पौनर्नवरसेन तु। खल्वे विमर्दयेदेकं दिनं पश्चाद्विशोषयेत्॥ ११॥ संशोष्य गोलकं कृत्वा चक्राकारमथापि वा। ततः पुनर्नवाक्षारैः स्थाल्यामर्धं प्रपूरयेत्॥ १२॥ तत्र तद्गोलकं कृत्वा पुनस्तेनैव पूरयेत्। स्थालीं चूल्यां समारोप्य क्रमाद्वह्निं विवर्धयेत्॥ १३॥ दिनान्यन्तरशून्यानि पञ्च वह्निं प्रदीपयेत्। एवं तन्म्रियते तालं मात्रा तस्यैकरक्तिका। अनुपानान्यनेकानि यथारोगं प्रयोजयेत्॥ १४॥ किंचिद्यथा— गुडूच्यादिकषायेण गदानेतान् व्यपोहति। सोपद्रवं वातरक्तं कुष्ठान्यष्टादशापि च॥ १५॥

५. ] आयुर्वेदप्रकाशः । ८९ फिरङ्गदेशजं जन्तोर्हन्ति रोगं सुदुस्तरम् । विसर्पमण्डलं कण्डूं पामां विस्फोटकं तथा ॥ १६ ॥ वातरक्तकृतान् रोगानन्यानपि विनाशयेत् । एतद्भेषजसेवी तु लवणाम्लौ विवर्जयेत् ॥ १७ ॥ तथा कटुरसं वह्निमातपं दूरतस्त्यजेत् । लवणं यः परित्यक्तुं न शक्नोति कथंचन । स तु सैन्धवमश्नीयान्मधुरोपरसो हि सः ॥ १८ ॥ इति भावप्रकाशीयं हरितालभस्म बहुभिर्बहुशोऽनुभूतमस्ति । अथ लघुयोगतरङ्गिण्याम्— जम्बीरद्रवमध्ये तु प्रक्षाल्य नतमण्डनम् । दशांशं टङ्कणं दत्त्वा खण्डशः परिमेलयेत् ॥ १९ ॥ चतुर्गुणे गाढपट्टे निबध्य प्रहरद्वयम् । दोलायन्त्रेण संस्वेद्य प्रदीपप्रतिमेऽनले ॥ २० ॥ चूर्णतोये काञ्जिके च कूष्माण्डाम्बुनि तैलके । त्रिफलाम्बुनि तत्पश्चात्क्षालयित्वाऽम्लवारिणा ॥ २१ ॥ ततः पलाशमूलत्वग्वारिपिष्टं प्रशोषयेत् । महिषीमूत्रसंपिष्टं पुनस्तं परिशोषयेत् ॥ २२ ॥ तं गोलकं शरावाभ्यां संपुटीकृत्य यत्नतः । खाते गजपुटे पक्त्वा स्वाङ्गशीतं समुद्धरेत् । अजादुग्धैः पुनः पिष्ट्वा शोषयेद्गोलकीकृतम् ॥ २३ ॥ आकण्ठं भस्म पालाशं हण्डिकायां विनिक्षिपेत् । सम्यक् चूर्णस्य कुडवं दत्त्वा तत्र विचक्षणः ॥ २४ ॥ स्थापयेद्गोलकं तत्र पुनश्चूर्णं च भस्म च । यथा धूमो बहिर्याति न तथा तां विमुद्रयेत् ॥ २५ ॥ द्वात्रिंशत्प्रहरानग्निं चूल्यां भक्तवदर्पयेत् । स्वाङ्गशीतं समुद्धृत्य संचूर्ण्य नतमण्डनम् ॥ २६ ॥

९० आयुर्वेदीयग्रन्थमाला । [अध्यायः हिमकुन्देन्दुसंकाशं निर्धूमं कृष्णवर्त्मनि । रक्तिकाऽस्य प्रदातव्या पुराणगुडयोगतः ॥ २७ ॥ पथ्यं च चणकस्योक्ता रोटिका षष्टिकौदनम् । निर्लोणं, किंचनाप्यन्यन्न खादेदेकविंशतिम् । दिनानि निर्वातगतः सर्वव्यापारवर्जितः ॥ २८ ॥ अथ फलम्— गलत्कुष्ठं पुण्डरीकं श्वित्रं कापालिकं तथा । औदुम्बरं ऋष्यजिह्वं काकणं स्फोटमुल्बणम् ॥ २९ ॥ वातरक्तं पाण्डुरोगं दद्रूं पामां विचर्चिकाम् । विसर्पमर्शसि तथा विपादीं च भगन्दरम् ॥ ३० ॥ सर्वथा क्रमशो हन्ति सेवितं हरितालकम् । अन्यानपि व्रणान् सर्वानन्धकारमिवांशुमान् ॥ ३१ ॥ इति हरितालमारणम् ॥ अथ मात्रापरिमितिः— रोगी, तण्डुलपरिमितां मात्रां सितोपलाजीरकचूर्णानुपानेन सह भक्षयेत् । पथ्यं पूर्वोक्तं षष्टिकौदनं गोदुग्धं वा । अर्ध- भागेन तस्य तु रक्तिपरिमिता मात्रा, गुणास्तु पूर्वस्मादधि- कतराः । विशेषस्तु— राजयक्ष्मादिकान् रोगान् विजित्य कुरुते वपुः । वज्रतुल्यं जरां हत्वा नृणां पथ्याशिनां ध्रुवम् ॥ ३२ ॥ इति हरितालमारणम् ॥ अथ सिद्धमते— तबक्याख्यं हरितालं महिषीमूत्रे, घृतकुमारीरसे, चूर्णतोये, शरपुङ्खारसे, कूष्माण्डरसे, निम्बूरसे च पृथक्पृथक् षट्प्रहरं संशोध्यं, इति शुद्धिः । अथ मर्दनं—कूष्माण्डरसेन दिनानि २१, कागदीनिम्बूरसेन दिनानि २१, धत्तूररसेन दिनानि २१,

[हेडर] ५. ] आयुर्वेदप्रकाशः । ९१

सहदेवीरसेन दिनानि २१, पलाशरसेन दिनानि २१, बदरी- मूलरसेन दिनानि २१, आर्द्रकरसेन दिनानि २१, गोभीरसेन दिनानि २१, छिकिणीरसेन दिनानि २१, हुलहुलरसेन दिनानि २१, नागार्जुनीरसेन दिनानि २१, भृङ्गराजरसेन दिनानि २१, एरण्डमूलरसेन दिनानि २१, ब्रह्मदण्डीरसेन दिनानि २१, श्वेतलशुनरसेन दिनानि २१, पलाण्डुरसेन दिनानि २१, स्वर्णवल्लीरसेन दिनानि २१, काकमाचीरसेन दिनानि २१, वलारसेन दिनानि २१, वज्रीदुग्धेन दिनानि २१, अर्कदुग्धेन दिनानि २१, एवं दिनसंख्या ४४१; एतैर्वर्ष एको १, मासौ द्वौ २, दिनानि २१ भवन्ति । एतत्कष्टं कर्तुमशक्तश्चेत्तेन दिनशब्दो भावनापरतया बोध्यः । ततश्चक्रिकां कृत्वा तां घर्मशुष्कां कारयेत्, ततोऽतिदृढां हण्डीं मृत्कर्पटैरेकविंशतिवारं लेपयेत्, ततस्तस्यां हण्डिकायां पिप्पलस्य विभूतिं पूरयेदङ्गुष्ठपरिमितं यावत्, तदुपरि तां चक्रिकां दृढां संस्थाप्य तदुपरि पुनस्तद्वि- भूत्याऽतिदृढं पूरयेदाकण्ठं, ततो मुद्रां कृत्वा, क्रमविवर्धितमग्निं दद्यात्प्रहराणां चतुःषष्टिं, अष्टौ दिनानीति यावत् । सिद्धं भस्म भवति, तद्यत्नतः संरक्षयेत् । शिवस्य महतीं पूजां कृत्वा, देवगोब्राह्मणवैद्यान् पूजयित्वा, तस्य मात्रां तण्डुलपरिमितां गुञ्जापरिमितां वा भक्षयेत्, यथारोगमनुपानानि, पथ्यं लवणाम्लतीक्ष्णतैलवर्ज्यं प्रोक्तवत् ज्ञेयम् । अस्य फलश्रुतिः- त्रिःसप्ताहन्मण्डलैकेन वा श्वेतप्रभृत्यष्टादशकुष्ठानि, यावन्तो रक्तविकाराः, त्रयोदशसंनिपाताः, अपस्मारादयो यावन्तः पापरोगाः, भगन्दरनाडीव्रणप्रभृतयो महाव्रणाः, अशीर्णं वात- रक्तं, उपदंशफिरङ्गाद्या लिङ्गरोगाः, श्लीपदग्रन्थिप्रभृतयः सर्वा- ङ्गशोफाः, सूतिकावातरोगप्रभृतयः सर्वशीतवातविकाराः, श्वा- सकासाद्या वातविकाराः, दुष्टपीनसप्रभृतयः प्रतिश्यायाः,

९२ आयुर्वेदीयग्रन्थमाला । [अध्यायः अर्शादयोऽष्टौ महारोगाः, वह्निमान्द्यजा ग्रहणीप्रभृतयः, मधु- मेहाद्याः सर्वे प्रमेहाः, मेदोवृद्ध्यर्बुदगण्डमालाद्याः कठिनवि- काराः, आमवातगृध्रस्याद्या मूढविकाराः, राजयक्ष्माद्याः शोषाः, किं चाशीतिसंख्या वातरोगाः, अनुपानभेदेन चत्वा- रिशत्पित्तरोगाः, विंशतिसंख्याका कफजा रोगाः, दश रक्तजा रोगाः शीघ्रं प्रणश्यन्ति जराव्याधिविनाशश्च भवति; दिव्यदेहः कान्तिधृतिमान् सत्त्वसंयुतः कामिनीकामदर्पघ्नस्तार्क्ष्यदृष्टिः शूरो वदान्यश्च भवतीति सिद्धमते हरितालमारणम् । सिद्धाद्यैस्तु हरितालश्चतुर्विधः प्रोक्तः—बुगदादी १, गोदन्ती २, तबकी ३, पिण्डतालश्च ४; एते पिण्डाख्यात् क्रमेण श्रेष्ठतरा ज्ञेयाः ॥ अथ तालकसत्त्वपातनविधिः— लाक्षा राजी तिलाः शिग्रुटङ्कणं लवणं गुडम् । तालकार्धेन संमिश्र्य छिद्रमूष्यां निरोधयेत् । पुटेत्पातालयन्त्रेण सत्त्वं पतति निश्चितम् ॥ ३३ ॥ अथ रसपद्धत्याम् ।— कुलित्थक्वाथटङ्कणमहिषीघृतमधुयुक्तं हरितालं शुद्धं दध्या- ज्येन भावितं हण्डिकायां क्षित्त्वा उपरि मल्लं सच्चिद्रं दत्त्वा संधिलेपं कृत्वा क्रमेण वह्निं यामचतुष्टयं दद्यात्, याव- न्नीलः पीतो वा धूमो ह्यागच्छति, ततः पाण्डुरे धूमे दृष्टे सति एकप्रहरमात्रं छिद्रं गोमयेनाच्छाद्य तीव्रमग्निं दद्यात्, यामान्ते चोत्पाट्य पाण्डुरधूमे दृष्टे सति अग्निं पूर्णं कुर्यात्; पश्चाच्छीतां स्थालीमुत्तार्य सत्त्वं ग्राह्यम् ॥ अन्यच्च ।— जेपालसत्त्ववातारिवीजमिश्रं च तालकम् । कूपीस्थं वालुकायन्त्रे सत्त्वं मुञ्चति यामतः ॥ ३४ ॥ इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिते आयु- र्वेदप्रकाशे पञ्चमोऽध्यायः ॥ ५ ॥

६. ] आयुर्वेदप्रकाशः । ९३ अथ षष्ठोऽध्यायः । अथ मनःशिलाया नामलक्षणगुणाः शोधनं च । मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका । नेपाली कुनटी गोला शिला दिव्यौषधिः स्मृता ॥ १ ॥ तालकस्यैव भेदोऽस्ति मनोह्वा च तदन्तरम् । तालकं त्वतिपीतं स्याद्भवद्रक्ता मनःशिला ॥ २ ॥ मनःशिला त्रिधा प्रोक्ता श्यामाङ्गी करवीरिका । द्विखण्डाख्या च तासां तु लक्षणानि निबोधत ॥ ३ ॥ श्यामा हिङ्गुलवद्रक्ता किंचित्पीताऽतिदीप्तिका । करवीरा रक्तवर्णा चूर्णरूपाऽतिभारयुक् ॥ ४ ॥ किंचिद्रक्ता च गौरा च द्विखण्डा भारवत्तरा । त्रिविधासु च श्रेष्ठा स्यात्करवीरमनःशिला ॥ ५ ॥ अथ गुणाः— मनःशिला गुरुर्वर्ण्या सरोष्णा लेखनी कटुः । तिक्ता स्निग्धा विषश्वासकासभूतकफास्रनुत् ॥ ६ ॥ अशुद्धमनःशिलागुणाः— मनःशिला मन्दबलं करोति जन्तुं ध्रुवं शोधनमन्तरेण । मलस्य बन्धं किल मूत्ररोधं सशर्करं कृच्छ्रगदं च कुर्यात् ॥७॥ अथ मनःशिलाशोधनम्— पचेत्त्र्यहमजामूत्रे दोलायन्त्रे मनःशिलाम् । भावयेत्सप्तधा पित्तैरजायाः शुद्धिमृच्छति ॥ ८ ॥ अथ मतान्तरम् ।— जयन्तिकाद्रवे तैले दोलायन्त्रे मनःशिला । दिनमेकमजामूत्रे भृङ्गराजरसेऽपि च ॥ ९ ॥ मतान्तरम्— अगस्त्यपत्रतोयेन भाविता सप्तवारकम् । शृङ्गवेररसैर्वापि विशुध्यति मनःशिला ॥ १० ॥

९४ आयुर्वेदिकग्रन्थमाला । [ अध्यायः मतान्तरम्— भृङ्गागस्त्यजयन्तीनामार्द्रकस्वरसेषु च । दोलायन्त्रेण संस्विन्ना विशुध्यति मनःशिला ॥ ११ ॥ अथ मनःशिलासच्वपातनम्— तालवच्च शिलासत्त्वं ग्राह्यं तैरेव चौषधैः । रसपद्धत्याम्—अष्टमांशेन गुडगुग्गुललोहकिट्टेेन सर्पिषा सह मर्दयित्वा मूषायां दत्त्वाऽन्धयित्वा कोष्ठ्यां ध्माता सत्त्वं मुञ्चेत् ॥ इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिते आयु- र्वेदप्रकाशे षष्ठोऽध्यायः ॥ ६ ॥ अथ सप्तमोऽध्यायः । अथ स्रोतोञ्जनस्य नामभेदगुणशोधनानि । अस्य 'सुरमा' इति भाषायां नाम ॥ अञ्जनं वामनं चापि कपोताञ्जनमित्यपि ॥ १ ॥ इति नामानि ॥ स्रोतोञ्जनं तु द्विविधं श्वेतकृष्णविभेदतः । तत्र स्रोतोञ्जनं कृष्णं, सौवीरं श्वेतमीरितम् ॥ २ ॥ अत्र केचित्पञ्चभेदान् पठन्ति— स्रोतोञ्जनं च सौवीरमञ्जनं च रसाञ्जनम् । नीलाञ्जनं तदन्यच्च पुष्पाञ्जनकमेव च ॥ ३ ॥ इति पञ्चाञ्जनानि ॥ अथैषां लक्षणम्— वल्मीकशिखराकारं भिन्नमञ्जनसंनिभम् । घृष्टं तु गैरिकच्छायमेतत्स्त्रोतोञ्जनं स्मृतम् ॥ ४ ॥ स्रोतोञ्जनसमं ज्ञेयं सौवीरं तत्तु पाण्डुरम् । धूम्रवर्णाभमपि वा सौवीराञ्जनमुच्यते ॥ ५ ॥

७.] आयुर्वेदप्रकाशः । ९५ अथोभयोर्गुणाः— स्रोतोऽञ्जनं स्मृतं स्वादु चक्षुष्यं कफपित्तनुत् । कषायं लेखनं स्निग्धं ग्राहि छर्दिंविषापहम् ॥ ६ ॥ हिध्माक्षयास्रहृच्छीतं सौवीरमपि तादृशम् । किंतु द्वयोरञ्जनयोः श्रेष्ठं स्रोतोऽञ्जनं स्मृतम् ॥ ७ ॥ अथोभयोः शोधनम्— त्रिफलावारिणि स्वेद्यं तद्द्वयं शुद्धिमृच्छति । भृङ्गराजरसे वाऽपि स्रोतःसौवीरकं शुचि ॥ ८ ॥ अथानयोः सत्त्वपातनम् ।— स्रोतःसौवीरयोः सत्त्वं गृह्णीयात्कुशलो भिषक् । मनःशिलासत्त्ववच्च तन्नेत्र्यं परमं मतम् ॥ ९ ॥ अथ रसाञ्जनोत्पत्तिनामगुणाः कथ्यन्ते— दार्वीक्वाथमजाक्षीरपादपकं यदा घनम् । तदा रसाञ्जनं ख्यातं नेत्रयोः परमं हितम् । रसाञ्जनं तार्क्ष्यशैलं रसगर्भं च तार्क्ष्यजम् ॥ १० ॥ इति नामानि ॥ अथ गुणाः— रसाञ्जनं कटु श्लेष्मविषनेत्रविकारनुत् । उष्णं रसायनं तिक्तं छेदनं व्रणदोषहृत् ॥ ११ ॥ अथ नीलाञ्जनपुष्पाञ्जनलक्षणम्— नीलाञ्जनं नीलवर्णं स्निग्धं गुरुतरं स्मृतम् । पुष्पाञ्जनं रीतिकिट्टमिति केचिद्वदन्ति हि ॥ १२ ॥ सर्वाण्येतान्यञ्जनानि नेत्र्याणि परमं तथा । विषघ्नानि विशेषाच्च हिध्माध्मानहराणि च ॥ १३ ॥ अत्र रसाञ्जनं 'रसवन्ती' इति भाषायां प्रसिद्धम् ॥

९६ आयुर्विदीयग्रन्थमाला। [ अध्यायः अथ नीलाञ्जनशुद्धिः— नीलाञ्जनं चूर्णयित्वा जम्बीररसभावितम् । दिनैकमातपे शुद्धं भवेत्कार्येषु योजयेत् ॥ १४ ॥ अन्यच्च— अथवा भृङ्गद्रावे स्विन्नानि सकलान्यपि । अञ्जनानि विशुध्यन्ति सत्त्वं तेषां शिलासमम् ॥ १५ ॥ मनःशिलावत्सत्त्वं ग्राह्यमित्यर्थः । षष्ठं कुलित्थाञ्जनमित्युक्तं राजनिघण्टौ— कुलित्था दृक्प्रसादा च चक्षुष्या च कुलित्थका । कुकुलाली लोकहिता कुम्भकारी मलापहा ॥ १६ ॥ अथ कुलित्थगुणाः— कुलित्थिका तु चक्षुष्या कषाया कटुका हिमा । विषविस्फोटकण्डूतिव्रणदोषनिवर्हणी ॥ १७ ॥ इति वनकुलित्थाञ्जनं, 'चाकसू' इति पाश्चात्याः, 'चिमड' इति भाषा । निस्तुषीकृतवनकुलित्था चूर्णं पटेन संशोध्य शिशूनां नेत्ररोगे योजनीयम् । इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिते आयु- र्वेदप्रकाशे सप्तमोऽध्यायः ॥ ७ ॥ अथाष्टमोऽध्यायः । अथ टङ्कणक्षारः । 'सुहागा' इति भाषा । तस्य नामलक्षणगुणशुद्धिः— सौभाग्यं टङ्कणक्षारो धातुद्रावकमुच्यते । टङ्कणोऽग्निकरो रूक्षः कफघ्नो वातपित्तकृत् ॥ १ ॥ अशुद्धटङ्कणगुणाः— अशुद्धटङ्कणो वान्तिभ्रान्तिकारी प्रयोजितः । अतस्तं शोधयेदेव वह्नावुत्फुल्लितः शुचिः ॥ २ ॥