भारतकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

१०४ दशकुमारचरितम् । [ पूर्वपीठिकायां

१०४ दशकुमारचरितम् । [ पूर्वपीठिकायां नीराजितराजमन्दिराभोगा भोगिनो भयं जनयन्तो निश्चेरुः । (२५). गृध्राश्च बहवस्तुण्डैरहिपतीनादाय दिवि समचरन् । ततोऽग्र- जन्मा नरसिंहस्य हिरण्यकशिपोर्दैत्येश्वरस्य विदारणमभिनीय महाश्चर्या- न्वितं राजानमभाषत—'राजन्, अवसानसमये भवता शुभसूचकं द्रष्टुमुचि- तम् । ततः कल्याणपरम्परावाप्तये भवदात्मजाकारायास्तरुण्या निखिल- लक्षणोपेतस्य राजनन्दनस्य विवाहः कार्यः' इति । तदवलोकनकुतूहलेन महीपालेनानुज्ञातः स संकल्पितार्थसिद्धिसंभावनसम्फुल्लवदनः सकलमो- हजनकमञ्जनं लोचनयोर्निक्षिप्य परितो व्यलोकयत् । सर्वेषु 'तदैन्द्रजालि- कमेव कर्म' इति साद्भुतं पश्यत्सु रागपल्लवितहृदयेन राजवाहनेन पूर्व- शिरःस्थितरत्नश्रेणिभिः नीराजित उज्ज्वलीकृतो राजमन्दिरस्याभोगः प्रदेशो यैस्ते । भोगिनः सर्पाः । निश्चेरुः चरन्ति स्म । (१२) गृध्राः पक्षिद्विशेषाः । तुण्डैर्मुखैः । अहिपतीन् सर्पश्रेष्ठान् । दिवि गगने । अग्रजन्मा ब्राह्मणः । विदारणं नखैश्छेदनम् । अभिनेय दर्शयित्वा । अवसानसमये क्रीडासमाप्तौ । कल्याणानां परम्परा श्रेणिस्तस्या अवाप्तये प्राप्तये । भवत आत्मजा नन्दिनी तस्या आकार इवाकारो यस्यास्तस्याः भवतकन्यासदृश्या इत्यर्थः । निखिल- लक्षणोपेतस्य सर्वसुलक्षणयुक्तस्य । अनुज्ञात आदिष्टः । सकल्पितस्य अभीष्टस्य उसने बड़े-बड़े साँपोंको सहसा निकालना शुरू किया उन सांपोंके मुखोंसे विष निकल रहा था उनके मस्तकपर रखी मणियाँ राजमन्दिरके आँगनको देदीप्यमान बना रही थीं । उन सर्पोंको सभी दर्शक डर गये और कुछ-कुछ दूर हट गये । (२५) दर्शकोंको भयान्वित देखकर उस विद्येश्वरने बड़े-बड़े गृध्र उत्पन्न किये जो अपने बड़े बड़े चंगुलोंमें उन विषधर सर्पोंको पकड़कर आकाशमें उड़ने लगे । फिर उसने नृसिंह भगवान्को उत्पन्न कराया तथा उनके द्वारा हिरण्यकशिपुदैत्येश्वरके विदारणका अति आश्च- र्यकारी रूपक दर्शकोंको दिखाकर मुग्ध किया और राजासे कहा—इन्द्रजालके सभी खेलोंके पश्चात् एक मांगलिक रूपक देखना सर्वथा उचित है । इस शुभ परम्परासूचक खेलकी कल्याण परम्परामें मैं आपकी पुत्रीके समान स्वरूपवाली युवतीका विवाह सभी तरहके राजलक्षणोंसे युक्त एक राजकुमारसे कराऊंगा । उस रूपकको देखनेकी राजा मानसारको प्रबल उत्कंठा हुई । अपनी पूर्वसंकल्पित मनोभिलाषाको पूर्ण करनेवाली राजाज्ञा प्राप्त करके विद्येश्वर प्रसन्न चित्त हो गया और मुख चमक उठा । तत्काल ही उसने डिब्बीसे समस्त जनोंको मोहित करनेवाला अंजन निकाला और उसे अपनी दोनों आँखोंमें लगा लिया तथा चारों ओर देखने लगा । सब लोग यह समझने लगे कि यह भी कोई जादूका कार्य है तथा विस्मित होकर उसे देखने लगे । रागपल्लवित राजवाहन द्वारा पहलेसे संकेतित राजकुमारी बहुत तरहके आभूषणों

पञ्चमोच्छ्वासः ] व्याख्याद्वयोपेतम् । १०५ संकेतसमागातामनेकभूषणभूषिताङ्गीमवन्तिसुन्दरीं वैवाहिकमन्त्रतन्त्रनैपु- ण्येनग्निं साक्षीकृत्य संयोजयामास। क्रियावसाने सति 'इन्द्रजालपुरुषाः, सर्वे गच्छन्तु भवन्तः' इति द्विजन्मनोच्चैरुच्यमाने सर्वे मायामानवा यथायथमन्तर्भावं गताः। राजवाहनोऽपि पूर्वकल्पितेन गूढोपायचातुर्ये णैन्द्रजालिकपुरुषवत्कन्यान्तःपुरं विवेश। मालवेन्द्रोऽपि तदद्भुतं मन्यमा- नस्तस्मै वाडवाय प्रचुरतरं धनं दत्त्वा विघ्नेश्वरम् 'इदानीं साधय' इति विसृज्य स्वयमन्तर्मान्दरं जगाम। ततोऽवन्तिसुन्दरी प्रियसहचरीचरप- रिवारा वल्लभोपेता सुन्दरं मन्दिरं ययौ । एवं दैवमानुषबलेन मनोरथ- साफल्यमुपेतां राजवाहनः सरसमधुरचेष्टाभिः शनैः शनैर्हरिणलोचनाया अर्थस्य प्रयोजनस्य (अवन्तिसुन्दरीराजवाहनयोर्विवाहरूपस्येत्यर्थः) सिद्धेः सम्भा- वनेन सम्भवतया संफुल्लं हर्षविकसितं वदनमाननं यस्य सः। सकलमोहजनकं सर्वेषां द्रष्टृणां भ्रमोत्पादकम्। अञ्जनं कज्जलम्। लोचनयोः स्वनेत्रयोः। परितः सम- न्तात्। पूर्वसंकेतेन प्राक्सूचनानुसारेण समागतामुपस्थिताम्। वैवाहिका विवाहस- म्बन्धिनो ये मन्त्र-तन्त्रास्तेषु यन्नैपुण्यं पाटवं तेन । यथाविधीत्यर्थः । मायामानवाः कल्पितपुरुषाः । अन्तर्भावमदृश्यताम्। वाडवाय ब्राह्मणाय। 'द्विजात्यग्रजन्मभूदे- ववाडवा' इत्यमरः। साधय गच्छ। दैवमदृष्टजनितं मानुषमैन्द्रजालिकविहितं च यद्वलं तेन । अपनयन् दूरीकुर्वन् । उपनयन् प्रापयन् । रहः निर्जने । विश्रम्भं विश्वा- सम्। संलापे इति शेषः। संलापः परस्परालापः। तदनुलापेति-तस्या अनुलाष एव तथा वस्त्रोंको पहनकर आयी हुई थी। उसके साथ वैवाहिक मन्त्रको पढ़ते हुए अग्निको साक्षी कराकर राजवाहनका विवाह अवन्तिसुन्दरीसे कर दिया। इन्द्रजालके इस विवाहरूपी प्रहसनकी समाप्तिपर उस विप्रने कहा- 'हे ऐन्द्रजालिक पात्रो ! आप लोग अब जायें।' यह सुनकर वे सभी मायावी मानव धीरे धीरे अदृश्य हो गये। पहलेसे निश्चित तथा गुप्त वेशधारी एवं छिपनेकी कलामें प्रवीण राजवाहन भी मायावी पुरुषके समान कन्याके अन्तः- पुरमें चले गये। मालवनाथ मानसारने उस ऐन्द्रजालिकके अद्भुत कार्योंकी प्रशंसा की तथा उसे प्रचुर धन देकर कहा- हे ऐन्द्रजालिक अब आप जायें। आपके खेल अद्भुत थे। फिर मानसार भी अपने राजप्रसादमें चले गये। तब अपनी प्रिय सखियोंके साथ अवन्तिसुन्दरी कुमारी भी अपने प्राणेश्वरको साथ लिये अन्तःपुरमें आ गयी। इस रीतिसे दैवी और मानुषी पराक्रमद्वारा अपना मनोरथ साधकर अपनी सरस और सुललित क्रियाओं द्वारा राजवाहनने धीरे-धीरे उस मृगलोचनाकी लज्जाको दूर कर दिया। फिर एकान्त में रतिसुखका आनन्द लेते हुए वार्तालाप द्वारा उसके चित्तमें अपने प्रति विश्वास उत्पन्न कराया। तदनन्तर उस ८ द० कु०

१०६ दशकुमारचरितम् । [ पूर्वपीठिकायां

१०६ दशकुमारचरितम् । [ पूर्वपीठिकायां

लज्जामपनयन्सुरतरागमुपनयन् रहोविश्रम्भमुपजनयन् संलापे तदनुलाप- पीयूषपानलोलश्चित्रचित्रं चित्तहारिणं चतुर्दशभुवनवृत्तान्तं श्रावयामास । इति श्रीदण्डिनः कृतौ दशकुमारचरितेऽवन्तिसुन्दरीपरिणयो नाम पञ्चम उच्छ्वासः । इति पूर्वपीठिका

पीयूषममृतं तस्य पाने सानुरागाकर्षणे लोलश्चञ्चलः । चित्रचित्रम् अत्याश्चर्यजन- कम् । चतुर्दशानां भुवनानां वृत्तान्तमाख्यायिकाम् श्रावयामास । अवन्तिसुन्दरी- मिति शेषः । आख्यायिकाश्रवणे युवतीनां बलवती स्पृहा भवतीति ध्येयम् । इति श्रीताराचरणभट्टाचार्यकृतायां बालविबोधिनीसमाख्यायां दशकुमारचरितव्याख्यायां पञ्चमोच्छ्वासः । समाप्ता पूर्वपीठिका

राजपुत्रीकी सुधारूपी मधुर वचनावली एवं बहुत तरहकी मीठी बातोंको जिज्ञासासे सुना। फिर उसे चित्तहारी चौदहों भुवनोंकी मनोहर आख्यायिकाएँ सुनायीं-और समयोचित आनन्द करने लगा । इस प्रकारसे दशकुमारचरितके पञ्चमोच्छ्वासकी बालक्रोड़ा नामक हिन्दी टीका समाप्त हुई । पूर्वपीठिका समाप्त ।

उत्तरपीठिकायाम्

॥ श्रीः ॥ दशकुमारचरितम् उत्तरपीठिकायाम् प्रथमोच्छ्वासः (१) श्रुत्वा तु भुवनवृत्तान्तमुत्तमाङ्गना विस्मयविकसिताक्षी सस्मि- तमिदमभाषत-‘दयित, त्वत्प्रसादादद्य मे चरितार्था श्रोत्रवृत्तिः। अद्य मे मनसि तमोपहस्त्वया दत्तो ज्ञानप्रदीपः। पक्वमिदानीं त्वत्पादपद्मपरिचर्या- फलम्। अस्य च त्वत्प्रसादस्य किमुपकृत्य प्रत्युपकृतवती भवेयम्। अभवदीयं हि नैव किञ्चिन्मत्सम्बद्धम्। अथवास्त्येवास्यापि जनस्य (१) उत्तमा निखिलनायिकागुणभूषिता अङ्गना कामिनी अवन्तिसुन्दरीति शेषः। विस्मयेन नानाविधाख्यायिकाश्रवणजनिताश्चर्यरसेन विकसिते प्रफुल्ले अक्षिणी नयने यस्याः सा। सस्मितं सहासम्। चरितार्था सफला। श्रोत्रवृत्तिः श्रवणेन्द्रियमित्यर्थः। तमः अपहन्तीति तमोपहोऽज्ञाननाशकः। ज्ञानमेव प्रदीपः। तव पादपद्मयोश्चरणकमलयोः परिचर्यायाः सेवायाः फलम् परिपाकः। त्वत्प्रसादस्य भुवनवृत्तान्तश्रावणरूपस्येत्यर्थः। किमुपकृत्य कीदृशमुपकारं कृत्वा। प्रत्युपकृ- तवती कृतप्रत्युपकारा। अभवदीयं न भवदीयम्। मत्सम्बद्धं मदीयम्-यतोऽहमपि भवत एवातो यदेव मदीयं तदपि भवदीयमेवेति भावः। अथवा पक्षान्तरे पूर्वाप- रितोषे इत्याशयः। अस्यापि जनस्य ममेत्यर्थः। क्वचित् कुत्रापि। प्रभुत्वं (१) समस्त लोकोंके सुन्दर वृत्तान्तोंको श्रवण कर उस परमसुन्दरी महिलाके नयन विस्मयान्वित हो गये और उस महिलाने मुसकुराकर कहा-‘हे दयित ! आपकी दयासे आज मेरे कर्ण सफल हो गये—मैंने आपकी सभी बातें सुन लीं। आपने आज मेरे अन्धकाराच्छन्न हृदयमें ज्ञानका दीपक जला दिया है। आपकी चरणसेवा का फल आज परिपक्व हुआ। आपने इस जनपर जो कृपा की है उसका प्रत्युपकार मैं क्या कर सकती हूँ। मेरे समीप कोई भी ऐसी वस्तु नहीं बची है जिसके स्वामी आप न होवें। परन्तु, अन्वेषणपूर्ण दृष्टिसे देखनेपर मुझे यह ध्यान हो आया कि मेरा प्रभुत्व भी किसी वस्तुपर ८ द० कु० उ०

क्वचित्प्रभुत्वम् । अशक्यं हि मदिच्छया विना सरस्वतीमुखग्रहणोच्छेष- गीकृतो दशनच्छद एष चुम्बयितुम् । (२) 'अम्बुजासनास्तनतटोपभुक्तमुरःस्थलं चेदमालिङ्गयितुम्' इति प्रियोरसि प्रावृडिव नभस्युपास्तीर्णगुरुपयोधरमण्डला प्रौढकन्दलीकुड्म- लमिव रूढरागरूषितं चक्षुरुल्लासयन्ती बर्हिबर्हावलीविडम्बयता कुसुम- चन्द्रकशारेण मधुकरकुलव्याकुलेन केशकलापेन स्फुरदरुणकिरणकेसर- करालं कदम्बमुकुलमिव कान्तस्याधरमणिमधीर साचुचुम्ब । स्वातन्त्र्यम्-मदाज्ञया विना तत्तद्भवतापि कर्तुं न शक्यत इति भावः । तदेव वि- शदीकरोति-अशक्यमित्यादिना । सरस्वत्या वाण्या मुखग्रहणेन आननाधिकारेण उच्छेषणीकृत उच्छिष्टीकृतः । दशनच्छदस्य विशेषणम् । सरस्वत्या तु प्रागेव भव- तो वदनकमलमधिकृतम्-मुखमधिष्ठाय सा वसतीत्यर्थः । दशनच्छद ओष्ठः । चुम्बयितुमिति णिजन्तम् । अन्यया कामिन्येति शेषः । (२) अम्बुजासना लक्ष्मीस्तस्याः स्तनतटाभ्यां पयोधराभ्यामुपभुक्तं समा- लिङ्गितमित्यर्थः । उरःस्थलं वक्षःस्थलं राजवाहनस्येत्यर्थः । आलिङ्गयितुमित्यपि णिजन्तम्-अन्ययेति शेषः । इति उक्तेवेति शेषः । प्रावृट् वर्षाः तद्वत् । नभसि आकाशे । उपास्तीर्णं विस्तारितमिति प्रावृट्पक्षे अवन्तिसुन्दरीपक्षे तु स्थापितं गुरु विशालमुभयत्र समानम् पयोधरमण्डलमेकत्र मेघसमूहोऽन्यत्र स्तनयुगलं यया सा । प्रौढायाः पुष्टायाः कन्दल्या द्रोणपर्णीति प्रसिद्धायाः कुड्मलं मुकुलमिव । रूढः उत्पन्नो यो रागो रक्तिमा अनुरागश्च तेन रूषितं भूषितम् । चक्षुर्विशेषणमिदम् । तादृशं चक्षुरुल्लासयन्ती विशदीकुर्वाणा; बर्ही मयूरस्तस्य बर्हावलीः पिच्छपंक्तीः विडम्बयता अनुकुर्वता । कुसुमानि शिरःस्थितपुष्पाण्येव चन्द्रिका मेचकास्तैः शारेण विचित्रेण । मधुकरकुलव्याकुलेन कुसुमामोदलुब्धभ्रमरव्याप्तेन । सर्वने- अवश्य है । वह वस्तु क्या आपके होठ हैं जिन्हें सरस्वती देवीके अतिरिक्त अद्यावधि कोई भी नहीं उच्छिष्ट कर सका है । उन अधरोष्ठोंको मेरे अतिरिक्त कोई भी महिला नहीं चूम सकती है-क्योंकि उनपर मेरा आधिपत्य है । (२) तथा च लक्ष्मीजीके कुचोंसे संस्पर्शित आपके इस वक्षःस्थलका आलिंगन मेरे अतिरिक्त अन्य कोई भी नहीं कर सकता है ।' इतना कहकर उस बालाने श्रावणमासके साथ वर्षाकालके समान उन्नत स्तनोंवाली अपनी छाती उसके अन्तस्तलपर चिपका दी तथा द्रोणपर्णीके कोंपलोंके सदृश प्रेमातिरेकसे कुछ-कुछ रक्तिमापूर्ण नेत्रोंसे एकटक उसे देखने लगी । उसके केशकलापोंमें जो पुष्प गुम्फित थे वे मोरपंखोंके समान चमकीले लग रहे थे । लोलुप मधुपोंका झुण्ड उन पुष्पोंके परागोंके पानार्थ मँडरा रहा था । इसी

( ३ ) तदारम्भस्फुरितया च रागवृत्त्या भूयोऽप्यावर्ततातिमात्रचित्रो- पचारशीफरो रतिप्रबन्धः । सुरतखेदसुप्तयोस्तु तयोः स्वप्ने बिसगुणनि- गडितपादो जरठः कश्चिज्जालपादोऽदृश्यत । प्रत्यबुध्येतां चोभौ । ( ४ ) अथ तस्य राजकुमारस्य कमलमूढशशिकिरणरज्जुदामनिगृ- तत्केशकलापस्य विशेषणम् ! केशकलापेनेति उपलक्षणे तृतीया । तथाविधकेशपाशो- पलक्षिता अवन्तिसुन्दरीत्यर्थः । स्फुरदिति—स्फुरन्तः शोभमाना अरुणा रक्तवर्णाः किरणा एव केसराणि किञ्जल्कास्तैः करालं दन्तुरम् । अतएव कदम्बसाम्यमस्य । अधरमणेर्विशेषणमेतत् । कदम्बमुकुलं नीपकलिकामिव । कान्तस्य दयितस्य राजवाहनस्येत्यर्थः । अधरो मणिरिव तम् अधरमणिमधरबिम्बम् । अधीरमवशं यथा तथा आचुचुम्ब चुम्बितवती । ( ३ ) तदारम्भेति—तस्यारम्भस्तदारम्भस्तेन चुम्बनारम्भेण स्फुरितया उद्दीप्तया । रागवृत्त्या अनुरागसमृद्धया । भूयोऽपि बाहुल्येनेति भावः । आवर्त्तत प्रवृत्तोऽभवत् । अतिमात्रमत्यर्थं चित्रेण नानाविधेन विस्मयोत्पादकेन वा उपचारेण सुरतसाधनेन शीफरो रमणीयः । सुरतस्य खेदः श्रमस्तेन सुप्तयोः निद्रितयोः । तयोः अवन्तिसुन्दरीराजवाहनयोः । स्वप्ने स्वप्नावस्थायाम् । बिसगुणेन मृणालत- न्तुना निगडितौ बद्धौ पादौ चरणौ यस्य सः । जरठो वृद्धः । जालपादो हंसः । अदृश्यत ताभ्यां दृष्टोऽभवदित्यर्थः । प्रत्यबुध्येतां जागरितौ । ( ४ ) अथ हंसदर्शनानन्तरम् । कमलेन पद्मेन मूढो भ्रान्तो यः शशी चन्द्र- स्तस्य किरणा एव रज्जुदाम गुणसमूहस्तेन निगृहीतं बद्धमिव—इदं कमलमिवि भ्रान्त्या चन्द्रः स्वमयूखजालेन रज्ज्वा चरणयुगलं बबन्धेति भावः । चन्द्रपद्मयोः क्षण भावावेशसे विह्वला होकर उसने कदम्बकी कोंपलोंके सदृश लाल-लाल अपने प्रियतमके अधरोष्ठोंको चूम लिया । ( ३ ) इस चुम्बन-क्रियासे उसकी कामवासना जागृत हो गयी और उसने उसके साथ आमोद-प्रमोद करना प्रारम्भ कर दिया । दीर्घ समयतक भोग-विलास करके श्रान्त हों जानेपर जब वे दोनों सो गये तो उन लोगोंने स्वप्नमें एक बूढ़े हंस पक्षीको देखा जिसके दोनों पाँव मृणाल-तन्तुसे परिवद्ध थे । उसी समय उन लोगोंकी आँखे खुल गयीं—वे जाग पड़े । ( ४ ) राजकुमारने उठकर देखा कि कमलके भ्रमसे चन्द्रमाकी किरणोंके तुल्य चाँदीकी जंजीरोंसे उसके दोनों पाँव बँधे हुए हैं। राजकुमारीने अपने वल्लभको ज्योंही ऐसी दुर्दशामें देखा त्योंही वे चिल्लाकर चीत्कार करने लगी । उस चीत्कारके कोलाहलसे

११० दशकुमारचरितम् । [ उत्तरपीठिकायां

११० दशकुमारचरितम् । [ उत्तरपीठिकायां हीतमिव रजतशृङ्खलोपगूढं चरणयुगलमासीत् । उपलभ्यैव च 'किमेतत्' इत्यतिपरित्रासविह्वला मुक्तकण्ठमाचक्रन्द राजकन्या । येन च तत्सकल- मेव कन्यान्तःपुरमग्निपरीतमिव पिशाचोपहतमिव वेपमानमनिरूप्यमा- ·णतदात्वायतिविभागमगण्यमानरहस्यरक्षासमयमवनितलविप्रविध्यमान- गात्रमाक्रन्दविदीर्यमाणकण्ठमश्रुस्रोतोऽवगुण्ठतकपोलतलमाकुलीबभूव । ( ५ ) तुमुले चास्मिन्समयेऽनियन्त्रितप्रवेशाः 'किं किम्' इति सह- वैरं तु प्रसिद्धम् । रजतशृङ्खलया उप वेष्टितम् । उपलभ्य ज्ञात्वा । किमेतत् ? एतत् किं जातमिति अतिपरित्रासेन अत्यन्तभयेन विह्वला व्याकुला । मुक्तकण्ठ- मुच्चैः । आचक्रन्द रुरोद । येन आक्रन्देन । कन्यान्तःपुरं कन्यानिवासः । अग्निना अनलेन परीतं व्याप्तम् । पिशाचेनोपहतं भूताविष्टम् । वेपमानं कम्पमा- नम् । अनिरूप्येति—न निरूप्यमाणो न निर्णीयमानः तदात्वस्य तत्कालस्य आय- तेरुत्तरकालस्य च विभागः कृत्यं येन तत् । 'तत्कालस्य तदात्वं स्यादुत्तरः काल आयतिरि'त्यमरः । न गण्यमानः न विचार्यमाणः रहस्यस्य निर्जनोत्पन्नस्य विष- यस्य रक्षायाः समयो व्यवस्था येन तत्—रहस्यरक्षार्थं केनापि न यत्यत इति भावः । अवनितले भूतले विप्रविध्यमानं ताड्यमानं गात्रं शरीरं यस्य तत् । आक्रन्दनेन रुदितेन विदीर्यमाणः भिद्यमानः कण्ठो यस्य तत् । सर्वमेतत्कन्यान्तः- पुरमित्यस्य विशेषणम् । आकुलीबभूव व्याकुलं सञ्जातम् । ( ५ ) तुमुले संकुले । न नियन्त्रितो निवारितः प्रवेशो येषां ते—अनिवारित- प्रवेशाः । अन्तर्वंशिकपुरुषाः अन्तःपुराधिकृताः । 'अन्तःपुरे त्वधिकृतः स्यादन्त- समस्त अन्तःपुर चिन्ताकुल हो गया तथा ऐसा हो-हल्ला मचा जैसे कहीं आग लग गयी हो, अथवा भूत-प्रेत-पिशाचोंकी भयावनी विशाल सेनाने लोगोंपर आक्रमण कर दिया हो । वहांपर सब लोग मारे भयके कांपने लगे । उस समय न लोगोंको यही सूझ रहा था कि क्या करना चाहिये, न वे यही सोच पाते थे कि इसके आगे क्या करना होगा । उन लोगोंको राजकुमारीको इस लान्छनसे बचानेका कोई उपाय भी नहीं सूझ रहा था । ऐसे व्याकुल तथा भयावने समयमें सब लोग गला फाड़-फाड़कर चिल्लाने लगे तथा नेत्रों से आँसू गिराने लगे । उनके आँसू इतनी तेजीसे बह रहे थे कि उन लोगोंके गण्डस्थल एक- दम भीग गये थे । ( ५ ) पूर्वोक्त प्रकारका कोलाहल मचनेपर सभी प्राचीन दास-दासी यह पूछते हुए भीतर घुस आए—'क्यों हल्ला हो रहा है—क्या बात है ?' और भीतर आकर उन लोगोंने

प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । १११ सोपसृत्य विविशुरन्तर्वंशिकपुरुषाः । ददृशुश्च तदवस्थं राजकुमारम् । तद- नुभावनिरुद्धनिग्रहेच्छास्तु सद्य एव ते तमर्थं चण्डवर्मणे निवेदयाञ्चक्रुः । ( ६ ) सोऽपि कोपादागत्य निर्दहन्निव दहनगर्भया दृशा निशाम्यो- त्पन्नप्रत्यभिज्ञः 'कथं स एवैष मदनुजमरणनिमित्तभूतायाः पापाया बाल- चन्द्रिकायाः पत्युरत्यभिनिविष्टवित्तदर्पस्य वैदेशिकवणिक्पुत्रस्य पुष्पोद्भू- वस्य मित्रं रूपमत्तः कलाभिमानी नैकविधविप्रलम्भोपायपाटवार्जि- तमूढपौरजनमिथ्यारोपितवितथदेवतानुभावः कपटधर्मकञ्चुको निगूढ- पापशीलश्चपलो ब्राह्मणब्रुवः । वंशिको जन' इत्यमरः । तदवस्थमिति—सा अवस्था यस्येति विग्रहः, शृङ्खलित- चरणयुगलमित्यर्थः । तदनुभावेति-तस्य राजकुमारस्य अनुभावेन प्रतापेन निरुद्धा प्रतिहता निग्रहेच्छा पराभवाभिलाषो येषां ते । ते अन्तर्वंशिकपुरुषाः । अर्थं विषयम् । ( ६ ) सोऽपि चण्डवर्माऽपि । निर्दहन्निव भस्मीकुर्वन्निव । दहनोऽग्निर्गर्भे मध्ये यस्यास्तया । दृशा नेत्रेण । निशाम्य अवलोक्य । उत्पन्ना प्राप्ता प्रत्यभिज्ञा सोऽयमित्याकारिका स्मृतिर्यस्य सः । मदनुजस्य दारुवर्मणो मरणस्य मृत्योर्निमित्त- भूतायाः कारणभूतायाः। पत्युः स्वामिनः । अति अतिशयेन अभिनिविष्ट उत्पन्नो वित्तदर्पो धनगर्बो यस्य तथाभूतस्य । मित्रं सखा । नैकविधेषु नानाप्रकारेपु विप्र- लम्भस्य परवञ्चनस्योपायेषु यत्पाटवं कौशलं तेनावर्जितो वशीकृतो मूढोऽज्ञो यः पौरजनस्तेन मिथ्यारोपितो वितथो निष्फलो देवतानुभावो देवप्रभावो यस्मिन् सः । कपटं छलमेव धर्मकञ्चुकमावरणं यस्य सः । निगूढपापशीलः यः खलु गुप्तरूपेण पापमाचरतीत्यर्थः । ब्राह्मणब्रुवो ब्राह्मणाधमः । बन्धनसे परिवद्ध राजपुत्रको देख लिया । राजपुरुषोंका साहस उस राजकुमारको पकड़नेका तो न हुआ किन्तु वे लोग दौड़कर चण्डवर्माके समीप गये और उससे समस्त वृत्तान्त ज्ञापित कर दिया । ( ६ ) ज्योंही उसने यह वृत्तान्त सुना त्योंही वह क्रुद्ध होकर अन्तःपुरमें आ धमका तथा अग्निको उगलती हुई लाल-लाल आँखोंसे वहाँकी सारी परिस्थिति देखते ही समझ गया । उसी आवेशमें उसने कहा—'क्या यह वही दुरात्मा है जिसके कारण मेरा अनुज मारा गया है । क्या यही उस बालचन्द्रिकाके पति पुष्पोद्भव वणिक्का मित्र है, जिसे अपनी सम्पत्तिपर बड़ा अहंकार था ? क्या यही अपनेको श्रेष्ठ कलाकार समझनेवाला व्यक्ति है ? क्या इसीने अनेक छलोंके द्वारा अज्ञ पुरवासियोंमें अपनेको देवता सिद्ध किया है ? क्या इसीने धर्मके कपटाडम्बरसे जन-साधारणको धोखा दिया है ? क्या यही

११२ दशकुमारचरितम् । [ उत्तरपीठिकायां

११२ दशकुमारचरितम् । [ उत्तरपीठिकायां (७) कथमिवैनमनुरक्ता मादृशेष्वपि पुरुषसिंहॆषु सावमाना पापेय- मवन्तिसुन्दरी । पश्यतु पतिमद्यैव शूलावतंसितमियमनार्यशीला कुलपां- सनी' इति निर्भर्त्सयन्भीषणभ्रुकुटिदूषितललाटः काल इव काललोहदण्ड- कर्कशेन बाहुदण्डेनावलम्ब्य हस्ताम्बुजे रेखाम्बुजरथाङ्गलाञ्छने राजपुत्रं सरभसमाचकर्ष । (८) स तु स्वभावधीरः सर्वपौरुषातिभूमिः सहिष्णुत्तैकप्रतिक्रियां दैवीमेव तामापदमवधार्य 'स्मर तस्या हंसगामिनि, हंसकथायाः । सहस्र- (७) कथमिवेति—कथमिव केन प्रकारेण । एनं राजवाहनम् । अनुरक्ता जातेति शेषः । पुरुषसिंहॆषु पुरुषश्रेष्ठेषु । सावमाना सतिरस्कारा । पापा पापशीला । शूले अवतंसितमारोपितम् । अनार्य शीलं यस्याः सा-दुष्टस्वभावा । कुलपांसनी कुलदूषणी । भीषणया भ्रुकुट्या दूषितं ललाटं यस्य सः । कालो यमः । कालः कृष्णवर्णो यो लोहदण्डस्तद्वत् कर्कशेन कठोरेण । बाहुदण्डेनेत्यस्य विशेषणम् । रेखारूपाणि अम्बुजानि पद्मानि, रथाङ्गानि चक्राणि च लाञ्छनानि चिह्नानि ययो- स्तादृशे । हस्ताम्बुजे इत्यस्य विशेषणम् अवलम्ब्य इत्यस्य च कर्म । सरभसं सवेगम् । क्रियाविशेषणमिदम् । (८) स तु राजवाहनस्तु । सर्वेषां पौरुषाणां पुरुषार्थानाम् । अतिभूमिरधि- ष्ठानम् । सहिष्णुत्तैव एका केवला प्रतिक्रिया प्रतीकारो यस्यास्ताम् । या आपत् सहनमन्तरेण अन्योपायसाध्या नेत्यर्थः । वासु वाले । सम्बोधनमेतत् । प्राजपरि- छिप-छिपकर अनेक पाप किया करता है ? क्या यही वह व्यक्ति है जो स्वभाव का चंचल है तथा अपनेको ब्राह्मण बतलाता है, सत्य कहो. यह वही दुष्ट है न ? (७) मेरी समझमें नहीं आता कि क्यों यह पापिन अवन्तिसुन्दरी मेरे ऐसे पुरुष सिंहको त्यागकर इसपर अनुरक्ता है । अच्छा, तो यह कुलकलंकिनी आज ही अपने प्राण- प्यारेको फाँसीपर लटका हुआ देखेगी। उक्त रीतिसे धमकियाँ देता हुआ तथा अपनी भयावनी भ्रुकुटियोंसे ललाट-भागको दूषित करता हुआ वह कालके समान आगे बढ़ा और लोहेके सदृश अपने बलिष्ठ हाथोंके द्वारा राजकुमारका हाथ पकड़कर झटका देते हुए उसने उसे अपनी ओर खींच लिया । (८) स्वभावतः राजकुमार धैर्यवान् थे । सभी प्रकारके पौरुष भी उनमें थे । किन्तु सहनशीलता के अतिरिक्त इस समय इस आपत्तिको दूर करनेका कोई उपाय ही न था । पर्याप्त रीतिसे विचार करके उन्होंने अपनी प्रेयसीसे कहा—हे प्रिये ! उस राजहंसकी

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF

प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ११३ वासु मासद्वयम्' इति प्राणपरित्यागरागिणीं प्राणसमां समाश्वास्याग्वि- श्यतामयासीत् । ( ६ ) अथ विदितवार्तावार्तौ महादेवीमालवेन्द्रौ जामातरमाकारपक्ष- पातिनावात्मपरित्यागोपन्यासेनारिणा जिघांस्यमानं ररक्षतुः । न शेकतुस्तु तमप्रभुत्वादुत्तारयितुमापदः । स किल चण्डशीलश्चण्डवर्मा सर्वमिदमुद- न्तजातं राजराजगिरौ तपस्यते दर्पसाराय सन्दिश्य सर्वमेव पुष्पोद्भवकु- तुम्बकं सर्वस्वहरणपूर्वकं सद्य एव बन्धने क्षिप्त्वा कृत्वा च राजवाहनं केसरिकिशोरकमिव दारुपञ्जरनिबद्धं मूर्धजजालविलीनचूडामणिप्रभाव- त्यागरागिणीं प्राणविसर्जनकाङ्क्षिणीम् । अरिवश्यतां शत्रुवशंवदताम् । अयासीत् प्रापत् । गत्यर्थानां प्राप्यर्थकत्वात् । ( ९ ) विदितेति—विदिता वार्त्ता याभ्यां तौ—ज्ञातवृत्तान्तौ अत एवार्तौ पीडितौ । महादेवीमालवेन्द्रौ अवन्तिसुन्दरीपितरौ । जामातरं राजवाहनम् । आकारपक्षपातिनौ आकृतिं दृष्ट्वैव पक्षपातिनौ जातावित्यर्थः । आत्मपरीति—आत्म- परित्यागस्य स्वदेहविसर्जनस्य उपन्यासेन कथनेन—यद्येनं राजपुत्रं घातयिष्यसि तदा आवामपि प्राणान् परित्यक्ष्याव इत्युक्त्वेत्यर्थः । जिघांस्यमानं हन्तुमिष्यमाणम् । इदं तु जामातरमित्यस्य विशेषणम् । शेकतुः शक्तौ । तं राजवाहनम् । अप्रभुत्वात् असामर्थ्यात् । उत्तारयितुम् उद्धर्तुम् । चण्डशीलः क्रूरस्वभावः । उदन्तजातं वृत्ता- न्तसमूहम् । राजराजगिरौ कैलासपर्वते । तपस्यते तपःकुर्वाणाय दर्पसारोऽवन्ति- सुन्दरीभ्राताः तस्मै । सन्दिश्य निवेद्य । बन्धने कारागृहे । केसरिणः सिंहस्य किशोरः तरुणस्तमिव । दारुपञ्जरनिबद्धं काष्ठनिर्मितपञ्जरमध्यस्थम् । कृत्वेत्यस्य कर्म मूर्द्धजजाले केशसमूहे विलीनस्य गुप्तस्य चूडामणेः मातङ्गदत्तमणिविशेषस्य प्रभावेण बातोंका ध्यान करके तुम दो मास तक धैर्य रखो । इस प्रकार प्राणोंको त्यागनेमें उद्यत उस राजपुत्रीको राजकुमारने समझाकर अपने आपको शत्रुके हाथोंमें सौंप दिया । ( ९ ) मालवेन्द्र और महादेवीको जब राजकुमारके इस प्रकार पीड़ित होनेका वृत्त ज्ञात हुआ तो वे बहुत दुखी हुए क्योंकि इन लोगोंने राजकुमारकी आकृति देखकर समझलिया था कि यही मेरा भावी जामाता है । अन्तमें मालवराजने अपने प्राणोंकी बाजी लगाकर—अर्थात् 'यदि तुम इसे मारोगे तो हम दोनों भी अपने प्राणोंको त्याग देंगे' ऐसा कहकर राजकुमारके प्राणोंको बचा लिया परन्तु, उस समय उनके हाथमें न तो कोई शक्ति थी, न कोई अधिकार ही था, इसलिए वे राजकुमारको उस आपत्तिके समुद्रसे पूर्णरूपेण पार नहीं उतार सके । क्रोधी चण्डवर्माने कैलास पर्वतपर

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

११४ दशकुमारचरितम् । [ उत्तरपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF ११४ दशकुमारचरितम् । [ उत्तरपीठिकायां

विक्षिप्तक्षुत्पिपासादिखेदं च तमवधूतदुहितृप्रार्थनस्याङ्गराजस्योद्धरणा- याङ्गानभियास्यन्ननन्यविश्वासात्रिनाय । रुरोध च बलभरदत्तकम्प- श्चम्पाम् । ( १० ) चम्पेश्वरोऽपि सिंहवर्मा सिंह इवासह्यविक्रमः प्राकारं भेद- यित्वा महता बलसमुदायेन निर्गत्य स्वप्रहितदूतव्राताहूतानां साहाय्यदा-

महात्म्येन विक्षिप्तो दूरीकृतः क्षुत्पिपासादिखेदो यस्य तम् । तं राजवाहनम् । अवधूतेति-अवधूता तिरस्कृता दुहितुः कन्यायाः अम्बालिकायाः प्रार्थना येन तस्य । उद्धरणाय उन्मूलनाय । अङ्गान् अङ्गदेशान् । अनन्यविश्वासात् अन्यस्मिन् विश्वा- साभावात् । हेतौ पञ्चमी । बलभरेण सैन्यसमूहेन दत्तः कम्पो येन सः । चण्ड- वर्मणो विशेषणमेतत् । चम्पाम् अङ्गदेशराजधानीम् ।

( १० ) प्राकारं प्राचीरम् । बलसमुदायेन सैन्यसमूहेन । स्वप्रहितेति-स्वप्रहि- तेन स्वयं प्रेषितेन दूतव्रातेन दूतसमूहेन आहूतानाम् आकारितानाम् । साहाय्य-

तपस्या करनेवाले दर्पसारके समीप यह सारा वृत्तान्त कहला भेजा । तत्पश्चात् पुष्पोद्भवका सर्वस्व अपहरण कर लिया, उसे उसके कुटुम्बीसहित पकड़कर कारागारमें बन्द कर दिया तथा सिंहशावकके समान वीर राजवाहनको भी काष्ठके बने जंगलेदार पिंजड़ेमें बन्द कर दिया । यद्यपि उसे कई दिनोंसे कुछ खाने-पीनेको भी न मिला था तथापि उसे भूख-प्यास न लगी । उसका कारण यह था कि उसके केशोंमें एक चूडामणि छिपी थी जिसका प्रभाव यह था कि चाहे जितने दिनों भोजन वा जल न मिले परन्तु उक्त मणिको धारण किये रहनेसे वह व्यक्ति दुर्बल एवं व्याकुल नहीं हो सकता। यद्यपि उसने अतिकरुण स्वरमें दीनतासे चण्डवर्मासे प्रार्थना की कि 'यह राजपुत्री मुझे चाहती है और मैं भी इससे प्रेम करता हूँ, इस हेतु हम लोगोंके इस शुद्ध प्रेममें विघ्न न डालिये', परन्तु उसने कुछ न सुना । इसी समय सिंहवर्माको नष्ट करनेके लिए चण्डवर्माने उसके ऊपर आक्रमण कर दिया । अपने किसी भी दासपर विश्वास न करके वह चण्डवर्मा राजवाहनको भी युद्धमें जाते समय अपने साथ ही लेता गया । महाराज अंगराजकी राजधानी चम्पा नगरीको उसने जाकर चारों ओरसे घेर लिया ।

( १० ) मृगेन्द्रके समान असाधारण पराक्रमी चम्पेश्वर महाराज सिंहवर्माने भी अति- विशाल सेनाको साथ लेकर उसपर आक्रमण कर दिया । उन्होंने अपने बड़े प्रचण्ड आक्र- मणसे उसके चक्रव्यूहको अस्त-व्यस्त कर दिया और अतिवीरतासे सामना किया । इसी समय उन्होंने अपने राजके दूतोंके द्वारा आस पासके महाराजों को सहायता देनेके लिए कहला भेजा । इस कारण वे लोग भी तात्कालिक सहायता देने आ पहुँचे । परन्तु उन

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ११५ नायातिसत्वरमापततां धरापतीनामचिरकालभाविन्यपि सन्निधावदत्ता- पेक्षः साक्षादिवावलेपो वपुष्मानक्षमापरीतः प्रतिबलं प्रतिजग्राह । ( ११ ) जगृहे च महति संपराये क्षीणसकलसैन्यमण्डलः प्रचण्ड- प्रहरणशतभिन्नमर्मा सिंहवर्मा करिणः करिणमवप्लुत्यातिमानुषप्रमाण- बलेन चण्डवर्मणा । स च तद्दुहितर्यम्बालिकायामबलारत्नसमाख्याता- दानाय निमन्त्रितानामित्यर्थः । आपतताम् आगच्छताम् । अचिरभाविनि शीघ्र- भाविनि । सन्निधौ सन्निधाने । उपस्थिताविति यावत् । अदत्तापेक्षः अपेक्षामकृत्वे- त्यर्थः । साक्षात् अग्रतः स्थित । वपुष्मान् मूर्त्तिमान् । अवलेपो गर्वः । अक्षमापरीतः कोपाक्रान्तः । प्रतिबलं शत्रुसैन्यम् । प्रतिजग्राह आक्रान्तवान् । ( ११ ) जगृहे गृहीतः चण्डवर्मणा सिंहवर्मेत्यन्वयः । संपराये युद्धे । क्षीणं नष्टं सकलं सैन्यमण्डलं यस्य सः । प्रचण्डेन भीषणेन प्रहरणशतेन शस्त्रसहस्रेण भिन्नं विदीर्णं मर्म यस्य सः । करिणः करिणमिति—एकस्मात् गजात् अन्यं गजम् अवप्लुत्य आरुह्य । अतिमानुषं मनुष्यादप्यधिकं प्राणबलं यस्य तेन । स च चण्ड- वर्मा च । तद्दुहितरि सिंहवर्मकन्यायाम् । अबलारत्नं स्त्रीरत्नमिति समाख्यातायां प्रसिद्धायाम् । अतिमात्रम् अभिलाषो यस्य सः—अत्यन्तासक्त इत्यर्थः । एनं सिंह- वर्माणम् । न व्ययुयुजत् न पृथक् चकार न जघानेत्यर्थः । विपूवँकाद् युजेर्णिज- न्ताल्लुङ् । अपितु किन्तु । अनीनयत् प्रापयामास । णीञ् प्रापणे इत्यस्य धातोर्णि- जन्तस्य लुङि रूपम् । अपनीताशेषशल्यं दूरीकृतनिखिलशस्त्रव्रणम् । एनमित्यस्य विशेषणम् । अकल्पा अचिन्त्या सन्धा प्रतिज्ञा यस्य सः । सत्यप्रतिज्ञ इति भावः । महाराजोंकी सहायताकी उन्होंने जरा भी अभिलाषा न की और साक्षात् क्रोधकी मूर्तिके समान विकराल रूप धारण कर वे क्रुद्ध होकर शत्रुसे जाकर भिड़ गये और वीरताके साथ साहसपूर्वक घमासान संग्राम किया । ( ११ ) परन्तु, चण्डवर्मा उनसे अधिक प्रबल पड़ रहा था, साथ ही उसके पास शस्त्रास्त्रबल भी पर्याप्त था । इस कारण, जैसे एक हाथीको दूसरा शक्तिशाली हाथी धर पछाड़े उसी प्रकार सिंहवर्माको उसकी सारी सेनाके नष्ट हो जानेके पश्चात् उस चण्डवर्मानि चारों ओरसे घेर लिया । चण्डवर्मा सिंहवर्माकी पुत्री अम्बालिकाको बहुत चाहता था जो स्त्रियोंमें मणिके समान देदीप्यमान थी । इसलिए उसने सिंहवर्माको घेरकर जानसे नहीं मारा अपितु उसे पकड़कर अपने शिविरमें ले गया और वहाँ उसके घावोंमें मरहम-पट्टी कराकर उसका उपचार कराने लगा तथा उसे अपने यहाँ बन्द कर रख छोड़ा । उसी समय ज्योतिषियोंको आमन्त्रित किया और उन लोगोंसे उसी रातमें

११६ दशकुमारचरितम् । [ उत्तरपीठिकायां

११६ दशकुमारचरितम् । [ उत्तरपीठिकायां यामतिमात्राभिलाषः प्राणैरैनं न व्ययूयुजत् । अपि त्वनीनयदपनीता- शेषशल्यमकल्पसंधो बन्धनम् । अजीगणच्च गणकसंघैः 'अद्यैव क्षपाव- साने विवाहनीया राजदुहिता' इति । (१२) कृतकौतुकमङ्गले च तस्मिन्नेकपिङ्गाचलात्प्रतिनिवृत्त्यैणजङ्घो नाम जङ्घाकरिकः प्रभवतो दर्पसारस्य प्रतिसन्देशमावेदयत् - 'अयि मूढ, किमस्ति कन्यान्तःपुरदूषकेऽपि कश्चित्कृपावसरः । स्थविरः स राजा जराविलुप्तमानावमानचित्तो दुश्चरितदुहितृपक्षपाती यदेव किञ्चित्प्रलपति त्वयापि किं तदनुमत्या स्थातव्यम् । अविलम्बितमेवं तस्य कामोन्मत्तस्य चित्रवधवार्ताप्रेषणेन श्रवणोत्सवोऽस्माकं विधेयः । सा च दुष्टकन्या सहानुजेन कीर्तिसारेण निगडितचरणा चारके निरोद्धव्या इति । बन्धनं कारागृहम् । बन्धनमिति द्वितीयं कर्म, नयतेर्द्विकर्मकत्वात् । अजीगणत् गणयामास । गणकसंघैः ज्योतिषिकैः । क्षपावसाने रात्रिशेषे । (१२) कृतकौतुकेति-कृतं विहितं कौतुकं मङ्गलं विवाहसम्बन्धि कृत्यं येन तस्मिन् । तस्मिन् चण्डवर्मणि । एकपिङ्गाचलात् तदाख्यपर्वतात् । प्रतिनिवृत्य आगत्य । जंघाकरिकः वेगगामी दूतः । प्रभवतः प्रभोः । प्रतिसन्देशं प्रत्युत्तरम् । अयि मूढेति चण्डवर्मणः सम्बोधनम् । कन्यान्तःपुरेति-यः कन्यान्तःपुरं प्रविश्य दूषयति तस्मिन् । अत्र राजवाहने इत्यर्थः । कृपावसरः करुणाया अवकाशः । अस्ति किं नास्तीत्यर्थः । स्थविरो वृद्धः । स राजा मानसारः । जरेति-जरया वार्द्धकेन विलुप्तौ नाशितौ मानापमानौ यस्य तादृशं चित्तं यस्य सः । चित्रवधेति- चित्रेण प्रकारेण यो वधस्तस्य वार्त्ताप्रेषणेन-अद्भुतोपायेन तं निहत्य तद्वृत्तान्तज्ञा- पनेनेत्यर्थः । श्रवणयोः कर्णयोरुत्सव आनन्दः । निगडितचरणा निबद्धपादयुगला । चारके बन्धनालये । इत्यन्तं दर्पसारस्य सन्देशवचनम् । अम्बालिकाके साथ परिणय होनेका शुभलग्न निकालने की प्रार्थना की जिससे विवाह शीघ्र रातमें ही हो जाय । (१२) वैवाहिक मांगलिक कार्य हो जानेके पश्चात् एणजंघ नामक एक सेवक कैलास पर्वतपरसे महाराज दर्पसारका प्रतिसन्देश लेकर आया और बोला - 'महाराज की आज्ञा है कि अरे मूर्ख ! राजपुत्रीके अन्तःपुरमें प्रविष्ट होकर व्यभिचार करनेवाले दुष्टपर भी कभी दया की जाती है ! वह राजा तो अत्यन्त वृद्ध हो गया है इस कारण उसके अन्तः- करणमें मानापमानके भाव नहीं रह गये हैं । यह बात स्वाभाविक भी है । ऐसा दशामें यदि वह अपनी दुश्चरित्रा पुत्रीका पक्षपात करता हुआ बकवाद करता है तो क्या तुम भी

प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ११७ ( १३ ) तच्चाकर्ण्य 'प्रातरेव राजभवनद्वारे स च दुरात्मा कन्या- न्तःपुरदूषकः संनिधापयितव्यः । चण्डपोतश्च मातङ्गपतिरुचितकल्पनो- पपन्नस्तत्रैव समुपस्थापनीयः ! कृतविवाहकृत्यश्चोत्थायाहमेव तमनार्य- शीलं तस्य हस्तिनः कृत्वा क्रीडनकं तदधिरूढ एव गत्वा शत्रुसाहाय्याय प्रत्यासीदतो राजन्यकस्य सकोशवाहनस्यावग्रहणं करिष्यामि' इति पार्श्व- चरानवेक्षांचक्रे । निन्ये चासावहन्त्यन्यस्मिन्नुन्मिषत्येवोषोरागे राजपुत्रो राजाङ्गणं रक्षिभिः । उपतस्थे च क्षरितगण्डश्चण्डपोतः । ( १३ ) संनिधापयितव्यः सन्निधौ स्थापयितव्यः । चण्डपोतस्तदाख्यो मातङ्ग- पतिर्गजराजः । उचिताभिर्योग्याभिः कल्पनाभिरलङ्कारादिसाधनैरुपपन्नो युक्तः । तत्रैव राजभवनद्वारे । समुपस्थापनीयः आनेतव्यः । अनार्यशीलं दुष्टस्वभावम् । तं राजवाहनम् । क्रीडनकं क्रीडनसाधनं खेलनमिति यावत् । तदधिरूढः—तमेव गजमधिरुह्येत्यर्थः । शत्रुसाहाय्याय शत्रोः सिंहवर्मणः साहाय्यं कर्तुम् । प्रत्या- सीदतः समीपमागच्छतः । राजन्यकस्य क्षत्रियसमूहस्य । अवग्रहणं प्रतिबन्धं बन्धनमिति यावत् । पार्श्वचरान् पार्श्वस्थवीरान् । अवेक्षांचक्रे ददर्श, सावधानांश्चक्रे वा । निन्ये चेति—असौ राजपुत्रः राजवाहनः अन्यस्मिन् अहनि दिवसे उन्मिषति स्फुरति उषोरागे प्रभातसम्बन्धिरक्तिम्नि रक्षिभिः रक्षाधिकृतैः राजाङ्गणं निन्ये नीतः । उपतस्थे—उपस्थितोऽभवत् । क्षरितगण्डः स्रवत्कपोलः । उसी के कथनानुसार कार्य करोगे ? यदि नहीं, तो शीघ्र ही क्रूरता के साथ उसकी हत्या का वृत्तान्त भेजकर मेरी आत्मा को प्रसन्न करो उसके छोटे भाई कीर्तिसार को भी हाथ-पाँव बाँधकर कारागार में डाल दो । ( १३ ) यह वृत्त श्रवण करते ही उसने अपने दासों को आदेश दिया—'कल प्रातःकाल ही राजवाहन राजद्वार पर उपस्थित किया जाय । हाथियों में श्रेष्ठ हाथी चण्डपोत भी अलंकृत किया जाकर वहाँपर तैयार खड़ा रहे। वैवाहिक मांगलिक कार्य सम्पन्न होते ही वहाँपर आ जाऊँगा और अपने सामने उसे उस हाथी से कुचलवा करके मरवा डालूँगा। तत्पश्चात् उसी हाथी पर चढ़कर मैं उन दुराचारी राजाओंपर भी आक्रमण कर दूँगा जो सिंहवर्मा की सहायता के लिए आये थे। मैं उनपर आक्रमण करके उनके सैन्य तथा निधिपर अधिकार जमा लूँगा। चण्डवर्मा की आज्ञानुसार सूर्योदय होते ही सेवकों ने राजवाहन को ले जाकर राजद्वार पर उपस्थित कर दिया । हाथियों में प्रमुख हाथी चण्डपोत भी सजा हुआ वहाँ खड़ा था । उसके गण्डप्रदेश से मदधारा बह रही थी ।

११८ दशकुमारचरितम् । [ उत्तरपीठिकायां

११८ दशकुमारचरितम् । [ उत्तरपीठिकायां ( १४ ) क्षणे च तस्मिन्मुमुचे तदङ्घ्रियुगलं रजतशृङ्खलया । सा चैनं चन्द्रलेखाच्छविः काचिदप्सरा भूत्वा प्रदक्षिणीकृत्य प्राञ्जलिव्र्यजि- ज्ञपत्—'देव, दीयतामनुग्रहार्द्रं चित्तम् । अहमस्मि सोमरश्मिसम्भवा सुरतमञ्जरी नाम सुरसुन्दरी । तस्या मे नभसि नलिनलुब्धमुग्धकलहंसा- नुबद्धवक्त्रायास्तन्निवारणलोभविच्छिन्नविगलिता हारयष्टिर्यदृच्छया जातु हैमवते मन्दोदके मग्नोन्मग्नस्य महर्षेर्मार्कण्डेयस्य मस्तके मणिकिरण- द्विगुणितपलितमपतत् । ( १४ ) मुमुचे मुक्तमभवत् । तदङ्घ्रियुगलं राजवाहनचरणद्वयम् । सा रजतशृङ्खला । एनं राजवाहनम् । चन्द्रलेखाया ज्योत्स्नायाः छविरिव छविर्यस्याः सा । काचित्-अनिर्वचनीया । व्यजिज्ञपत् निवेदितवती । दीयतामनुग्रहार्द्रं चित्तम् अनुग्रहेण कृपया आर्द्रं सिक्तं - चित्तमित्यस्य विशेषणम् । मयि प्रसन्नो भवेति भावः । सोमरश्मिसम्भवा-तदाख्यगन्धर्वकन्या । सुरसुन्दरी अप्सराः । नभसि आकाशे नलिने पद्मे लुब्ध आसक्तो मुग्धो मूढो यः कलहंसो राजहंसस्तेनानुबद्ध- मनुसृतं वक्त्रं मुखं यस्यास्तथाभूतायाः मन्मुखं नलिनं बुद्ध्वा कलहंसस्तदनुसरती त्यर्थः । मे इत्यस्य विशेषणम् । तन्निवारणेति-तस्य कलहंसस्य निवारणे यः क्षोभ- श्चाञ्चल्यं तेन विच्छिन्ना त्रुटिता अत एव विगलिता भ्रष्टा-हारयष्टिर्हारलता । यदृ- च्छया स्वेच्छया । जातु कदाचित् हैमवते मन्दोदके हिमालयसम्बन्धिनि स्वल्प- जले । मग्नोन्मग्नस्य स्नानं कुर्वतः । मणिकिरणैति-क्रियाविशेषणम् । मणिकिरणै- र्हारस्थरत्नमयूखैर्द्विगुणितं वर्द्धितं पलितं जराजनितशौक्ल्यं यत्र तद्यथा तथा । ( १४ ) उस समय राजवाहनके पैरोंमें पड़ी हुई चाँदीवाली वह जंजीर आप ही आप टूट गयी तथा वह जंजीर एक स्त्रीका रूप धरकर उस राजवाहनके सामने हाथ जोड़कर खड़ी हो गयी और कहने लगी- 'हे देव ! मेरे ऊपर कृपा कीजिये' मैं चन्द्रमासे प्रादुर्भूत किरणोंसे उत्पन्न सुरतमंजरी नामक अप्सरा हूँ। एक बार मैं अपनी इच्छासे आकाशमें घूम रही थी । उस समय एक कलहंस उड़ता हुआ आया और उसने मेरे मुखको कमल समझकर आच्छादित कर लिया । इस कारण मैं घबड़ा गयी । व्याकुलताके साथ उसे हटाते हुए अनजानमें मेरे गलेकी माला टूट गयी । उसी समय हिमवान् पर्वतके तालावमें श्रीमार्कण्डेय ऋषि डुबकियाँ लगा-लगाकर नहा रहे थे । मेरी वह माला जाकर उन के शुभ्र और लम्बी-लम्बी जटावाले मस्तकपर गिरीं ।

प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ११९ ( १५ ) पातितश्च कोपितेन कोऽपि तेन मयि शापः- 'पापे, भजस्व लोहजातिमजातचैतन्या सती' इति । स पुनः प्रसाद्यमानस्त्वत्पादपद्मद्व- यस्य मासद्वयमात्रं सन्दानतामेत्य निस्तरणीयामिमामापदमपरिक्षीणश- क्तित्वं चेन्द्रियाणामकल्पयत् । अनल्पेन च पाप्मना रजतशृङ्खलीभूता मामैक्ष्वाकस्य राज्ञो वेगवतः पौत्रः, पुत्रो मानसवेगस्य, वीरशेखरो नाम विद्याधरः शङ्करगिरौ समध्यगमत् । आत्मसात्कृता च तेनाहमासम् । ( १६ ) अथासौ पितृप्रयुक्तवैरे प्रवर्त्तमाने विद्याधरचक्रवर्तिनि वत्स- ( १५ ) पतितो दत्तः । कोपितेन क्रुद्धेन । कोपः सञ्जातोऽस्येतीतच् । लोह- जातिं लोहभावम् । अजातचैतन्या चैतन्यरहिता । सः मार्कण्डेयः । प्रसाद्यमानः प्रसन्नीक्रियमाणः । मयेति शेषः । त्वत्पादेति-तव भवतो राजवाहनस्येत्यर्थः । पाद्- पद्मद्वयस्य चरणकमलयुगलस्य । मासद्वयं प्रमाणमस्येति मात्रच्प्रत्ययः । सन्दानतां बन्धनत्वम् । 'सन्दानं पादबन्धनमि'त्यमरः । एत्य प्राप्य । निस्तरणीयाम् उद्धर- णीयां समाप्यामिति यावत् । इमामापदं- शृङ्खलात्वप्राप्तिरूपाम् । अपरिीणश- क्तित्वम् अनष्टस्वस्वविषयग्रहणसामर्थ्यम् । इन्द्रियाणां चक्षुरादीनाम् । अकल्पयत् सम्पादयामास । पाप्मना पापेन । ऐक्ष्वाकस्य इक्ष्वाकुवंशीयस्य वेगवतः वेगवा- निति नाम्नः । शङ्करगिरौ कैलासे । समध्यगमत् प्राप । मामिति शेषः । आत्मसा- त्कृता गृहीता । ( १६ ) असौ वीरशेखरः । पित्रा स्वजनकेन मानसवेगेनेत्यर्थः । प्रयुक्तं कृतं ( १५ ) बस, इसी कारण वे मुनिवर क्रुद्ध हो गये और मुझे शाप दे दिया कि ओ पापे ! जा, निर्जीव होकर लौह-द्रव्यमें एकीभूत हो जा । उनके शापको श्रवण कर जब मैंने उनसे अनुनय-विनयपूर्वक बड़ी प्रार्थना की तब उन्होंने मेरे शापकी अवधि निश्चित की कि मुझे दो मासों तक आपके पैरोंमें पड़े रहना पड़ेगा, तत्पश्चात् मेरी मुक्ति हो जायगी । साथ ही मुझे यह भी सुविधा प्रदान कर दी कि चेतनाहीन अवस्थामें भी मुझे इन्द्रियोंका ज्ञान और शक्ति का अनुभव होता रहे । इस प्रकार एक असाधारण अपराधके कारण मुझे चाँदीकी जंजीर बनना पड़ा । शापके अनुसार जब मेरी यह अवस्था हुई तब इक्ष्वाकुवंशी राजा वेगवानके पौत्र तथा मानसवेगके पुत्र वीरशेखर नामक विद्याधर कैलास पर्वतपर आ पहुँचे । उन्होंने जंजीररूपमें मुझे अवलोकित करके उठा लिया और अण्टीमें रख लिया । ( १६ ) तब कुछ दिनों के पश्चात् वीरशेखर और उनके पितामें वैमनस्य हो गया,

१२० दशकुमारचरितम् । [ उत्तरपीठिकायां

१२० दशकुमारचरितम् । [ उत्तरपीठिकायां राजवंशवर्धने नरवाहनदत्ते विरसाशयस्तदपकारक्षमोऽयमिति तपस्यता दर्पसारेण सह समसृज्यत । प्रतिश्रुतं च तेन तस्मै स्वसुरवन्तिसुन्दर्याः प्रदानम् । ( १७ ) अन्यदा तु वियति व्यवदायमानचन्द्रिके मनोरथप्रियतमा- मवन्तिसुन्दरीं दिदृक्षुरवशेन्द्रियस्तदिन्द्रमन्दिरद्युति कुमारीपुरमपासरात् । अन्तरितश्च तिरस्करिण्या विद्यया । स च तां तदा त्वदङ्गापाश्रयां सुरत- यद्वैरं शत्रुत्वं तस्मिन् । प्रवर्त्तमाने तिष्ठति । वत्सराजवंशवर्द्धने वत्सराजकुलोत्पन्ने । विरसाशयः क्रान्तःकरणः । तदपकारेति—तस्य नरवाहनदत्तस्यापकारे विग्रहे क्षमः समर्थोऽयं दर्पसार इति मत्वा । तपस्यता तपस्कुर्वता । समसृज्यत मिलितोऽ- भवत् । प्रतिश्रुतं प्रतिज्ञातम् । तेन दर्पसारेण । तस्मै वीरशेखराय । स्वसुः भगिन्याः । ( १७ ) अन्यदा अन्यदिने । वियति आकाशे । व्यवदायमानचन्द्रिके निर्मल- ज्योत्स्ने व्यवपूर्वकस्य दैप् शोधन इत्यस्य धातो रूपम् । मनोरथेति-मनोरथेनैव असम्पन्नविवाहत्वान्मनसैव नतु कर्मणेति भावः । प्रियतमा वल्लभा ताम् । अव- शानि विकलानि इन्द्रियाणि यस्य स वीरशेखर इति शेषः । इन्द्रमन्दिरस्य महेन्द्रगृहस्य द्युतिरिव द्युतिः शोभा यस्य तत् । कुमारीपुरमिरत्यस्य विशेषणम् । उपासरत् अगच्छत् । अन्तरित आच्छादितः ! तिरस्करिण्या अन्तर्धानकारिण्या । स च वीरशेखरश्च । ताम् अवन्तिसुन्दरीम् । त्वदङ्केति—तव भवतो राजवाहनस्यै- जिस कारण वे विद्याधरोंके सार्वभौम तथा वत्सराजके वंशके अप्रतिम पुरुष नरवाहनदत्तसे जा मिले । परन्तु उससे कुछ इन्हें सहायता नहीं प्राप्त हुई और उन्हें वहाँसे हताश होकर लौटना पड़ा । तब बहुत विचार विमर्श करके वे कैलासपर्वतपर तपस्या करते हुए राजा दर्पसारसे जा मिले, क्योंकि उन्हें यह विश्वास था कि राजा दर्पसार उनके पिताके अखण्ड गर्वका खण्डन कर सकते हैं । उन वीरशेखरने दर्पसारसे मिलकर उन्हें वाक्यप्रदान किया कि यदि आप मेरी सहायता करेंगे तो मैं अपनी भगिनी अवन्तिसुन्दरीका परिणय आपसे कर दूँगा । ( १७ ) तदनन्तर एक दिन जब सारा जगतीतुल चन्द्रकिरणोंसे परिव्याप्त था तब उन किरणोंसे व्याकुल होकर दर्पसार अपनी अभिलषित प्रियतमा अवन्तिसुन्दरीसे भेंट करनेके लिए उसके उस अन्तःपुरमें प्रविष्ट हो गया जो इन्द्रभवनके समान सजा हुआ भला लगता था । दर्पसार उस समय अपने आपको तिरस्करिणी विद्यासे गुप्त किये हुए था । वहाँ पहुँचकर उसने देखा कि उसकी प्रेयसी सुरतजनित श्रमसे व्यथित होकर आपकी गोदमें सो रही है । वह आपके द्वारा तीनों लोकोंकी कथाओंको श्रवण कर Nepal Sanskrit University, Balmeeki Campus, Kathmandu

प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । १२१ खेदसुप्तगात्रीं त्रिभुवनसर्गयात्रासंहारसबद्धाभिः कथाभिरमृतस्यन्दिनीभिः प्रत्यानीयमानरागपूरां न्यरूपयत् । ( १८ ) स तु प्रकुपितोऽपि त्वदनुभावप्रतिबद्धनिग्रहान्तराध्यवसायः समालिङ्ग्येतेरतरमत्यन्तसुखसुप्तयोर्युवयोर्दैवदत्तोत्साहः पाण्डुलोहशृङ्ख- लात्मना मया पादपद्मयोर्युगलं तव निगड़यित्वा सरोषरभसमपासरत् । अवसितश्च ममाद्य शापः । तच्च मासद्वयं तव पारतन्त्र्यम् । प्रसीदेदा- नीम् । किं तव करणीयम्' इति प्रणिपतन्तीं 'वार्तयानया मत्प्राणसमां समाश्वासय' इति व्यादिश्य विससर्ज । स्यर्थः । अङ्के क्रोडदेशे अपाश्रयः शिरोभागो यस्यास्ताम् । सुरतखेदसुप्तगात्रीं रतिखेदनिश्शलावयवाम् । त्रिभुवनेति - त्रिभुवनस्य सर्ग उत्पत्तिः यात्रा स्थितिः संहारः प्रलयश्च तैः सम्बद्धाभिः संसृष्टाभिः । अमृतस्यन्दिनीभिः सुधास्राविणीभिः । प्रत्यानीयमान उत्पाद्यमानो रागपूरोऽनुरागातिशयो यस्यास्ताम् । न्यरूपयत् ददर्श । ( १८ ) सः वीरशेखरः । त्वदनुभावेति-तव भवतोऽनुभावेन प्रतापेन प्रति- बद्धो रुद्धः निग्रहान्तरस्य शृङ्खलया पादबन्धनं विना अन्यविधनिग्रहस्य अध्यव- सायोडभिप्रायो यस्य सः । इतरेतरं परस्परम् । युवयोः अवन्तिसुन्दर्याः राजवा- हनस्य चेत्यर्थः । पाण्डुलोहेति-पाण्डुलोहस्य रजतस्य शृङ्खला आत्मा स्वरूपं यस्यास्तया । मयेत्यस्य विशेषणम् । मया सुरतमञ्जर्या इत्यर्थः । निगडयित्वा बद्ध्वा । निगडितं करोतीति नामधातुः । सरोषरभसं सक्रोधवेगम् । अपासरत् अन्तर्दधौ । अवसितः समाप्तः । पारतन्त्र्यं पराधीनता । व्यादिश्य कथयित्वा । वार्त्तयेत्यादिसमाश्वासयेत्यन्तस्य कर्म । गद्गद एवं पुलकित हो गयी थी तथा आपके लिए उसके चित्तमें प्रेमकी लहरें उच्छाले मार रही थीं । (१८) इस रीतिसे आपको अपनी कामनापूर्त्तिमें अति विपुल अन्तराय ज्ञात कर उस दर्पसारको बड़ा रोष आया । परन्तु, आपके प्रतापके समक्ष वह कुछ करनेमें अशक्त था । अन्ततो गत्वा दुर्भाग्यवश जब आप दोनों परस्पर लिपटे हुए सो रहे थे, उसने मुझे (चाँदीकी जंजीरको) आपके दोनों पैरोंमें कसकर बाँध दिया तथा उसी रोषके आवेगमें वह अति चपलतासे भाग गया । आज मेरे शापकी अवधि पूर्ण हो गयी क्योंकि दो मासों तक मैं परतन्त्रा रह चुकी । अब मुझपर दया कीजिये और आज्ञा दीजिये कि मैं आपकी क्या सेवा करूँ ।' ऐसा कहकर उस अप्सराने उन्हें प्रणाम किया । यह सुनकर राजवाहनने उससे कहा-'आप मेरा समस्त वृत्त मेरी प्रियतमा को सुनाकर उसे धीरज बँधा दें। ऐसा कहकर उन्होंने उसे विदा दे दी ।

१२२ दशकुमारचरितम् । [ उत्तरपीठिकायां

१२२ दशकुमारचरितम् । [ उत्तरपीठिकायां ( १६ ) तस्मिन्नेव क्षणान्तरे 'हतो हतश्चण्डवर्मा सिंहवर्मदुहितुरम्बा- लिकायाः पाणिसर्शरागप्रसारिते बाहुदण्ड एव बलवदवलम्ब्य सरभस- माकृष्य केनापि दुष्करकर्मणा तस्करेण नखप्रहारेण राजमन्दिरोद्देशं च शवशतमयमापादयन्नचकितगतिरसौ विहरति' इति वाचः समभवन् । श्रुत्वा चैतत्तमेव मत्तहस्तिनमुदस्ताधोरणो राजपुत्रोऽधिरुह्य रंहसोत्तमेन राजभवनमभ्यवर्तत । ( २० ) स्तम्बेरमर्याावधूतपदातिदत्तवर्त्मा च प्रविश्य वेश्माभ्यन्तर- ( १९ ) पाणिस्र्शेति- पाणिस्र्शे करग्रहणे विवाहे इति यावत् , यो रागो- ऽनुरागस्तेन प्रसारिते विस्तारिते । बाहुदण्डे भुजदण्डे । वलवद् दृढम् । अवल- म्ब्य गृहीत्वा । सरभसं सवेगम् । तस्करेणेति हत इति क्रियायाः कर्त्तरि तृतीया । नखप्रहारेण छुरिकाघातेन । करणे तृतीया । राजमन्दिरोद्देशं नृपगृहप्रदेशम् । आपादयन् कुर्वन् । अचकितगतिः अन्नस्तगमनः । असौ तस्करः । इति वाचः एवम्भूताः गिरः । समभवन् उद्भूताः । तमेव चण्डवर्माधिष्ठितम् । उदस्तो दूरी- कृत आधोरणो हस्तिपको येन सः । राजपुत्र इत्यस्य विशेषणम् । रंहसा वेगेन । उत्तमेन अतिशयितेन । अभ्यवर्त्तत प्राचलत् । ( २० ) स्तम्बेरमेति - स्तम्बेरमस्य हस्तिनो रयेण वेगेन अवधूता दूरीकृता ये पदातयः पत्तयस्तैर्दत्तं वर्त्म मार्गो यस्यासौ । हस्तिपदपेषणभयात्पदातयो मार्गं परिहृत्य दूरंगता इति भावः । अदभ्रेति-अदभ्रो बहुलो योऽभ्रनिर्घोषो मेघगर्जितं ( १९ ) इसके कुछ ही क्षण पश्चात् यह कोलाहल मचा कि चण्डवर्मा मार डाला गया । जिस समय उसने सिंहवर्माकी पुत्री अम्वालिकाके पाणिग्रहणके लिए अपना प्रेमपूर्ण हाथ पसारा, उसी समय किसीने बलात् उसका हाथ पकड़कर उसे खींच लिया तथा यमपुरको भेज दिया । उस एकाकी किन्तु साहसी वीरपुंगवने अपने नखोंके प्रहारोंसे राजप्रासादके द्वारपर सैकड़ों राजपुरुषोंको मार डाला और उनके शवोंकी राशियाँ एकत्र कर दीं तथा अभी वह निर्भीक भावसे वहीं विचरण कर रहा है । यह शोर सुनते ही राजवाहनने उस मतवाले हाथी के महावतको हटा दिया तथा स्वयं हाथीको हाँकता प्रबल वेगसे राजमहलकी ओर चल पड़ा । ( २० ) वेगसे हाथीके जानेके कारण सभी लोग मार्गमें एक ओर होकर रास्ता छोड़ रहे थे अतः वह अतिशीघ्र राजद्वार पर जा पहुँचा । वहाँ पहुँचते ही उसने मेघके समान गम्भीर गर्जन किया और भवनके भीतर जाकर कहा-'वह कौन महापुरुष है जिसने मानवी शक्तिके परे इतना बड़ा काम क्षणमात्रमें कर दिया है । वह शीघ्र दर्शन दे और मेरे

प्रथमोच्छ्वासः ] व्याख्याद्वयोपेतम् । १२३ मदभ्राभ्रनिर्घोषगम्भीरेण स्वरेणाभ्यधात्—'कः स महापुरुषो येनैतन्मा- नुषमात्रदुष्करं महत्कर्मानुष्ठितम् । आगच्छतु मया सहेमं मत्तहस्तिन- मारोहतु । अभयं मदुपकण्ठवर्तिनो देवदानवैरपि विगृह्णानस्य' इति । (२१) निशम्यैवं स पुमानुपोढहर्षो निर्गत्य कृताञ्जलिराक्रम्य संज्ञा- संकुचितं कुञ्जरगात्रमसक्तमभ्यरुक्षन् । आरोहन्तमेवैनं निर्वर्ण्य हर्षोत्फु- ल्लदृष्टिः 'अये, प्रियसखोऽयमपहारवर्मैव' इति पश्चान्निषीदतोऽस्य बाहु- दण्डयुगलमुभयभुजमूलप्रवेशितमग्रेऽवलम्ब्य स्वमङ्गममालिङ्गयामास । स्वयं च पृष्ठतो वलिताभ्यां भुजाभ्यां पर्यवेष्टयत् । तद्वद् गम्भीरेण । अभ्यधात् अकथयत् । मानुषमात्रेण साधारणमानवेन दुष्करं कर्तुमशक्यम् । महत्कर्म चण्डवर्ममारणरूपम् । अनुष्ठितं कृतम् । मदुपकण्ठवर्त्तिनः मत्समीपस्थितस्य । विगृह्णानस्य विरोधं कुर्वतः । (२१) निशम्य श्रुत्वा । उपोढः प्राप्तो हर्षो येन सः । आक्रम्य पादविक्षेपे- णागत्य । संज्ञया सङ्केतेन सङ्कुचितं खर्वीकृतम् । कुञ्जरगात्रं हस्तिशरीरम् । अस- क्तमलग्नं यथा तथा । हस्तिनमस्पृष्ट्वेत्यर्थः । निर्वर्ण्य दृष्ट्वा । हर्षोत्फुल्लदृष्टिः प्रीतिवि- कसितनयनः । अये विस्मयसूचकमव्ययमेतत् । प्रियसखः प्रियमित्रम् । निषीदतः उपविष्टस्य । अस्य अपहारवर्मणः । उभयभुजमूले स्वस्योभयकक्षे । प्रवेशितं विन्य- स्तम् । अग्रे अग्रभागे । अवलम्ब्य गृहीत्वा । स्वं स्वकीयं राजवाहनस्येत्यर्थः । अङ्गं शरीरम् । आलिङ्गयामास तेनापहारवर्मणेति शेषः । पृष्ठतः पृष्ठभागे । वलिताभ्यां वक्रीकृताभ्याम् । पर्यवेष्टयत् समालिङ्ग अपहारवर्माणमिति शेषः । अभिमुखं स्थितयोरेव द्वयोरालिङ्गनं स्वाभाविकं भवति अत्र तु गजपृष्ठमधिरूढयोस्तयोस्तद्- सम्भ्रमतः प्रातिलोम्येन कथंचिदङ्गसम्मेलनं जातमिति निष्कर्षः । साथ इस मतवाले हाथीपर सवार होवे । देवगणों और राक्षसोंसे भी शत्रुता करनेवाला वह महापुरुष मेरे पास आवे—मैं उसे अभयदान दे रहा हूँ ।' (२१) उपर्युक्त वाणी श्रवण कर उस महापुरुषको परमानन्द प्राप्त हुआ और वह हाथ जोड़कर राजवाहनके सामने आकर उपस्थित हो गया । पुनः राजवाहनके संकेतसे वह हाथीपर जा बैठा । परन्तु, हाथीपर उसने ऐसी रीतिसे बैठना चाहा जिसमें राजवाहनकी देहसे उसकी देहका सस्पर्श न हो । परन्तु, हाथीपर चढ़नेके पश्चात् राजवाहनने भली-भांति निरीक्षण करके उस व्यक्तिको आकृतिसे पहचान लिया और झट अपने बाहुपाशमें उसे आलिंगन करते हुए कहा—'अरे, तुम तो मेरे परम मित्र अपहारवर्मा हो !' ऐसा कहकर ६ द० कृ० उ०