भारतकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

२०० दशकुमारचरितम् । [ उत्तरपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF २०० दशकुमारचरितम् । [ उत्तरपीठिकायां पर्यङ्कतले दक्षिणपादपाष्ण्र्यधोभागानुवलितेतरचरणाग्रपृष्ठम् , ईषद्विवृत- मधुरगुल्फसंधि, परस्पराश्लिष्टजङ्घाकाण्डम् , आकुञ्चितकोमलोभयजानु, किंचिद्वेल्लितोरुदण्डयुगलम् , अधिनितम्बस्रस्तमुक्तैकभुजलताग्रपेशलम् , अपाश्रयान्तनिमिताकुञ्चितेतरभुजलतोत्तानतलकरकिसलयम् , आभुग्नश्रो- णिमण्डलम्, अतिश्लिष्टचीनांशुकान्तरीयम्, अनतिवलिततनुतरोदरम् , अतनुतरनिःश्वासारम्भकम्पमानकठोरकुचकुड्मलम् , आतिरश्चीनबन्धुर- खट्वायाम् । दक्षिणेति-दक्षिणपादस्य पाष्र्णेः पश्चाद्भागस्याधोभागेन निम्नप्रदेशेन अनुवलितं युक्तं इतरचरणस्य वामपादस्याग्रपृष्ठमग्रभागोपरितलं यस्मिन् कर्मणि तद् यथा-तथेति इदं वक्ष्यमाणानि च क्रियाविशेषणानि । ईषदिति-ईषद्विवृतः किञ्चित्प्रकटितो मधुरो मनोहो गुल्फयोर्घुटिकयोः सन्धिः संयोगो यस्मिन् तद् यथा तथा । परस्परेति-परस्परमन्योन्यमाश्लिष्टः संलग्नो जंघाकाण्डो यस्मि- स्तद् यथा तथा। आकुञ्चितेति-आकुञ्चिते ईषद्वक्रीकृते कोमले उभयजानुनी यस्मिंस्तद् यथा तथा। किञ्चिदिति-किञ्चिद्वेल्लितमीषत्सङ्कुचितमूरुदण्डयुगलं यस्मिंस्तद् यथा तथा । अधिनितम्बेति-अधिनितम्बं नितम्बस्योपरिस्रस्तं शि- थिलं यथा स्यात्तथा मुक्तं निःक्षिप्तं यदेकस्या भुजलताया अग्रम्ग्रभागस्तेन पेशलं मनोज्ञं यथा तथा । अपाश्रयेति-अपाश्रयस्य पर्यङ्कशिरोभागस्यान्ते प्रान्ते निमितं निःक्षिप्तम् आकुञ्चितेतरायाः प्रसारिताया भुजलताया बाहुवल्लयाः, उत्तानं तलं यस्य तादृशः करः किसलयमिव करकिसलयं यस्मिंस्तद् यथा तथा। आभुग्नश्रो- णिमण्डलं ईषद्वक्रीकृतनितम्बम् । अतिश्लिष्टेति-अतिश्लिष्टं अतिशयेन शरी- रलग्नं चीनांशुकस्य चीनदेशीयसूक्ष्मवस्त्रस्यान्तरीयमधोवस्त्रं यस्मिंस्तद् यथा तथा। अनतीति-अनतिवलितंमीषत्कम्पितं तनुतरमतिशीणमुदरं कुक्षिदेशो यस्मिंस्तत्तथा तथा । अतनुतरेति-अतनुतरेण दीर्घेण निःश्वासारम्भेन कम्प- माने चंचले कठोरे अतिदृढे कुचकुड्‌मले स्तनमुकुले यस्मिंत्तद्यथा तथा निद्रि- मनोहर गुल्फोंकी टेहुनेकी सन्धि प्रकटित है। थोड़े संकुचित एवं परस्पर सटे हुए जंघास्तम्भोंसे युक्त और थोड़े संकुचित कोमल दोनों जानुओं ( घुटनों ) से युक्त, एवं कुछ संकुचित ऊरुदण्डों ( जांघों ) से परिव्याप्त तथा नितम्ब भागके ऊपर एक शिथिल लतारूपी हस्त बड़ा सुन्दर दीख रहा है। पलंगके शिरोभागमें संकुचित करके धरा हुआ दूसरा लतारूपी हाथ जिसका तल ( हथेली ) उत्तान है। पल्लवके समान सुन्दर दिखायी दे रहा है। जिसने अपना नितम्बस्थल थोड़ा संकुचित कर लिया है। जिसके शरीरके अधोभागमें अतिशय करके चीन देशके बारीक रेशमी वस्त्र शोभा दे रहे हैं। Nepal Sanskrit University, Balmeeki Campus, Kathmandu

शिरोधरोद्देशदृश्यमाननिष्टप्ततपनीयसूत्रपर्यस्तपद्मरागरुचकम्, अर्धल- दयाधरकर्णपाशनिभृतकुण्डलम्, उपरिपरावृत्तश्रवणपाशरत्नकर्णिकाकिरण- मञ्जरीपिञ्जरितविषमव्याविद्धाशिथिलशिखण्डबन्धम्, आत्मप्रभापटलदु- र्लक्ष्यपाटलोत्तराधरविवरम्, गण्डस्थलीसंक्रान्तहस्तपल्लवदर्शितकर्णावतं- सकृत्यम्, उपरिकपोलादर्शवलनिषक्तचित्रवितानपत्रजातजनितविशेषक-

ताया निःश्वासाधिक्यादतनुतरेणेति । आतिरश्चीनेति-आतिरश्चीने ईषद्वक्रे बन्धुरे उन्नतानते शिरोधरोद्देशे ग्रीवाप्रदेशे दृश्यमानं लक्ष्यमाणं निष्टप्ते गलिते तप- नीयसूत्रे सुवर्णतन्तौ पर्यस्तं लम्बमानं पद्मरागरुचकं पद्मरागनिर्मितग्रीवाभरणवि- शेषो यस्मिंस्तद् यथा तथा । अर्धलक्ष्येति-अर्धलक्ष्यः अर्धदृश्यमानः अधरः अधोभागो यस्य तादृशमिति कुण्डलविशेषणं कर्णपाशे शोभनकर्णे निभृतं निश्चलं कुण्डलं यस्मिन् कर्मणि तद् तथा तथा । उपरीति-उपरि ऊर्ध्वदेशे परावृत्तः समुत्तानो यः श्रवणपाशः कर्णपाशस्तस्य रत्नकर्णिकायाः रत्ननिर्मित- कर्णाभरणस्य किरणमञ्जरीभिर्मयूखमालाभिः पिञ्जरितः पिञ्जीकृतः विषमव्या- विद्धः । विषमप्रकारेण बद्धः वेणीकृत इति यावत् अतएवाशिथिलः अस्तस्तः शिखण्डबन्धः केशकलापो यस्मिंस्तत्तथा तथा। आत्मप्रभेति-आत्मनः स्वस्यैव प्रभापटलेन कान्तिनिचयेन दुर्लक्ष्यमविभाव्यं पाटलस्य श्वेतरक्तस्य उत्तराधर- स्योष्ठस्य विवरं छिद्रं यस्मिंस्तत्तथा तथा । गण्डस्थलीति-गण्डस्थल्यां कपोल- देशे संक्रान्तो मिलितो यः करपल्लवः करकिसलयं तेन दर्शितं प्रकटितं कर्णा- वतंसस्य कर्णभूषणस्य कृत्यं कार्यं यस्मिंस्तत्तथा तथा । कपोलसंक्रान्तकर एव तस्याः कर्णपल्लवोऽभवदिति भावः । उपरीति-उपरिकपोलः उत्तानगण्डप्रदेशः स एवादर्शो मुकुरस्तस्य तले निषक्तेन प्रतिबिम्बितेन चित्रवितानस्य नानावर्णो- ल्लोचस्य पत्रजातेन पत्राकारचिह्नसमूहेन जनिता उत्पादिता विशेषकक्रिया

जिसका अतिक्षीण अक्षि प्रदेश कुछ कम्पित हो रहा है। दीर्घ निःश्वासोंके आनेसे कठोर कुचमंडल कम्पमान हो रहा है। (क्योंकि सोनेमें सांस वेगसे चलती है) जिसके गलेमें पद्मराग मणिकी माला है जो, सुवर्णके तारोंसे गूंथी हुई कुछ इधर-उधर तिरछी पड़ी हुई है। जिसके कानोंका आधा हिस्सा दिखाई दे रहा है ऐसे सुन्दर कानोंमें जिसने कुण्डल धारण किये हैं। जिसने अपने कानोंके ऊपरी भागमें रत्ननिर्मित कर्णिकाभूषण धारण किया है जिसकी किरणजालोंकी प्रभा से, विषम रूपसे बांधे गये जिससे कुछ ढीले भी पड़ गये हैं ऐसे केशकलापोंकी, शोभा (कृष्णत्व) को पीला बना दिया है। जिसने अपनी कान्तिके पुञ्जसे पाटल (श्वेतरक्त) अपने ओष्ठविवरको दुर्लक्ष्य बना दिया है।

२०२ दशकुमारचरितम् । [ उत्तरपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF २०२ दशकुमारचरितम् । [ उत्तरपीठिकायां क्रियम्, आमीलितलोचनेन्दीवरम्, अविभ्रान्तभ्रूपताकम्, उद्भिद्यमानश्रम- जलपुलकभिन्नशिथिलचन्दनतिलकम्, आननेन्दुसंमुखालकलतां च विश्र- ब्धप्रसुप्तामतिधवलोत्तरच्छदनिमग्नप्रायैकपार्श्वतया चिरविलसनखेदनि- श्चलां शरदम्भोधरोत्सङ्गशायिनीमिव सौदामनीं राजकन्यामपश्यम् । ( ६५ ) दृष्ट्वैव स्फुरदनङ्गरागश्चकितश्चोरयितव्यनिरुपहस्तयैव ताव- तिलकक्रिया यस्मिंस्तद्यथा तथा । आमीलितेति-आमीलिते निमीलिते लोचने इन्दीवरे नीलोत्पले इव यस्मिंस्तद्यथा तथा । अविभ्रान्तेति-अविभ्रान्ते निश्चले भ्रुवौ पताके इव यस्मिन् तद्यथा तथा । उद्भिद्येति-उद्भिद्यमानेन निर्गच्छता श्रमजलपुलकेन घर्मजनितरोमाञ्चेन भिन्नं मिश्रितमत एव शिथिलं कपालाद् गलितं चन्दनतिलकं यस्मिंस्तद्यथा तथा । आननेति-आननेन्दोर्मुखचन्द्रस्य सम्मुखे अलकाश्चूर्णकुन्तला लता इव यस्मिंस्तद्यथा तथा । अत्रालकानां कल- ङ्कसाम्यं बोद्धव्यम् । विश्रब्धसुप्तां निःशङ्कनिद्रिताम् । अतिधवलेति-अतिधवले- ऽतिशुभ्रे उत्तरच्छदे। आस्तरणे निमग्नप्रायः बाहुल्येन मग्नः एकः पार्श्वो यस्या- स्तस्या भावः तया । चिरेति-चिरं दीर्घकालं विलसनेन स्फुरणेन यः खेदः श्रम- स्तेन निश्चलां स्थिराम् । शरदिति-शरदम्भोधरस्य शारदमेघस्योत्सङ्गे क्रोडे शेते तच्छीलाम् सौदामनीं विद्युत्म् । ( ६५ ) स्फुरदनङ्गरागः स्फुरन् वर्धमानः अनङ्गस्य कामस्य राग आवेशो जिसने गालोंपर रखे हुए पल्लवरूपी हाथोंसे अपने कर्णावतंसके कृत्यको प्रकट कर दिया है। ( उसके कपोल-संक्रान्त हाथ ही कर्णपल्लव थे)। जिसका उपरी कपोलप्रदेश ही मानो, सीसा हो, उसी सीसेके तलपर प्रतिबिम्बित अनेकवर्णोंके उल्लोच वही मानो पत्र हों उसीपर उत्पन्न पत्राकार रूपमें समूहके जो तिलकक्रिया ( ऐसी ) जिसने अपने नीले कमलके समान नेत्र बन्द कर लिये हैं। जिसकी निश्चल भौंहें झण्डेके समान हैं। जिसके तिलकका चन्दन घर्मजनित रोमाञ्चसे उत्पन्न पसीनेके जलसे कुछ आर्द्र होकर बहने लगा। मुखचन्द्रके सम्मुख चूर्णकुन्तल बाल लताके समान है। अत्यन्त सफेद आस्तरणके ऊपर एक करवटसे घोर निद्रामें सोयी है। और जो अत्यन्त विस्फुरणके परिश्रमसे निश्चलसी दीख रही है। वह मानो, शरत्कालीन मेघके उत्संग ( गोद ) में सोयी हुई विद्युत्के समान है। ऐसी राजकुमारीको देखा। ( ६५ ) देखते ही मैं कामदेवके रागसे विह्वल होकर चोरीकी इच्छा भूल गया और Nepal Sanskrit University, Balmeeki Campus, Kathmandu

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF

द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । २०३ चोर्यमाणहृदयः किंकर्त्तव्यतामूढः क्षणमतिष्ठम् । अतर्कयम् च-'न चेदिमां वामलोचनामाप्नुयां न मृष्यति मां जीवितुं वसन्तबन्धुः । असंकेतितप- रामृष्टा चेयमतिबाला व्यक्तमार्त्तस्वरेण निहन्यान्मे मनोरथम् । ततोऽहमे- वाह्नयेय । तदियमत्र प्रतिपत्तिः' इति । (६६) नागदन्तलग्ननिर्या सकल्कवर्णितं फलकमादाय मणिसमुद्ग- काद्वर्णवर्तिकामुद्धृत्य तां तथाशयानां तस्याश्च मामाबद्धाञ्जलिं चरण- यस्य सः । चकितः सम्भ्रान्तः । चोरयितव्यनिस्पृहः चोरयितव्ये चौर्यकर्मणि निस्पृहो निरभिलाषः । तया राजकन्यया । चोर्यमाणहृदयः अपह्रियमाणचित्तः । किंकर्त्तव्यतामूढः-किंकर्त्तव्यतायां साम्प्रतं किं कर्त्तव्यमिति ज्ञानशून्यः । आप्नुयां लभेय । मृष्यति सहते । वसन्तबन्धुः मदनः । असंकेतितपरामृष्टा संकेत मकृत्वाव स्पृष्टा । व्यक्तं प्रकाशम् । आर्त्तस्वरेण आर्त्तस्वरं कृत्वेत्यर्थः । निहन्यान्नाशयेत्- विफलीकुर्यादिति यावत् । ततः यदि मे मनोरथो नश्येत्तर्हि । आहन्येय-आहतो भविष्यामीत्यर्थः । आङ्पूर्वकात् हन्धातोः कर्मणि विधिलिङ्युत्तमपुरुषैकवचनम् । आघ्रीयेति पाठो न साधीयान् अर्थप्रतीतेरभावात् । इयमत्र प्रतिपत्तिः- इदमत्र विधेयम् । (६६) नागदन्तेति नागदन्तेऽवलम्बनकाष्ठे लग्नं सम्बद्धं च तत् निर्यास- कल्केनिक्कणद्रव्यक्वाथेन वर्णितं रञ्जितं चेति कर्मधारयः । फलकं काष्ठपट्टिकाम् । उद्धृत्य बहिष्कृत्य । तां राजकन्याम् । तथा पूर्वोक्तप्रकारेण । शयानां निद्रिताम् । सामपहारवर्माणम् । आबद्धाञ्जलि कृतनमस्कारम् । चरणलग्नं पादपतितम् । किंकर्त्तव्यविमूढ (ज्ञानशून्य) हो करके स्वयं ही अपने चित्तको चुराया हुआ जान करके क्षणभर बैठ गया । मैं (अपहारवर्मा ) तर्कसे सोचने लगा- 'यदि मैं इस सुन्दर नेत्रोंवाली स्त्रीको न पा सका तो, यह मदन मेरे जीवनको नाश कर देगा । यदि मैं विना संकेत किये हुए इसका स्पर्श करूं तो यह चिल्ला देगी और उस कारणसे मेरे मनोरथ ही नष्ट हो जायेंगे । तथा मनोरथोंके नष्ट होने पर मैं ही मार डाला जाऊंगा । अत एव अब यह कर्त्तव्य है।' (६६) वहीं खूंटीपर टंगी (लटकी) हुई रंगीन चिकनी लाहसे परिमार्जित एक काठकी पट्टीको उतार लिया और जड़ाऊं कलमदानसे कलमको निकाल करके (उसी पट्टीपर ) मैंने उस राजपुत्रीका (उसी स्वप्नावस्थाका ) ज्योंका त्यों चित्र खींचा और अपनेको उसके पैरोंके नीचे हाथ जोड़े हुए खींचा तथा वहीं पर आर्यावृत्त भी लिख १४ द० कु० उ०

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

२०४ दशकुमारचरितम् । [ उत्तरपीठिकायां

२०४ दशकुमारचरितम् । [ उत्तरपीठिकायां लग्नमालिखमार्या चैताम्- 'त्वामयमाबद्धाञ्जलि दासजनस्तमिमर्थमर्थयते । स्वपिहि मया सह सुरतव्यतिकरखिन्नैव मा मैवम् ॥' हेमकरण्डकाच्च वासताम्बूलवीटिकां कर्पूरगुटिकां पारिजातकं चोप- युज्यालक्तकपाटलेन तद्रसेन सुधाभित्तौ चक्रवाकमिथुनं निरष्ठीवम् । अङ्गु- लीयकविनिमयं च कृत्वा कथंकथमपि निरगाम् । ( ६७) सुरङ्गया च प्रत्येत्य बन्धागारं तत्र बद्धस्य नागरिकवरस्य सिंहघोषनाम्नस्तेष्वेव दिनेषु मित्रत्वेनोपचरितस्य 'एवं मया हतस्तपस्वी- तां राजकन्याम् आर्यां वक्ष्यमाणं पद्यं चेत्युभयमेव अखिलमिति क्रियायाः कर्म। त्वामिति-अयं दासजनः सेवकः अहमित्यर्थः । त्वां भवर्ती राजकन्याम् । आबद्धाञ्जलि सप्रणामं इमं वक्ष्यमाणमर्थं अर्थयते याचते सुरतव्यतिकरखिन्नैव सुरतश्रान्तैव त्वं मया सह स्वपिहि । एवं सुरतखेदं विना मा मा न स्वपिहीत्यर्थः। हेमकरण्डाद्-सुवर्णपेटकात् । वासताम्बूलवीटिकां सुवासितताम्बूलम् । कर्पूर- गुटिकां कर्पूरचूर्णम् । पारिजातकं सुवासितखदिरसारम् । उपयुज्य-भक्षयित्वा । अलक्तकपाटलेन अलक्तकवत् रक्तवर्णेन । तद्रसेन तेषां ताम्बूलादीनां द्रवेण । सुधाभित्तौ-सुधाधवलितकुड्ये । चक्रवाकमिथुनं कोकद्वन्द्वम् । निरष्ठीवम्-निष्ठि- वनेन चक्रवाकमिथुनं चित्रितवान् । अङ्गुलीयकविनिमयं-तस्या अङ्गुलीयकं गृहीत्वा तत्स्थाने स्वकीयमङ्गुलीयकं परिधाप्येत्यर्थः । कथंकथमपि-अतिकष्टेन । (६७) प्रत्येत्य-प्रतिनिवृत्त्य । तत्र बन्धनगारे । बद्धस्य निगदितस्य । तेष्वेव दिनेषु-यदाहमपि तत्र बद्धोऽभवमित्यर्थः । मित्रत्वेनोपचरितस्य-सुहृत्त्वेना- दिया-यह सेवक (अपहारवर्मा ) कृताञ्जलि हो करके आपसे इसी निमित्त प्रार्थना करता है कि, सुरतके खेदसे खिन्न हो करके मेरे पास सोवें और बिना सुरतके नहीं सोवें।' तत्पश्चात् सुवर्णकी पेटीसे सुवासित पान और कर्पूरके चूर्णको तथा कात्थे (खैर) को खा करके महावरके रसके समान उस पानकी पीक (थूक) को चूनेकी दीवालपर ऐसा थूक करके रच दिया कि, वहाँ चित्रगत चक्रवाक-दम्पती प्रतीत होने लगे । साथ ही मैंने अंगूठियों का आदान-प्रदान करके उस महलसे किसी प्रकार रास्ता लिया । (६७) सुरंगसे कारागार वापस आनेपर, वहाँपरके एक कैदी सिंहघोषसे मेरी उन दिनों मित्रता हो गयी थी । मैंने निर्दोष कान्तकको इस तरह मार डाला है। और दुष्ट

कान्तकः, तत्तया प्रतिभिद्य रहस्यं लब्धव्यो मोक्षः' इत्युपदिश्य सह शृगालिकया निरक्रामिषम् । नृपतिपथे च समागत्य रक्षिकपुरुषैरगृह्ये । अचिन्तयं च-'अलमस्मि जवेनापसर्तुमनामृष्ट एवैभिः । एषा पुनर्वराकी गृह्येत । तदिदमत्र प्राप्तरूपम्' इति तानेव चपलमभिपत्य स्वपृष्ठसमर्पित- कूर्परः पराङ्मुखः स्थित्वा 'भद्राः, यद्यहमस्मि तस्करः, बध्नीत माम् । युष्माकमयमधिकारः, न पुनरस्या वर्षीयस्याः' इत्यवादिषम् । ( ६८ ) सा तु तावतैवोन्नीतमदभिप्राया तान्सप्रणाममभ्येत्य 'भद्र- मुखाः, ममैष पुत्रो वायुग्रस्तश्चिरं चिकित्सितः । पूर्वेद्युः प्रसन्नकल्पः शेषितस्य । मित्रभावं गतस्येति यावत् । एवं-एतादृशेनोपायेन । प्रतिभिद्य प्रकाश्य मोक्षः बन्धनमोचनम् । निरक्रामिषं निष्क्रान्तोऽभवम् । नृपतिपथे-राजमार्गे । अगृह्ये गृहीतोऽभवम् । ग्रहधातोः कर्मणि लङ उत्तमपुरुषैकवचनम् । अलम् समर्थः । अपसर्तुं पलायितुम् । अनामृष्टः । अस्पृष्टः । एभिः-रक्षकपुरुषैः । एषा- शृगालिका । वराकी तपस्विनी । गृह्येत ध्रियेत । अत्र अस्मिन् काले । प्राप्तरूपं युक्तम् । इति-एवं चिन्तयित्वा तान् रक्षिपुरुषान् । चपलं सत्वरम् । अभिपत्य समीपं गत्वा । स्वपृष्ठेति-स्वस्य पृष्ठे पृष्ठदेशे समर्पितौ निहितौ कूर्परौ कफोणी येन सः । 'स्यात्कफोणिस्तु कूर्परः' इत्यमरः । पराङ्मुखः विपरीतमुखः । वर्षीयस्याः वृद्धायाः शृगालिकाया इत्यर्थः । ( ६८ ) सा शृगालिका । तावता एतावन्मात्रवचनेन । उन्नीतेति-उन्नीत ऊहितः मदभिप्रायो यन्मेऽभिप्रेतमासीत्तद् यया सा । तान् रक्षिपुरुषान् । वायु- ग्रस्तः वातूलः । उन्मत्त इति यावत् । चिरं दीर्घकालम् पूर्वेद्युः गतदिने । प्रसन्न- इस तरहसे राजासे प्रार्थना करके मुक्ति पा लेना । ऐसा कह करके मै शृगालिकाके साथ निकल आया । राजमार्गमें रक्षापुरुषोंने पकड़ लिया । मैंने विचार किया—'यद्यपि मैं इन लोगोंसे झगड़ करके बड़े वेगसे दौड़ करके भागनेमें समर्थ हूँ । परन्तु, यह निर्दोष शृगा- लिका पकड़ जायगी । अतः इस समय वह उपाय ठीक होगा।' ऐसा सोच करके मैंने अपने दोनों हाथोंको अपनी पीठकी ओर कर और उनके पास जाकर उनके पराङ्मुख खड़े हो करके कहा—'हे सौम्यो ! ( भद्रो ! ) यदि मैं चोर हूँ तो, मुझे बाँधिये— क्योंकि, यह अधिकार आप लोगोंका है परन्तु, इस वृद्धाका नहीं है ।' ( ६८ ) उस शृगालिकाने मेरे अभिप्रायोंका विचार करके उन रक्षापुरुषोंके पास जा तथा उन्हें प्रणाम करके कहा—'हे सौम्यो ! यह मेरा पुत्र उन्मत्त हो गया था, मैंने

२०६ | दशकुमारचरितम् । | [ उत्तरपीठिकायां

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF

२०६ | दशकुमारचरितम् । | [ उत्तरपीठिकायां

प्रकृतिस्थ एव जातः । जातास्थया मया बन्धनान्निष्क्रमय्य स्नापितोऽनु- लेपितश्च परिधाप्य निष्प्रवाणियुगलमभ्यवहार्य परमान्नमौशीरेऽद्य काम- चारः कृतोऽभूत् । अथ निशीथे भूय एव वायुनिघ्नः 'निहत्य कान्तकं नृपतिदुहित्रा रमेय' इति रंहसा परेण राजपथमभ्यपतत् । निरूप्य चाहं पुत्रमेवंगत मस्यां वेलायामनुधावामि । तत्प्रसीदत । बद्ध्वैनं मह्यमर्पयत' इति यावदसौ क्रन्दति तावदहं 'स्थविरे, केन देवो मातरिश्वा बद्धपूर्वः । किमेते काकाः शौङ्गेयस्य मे निग्रहीतारः । शान्तं पापम्' इत्यभ्यधावम् ।


कल्पः प्रायेण प्रसन्नः । प्रकृतिस्थः स्वभावस्थः । जातास्थया संजातादरया। मया शृगालिकयेत्यर्थः । निष्क्रमय्य मोचयित्वा । अनुलेपितः गन्धादिना सुवा- सितः । निष्प्रवाणियुगलं-नूतनवस्त्रयुग्मम् । 'अनाहतं निष्प्रवाणि तन्त्रकञ्च न- वाम्बरे' इत्यमरः । अभ्यवहार्य भोजयित्वा । परमान्नं पायसम् । औशीरे शयना- सनविषये । कामचारः स्वेच्छाचारः । निशीथेऽर्द्धरात्रे । भूय एव पुनरपि । वायु- निघ्नः उन्मादरोगायत्तः । निहत्यादि-उन्मत्तस्य तस्य प्रलापोऽयम् । रंहसा वेगेन परेण महता । निरूप्य अवलोक्य एवं गतम्-एतदवस्थम् । अनुधावामि अनुसरामि । बद्ध्वा बन्धनं कृत्वा । एनं मत्पुत्रम् । असौ शृगालिका । अह- मपहारवर्मा । स्थविरे वृद्धे । सम्बोधनम् । मातरिश्वा-वायुः । बद्धपूर्वः पूर्वं बद्धः । न केनापीति भावः । एते-रक्षिपुरुषाः । शौङ्गेयस्य विहङ्गानां शत्रोः पक्षि-


बहुत समयतक इसकी चिकित्सा करायी । गत दिन ( क.ल ) यह प्रायः प्रसन्न हो गया था और पूर्ववत् स्वस्थ दिखाई देने लगा । अच्छे होनेका विश्वास करके मैंने (शृगालिकाने) इसे बन्धन मुक्त कर दिया । और स्नान कराकर तैल-चन्दन आदिसे सुवासित कर दिया । इसे नये कपड़ेके जोड़े धारण कराये तथा खीर खिलायी और शयनासन (सज्जित पलंगपर) पर सोनेको स्वतन्त्र कर दिया । किन्तु, (सोनेके बाद) आधी रातमें यह फिर उन्माद रोगसे आक्रान्त हो गया ! 'कान्तकको मार करके राजकुमारीसे रमण करूंगा।' ऐसा जोरोंसे बकते हुए राजमार्गमें आ गया । पुत्रकी ऐसी दशासे मैं, इसके पीछे दौड़ती हुई इस समय, (आधी रातमें) फिर रही हूँ । इसलिये आप लोग कृपा करें और इसे बांध करके मुझे दे दें ।' जब शृगालिका ऐसा कथन उन राजपुरुषोंसे कर रही थी, तब मैने कहा—'अरे वृद्धे ! क्या कभी पहिले भी पवनको किसीने पकड़ा है । क्या ये कौए मेरे ऐसे बाजको पकड़ सकते हैं । शान्त हो ।' ऐसा कह करके मैं दौड़ गया ।

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF द्वितीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । २०७

( ६६ ) असावप्यमीभिः 'त्वमेवोन्मत्ता यानुन्मत्तं इत्युन्मत्तं मुक्त- वती । कस्तमिदानीं बध्नाति' इति निन्दिता कदर्शिता रुदत्येव मामन्व- धावत् । गत्वा च रागमञ्जरीगृहं चिरविरहखेदविह्वलामिमां बहुविधं समाश्वास्य तं निशाशेषमनयम् । प्रत्यूषे पुनरुदारकेण च समगच्छे । ( ७० ) अथ भगवन्तं मरीचिं वेशकृच्छ्रादुत्थाय पुनः प्रतितप्रतपः प्रभावप्रत्यापन्नदिव्यचक्षुषमुपसंगम्य तेनास्म्येवंभूतत्वद्दर्शनमवगमितः । विशेषस्य । यथा वायसाः शौनेयं निग्रहीतुं न समर्थास्तथा एतेऽपि मां बन्धं न शक्नुवन्तीति भावः । इति इत्युक्तवा । अभ्यधावम् धावितवान् । ( ६९ ) असौ शृगालिका अमीभिः रक्षिपुरुषैः । अनुन्मत्त इति उन्मत्तो न भवतीति कृत्वा मुक्तवती त्यक्तवती । कदर्शित!-तिरस्कृता । मामपहारवर्मा- णम् । चिरेति-चिरविरहेण दीर्घविच्छेदेन यः खेदो दुःखं तेन विह्वलां व्याकु- लाम् । इमां रागमञ्जरीम् । निशाशेषं रात्रेरवशिष्टभागम् । अनयम् अयापयम् । उदारकेण-धनमित्रेण । समगच्छे संमिलितोऽभवम् । ( ७० ) भगवन्तम् ऐश्वर्यशालिनम् । मरीचिं तन्नामकमहर्षिम् । वेश- कृच्छ्रात् वेश्याव्यसनात् । उत्थाय निर्मुक्तो भूत्वेत्यर्थः । पुनरिति-पुनः प्रतितप्तं पुनः समाचरितं यत्तपस्तपस्या तस्य प्रभावेण माहात्म्येन प्रत्यापन्नं पुनः प्राप्तं दिव्यमार्षं चक्षुर्यैन तादृशम् । तेन मरीचिना । एवम्भूतमेवं प्रकारेण त्वद्दर्शनं तव राजवाहनस्यावलोकनम् । अवगमितः ज्ञापितः । अस्मि अहमिति शेषः । दिव्यदृष्ट्या विलोक्य मरीचिनैव एवमुक्तं यदेतादृशसमये एतादृशेन प्रकारेण भवद्दर्शनं मे भविष्यतीति भावः । सिंहघोषः कारागृहस्थो मम सुहृत् । कान्त- ( ६९ ) तत्पश्चात्-यह शृगालिका उन रक्षकपुरुषोंके द्वारा फटकारी गयी 'तुम्हीं पगली हो । क्योंकि, तुमने पागलोंको बन्धन रहित किया । अब यह अभी कैसे बंध सकता है ?' ऐसे वाक्योंसे डाँटी जानेपर शृगालिका रोती हुई मेरे पीछे दौड़ी । दौड़ करके मैं रागमञ्जरी को जो बहुत दिनोंके विरह के खेदसे विह्वल हो रही ( दुःखी हो रही ) थी उसे समाश्वा- सन दे करके उस रात्रिके अवशिष्ट भागको वहीं पर बिताया । फिर सबेरे उदारक ( धनमित्र ) के पास सम्मिलित हुआ । ( ७० ) इसके अनन्तर ऐश्वर्यवान् मरीचि नामक मुनिके समीप मैं गया । जो मरीचि मुनि वेश्याके व्यसनसे दुःखी हो करके, पुनः अपने तपके प्रभावसे दिव्य दृष्टित्वको प्राप्त कर चुके थे । उन्हीं मरीचि मुनिसे आपके ( राजवाहनके ) दर्शनका समाचार ज्ञात किया ।

Nepal Sanskrit University, Balmeeki Campus, Kathmandu

[Page Top: CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF]

२०८ दशकुमारचरितम्। [ उत्तरपीठिकायां

सिंहघोषश्च कान्तकापचारं निर्भिद्य तत्पदे प्रसन्नेन राज्ञा प्रतिष्ठापितः तेनैव चारकसुरंगापथेन कन्यापुरप्रवेशं भूयोऽपि मे सम्पादयात् । सम- गंप्ति चाहं शृगालिकामुखनिःसृतवार्तानुरक्तया राजदुहित्रा । (७१) तेष्वेव दिवसेषु चण्डवर्मा सिंहवर्भावधूतदुहितृप्रार्थनः कुपि- तोऽभियुज्य पुरमवारुणत् । अमर्षणश्चाङ्गराजो यावदरिः पारग्रामिकं वि- धिमाचिकीर्षति तावत्स्वयमेव प्राकारं निर्भिद्य प्रत्यासन्नानपि सहायान-

कापचारं-कान्तकस्यापराधम् । निर्भिद्य प्रकाश्य । तत्पदे-कान्तकस्थाने । प्रति- ष्ठापितः-काराध्यक्षः कृतः । तेनैव मत्कृतेनव। चारकसुरङ्गापथेन-कारागृहस्थ- बिलमार्गेण । भूयोऽपि पुनरपि । सम्पादयात् अकारयत् । तस्यैव साहाय्येन पुन- रप्यहं कन्यान्तःपुरं प्रविष्टवानस्मि इत्यर्थः । समगंसि मिलितोऽभवम् । संपूवं- काद् गम् धातोर्लुङि आत्मनेपदस्योत्तमपुरुषैकवचनम् । शृगालिकेति-शृगा- लिकाया मुखाद् वदनान्निःसृतया निर्गतया कथितयेत्यर्थः । वार्तया वृत्तान्तेन अनु- रक्तया आसक्तया राजदुहित्रा राजकन्यया समगंसि अहमिति शेषः । (७१) तेष्वेव दिवसेषु तदानीम् । चण्डवर्मा राजवाहनशत्रुः । सिंहव- र्मेति-सिंहवर्मणा चम्पाधीश्वरेण अवधूता तिरस्कृता अस्वीकृतेति यावत् दुहितुः स्वकन्याया अम्बालिकायाः प्रार्थना यस्यासौ । अत एव क्रुद्धः । अभियुज्य आ- क्रम्य । पुरं सिंहवर्मनगरम् । अवारुणत् अवरुरोध । अमर्षणः असहन् । अङ्ग- राजः सिंहवर्मा । अरिः शत्रुः = चण्डवर्मा । पारग्रामिकं परराज्यास्कन्दनोचितम् । विधिमनुष्ठानम् । चिकीर्षति कर्त्तुमिच्छति । यावत्तावदित्यनेन अतिशीघ्रता सूचिता । स्वयमेव सिंहवर्मेव । प्राकारं प्राचीरम् । प्रत्यासन्नान्-समीपमाग-

सिंहघोषने कान्तकको मार डाला और राजाने प्रसन्नतासे उसे काराध्यक्ष बना दिया। उसी कारागारकी सुरंगसे मैं फिर कन्यान्तःपुरमें जाने-आने लगा। शृगालिकाके मुखसे निकली मेरी प्रशंसा पर राजकन्या मुझ पर अनुराग करने लगी । (७१) उन्हीं दिनों चण्डवर्माने जो राजवाहनका शत्रु था, चम्पानगरके स्वामी सिंहवर्मा पर क्रुद्ध हो करके उस सिंहवर्माके नगर पर आक्रमण करके उसके नगरको घेर लिया (क्रोधका कारण यह था कि, चण्डवर्माने अपना विवाह सिंहवर्माकी पुत्री अम्बालिका से करनेकी प्रार्थना सिंहवर्माके पास की थी, जिस प्रार्थनाको सिंहवर्माने अस्वीकार कर दिया था) अंगराज सिंहवर्मा इस बातको न सहन कर सका । जब तक शत्रु चण्डवर्मा

[Page Bottom: Nepal Sanskrit University, Balmeeki Campus, Kathmandu]

प्रतीक्षमाणो निर्गत्याभ्यधिकबलेन विद्विषा महति संपराये भिन्नवर्मा सिंहवर्मा बलादगृह्यत । अम्बालिका च बलवदभिगृह्य चण्डवर्मणा हठात्परिणेतुमात्मभवनमनीयत । कौतुकं च स किल क्षपावसाने विवाह इत्यबध्नात् । ( ७२ ) अहं च धनमित्रगृहे तद्विवाहायेव पिनद्धमङ्गलप्रतिसरस्त- मेवमवोचम्—‘सखे, समापतितमेवाङ्गराजाभिसरं राजमण्डलम् । सुगू- तानपि। सहायान् साहाय्यकारिणो नृपतीन् । अप्रतीक्षमाणः अनपेक्षमाणः । अभ्यधिकबलेन बहुतरसैन्यसमन्वितेन विद्विषा शत्रुना। संपराये युद्धे । भिन्न- वर्मा छिन्नकवचः । अगृह्यत गृहीतश्चण्डवर्मणेति शेषः । अभिगृह्य बलात्कारेण गृहीत्वा । हठात् अविमृश्यकारित्वेन । परिणेतुं विवोढुम् । आत्मभवनं चण्डव- र्मगृहम् । अनीयत नीता ! अम्बालिकेति शेषः । कौतुकं-मङ्गलसूत्रम् । स चण्डवर्मा । क्षपावसाने-रात्रिशेषे । विवाहो भविष्यतीति हेतोः । अबध्नात् बबन्ध कौतुकमिति शेषः । ( ७२) अहमपहारवर्मा । तद्विवाहाये-अम्बालिकापरिणयार्थम् । पिनद्धे- ति-पिनद्धो बद्धः मङ्गलप्रतिसरो माङ्गलिकहस्तसूत्रं येन सः । तं धनमित्रम् एवम् इत्थम् । समापतितं समागतम् । अङ्गराजाभिसरं अङ्गराजसाहाय्यकारि । राज- मण्डलं नृपतिचक्रम् सुगूढं सुगुप्तम् । सम्भूय मिलित्वा । पौरवृद्धैरिति शेषः । तत्-राजमण्डलम् । उपावर्त्तय प्रतिनिवर्त्तय; भवतां साहाय्यं नापेक्ष्यते प्रागेव परराभ्यास्कन्दनोचित विधिको करनेकी इच्छा कर रहा था, तब तक सिंहवर्माने स्वयं ही प्राचीरको तोड़ करके तथा अपने सहायक राजाओंको, जो नगरके बहुत पास आ गये थे, उनकी प्रतीक्षा किये बिना ही बहुत बड़ी सेनावाले शत्रुसे जा करके युद्ध ठान दिया । युद्धमें छिन्नकवच सिंहवर्मा चण्डवर्मा द्वारा परिवद्ध कर लिया गया। राजकुमारी अम्बालिका भी चण्डवर्मा द्वारा बलात्कारसे परिवद्ध कर ली गयी। और बलपूर्वक विवाहके लिये चण्डवर्मा उसे अपने भवनमें ले आया। चण्डवर्माने मंगलसूत्र भी ( यह समझते हुए ) धारण कर लिया है कि, रात्रिसमाप्त होने पर विवाह होगा । ( ७२ ) मैंने ( अपहारवर्माने ) भी धनमित्रके गृहमें ही उस राजपुत्री अम्बालिकाते परिणय करनेके निमित्त मंगलसूत्र धारण करके धनमित्रसे कहा—'हे सखे ! अङ्गराजके सहायक राजागण अपने दल-बलके साथ चले आ रहे हैं। अतः तुम पौरवृद्धोंके साथ उन

२१० दशकुमारचरितम् । [ उत्तरपीठिकायां

२१० दशकुमारचरितम् । [ उत्तरपीठिकायां ठमेव संभूय पौरवृद्धैस्तदुपार्वतय । उपावृत्तश्च कृत्तशिरसमेव शत्रुं द्रक्ष्य- सि' इति । ( ७३ ) 'तथा' इति तेनाभ्युपगते गतायुषोऽमुष्य भवनमुत्सवाकुल- मुपसमाधीयमानपरिणयोपकरणमितस्ततः प्रवेशनिर्गमप्रवृत्तलोकसंबाध- मलक्ष्यशस्त्रिकः सह प्रविश्य मङ्गलपाठकैरम्बालिकापाणिपल्लवमग्नी सा- क्षिण्याथर्वणेन विधिनाऽर्प्यमाणमादित्समानस्यायामिनं बाहुदण्डमाकृष्य- च्छुरिकयोरसि प्राहार्षम् । स्फुरतश्च कतिपयानन्यानपि यमविषयमगम- राज्ञा तत् कृतमतो भवन्तः प्रतिगच्छन्तु इति भावः । उपावृत्तः परावृत्तस्त्वमिति शेषः । कृत्तशिरसं छिन्नमस्तकम् । शत्रुं चण्डवर्माणम् । ( ७३ ) तेन धनमित्रेण । अभ्युपगते स्वीकृते । गतायुषः स्वल्पायुषः। अमुष्य चण्डवर्मणः । उत्सवाकुलं उत्सवपूर्णम् । उपसमाधीयेति-उपसमाधीयमा- नानि सम्पाद्यमानानि परिणयोपकरणानि विवाहोचितद्रव्यजातानि यत्र तत् । इत- स्ततः समन्तात् । प्रवेशेति-प्रवेशनिर्गमेषु गमनागमनेषु प्रवृत्तैर्व्याप्तैर्लोकैर्जनैः संबाधं संकटम् । विशेषणद्वयमिदं भवनस्य । अलक्ष्यशस्त्रिकः अलक्ष्याऽऽदृश्या शस्त्रिका छुरिका यस्य सः गुप्तशस्त्र इत्यर्थः । मङ्गलपाठकैः स्तुतिपाठकैर्ब्राह्मणैः। अग्नौ साक्षिणि सति-अग्निसाक्षिकम् । आथर्वणेन अथर्ववेदोपदिष्टेन पुरोधसा वा । विधिना अनुष्ठानेन । पुरोधसेति पक्षे विधिपूर्वकम् । अर्प्यमाणं सम्प्रदीय- यमानम् अम्बालिकापाणिपल्लवमित्यस्य विशेषणम् । आदित्समानस्य ग्रहीतु- मिच्छतः । चण्डवर्मण इति शेषः । आयामिनं दीर्घं प्रसारितमिति यावत् । प्रा- हार्ष प्रहृतवानहमिति शेषः । स्फुरतः चण्डवर्मविनाशजनितकोपेन ज्वलतः। राजोंसे गुप्तरीतिसे मिल करके उन्हें रोक दो। और समझा दो। वे लोग थोड़ी देरमें आवें तो शत्रुको कटे हुए शिरमें पायेंगे । ( ७३ ) धनमित्रके द्वारा 'तथा' (ठीक उसी प्रकारसे करूंगा) ऐसी स्वीकृति पाकर मैं (अपहारवर्मा) स्वल्पायुष्वान् चण्डवर्माके अन्तःपुरमें चला गया। वहां देखा कि, राजभवन विवाहोचित अनेकों वस्तुओंसे परिपूर्ण है। इधर-उधर लोगोंके गमनागमनसे प्रवेशमार्गपर बड़ी कठिनता प्रतीत हो रही है। मैं भी गुप्त छुरीके सहित मंगलाचरण करनेवाले ब्राह्मणोंके झुण्डके साथ उस राजभवनमें चला गया । वहां प्रवेश करके मैंने देखा कि, अम्बालिका कुमारीके कोमलकरोंको अथर्ववेदकी रीतिसे अग्नि देवताके सम्मुख साक्षी-

यम्। हतविध्वस्तं च तद्गृहमनु विचरन्वेपमानमधुरगात्रीं विशाललोच- नामभिनिशाम्य तदालिङ्गनसुखमनुबुभूषुस्तामादाय गर्भ गृहमविक्षम् । अस्मिन्नेव क्षणे तवास्मि नवाम्बुवाहस्तनितगम्भीरेण स्वरेणानुगृहीतः' इति। (७४) श्रुत्वा च स्मित्वा च देवोऽपि राजवाहनः 'कथमसि कार्क- श्येन कर्णीसुतमप्यतिक्रान्तः' इत्यभिधाय पुनरवेद्योपहारवर्माणम् आच-

कतिपयान् अल्पसंख्याकान् अन्यान् चण्डवर्मव्यतिरिक्तान् । यमविषयं यमा- लयम् अगमयम् प्रापितवान् । हतविध्वस्तं हता नष्टा विध्वस्ता इव जना यत्र तत् । तद्गृहं चण्डवर्मभवनम् । अनु विचरन् सर्वं भ्रमन् । वेपमानमधुरगात्रीं कम्पमानकोमलावयवाम् । अभिनिशाम्य-श्रावयित्वा मत्परिचयमिति शेषः । अनुबुभूषुः अनुभवितुमिच्छुः । ताम् अम्बालिकाम् । गर्भगृहं गृहाभ्यन्तरम् । अविक्षम् प्रविष्टवान् । विश्प्रवेशे लुङ् । क्षणे अवसरे । तव भवतो राजवाहनस्ये- त्यर्थः । नवेति—नवाम्बुवाहस्य नूतनमेघस्य स्तनितं गर्जितं तद्वद् गम्भीरेण धीरेण स्वरेणेत्यस्य विशेषणम् । अनुगृहीतः अनुकम्पितोऽहमिति शेषः । (७४) श्रुत्वा एतद्वृत्तान्तमिति शेषः । स्मित्वा ईषद्धिस्य । कार्कश्येन- कठोरतया । कर्णीसुतं स्तेयशास्त्रप्रवर्त्तकम् । अतिक्रान्तः उल्लंघितस्त्वमिति शेषः ।

भूत कराया जा रहा है और उसका पाणिग्रहण करनेके लिये चण्डवर्मान् अपने विशाल हाथको उसी समय बढ़ाया । उसी क्षण मैंने उस चण्डवर्माको खींच करके उसके हृदयमें छुरी भोंक दी । और कुछ अन्योंको भी मार करके यमपुरी भेज दिया । जिस भवनमें प्राणी मारे गये उसी हतविध्वस्त राजभवनमें-चण्डवर्मा के भवनमें-विचरण करते हुए मैंने, काँपती हुई सुन्दर शरीरवाली और दीर्घ नयनवाली, राजपुत्रीसे अपना परिचय सुना करके उसके साथ आलिंगन सुखकी अभिलाषासे उसको ले करके गृहाभ्यन्तरमें रति-गृहमें प्रवेश किया। उसी क्षण नूतन मेघके गर्जन के सदृश गम्भीर स्वर से आपने (राजवाहनने) मुझे अनु- कम्पित कर दिया । (७४) इस वृत्तान्तको श्रवण करके तथा मुस्कुरा करके देव राजवाहनने कहा- 'आपने तो इस कठोरतासे कर्णीसुत (स्तेयशास्त्र-प्रवर्त्तक) को भी मात कर दिया।'

२१२ दशकुमारचरितम् । [उत्तरपीठिकायां

२१२ दशकुमारचरितम् । [उत्तरपीठिकायां च्व, तवेदानीमवसरः इत्यभाषत । सोऽपि सस्मितं प्रणम्यारभताभिधातुम् । इति श्रीदण्डिनः कृतौ दशकुमारचरितेऽपहारवर्मचरितं नाम द्वितीय उच्छ्वासः । अवेक्ष्य दृष्ट्वा। आचक्ष्व कथय । तव उपहारवर्मणः । अवसरः समयः । सः उप- हारवर्मा । अभिधातुं कथयितुम् । इति श्रीताराचरणभट्टाचार्यकृतायां बालविबोधिनी समाख्यायां दशकुमारचरितव्याख्यायामपहारवर्मचरितं नाम द्वितीयोच्छ्वासः । फिर उपहारवर्मा को देख करके कहा—'आपका अब समय है।' उस उपहारवर्माने भी हँसकर कहना प्रारम्भ किया । इस प्रकार दशकुमार-चरितके अपहारवर्मचरित नामक द्वितीयोच्छ्वासकी बालक्रीड़ा नामक हिन्दी टीका समाप्त हुई ।

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF काव्यं दशकुमारचरितम् तृतीयोच्छ्वासः ( १ ) एषोऽस्मि पर्यटन्नेकदा गतो विदेहेषु । मिथिलामप्रविश्यैव बहिः कचिन्मठिकायां विश्रमितुमेत्य कयापि वृद्धतापस्या दत्तपाद्यः क्षण- मलिन्दभूमाववास्थिषि । तस्यास्तु महर्शनादेव किमप्याबद्धधारमश्रु प्राव- र्तत । 'किमेतदम्ब, कथय कारणम्' इति पृष्टा सकरुणमाचष्ट—'जैवातृक, ननु श्रूयते पतिरस्या मिथिलायाः प्रहारवर्मा नामासीत् । तस्य खलु मगधराजो राजहंसः परं मित्रमासीत् । तयोश्च वल्लभे बलशम्बल्योरिव उप- वसुमतीप्रियंवदे सख्यमप्रतिममधत्ताम् । अथ प्रथमगर्भाभिनन्दितां तां ( १ ) एषोऽस्मीति-साम्प्रतमुपहारवर्मा स्वचरितं वर्णयति । एषः अहमु- पहारवर्मेति शेषः । पर्यटन् इतस्ततो भ्रमन् । मिथिलां विदेहराजधानीम् । मठि- कायां क्षुद्रमठे । दत्तं पाद्यं यस्मै सः-दत्तपादोदकः । 'पाद्यं पादाय वारिणि' इत्यमरः । अलिन्दभूमौ-बहिर्द्वारप्रकोष्ठे । अवास्थिषि उपाविशम् । अवपूर्वकस्थाधातोर्लुङि आत्मनेपदश्श रूपम् । किमपि अज्ञातकारणम् आबद्धधारं सन्ततधारम् । जैवातृक- आयुष्मन् सम्बोधनमेतत् । 'जैवातृकः स्यादायushmanि'त्यमरः । तयोः राजहंसप्रहार- वर्मणोः । वल्लभे दयिते पत्न्याविति शेषः । बलः शम्बलश्चेति द्वावसुरौ तयोरिव-तौ यथा परस्परमित्रतामापन्नौ तथैव एतावपि मित्रत्वमापन्नादिति भावः । वसुमती- प्रियंवदे-वसुमती राजहंसस्य, प्रियंवदा च प्रहारवर्मणः इत्यर्थः । अप्रतिमम् अतुल- श्री ( १ ) एक समय में (उपहारवर्मा) पर्यटन करते हुए विदेहपुरीमें गया । (वहीं) विदेहपुरीमें प्रवेश करके उस पुरीके बाहर भागमें एक मठमें, विश्राम करनेके निमित्त गया । वहाँ पर एक वृद्धा द्वारा मुझे पाँव धोनेके लिये पानी दिया गया, जिससे मैंने अपने पाँव धोये और मैं दरवाजेके समीप प्रकोष्ठकमें बैठ गया । वह वृद्धा मुझे देखते ही फूट- फूटकर ( धाराप्रवाहरूपमें ) रोने लगी । मैंने कहा-'हे मातः ! यह क्या, आप किस कारण से रोती हैं ।' इस तरह पूछने पर उस वृद्धा ने करुणाक्रान्त होकर उत्तर दिया— 'हे आयुष्मन् ! ऐसा सुना जाता है कि, इस विदेहपुरी के स्वामी प्रहारवर्मा नामक राजा थे । उनकी प्रगाढ मित्रता मगधराज राजहंस के साथ हो गयी थी । उनकी वसुमती और प्रियंवदा नामक पत्नियों में भी, बल और शम्बल की मित्रता के समान बड़ी मित्रता हो गयी थी । कुछ दिनों के पश्चात् वसुमती को प्रथम गर्भ की प्राप्ति हुई जिसके अभिनन्दनके Nepal Sanskrit University, Balmeeki Campus, Kathmandu

२१४ दशकुमारचरितम्। [ उत्तरपीठिकायां

२१४ दशकुमारचरितम्। [ उत्तरपीठिकायां च प्रियसखीं दिदृक्षुः प्रियंवदा वसुमतीं सह भर्त्रा पुष्पपुरमगमत् । ( १ ) तस्मिन्नेव च समये मालवेन मगधराजस्य महज्जन्यमजनि। तत्र लेशतोऽपि दुर्लक्षां गतिमगमनमगधराजः । मैथिलेन्द्रस्तु मालवेन्द्र- प्रयत्नप्राणितः स्वविषयं प्रतिनिवृत्तो ज्येष्ठस्य संहारवर्मणः सुतैर्विकटवर्म- प्रभृतिभिर्व्याप्तं राज्यमाकर्ण्य स्वस्त्रीयात्सुह्मपतेर्दण्डावयवमादित्सुरटवीपथ- मवगाह्य लुब्धकलुप्तसर्वस्वोऽभूत् । ( ३ ) तत्सुतेन च कनीयसा हस्तवर्तिना सहैकाकिनी वनचरशरवर्ष- नीयम् । प्रथमगर्भेण अभिनन्दितां सुशोभिताम् । तां वसुमतीम् । भर्त्रा स्वामिना प्रहारवर्मणेत्यर्थः । पुष्पपुरं राजहंसराजधानीम् । ( २ ) मालवेन मालवदेशाधिपतिना मानसागख्येन सह । मगधराजस्य राज- हंसस्य । जन्यं युद्धम् । तत्र युद्धे । लेशतोऽपि दुर्लक्षां किञ्चिदपि निश्चेतुमशक्याम्। गतिं दशाम् । सारथिशून्यत्वाद् अश्वाः राजहंसस्य रथं कुत्र निन्युरिति न केनापि विदितमिति भावः। मैथिलेन्द्रः प्रहारवर्मा । मालवेन्द्रस्य मानसारस्य प्रयत्नेन चेष्टया प्राणितो जीवितो रक्षित इति यावत् । स्वविषयं स्वदेशम् । ज्येष्ठस्य भ्रातुरिति शेषः । व्याप्तमाक्रान्तम् । स्वस्त्रीयाद् भागिनेयात् । सुह्मपतेः सुह्याख्य- देशाधिपात् । दण्डावयवं दण्डस्य संग्रामस्यावयवमुपकरणं हस्त्यश्वादिकम् । आदित्सुर्गृहीतुमिच्छुः । अटवीपथमरण्यमार्गम् । अवगाह्य प्रविश्य लुब्धकैर्व्याधैः लुप्तं हृतं सर्वस्वं यस्य तादृशः । ( ३ ) तत्सुतेन प्रहारवर्मपुत्रेण । हस्तवर्त्तिना मम हस्तस्थितेन । एकाकिनी लिये प्रियंवदा अपने स्वामीके साथ पुष्पपुरको गयी । ( २ ) उसी समय मालवदेश के अधिपति मानसार के साथ मगधराज राजहंस का युद्ध आरम्भ हो गया । उस युद्धमें मगधराज राजहंस कुछ भी वर्णन करने की अयोग्य परिस्थिति में प्राप्त हुए । मगधराज राजहंस का सहायताकारी मैथिल देश का अधिपति प्रहारवर्मा मालवदेश के अधिपति मानसार की दया से येन-केन-प्रकारेण अपने जीवित प्राणों को लेकर अपने देश को लौट गया । वहाँ लौटकर उसने ( प्रहारवर्मा ने ) सुना कि उसका राज्य उसके बड़े भाई संहारवर्मा के पुत्र विकटवर्मा आदि ने आक्रान्त कर लिया है । ऐसा ज्ञात कर उस प्रहारवर्मा ने अपने बहिन के पुत्र ( भानजे ), जिसका नाम सुह्मपति था, से सेना सामग्री ( हाथी घोड़े आदि ) की सहायता लेने की इच्छा की और अरण्य के मार्ग से अपने भाजने के पास जा रहा था कि अरण्यवासी कोल-भीलों ने उसके पास जो भी था लूट लिया । ( ३ ) मेरी गोदीमें प्रहारवर्मा का छोटा शिशु था ! कोल-भीलों के बाणोंकी वर्षा के

तृतीयोच्छ्वासः ] व्याख्याद्वयोपेतम् । २१५ भयपलायिता वनमगाहिषि । तत्र च मे शार्दूलनखावलीढनिपतितायाः पाणिभ्रष्टः स बालकः कस्यापि कपिलाशवस्य क्रोडमभ्यलीयत । तच्छवा कर्षिणश्च व्याघ्रस्यासूनिषुरिष्वसनयन्त्रमुक्तः क्षणादलिक्षत् । भिल्लदारकैः स बालोऽपाहारि । ( ४ ) सा त्वहं मोहसुप्ता केनापि वृष्णिपालेनोपनीय स्वं कुटीरमावेश्य कृपयोपक्रान्तव्रणा स्वस्थीभूय स्वभर्तुरन्तिकमुपतिष्ठासुरसहायतया याव- द्व्याकुलीभवामि तावन्ममैव दुहिता सह यूना केनापि तमेवादेशमागमत् । असहाया । वनचरेति-वनचराणां किरातानां शरवर्षात् बाणनिक्षेपाद् भयेन पला- यिता अहमिति शेषः । अगाहिषि प्राविक्षम् । तत्र वने । शार्दूलस्य व्याघ्रस्य नखैः अवलीढा विद्धा अतएव निपतिता भूमाविति शेषः, तस्यास्तथाभूतायाः । मे इत्यस्य विशेषणम् । पाणिभ्रष्टो हस्तच्युतः । कपिलाशवस्य मृतधेनोः । क्रोडं वक्षःस्थलम् । अभ्यलीयत यत्र लीनोऽभवत् । तच्छवं कपिलाशवं व्याकर्षतीति तस्य । असून् प्राणान् । इषुश्चाणः । इष्वसनेति-अस्यतेऽनेनेति असनम्-इषोर- सनमिष्वसन धनुस्तदेव यन्त्रस्तस्मान्मुक्तस्त्यक्तः । इषुरित्यस्य विशेषणम् । अलि- क्षत् आस्वादयत्-प्राणान् जहारेत्यर्थः । लिह आस्वादे इत्यस्य धातोलुँङ् । भिल्ल- दारकैः किरातबालकैः । अपाहारि अपहृतः । ( ४ ) मोहसुप्ता मोहेन मूर्छ्या सुप्ता निद्रिता । वृष्णिपालेन मेषपालेन । 'मेष वृष्णय एडका' इत्यमरः । उपक्रान्तव्रणा चिकित्सितव्याघ्रकृतक्षता । स्वभर्तु- र्विदेहराजस्य । उपतिष्ठासर्गन्तुमिच्छुः । सार्थघाते संघभ्रंशे । राजपुत्रस्य विदेह- राजापरपुत्रस्य । तेन वनचरेण । उपयन्तुं चिन्तितायाः परिणेतुमभिलषितायाः । भयसे मैं अकेली उसे (शिशुको) लिये हुए जंगलमें घुस गयी । उस जंगलमें मैं शेरके झपटनेसे-उसके नाखूनकी खरोंच आदिके लगनेसे-भूमिपर गिर पड़ी । मेरे हाथसे वह शिशु छूट करके किसी कपिला धेनु (गौ) के मृत शवकी गोदमें गिर पड़ा । जब वह शेर उस कपिला गौके मृत शवकी ओर आकर्षित हो रहा था, ठीक उसी समय किसीके धनुषसे निकले हुए बाणके द्वारा वह (शेर) मार डाला गया । भीलके बालकोंके द्वारा वह शिशु भी अपहृत कर लिया गया । (४) मुझे, जो मैं शेरके आक्रमणसे मूर्च्छित हो गयी थी, एक गोप निश्चेष्टावस्थामें ही अपनी कुटीमें ले गया । वहाँ ला करके उस गोपने दया करके मेरी चिकित्सा आदि की तथा सेवा-शुश्रूषा करके मुझे स्वस्थ कर दिया । स्वस्थ होनेपर मैं (वृद्धा) अपने स्वामी विदेहाधिपतिके समीप जानेके लिए सहायताहीन होनेसे जब व्याकुल हो रही थी, Nepal Sanskrit University, Balmeeki Campus, Kathmandu

दशकुमारचरितम् ! [ उत्तरपीठिकायां

२१६ CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF दशकुमारचरितम् ! [ उत्तरपीठिकायां सा भृशं रुरोद । रुदितान्ते च सा सार्थघाते स्वहस्तगतस्य राजपुत्रस्य किरातभर्तृहस्तगमनम् , आत्मनश्च केनापि वनचरेण व्रणविरोपणम्, स्वस्थायश्च पुनस्तेनोपयन्तुं चिन्तितायानि कृष्टजातिसंसर्गवैकल्य्यात्प्रत्या- ख्यानपारुष्यम्, तदक्षमेण चामुना विविक्के विपिने स्वशिरःकर्तनोद्यमः, अनेन यूना यदृच्छया दृष्टेन तस्य दुरात्मनो हननम् , आत्मनश्चोपयमन- मित्यकथयत् । (५) स तु पृष्टो मैथिलेन्द्रस्यैव कोऽपि सेवकः कारणविलम्बी तन्मार्गानुसारी जातः। सह तेन भर्तुरन्तिकमुपसृत्य पुत्रवृत्तान्तेन श्रोत्र- निकृष्टजातीति-नीचजातीयकिरातसंसर्गदोषदुष्टतया तद्विवाहस्य प्रत्याख्यानेना- स्वीकारेण यत्पारुष्यं कार्कश्यम् तथा कृतमिति शेषः । तदक्षमेण तत्सोढुमशक्नु- वता। अमुना किरातेन । विविक्ते निर्जने । स्वशिरःकर्त्तनोद्यमः मद्दुहितुर्मस्तक- च्छेदनप्रयासः । यदृच्छया दैवगत्या सहसा वा । उपयमनं विवाहस्तेन यूना सहेत्यर्थः । (५) सः मद्दुहितुः परिणेता । मैथिलेन्द्रस्य विदेहाधिपप्रहारवर्मणः । सेवको भृत्यः । कारणविलम्बी प्रयोजनवशेन कृतविलम्बः तन्मार्गानुसारी तस्य राज्ञो मा- र्गानुसारी येन मार्गेण राजा जगाम तेनैव सोऽपि तमन्वसारेति भावः। भर्तुः प्रभोः। उसी समय मेरी पुत्री किसी युवकके साथ उस स्थान में आ पहुँची । वह आकर अत्यन्त रोने लगी । रोनेके पश्चात् उस पुत्री के साथ छूटनेपर राजाके दूसरे पुत्रका किरातके पतिके हाथमें जाना, किसी वनेचरद्वारा अपनी सेवा-शुश्रूषाका होना तथा शेरके नखक्षतोंका उपचार होना, स्वस्थ होने पर उसी वनेचरद्वारा विवाहका प्रस्ताव किया जाना, नीच जातिके संसर्गसे व्याकुल होना, विवाहके प्रस्तावका विरोध करनेसे उस वनेचरको स्वयं (पुत्रीद्वारा) कर्कश वचन कहा जाना, वनेचरद्वारा कर्कश वचनोंके प्रतिवादमें उसको निर्जन वनमें ले जा करके शिर काटने का उद्योग करना, दैवगतिसे इस युवकका (जो साथ में था) उस जंगलमें आना तथा उस वनेचरका वध करना, एवं अपना विवाह उस युवकके साथ होनेका समाचार सुनाना आदि (सभी बातें अपनी मातासे कह सुनायी) । (५) इसके पश्चात् पूछे जानेपर उस कन्याके पतिने कहा कि मैं भी मैथिलेन्द्रका ही एक सेवक हूं तथा किसी कारणवश विलम्ब करके उन्हीं मैथिलेन्द्र प्रहारवर्माके मार्गका अनुसरण करके जा रहा हूँ। उसी युवकके साथ दोनों स्वामी प्रहारवर्माके सन्निकट Nepal Sanskrit University, Balmeeki Campus, Kathmandu

मस्य देव्याः प्रियंवदायाश्चादहाव । स च राजा दिष्टदोषाज्ज्येष्ठभ्रातृ- पुत्रैश्चिरं विगृह्य पुनरसहिष्णुतायतिमात्रं चिरं प्रयुध्य बद्धः । देवी च बन्धनं गमिता। दग्धा पुनरहमस्मिन्नपि वार्धके हतजीवितमपारयन्ती हातुं प्रव्रज्यां किलाग्रहीषम् । दुहिता तु मम हतजीविताकृष्टा विकटवर्ममहा- देवी कल्पसुन्दरीं किला शिश्रियत् । तौ चेद्राजपुत्रौ निरुपद्रवावेवावर्धिष्ये- ताम् , इयता कालेन तवेमां वयोवस्थामस्प्रक्ष्यताम् । तयोश्च सतोर्न दा- यादा नरेन्द्रस्य प्रसह्यकारिणो भवेयुः' इति प्रमन्युरभिरुरोद । ( ६ ) श्रुत्वा च तापसीगिरमहर्माप प्रवृद्धबाष्पो निगूढमभ्यधाम्—

अस्य भर्तुः प्रहारवर्मणः । श्रोत्रं श्रवणेन्द्रियं कर्णौ वा। अदहाव अप्रियवृत्तान्त- कथनेन कर्णयोर्महतीं पीडामजनयाव आवामिति शेषः । दिष्टदोषात् भाग्यदोषात् । विगृह्य विग्रहं कृत्वा विरोध्येति यावत् । अतिमात्रम् अत्यर्थम् । चिरं दीर्घकालं यावत् । देवी प्रियंवदा । गमिता प्रापिता । दग्धा हतभाग्या । हतजीवितं व्यर्थ- जीवनम् । हातुं त्यक्तुम् । प्रव्रज्यां संन्यासम् । विकटवर्मणः प्रहारवर्मज्येष्ठभ्रातृ- पुत्रस्य महादेवीं पट्टमहिषीम् । अशिश्रियत् जीविकार्थमाश्रितवती । निरुपद्रवौ निर्विघ्नौ । अवर्धिष्येताम् । वर्द्धितौ अभविष्यताम् । इयता कालेन एतावद्भि- र्दिवसैः, साम्प्रतमिति यावत् । वयोऽवस्थां त्वत्सदृशं वयः । अस्पृक्ष्यतां स्पृष्टौ भविष्यतः । लृङि रूपद्वयम् । सतोः वर्तमानयोः । जीवतोरिति भावः । दायादाः भ्रातृपुत्रादयः । प्रसह्यकारिणो बलात्कारेण राज्यापहारिणः । प्रमन्युः प्रवृद्धशोकः । ( ६ ) प्रवृद्धबाष्पः रुदन्नित्यर्थः । निगूढं सुगुप्तम् । समाश्वसिहि आश्वस्ता

पहुँचीं । वहाँ पर देवी प्रियंवदासे तथा राजासे पुत्रके वृत्तान्तोको कह करके उन दोनोंके कानोंको पीड़ाएँ दीं—क्योंकि अप्रिय कथनसे पीड़ा ही होती है । राजा प्रहारवर्मा भी भाग्यके दोषसे दीर्घकालतक ज्येष्ठ भ्राताके पुत्रोंके साथ युद्ध करके न जीते। फिर उन सबका अपकार न सह करके विकट युद्ध करनेसे स्वयं ही पकड़ लिये गये । रानी भी पकड़ ली गयीं। हतभागिनी मैं इस वृद्धापनमें भी अपने जीवनको नष्ट करनेमें असमर्थ होकर संन्यासधारिणी हो गयी । मेरी पुत्री भी व्यर्थ जीवनके आकर्षणसे विकटवर्मा (प्रहारवर्माके ज्येष्ठ भाईका पुत्र) की पटरानी महादेवी कल्पसुन्दरीके आश्रयमें पड़ी है । यदि वे दोनों राजकुमार निर्विघ्नतापूर्वक पाल करके बढ़ाये जाते तो इस समय तक वे आपकी अवस्थाके हुए होते । और उन दोनोंके होनेसे, राजा प्रहार- वर्माका कोई दायाद (पट्टीदार) बलात्कारसे राज्यापहरणकारी न रह पाता ।' ऐसा कह- कर वह वृद्धा घोर सन्तापसे जोर-जोरसे रोने लगी । ( ६ ) इस वृत्तान्तको उस वृद्धा तापसीके मुखसे सुनकर मैंने गुप्तरीतिसे अपनी

२१६ दशकुमारचरितम् [ उत्तरपीठिकायां

२१६ दशकुमारचरितम् [ उत्तरपीठिकायां सा भृशं रुरोद । रुचितान्ते च सा सार्थघाते स्वहस्तगतस्य राजपुत्रस्य किरातभर्तृहस्तगमनम्, आत्मनश्च केनापि वनचरेण व्रणविरोपणम्, स्वस्थायश्च पुनस्तेनोपयन्तुं चिन्तितायानि कृष्टजातिसंसर्गवैकल्यप्रत्या- ख्यानपारुष्यम्, तदक्षमेण चामुना विविक्ते विपिने स्वशिरःकर्तनोद्यमः, अनेन यूना यदृच्छया दृष्टेन तस्य दुरात्मनो हननम्, आत्मनश्चोपयमन- मित्यकथयत् । (५) स तु पृष्टो मैथिलेन्द्रस्यैव कोऽपि सेवकः कारणविलम्बी तन्मार्गानुसारी जातः । सह तेन भर्तुरन्तिकमुपसृत्य पुत्रवृत्तान्तेन श्रोत्र- निकृष्टजातीति-नीचजातीयकिरातसंसर्गदोषदुष्टतया तद्विवाहस्य प्रत्याख्यानेना- स्वीकारेण यत्पारुष्यं कार्कश्यम् तया कृतमिति शेषः । तदक्षमेण तत्सोढुमशक्नु- वता। अमुना किरातेन । विविक्ते निर्जने । स्वशिरःकर्त्तनोद्यमः मदुदुहितुर्मस्तक- च्छेदनप्रयासः । यदृच्छया दैवगत्या सहसा वा । उपयमनं विवाहस्तेन यूना सहेत्यर्थः । (५) सः मदुदुहितुः परिणेता । मैथिलेन्द्रस्य विदेहाधिपप्रहारवर्मणः । सेवको भृत्यः । कारणविलम्बी प्रयोजनवशेन कृतविलम्बः तन्मार्गानुसारी तस्य राज्ञो मा- र्गानुसारी येन मार्गेण राजा जगाम तेनैव सोऽपि तमनुससारेति भावः । भर्तुः प्रभोः । उसी समय मेरी पुत्री किसी युवकके साथ उस स्थान में आ पहुँची । वह आकर अत्यन्त रोने लगी । रोनेके पश्चात् उस पुत्री के साथ छूटनेपर राजाके दूसरे पुत्रका किरातके पतिके हाथमें जाना, किसी वनेचरद्वारा अपनी सेवा-शुश्रूषाका होना तथा शेरके नखक्षतोंका उपचार होना, स्वस्थ होने ०पर उसी वनेचरद्वारा विवाहका प्रस्ताव किया जाना, नीच जातिके संसर्गसे व्याकुल होना, विवाहके प्रस्तावका विरोध करनेसे उस वनेचरको स्वयं (पुत्रीद्वारा) कर्कश वचन कहा जाना, वनेचरद्वारा कर्कश वचनोंके प्रतिवादमें उसको निर्जन वनमें ले जा करके शिर काटने का उद्योग करना, दैवगतिसे इस युवकका (जो साथ में था) उस जंगलमें आना तथा उस वनेचरका वध करना, एवं अपना विवाह उस युवकके साथ होनेका समाचार सुनाना आदि (सभी बातें अपनी मातांसे कह सुनायी) । (५) इसके पश्चात् पूछे जानेपर उस कन्याके पतिने कहा कि मैं भी मैथिलेन्द्रका ही एक सेवक हूं तथा किसी कारणवश विलम्ब करके उन्हीं मैथिलेन्द्र प्रहारवर्माके मार्गका अनुसरण करके जा रहा हूँ। उसी युवकके साथ दोनों स्वामी प्रहारवर्माके सन्निकट

तृतीयोच्छ्वासः ] [११७ मस्य देव्याः प्रियंवदायाश्चादहाव । स च राजा दिष्टदोषाज्ज्येष्ठभ्रातृ- पुत्रैश्चिरं विगृह्य पुनरसहिष्णुतायातिमात्रं चिरं प्रयुध्य बद्धः । देवी च बन्धनं गमिता । दग्धा पुनरहमस्मिन्नपि वार्धके हतजीवितमपारयन्ती हातुं प्रव्रज्यां किलाग्रहीषम् । दुहिता तु मम हतजीविताकृष्टा विकटवर्ममहा- देवीं कल्पसुन्दरीं किला शिश्रियत् । तौ चेद्राजपुत्रौ निरुपद्रवावेवावर्धिष्ये- ताम् , इयता कालेन तवेमां वयोवस्थामसप्रक्ष्येताम् । तयोश्च सतोर्न दा- यादा नरेन्द्रस्य प्रसह्यकारिणो भवेयुः' इति प्रमन्युरभिरुरोद । ( ६ ) श्रुत्वा च तापसीगिरमहमाप प्रवृद्धबाष्पो निगूढमभ्यधाम्— अस्य भर्तुः प्रहारवर्मणः । श्रोत्रं श्रवणेन्द्रियं कर्णौ वा । अदहाव अप्रियवृत्तान्त- कथनेन कर्णयोर्महतीं पीडामजनयाव आवामिति शेषः । दिष्टदोषात् भाग्यदोषात् । विगृह्य विग्रहं कृत्वा विरोध्येति यावत् । अतिमात्रम् अत्यर्थम् । चिरं दीर्घकालं यावत् । देवी प्रियंवदा । गमिता प्रापिता । दग्धा हतभाग्या । हतजीवितं व्यर्थ- जीवनम् । हातुं त्यक्तुम् । प्रव्रज्यां संन्यासम् । विकटवर्मणः प्रहारवर्मज्येष्ठभ्रातृ- पुत्रस्य महादेवीं पट्टमहिषीम् । अशिश्रियत् जीविकार्थमाश्रितवती । निरुपद्रवौ निर्विघ्नौ । अवर्धिष्येताम् । वर्द्धितौ अभविष्यताम् । इयता कालेन एतावद्भि- र्दिवसैः, साम्प्रतमिति यावत् । वयोऽवस्थां त्वत्सदृशं वयः । असप्रक्ष्येतां स्पृष्टौ भविष्यतः । लृङि रूपद्वयम् । सतोः वर्तमानयोः । जीवतोरिति भावः । दायादाः भ्रातृपुत्रादयः । प्रसह्यकारिणो बलात्कारेण राज्यापहारिणः । प्रमन्युः प्रवृद्धशोकः । ( ६ ) प्रवृद्धवाष्पः रुदन्नित्यर्थः । निगूढं सुगुप्तम् । समाश्वसिहि आश्वस्ता पहुँचीं। वहाँ पर देवी प्रियंवदासे तथा राजासे पुत्रके वृत्तान्तो को कह करके उन दोनोंके कानोंको पीड़ायें दी—क्योंकि अप्रिय कथनसे पीड़ा ही होती है । राजा प्रहारवर्मा भी भाग्यके दोषसे दीर्घकालतक ज्येष्ठ भ्राताके पुत्रोंके साथ युद्ध करके न जीते। फिर उन सबका अपकार न सह करके विकट युद्ध करनेसे स्वयं ही पकड़ लिये गये। रानी भी पकड़ ली गयीं। हतभागिनी मैं इस वृद्धापनमें भी अपने जीवनको नष्ट करनेमें असमर्थ होकर संन्यासधारिणी हो गयी । मेरी पुत्री भी व्यर्थ जीवनके आकर्षण से विकटवर्मा ( प्रहारवर्माके ज्येष्ठ भाईका पुत्र) की पटरानी महादेवी कल्पसुन्दरीके आश्रयमें पड़ी है। यदि वे दोनों राजकुमार निर्विघ्नतापूर्वक पाल करके बढ़ाये जाते तो इस समय तक वे आपकी अवस्थाके हुए होते । और उन दोनोंके होनेसे, राजा प्रहार- वर्माका कोई दायाद ( पट्टीदार ) बलात्कारसे राज्यापहरणकारी न रह पाता।' ऐसा कह- कर वह वृद्धा घोर सन्तापसे जोर-जोरसे रोने लगी । ( ६ ) इस वृत्तान्तको उस वृद्धा तापसीके मुखसे सुनकर मैंने गुप्तरीतिसे अपनी