द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
द्रव्यगुणः । १०६ सर्वं पित्तकरं मद्यमम्लं दीपनपाचनम् । भेदनं कफवातघ्नं हृद्यं बस्तिविशोधनम् ॥ पाके लघु विदाह्युष्णं तीक्ष्णमिन्द्रियबोधनम् । विकासि सृष्टविण्मूत्रं निद्राभावप्रसक्तिनुत् ॥ १॥ स्तन्यरक्तक्षयहिता सुरा दीपनबृंहणी । कार्श्यार्शोग्रहणीदोषमूत्राघातानिलापहा ॥ २॥ कासार्शोग्रहणीदोषप्रतिश्यायविनाशिनी । श्वेता मूत्रकफस्तन्यरक्तमांसकरी सुरा ॥ ३ ॥ इदानीं मधुगुडयोनित्वात् तथा मधुशब्दाभिधेयत्वाच्च मद्यस्य तदनन्तरं मद्यवर्गमाह सर्वमिति । यद्यपि मार्द्वीकमा- ध्वोकादिमद्यं साक्षादप्रतीयमानाम्लरसं तथापि अम्लकार्य्यदन्त- हर्षमुखस्रावकारित्वेन अम्लानुरसत्वेन चाम्लत्वमिह ज्ञेयम् । यत्तु वाग्भटे सस्वादुतिक्तकटुकमम्लपाकरसं सरम् । सकषायं स्वरारोग्यप्रतिभावर्णकृल्लघु ॥ इति । पञ्चरसत्वमुक्तम् । तन्मतेऽप्यम्लानुरसता इतररसानां ज्ञेया । उक्तं हि सर्वेषां मद्यमम्लानामुपर्य्युपरि वर्त्तते । इति । इन्द्रियबोधनमिति इन्द्रियपाटवकरमिति डल्लनः । निद्राभावप्रसक्तिनुदिति निद्राया अभावं नाशं तथा निद्राया अतिप्रसक्तिञ्च नुदति । अतएवोक्तमन्यत्र नष्टनिद्रातिनिद्राये हितं पित्तास्रदूषणम् । इति ॥ १ ॥ सुरागुणमाह स्तन्येति । सुराऽत्र लोहितवर्णा ॥ २ ॥ १०
११० द्रव्यगुणः । छर्द्यरोचकहृत्कुक्षितोदशूलप्रमर्दिनी । प्रसन्ना गुल्मवातार्शोविवन्धानाहनाशिनी ॥४॥ पित्तलाल्पकफा रूक्षा यवैर्वातप्रकोपणी । विष्टम्भिनी सुरा गुर्वी श्लेष्मला तु मधूलिका ॥५॥ रूक्षा नातिकफा वृष्या पाचनी वल्कली सुरा ॥६॥ कोहलो भेद्यवृष्यश्च त्रिदोषो वदनप्रियः ॥ ७ ॥ ग्राह्युष्णो जगलः प्रोक्तो रूक्षस्तृट्कफशोथनुत् ॥८॥ कातोलीति प्रसिद्धायाः श्वेतसुराया गुणमाह कासार्श इति ॥ ३ ॥ प्रसन्नागुणमाह छर्दीति । प्रसन्ना मद्यस्योपरि अच्छो भागः । अन्ये तु मद्यमेव भेषजयोगात् प्रसन्नं प्रसन्नामाहुः ॥ ४ ॥ यवगोधूमकृतसुरयोः क्रमाद्गुणमाह पित्तलेति । गुर्वी- त्यन्तो यवसुरागुणः । यवैरित्यनन्तरं कृतेति शेषः । श्लेष्मला तु मधूलिकेति गोधूमसुरागुणः । मधूलकः स्वल्पगोधूमः । तत्कृत- क्लिन्नभागा सुरा मधूलिका । अन्ये तु मधूलकां मर्कटहस्ततृणं तत्फलक्लिन्नकृता मधूलिकेत्याहुः । जेज्जड़स्तु मधूलकपुष्पस- म्भवं मद्यं मधूलिकामाह ॥ ५ ॥ वल्कलीति प्रसिद्धसुरागुणमाह रूक्षेति । बिभीतककृता सुरा वल्कली । अतएव केचिद्वल्कलीस्थाने आक्षिकीति पठन्ति । अक्षी बिभीतकः ॥ ६ ॥ कोहलाख्यमद्यगुणमाह कोहल इति । यवशक्तुकिण्वकृतं मद्यं कोहलः । अन्ये तु पौण्ड्रदेशप्रसिद्धां सुरां काञ्चिमानिका- माहुः ॥ ७ ॥
द्रव्यगुणः। १११ हृद्यः प्रवाहिकाटोपदुर्नामानिलशोधनुत् । वक्कसो हृतसारत्वाद्विष्टम्भी वातकोपनः ॥ ९ ॥ शीधुः पित्तानिलहरः श्लेष्मस्नेहविकारहा । मेदःशोथोदरार्शोघ्नो वल्यः पक्वरसो मतः ॥ १० ॥ जरणीयो विबन्धघ्नः स्वरवर्णविशोधनः । लेखनः शीतरसिको हितः शोफोदरार्शसाम् ॥ ११ ॥ गौड़ः शीधुः कषायः स्यात् स्वादुः पाचनदीपनः १२ शार्करो मधुरो हृद्यो दीपनो वस्तिशोधनः । वातघ्नो मधुरः पाके रुच्य इन्द्रियबोधनः ॥ १३ ॥ शीधुर्मधूकपुष्पोत्थो विदाह्यग्निवलप्रदः । रूक्षः कषायः कफहा वातपित्तप्रकोपणः ॥ १४ ॥ जगलो भक्तकिण्वकिक्ककृतः सुरा तस्या गुणमाह ग्राह्येति ॥ ८ ॥ भेदकगन्धद्रव्यविक्रियमाणवक्कसगुणमाह हृद्य इति ॥ ९ ॥ पक्केक्षुरसकृतशीधुगुणमाह शीधुरिति। पक्वरसः कथितेक्षु- रसेषु यः क्रियते ॥ १० ॥ अपक्केक्षुरसकृतशीधुगुणमाह जरणीय इति। शीतरसिको- ऽपक्केक्षुरसकृतः ॥ ११ ॥ गुड़कृतशीधुगुणमाह गौड़ इति ॥ १२ ॥ शर्कराकृतशीधुगुणमाह शार्कर इति। इन्द्रियबोधन इन्द्रि- यपाटवजनकः ॥ १३ ॥ अयन्तु न गुड़योनिः ॥ १४ ॥
११२ द्रव्यगुणः । जाम्बवो बद्धनिष्यन्दस्तुवरो वातकोपनः ॥ १५॥ तीक्ष्णः सुरासवो हृद्यो मूत्रलः कफवातनुत् । मुखप्रियः स्थिरमदो विज्ञेयोऽनिलनाशनः ॥१६॥ तीक्ष्णः कषायो मदकृद् दुर्नामकफगुल्मनुत् । क्रिमिमेदोऽनिलहरो मैरेयो मधुरो गुरुः ॥ १७ ॥ निर्दिशेद् द्रव्यतश्चान्यान् कन्दमूलफलासवान् ॥ १८ नवं मद्यमभिष्यन्दि दोषकृज्जीर्णमन्यथा ॥ १६ ॥ जम्बुफलरसगुड़ादिकृतशीधुगुणानाह जाम्बव इति । बद्ध- निष्यन्दो बद्धमूत्रः । तुवर इति कषायः । तौवर इति पाठे तौवर इति जाम्बवविशेषणं वदन्ति । जम्बुफलरसतुवरोक्वाथ- गुड़ादिकृतः शीधुरित्यर्थः ॥ १५ ॥ इदानीं पृथङ्मधुगुड़पिष्टयोनिमद्यान्यभिधाय मध्वादि- योनिमेलननिष्पाद्यं किञ्चिदौषधयुक्तं मद्यमासवसंज्ञकं निर्दि- शन्नाह तीक्ष्ण इति । सुरा पौष्टी सैवं यत्र तोयकार्य्यं करोति स सुरासवः ॥ १६ ॥ मैरेयगुणमाह तीक्ष्ण इति । आसवस्य सुरायाश्च द्वयोरेकत्र भाजने । सन्धानं तं विजानीयात् मैरेयमुभयाश्रयमिति ॥१७॥ अनुक्तासवगुणज्ञानार्थमाह निर्दिशेदिति । द्रव्यत इति । द्रव्यगुणतो वीक्ष्य कन्दाद्युपलक्षणम् । तेन काण्डत्वक्पल्लवा अपि ग्राह्याः ॥ १८ ॥ मद्यस्याल्पकालत्वादिना अपरिणतस्य तथा चिरकालत्वा- दिना परिणतस्य दोषगुणानाह नवमिति । जीर्णमिति कालेन परिपक्वम् ॥ १६ ॥
द्रव्यगुणः । ११३ अरिष्टो द्रव्यसंयोगसंस्कारादधिको गुणैः ॥ २० ॥ बहुदोषहरश्चैव रोगाणां शमनश्च सः । दीपनः कफवातघ्नः सरः पित्ताविरोधनः ॥ शूलाध्मानोदरप्लीहज्वराजीर्णार्शसां हितः ॥ २१ ॥ अरिष्टासवशीधूनां गुणान् कर्माणि चादिशेत् । बुद्ध्वा यथा स्वं संस्कारमवेक्ष्य कुशलो भिषक् ॥ २२ ॥ सान्द्रं विदाहि दुर्गन्धि विरसं क्रिमिलं गुरु । अहृद्यं तरुणं तीक्ष्णमुष्णं दुर्भाजनस्थितम् ॥ अल्पौषधं पर्युषितमत्यच्छं पिच्छिलञ्च यत् । तद्वर्ज्यं सर्वथा मद्यं किञ्चिच्छेषञ्च यद्भवेत् ॥ २३ ॥ अरिष्टगुणमाह अरिष्ट इति । अरिष्टशब्देन इक्षुविकारस- हिताभयाचित्रकदन्तीपिप्पल्यादिभूरिभेषज-क्वाथ्यादिसंस्कारवत् मद्यमभिधीयते । द्रव्यसंयोग इति अभयाचित्रकादिद्रव्यसंयोगः । संस्कारस्तु भेषजक्वाथनभाजनसंस्कारयवराशिस्थापनादिः ॥ २० ॥ अधिकगुणत्वमेवाह बह्विति । बहुदोषहर इत्यस्य भाष्यं कफवातघ्नः पित्ताविरोधेन इति । नञ् ईषदर्थे । रोगाणां शमन इत्यस्य तु भाष्यं शूलाध्मानेत्यादि । तेन न पौनरुक्त्यम् । किंवा शेषार्थमेतद्वचनमित्याहुः । दोषाणां शमन इति पाठेऽपि दोष- शब्दो रोगवचन एवेति ज्ञेयम् ॥ २१ ॥ अरिष्टप्रसङ्गेनासवशीधूनामपि बहुप्रपञ्चेनेहानुक्तानां गुण- ज्ञानार्थमाह अरिष्टेति । संस्कारमवेक्ष्येति संस्कारद्रव्यगुणान् बुद्ध्वा ॥ २२ ॥ यादृशं मद्यं वर्ज्यं तदाह सान्द्रमिति । तरुणमिति मन्द-
११४ द्रव्यगुणः । चिरस्थितं जातरसं दीपनं कफवातजित् । रुच्यं प्रसन्नं सुरभि मद्यं सेव्यं मदावहम् ॥२४॥ शुक्तं वलाशपित्तासृक्क्लेदि वातानुलोमनम् । भृशोष्णतीक्ष्णारूक्षाम्लं हृद्यं रुचिकरं सरम् । दीपनं शिशिरं स्पर्शे पाण्डुहत्कृमिनाशनम् ॥२५॥ तद्वत्तदास्रुतं सर्वं रोचनन्तु विशेषतः ॥ २६ ॥ गौड़ानि रसशुक्तानि मधुशुक्तानि यानि च । जातम् । एतच्चोक्तमपि समुदितदोषाभिधानप्रस्तावात् पुनरु- च्यते ॥ २३ ॥ सेव्यं यन्मद्यं तदाह चिरस्थितमिति ॥ २४ ॥ आसुतत्वसामान्यात् शुक्तादिगुणकर्मणी दर्शयन्नाह शुक्त- मिति । शुक्तलक्षणं यथा । यन्मस्त्वाद्वि शुचौ भाण्डे सगुड़क्षौद्रकाञ्जिकम् । धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते ॥ इति । अत्रैव गुड़ादिमानं यथा । गुड़माक्षिकधान्याम्लमस्तु च द्विगुणं क्रमात् । शुक्तसिद्धार्थमावाप्यं प्रायशः कंटुकञ्च तत् ॥ इति ॥२५॥ शुक्तप्रक्षिप्तकन्दादिषु शुक्तगुणानभिदिशति । तदास्रुत- मिति । शुक्तसन्धानक्षिप्तमार्द्रककरीरादि तद्वदिति शुक्तसमान- गुणम् ॥ २६ ॥ शुक्तस्य योनिभेदेन गुणमाह गौडानीति । गौड़ानि गुड़- प्रकृतित्तशुक्तानि । रसशुक्तानि इक्षुरसकृतशुक्तानि । एतच्छुक्तत्रय- ज्ञानार्थंपरि भाषा यथा ।
द्रव्यगुणः । ११५ यथापूर्वं गुरुतराण्यभिष्यन्दकराणि च ॥ २७ ॥ काञ्जिकं भेदि तीक्ष्णोष्णं पित्तकृत् स्पर्शशीतलम् । भ्रमक्लमहरं रुच्यं दीपनं वस्तिशूलनुत् ॥ शस्तमास्थापने हृद्यं लघुवातकफापहम् । गण्डूषधारणाद्वक्त्रमलदौर्गन्ध्यशोषजित् ॥ २८ ॥ एभिरेव गुणैर्युक्ते सौवीरकतुषोदके । क्रिमिहृद्रोगगुल्मार्शःपाण्डुरोगनिबर्हणे ॥ २९ ॥ मूत्रं गोजाविमहिषगजाश्वोष्ट्रखरोद्भवम् । पित्तलं रूक्षतीक्ष्णोष्णं लवणानुरसं कटु ॥ गुड़ाम्बुना सतैलेन सन्धानं संस्कृतं तु यत् । कन्दशाकफलैर्युक्तं गुड़शुक्तं तदुच्यते ॥ इति । गुड़शुक्तवदिक्षुरसशुक्तं ज्ञेयम् । जम्बीरस्य फलरसं पिप्पलीमूलसंयुतम् । मधुभाण्डे विनिक्षिप्य धान्यराशौ निधापयेत् । त्र्यहेण तज्जातरसं मधुशुक्तमुदाहृतम् ॥ इति ॥ २७ ॥ काञ्जिकगुणमाह काञ्जिकमिति । पित्तकरस्यापि काञ्जि- कस्य दाहशमकत्वं यत् सुश्रुतेनोक्तं तत् स्पर्शेनैव ज्ञेयम् । अन्ये तु यथा तक्रं कण्ठे कफं करोति उदरे तु हन्ति प्रभावात् तद्व- दवापि पित्तकरस्यापि काञ्जिकस्य दाहहरत्वं प्रभावेणैव ज्ञेय- मित्याहुः ॥ २८ ॥ सौवीरतुषोदकयोर्गुणमाह एभिरिति । वितुषयवकृतं सौ- वीरं सतुषयवक्षतं तुषोदकम् ॥ २९ ॥ द्रव्यपारिशेष्यान्मूत्राण्याह मूत्रमिति । अत्र व्यवहारसिद्ध-
११६ द्रव्यगुणः। क्रिमिशोफोदरानाहशूलपाण्डुकफानिलान् । गुल्मारुचिविषश्वित्रकुष्ठार्शांसि जयेल्लघु ॥ दीपनं पाचनं भेदि तेषु गोमूत्रमुत्तमम् ॥ ३० ॥ गोमूत्रं कटु तीक्ष्णोष्णं सक्षारत्वान्न वातलम् । लघ्वग्निदीपनं मेध्यं पित्तलं कफवातनुत् ॥ गुल्मशूलोदरानाहविरेकास्थापनादिषु । मूत्रप्रयोगसाध्येषु गव्यं मूत्रं प्रयोजयेत् ॥ ३१ ॥ दुर्नामोदरशूलेषु कुष्ठमेहाविशुद्धिषु । आनाहशोफगुल्मेषु पाण्डुरोगे च माहिषम् ॥ ३२॥ कटु तिक्तान्वितं छागमौष्ण्यमारुतकोपनम् ॥ ३३ ॥ सक्षारतिक्तकटुकमुष्णं वातघ्नमाविकम् ॥ ३४ ॥ आश्वं कफहरं मूत्रं वातचेतोविकारनुत् ॥ ३५॥ तीक्ष्णं क्षारे किलासे च नागमूत्रं प्रयोजयेत् ॥३६ त्वात् लोके वेदे च धेनुमूत्रमेव गृह्यते न तु वलीवर्दस्य। अन्ये तु शुक्रसम्बन्धेन गुरुत्वात् पुङ्गवमूत्रं न ग्राह्यमित्याहुः । तन्न। शुक्रसम्बन्धस्य स्त्रीष्वपि प्रसक्तत्वात्। अपरे तु स्त्रीमूत्रं लघु- त्वात् ग्राह्यमित्याहुः । तदप्ययुक्तं येन सेकादौ वाते च मूत्रस्य गौरवमप्युपयुक्तं तस्माद्यथोक्तमेव श्रेय इति ॥ ३० ॥ सामान्यगुणमभिधाय तेषां विशिष्टगुणमाह गोमूत्रमिति । अविशिष्टमूत्रप्रयोगे गव्यमूत्रमेव ग्राह्यमित्यर्थः ॥ ३१ ॥ अविशुद्धिर्वमनादीनाम् ॥ ३२ ॥ चेतोविकार उन्मादापस्मारौ ॥ ३५ ॥
द्रव्यगुणः । ११७ दीपनं गार्दभं मूत्रं गरचेतोविकारनुत् ॥ ३७ ॥ अर्शोघ्नं कारभं मूत्रं मानुषन्तु विषापहम् ॥ ३८ ॥ इति मद्यादिवर्गः । विधिना कृत आहारः प्रीणनो धातुपोषकः । स्मृत्यायुःपुष्टिवर्णौजःसत्त्वोत्साहविवर्द्धनः ॥ १ ॥ ओदनः चालितः स्विन्नः प्रस्रुतो विषदो लघुः । क्षार इति क्षारापाके ॥ ३६ ॥ कारभमित्यौष्ट्रम् । मानुषमूत्रमवहृविषयतया उद्वेगेनानुक्त- मपि विषहन्तृतया अशून्यताथं पठ्यते ॥ ३८ ॥ इति मद्यादिवर्गः । इदानीमुक्तानामेव धान्यादीनां संस्कारविशेषाद्दितं गुण- मभिधातुं कृतान्नवर्ग आरभ्यते । कृतं करणनिष्पादितं यदन्न- पेयामण्डादि । ते च पेयादीनां गुणाः संस्कारसंयोगादिजाः केचित् प्रकृता अपि । न च वाच्यं पेयादीनामिव गुणेन बाधित- त्वात् शूकधान्यादीनां पृथग्गुणकथनमुक्तमिति । यतः पेया- दयो हि प्रकृतिगुणानुविधायिनः सन्तो गुणमावहन्ति तेन यः कृतान्नस्य गुण उच्यते स यदि रक्तशाल्यादिप्रकृतावपि स्यात् तदा बलवान् स्यात् अथ विपरीतगुणः स्यात् तदा कृतान्नगुण- स्याल्पत्वं स्यादिति एषोऽर्थः प्रागेव प्रपञ्चित इति नेहोच्यते । अत्राहारसामान्यगुणमाह विधिनेत्यादि । विधिनेति वक्ष्यमाण- विधिना ॥ १ ॥
११८ द्रव्यगुणः । भृष्टतण्डुलजोऽत्यर्थमन्यथा स्याद् गुरुश्च सः ॥२॥ मण्डस्तु भूरिदोषघ्नो दीपनोऽनिलनाशनः । ज्वरहा परमो बल्यः स्वेदनो मार्गशोधनः ॥३॥ लाजमण्डो विशुद्धानां पथ्यः पाचनदीपनः । वातानुलोमनो हृद्यः पिप्पलीनागरान्वितः ॥४॥ आहारगुणमभिधाय ओदनस्य प्रायेण सर्वजनोपयोज्यत्वात् प्रथमं तद्गुणमाह ओदन इति । क्षालित इति प्रक्षालिततण्डुल- कृतः । स्विन्न इत्युत्स्विन्नधान्यतण्डुलकृतः । किं वा सम्यक् स्विन्नत्वेन मृदुभूतः प्रस्रुत इति प्रस्रावितद्रवभागः । विशद इति स्वभावेन । तथा कण्डनेन च शुक्लं यत्तण्डुलं तत्कृतः एवम्भूत ओदनो लघुर्भवति । भृष्टतण्डुलजस्तु अत्यर्थं लघुः । अन्यथा इति क्षालितादिविपर्य्ययो गुरुर्भवतीत्यर्थः ॥ २ ॥ मण्डगुणमाह मण्ड इति । मार्गशोधन इति स्रोतःशुद्धि- करः ॥ ३ ॥ अत्र पाचनत्वं मण्डस्य दोषशेषं विना नोपपद्यते । सम्यक् शुद्धौ च दोषशेषो नोपपद्यते इति विरोधं पश्यन् अकारप्रश्लेषा- दविशुद्धानां पाचन इति कश्चिदाह । तन्न चरकविरोधात् । तत्र हि क्षुत्पिपासापहः पथ्यः शुद्धानान्तु मलापह इत्युक्तम् । न च तत्रापि शुद्धानां मलापह इत्यनुपपत्त्या शुद्धानामित्यस्य ईष- च्छुद्धानामित्यर्थो व्याख्येय इति वाच्यम् । सम्यक् शुद्धानामपि घृतभाण्डावलेपन्यायेन कोष्ठोपलेपकदोषापहत्वेन मलापह- त्वोपपत्तेः । तस्मात् सुश्रुतेऽपि यत् पाचनत्वमुक्तं लाजमण्डस्य तत् सति दोषशेषे इति ज्ञेयम् । सम्यक् शुद्धौ च पथ्यत्वदीप-
द्रव्यगुणाः । ११८ पेया स्वेदाग्निजननी वातवर्चोऽनुलोमनी । क्षुत्तृष्णाग्लानिदौर्बल्यकुक्षिरोगज्वरापहा ॥ ५ ॥ विलेपी ग्राहिणी हृद्या तृष्णाघ्नी दीपनी हिता । व्रणाक्षिरोगसंशुद्धदुर्बलस्नेहपायिनाम् ॥ ६ ॥ यवागूज्ज्वरतृष्णाघ्नी लघ्वीवस्तिविशोधनी ॥ ७ ॥ सिक्थकैरहितो मण्डः पेया सिक्थसमन्विता । नत्वाभ्यामेवास्योपयोगः । अपि च । मण्डोऽप्यतिद्रवा पेयेव । सा च ईषद्विशुद्धे निषिद्धा । यथा । कफपित्ते विशुद्धेऽल्पं मद्यपे वातपैत्तिके । तर्पणादिक्रमः कार्य्यः पेयाभिष्यन्दयेद्धितान् ॥ तेनाकारप्रश्लेषो न युक्त इति ॥ ४ ॥ द्विधा हि यवागूः पेयाविलेपीभेदात् । तत्र पेयागुणमाह पेयेति ॥ ५ ॥ विलेपीगुणमाह विलेपीति ॥ ६ ॥ विशिष्टयवागूगुणमभिधाय यवागूसामान्यगुणमाह यवागू- रिति ॥ ७ ॥ उक्तानामिव मण्डादीनां लक्षणमाह सिक्थकैरिति । तत्र द्रवसिक्थसमन्विता यवागूरिति यवागूसामान्यलक्षणम् । सा च द्विविधा पेयाविलेपीभेदात् । मण्डस्तु यवाग्वा एवोपरितनो भागो न तु पृथङ्मण्डः साध्यते । आयुर्वेदशास्त्रे अदर्शितत्वात् । यस्तु क्वचिन्मण्डगुणो मण्डोपयोगो वा श्रूयते सोऽप्येवंरूप एव बोध्यः । ननु मण्डो हि चतुर्दशगुणजलसाध्यः यवागूस्तु षड्- गुणसाध्या । यदुक्तम् । अन्नं पञ्चगुणे साध्यं विलेपी च चतुर्गुणे ।
१२० द्रव्यगुणः । यवागूर्बहुसिक्था स्याद् विलेपी विरलद्रवा ॥८॥ मण्डपेयाविलेपीनामोदनस्य च लाघवम् । यथापूर्वं शिरस्तत्र मण्डो वातानुलोमनः ॥ ६ ॥ मण्डश्चतुर्दशगुणे यवागूः षड्गुणेऽम्भसि ॥ इति । तत्कथमुच्यते यवाग्वा एवोपरितनो भागो मण्ड इति । नैवं तत्र यवागूशब्देन पेया विवक्षिता । अतएव पेयायाः पृथग् जलं नोक्तम् । द्रवसिकथसमन्वितत्वं हि यवागूसामान्यलक्ष- णम् । तेन चतुर्दशगुणसाध्यस्यापि मण्डस्य सिक्थसमन्विताव- स्थायां यवागूत्वमेव । तेन सूक्तं यवाग्वा उपरितनो भागो मण्ड इति । पेया इति पातुं योग्या एतेनान्वर्थसंज्ञया बहुद्रवत्वमल्प- सिक्थत्वञ्च बोध्यम् । तेन सिक्थसमन्विता यवागूः पेयेति । पेयालक्षणे बहुद्रवत्वमल्पसिक्थत्वञ्च लक्षणतया बोध्यम् । तथा विरलद्रवा बहुसिक्था च यवागूर्विलेपीति विलेपीलक्षणमव- गन्तव्यम् । विरलद्रवा अल्पद्रवेत्यर्थः । तेन पेयाविलेपी व्यति- रेकेण यवागूः पृथङ् नास्तीत्याहुः । एतेन चरकवाग्भटसुश्रुतै- रपि यवागूगुणः पृथङ्नोक्तः । यत्तु माधवचक्राभ्यां पेयाविलेपी- गुणं पठित्वा यवागूगुणः पृथक् पठितः, तत्सामान्यगुणाभि- प्रायेण सामान्यक्षीरगुणवदिति ज्ञेयम् ॥ ८ ॥ उक्तानामेव मण्डादीनामापेक्षिकं लाघवमाह मण्डेति । यथापूर्वं लाघवमिति तेनौदनमपेक्ष्य लघ्वी विलेपी ततोऽपि पेया पेयातो मण्डो लघुतर इत्यर्थः । यद्यपि वातानुलोमनत्वं मण्डस्य पूर्वमुक्तं तथापि सम्पूर्णश्लोकानुरोधात् अत्र पुनः पठति । इदं हि वचनं वाग्भटस्य । अत्र यवाग्वादिसाधन- परिभाषाश्च सव्याख्याना अस्मदीयचरकतत्त्वदीपिकायामनु- सन्धेया विस्तरभयाच्चेह नोक्ताः ॥ ९ ॥
द्रव्यगुणः । १२१ पायसः कफकृद्वल्यो विष्टम्भी मेदुरो गुरुः ॥१०॥ कृशरा पित्तकफदा वल्या मारुतनाशिनी ॥११॥ अन्नं मांसादिभिः सार्द्धं सिद्धं स्याद् गुरु बृंहणम् १२ रसौदनो ज्वरहरी बल्यो ग्राह्यनिलापहः ॥१३॥ घोलभक्तं श्रमार्त्तिघ्नं रुच्यं तर्पणदीपनम् ॥१४॥ सद्योऽन्नं वारिणा धौतं शीघ्रपाकं बलप्रदम् । शीतलं मधुरं रुच्यं श्रमघ्नं तर्पणं परम् ॥ १५ ॥ पानीयभक्तं व्युषितं मेदःस्वेदकफप्रदम् । त्रिदोषकोपनं रूक्षं मलकृत् मूत्रलं परम् ॥१६॥ सुस्विन्नो निस्तुषो भृष्ट ईषत्सूपो लघु र्हितः ॥१७॥ विलेपीभेदस्य पायसस्य गुणमाह पायस इति । क्षीरकृता हि विलेपी पायसः ॥ १० ॥ कृशरागुणमाह कृशरेति । कृशरा तु तिलतण्डुलमाषकता यवागूः । उक्तं हि तिलतण्डुलमाषैस्तु कृशरा विश्रयेति च ॥ ११ ॥ अन्नस्य द्रव्यविशेषसंयोगाद् गुणविशेषं दर्शयन्नाह अन्न- मिति ॥ १२ ॥ त्रिदोषकोपनमित्युक्तापि कफप्रदमिति वचनं विशेषार्थम् ॥ १६ ॥ अन्नानन्तरं व्यञ्जनप्रधानं सूपमाह सुस्विन्न इति । ईषद्- भृष्ट इति सम्बन्धः । ये तु माससूप इति पठन्ति ते मुद्गादि- सूपानां प्रकृतिलाघवेनैव लघुत्वं लब्धं तेन गुरोरपि माषस्य सुस्विन्नत्वादिना लघुत्वमुच्यत इत्याहुः ॥ १७ ॥ ११
१२२ द्रव्यगुणः । स्विन्नं निष्पीडितं शाकं स्नेहसंस्कारितं हितम् । अस्विन्नं स्नेहरहितमपीडितमतोऽन्यथा ॥ १८ ॥ स्विन्नं मांसं कटु स्नेहगोरसाम्लफलैः सह । बृंहणं रोचनं बल्यं खालिष्कस्तु सदा गुरुः ॥१९॥ तदेव गोरसादानं सुरभि द्रव्यसंस्कृतम् । विद्यात् पित्तकफोत्क्लेदि बलमांसाग्निवर्द्धनम्२० परिशुष्कं स्थिरं स्निग्धं हर्षणं प्रीणनं गुरु । रोचनं बलमेधाग्निमांसौजःशुक्रवर्द्धनम् ॥ २१ ॥ तदेवोल्लुप्तपिष्टत्वादुल्लुप्तमिति भाषितम् । परिशुष्कगुणैर्युक्तं ज्ञेयं पथ्यतमं गुरु ॥ २२ ॥ सूचिकटाहन्यायेन व्यञ्जनप्रधानमांसात् पूर्वं शाकमाह स्विन्नमिति। अतः पूर्वोक्तात्। अन्यथेति अहितमित्यर्थः ॥१८॥ मांसव्यञ्जनानां विशेषाणां गुणमाह स्विन्नमिति । खालिष्को वक्ष्यमाणपरिशुष्काख्यमांसव्यञ्जनभेदः । अन्ये तु वेशवाराख्य- मांसव्यञ्जनभेद इत्याहुः ॥ १९ ॥ तस्यैव मांसस्य प्रदिग्धत्वेन प्रसिद्धस्य गुणमाह तदिति । आदानं घनद्रवावापः गोरस एव आदानं यस्य तद्गोरसादा- नम् ॥ २० ॥ तस्यैव मांसस्य परिशुष्कत्वेन प्रसिद्धस्य गुणमाह परि- शुष्कमिति । परिशुष्कप्रदिग्धयोर्लक्षणं यथा । सिक्थं बहु घृते घृष्टं मुहुरुष्णांबुसेचितम् । जीरकाद्यैर्युतं मांसं परिशुष्कं तदुच्यते । तदेव गोरसादानं प्रदिग्धमिति विश्रुतम् ॥ २१ ॥
तदेव शूलिकाप्रोतमङ्गारे परिपाचितम्। ज्ञेयं गुरुतरं किञ्चित् प्रदिग्धं गुरुपाकतः ॥ २३ ॥ मांसं यत्तैलसिद्धं तद्वीर्य्योष्णं पित्तकृद् गुरु। घृतसिद्धन्तु रुच्यग्निदृष्टिदं पित्तनुल्लघु ॥ २४ ॥ वेशवारो गुरुः स्निग्धो बलोपचयवर्द्धनः ॥ २५ ॥ परिशुष्कस्य शूल्यस्य प्रसङ्गेनागेपशूल्यानामपि विशेषगुण- माह तदिति। तदेव परिशुष्कमेव उल्लुप्तमिति भाषितम् सूढे- रुल्लुप्तमिति संज्ञया परिभाषितम्। कुत इत्याह उल्लुप्तपिष्ट- त्वादिति। लुंप् छेदने इत्यस्माद्भावे क्तः। उत्कर्षेणातिशयेन लुप्तम्। तेन प्रत्यवयवच्छेदनेन पिष्टमिव पिष्टम् उल्लुप्तपिष्टम्। ज्ञेयं पथ्यतमं गुर्वित्यस्य स्थाने केचिद्वह्वेः पक्वमती लघ्विति पठन्ति। तन्मते अत इति परिशुष्कात् वह्नेः पक्वं यदुल्लुप्तं तल्लघु भवतीत्यर्थः ॥ २२ ॥ तस्यैव उल्लुप्तस्याङ्गारपाचनादिविशेषेण गुणमाह तदिति। शूलिकाप्रोतमिति लोहादिशलाकारोपितम्। गुरुतरमिति परिशुष्काद्गुरोर्गुरुतरं ज्ञेयम्। कुत इत्याह प्रदिग्धं गुरुपाकत इति। यस्मात् स्नेहादिप्रदिग्धं वस्तु पाकतो गुरु भवति। अथवा गुरुपाकत इति परिशुष्कविशेषणम्। तेन गुरुपाकतः परिशु- ष्कात् शूलपाचितं गुरु ज्ञेयम्। अत्रैव हेतुगर्भविशेषणं प्रदिग्ध- मिति स्नेहादिप्रदिग्धत्वादित्यर्थः ॥ २३ ॥ एषां सर्वेषामेव तैलयोगकृतं घृतयोगकृतञ्च गुणविशेषमाह मांसमिति ॥ २४ ॥ वेशवारगुणमाह वेशवार इति। वेशवारलक्षणं यथा। निरस्थि पिशितं पिष्टं स्विन्नं गुड़घृतान्वितम्।
१२४ द्रव्यगुणः । रसो ज्वरक्षयहरः स्मृत्योर्जःस्वरवर्द्धनः । बृंहणः प्रीणनो वृष्यश्चक्षुष्यो व्रणिनां हितः ॥२६॥ स दाड़िमयुतो वृष्यः संस्कृतो दोषनाशनः ॥२७॥ प्रीणनः सर्वधातूनां विशेषान्मुखशोषिणाम् । क्षुत्तृष्णापहरः श्रेष्ठः सोरावः स्वादुशीतलः ॥२८॥ मांसं यदुद्धृतरसं न तत्पुष्टिबलावहम् । विष्टम्भि दुर्जरं रूक्षं नीरसं मारुतावहम् ॥२९॥ दग्धमत्स्यो गुरुर्वृष्यो बृंहणः प्राणवर्द्धनः । क्षीणशुक्राश्च ये केचित् भग्नजर्जरिताश्च ये ॥ नित्यं स्त्रीसेविनश्चैव क्षीणरेतस एव च । दग्धमत्स्यो हितस्तेषां सतैललवणान्वितः ॥३०॥ तस्माद्धीनगुणः किञ्चिद् भृष्टमत्स्य उदाहृतः ॥३१॥ कणामरिचसंयुक्तं वेशवार इति स्मृतः ॥ २५ ॥ मूर्त्तमांसप्रकारमभिधाय द्रवमांसप्रकारमाह रस इति ॥२६॥ तस्यैव मांसरसस्य द्रवसंयोगजं गुणमाह स इति । स इति मांसरसः । संस्कृत इति कटुकादिना ॥ २७ ॥ सोरावगुणमाह प्रीणन इति । सोरावो रसस्योपर्य्यच्छो भागः ॥ २८ ॥ मांसक्वाथसारो रसः तेन तत्प्रसङ्गेन तत्किट्टभूतमांसगुणमाह मांसमिति ॥ २९ ॥ आमिषत्वसामान्याद् दग्धमत्स्यगुणमाह दग्धमत्स्य इति ॥ ३० ॥
द्रव्यगुणाः। १२५ यथाप्रकृतिनिर्देश्यो व्यञ्जनेषु गुणान्वयः ॥३२॥ कफघ्नो दीपनो हृद्यः शुद्धानां व्रणिनामपि । ज्ञेयः पथ्यतमश्चापि मुद्गयूषः कृताकृतः ॥ ३३ ॥ स तु दाड़िममृद्वीकायुक्तः स्याद्रागषाड़वः । रुचिविष्णुल्लघुपाकश्च दोषाणाञ्चाविरोधकृत् ॥३४॥ मसूरमुद्गगोधूमकुलत्यलवगैः कृतः । कफपित्ताविरोधी स्याद् वातव्याधौ च शस्यते॥३५ मृद्वीकादाड़िमैर्युक्तः स चाप्युक्तोऽनिलार्दिते । रोचनो दीपनो हृद्यो लघुपाक्युपदिश्यते ॥३६॥ पटोलनिम्बयूषौ तु कफमेदोविशोषिणौ । पित्तघ्नौ दीपनौ हृद्यौ क्रिमिकुष्ठज्वरापहौ॥३७ अनुक्तव्यञ्जनगुणज्ञानार्थमाह यथेति ॥ ३२ ॥ यूषेषु प्रधानत्वात् मुद्गयूषगुणमाह कफघ्न इति। कृताकृत इति लवणादिसंयुतः कृत इत्युच्यते । तद्रहितस्तु अकृत इति । उक्तं हि सुश्रुते । 'अस्नेहलवणं सर्वमकृतं कटुकैर्विना । विज्ञेयं लवणस्नेहकटुकैः संस्कृतं कृतम् ॥ ३३ ॥' अस्यैव यूषस्य संयोगविशेषेण नामान्तरमाह स इति ॥३४॥ मसूरादिपञ्चकयूषगुणमाह मसूरेत्यादि ॥ ३५ ॥ अस्यैव मृद्वीकादियोगेन गुणमाह मृद्वीकेत्यादि ॥ ३६ ॥ अत्र यूषस्य सूपयोनित्वाद् मुद्गादिकं त्रिगुणमिच्छन्ति द्विव- चनोपादानात् यूषद्वयं ज्ञेयम् ॥ ३७ ॥
१२६ द्रव्यगुणः। हन्ति मूलकयूषस्तु कफमेदोगलामयान् । श्वासकासप्रतिश्यायप्रसेकारोचकज्वरान् ॥ ३८॥ मुद्गामलकयूषस्तु ग्राही पित्तकफे हितः । यवकोलकुलत्थानां यूषः कण्ठ्योऽनिलापहः ॥३६॥ सर्वधान्यकृतस्तद्वद् बृंहणः प्राणवर्धनः ॥ ४० ॥ खड़काम्बलिकौ हृद्यौ छर्दिवातकफे हितौ ॥४१॥ बल्यः कफानिलौ हन्ति दाड़िमाम्लोऽग्निदीपनः४२ मूलकयूष इति मूलकशुण्ठकयूषः। चन्द्रिकाकारस्तु बाल- मूलयूष इत्याह । जेज्जड़स्तु यद्यपि बालमूलकं त्रिदोषघ्नं तथापि तस्य यूषकरणे श्रुतिर्नास्तीति अयमपि मुद्गादिसहितो ज्ञेय इत्याह ॥ ३८ ॥ सर्वधान्यकृत इति सर्वशमीधान्यकृतः। शूकधान्यकुधान्य- योस्तु अयूषयोनित्वादिह न ग्रहणम् ॥ ४० ॥ खड़काम्बलिकयूषविशेषयोर्गुणमाह खडेति । अत्र खड़ो द्विविधः । सतक्रशमीधान्य एकः । सतक्रशाकश्चापरः । तत्राद्यः ससूप्यधान्यान् सस्नेहान् साम्लान् सांग्राहिकान् खड़ानित्युक्त- लक्षणः । सतक्रशाकस्तु । सतक्रं कपित्थचाङ्गेरीमरिचाजाजिचित्रकैः। सुपक्वः खड़यूषोऽयमयं काम्बलिकोऽपरः । दध्यम्ललवणस्नेहतिलमाषसमन्वितः ॥ इति ॥ ४१ ॥ तत्राम्लसिद्धः काम्बलिक इति । अम्लानां बहुत्वात् येन येनाम्लेन यूषो यं यं गुणं करोति तं तं दर्शयन्नाह बल्य इति ॥ ४२ ॥
द्रव्यगुणाः। १२७ धान्याम्लो दीपनो हृद्यः पित्तकृद्वातनाशनः ॥४३॥ दध्यम्लः श्लेष्मलो बल्यः स्निग्धो वातहरो गुरुः ॥४४ तक्राम्लः पित्तकृद्धृद्यो विषरक्तप्रदूषणः ॥ ४५ ॥ अथ गोरसधान्याम्लफलाम्लैरन्वितञ्च यत् । यथोत्तरं लघु हितं संस्कृतासंस्कृतं रसम् ॥ ४६ ॥ तिलपिण्याकविकृतिः शुष्कशाकं विरूढकम् । सिण्डाकी च गुरूणि स्युः कफपित्तहराणि च ॥४७ रागषाड़वयोगास्तु छर्दिमूर्च्छातृषापहाः । दाड़िमेनाम्लोक्रियते यो यूषः स दाड़िमाम्लः । एवं दध्यम्ल- धान्याम्लादिकञ्च व्याख्येयम् ॥ ४५ ॥ उक्तयोर्यूषरसयोरम्लान्तरसंयोगेन तथा संस्कृतासंस्कृतयो- रपि गुरुलाघवं दर्शयन्नाह अथेति । अत्र रसमिति नपुंसक- निर्देशात् सामान्येन यूषरसयोरुभयोरपि ग्रहणम् । यथोत्तरं लघ्विति । तेन गोरसाम्लापेक्षया धान्याम्लान्वितो रसो यूषो वा लघुर्भवतीत्यादि ज्ञेयम् । तथा संस्कृतापेक्षया असंस्कृतो लघु- रित्यर्थः । संस्कृतासंस्कृतं कृताकृतमित्यर्थः ॥ ४६ ॥ कृतान्नप्रसङ्गेन शुष्कशाकविशेषाणां कृतान्नानां गुणमाह तिलेत्यादि । पिष्टतिलपिण्याकविकृतिकृतव्यञ्जनानि तिल- पिण्याकविकृतिशब्देनोच्यन्ते । तथा शुष्कशाकं विरूढकमपि व्यञ्जनविशेषो देशान्तरप्रसिद्धः । सिण्डाकी च तीरभूमौ प्रसिद्धा ॥ ४७ ॥ रागषाड़वगुणमाह रागेत्यादि । तत्र रागः । सितारुचकसिन्धूत्थैः सहक्षाम्लपरूषकैः । जम्बूफलरसैर्युक्तो रागो राजिकया कृतः ॥
४. चतुर्थ वर्ग: धातकी, शाक, धान्य व फल वर्ग एवं उपसंहार
१२८ द्रव्यगुणः। लघवो वृंहणा वृष्या हृद्या रोचनदीपनाः ॥ ४८ ॥ रसाला वृंहणी वृष्या स्निग्धा बल्या रुचिप्रदा॥४९॥ दधि स्याद्गुड़संयुक्तं स्नेहनञ्चानिलापहम् ॥ ५० ॥ द्राक्षाखर्जूरकोलानां गुरु विष्टम्भि पालकम् । परूषकाणां क्षौद्रस्य यच्चेक्षुविकृतिं प्रति ॥ ५१ ॥ तेषां कट्वम्लसंयोगात् पालकानां पृथक् पृथक् । द्रव्यं मानञ्च विज्ञाय गुणकर्माणि निर्दिशेत् ॥५२॥ षाड़वाः पुनर्मधुराम्ललवणसुगन्धिद्रव्यजा नानाविधाः । अन्ये पुनरेवं वदन्ति यदाह नलः । क्वथितन्तु गुड़ोपेतं सहकारफलं नवम् । तैलनागरसंयुक्तं विज्ञेयो रागषाड़वः ॥ इति ॥ ४८ ॥ रसालागुणमाह रसालेति । रसाला दधिसंयोगविशेषाः । तथा हि सचातुर्जातकाजाजि सगुड़ार्द्रकनागरम् । रसाला स्याच्छिखरिणी सुघृष्टं सरसं दधि ॥ ४९ ॥ रसालाप्रसङ्गेन सगुड़दधिगुणमाह दधीति ॥ ५० ॥ पालकानामपि कृतान्नभेदत्वात् तद्गुणमाह द्राक्षेति । यच्चेक्षुविकृतिं प्रतीत्यत्र पालकमिति सम्बन्धः ॥ ५१ ॥ उक्तानुक्तपालकगुणज्ञानोपायमाह तेषामिति । न हि नियतं द्रव्यं पालकेषु संयुज्यते । किं तर्हि पुरुषाणामभिलाषात् तथा व्याध्यादिविशेषैश्च तानि तानि द्रव्याणि संयुज्यन्ते । अतस्तत्तत्- कट्वम्लादिद्रव्यसंयोगं बुद्ध्वा तेषां संयुक्तानां द्रव्याणाञ्च मध्ये कस्य कियन्मानमिति बुद्ध्वा उक्तानुक्तपालकानां गुणकर्माणि निर्दिशेदित्यर्थः ॥ ५२ ॥