भारतकोश
संग्रह पर लौटें

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

१२४ द्रव्यगुणः । रसो ज्वरक्षयहरः स्मृत्योर्जःस्वरवर्द्धनः । बृंहणः प्रीणनो वृष्यश्चक्षुष्यो व्रणिनां हितः ॥२६॥ स दाड़िमयुतो वृष्यः संस्कृतो दोषनाशनः ॥२७॥ प्रीणनः सर्वधातूनां विशेषान्मुखशोषिणाम् । क्षुत्तृष्णापहरः श्रेष्ठः सोरावः स्वादुशीतलः ॥२८॥ मांसं यदुद्धृतरसं न तत्पुष्टिबलावहम् । विष्टम्भि दुर्जरं रूक्षं नीरसं मारुतावहम् ॥२९॥ दग्धमत्स्यो गुरुर्वृष्यो बृंहणः प्राणवर्द्धनः । क्षीणशुक्राश्च ये केचित् भग्नजर्जरिताश्च ये ॥ नित्यं स्त्रीसेविनश्चैव क्षीणरेतस एव च । दग्धमत्स्यो हितस्तेषां सतैललवणान्वितः ॥३०॥ तस्माद्धीनगुणः किञ्चिद् भृष्टमत्स्य उदाहृतः ॥३१॥ कणामरिचसंयुक्तं वेशवार इति स्मृतः ॥ २५ ॥ मूर्त्तमांसप्रकारमभिधाय द्रवमांसप्रकारमाह रस इति ॥२६॥ तस्यैव मांसरसस्य द्रवसंयोगजं गुणमाह स इति । स इति मांसरसः । संस्कृत इति कटुकादिना ॥ २७ ॥ सोरावगुणमाह प्रीणन इति । सोरावो रसस्योपर्य्यच्छो भागः ॥ २८ ॥ मांसक्वाथसारो रसः तेन तत्प्रसङ्गेन तत्किट्टभूतमांसगुणमाह मांसमिति ॥ २९ ॥ आमिषत्वसामान्याद् दग्धमत्स्यगुणमाह दग्धमत्स्य इति ॥ ३० ॥

द्रव्यगुणाः। १२५ यथाप्रकृतिनिर्देश्यो व्यञ्जनेषु गुणान्वयः ॥३२॥ कफघ्नो दीपनो हृद्यः शुद्धानां व्रणिनामपि । ज्ञेयः पथ्यतमश्चापि मुद्गयूषः कृताकृतः ॥ ३३ ॥ स तु दाड़िममृद्वीकायुक्तः स्याद्रागषाड़वः । रुचिविष्णुल्लघुपाकश्च दोषाणाञ्चाविरोधकृत् ॥३४॥ मसूरमुद्गगोधूमकुलत्यलवगैः कृतः । कफपित्ताविरोधी स्याद् वातव्याधौ च शस्यते॥३५ मृद्वीकादाड़िमैर्युक्तः स चाप्युक्तोऽनिलार्दिते । रोचनो दीपनो हृद्यो लघुपाक्युपदिश्यते ॥३६॥ पटोलनिम्बयूषौ तु कफमेदोविशोषिणौ । पित्तघ्नौ दीपनौ हृद्यौ क्रिमिकुष्ठज्वरापहौ॥३७ अनुक्तव्यञ्जनगुणज्ञानार्थमाह यथेति ॥ ३२ ॥ यूषेषु प्रधानत्वात् मुद्गयूषगुणमाह कफघ्न इति। कृताकृत इति लवणादिसंयुतः कृत इत्युच्यते । तद्रहितस्तु अकृत इति । उक्तं हि सुश्रुते । 'अस्नेहलवणं सर्वमकृतं कटुकैर्विना । विज्ञेयं लवणस्नेहकटुकैः संस्कृतं कृतम् ॥ ३३ ॥' अस्यैव यूषस्य संयोगविशेषेण नामान्तरमाह स इति ॥३४॥ मसूरादिपञ्चकयूषगुणमाह मसूरेत्यादि ॥ ३५ ॥ अस्यैव मृद्वीकादियोगेन गुणमाह मृद्वीकेत्यादि ॥ ३६ ॥ अत्र यूषस्य सूपयोनित्वाद् मुद्गादिकं त्रिगुणमिच्छन्ति द्विव- चनोपादानात् यूषद्वयं ज्ञेयम् ॥ ३७ ॥

१२६ द्रव्यगुणः। हन्ति मूलकयूषस्तु कफमेदोगलामयान् । श्वासकासप्रतिश्यायप्रसेकारोचकज्वरान् ॥ ३८॥ मुद्गामलकयूषस्तु ग्राही पित्तकफे हितः । यवकोलकुलत्थानां यूषः कण्ठ्योऽनिलापहः ॥३६॥ सर्वधान्यकृतस्तद्वद् बृंहणः प्राणवर्धनः ॥ ४० ॥ खड़काम्बलिकौ हृद्यौ छर्दिवातकफे हितौ ॥४१॥ बल्यः कफानिलौ हन्ति दाड़िमाम्लोऽग्निदीपनः४२ मूलकयूष इति मूलकशुण्ठकयूषः। चन्द्रिकाकारस्तु बाल- मूलयूष इत्याह । जेज्जड़स्तु यद्यपि बालमूलकं त्रिदोषघ्नं तथापि तस्य यूषकरणे श्रुतिर्नास्तीति अयमपि मुद्गादिसहितो ज्ञेय इत्याह ॥ ३८ ॥ सर्वधान्यकृत इति सर्वशमीधान्यकृतः। शूकधान्यकुधान्य- योस्तु अयूषयोनित्वादिह न ग्रहणम् ॥ ४० ॥ खड़काम्बलिकयूषविशेषयोर्गुणमाह खडेति । अत्र खड़ो द्विविधः । सतक्रशमीधान्य एकः । सतक्रशाकश्चापरः । तत्राद्यः ससूप्यधान्यान् सस्नेहान् साम्लान् सांग्राहिकान् खड़ानित्युक्त- लक्षणः । सतक्रशाकस्तु । सतक्रं कपित्थचाङ्गेरीमरिचाजाजिचित्रकैः। सुपक्वः खड़यूषोऽयमयं काम्बलिकोऽपरः । दध्यम्ललवणस्नेहतिलमाषसमन्वितः ॥ इति ॥ ४१ ॥ तत्राम्लसिद्धः काम्बलिक इति । अम्लानां बहुत्वात् येन येनाम्लेन यूषो यं यं गुणं करोति तं तं दर्शयन्नाह बल्य इति ॥ ४२ ॥

द्रव्यगुणाः। १२७ धान्याम्लो दीपनो हृद्यः पित्तकृद्वातनाशनः ॥४३॥ दध्यम्लः श्लेष्मलो बल्यः स्निग्धो वातहरो गुरुः ॥४४ तक्राम्लः पित्तकृद्धृद्यो विषरक्तप्रदूषणः ॥ ४५ ॥ अथ गोरसधान्याम्लफलाम्लैरन्वितञ्च यत् । यथोत्तरं लघु हितं संस्कृतासंस्कृतं रसम् ॥ ४६ ॥ तिलपिण्याकविकृतिः शुष्कशाकं विरूढकम् । सिण्डाकी च गुरूणि स्युः कफपित्तहराणि च ॥४७ रागषाड़वयोगास्तु छर्दिमूर्च्छातृषापहाः । दाड़िमेनाम्लोक्रियते यो यूषः स दाड़िमाम्लः । एवं दध्यम्ल- धान्याम्लादिकञ्च व्याख्येयम् ॥ ४५ ॥ उक्तयोर्यूषरसयोरम्लान्तरसंयोगेन तथा संस्कृतासंस्कृतयो- रपि गुरुलाघवं दर्शयन्नाह अथेति । अत्र रसमिति नपुंसक- निर्देशात् सामान्येन यूषरसयोरुभयोरपि ग्रहणम् । यथोत्तरं लघ्विति । तेन गोरसाम्लापेक्षया धान्याम्लान्वितो रसो यूषो वा लघुर्भवतीत्यादि ज्ञेयम् । तथा संस्कृतापेक्षया असंस्कृतो लघु- रित्यर्थः । संस्कृतासंस्कृतं कृताकृतमित्यर्थः ॥ ४६ ॥ कृतान्नप्रसङ्गेन शुष्कशाकविशेषाणां कृतान्नानां गुणमाह तिलेत्यादि । पिष्टतिलपिण्याकविकृतिकृतव्यञ्जनानि तिल- पिण्याकविकृतिशब्देनोच्यन्ते । तथा शुष्कशाकं विरूढकमपि व्यञ्जनविशेषो देशान्तरप्रसिद्धः । सिण्डाकी च तीरभूमौ प्रसिद्धा ॥ ४७ ॥ रागषाड़वगुणमाह रागेत्यादि । तत्र रागः । सितारुचकसिन्धूत्थैः सहक्षाम्लपरूषकैः । जम्बूफलरसैर्युक्तो रागो राजिकया कृतः ॥

४. चतुर्थ वर्ग: धातकी, शाक, धान्य व फल वर्ग एवं उपसंहार

१२८ द्रव्यगुणः। लघवो वृंहणा वृष्या हृद्या रोचनदीपनाः ॥ ४८ ॥ रसाला वृंहणी वृष्या स्निग्धा बल्या रुचिप्रदा॥४९॥ दधि स्याद्गुड़संयुक्तं स्नेहनञ्चानिलापहम् ॥ ५० ॥ द्राक्षाखर्जूरकोलानां गुरु विष्टम्भि पालकम् । परूषकाणां क्षौद्रस्य यच्चेक्षुविकृतिं प्रति ॥ ५१ ॥ तेषां कट्वम्लसंयोगात् पालकानां पृथक् पृथक् । द्रव्यं मानञ्च विज्ञाय गुणकर्माणि निर्दिशेत् ॥५२॥ षाड़वाः पुनर्मधुराम्ललवणसुगन्धिद्रव्यजा नानाविधाः । अन्ये पुनरेवं वदन्ति यदाह नलः । क्वथितन्तु गुड़ोपेतं सहकारफलं नवम् । तैलनागरसंयुक्तं विज्ञेयो रागषाड़वः ॥ इति ॥ ४८ ॥ रसालागुणमाह रसालेति । रसाला दधिसंयोगविशेषाः । तथा हि सचातुर्जातकाजाजि सगुड़ार्द्रकनागरम् । रसाला स्याच्छिखरिणी सुघृष्टं सरसं दधि ॥ ४९ ॥ रसालाप्रसङ्गेन सगुड़दधिगुणमाह दधीति ॥ ५० ॥ पालकानामपि कृतान्नभेदत्वात् तद्गुणमाह द्राक्षेति । यच्चेक्षुविकृतिं प्रतीत्यत्र पालकमिति सम्बन्धः ॥ ५१ ॥ उक्तानुक्तपालकगुणज्ञानोपायमाह तेषामिति । न हि नियतं द्रव्यं पालकेषु संयुज्यते । किं तर्हि पुरुषाणामभिलाषात् तथा व्याध्यादिविशेषैश्च तानि तानि द्रव्याणि संयुज्यन्ते । अतस्तत्तत्- कट्वम्लादिद्रव्यसंयोगं बुद्ध्वा तेषां संयुक्तानां द्रव्याणाञ्च मध्ये कस्य कियन्मानमिति बुद्ध्वा उक्तानुक्तपालकानां गुणकर्माणि निर्दिशेदित्यर्थः ॥ ५२ ॥

द्रव्यगुणः। १२८ दुग्धाम्लं शीतलं स्वादु वृष्यं वर्णिकरं गुरु । वातपित्तहरं रुच्यं बृंहणं बलवर्द्धनम् ॥ ५३ ॥ शक्तवः सर्पिषाभ्यक्ताः शीतोदकपरिप्लुताः । नातिद्रवा नातिसान्द्रा मन्थ इत्यभिधीयते ॥ ५४ ॥ मन्थः सद्यो बलकरः पिपासाज्वरनाशनः ॥ ५५ ॥ साम्लस्नेहगुड़ो मूत्रकृच्छ्रोदावर्त्तनाशनः । शर्करेक्षुरसद्राक्षायुक्तः पित्तविकारनुत् ॥ द्राक्षामधुकसंयुक्तः कफरोगनिबर्हणः । वर्गत्रयेणोपहितो मलदोषानुलोमनः ॥ ५६ ॥ गुर्वी पिण्डी खरात्यर्थं लघ्वी सैव विपर्य्ययात् । पालकस्य पेयत्वात् तत्प्रसङ्गेऽन्यदपि पेयमाह दुग्धाम्ल- मिति ॥ ५३ ॥ मन्थानामपि कृतान्नविशेषत्वात् तद्गुणे वाच्ये प्रथमं तल- क्षणमाह शक्तव इति । शक्तव इति यवशक्तवो लाजशक्त- वश्च । डल्हनोऽपि अविशेषोक्त्या यवादिशक्तवो ग्राह्या इत्याह ॥ ५४ ॥ मन्थगुणमाह मन्थ इति । सद्यो बलकर इत्यापातबलकरः न तूत्तरकालं रौक्ष्यलाघवात् ॥ ५५ ॥ तस्यैव द्रव्यान्तरसंयुक्तस्य गुणमाह साम्लेत्यादि । मूत्र- कृच्छ्रोदावर्त्तौ हि पक्वाशयगतौ । पक्वाशयश्च वायोः स्थानम् । तेन मूत्रकृच्छ्रादिहन्तृत्वेन अस्य वातहरत्वमप्युक्तम् । वर्गत्रये- णेति अनन्तरोक्ताम्लादि शर्करादि द्राक्षादिवर्गत्रयेणेत्यर्थः ॥ ५६ ॥

१३० द्रव्यगुणः । शक्तूनामाशु जीर्य्येत मृदुत्वादवलेहिका ॥५७॥ इति कृतान्नवर्गः । ——— वक्ष्याम्यतः परं भक्ष्यान् रसवीर्य्यविपाकतः ॥१॥ पृथुका गुरवः स्निग्धाः कफविष्टम्भकारकाः । बल्याः सक्षीरभावात्तु वातघ्ना भिन्नवर्चसः ॥२॥ लाजाश्छर्द्यतिसारघ्नाः स्नेहमेदःकफच्छिदः ॥३॥ धानोल्बम्बास्तु लघवः कफमेदोविशोषणाः ॥४॥ शक्तवो वातला रूक्षा बद्धवर्चस एव च ॥ ५ ॥ भक्ष्याः क्षीरकृता बल्या वृष्या हृद्याः सुगन्धिनः । शक्तुकृतमन्थप्रसङ्गेन शक्तुपिण्डीशक्त्ववलेहिकयोर्गुणमाह। गुर्वीति । खरा इति कठिना ॥ ५७ ॥ इति कृतान्नवर्गः । ——— भक्ष्याणामपि पृथुकादीनां शूकशमीधान्यसंभवत्वात् । कृतान्नवर्गानन्तरं भक्ष्यवर्ग उच्यते । पृथुका इति चिपिटाः । सक्षीरभावादिति सक्षीरधान्यकृतत्वात् ॥ २ ॥ धाना भृष्टयवाः उल्बम्बा होल्लाका अत्र मुद्गकलायादिशिम्बा अग्निपक्वा होल्लाका इति डल्हणः ॥ ४ ॥ धानाप्रसङ्गेन यवशक्तुगुणमाह शक्तूनामिति । शक्तूनां रूक्ष- त्वेऽपि वातलत्वाभिधानं तक्रस्य रूक्षस्यापि वातहारित्वदर्शनात् ॥ ५ ॥

द्रव्यगुणाः। १३१ अदाहिनः पुष्टिकरा दीपनाः पित्तनाशनाः ॥ ६॥ घृतपूराः प्राणकरा हृद्याः श्लेष्मविवर्द्धनाः । वातपित्तहरा वृष्या गुरवो मांसशुक्रलाः ॥ ७ ॥ गौड़िका बृंहणा वृष्या गुरवश्चानिलापहाः । अदाहिनः पित्तसहाः शुक्रलाः कफवर्द्धनाः ॥८॥ मधुशीर्षकसंयावाः पूपा ये ते विशेषतः । गुरवो बृंहणाश्चैव मोदकास्तु सुदुर्ज्जराः ॥ ६ ॥ भक्ष्याणां योनिविशेषेण गुणविशेषं दर्शयन्नाह भक्ष्या इति । गोधूमपिष्टविकृतोः क्षीरेणालोद्य ये क्रियन्ते ते क्षीरभक्ष्याः । दीपनत्वं पुनरेषां स्ववर्गापेक्षया वातोपहताग्नेः संस्कारप्रभावाद्वा ॥ ६ ॥ घृतपूरस्य गुणमाह घृतपूरा इति। घृतपूरस्य लक्षणं यथा । मर्दिता समिता क्षीरनारिकेलसितादिभिः । अवगाह्य घृते पक्वा घृतपूरोऽयमुच्यते ॥ समिता गोधूमचूर्णम् ॥ ७ ॥ गौड़िका इति । गोधूमपिष्टवेष्टना गुड़प्रधानोदरा गौड़िका उच्यन्ते । अदाहिन इति ईषद्विदाहिनः । पित्तसहा इति पित्तं न कोपयन्तीत्यर्थः ॥ ८ ॥ मधुशीर्षकाः समितावेष्टनाः । पाकाद्घनीभूतमधुना कृतो- दरा मधुशीर्षका उच्यन्ते । संयावाः पुनः समितामम्बुदुग्धेन मर्दयित्वा सुशोभनाम् । पचेद्घृतोत्तरे खण्डे क्षिपेद्भाण्डे नवे च तत् । संयावोऽसौ युतश्चूर्णैस्त्वगेलामरिचार्द्रकैः ॥ मोदकाः प्रसिद्धाः ॥ ९ ॥

१९२ द्रव्यगुणः। षट्टकः प्रागरुचिकृद् गुरुः स्वर्य्योऽनिलापहः ॥ १०॥ विष्यन्दः स्निग्धमधुरो बल्यो वातापहो गुरुः ॥११ बृंहणा वातपित्तघ्ना बल्या भक्ष्यास्तु सामिताः॥१२ हृद्याः पथ्यतमास्तेषां लघवः फेनकादयः ॥१३॥ मुद्गादिवेशवाराणां पूर्णा विष्टम्भिनो मताः ॥१४ षट्टकगुणमाह षट्टक इति। षट्टकानां बहुत्वेऽप्युदाहरणार्थ- मेको लिख्यते । लवङ्गव्योषखण्डैस्तु दधि निर्मथ्य गालितम् । दाडिमीबीजसंयुक्तं चन्द्रचूर्णावचूर्णितम् । षट्टकस्तु प्रमोदाख्यो नलादिभिरुदाहृतम् ॥ १० ॥ विष्यन्दस्तु । आमगोधूमचूर्णन्तु सर्पिः क्षीरसितान्वितम् । नातिसान्द्रो नातितनुर्विष्यन्दो नामपाकतः ॥ इति । अन्ये तु घृतभृष्टतण्डुलान् विष्यन्दशब्देनाहुः ॥११॥ समिताकृतभक्ष्याणां सामान्यगुणमाह बृंहणा इति ॥ समिता गोधूमचूर्णम् । तत्कृताः सामिताः ॥ १२ ॥ इदानीं समिताकृतभक्ष्यविशेषगुणमाह हृद्य इति । अत्रापि समिता इत्यनुवर्त्तते । फेनकलक्षणं यथा । विमर्द्य विमलां शुक्लां समितां नातिशर्कराम् । संवेष्टनाय गर्भार्थं खरपाकं घृते पचेत् । फेनकं फेनसङ्काशं सम्पूर्णशशिसन्निभम् ॥ इति । अत्र गर्भार्थमपि समितैव घृते पक्तव्या ॥ १३ ॥ समिताकृतभक्ष्याणामिव मुद्गादिकृतगर्भाणां गुणमाह मुद्गे- त्यादि । अत्र वेशवारशब्देन मुद्गादीनां स्विन्नपिष्टः कल्क-

द्रव्यगुणः । १३३ वेशवारैः सपिशितैः सम्पूर्णा गुरुबृंहणाः ॥१५॥ पाललाः श्लेष्मजननाः शष्कुल्यः कफपित्तलाः ॥१६॥ शालिपिष्टमया भक्ष्याः कफपित्तप्रकोपणाः । विदाहिनो नातिबला गुरवश्च विशेषतः ॥१७॥ वैदला गुरवो भक्ष्याः कषायाः सृष्टमारुताः । विष्टम्भिनः पित्तहराः श्लेष्मघ्ना भिन्नवर्चसः ॥१८॥ विरूढ़ककृता भक्ष्या गुरवोऽनिलपित्तलाः ॥१९॥ हृद्याः सुगन्धिनो भक्ष्या लघवो घृतपाचिताः । वातपित्तहरा बल्या वर्णदृष्टिप्रसादनाः ॥२०॥ विदाहिनस्तैलकृता गुरवः कटुपाकिनः । उच्यते । वेशवाराणामिति करणे षष्ठी । पूर्णा इति कृत- गर्भाः ॥ १४ ॥ पिशितवेशवारकृतगर्भाणां गुणमाह वेशवारैरिति । सपि- शितैरिति पूर्वोक्तमुद्गादिवेशवारनिरासार्थं विशेषणम् । तेन पिशितवेशवारैरित्यर्थः । अन्ये तु वेशवारं शुण्ठ्यादिकमाहुः । एते सामिताः ॥ १५ ॥ पल्लं तिलकल्कस्तत्कृताः पाललाः । शष्कुली तु तिल- मुद्गादिचूर्णकृता तैलपक्वा शष्कुलीति लोके ॥ १६ ॥ मुद्गमाषादिविदलकृतानां भक्ष्याणां गुणमाह वैदला इति ॥ १८ ॥ विरूढ़ककृता इति अङ्कुरितमुद्गादिकृताः ॥ १९ ॥ उक्तानुक्तकृतभक्ष्याणां घृते तैले च पाकाद्गुणविशेषमाह हृद्या इति ॥ २० ॥ १२

१३४ द्रव्यगुणः । उष्णा मारुतदृष्टिघ्नाः पित्तलास्तृक्प्रदूषणाः ॥२१॥ कपालाङ्गारपक्वास्तु लघवो वातकोपनाः ॥२२॥ कुल्माषा वातला रूक्षा गुरवो भिन्नवर्चसः ॥२३॥ उदावर्त्तहरो वाव्यः कासपीनसमेहनुत् ॥ २४ ॥ तुषाम्बुवटकं प्रोक्तं वृष्यं रुच्यग्निदीपनम् । वृष्यं सन्दोपनञ्चैव वटकं तक्रसंस्कृतम् ॥ २५ ॥ यद्द्रव्यं यद्गुणं प्रोक्तं तद्भक्ष्यास्तद्गुणा मताः॥२६॥ खड़ाः खड़यवाग्वश्च रागषाड़वषट्काः । पालकानि विचित्राणि यूषाश्चानेकयोनयः ॥ कट्वम्ललवणाः स्वादुलेहा ये च फलोद्भवाः । एवमादीनि चान्यानि क्रियन्ते वैद्यवाक्यतः ॥ कपालाङ्गारसिद्धानां स्नेहसिद्धेभ्यो लघुत्वं दर्शयन्नाह कपाले- त्यादि ॥ २१ ॥ कुल्माषस्य गुणमाह कुल्माषा इति । यवपिष्टमुष्णोदक- मृदितमपूपीकृतं कुल्माषमाहुः ॥ २३ ॥ वाव्यो भृष्टयवैः कृतो भक्ष्यः । अन्ये तु दलितयवगोधूमादि- कृतं वाव्यमाहुः ॥ २४ ॥ काञ्जिकवटकतक्रवटकयोर्गुणमाह तुषाम्बु इति । तुषाम्बु- भावितं तक्रभावितञ्च वटकमित्यर्थः ॥ २५ ॥ अनुक्तभक्ष्यगुणज्ञानार्थमाह यदिंति । इदानीं पूर्वोक्तानां व्यवस्थितसंयोगत्वेनोक्तानां गुणानां कारणतो व्यवस्थितसंयोग- तया गुणान्तरमूह्यमाह खड़ा इति । खड़ा इति कृतान्नवर्गो-

द्रव्यगुणः। १३५ यथाकारणमासाद्य भोक्तॄणां छन्दतोऽपि वा। अनेकद्रव्ययोनित्वाच्छास्वतस्तान् विनिर्दिशेत् ॥ २७ इति भक्ष्यवर्गः। अथाहारविधिं वक्ष्ये विस्तरेणानुपूूर्वशः ॥ १ ॥ आप्तास्थितमसङ्कीर्णं शुचि कार्य्यं महानसम् ॥ २॥ तत्राप्तैः साधितं रम्यमविरुद्धमुपस्कृतम्। विषघ्नै रगदैर्मन्त्रैर्भिषगन्नं निवेदयेत् ॥ ३ ॥ दिताः। तैः कृता यवाग्वः खडयवाग्वः। अनेकयोनय इति विशेषणं खडादिषु प्रत्येकमभिसम्बध्यते। अतएवानवस्थित- गुणाः खडादय इत्यर्थः। लेहा ये च फलोद्भवा इति आम्रलेहा- दयः। कारणमासाद्येति पुरुषव्याधिदोषभेदादिहेतुं प्राप्य। छन्दत इति पुरुषेच्छाविशेषात् शास्वत इति तर्कसहितशास्त्रात् खडादिषु युज्यमानं द्रव्यगुणं ज्ञात्वा तर्कतश्च तत्संस्कारादि- गुणमुन्नीय खडादिगुणमादिशेदित्यर्थः ॥ २७ ॥ इति भक्ष्यवर्गः। विधिना कृत आहारः प्रीणनो धातु पोषकः। इति पूर्वोक्तम्। अत्र कोऽसौ विधिः। कथं वा आहारेण धातूनां पोषणमित्येतदर्थं प्रकरणमारभते अथेति ॥ १ ॥ आहारसिद्धेर्महानससाध्यत्वात् प्रथमं तद्विधिमाह आप्ते- त्यादि। आप्तैः साधुलोकैरास्थितमाश्रितम्। असङ्कीर्णमसम्बा- धम् ॥ २ ॥

१३६ द्रव्यगुणः । घृतं कार्ष्णायसे देयं पेया देया तु राजते । फलानि सर्वभक्ष्यांश्च प्रदद्याद्वै दलेषु तु ॥ ४ ॥ परिशुष्कप्रदिग्धानि सौवर्णेष्पकल्पयेत् ॥ ५ ॥ प्रद्रवाणि रसांश्चैव राजतेषूपहारयेत् ॥ ६ ॥ कट्वराणि खडांश्चैव सर्वान् शैलेषु दापयेत् ॥ ७ ॥ दद्यात्ताम्रमये पात्रे सुशीतं सुशृतं पयः । पानीयं पालकं मद्यं मृन्मयेषु प्रदापयेत् ॥ ८ ॥ वज्रवैदूर्य्यपात्रेषु रागषाड़वषट्कान् ॥ ६ ॥ पुरस्ताद्विमले पात्रे सूपं दद्यात्तु पाचकः । फलानि सर्वभक्ष्यांश्च परिशुष्काणि यानि च ॥ आप्तैरिति सूपकारविशेषणम् । रम्यं मनोहरम् । अविरु- द्धमिति संयोगादिभिरविरुद्धम् । निवेदयेत् उपढौकयेत् ॥ ३ ॥ किञ्चिद्द्रव्यमाधारप्रभावेण कार्मुकं भवतीत्यत आह । वै द- लेष्विति । वैशब्दः पादपूरणे । अन्ये तु वैदलं वंशादिविदलकृतं पात्रमाहुः ॥ ४ ॥ परिशुष्कप्रदिग्धयोरुक्तमेव लक्षणम् ॥ ५ ॥ प्रद्रवाणि मण्डानि ॥ ६ ॥ कट्वरं तक्रम् । अन्ये तु सौवीराम्लमथात्यम्लकाञ्जिकं कट्वरं विदुः । सस्नेहदधिजं तक्रमाहुरन्ये तु कट्वरम् ॥ शैलेष्विति पाषाणपात्रेषु ॥ ७ ॥ वज्रं हीरकं तस्य पात्रं न सम्भवतीति वज्रयुक्तं पात्रं वज्र- पात्रं ज्ञेयम् । अन्ये तु दद्याद् वैदूर्य्यपात्रेष्विति पठन्ति ॥ ६ ॥

द्रव्यगुणः । १३७ तानि दक्षिणापार्श्वे तु भुञ्जानस्योपकल्पयेत् । प्रद्रवान् रसयूषादीन् सव्ये पार्श्वे प्रदापयेत् ॥ सर्वांन् गुड़विकारांश्च रागषाडवषट्कान् । पुरस्तात् स्थापयेत् प्राज्ञो द्वयोरपि च मध्यतः ॥ १० एवं विज्ञाय मतिमान् भोजनस्योपकल्पनाम् । भोक्तारं विजने रम्ये निःसम्पाते तु भोजयेत् ॥ ११ पूर्वं मधुरमश्नीयात् मध्येऽम्ललवणौ रसौ । अन्ते शेषान् रसान् वैद्यो भोजनेष्ववचारयेत् ॥ १२ ॥ अन्नेन कुक्षे र्द्वावंशौ पानेनैकं प्रपूरयेत् । आश्रयं पवनादीनां चतुर्थमवशेषयेत् ॥ १३ ॥ भुक्त्वा पादशतं गत्वा वामपार्श्वेन संविशेत् । शब्दान् रूपरसान् गन्धान् स्पर्शांश्च मनसः प्रियान् । आधारविशेषमभिधाय देशविशेषेण आहारविधिमाह पुर- स्तादिति । पुरस्तादग्रत इत्यर्थः । न केवलं पुरस्तात् द्वयोरपि च मध्यत इति द्वयोर्मध्ये एकस्मिन् पार्श्वे दद्यात् । एतेन सर्वत्र दातव्यमिति डल्लनो व्याचष्टे ॥ १० ॥ निःसम्पाते तु निर्वाते ॥ ११ ॥ इदानीं भोजनस्यानुपूर्वीमाह पूर्वमिति । पूर्वं मधुरमिति वातजयार्थम् । मध्येऽम्ललवणाविति मध्यस्थिताग्न्युत्तेजना- र्थम् । शेषानिति कटुतिक्तकषायान् तेन पश्चादूर्द्धं श्लेष्मजयार्थं देयाः ॥ १२ ॥ इदानीं द्रवाद्रवरूपस्याहारस्य मात्रामाह अन्नेनेति ॥ १३ ॥

१३८ द्रव्यगुणः। भुक्तवानुपसेवेत तेनान्नं साधु तिष्ठति । भुक्त्वोपविशतस्तुन्दं शयानस्य वपुर्भवेत् ॥ आयुश्चङ्क्रममाणस्य मृत्युर्धावति धावतः । ताम्बूलमुपसेवेत कर्पूराद्यधिवासितम् ॥ १४ ॥ ताम्बूलं क्षतपित्तास्ररूक्षोत्कुपितचक्षुषाम् । विषमूर्च्छामदार्त्तानामपथ्यं शोषिणामपि ॥१५॥ अन्नमादानकर्मा तु प्राणः कोष्ठं प्रकर्षति । तद्द्द्रवैर्भिन्नसङ्घातं स्नेहेन मृदुतां गतम् ॥ समानेनावधूतोऽग्निरुदीर्य्यः पवनेन तु । काले भुक्तं समं सम्यक् पचत्यायुर्विवृद्धये ॥१६॥ एवं रसमलायान्नमाशयस्थमधःस्थितः । पचत्यग्निर्यथा स्थाल्यामोदनायाम्बुतण्डुलम्॥१७॥ भोजनान्तरीयं विधिमाह भुक्तेति ॥ १४ ॥ इदानीमाहारस्याग्निना पाको यथा भवति यथा च पच्यमा- नमन्नं देहधात्वादिरूपतामापद्यते तदाह अन्नमिति । आदान- माहारनयनं कर्म्म यस्य स तथा । प्रकर्षतीति नयति । द्रवैरिति पानीयादिभिः । भिन्नसङ्घातम् अवयवशैथिल्यमापन्नम् । अवधूत इत्युद्दोपितः । समानेन इत्यनन्तरमविकृतेनेति शेषः । विकृतस्य वायोरग्निवैषम्यकरत्वात् । काले इति बुभुक्षाकाले । सममिति मात्राप्रकृत्यादिभिरुचितम् । सम्यगिति निर्विकारम् ॥१६॥ रसमलायेति । रसार्थं मलार्थञ्च पचतीत्यर्थः । आशयस्थ- मित्यामाशयस्थम् । अधःस्थित इत्यनेन वहिरग्नेर्यथा ऊर्द्ध्वज्व-

द्रव्यगुणः। १३८ अन्नमिष्टं ह्युपहितमिष्टैर्गन्धादिभिः पृथक् । देहे प्रीणाति गन्धादीन् घ्राणादीनीन्द्रियाणि च१८ भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः । लनस्वभावतया ऊर्ध्वपाकसामर्थ्यं तथान्तराग्नेरपीति तत्सा- धर्म्यं दर्शयति । अमुमेवार्थं दृष्टान्तेनोपपादयति यथेत्यादि ॥ १७ ॥ अन्नस्य पाकसम्पाद्यं कार्यान्तरमप्याह अन्नमिति । अन्नं कर्तृ देहस्थितान् गन्धादीन् प्रीणाति आप्याययति । ननु अन्नेन द्रव्येण द्रव्यपोषणमेव युक्तं न तु गुणपोषणमित्यतोऽन्नं विशि- नष्टि गन्धादिभिरुपहितमिति गन्धरूपरसस्पर्शशब्दैर्युक्तमि- त्यर्थः । एतेन विशेषणद्वारा अन्नगतैर्गन्धादिभिर्देहगतगन्धादि- पोषणमिति सिद्धम् । तथा गुणवृद्धिस्तु गुणिवृद्धिं विना न भव- तीति पाञ्चभौतिकेन आहारेण देहगतपञ्चभूतपोषणमप्यत एव सिद्ध्यति । इष्टमिति विशेषणेन चान्नस्यानिष्टस्यानिष्टगन्धादिभि- र्युक्तस्य न देहव्यवस्थितगन्धादितर्पकत्वमिति दर्शयति । न केवलं गन्धादीनेव प्रीणाति किन्तु घ्राणादीनीन्द्रियाणि च प्रीणाति । आदिशब्दाद्रसनादीनां चतुर्णां ग्रहणम् । पृथगित्यनेन आहारगतो यः पार्थिवो भागः स घ्राणं तद्गतगन्धञ्च देहगन्धं प्रीणाति । एवं आहारगतो जलीयभागो रसनां पुष्णाति । तद्गतो रसः देहरसं पुष्णातीत्यादि व्याख्येयम् ॥ १८ ॥ भौतिकाग्निव्यापारमाह भौमेत्यादि । पार्थिवादिद्रव्येषु हि पाकेन विशिष्टगन्धवर्णादयो जायन्ते । पाकस्त्वूष्माणं विना न भवतीति पाकान्यथानुपपत्त्या पार्थिवादिद्रव्यवस्थिताः पञ्चो- ष्माणः स्वीक्रियन्ते । ते तु सौक्ष्म्यात् तत्तद्द्रव्येषु साक्षान्नोपलभ्यन्ते ।

१४० द्रव्यगुणः । पञ्चाहारगुणान् स्वान् स्वान् पार्थिवादीन् पचन्ति हि ॥ १६ ॥ सप्तभिर्देहधातारो धातवो द्विविधं पुनः । अतस्त एव जाठराग्निसन्धुक्षितबलाः सन्तः स्वान् स्वान् पार्थि- वादीन् पञ्चाहारगुणान् पचन्ति । पूर्वस्थितपार्थिवादिगन्धविल- क्षणान् पाकेन निवर्त्तयन्तीत्यर्थः । एतदेव चरके विविधाशित- पीतीये उक्तम् । विविधाशितं पीतञ्च लीढं खादितं जन्तो- र्हितमन्तरग्निसन्धुक्षितबलेन यथास्वेनोष्मणा सम्यग्विपाच्य- मानमिति । आहारस्य गुणाः आहारगुणाः । किं वा आहा- राश्च गुणाश्च आहारगुणाः । यद्यपि भूताग्निना द्रव्याण्येव पच्यन्ते नतु गुणाः उक्तं हि जाठरेणाग्निना पूर्वं कृते सङ्घातभेदने । पश्चाद् भूताग्नयः पञ्च स्वं स्वं द्रव्यं पचन्ति हि ॥ तथापि द्रव्यपाकवशाद् विशिष्टगन्धादिगुणा जायन्ते इत्य- भिप्रायेण गुणानामपि पाक उक्तः । ननु तेजः स्वयमेव पाच- कम् तस्य पाचकेनाग्न्यन्तरेण किं क्रियते । ब्रूमः न वयं तेजसि पाचकमग्निं स्वीकुर्मः । किन्तु तैजसस्य सुवर्णादिद्रव्यतुल्यस्य पित्तादेः पाकजन्यत्वेन पाचकाग्न्यपेक्षा युक्तैव । एवं वायवीय- नाभसद्रव्ययोरप्याश्रित उष्मा वात्वग्निनाभसाग्निवाच्यो ज्ञेयः ॥ १६ ॥ भौतिकाग्नि-व्यापारमभिधाय-विशिष्ट-धात्वग्निव्यापारमाह सप्तभिरित्यादि । पुनरिति जाठराग्निपाकानन्तरम् । द्विविध- मिति द्विप्रकारम् । तदेव प्रकारद्वयमाह किट्टप्रसादवदिति किट्टप्रसादरूपमित्यर्थः । वतिरयमर्द्धार्थे । किं वा किट्टप्रसादव- दिति मतुबन्तं क्रियाविशेषणम् । ननु धात्वग्निवदुपधातुम-

द्रव्यगुणः । १४१ यथास्वमग्निभिः पाकं यान्ति किट्टप्रसादवत् ॥२०॥ रसाद्रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च । लादिगता अपि पृथगग्नयः किमिति नाना स्वीक्रियन्ते । अथ तत्र पञ्चभूतानि सन्तीति भूताग्निभिरेव तेषां पाक उत्पत्स्यत इति चेत्तर्हि कृतं धात्वग्निभिरपि भूताग्निभिरेव धातुपाक- स्याप्युपपत्तेः । नैवं बाह्येषु फलादिषु भूताग्निजन्यो यः पाको दृश्यते स किट्टप्रसादरूपतया नानुभूयते । उपधातुमलादिगतो- ऽपि पाकस्तादृग एवेति वैलक्षण्याभावादुपधात्वादिषु पृथगग्नि- स्वीकारोऽकिञ्चित्करः । रसादिधातुपाकस्तु किट्टप्रसादरूपतया विलक्षण इति तत्र पृथगग्निखीकारो युक्त एवेति । धातुषु ये भूताग्नयस्ते धात्वग्नेरेव सहाया इति । यद्यपि शुक्रस्य प्रसाद- रूपतया किट्टवान् पाको नास्ति तथापि बहूनां किट्टवत्त्वाद् द्विविधनिर्देशो ज्ञेयः । यथा छत्रिणो गच्छन्तीति ॥ २० ॥ तत्र पाकजन्यैः प्रसादांशैर्यैन क्रमेण ये ये जन्यन्ते तानाह रसादिति ॥ प्रसादज इत्यस्य लिङ्गविपरिणामेन रक्तमित्या- दिषु सर्वत्र सम्बन्धः । प्रसादजञ्च सारभागः । तेन रसाद्रक्तं प्रसादजम् । ततो रक्तान्मांसं प्रसादजम् । मांसाच्च मेदः प्रसादज- मित्यादि योज्यम् । रसाद्रक्तं प्रसादजमिति रसात् पाकेन जायते यः प्रसादांशस्तस्माद्रक्तं जायते । एवं रक्तात् पाकेन जायते यः प्रसादांशस्तस्माच्च मांसं जायत इत्यादि व्याख्येयम् । जनि- श्चायं पोषण एव वर्त्तते नापूर्वोत्पादे । यतो रक्तादयो गर्भात् प्रभृत्येव उत्पन्ना रसादिभिः पोष्यन्ते । अन्ये तु गर्भप्रसादज- मिति पठित्वा गर्भप्रसादजमिति समस्तपदेन ओज आचक्षते । अस्मिंस्तु पक्षे प्रसादजशब्दस्य न सर्वत्रान्वयः । ननु पुष्यन्ति त्वाहाररसादिना चरके रसेन रसपोषणमुक्तम् अत्र तु रसा-

अस्थ्यो मज्जा ततः शुक्रं शुक्राद्गर्भः प्रसादजः॥२१ द्रक्तमित्यादिना रसेन रक्तपोषणमुच्यते इति विरोधः । नैवमेक एवायमाहाररसो द्विप्रस्थानः पोष्यपोषकभेदेन । तत्रान्नपाना- दुत्पन्नो रसः पोषकः रक्तादिवत् स्थायी यः स पोष्यः तस्यैव हृदवस्थानमुक्तम् । अतएव पोष्यस्थायिरसव्यवच्छेदार्थमाहारेति रसविशेषणमुक्तं चरकेण । यत्तु रसाद्रक्तमित्यादिवचनं तद्रस- त्वेनाभेदविवक्षया रसं परित्यज्य रक्तमेव पठितं न तु पोष्यस्य रसाख्यधातोरभावादिति । न चैवमष्टधातुकत्वं शरीरस्येति वाच्यम् । यतः स्थायिरसभागपोषकरसभागयोः स्थानभेदाग्नि- भेदाद्यभावादेकत्वमेवेति सप्तधातुकमेव शरीरमित्युच्यत इति । अत्र च रसाद्रक्ताद्युत्पादे केचिदिदं वदन्ति । यद्रसोऽग्नि- पच्यमानः सर्वात्मना रक्ततां याति रक्तञ्च मांसतामित्यादि पूर्व- पूर्वधातुपरिणामेन उत्तरोत्तरधातूत्पादो यथा सर्वात्मना क्षीरा- द्दधि भवति दध्नो नवनीतं नवनीताद्धृतं घृताच्च घृतमण्ड इत्येकः पक्षः । किं वा रस एव रक्तं प्रथमं प्लावयति तत्र रक्त- स्थानसम्बन्धात् रक्तसादृश्यं रक्तव्यपदेशञ्चानुभवति । रक्तञ्च रक्त- समानेन स्तोकेनांशेनास्रं पोषयति । ततो रक्तमाप्लाव्य मांस- माप्लावयति तत्रापि मांससमानेनांशेन मांसपोषणं करोति । मांससादृश्यं मांसशब्दाभिधेयतां चानुभवति । एवमुत्तरोत्तरधा- तून् रस एव प्लावयति । यथा केदारनिषिक्तं कुल्याजलं प्रत्यासन्नां केदारामाप्लावयतौति द्वितीयः पक्षः । एतदेवोक्तं हारीते । यद्रसः सप्ताहादर्वाक् परिवर्त्तमानः श्वेतकपोतहरितहारिद्रपद्मकिंशु- कालक्तरसप्रख्यश्चायं यथाक्रमं दिवसपरिवर्त्ताद्वर्णपरिवर्त्तमा- पद्यमानः पित्तोष्मोपरागाच्छोणितत्वमापद्यत इति । तथा सुश्रुतेऽपि तत्रैषां धातूनामित्यादिना तथा स खलु त्रीणि

द्रव्यगुणाः । १४३ त्रीणि इत्यादिना रसेनैव रक्तादिधातुपोषणमनेन न्यायेनोक्तम् । किं वा आहाररस उत्पन्नो भिन्नैरेव मार्गैः स्थायिरसरुधिरमां- सादीन् रसरुधिरादिसमानांशेन तर्पयति । तत्र यः प्रत्यासन्नो धातुस्तत्पोषको भागस्तच्छीघ्रं पुष्णाति । यस्तु विदूरधातुस्तस्य सूक्ष्मविदूरमार्गतया चिरेण पोषणं भवति । एवं भिन्नैरपि मार्गै- र्धातुपोषणं भवति तेन रक्तपोषणकालादुत्तरकालं मांसपोषको रसभागो मांसं पोषयति । तथा मांसपोषणकालादुत्तरकालं मेदःपोषको रसभागो मेदः पोषयतीत्यादि । तेन रसाद्रक्त- मित्यादिवचनस्यायमर्थो यद् यत् रसपुष्टिकालादुत्तरकालं रक्तं प्रवर्त्तते रक्तपुष्टिकालादुत्तरकालं मांसं प्रवर्त्तत इत्यादि । अस्मिंस्तु पक्षे विण्मूत्रमाहारमलः सारः प्रागीरितो रसः । स तु व्यानेन निक्षिप्तः सर्वान् धातून् प्रतर्पयेत् ॥ इत्यादिवचनस्य मुख्यार्थमेव घटते । तेन यथा खले उप- चितानां कपोतानां भिन्नदिग्गामिनां स्वीयस्वीयमार्गेणैव गच्छतां गम्यदेशस्य प्रत्यासन्नत्वविप्रकृष्टत्वादिभेदेन शीघ्रं चिरेण गमनं भवति तद्वदिति क्षीरदधिन्यायकेदारीकुल्यान्यायः । खले कपोतन्यायात्त्रिधा धातुपोषणक्रमः । तत्र एतेषु पक्षेषु सर्वात्म- परिणामि त्रिचतुरोपवासेनैव देहस्य नौरसत्वं स्यात् । मासोप- वासाच्च शुक्रमयं शरीरं स्यादित्यपेक्षणीय एव प्रथमः पक्षः । केदारीकुल्यान्यायपक्षे तु रसाद्रक्तादिपोषणं मुख्यार्थतया भवति । यद्यपि रक्तादेर्मांसादिपोषणं तदपि रसादेव रक्तादिधर्मतया रक्तादिव्यपदेशभाजो भवन्तीति व्युत्पादितमेव । यत्तु रसस्य सर्वधातुपोषकत्वमुक्तं तदपि रक्तादिपोषकतया तथा हृदय- स्थायिरसस्य कृत्स्नदेहव्यापकत्या वोपपन्नम् । एवं चरकेऽप्यु- क्तम् ।