द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
२४ द्रव्यगुणः। शालयश्छिन्नरूढा ये रूक्षास्ते बद्धवर्चसः । तिक्ताः कषायाः पित्तघ्ना लघुपाकाः कफापहाः॥२०· गोधूमः स्थैर्य्यकृद्वृष्यः स्निग्धशीतः सरो गुरुः। सन्धाता बृंहणो बल्यो जीवनो वातपित्तहा ॥२१॥ लघव इत्युपदर्शितम् । शीघ्रपाका इति शीघ्रं जठराग्निना पच्यन्ते । लघव इत्यनेन लघुपाकित्वमुक्तमिति केचित् ॥ १६ ॥ छिन्नरूढ़ा इति । प्रथमं छिन्नाः पश्चात् रूढ़ाः। अत्र केचिच्चोद- यन्ति ननु च दग्धायामवनौ जाता इत्यादिना उक्तशाल्यादीनां यदि पुरोक्तगुणविरोधेन गुणान्तरोत्पत्तिरुच्यते तदा पूर्वगुण- वर्णनमनर्थकम् तद्विरोधेनेति चेत् तदा पूर्वापरविरोधः । तथा हि तेषां शालीनां स्निग्धत्वमुक्तं दग्धावनिसम्भूतानान्तु तेषामेव रौक्ष्यमपीति । तन्न उत्सर्गापवादभेदेनाविरोधात् । एतच्च पूर्वमुक्तमेव ॥ २० ॥ गोधूमगुणमाह गोधूम इति । अत्र गोधूमस्य स्वादुशीत- स्निग्धादिगुणयोगात् श्लेष्मकर्तृत्वं ज्ञेयम् अतएव सुश्रुते श्लेष्मकर इत्युक्तम् । अन्ये तु “चन्दनागुरुदिग्धाङ्गो यवगोधूमभोजन” इति वसन्ते गोधूमस्य विधानात् श्लेष्मकारित्वमस्यायुक्तमिति मन्य- मानाः सुश्रुते श्लेष्मकर इत्यस्य स्थाने शोफकर इति पठन्ति । तन्न सम्यक् गोधूमगुणपर्य्यालोचनया कफकर्तृत्वस्यैव युक्तत्वात् वसन्तस्यादानमध्यत्वेन वातपित्तानुबन्धात् स्निग्धशीतस्यापि गोधू- मस्य तत्रोपयोगोऽपि न विरुध्यते । किंवा गोधूमोऽत्र पुराणो- ऽभिहितः स च न कफकरः । यदुक्तम् मधुरं श्लेष्मलं प्रायो जीर्णाच्छा लियवादृते । मुद्गाद् गोधूमतः क्षौद्रात् सिताया जाङ्गलामिषात् ॥
द्रव्यगुणः । २५ यवः स्वादुः कषायश्च कफपित्तहरो हिमः । व्रणेषु सर्वदा पथ्यस्तिलवत् पाकतः कटुः ॥ बहुवातपुरीषश्च मेदोवाततृषापहः । वृष्यो बल्यो वड्मूत्रस्थैर्य्याग्निस्रववर्णकृत् ॥ २२ ॥ इति । अतएव वसन्तचर्य्यायां वाग्भटेन पुराणयवगोधूमक्षौद्रजाङ्गलशूल्यभुक् ॥ इत्युक्तम् । अन्ये तु आदानमध्यत्वेन यथा चन्दनागुरुभ्यां मिलित्वानुलेपः । तथा यवगोधूमयोर्यथायथं वातपित्तप्रत्यनी- कत्वान्मिलितयोरेवोपयोग इत्याहुः ॥ २१ ॥ कषायश्चेति चकारेण मधुरत्वापेक्षया कषायस्य हीनतां बोधयति । अतएव चरके सकषायश्चेति उपसर्जनार्थः सह- शब्दः प्रयुक्तः । व्रणेषु सर्वदा पथ्यस्तिलवदिति तिलो यथा व्रण- लेपे वातपित्तकफेषु शस्यते तथा यवोऽपि सर्वदा इत्यनेन व्रणस्य सर्वास्वेव अवस्थासु यवस्य हितत्वं बोधयति । तदुक्तम् तिलवद्यवकल्कन्तु केचिदाहुर्मनीषिणः । अविदग्धन्तु शमयेद्विदग्धं पाचयल्यपि । पक्वं भिनत्ति भिन्नञ्च शोधयेद्रोपयेदपि ॥ इति । अन्ये तु सर्वदा इत्यनेन व्रणे यवमण्डप्रयोगेणापि हितमिच्छन्ति । अतएव सुश्रुते हिताहितीये व्रणहितवर्गे यवः पठितः । पाकतः कटुरिति इह केचिदाचक्षते कटु पाकि- त्वेन लघुत्वमुक्तम् । न च चरके रूक्षः शीतो गुरुरित्यनेन विरोधः । तत्रापि अकारप्रश्लेषेणागुरुरिति पाठाङ्गीकारात् । गुरुत्वप्रतिज्ञानार्थमीषदर्थे नञं प्रश्लेषयन्ति । अतएव लघुरित्य- सन्दिग्धमपि न पठितम् । तथापि एतदर्थमेवासन्दिग्धार्थमिव ३
२६ द्रव्यगुणः। श्यामाकः शोषणो रूक्षो वातलः श्लेष्मपित्तहा । तद्वच्च कङ्गुनीवारकोरदूषाः प्रकीर्त्तिताः ॥ २३ ॥ मुङ्गः कषायो मधुरः कफपित्तास्रजिल्लघुः । ग्राही शीतः कटुः पाके चक्षुष्यो नातिवातलः । प्रधाना हरितास्तत्र बल्या मुद्गरसाः स्मृताः ॥ २४॥ मसूरो मधुरः शीतः संग्राही कफपित्तहा ॥ २५॥ असन्दिग्धमपि लघुपाक इति न कृतम्। अन्ये तु चरकोक्त- गुरुगुणस्यापि यवस्य कटुविपाकित्वं द्रव्यप्रभावादेव समर्थनीय- मित्याहुः । बहुवातपुरीष इति कुक्षौ वातकर्त्तृत्वेन ज्ञेयम् । तेन मेदोवाततृषापह इत्यनेनोक्तवातहन्तृत्वं न विरुध्यते । किंवा मेदसावृतो वातो मेदोवातः । तेन मेदसावृत एव वायौ यवो हितोऽनिवारणे तु रूक्षकषायशीतकटुपाकतया कारण- भूत एव । बल्यत्वञ्च स्रोतोविशुद्धिकरत्वेन सम्यक् रससञ्चा- रिणेष्टं न तु देहस्योपचयकारकत्वेन रौक्ष्यादिधर्मयोगाद् यवस्य । अतएव सुश्रुते स्थूलविलेखनं इत्युक्तम् । बद्धमूत्रो- ऽल्पमूत्र एतेन प्रमेहिणां हितमिति डल्हणो व्याचष्टे ॥ २२ ॥ तृणधान्यानां गुणमाह श्यामाक इति । कङ्गुः काङ्नीति लोके । नीवार उडीति लोके । कोरदूषः कोद्रवः ॥ २३ ॥ शूकधान्यमनु तदुपकरणत्वेन शमीधान्यं वाच्यम् । तत्रापि प्राधान्यात् मुङ्गगुणं प्रागभिधत्ते मुङ्ग इति । मधुर इति रसतः पाकतश्च । सुश्रुतेऽप्युक्तम् । विपाके मधुरा इति विपाके मधुरा- णामप्येषां बद्धवर्चस्त्वं प्रभावात् । ऋते मुद्गमसूराभ्यामन्ये- त्वाध्मानकारकाः । एतच्च स्वजात्युत्कर्षपरं वचनं न पुनः सर्वथै- वाध्माननिषेधपरमित्याहुः ॥ २४ ॥ २५ ॥
द्रव्यगुणः । २७ माषो बहुमलो वृष्यः स्निग्धोष्णमधुरो गुरुः । वातनुद् वृंहणो बल्यो मेदोमांसकफप्रदः ॥ २६॥ राजमाषः सरो रुच्यः कफशुक्राम्लपित्तनुत् । तत्स्वादुर्वातलो रूक्षः कषायो विशदो गुरुः ॥२७॥ चणको वातलः शीतः कफासृक्पित्तपुंस्त्वनुत्॥२८॥ सतीला वातला रक्तपित्तघ्ना बद्धवर्चसः ॥ २६ ॥ माषगुणमाह माष इति । अत्र वृष्य इत्यनेन शुक्रस्रुति- करत्वं शुक्रवृद्धिकरत्वञ्चेति द्विविधमेव वृष्यत्वं विवक्षितम् । अतएवोक्तं वाग्भटेन शुक्रवृद्धिविरेककृदिति । सुश्रुतेऽपि वृष्य इत्युक्त्वा पुनः शुक्रावहत्वमुक्तमेतदुभयरूपवृष्यत्वपरि- ग्रहार्थम् ॥ २६ ॥ राजमाषगुणमाह राजमाष इति । सरति जलक्षिप्ततैल- वदाशयं व्याप्नोतीति सरः । सरत्वं हि स्थिरविपरीतगुणः । अयञ्च गुणो जलबहुलस्यैव द्रव्यस्य भवति । तदुक्तं शीतस्निग्ध- मृदुस्तिमितसरपिच्छिलमाप्यमिति । तत्स्वादुरिति तयोः रसपाकयोः स्वादुः । उक्तं हि सुश्रुते । कषायभावान्न पुरीषभेदो न मूत्रलो नैव कफस्य कर्त्ता । स्वादु विपाके मधुरोऽलसान्द्रः सन्तर्पणः स्तन्यरुचिप्रदश्च ॥ अलसान्द्रो राजमाष इति चक्रादयः । अस्य च विपाके मधुरस्यापि प्रभावादेव बद्धविण्मूत्रत्वम् कफहारित्वमवृष्यत्वञ्चेति गयदासः । अन्ये तु तत्स्वादुरिति माषवत् स्वादुरित्याहुः । ये तु सर इत्यस्य वर्चोभेदार्थत्वं वर्णयन्ति तन्मते सुश्रुतविरो- धोऽपरिहार्य्यः ॥ २७ ॥ २८ ॥ सतीलो वर्त्तुलकलायः । भिन्नवर्चस इत्यपपाठः ।
२८ द्रव्यगुणः। तुवरी कफपित्तघ्नी कलायश्चातिवातलः ॥ ३० ॥ मुकुष्टः शीतलो ग्राही कफपित्तज्वरापहः॥ ३१॥ कुलत्थः कफवातघ्नो ग्राह्युष्णस्तुवरः कटुः । शुक्राश्मरीगुल्मकासश्वासानाहान् सपीनसान् । हन्त्यर्शोमेदसो हिक्कां रक्तपित्तकरश्च सः ॥ ३२ ॥ हरेणवः सतीलाश्च विज्ञेया बद्धवर्चसः । इति सुश्रुतपाठात् द्रव्यगुणपर्य्यालोचनया बद्धवर्चस्त्वस्यैव युक्तत्वात् ॥ २६ ॥ तुवरी तोरीतिलोके । कलायस्त्रिपुटकलायः, तेउडोति लोके । वर्त्तुलस्य पूर्वोक्तत्वात् चकारात् कलायोऽपि कफ- पित्तघ्नः । तदुक्तं चरके चणकाश्च मसूराश्च खण्डौकाः सहरेणवः । पित्तश्लेष्मणि शस्यन्ते इति । अत्र खण्डौकस्त्रिपुटकलायः । वातल इति तुवरीत्यनेनापि सम्बध्यते । यदुक्तं चरके । आढकी कफपित्तघ्नी वातलेति ॥ ३० ॥ मुकुष्टः कोमोठ इति ख्याते । अस्य च क्रिमिकर्त्तृत्वम् सुश्रुतेनोक्तम् ॥ ३१ ॥ कफवातघ्न इति । कफघ्नो वातघ्नः संयुक्तकफवातघ्नश्च । तेषु तेषु प्रदेशेषु प्रत्येकं वाते कफे च तथा संयुक्तयोश्च कफवातयो- र्हितत्वेन कुलत्थस्योद्दिष्टत्वादिति गयदासः । तुवर इति कषायः कटुरिति सुश्रुतमते विपाके कटुरित्यर्थः । उक्तञ्च उष्णः कुलत्थो रसतः कषायः कटुर्विपाके कफमारुतघ्नः । इति । चरकमते त्वम्लपाकः । तदुक्तं उष्णः कषायाः पाकेऽम्ला इति । उभयथापि रक्तपित्तकरत्वमिति द्रव्यगुणे न विरोध इति प्रागेवोक्तम् ॥ ३२ ॥
द्रव्यगुणः । २६ वन्यः कुलत्थस्तद्वच्च विशेषान्नेत्ररोगनुत् ॥ ३३ ॥ काकाण्डोमात्मगुप्तानां माषवत् फलमादिशेत्॥३४ ईषत्कषायो मधुरः सतिक्तः संग्राहकः पित्तकरस्तथोष्णः । तिलो विपाके मधुरो बलिष्ठः स्निग्धो व्रणालेपन एव पथ्यः । वन्यकुलत्थगुणमाह वन्य इत्यादि । तद्वदिति गुणैः कुलत्थ- सदृशः ॥ ३३ ॥ शूकशिम्बासदृशशिम्बः काकाण्डः शूकरशिम्बीतिलोके । उमा अतसी । आत्मगुप्ता शूकशिम्बिः । अन्येतु फलानि माष- वद्विद्यात् काकाण्डोमात्मगुप्तयोरिति वाग्भटे द्विवचनं दृष्ट्वा काकाण्डोमा कटभीति व्याचक्षते ॥ ३४ ॥ व्रणालेपन एव पथ्य इत्येवकारेण व्रणे तिलानामालेपने पथ्यत्वमभ्यवहारे पुनरपथ्यत्वमेव बोधयति । अतएव व्रणविरुद्ध- वर्गे नवधान्यादौ तिलः पठितः । सेयं स्वभावोपजनितै- वाधारशक्तिरस्य । यदुक्तं सुश्रुते यव कुर्वन्ति तदधिकरण- मिति । धान्याम्लस्य बहिरन्तःप्रयोगे दाहहरणकारणत्व- वदिति । येऽपि स्निग्धो व्रणे सर्वत एव पथ्य इति पठन्ति तन्म- तेऽपि बहिरालेपनेनैव सर्वत्र वातकृते पित्तकृते कफकृते च पथ्य इति ज्ञेयम् । यद्वक्ष्यति माधुर्याच्च तथैवोष्ण्यात् स्नेहाच्चानिलनाशनः । कषायभावान्माधुर्यात्तिक्तत्वाच्चापि पित्तनुत् ॥ औष्ण्यात् कषायभावाच्च तिक्तत्वाच्च कफे हितः । इति । ननु मधुरपाकित्वदेव तिलस्य गुरुत्वं सिद्धं तत् किं
३० द्रव्यगुणः । दन्त्योऽग्निमेधाजननॊऽल्पमूत्र- स्त्वच्योऽतिकेश्योऽनिलहा गुरुश्च ॥ ३५ ॥ तिलो विपाके मधुरो गुरुश्चेति । सत्यं एतदेवहि विपाकमधुरस्य तिलस्य गुरुत्ववचनं मधुरपाकस्यापि क्वचिद्गुरुत्वं व्यभिचरतीति बोधयति । तेन रक्तशाल्यादीनां मधुरपाकित्वेऽपि लघुत्व- प्राभाविकं सिद्धं भवतीति गुरुत्वं हि मधुरपाकित्वे अतिदिष्टं न तु स्वभावभूतम् । तेन गुरुत्वस्यातिदेशिकत्वेन तद्व्यभिचा- रोऽपि न दोषायेति । अत्र केचित् ननु यथा विपाकानां मधुरादीनां मधुरादिरसेष्विव गुरुत्वलघुत्वे अतिदिश्येते । एवं वीर्येऽप्युष्णादयो गुणा आतिदेशिकाः प्रसज्येरन् । अतस्तत्रापि व्यभिचारः कथं न स्यात् ? नैवं वीर्यस्य उष्णादयः स्वभावभूता न पुनरातिदेशिकाः उपाध्यन्तराभावात् । रसेषु हि मधुराम्ल- लवणतिक्तादय एव उपाधयः सन्ति । तथैव पाकानामपि मधुरकट्वम्लरूपा एवोपाधयः । तेन तत्र लघुत्वादयोऽतिदेष्टुं युज्यन्ते न पुनर्वीर्येषूष्णादयः । येनोष्णादय एव गुणा वीर्याणि नहि तस्मिन्नेव स्वभावे स एव स्वभावोऽतिदिश्यते । अतएव न व्यभिचारी स्वयमेव तत्स्वभावत्वात् तदभावे च तस्याभावा- द्येति । भवति चात्र । उपाध्यन्तरसद्भावात् पाकानां गुरुलाघवम् । अतिदिष्टमतस्तत्र व्यभिचारोऽपि सम्भवी ॥ शीतोष्णादिस्वभावस्य वीर्यस्यान्योऽस्ति नोपधिः । व्यतिरेको न शीतादेस्तदन्यः कोऽपि नान्वयि ॥ इत्याहुः । तिलानां त्वच्यत्वं केश्यत्वञ्चाधिकरणशक्त्या । तदुक्तं यत्र कुर्वन्ति तदधिकरणमिति ॥ ३५ ॥
द्रव्यगुणः । ३१ तिलेषु सर्वेष्वसितं प्रधानम् मध्यः सितो हीनतरास्तथान्ये ॥ ३६ ॥ शिम्बास्तु विविधा रूक्षा बलघ्नाः स्वादुशीतलाः । विदाहिनोऽग्निशमना विज्ञेयाः कफनाशनाः । शुक्रदृष्टिचयकराः कटुपाकाः प्रमाथिनः ॥ ३७ ॥ सितासिताः पीतकरक्तवर्णा भवन्ति येऽनेकविधास्तु शिम्बाः । यथादितस्ते गुणतः प्रधाना ज्ञेयास्तथैषां रसपाकयोश्च ॥ ३८ ॥ अत्र तिलानां वर्णभेदेनानेकविधत्वं तत्र कस्यचित् प्राधान्यं कस्यचित् मध्यत्वमित्यादि दर्शयन्नाह तिलेष्विति । अन्ये इति । पीतलोहितहरिता इत्यर्थः ॥ ३६ ॥ शिम्बी धान्यमध्य एव शिम्बित्वसामान्यात् । शिम्बाना- मपि सामान्यगुणकर्म निर्दिशन्नाह शिम्बा इति । स्वादुशीतला इति स्वादवः शीतलाश्चेति । कफनाशना इत्यनेन वातपित्त- कर्तृत्वं सूचयति । तदुक्तं सुश्रुते रूक्षः कषायो विशदोऽल्पशुक्रबलामदृष्टिचयकृद्विदाही । कटुविपाके मधुरश्च शिम्बः प्रभिन्नविण्मारुतपित्तलश्च ॥ इति । प्रमाथिन इति भिन्नवर्चसः ॥ ३७ ॥ वर्णविशेषेण शिम्बानां गुणविशेषमाह सितासिता इति । यथादित इति । पदार्थानतिक्रत्तौ वीप्सायामव्ययीभावः । तेनाव्यतिक्रमेणादौ आदाविति वा अर्थः । गुणत इति रसवीर्य्य- विपाकगुणैः तेनासितात् कृष्णात् सितो गुणतः प्रधानं पीता-
३२ द्रव्यगुणाः। सहाद्वयं मूलकजाश्च शिम्बाः कुशिखवल्लीप्रभवाश्च शिम्बाः । ज्ञेया विपाके मधुरा रसे च बलप्रदाः पित्तनिबर्हणाश्च ॥ ३६ ॥ विदाहवन्तश्च भृशं विरूक्षा विष्टभ्य जीर्य्यन्त्यनिलप्रदाश्च । रुचिप्रदाश्चैव सुदुर्जराश्च सर्वे स्मृता वैदलिकाश्च शिम्बाः ॥ ४० ॥ दसितः। रक्तादपि पीतः श्रेष्ठ इत्यर्थः। ज्ञेयास्तथोष्णा रस- पाक्योरिति यथादित एव वीर्येणोष्णा रसपाकयोश्च प्रधाना इत्यर्थः। अन्ये तु यथोदितास्ते गुणतस्तथार्द्रा इति पठन्ति। अत्रायमर्थः ये शिम्बा येन प्रकारेण रसपाकयोरुदितास्ते तथै- वार्द्रा ज्ञेया नतु शुष्काः ॥ ३८ ॥ शिम्बानामेव जातिविशेषेण गुणकर्मविशेषं दर्शयन्नाह सहाद्वयमिति। सहाद्वयं मुद्गपर्णी माषपर्णी च। तयोः प्रकरणात् शिम्बा एव मूलकजाश्च शिम्बा इति मूलकशिम्बाः। अन्ये तु मूलकपर्णोजाश्चेति पठन्ति। अत्र मूलकपर्णी शोभा- ञ्जनः युक्तञ्चैतत्। मूलकशिम्बस्य कटूष्णत्वेन वातकफहन्तृ- त्वस्यैव युक्तत्वादिति गयदासः। कुशिखिर्मुस्तकशिम्बिः वल्ली- प्रभवा इति अल्पवल्लीप्रभवाः। अन्ये तु कुशिखिवल्ली ग्राम्य- शिम्बिवल्लीत्याहुः ॥ ३६ ॥ इदानीं मुद्गादीनामामावस्थायां ये शिम्बास्तेषां गुणमाह विदाहवन्त इति। विष्टभ्य जीर्य्यन्त्यनिलप्रदाश्चेति सवाततोद- शूलामलपमलां प्रवृत्तिं कृत्वा चिरेण पचन्त इत्यर्थः। च
द्रव्यगुणः । ३३ षष्टिका यवगोधूमा लोहिता ये च शालयः । मुद्गाढकीमसूराश्च धान्येषु प्रवराः स्मृताः ॥ ४१॥ कफवातहरस्तीक्ष्णः सिद्धार्थो रक्तपित्तकृत् । स्निग्धोष्णः क्रिमिकुष्ठघ्नः कटुको रसपाकतः ॥४२॥ तद्गुणा राजिका वाच्यास्तद्गुणोऽन्योऽपि सर्षपः । रसे पाके च कटुकः कुसुम्भः कफनाशनः ॥ ४३॥ अनार्त्तवं व्याधिहतमपर्यागतमेव च । अभूमिजं नवञ्चापि न धान्यं गुणवत् स्मृतम् ॥४४॥ यवगोधूममाषाश्च तिलाश्चाभिनवा हिताः । अनिलप्रदा इत्यन्तो गुणः पूर्वोक्तसहादयादीनाम् रुचिप्रदा इत्यादिगुणस्तु वैदलिकानामार्द्रशिम्बानामित्याह । वैदलिका इति विदलयोग्यतामात्रेण ग्रहणं तेन माषादीनां ग्रहणं तिलादीनाञ्च निरास इति ॥ ४० ॥ इदानीं शूकधान्यशमीधान्येषु ये श्रेष्ठास्तानाह षष्टिका इति ॥ ४१ ॥ शिम्बिप्रकरणानुरोधात् सिद्धार्थकानाञ्च गुणानवैवाह कफे- त्यादि । सिद्धार्थः श्वेतसर्षपः ॥ ४२ ॥ इदानीं धान्यानां हेयत्वनिमित्तं दोषं दर्शयन्नाह अनार्त्तव- मिति । अनार्त्तवमिति अन्यर्तुभवम् । व्याधिहतमिति धान्यस्य ये रोगाः कुङ्कुमिकादयस्ते च कृषीवलसम्प्रदायप्रसिद्धाः तैर्हतमभि- भूतम् । अपर्यागतमपक्वम् । अभूमिजमिति उपरोपल्यका- दिसविषभूमिजम् । नवञ्चापीति चकारेण अनतिदोषता नवस्य -शकेः ॥ ४४ ॥
३४ द्रव्यगुणः । पुराणा नीरसा रूक्षा न तथार्थकरा मताः । विदाहि गुरु विष्टम्भि विरूढं दृष्टिदूषणम् ॥४५॥ इति धान्यवर्गः । सर्वं वातहरं मांसं वृष्यं वल्यं स्मृतं गुरु । प्रीणनं बृंहणं हृद्यं मधुरं रसपाकयोः ॥ १ ॥ हरिणः शीतलो बद्धविण्मूत्रो दीपनो लघुः । मधुरो मधुरः पाके सुगन्धिर्दोषनाशनः ॥ २ ॥ कषायो मधुरो हृद्यः पित्तासृक्कफवातहा । संग्राहौ रोचनो वल्यश्लेषामेघो ज्वरापहः ॥ ३ ॥ नवधान्यस्य यद्दोषवत्त्वमुक्तं तस्यापवादमाह यवेति । विरूढ़मित्यङ्कुरितम् । अन्ये तु विगताङ्कुरजननशक्तिकमि- त्याहुः ॥ ४५ ॥ इति धान्यवर्गः । अन्नार्थं धान्यवर्गमभिधाय तदुपकरणव्यञ्जनार्थं मांसवर्गो वक्तव्यः । अत्र मांसानां सामान्यगुणमाह सर्वमिति ॥ १ ॥ हरिणस्य मधुरपाक्तित्वेऽपि बद्धविण्मूत्रत्वं प्रभावाद्रक्तशालि- वदिति चक्रः । दोषनाशन इति दोषशब्दोऽत्र दोषसामान्या- द्दोषत्रयमेवाभिधत्ते । अतएव सन्निपातहेतु अन्ये पठन्ति ॥ २ ॥ तेषामिति जङ्गालमृगाणां मध्ये एण इति कृष्णहरिण पूर्वन्तु ताम्रवर्णहरिणस्य गुण उक्तः । उक्तञ्च सुश्रुते एणः कृष्णस्तयोर्ज्ञेयो हरिणस्ताम्र उच्यते ॥ ३ ॥
द्रव्यगुणः । ३५ शशः स्वादुः कषायश्च लघुः पित्तकफापहः । नातिशीतलवीर्य्यत्वाद् वातसाधारणो मतः ॥४॥ नातिशीतं गुरु स्निग्धं मांसमाजमदोषलम् । शरीरधातुसामान्यादनभिष्यन्दि बृंहणम् ॥ ५ ॥ वातसाधारण इति । वातस्य चयं शमञ्च न करोतीत्यर्थः । अतएव चरके "शशः स्वादुः प्रशस्तश्च सन्निपातेऽनिलावरे" इत्यु- क्तम् ॥ ४ ॥ अदोषलमिति । यद्यपि सुश्रुतेन अतिशीतो गुरुः स्निग्धो मन्दपित्तकफः स्मृतः । छागलस्त्वनभिष्यन्दी तेषां पीनसनाशनः ॥ इत्युक्तम् । तथापि अन्यपदेश्वपित्तकफजनकत्वाददोषलमि- त्युक्तम् । यत्तु त्रिदोषनुद्देहधातुसामान्याच्छागलं लघ्वित्युक्तम् । तदपि ग्राम्यत्वेन प्रभूतकफजननयोग्यस्यापि छागलस्य तदजनक- त्वात् समाधेयम् । यथा मधुरस्य दाड़िमस्य मधुरद्रव्यान्तरवत् कफाजनकत्वेन त्रिदोषहरत्वम् । यथा वा सहकारतैलस्य रूक्षत्वं स्वजातीयापेक्षया यथाविधस्नेहाकर्त्तृत्वात् । यथा वा चतु- र्भागावशिष्टन्तु तोयं कफहरं स्मृतमित्यत्र कफं प्रति इतरपानीय- वदजनकत्वेन कफहरत्वमुच्यते । एवमन्यत्रापि एवंजातीये प्रतुदविष्किररसमज्जादौ श्लेष्महरत्वादि व्याख्येयम् । शरीरधातु- सामान्यादिति मनुष्यमांसस्यापि नातिशीतगुरुस्निग्धत्वादि- त्यर्थः । अयञ्च बृंहणत्वे हेतुः । एतेन यद्यपि मांसान्तरमपि मांसत्वेन शरीरमांसतुल्यं तथापि तत्र गुणसामान्याभावादाज- मांसवन्न सर्वरूपेण बृंहणमित्यर्थः । एतेन भङ्ग्या नृमांसस्यापि शक्त्याचार्य्येण उक्ता इत्येवावधेयम् । अन्ये तु शरीरधातु-
३६ द्रव्यगुणः । मेषस्य मधुरं मांसं पित्तश्लेष्महरं गुरु ॥ ६ ॥ मेदःपुच्छोद्भवं वृष्यमौरभ्रसदृशं गुणैः ॥ ७ ॥ माहिषं तर्पणं वृष्यं स्निग्धोष्णमधुरं गुरु । निद्रापुंस्त्वबलस्तन्यवर्धनं मांसदार्थ्यकृत् ॥ ८ ॥ सामान्यादिति अनभिष्यन्दित्वे हेतुमाहुः । तन्न अप्रयोजकत्वात् । स्वमते तु ग्राम्यस्य बृंहणस्याप्याजमांसस्यानभिष्यन्दित्वं प्रभावा- देव मन्तव्यम् । यदेव हि द्रव्यगुणद्वारा नोपपद्यते तत्रैव प्रभाव- कल्पनस्यैवौचित्यात् ॥ ५ ॥ मेषगुणमाह मेषस्येति । अत्र क्वचित् पुस्तके पित्तश्लेष्म- करमिति पाठो दृश्यते । स च प्रमादपाठ एव । यतः शरद्विधौ उरभ्राणामुपयोग उक्तः । यदुक्तम् उरभ्रान् शरभान् शशा- निति । न च पित्तश्लेष्मकरत्वे मेषस्य तत्रोपयोगो युज्यते । अतएव चक्रेणापि मांसं मधुरशीतत्वाद्गुरु बृंहणमाविकमिति । चरकवचनेनाविकमांसस्य मधुरशीतत्वेन पित्तहरत्वं बोध्य- मिति व्याख्यातम् । यत्तु रक्तपित्तनिदाने चरकेण वराहमहिषा- विकेत्यादिना आविकस्य रक्तपित्तनिदानत्वमुक्तम् । तदपि द्रव्या- न्तरसंयुक्तस्याप्याविकमांसस्य न तु केवलस्येत्यवधेयम् । अतएव सुश्रुतेऽपि “बृंहणं मांसमौरभ्रं पित्तश्लेष्मापहं गुरु” इत्युक्तम् । वाप्यचन्द्रस्तु पित्तश्लेष्मावहमिति पठति व्याचष्टे च । यद्यप्यौरभ्र- मांसं पित्तश्लेष्मकरमत्रोक्तम् । तथापि सातिशयं पित्तं श्लेष्माणञ्च न करोतीति तदप्यनादरणीयमुक्तयुक्तेरेव ॥ ६ ॥ मेदः पुच्छो मेषभेदः स च पुच्छदेशे लम्बमानमांसपिण्डः ॥७॥ अत्र वृष्यं तथा पुंस्त्ववर्धनमिति च द्वयमुक्तं माषवदुभय- रूपवृष्यप्राप्तिरिति बोध्यम् ॥ ८ ॥
द्रव्यगुणः । ३७ शुष्ककासश्रमात्यग्निविषमज्वरपीनसान् । कार्श्यं केवलवातांश्च गोमांसं सन्नियच्छति ॥ ९ ॥ हयमांसं बलकरमुष्णं मारुतनाशनम् ॥ १० ॥ गवयस्यापि मांसन्तु स्निग्धं कासनिवर्हणम् । रसे पाके च मधुरं व्यवायस्य तु वर्द्धनम् ॥ ११ ॥ खड्गिमांसं कफघ्नन्तु कषायमनिलापहम् । पित्र्यं पवित्रमायुष्यं बद्धमूत्रविरूक्षणम् ॥ १२ ॥ वाराहपिशितं बल्यं रोचनं स्वेदनं गुरु । स्नेहनं बृंहणं वृष्यं श्रमघ्नमनिलापहम् ॥ १३ ॥ लावो लघुकटुर्गाही स्वादुः शीतस्त्रिदोषनुत् ॥ १४ ॥ तित्तिरिः सर्वदोषघ्नो ग्राही वर्णप्रसादनः । ईषद्गुरूष्णमधुरो वृष्यो मेधाग्निवर्द्धनः ॥ १५ ॥ पित्र्यमिति । एतद्गुणकथनञ्च यद्यपि चिकित्सायां नोप- युज्यते तथापि प्रसङ्गादुक्तम् ॥ १२ ॥ पक्षिगुणानाह लाव इत्यादि । कटुरिति कटुपाकः तदुक्तं सुश्रुते लावकः कटुपाकश्चेति । लघुरिति प्रकृतिलघुः कटुपाक इत्यनेन च विपाकलघुत्वञ्चेति चरकः ॥ १४ ॥ सर्वदोषघ्न इति । सर्वग्रहणं रक्तोपलक्षितदोषग्रहणार्थ- मित्याहुः । अन्ये तु तित्तिरिः स जयेत् शीघ्रं त्रीन् दोषाननिलोल्वणान् । इतिवचनात् ग्रन्थाधिक्यात् वाताधिक्यदोषत्रयप्राशस्त्यं सर्व- शब्दस्याहुः ॥ १५ ॥ ४
३८ द्रव्यगुणः। पित्तश्लेष्मविकारेषु सरक्तेषु कपिञ्जलाः । मन्दवातेषु शस्यन्ते शैत्यमाधुर्य्यलाघवात् ॥१६॥ ईषदुष्णा गुरुस्निग्धा वृंहणा वर्त्तकाः स्मृताः ॥१७॥ क्रकरा लघवो हृद्यास्तथा चैवोपचक्रकाः । वातपित्तहरा वल्या मेधाग्निवलवर्द्धनाः ॥ १८ ॥ वर्ही दृक्श्रोत्रमेधाग्निवयोवर्णस्वरायुषाम् । हितो बल्यो गुरुश्चोष्णो वातघ्नो मांसशुक्रलः ॥१९ पारावतो गुरुः शीतो रक्तपित्तहरः स्मृतः । रसे पाके च मधुरः कषायो विषदोऽपि च ॥२०॥ तेभ्यो लघुतराः किञ्चित् कपोता वनवासिनः । शीताः संग्राहिणश्चैव स्वल्पमूत्रकराश्च ते ॥२१॥ कषायः स्वादुलवणो गुरुः काणकपोतकः ॥२२॥ कपिञ्जलो गौरतित्तिरिः । एतेन पूर्वोक्ततित्तिरिशब्दस्य गोवलीवर्दन्यायात् कृष्णतित्तिरिपरत्वमित्याहुः ॥ १६ ॥ क्रकरः प्रसिद्धो लावसद्दशः कपिञ्जलात् स्थूलः । उपचक्रकः क्रकरभेदः । कृष्णचञ्चुर्मदाविल इति डल्हणः । चकोरभेद इति तु त्रिविक्रमः ॥ १८ ॥ पारावत इति । गृहवासी पारावतः । वनवासिकपोतस्य वक्ष्यमाणत्वात् ॥ २० ॥ वनवासिनः कपोता इति वनवासिपारावता इत्यर्थः । न तु वनवासिपाण्डुकपोताः तेषां काणकपोतत्वेन अपथ्यतमत्वा- दित्याहुः ॥ २१ ॥
द्रव्यगुणः । ३६ कुक्कुटो बृंहणो वन्यः स्वेदस्वरबलावहः । स्निग्धोष्णोऽनिलहा वृष्यो ग्राम्यस्तद्वद्गुरुस्तु सः॥२३ कुलिङ्गो मधुरः स्निग्धः कफशुक्रविवर्द्धनः । सन्निपातहरो वेश्मकुलिङ्गस्त्वतिशुक्रलः ॥ २४ ॥ शुकमांसं कषायाम्लं विपाके रूक्षशीतलम् । शोषकासक्षयहितं संग्राही लघु दीपनम् ॥२५॥ गुरुष्णस्निग्धमधुराः स्वरवर्णबलप्रदाः । बृंहणाः शुक्रलाश्चोक्ता हंसाः पवननाशनाः ॥२६॥ शरारिबककादम्बवलाकाः पवनापहाः । स्निग्धाः सृष्टमला वृष्या रक्तपित्तहरा हिमाः ॥२७॥ काणकपोतो वनवासिपाण्डुकपोत इति गयदासः । अत्र चकारो लुप्तनिर्दिष्टो द्रष्टव्यः । तेन त्रिदोषकरत्वं मलदूषकत्व- ञ्चास्य समुच्चीयत इत्याहुः ॥ २२ ॥ वन्य इति वनभवः । तद्वदिति वनकुक्कुटवत् । गुरुस्तु स इति विशेषेण ग्राम्यकुक्कुटो गुरुस्तेन वनकुक्कुटस्यापि किञ्चिद्- गुरुत्वं सिद्धम् । अतएव गुरुष्णत्वान्न शंसन्ति ज्वरे केचिच्चिकित्सकाः । इति । सामान्येन गुरुष्णत्वादिहेतूपन्यासो न विरुध्यत इत्याहुः ॥ २३ ॥ कुलिङ्गो वनचटको ग्राम्यचटकाकारः । पीतमस्तक वाऐ इति लोके । गृहकुलिङ्गो गृहवासिचटक एव ॥ २४ ॥ शरारिः शरालिरिति लोके प्रसिद्धः । बकः स्वनामख्यातः ।
४० द्रव्यगुणः । कूर्मादयः स्वादुपाकरसा वल्यानिलापहाः । शीताः स्निग्धा हिताः पित्ते वर्चस्याः श्लेष्मवर्द्धनाः२८ कृष्णः कर्कटकस्तेषां वल्यः कोष्णोऽनिलापहः । शुक्रसन्धानकृत् सृष्टविण्मूत्रोऽनिलपित्तहा ॥२६॥ ——— गोधा विपाके मधुरा कषायकटुका रसे । वातपित्तप्रशमनी बृंहणी बलवर्द्धिनी ॥ १ ॥ शल्यकः खादुपित्तघ्नो लघु शीतो विषापहः ॥२॥ मूषिको मधुरः स्निग्धो व्यवायी शुक्रवर्द्धनः ॥३॥ दुर्नामानिलदोषघ्नः कृमितूषीविषापहः । चक्षुष्या मधुराः पाके सर्पा मेधाग्निवर्द्धनाः ॥४॥ जङ्घाला वातपित्तघ्नास्तीक्ष्णा वस्तिविशोधनाः । कादम्बो नीलवर्णः कलहंस इत्युच्यते । बलाका वकभेद एव ॥ २७ ॥ ——— विलेशयानां गुणमाह गोधेत्यादि ॥ १ ॥ मूषिक इति । व्यवायी अखिलं देहं व्याप्य गच्छति पाकम् । उक्तञ्च व्यवायी देहमखिलं व्याप्य पाकाय कल्पत इति । अयञ्च सरगुणस्यैव प्रकर्षः ॥ ३ ॥ इदानीमनुक्तमांसगुणसंग्रहार्थं तत्तदुपाधिना वर्गीकृत्य वर्ग- भेदेन मांसगुणा वाच्याः । तत्र समासतो द्विविधा मांसजातयः जाङ्गला आनूपाश्च । तत्र जाङ्गलवर्गोऽष्टविधः । त
द्रव्यगुणः। ४१ कषायमधुराश्चैव लघवो बलवर्धनाः ॥ ५ ॥ विष्किरा मधुराः शीताः कषाया लघुपाकिनः ॥ ६ ॥ प्रतुदाः कषायमधुराः श्लेष्मपित्तहरा हिमाः । बद्धमूत्रमला रूक्षाः फलाहारानिलावहाः ॥ ७ ॥ जङ्गाला विष्किराः प्रतुदा गुहाशयाः प्रसह्याः पर्णमृगा विले- शया ग्राम्याश्चेति । तत्र एणहरिणतरक्षुप्रभृतयो जङ्गालाः । प्रसस्तजङ्घावत्त्वेनैषा संज्ञा जङ्गालशब्दश्च वेगवति रूढः । चञ्चु- चरणाभ्यां विकीर्य्य भक्षणाद्विष्किराः । ते च वर्त्तकमयूरकुकु- टादयः । तथा प्रतुद्य बहुधा अभिहत्य भक्षयन्तीति प्रतुदाः । ते च कोयष्टिकशारिकाभृङ्गराजशुकप्रभृतयः । सिंहव्याघ्रा- दयो गुहाशयाः । प्रसह्य हठादाकृष्य भक्षयन्तीति प्रसह्याः । ते च काककङ्ककुररश्येनगृध्रप्रभृतयः । प्रायः पर्णवति वृक्षे चरन्तीति पर्णमृगाः । ते च वृक्षशायिका वानरमानुष्यासर्प- प्रभृतयः । वृक्षशायिका वृक्षमूषिकाः कटा इति प्रसिद्धाः । विले शेरते विलेशयास्ते च शल्यकगोधामूषिकप्रभृतयः । प्रायो ग्रामे चरन्तीति ग्राम्याः । ते च छागमेषादयः । आनूपवर्गस्तु पञ्चविधः । तद्यथा कूलचराः प्लवाः कोषस्थाः पादिनो मत्स्या- श्चेति । कूले पानीयसमीपे चरन्तीति कूलचराः । ते च गज- गवयमहिषप्रभृतयः । जले प्लवन्तीति प्लवाः । ते च हंससार- सक्रौञ्चचक्रवाकप्रभृतयः । कोषे तिष्ठन्तीति कोषस्थाः । ते च शङ्खशुक्तिशम्बूकप्रभृतयः । पादवन्तः पादिनः । ते च कूर्मकुम्भीर- कर्कटप्रभृतयः । मत्स्याः प्रसिद्धाः । एतेषां क्रमेण सामान्य- गुणं निर्दिशन्नाह जङ्गाला इत्यादि ॥ ५ ॥ फलेनाहारीभूतेनानिलमावहन्तीत्यर्थः । फलाहारा मरुत्करा शुकाः
४२ द्रव्यगुणः । गुहाशया वातहरा नेत्रगुह्यविकारिणाम् । हिता गुरुष्णमधुराः स्निग्धा मांसाशिनोऽधिकम् ॥ ८ प्रसह्याः स्वादुवीर्य्योष्णास्तेषां मांसाशिनस्तु ते । ते शोषभस्मकोन्मादे हिताः क्षीणे विशेषतः ॥ ९ ॥ दृक्शुक्रास्रहितः पर्णमृगः स्वादुर्गुरुस्तथा । सृष्टमूत्रपुरीषश्च कासार्शःश्वासनाशनः ॥ १० ॥ विलेशया वातहरा बृंहणा रसपाकयोः । मधुरा बद्धविण्मूत्रा वीर्य्योष्णाश्च प्रकीर्त्तिताः ॥ ११ ग्राम्या वातहराः सर्व्वे बृंहणाः कफपित्तलाः । मधुरा रसपाकाभ्यां दीपना बलवर्द्धनाः ॥ १२ ॥ कूलचरा मरुत्पित्तहरा वृष्या बलावहाः । मधुरस्निग्धशीताश्च मूत्रलाः श्लेष्मलास्तथा ॥ १३॥ प्लवा वृष्या हिमाः स्निग्धा रक्तपित्तानिलापहाः । सृष्टमूत्रपुरीषाश्च मधुरा रसपाकयोः ॥ १४ ॥ कोषस्थाः पादिनश्चैव स्निग्धाः शीतानिलापहाः । इति केचित् पठन्ति । अत्र स्वजात्यपेक्षयैव रौक्ष्यं न मसूरादि- वत् । एवमनिलावहत्वेनापि वातहरत्वे स्वजात्यपकृष्टतां सूच- यतीति प्रागेव व्याख्यातम् ॥ ७ ॥ वातहरा इत्यनेन पित्तश्लेष्मकर्त्तृत्वं सूचयति । तथा चका- रात् कासश्वासकार्श्यहरत्वञ्च बोध्यम् । उक्तञ्च वातं हन्युः श्लेष्मपित्ते कुर्युः स्निग्धाः कासश्वासकार्श्यापहाः स्युरिति ॥ ११ ॥ अनूपानां गुणमाह कूलचरा इति ॥ १३ ॥
द्रव्यगुणः । ४३ वर्त्तस्याः मधुरा वृष्याः पित्तघ्नाः कफकारकाः ॥१५॥ मत्स्याः स्निग्धोष्णामधुरा वातजिन्मललोमनाः । पित्तमांसबलश्लेष्मशुक्राभिष्यन्दकारकाः ॥ १६ ॥ रोहितः सर्वमत्स्यानां वरो वृष्योऽर्दितात्तिर्जित् । कषायानुरसः स्वादुर्वार्तघ्नो नातिपित्तकृत् ॥१७॥ शकुलो मधुरो रुच्यः कषायो विशदो लघुः ॥१८॥ शिलिन्दः श्लेष्मलो बल्यो विपाके मधुरो गुरुः । वातपित्तहरो वृष्य आमवातकरो मतः ॥ १९ ॥ आड़िमत्स्यो गुरुः स्निग्धः स्वादुर्वृष्यो बलप्रदः॥२०॥ इल्लिसो मधुरः स्निग्धः पित्तश्लेष्मप्रकोपणः । नृणां व्यवायनित्यानां हितो वह्निविवर्द्धनः ॥२१॥ एलङ्गः स्निग्धो मधुरो गुरुविष्टम्भिशीतलः ॥२२॥ पर्वतो मधुरः स्निग्धः कषायानुरसो गुरुः ॥ २३॥ भाकुटो मधुरो वृष्यः कषायानुरसो गुरुः ॥२४॥ यद्यपि मत्स्या द्विविधाः सामुद्रा नादेयाश्च । तत्र समुद्राणां तिमिप्रभृतीनां प्रायशोऽनुपयोगात् तानुपेक्ष्य नादेयानां गुणा वाच्याः । नादेयशब्दश्च समुद्रभिन्नजलभवमात्रोपलक्षकः । तेन सरस्तड़ागजानामपि ग्रहणम् । तत्र मत्स्यानां सामान्यगुणं निर्द्दिशन्नाह मत्स्या इति । मललोमना इति मलानुलोमनाः सृष्टमला इत्यर्थः । अतएव सृष्टविण्मूत्रमारुता इति माधव- करः ॥ १६ ॥ मत्स्यभेदेन गुणभेदं दर्शयन्नाह रोहित इति ॥ १७ ॥ शकु-