गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
५.] गदनिग्रहः । १३९ अथातः पञ्चमो लेहाधिकारः प्रारभ्यते । अर्शसि पथ्यावलेहः । श्यामागूडूच्यामलचित्रकाणां भागान् पलानां शतसंमितांश्च । सर्वान्पृथक्संपरिकल्प्य युक्त्या द्रोणद्वयेऽपां तु विपाच्य पात्रे ॥ १ लौहे दृढे मन्दहुताशने च पादावशिष्टं विधिवाद्द्विजिज्ञः । भूयः पचेत्तं तुलया गुडस्य शुक्लेन वस्त्रेण विशोधितस्य ॥ २ ॥ चूर्णीकृतैर्जीरकयुग्मदन्तीपाठात्रिवृत्त्र्यूषणग्रन्थिकाद्यैः । धान्याजमोदेभकणायवानीभल्लातकारुष्करैश्च पलप्रमाणैः ॥ ३ ॥ प्रस्थत्रयेणाथ हरीतकीनामैकध्यमालोड्य शनैस्तु दर्य्या । ज्ञात्वा सुपक्वं रसगन्धवर्णैः कुम्भे निदध्यात्त्रिसुगन्धियुक्तम्॥४॥ प्रस्थार्धयुक्तं मधुनोऽत्र शीते भल्लातकास्थिप्रभवाच्च तैलात् । दत्त्वा पलार्धं यवशूकजस्य चाष्टौ पलान्येव सितोपलायाः ॥ ५ ॥ एनं लिहेदक्षफलप्रमाणमर्शोविकारी प्रसमीक्ष्य वह्निम् । कुष्ठानि सर्वाणि निहन्ति हिक्कां श्वासं च कासारुचिपाण्डुरोगान् मन्दानलत्वं ग्रहणीविकारान् गुल्मान्सशोफान्उदरामयांश्च । शूलानि यक्ष्माममसृक्प्रवृत्तिं पथ्यावलेहोऽयमिति प्रदिष्टः ७॥ अर्शसि चित्रकावलेहः । चित्रकस्य शतं दद्यात्तत्तुल्यो ग्रन्थिको मतः । पञ्चाङ्गदशमूलस्य शेषान् पञ्चपलान् पृथक् ॥ ८ ॥ बलां भार्गी शठीं पाठां पौष्करं मूलमेव च । चतुर्द्रोणेऽम्भसां पक्त्वा द्रोणशेषे तथैव च ॥ ९ ॥ पचेद्गुडशतं दत्त्वा लेहवत्साधु साधयेत् । चतुष्पलं तु पिप्पल्यास्तुगाक्षीर्याः पलद्वयम् ॥ १० ॥ त्रिजाताच्च पलं चैकं मरिचस्य पलं तथा । सूक्ष्मचूर्णं ततः कृत्वा दर्या सम्यग्विघट्टयेत् ॥ ११ ॥ पलमात्रं ततः खादेत्प्लीहगुल्मोदरर्शसाम् ।
१४० आयुर्वेदीयग्रन्थमाला। [लेहाधिकारः हन्ति यक्ष्माणमत्युग्रं शीतार्त्ति चाम्लपित्तकम् ॥ १२ ॥ भारद्वाजेन कथितो लेहश्चित्रकसंज्ञकः । अर्शसि चित्रकावलेहः । तोयद्रोणे चित्रकमूलतुलार्धं साध्यं यावत्पाददलस्थमथेदम् । अष्टौ दत्त्वा जीर्णगुडस्य पलानि क्वाथ्यं भूयः सान्द्रतया समवेतम् ॥ १३ ॥ त्रिकटुकमिशिपथ्याकुष्ठमुस्तावराङ्ग- कृमिरिपुदहनैलाचूर्णकीर्णोऽवलेहः । जयति गुदजकुष्ठप्लीहगुल्मोदराणि प्रबलयति हुताशं शश्वदभ्यस्यमानः ॥ १४ ॥ रक्तपित्ते कूष्माण्डावलेहः । कूष्माण्डकात्पलशतं सुस्विन्नं निष्कुलीकृतम् । पचेत्तप्ते घृतप्रस्थे पात्रे ताम्रमये दृढे ॥ १५ ॥ यदा मधुनिभः पाकस्तदा खण्डशतं क्षिपेत् । पिप्पलीशृङ्गवेराच्च द्वे पले जीरकस्य च ॥ १६ ॥ त्वगेलापत्रमरिचधान्यकानां पलार्धकम् । न्यसेच्चूर्णीकृतं तत्र दर्व्या संघट्टयेत्ततः ॥ १७ ॥ तत्पक्वं स्थापयेद्भाण्डे क्षौद्रं दत्त्वा घृतार्धकम् । तद्यथाग्निबलं खादेद्रक्तपित्ती क्षतक्षयी ॥ १८ ॥ श्वासकासारुचिच्छर्दितृष्णाज्वरनिपीडितः । वृष्यं पुनर्नवकरं बलवर्णप्रसादनम् ॥ १९ ॥ उरःसन्धानकरणं बृंहणं स्वरबोधनम् । अश्विभ्यां निर्मितं सिद्धं कूष्माण्डकरसायनम् ॥ २० ॥ १. अस्मत्प्रे 'क्षौद्रार्धकां सितां केचित् केचिद्राक्षां सितार्धकाम् । द्राक्षार्धानि लवङ्गानि मनाक् कर्पूरकं क्षिपेत्' इति योगरत्नाकरेऽधिकः पाठः ।
५.] गदनिग्रहः । १४१ रक्तपित्ते खण्डकूष्माण्डकावलेहः । प्रस्थेनाज्यस्य भृष्टं पलशतमलघुच्छिन्नकूष्माण्डकस्य पक्तव्यं खण्डतुल्यं मधु शिशिरतरे तत्र दद्याद्धृतार्थम् । व्योषं धान्यं सजीरं प्रसृतिमितमथ स्याच्चतुर्जातकं च प्रक्षेप्यं रक्तपित्तं हरति बलकरः खण्डकूष्माण्डकोऽयम् ॥२१ अर्शसि खण्डसूरणावलेहः । कूष्माण्डकविधानेन शस्यते सूरणं सदा । अर्शसां मूढवातानां मन्दाग्नीनां विशेषतः ॥ २२ ॥ गुडकूष्माण्डकावलेहः । कूष्माण्डकात्पलशतं सुस्विन्नं निष्कुलीकृतम् । प्रस्थं तैलघृतादेयं तस्मिंस्तप्ते प्रदापयेत् ॥ २३ ॥ त्वक्पत्रधान्यकं व्योषं जीरकैलाह्वयानलम् । ग्रन्थिकं चव्यमातङ्गपिप्पलीशृङ्गवेरकम् ॥ २४ ॥ शृङ्गाटकं कसेरुं च पेलवं तालमस्तकम् । चूर्णीकृत्य पलांशेन गुडस्य तुलया पचेत् ॥ २५ ॥ शीतीभूते पलान्यष्टौ मधुनः संप्रदापयेत् । कफपित्तानिलहरं मन्दाग्नीनां च दीपनम् ॥ २६ ॥ कृशानां बृंहणं श्रेष्ठं वाजीकरणमुत्तमम् । प्रमदासु प्रसक्तानां ये चान्ये क्षीणरेतसः ॥ २७ ॥ क्षयेणैव गृहीतानां परमुक्तं भिषग्जितम् । कासं श्वासं ज्वरं हिक्कां हन्ति छर्दिमरोचकम् ॥ २८ ॥ गुडकूष्माण्डकं ख्यातं कृष्णात्रेयेण पूजितम् । शोषे एलाद्यवलेहः । एलाजमोदामलकामयाक्षगायत्र्यरिष्टासनसारसालान् । विडङ्गभल्लातकचित्रकोग्रकट्त्रिकाम्भोदसुराष्ट्राजांश्च ॥ २९ ॥ पक्त्वा जलेनैव पचेद्धि सर्पिस्तस्मिन्सुसिद्धे त्ववतारिते च । त्रिंशत्पलं चात्र सितोपलाया दद्यात्तुगायाश्च पलानि षड् ॥३०॥
१४२ आयुर्वेदौयग्रन्थमाला । [ लेहाधिकारः प्रस्थं घृतस्य द्विगुणं च कुर्यात्क्षौद्रं ततो मन्थहतं निदध्यात् । पलं पलं प्रातरतः प्रलिह्यात्पश्चात्पिबेत्क्षीरमतन्द्रितश्च ॥ ३१ ॥ एतद्धि मेध्यं परमं पवित्रं चक्षुष्यमायुष्यमथ यशस्यम् । यक्ष्माणमाशु व्यपहन्ति चैव पाण्ड्वामयञ्च क्षतमूर्ध्वरक्तम्॥ श्वासं च हन्ति स्वरभेदकासं हृद्दाहगुल्मग्रहणीगदांश्च न चात्र किंचित्परिवर्जनीयं रसायनं चैतदुपास्यमानम् ॥३२ अर्शसि भल्लातकावलेहः । भल्लातकसहस्रं तु द्रोणेऽपां विधिवत्पचेत् । ततः पादावशिष्टं तु पुनरग्नावधिश्रयेत् ॥ ३४ ॥ गुडस्य तु तुलां दत्त्वा तत्र भूयो विपाचयेत् । त्र्यूषणं त्रिफला दन्ती चित्रको हस्तिपिप्पली ॥ ३५ ॥ चव्यञ्चामेोदापाठाश्च पिप्पलीमूलमेव च । एषां द्विपलिकान्भागान् सूक्ष्मचूर्णानि कारयेत् ॥३६॥ लेहीभूते ततः पश्चात्प्रक्षिपेन्मतिमान्भिषक् । शीतीभूते ततः पश्चाच्चातुर्जातपलं क्षिपेत् ॥ ३७ ॥ उदुम्बरसमां मात्रां खादयेच्च यथाबलम् । अर्शांसि ग्रहणीदोषं प्लीहानं विषमज्वरम् ॥ ३८ ॥ दुष्टगुल्मोदरं हन्ति मन्दाग्नित्वमरोचकम् । कासश्वासहरो हृद्यो भल्लातकगुडः स्मृतः ॥ ३९ ॥ ग्रहण्यां कल्याणको गुडावलेहः । प्रस्थत्रये ह्याममलकीरसस्य शुद्धस्य दत्त्वाऽर्धतुलां गुडस्य । चूर्णीकृतैर्ग्रन्थिकजीरचव्यव्योषेभकृष्णाहपुषाजमोदैः ॥ ४० ॥ विडङ्गसिन्धुत्रिफलायवानीपाठाग्निधान्यैश्च पलप्रमाणैः । दत्त्वा त्रिवृच्चूर्णपलानि चाष्टौ ह्यष्टौ च तैलस्य पचेद्यथावत् ४१ तं भक्षयेदक्षकफलप्रमाणं यथेष्टचेष्टं त्रिसुगन्धियुक्तम् । अनेन सर्वे ग्रहणीविकाराः सश्रासकासस्वरभेददोषाः ॥ ४२॥
५.] गदनिग्रहः । १४३ पाण्डूदरं गुल्मभगन्दरात्तिमेदःसमुत्थं च विकारजातम् । शाम्यन्ति, चायं चिरमन्दवह्नेर्हतस्य पुंस्त्वस्य च वृद्धिहेतुः ४३ स्त्रीणां च वन्ध्यामयनाशनः स्यात्कल्याणको नाम गुडः प्रतीतः। भृष्ट्वैषत्रिवृतां तैले त्रिसुगन्धि पिचुं पिचुम् । सिद्धे विधेयमत्रैव गुडे कल्याणपूर्वके ॥ ४४ ॥ कार्श्ये पञ्चजीरकावलेहः । कुस्तुम्बर्यो यवानी समरिचमगधा दीप्यकाजाजिचव्याः पथ्या श्यामा च मूलं कृमिहरहपुषे कारवी शीतकञ्च । शुण्ठीवन्दाकनागोद्भवशतकुसुमा मेथिका चाक्षभागाः कंसेल्लाङ्गागयुग्मं सकलगणमिदं चूर्णयेदौषधानाम् ॥४५॥ सर्पिःप्रस्थं प्रदद्याद्गुडपलदशभिः साधयेन्मन्दवह्नौ क्षीरप्रस्थैश्चतुर्भिः स च सकलगदान्हन्ति युक्तस्त्रिगन्धैः । लेहोऽयं चानिलघ्नः कृशबलजननः शोधनश्चार्त्तवस्य या स्त्री गर्भं न धत्ते जनयति तनयं दीर्घजीवानुयुक्तम् ४६ योनिरोगे पञ्चजीरकावलेहः । जीरकं हपुषा धान्यं यवानी बदराणि च । शताह्वां मेथिका हिङ्गुपत्रिका कामवृक्षकम् ॥ ४७ ॥ पिप्पलीपिप्पलीमूलमजमोदा च वाष्पिका । चित्रकं च पलांशानि तथा चैव चतुःपलम् ॥ ४८ ॥ कसेरुकं नागरं च कृष्णा जीरकमेव च । गुडस्यार्धशतं दद्याद्धृतप्रस्थं तथैव च ॥ ४९ ॥ क्षीरद्विप्रस्थसंयुक्तं शनैर्मृद्वग्निना पचेत् । पञ्चजीरक इत्येष सूतिकानां प्रशस्यते ॥ ५० ॥ गर्भार्थिनीनां नारीणां प्रदुष्टे चैव मारुते । विंशतिर्व्यापदो योनेः कासं श्वासं स्वरक्षयम् ॥ ५१ ॥ हलीमकं पाण्डुरोगं दौर्गन्ध्यं कृच्छ्रमूत्रताम् । हन्ति पीनोन्नतकुचाः पद्मपत्रायतेक्षणाः ॥ ५२ ॥
१४४ आयुर्वेदीयग्रन्थमाला । [ लेहाधिकारः उपयोगात्स्त्रियो नित्यमलक्ष्मीकलिवर्जिताः । श्रीबाहुशालो गुडावलेहः । त्रिवृत्तेजोवतीदन्तीश्वदंष्ट्राचित्रकं शठी । गवाक्षीमुस्तबिल्वाह्वं विडङ्गानि हरीतकी ॥ ५३ ॥ पलानि षड् वृद्धदारोः षोडशैव तु सूरणात् । जलद्रोणद्वये क्वाथ्य चतुर्थांगावशेषितम् ॥ ५४ ॥ पूतं रसं तु तं दत्त्वा क्वाथेभ्यस्त्रिगुणो गुडः । लेहं पचेद्धि तं यावद्दवींलेपं व्रजेद्बुधः ॥ ५५ ॥ अवतार्य ततः पश्चाच्चूर्णानीमानि दापयेत् । त्रिवृत्तेजोवतीकट्वीचित्रकं द्विपलांशकम् ॥ ५६ ॥ एलात्वक्पत्रनागाह्वं षट्पलं परिकीर्तितम् । द्वात्रिंशच्च पलानीह चूर्णीकृत्व प्रदापयेत् ॥ ५७ ॥ ततो मात्रां प्रयुञ्जीत जीर्णे क्षीरं रसायनम् । पञ्चगुल्मान् प्रमेहांश्च पाण्डुरोगं हलीमकम् ॥ ५८ ॥ जयेदर्शांसि सर्वाणि तथा सर्वोदराणि च । अयं सर्वान् गदांश्चैव कल्याणो लेह उत्तमः ॥ ५९ ॥ दुर्नामान्तकरश्चैव मेधाजनन उत्तमः । गुडः श्रीबाहुशालोऽयं दुर्नामारिः प्रकीर्तितः ॥ ६० ॥ सर्वरोगं निहन्त्याशु वृक्षमिन्द्राशनिर्यथा । श्वासकासे बिभीतकावलेहः । प्रस्थं बिभीतकानामनस्थां साधयेद्गवां मूत्रे । लेहवदवलेहो मधुसहितः श्वासकासहरः ॥ ६१ ॥ कासेऽगस्त्यहरीतक्यवलेहः । द्विपञ्चमूलेभकणात्मगुप्ताभार्ङ्गीशठीपुष्करमूलविश्वाः । पाठामृताग्रन्थिकशङ्खपुष्पीरास्नाग्न्यापामार्गबलायवासाः ॥६२॥ द्विपालिकांस्तच्च यवाढकं च हरीतकीनां च शतं गुरूणाम् । द्रोणे जलस्याढकसंयुते तु क्वाथीकृते पूतचतुर्थभागे ॥ ६३ ॥
५.] गदनिग्रहः । १४५ पचेत्तुलां शुद्धगुडस्य दत्त्वा पृथक्सतैलात्कुडवं घृताच्च । चूर्णं च तावन्मगधोद्भवाना मनेकरोगौघमथाशु हन्यात् ॥६४॥ तद्राजयक्ष्मग्रहणीप्रदोषशोफाग्निमान्द्यस्वर भेदकासान् । पाण्ड्वामयश्वासशिरोऽक्षिरोगान्हृद्रोगहिक्काविषमज्वरांश्च ॥ ६५ ॥ मेधाबलोत्साहमतिप्रदं च चकार चैतद्भगवानगस्त्यः । कासे द्वितीयोऽगस्त्यहरीतक्यवलेहः । दशमूलीं स्वयङ्गुप्तां शङ्खपुष्पीं शठीं बलाम् । हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान् ॥ ६६ ॥ भार्गीं पुष्करमूलं च द्विपलांशान् यवाढकम् । हरीतकीशतं चैकं जले पञ्चाढके पचेत् ॥ ६७ ॥ यवैः स्विन्नैः कषायं तं पूतं तच्चाभयाशतम् । पचेद्गुडतुलां दत्त्वा कुडवं च पृथग्घृतात् ॥ ६८ ॥ तैलाच्च पिप्पलीचूर्णात्सिद्धे शीते च माक्षिकात् । कुडवं, पलमानं च चतुर्जातं समावपेत् ॥ ६९ ॥ लेिह्याद्वे चाभये नित्यं ततः खादेद्रसायनात् । वलीं च पलितं हन्याद्वर्णाग्निबलवर्धनम् ॥ ७० ॥ पञ्च कासान् क्षयं श्वासं सहिध्मं विषमज्वरम् । गुल्ममेहग्रहण्यर्शोहृद्रोगारुचिपीनसान् ॥ ७१ ॥ अगस्त्यविहितं धन्यमिदं श्रेष्ठं रसायनम् । यथोद्दिष्टान् गुणं कुर्वन्निचं चेत्कुरुते यदि ॥ ७२ ॥ तदा सायं गुडो योज्य एष एवाल्पमात्रया । पादशेषे कषायेऽत्र स्विन्ना विद्याद्धरीतकीः ॥ ७३ ॥ भर्जितास्तिलतैलस्य कुडवे गोघृतस्य वा । पचेत्ताम्रमये पात्रे आपाकाल्लोहितोदयात् ॥ ७४ ॥ सङ्ख्या फलानां शतश्चातुर्जातं पृथक्पलम् । बद्ध्वा पोटलके पथ्या यवान् स्विन्नांश्च कारयेत् ॥ ७५ ॥ १३
१४६ आयुर्वेदीयग्रन्थमाला । [ लेहाधिकारः वासिष्ठहरीतक्यवलेहः । यवाढकं सप्त जलाढकानि हरीतकीनां च शतं गुरूणाम् । दन्त्यश्वगन्धाचिरिबिल्वमूलं भल्लातकांश्चापि च पक्वबिल्वम् ७६ उभे हरिद्रे गजपिप्पली च मूलानि पत्राणि च चित्रकस्य । पिप्पल्यपामार्गमथात्मगुप्ता सर्वाणि कुर्यात्पलसंमितानि ॥७७॥ लौहे समादाय पचेत्कटाहे द्विपञ्चमूलं च यवप्रमाणम् । मृद्वग्निसिद्धांश्च यवान्विदित्वा शनैः प्रयत्नादवतारयेच्च ॥ ७८॥ निःस्त्राव्य तेनैव जलेन सम्यक् सार्धं पुराणस्य शतं गुडस्य । भूयो गुरूणामथ तत्र दद्याद्धरीतकीनां च सहस्रमन्यत् ॥७९॥ प्रस्थं पुराणस्य घृतस्य चैव नवस्य तैलस्य च तावदेव । शीते मधु स्नेहसमं च दद्यात्पलानि चाष्टावथ पिप्पलीनाम्॥८०॥ पथ्ये सलेहे त्वथ भक्ष्यमाणे सर्वा रुजो नाशयतो हि मासात् । मासद्वयेनैव च नेत्ररोगान्निहन्ति गार्ध्रं लभते च चक्षुः॥ ८१ ॥ मासैस्त्रिभिर्नाशयतो हि कुष्ठं विशीर्णतां चाङ्गुलिनासिकानाम् । भगन्दरश्लीपदवातगुल्मानर्शांस्यथो मासचतुष्टयेन ॥ ८२ ॥ केशान्घनान्कुञ्चितदीर्घनीलान् पञ्चभिश्चैव करोति मासैः । सहस्रसङ्ख्यां च तथोपयुज्य बलं लभेदुत्तमकुञ्जरस्य ॥ ८३ ॥ स्वरं मयूरस्य जवं हयस्य शरच्छशाङ्कस्य तथैव कान्तिम् । सौभाग्यमेधास्मृतिसत्त्वतेजःशोभान्वितः पद्मसमानगन्धः ८४ जीवेत्समानां च सहस्रमन्यत्प्रयोगकालादिति सिद्धवाक्यम् । न चान्नपानेऽध्वनि मैथुने वा नरेण किंचित्परिहार्यमस्मिन् ॥ समीक्ष्य कल्पं तु रसायनानां चकार योगं भगवान्वसिष्ठः॥८५॥ वासाहरीतक्यवलेहः । तुलामादाय वासायाः संक्वाथ्याष्टगुणे जले । तेन पादावशेषेण पाचयेदाढकं भिषक् ॥ ८६ ॥ १. प्रत्यहं हरीतकीद्वयं लेहं च पलप्रमाणं भक्षयेदित्यर्थः ।
गदनिग्रहः । १४७ गुरूणामभयानां तु खण्डाच्छुद्धात्तथा शतम् । शीतीभूते निदध्यात्तु क्षौद्रस्याष्टौ पलानि च ॥ ८७ ॥ वंशोद्भवायाश्चत्वारि पिप्पल्यर्धपलं तथा । चातुर्जातपलं चैव सर्वदा हन्ति सेवितः ॥ ८८ ॥ विद्रधिं जठरं गुल्मं रक्तपित्तं सुदारुणम् । श्वासं क्षयं तथा कासं तृष्णाहृद्रोगपीनसान् ॥ ८९ ॥ पलार्धं भक्षयेदस्य यथेष्टं चात्र भोजनम् । गुल्मे दन्तीहरीतक्यवलेहः । जलद्रोणे विपक्तव्या विंशतिः पञ्च चाभयाः ॥ ९० ॥ दन्त्याः पलानि तावन्ति चित्रकस्य तथैव च । अष्टभागावशेषं च रसं पूतमधिश्रयेत् ॥ ९१ ॥ दन्तीसमं गुडं पूतं क्षिपेत्तत्राभयाश्च ताः । तैलार्धकुडवं चैव त्रिवृतायाश्चतुष्पलम् ॥ ९२ ॥ चूर्णितं चार्थपलिकं पिप्पलीविश्वभेषजम् । लेहवत्साधयेत्तं च शीते तैलसमं मधु ॥ ९३ ॥ क्षिपेच्चूर्णं पलं चैकं त्वगेलापत्रकेसरात् । ततो लेहपलं लिह्याज्जग्ध्वा चैकां हरीतकीम् ॥ ९४ ॥ सुखं विरिच्यते स्निग्धो दोषान् प्रशमयत्यलम् । गुल्मं श्वयथुमर्शांसि पाण्डुरोगमरोचकम् ॥ ९५ ॥ हृद्रोगं ग्रहणीदोषं कामलां विषमज्वरम् । कुष्ठं प्लीहानमानाहं तथा हन्त्युपसेवितः ॥ ९६ ॥ निरत्ययक्रमश्च स्याद्भोज्यो मांसरसौदनः । कासे व्याघ्रीहरीतक्यवलेहः । व्याघ्रीशतं हरीतक्यो दत्त्वा च शतसंमिताः ॥ ९७ ॥ जले चतुर्गुणे पक्त्वा चतुर्थांशावशेषिते । आलोप्यार्धतुलां तस्मिन् गुडस्य त्वभयाश्च ताः ॥९८॥
१४८ आयुर्वेदीयग्रन्थमाला । [लेहाधिकारः प्रक्षिप्यास्मिन् घनीभूते त्वगेलापत्रकेसरम् । मगधोषणसंयुक्तं पालिकं, चार्धकार्षिकम् ॥ ९९ ॥ यवक्षारं च संचूर्ण्य तस्मिंस्तत्प्रक्षिपेत्पुनः । मधुनः पलषट्केन युक्तः कासामयापहः ॥ १०० ॥ स्वरवर्णवहः पुंसामग्नेर्दीप्तिकरः परम् । सर्वकासे द्वितीयो व्याघ्रीहरीतक्यवलेहः । समूलपुष्पच्छदकण्टकार्यास्तुलां जलद्रोणपरिप्लुतां च । हरीतकीनां च शतं विदध्यादथात्र पक्त्वा चरणावशेषम् १०१ गुडस्य दत्त्वा शतमेतदग्नौ विपक्वमुत्तार्य ततः सुशीते । कटुत्रिकं च त्रिपलप्रमाणं पलानि षट् पुष्परसस्य तत्र॥१०२॥ क्षिपेच्चतुर्जातपलं यथाग्नि प्रयुज्यमानो विधिनाऽवलेहः । वातात्मकं पित्तकफोद्भवं च द्विदोषजं कासमपि त्रिदोषम् १०३ क्षतोद्भवं च क्षयजं च हन्यात्सपीनसश्वासमुरःक्षतं च । यक्ष्माणमेकादशरूपमुग्रं भृगूपदिष्टं हि रसायनं स्यात् ॥१०४॥ प्लीहोदरे रोहीतकावलेहः । पक्त्वा शतं रोहितवल्कलानां पथ्याशतं माहिषमूत्रमग्नौ । पादावशेषं तु सपञ्चकोलैरुद्धृत्य मूत्रं सह दन्तिनीभिः १०५ भूयः पचेद्यावदुपैति लेहः पथ्याद्वयं नित्यमथोपयुज्य । पश्चाल्लिहेल्लेहहितं हिताशी प्लीहोदरं हन्ति यकृच्च शीघ्रम् १०६ शोफे पुनर्नवहरीतक्यवलेहः । पुनर्नवायाः प्रस्थं तु चित्रकस्य तथैव च । पाठानागरदन्तीनां भागान्दशपलोन्मितान् ॥ १०७ ॥ दशमूलतुलार्धं तु पथ्यानां शतमेव च । चतुर्गुणेऽम्भसः पक्त्वा पूतं पादावशेषितम् ॥ १०८ ॥ गुडस्यैकां तुलां क्षित्वा लेहवत्साधु साधयेत् । क्षिपेच्चूर्णीकृतं तत्र त्रिजातं त्रिकटुं तथा ॥ १०९ ॥
५.] गदनिग्रहः । १४९ नागकेसरसंयुक्तं पलांशमुपकल्पितम् । शीतीभूते ततो दद्यात्कुडवं माक्षिकस्य च ॥ ११० ॥ अतो लेहपलं लीढ्वा पथ्यां चैकां च भोजयेत् । शोफगुल्मोदरार्शोघ्नी पुनर्नवहरीतकी ॥ १११ ॥ शोफे कंसहरीतक्यवलेहः । द्विपञ्चमूलस्य तुला कषाये कंसोऽभयानां च शतं गुडाच्च । लेहे सुसिद्धे च विनीय चूर्णं व्योषं त्रिसौगन्ध्यमुपस्थिते च ॥ प्रस्थार्धमात्रं मधुनः सुशीते किंचिच्च चूर्णादपि यावशूकात् । एकां ततः प्राश्य तथा च लेहाच्छुक्तिं निहन्ति श्वयथुं प्रवृद्धम्॥ कासज्वरारोचकमेहहिक्काप्लीहत्रिदोषोदरपाण्डुरोगान् । कार्श्याम्लवातासृगम्लपित्तवैवर्ण्यमूत्रानिलशुक्रदोषान् ११४॥ शोफे हरीतक्यवलेहः । दशमूलकषायस्य कंसे पथ्याशतं पचेत् । दत्त्वा गुडतुलां तस्मिँल्लेहे दद्यात्सुचूर्णितम् ॥ ११५ ॥ त्रिजातकं त्रिकटुकं किंचिच्च यवशूकजम् । प्रस्थार्धं च हिमे क्षौद्रात्स निहन्त्युपयोजितः ॥ ११६ ॥ प्रवृद्धशोफज्वरमेहगुल्मकार्श्याम्लवाताम्लकरक्तपित्तम् । वैवर्ण्यमूत्रानलशुक्रदोषश्वासारुचिप्लीहगरोदरांश्च ॥ ११७ ॥ अर्शःपीनसयोश्चित्रकहरीतक्यवलेहः । चित्रककषायपलशतममृताधात्रीरसं च तुल्यांशम् । संमिश्र्य गुडशतं च हि द्विपञ्चमूलीकषायेण ॥ ११८ ॥ तत्तुल्येन हरीतक्याढकमेकं विपाच्य गुडपाकम् । अर्धप्रस्थं मधुनस्तस्मिन्दत्त्वा ततोऽन्येद्युः ॥ ११९ ॥ द्वे द्वे पले निदध्यादेलात्वक्पत्रत्रिकटुकानाम् । सयवक्षारार्धपलं यथाग्नि पश्चात्प्रयुञ्जीत ॥ १२० ॥ एतद्रसायनोत्तममश्विभ्यामश्विद्वये प्रोक्तम् । उपयुक्तवतां पुंसामपि काष्ठतृणानि जीर्यन्ति ॥ १२१ ॥
१५० आयुर्वैदीयग्रन्थमाला । [ लेहाधिका अर्शःश्वासभगन्दरकासकृमिशोफकुष्ठगुल्मांश्च । मासद्वयोपयोगादेद्विनाशयत्यग्निबृद्धिमपि ॥ १२२ ॥ रोगानीकसमेतं विशेषतो हन्ति राजयक्ष्माणम् । अजितमपि भेषजशतैः पीनसरोगं त्र्यहाज्जयति ॥ १२३ ॥ मन्दाग्नौ द्वितीयश्चित्रकहरीतक्यवलेहः । चित्रकपलशतमभिनवमाहृत्य कषायमेव कुर्वीत । धात्रीरसस्य पलशतममृतायाः स्वरसमेव तत्तुल्यम् ॥१२४॥ दशमूलस्य पलशतमष्टाविंशत्तथा जलद्रोणे । अभयाढकं च भिषजा साध्यं पूते कषायेऽस्मिन् ॥१२५॥ शुद्धगुडस्य शतं स्याद्रसेन चालोड्य सपदि तत्रैव । अभयाश्च ताः समस्ता मृदुना ज्वलनेन मार्दवं नेयाः१२६ मधुनः पलानि षोडश तस्मिन्देयानि शीतलीभूते । त्वक्पत्रमरिचकेसरमागधिकैलापले द्वे स्युः ॥ १२७ ॥ यवक्षारपलैकमेतत्प्राश्याग्निमात्रया विद्वान् । जरयति तृणकाष्ठान्यपि त्रिसप्तदिवसोपयोगेन ॥ १२८ ॥ कासश्वासभगन्दरकुष्ठान्यष्टादशोदराण्राष्टौ । मासोपयोगादेतत्क्षतक्षयं हन्ति राजयक्ष्माणम् ॥ १२९ ॥ षण्ढोऽप्यषण्ढतां च याति वर्षमात्रोपयोगेन । सुरलोकरोगनिचयप्रशमनकरणैकलक्ष्यमाहात्म्यौ ॥१३०॥ दिव्यं रसायनमिदं कृतवन्तावश्विनौ देवौ । हलीमके आमलकावलेहः । रसमामलकानां तु सुशुद्धं यन्त्रपीडितम् । द्रोणं पचेत्तु मृद्वग्नौ तत्र चेमानि दापयेत् ॥ १३१ ॥ चूर्णितं पिप्पलीप्रस्थं मधुकद्विपलं तथा । प्रस्थं गोस्तनिकायाश्च द्राक्षायाः कल्कपेषितम् ॥१३२॥ शृङ्गवेरपले द्वे च तुगाक्षीर्याः पलद्वयम् । तुलार्धं शर्करायाश्च तद्घनीभूतमुद्धरेत् ॥ १३३ ॥
५.] गदनिग्रहः । १५१ मधुप्रस्थसमायुक्तं लेहयेत्पलसंमितम् । हलीमकं कामलां च पाण्डुत्वं चापकर्षति ॥ १३४ ॥ कामलायां विडङ्गाद्यवलेहः । विडङ्गतिकफलामुस्तमधुकं कटुरोहिणी । अयोरजो हरिद्रे च चित्रकं गुडशर्करा ॥ १३५ ॥ खदिरस्य कषायेण चूर्णान्येतानि साधयेत् । मृद्वग्निसिद्धं तं लेहं लेहयेन्मधुसर्पिषा ॥ १३६ ॥ स लेहः कामलां हन्यादपि संवत्सरोत्थिताम् । पाण्डुरोगं च नुदति श्वयथुं चापि पैत्तिकम् ॥ १३७ ॥ श्वासे हरीतक्यवलेहः । भार्गीजटापलशतं सलिलार्मणाभ्यां युक्तं च मूलतुलया सहितं विपाच्य । पादस्थिते तु शतमत्र हरीतकीनां पक्तव्यमुज्ज्वलगुडस्य शतेन सार्धम् ॥ १३८ ॥ उत्तार्य तत्र शिशिरे मधुनः पलानि चत्वारि च त्रिगुणितानि पलत्रयं च । व्योषं त्रुटित्वगिभकेसरपत्रकाणा- मेषां पलं खलु निधेयमथोपयुज्य ॥ १३९ ॥ श्वासं सकासमपि शोषमथातिहिक्का- मेकाहिकं ज्वरमपीनसमुत्कटं च । हन्याद्रसायनमिदं हि पुरन्दरस्य प्रोक्तं सहस्रकरपुत्रभिषग्वराभ्याम् ॥ १४० ॥ अर्शसि कुटजावलेहः । कुटजत्वक्पलशतं जलद्रोणे विपाचयेत् । चतुर्भागावशेषं तु कषायमुपकल्पयेत् ॥ १४१ ॥ १. मूलतुलयेति दशमूलतुल्येत्यर्थः ।
वस्त्रपूतं पुनः क्वाथं पचेल्लेहत्वमागतम् । भल्लातकं विडङ्गानि त्रिकटु त्रिफलां तथा ॥ १४२ । रसाञ्जनं चित्रकं च कुटजस्य फलानि च । वचामतिविषां बिल्वं प्रत्येकं तु पलं पलम् ॥ १४३ । त्रिंशत्पलं गुडस्यात्र चूर्णीकृत्य प्रदापयेत् । मधुनः कुडवं दद्याद्धृतस्य कुडवं तथा ॥ १४४ ॥ एष लेहस्तु शमयेदर्शो रक्तसमुद्भवम् । वातिकं पैत्तिकं चैव श्लैष्मिकं सान्निपातिकम् ॥१४५। ये च दुर्नामजा रोगास्तांश्च सर्वान् व्यपोहति । रक्तपित्तमतीसारं पाण्डुरोगमरोचकम् ॥ १४६ ॥ ग्रहणीमार्दवं कार्श्य श्वयथुं कामलामपि । अनुपाने घृतं दद्याद्दधि तक्रं जलं पयः ॥ १४७ ॥ जीर्णे तु पथ्यभोजी स्यादशोभ्यः प्रविमुच्यते । रोगानीकवधार्थाय कौटजो लेह उच्यते ॥ १४८ ॥ अर्शसि द्वितीयः कुटजावलेहः । कुटजत्वचं विपाच्य पलशतमात्रां महेन्द्रसलिलेन । यावत्स्याद्वि श्रुतस्तद्रव्यं स्वरसस्ततो ग्राह्यः ॥ १४९ ॥ मोचरसश्च समङ्गा फलिनी च पलांशकास्त्रिभिश्चैतैः । वत्सकबीजं तुल्यं चूर्णीकृतमत्र दातव्यम् ॥ १५० ॥ पूतः कथितः सान्द्रः स रसो दर्वीप्रलेपको ग्राह्यः । मात्रा कालोपहिता रसक्रियैषा जयति रक्तम् ॥ १५१ ॥ छगलीपयसा युक्ता पेयामण्डेन वा यथाग्निबलम् । जीर्णौषधश्च शालीन् पयसा छागेन भुञ्जीत ॥ १५२ ॥ रक्तार्शस्यतिसारं रक्तं सासृग्दरं निहन्त्याशु । बलवच्च रक्तपित्तं रसक्रियैषा ह्युभयभागम् ॥ १५३ ॥ अर्शसि कुटजाष्टकोऽवलेहः । तुलामथार्द्रा गिरिमल्लिकायाः संक्षुद्य पक्त्वा रसमाददीत ।
५.] गदनिग्रहः । १५३ तस्मिन्सुपूते पलसंमितानि श्लक्ष्णानि पिष्ट्वा सह शाल्मलेन १५४ पाठा समङ्गाऽतिविषा समुस्ता बिल्वं च पुष्पाणि च धातकीनाम् । प्रक्षिप्य भूयो विपचेत्तु तावद्दर्वीप्रलेपस्तु रसस्तु यावत् ॥१५५॥ पीतस्त्वसौ कालविदा जलेन मण्डेन वाऽजापयसाऽथवापि । निहन्ति सर्वं त्वतिसारमुग्रं कृष्णं सितं लोहितपीतकं वा ॥१५६ दोषं ग्रहण्या विविधं च रक्तं पित्तं तथाऽर्शासि सशोणितानि । असृग्दरं चैवमसाध्यरूपं निहन्त्यवश्यं कुटजाष्टकोऽयम् ॥१५७॥ ग्रहण्यां मधुपाकविधिः । पाठाऽजमोदा मधुकं समङ्गा मुस्ता जलोशीरविडङ्गधान्यम् । बिल्वाग्निशुण्ठीमगधाः सरोध्रश्यामाः सुधात्री करिकुङ्कुमं च १५८ जम्ब्वाम्रयोरस्थि सवल्कलं च सर्वाणि चैतानि पलांशकानि । द्रोणे जलस्य प्रपचेत्कषायमष्टावशेषं सितवस्त्रपूतम् ॥ १५९ ॥ क्षौद्रं क्षिपेदष्टपलप्रमाणं पलार्धनागाह्वयचन्दनैलाः । सहैव संमर्द्य विधाय चूर्णं क्षौद्रान्वितं तच्च पुनर्विपाच्यम् ॥१६० उत्तार्य लेहं घृतभाजने च निधापयेत्सप्त दिनानि गुप्तम् । तं पाययेद्व्याधिबलं समीक्ष्य जयेच्च सर्वान् ग्रहणीविकारान् । अरोचकं जीर्णमथातिसारं तृष्णाम्लपित्तं वमिहृद्ग्रहं च॥१६१॥ कासे कण्टकार्यावलेहः । समूलफलशाखां तु कुट्टयेत्कण्टकारिकाम् । तां पचेत्सलिलेद्रोणे चतुर्थांशावशेषिताम् ॥ १६२ ॥ कषायं तं परिस्राव्य पुनरग्नावधिश्रयेत् । घृतं च युक्त्या दातव्यं कल्कं चैव प्रदापयेत् ॥१६३॥ दुरालभा छिन्नरुहा त्र्यूषणं चित्रकं तथा । रास्ना कर्कटशृङ्गी च पिप्पलीमूलमेव च ॥ १६४ ॥ एतान्येकपलीकानि तथा फाणितशर्कराम् । पलानां विंशतिं दत्त्वा तं लेहं सान्द्रमुद्धरेत् ॥ १६५ ॥
१५४ आयुर्वेदग्रन्थमाला । [ लेहाधिकार शीते दद्यात्पिप्पलीनां चूर्णं तत्त गुडोन्मितम् । तुगाक्षीर्यास्तु कुडवं मधुनः कुडवं तथा ॥ १६६ ॥ तं लिह्यान्मात्रया लेहं पञ्चकासनिवारणम् । हृद्रोगानाहहिक्काश्च श्वासं चैवापकर्षति ॥ १६७ ॥ शोषे निदिग्धिकायोऽवलेहः । निदिग्धिकापलशतं तदर्धं ग्रन्थिकस्य च । चित्रकस्य तदर्धं च दशमूलं च तत्समम् ॥ १६८ ॥ द्रोणद्वयेऽम्भसः क्वाथ्यमष्टभागावशेषितम् । पूते क्षिपेत्तदर्थं तु पुराणस्य गुडस्य च ॥ १६९ ॥ सर्वमेकत्र कृत्वा तु लेहवत्साधु साधयेत् । अष्टौ पलानि पिप्पल्यस्त्रिजातत्रिपलं तथा ॥ १७० ॥ मरिचानां पलं चैकं सर्वमेकत्र चूर्णयेत् । मधुनः कुडवं दत्त्वा भक्षयेत यथाबलम् ॥ १७९ ॥ स्वरवृद्धिकरं चैव प्रतिश्यायहरं परम् । कासश्वासाग्निमान्द्यार्शोगुल्ममेहगलामयान् ॥ १७२ । आनाहमूत्रकृच्छ्रांश्च हन्याद्ग्रन्थ्यर्बुदानि च । उदावर्ते पटोलमूलावलेहः । पटोलमूलं रजनीं त्रिफलां चतुरङ्गुलम् ॥ १७३ ॥ नीलिनीं त्रिवृतां दन्तीं कृमिघ्नं सपुनर्नवाम् । कटुकां सातलां रोध्रं भागान्दशपलोन्मितान् ॥१७४। दत्त्वा द्रोणचतुष्कं तु सलिलं पादशेषितम् । तैलस्य कुडवं तत्र गुडस्य तु शतं तथा ॥ १७५ ॥ त्रिवृच्चूर्णपलान्यष्टौ लेहवत्साधु साधयेत् । चूर्णीकृतं क्षिपेत्तत्र व्योषस्य पलपञ्चकम् ॥ १७६ ॥ पलत्रयं त्रिजातस्य दत्त्वा संघट्टयेत्पुनः । . ततो यथाबलं खादेत्पलार्धं पिचुमेव वा ॥ १७७ ॥
४.] गदनिग्रहः । १५५ नाहारे यन्त्रणा काचिन्न विहारे तथैव च । उदावर्तविवन्धाशोगुल्मपाण्डूदरकृमि- ॥ १७८ ॥ कुष्ठमेहारुचिहरो विड्विबन्धेषु शस्यते । लेहः पटोलमूलाख्यः सर्वकर्मसु युज्यते ॥ १७९ ॥ मुखरोगे दार्श्वलेहः । दार्ब्यास्तु मूलार्धतुलां जलस्य द्रोणे शृतां पूतचतुर्थशेषाम् । भूनिम्बदार्बीखदिरारिमेदः पुनर्विपक्कं पलिकैश्चतुर्भिः ॥१८०॥ पूतं ततो गैरिकचूर्णपादं मन्दानले तच्च पुनर्विपक्कम् । सञ्जीय शीतं मधुशर्कराभ्यां सदा प्रयोज्यं घृतभाजनस्थम् १८१ नानाप्रकारेपु मुखामयेषु सुदारुणेषूग्ररुजेषु चैव । प्रशीर्णजीर्णेष्वबलद्विजेषु कृच्छ्रेषु दुष्टेषु व्रणेषु चैव ॥ १८२ ॥ कल्पोऽयमिष्टो मधुकस्य चैव प्रपौण्डरीकस्य वृषस्य चैव । जातीरिमेदत्रिफलासमङ्गारोध्रस्य जम्बोः खदिरस्य चैव १८३ नागराद्योऽवलेहः । नागरस्य पलान्यष्टौ घृतस्य पलविंशतिः । क्षीरद्विप्रस्थसंयुक्तं खण्डस्यार्धशतं तथा ॥ १८४ ॥ व्योषं त्रिजातकं चैव पलांशमुपकल्पयेत् । बल्यं च वर्ण्यमायुष्यं वलीपलितनाशनम् ॥ १८५ ॥ आमवातप्रशमनं सौभाग्यकरमुत्तमम् । कासे कसेर्वाद्योऽवलेहः । कसेरोस्तु तुलार्धं हि द्विद्रोणेऽपां विपाचयेत् ॥ १८६ ॥ द्रोणार्धशेषे पूते च दद्याद्गुडतुलां तथा । सर्पिषः कुडवं दद्याल्लेहवत्साधु साधयेत् ॥ १८७ ॥ चतुष्पलं तु व्योषस्य त्रिजातं त्रिपलं तथा । पलद्वयं केसरस्य चूर्णं कृत्वा विनिक्षिपेत् ॥ १८८ ॥ तद्यथाग्निबलं खादेत्कासकृमिज्वरापहः । हृत्पाण्डुरोगवैवर्ण्यदौर्बल्यानाहनाशनः ॥ १८९ ॥
. १५६ आयुर्वेदौयग्रन्थमाला । [ लेहाधिकार कसेरुकावलेहोऽयं स्वरपुष्टिविवर्धनः । अर्शसि भल्लातकावलेहः । चित्रकं त्रिफला मुस्तं ग्रन्थिकं चविकाऽमृता ॥ १९०॥ हस्तिपिप्पल्यपामार्गदण्डोत्पलकुठेरकाः । एषां चतुष्पलान् भागान् जलद्रोणे विपाचयेत्॥१९१ भल्लातकसहस्रे द्वे छित्त्वा तत्रैव दापयेत् । तेन पादावशेषेण लोहपात्रे पचेद्भिषक् ॥ १९२ ॥ तुलार्धं तीक्ष्णलोहस्य घृतस्य कुडवद्वयम् । त्र्यूषणं त्रिफलावह्निसैन्धवं विडमौद्भिदम् ॥ १९३ । सौवर्चलं विडङ्गं च पलिकांशान् प्रकल्पयेत् । कुडवं वृद्धदारस्य तालमूल्यास्तथैव च ॥ १९४ ॥ सूरणस्य पलान्यष्टौ चूर्णं कृत्वा विनिक्षिपेत् । सिद्धशीते प्रदातव्यं मधुनः कुडवद्वयम् ॥ १९५ ॥ प्रातर्भोजनकाले च ततः खादेद्यथाबलम् । अर्शांसि ग्रहणीदोषं पाण्डुरोगमरोचकम् ॥ १९६ ॥ कृमिगुल्माश्मरीमेहांश्छूलं चाशु व्यपोहति । करोति शुक्नोपचयं वलीपलिंतनाशनम् ॥ १९७ ॥ रसायनमिदं श्रेष्ठं सर्वरोगहरं परम् । पीनसे चित्रकावलेहः । वह्निद्विपञ्चमूलस्य काथे पलशतद्वये ॥ १९८ ॥ अमृताया रसस्यैके पूतेऽस्मिन्नभयाशतम् । पचेद्गुडतुलां तावद्यावदापाकलक्षणम् ॥ १९९ ॥ अन्येद्युस्तत्र मधुनः सुशीते कुडवद्वयम् । प्रक्षिपेत्त्रिसुगन्धस्य त्रिकटोश्च पलद्वयम् ॥ २०० ॥ प्रत्येकं स्याद्यवक्षारः शुक्तिस्तस्मिन्न्र्निसायने । उत्तमं कथितं पुंसामश्विभ्यामग्निवृद्धये ॥ २०१ ॥ १ 'फलशते' इति शेषः ।
५.] गदनिग्रहः । १५७ जीर्णन्त्यपि च काष्ठानि कासश्वासक्षयकृमीन् । गुल्मोदरार्शःकुष्ठं च जयेच्छोषं भगन्दरम् ॥ २०२ ॥ योगशतैरप्यजितं त्र्यहाज्जयति पीनसम् । रक्तपित्ते खण्डखाद्योऽवलेहः । शतावरीच्छिन्नरुहावृषमुण्डितिकामयाः ॥ २०३ ॥ तालमूली च गायत्री त्रिफलायास्त्वचस्तथा । भार्गी पुष्करमूलं च पृथक्पञ्च पलानि च ॥ २०४ ॥ जलद्रोणे विपक्तव्यमष्टभागावशेषितम् । दिव्यौषधिहतस्यापि माक्षिकेण हतस्य वा ॥ २०५ ॥ पलद्वादशकं देयं रुक्मलोहस्य चूर्णितम् । खण्डं घृतं समं देयं पलषोडशकं बुधैः ॥ २०६ ॥ पचेत्ताम्रमये पात्रे गुडपाको मतो यथा । प्रस्थार्धं मधुनो देयं शुभाश्मजतुक्तं त्वचम् ॥ २०७ ॥ शृङ्गी विडङ्गं कृष्णा च शुण्ठ्यजाजी पलं पलम् । त्रिफला धान्यकं पत्रं त्र्यक्षं मरिचकेसरम् ॥ २०८ ॥ चूर्णं दत्त्वा सुमथितं स्निग्धे भाण्डे निधापयेत् । यथाकालं प्रयुञ्जीत बिडालपदकं ततः ॥ २०९ ॥ गव्यक्षीरानुपानं च सेव्यं मांसरसं पयः । गुरुवृष्यान्नपानानि स्निग्धं मांसादिवृंहणम् ॥ २१० ॥ रक्तपित्तं क्षयं कासं पक्तिशूलं तथैव च । वातरक्तं प्रमेहं च शीतपित्तं वमिं क्लमम् ॥ २११ ॥ श्वयथुं पाण्डुरोगं च कुष्ठं प्लीहोदरं तथा । आनाहं मूत्रसंस्रावमम्लपित्तं निहन्ति च ॥ २१२ ॥ चक्षुष्यं बृंहणं वृष्यं मङ्गल्यं प्रीतिवर्धनम् । आरोग्यपुत्रदं श्रेष्ठं कायाग्निबलवर्धनम् ॥ २१३ ॥ श्रीकरं लाघवकरं खण्डखाद्यं प्रकीर्तितम् । छागं पारावतं मांसं तित्तिरिः क्रुकरः शशः ॥ २१४ ॥ १४
१५८ आयुर्वेदौयग्रन्थमाला । [लेहाधिकारः कुलिङ्गः कृष्णसारश्च तेषां मांसानि योजयेत् । नालिकेरपयःपानं सुनिषण्णकवास्तुकम् ॥ २१५ ॥ शुष्कमूलकजीवाख्यं पटोलं बृहतीफलम् । फलं वार्ताकपक्वामं खर्जूरं स्वादुदाडिमम् ॥ २१६ ॥ ककारपूर्वकं यच्च मांसं चानूपसंभवम् । वर्जनीयं विशेषेण खण्डखाद्यं प्रकुर्वता ॥ २१७ ॥ रक्तपित्ते द्वितीयो वासावलेहः । तुलामादाय वासायाः पचेदष्टगुणे जले । तेन पादावशेषेण पाचयेदाढकं भिषक् ॥ २१८ ॥ चूर्णानामभयानां तु खण्डाच्छुद्धाच्छतं तथा । द्वे पले पिप्पलीचूर्णात्सिद्धशीते च माक्षिकात् ॥२१९। कुडवं पलमानं तु चातुर्जातं सुचूर्णितम् । क्षित्वा विलोडितं खादेद्रक्तपित्ती यथाबलम् ॥२२०। श्वासकासक्षतच्छर्दिर् यक्ष्माणं च नियच्छति । श्वासकासयोर्भार्गीगुडावलेहः । शतं संग्राह्य भार्ग्यास्तु दशमूल्यास्तथा परम् ॥ २२१। शतं हरीतकीनां च पचेत्तोये चतुर्गुणे । पादशेषे च तस्मिंस्तु रसे वस्त्रपरिस्रुते ॥ २२२ ॥ आलोड्य च तुलां पूतां गुडस्य त्वभयां ततः । पुनः पचेत्तु मृद्वग्नौ यावल्लेहत्वमागतम् ॥ २२३ ॥ शीते तु मधुनश्चात्र षट्पलानि प्रदापयेत् । त्रिकटु त्रिसुगन्धं च पालिकं च पृथक् पृथक् ॥२२४। कर्षद्वयं यवक्षारं संचूर्ण्य प्रक्षिपेत्ततः । भक्षयेदभयामेकां लेहस्यार्धपलं लिहेत् ॥ २२५ ॥ श्वासं सुदारुणं हन्ति कासं पञ्चविधं तथा । स्वरवर्णप्रदो ह्येष जठरानलदीपनः ॥ २२६ ॥ हरीतकीशतैकस्य वारिप्रस्थमिहाधिकम् ।