हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
५ ] . वसंतवर्णनम् ४५ प्रसवचोलवतंसककंकण—स्तबकराजिविराजितविग्रहाः । शुशुभिरे सुदृशो धृतकंकटा इव भटाः कुसुमायुधभूपतेः ॥ ७५ ॥ इति रुचिरविधाभिः स्वांगसंगोपभोग- स्फुरितविततलीलाश्रेणिभिः श्रेयसीभिः । ऋतुपतिसमयोत्थां काननीं पुष्पलक्ष्मीं झगिति सफलभावं निन्यिरे पौरवीराः ॥ ७६ ॥ इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमहा- काव्ये वीरांके वसंतवर्णनोनाम पंचमः सर्गः समाप्तः ॥ अथ षष्ठः सर्गः प्रेक्ष्य काननविलासवशेन स्वेदिनोऽथ तरुणांन्नृपपुत्रः । वारिकेलिकलनाय जगन्वान् जैत्रसागरसरः सरसश्री ॥ १ ॥ उलसच्छुकगरुत्समकांति र्यस्यतीरतरुराजिरराजत् । चंद्रबिंबमभितः प्रसरंती सिंहिकांगजगजाध्वजिनीव ॥ २ ॥ अंतराप्रतिफलद्रणपूर्व—स्तंभनामपुररम्पतरात्रि । यन्नहास विपुलांकविलासि—द्वारकं किल सरिद्दूदयेशं ॥ ३ ॥ तीरूढतरुनीलपलाश—स्मेरजालकहरिन्मणिमुक्तं । वृत्तरम्यमवनीवनितायाः कर्णकुंडलतुलामवहद्यत् ॥ ४ ॥ नीलनीरजदलावलिदंभ—व्यक्तलक्ष्मविधृतामृतपूरं । यत्कृतावतरणं भुवि रेजे चंद्रबिंबमिव राहुभयेन ॥ ५ ॥ कर्णिकांकविचरन् मधुपोद्य—तारकोन्मिषितपंकजदंभात् । आलुलोकिषुनिकामिव लक्ष्मीं यद्दधार शतशो नयनानि ॥ ६ ॥ षद्भिः कुलकं आयतैश्चलदृशोथ नितंबैः सत्वरं रुरुधिरे वनवर्त्म । अग्रतोंबुललनाय यियासू न्वार्यंय इव जीवितनाथान् ॥ ७ ॥ स्वां श्रियं पयसि वीक्ष्य तरुण्यो द्राग्मनांसि चक्रुषुर्मुकुरेभ्यः । तत्किमत्र यदि वा प्रमदानां यत्र तिष्ठति मनश्चिरमेव ॥ ८ ॥
यहाँ दिए गए पृष्ठ का पंक्ति-दर-पंक्ति लिप्यंतरण प्रस्तुत है:
४६ श्रीहम्मीरमहाकाव्ये [सर्गः उत्तरंगिणि सरोभसि नार्य श्चिक्षिपुर्विकसितानि सुमानि । उज्जिजीविषयेव यजंत्यो मन्मथस्य गिरिशं जलमूर्त्तिं ॥ ९ ॥ तीरसंस्थितविलासवतीनां वारिणि प्रतिफलत्सु मुखेषु । स्मेरवारिजधिया निपंततो हासयन्मधुकरास्तरुणौघान् ॥ १० ॥ वारिगोचरजुषां युवतीना मुल्लसत्प्रतिनिधिव्यपदेशात् । आतिथेयमिव कर्तुममूषा माविरासतं सरोजलदेव्यः ॥ ११ ॥ अयगाधजलदर्शनजाता—त्तंककंपिततनूस्तनुमध्याः । पाणिनाऽथ विनिगृह्य कथंचि द्द्वेशयंति सलिलं स्म युवानः ॥ १२ ॥ किं पुरो विदधतीं जलकेलिं स्वां सखीमपि न पश्यसि मुग्धे । दर्शयन्निति च तत्प्रतिबिंबं तां व्यशिश्वसदहो चतुरोन्यः ॥ १३ ॥ अस्यगाधमिह वारि तदेवं न प्रवेष्टुमुचितं तव मुग्धे । इत्युदीर्य विविशे कितवेना—न्येन वक्षसि निधाय मृगाक्षीं ॥ १४ ॥ उत्सुकापि सुतरां जलकेला-—वंचले प्रणयिना विधृतापि । तद्विलोकरसभावशात्मा काप्यवास्थित तथैव परोपि ॥ १५ ॥ आहतः कुचतटैः प्रमदानां चेतनाविरहितोपि तडागः । क्षोभभावमगमत् सहसा य—त्तत्र कारणमसौ रसवत्ता ॥ १६ ॥ अस्पृशत्प्रथममंबु वधूना मंगसंगचपलं जघनानि । खेलतिस्म तदनूरुसिजेषु क्व क्रमः स्फुरति हंत जडानां ॥ १७ ॥ जानुदघ्नमपि तत्सरसौभः कंठदघ्नमभवद्द्रुतमेव । योषिदंगविगलल्लवणिम्ना स्फीततामुपगृहीतमिवोच्चैः ॥ १८ ॥ आजनेरपि वितीर्णमरंदा—न्यंबुजानि मधुपाः प्रविहाय । भेजिरे मृगदृशां वदनानि स्यात्कुतोहि मलिनेषु विवेकः ॥ १९ ॥ संचरच्चटुलदृग्वदनाब्जा—लोकतर्कितनिशाकरबिंबैः । खादितुं बिसलतोपगृहीता त्यजे न बुभुजे न च चक्रैः ॥ २० ॥ योषितां स्तनतटे स्खलतोच्चै रस्म्रियंत पयसा पुनरेव । शैशवे प्रवहता गिरिमार्गे कूलशैलसबलास्फालनानि ॥ २१ ॥
६ ] जलक्रीडावर्णनम् ४७ प्रेयसीवदनमुक्षितुमात्तं नीरमंजलिपुटे दयितेन । तत्र बिंबितमवेक्ष्य तदेवा--मोचिनोपचितभंगभयेन ॥ २२ ॥ सेसिचत् प्रियतमो मदिराक्ष्या शक्तया कुलतया प्रतिसेके । गृह्यतेस्म भुजया लघु कंठे बाणयुद्धविदिवासि करेण ॥ २३ ॥ वल्लभे विकसितंबुजमुख्या उन्मदे पिबति वक्त्रसरोजं । भ्रश्यदंबुकणकेशकलाप--च्छद्मनालिभिररोदि शुचेव ॥ २४ ॥ गाढपीडितरदावलिरंध्रै र्याः स्त्रियो मुमुचिरे जलधाराः । ताभिरास्त मदनः सलिलाश्रो भर्तृमानदहनास्त्रशमाय ॥ २५ ॥ कंठदघ्नपयसि स्थितवत्या जीविताधिपतिना गजगत्याः । यद्यबुध्यत तयोर्द्युतिहान्या--ब्जद्वयांतरगतं वदनाब्जं ॥ २६ ॥ श्रीरपाहियत नो नयनाना मेभिरेभिरिति संभृतकोपाः । मज्जयंति कमलानि सरस्तू--न्मज्जयंति च मुहुः सुदृशः स्म ॥ २७ ॥ वारिणि प्रतिनिधिव्यपदेशात् व्यत्ययेन मदनश्च रतिश्च । तत्तदाप्तरुचिरत्वविशेषौ संश्रिताविव वधूं च वरं च ॥ २८ ॥ कैतवेन करवारिभिरेकां प्राप्य कश्चन पराङ्मुखभावं । चुंबतिस्म विदितोदितरागो ऽन्यां मुहुः कमलिनीमिव भृंगः ॥ २९ ॥ शैलसारकठिने प्रमदाना मंभसां स्तनतटे स्खलितानां । फेनपंक्तिरिव हारलताया द्विगुते सरसि मौक्तिकपंक्तिः ॥ ३० ॥ अंभसाहृतविलेपनभंगौ योषितां वपुषि कांतकृतानि । रेजिरे नखपदानि सपत्न्यु--च्चाटनार्थमिव मंत्रपदानि ॥ ३१ ॥ त्रुट्यतोपि जलपूरितरंध्रैः शुक्तिजन्मभिरपाति न हारात् । के त्यजंति सुदृशां कुचयुग्म--स्पर्शसौख्यमभिलब्धरसा वा ॥ ३२ ॥ नीरपूरणवशाद्रितमौनं नूपुरं चटुलपादसरोजे । संननाय्यसदवेदि मृगाक्ष्या गुह्यको वट इवानुपलब्धेः ॥ ३३ ॥ कंठदघ्न उदके विहरंती वाणिनीविशदपक्ष्मधत्त । स्मेरमब्जमिति तन्मुखवीक्षा--सख्यविश्वसितमानसमाशु ॥ ३४ ॥
. ४८ श्रीहम्मीरमहाकाव्ये [सर्गः भापनाभ्यसमुपेत्य जलांत भर्तरि स्पृशति सक्थिकरेण । त्रासकंपिततनूस्तनुमध्या—श्चर्यचुंबितमवेक्षि सखीभिः ॥ ३५ ॥ प्रेयसा दशनरंध्रविमुक्तै रुक्षितोदककणैर्मदिराक्षी । प्रीतिजातपुलकोद्धुषितांगा कामकांडनिचितेव चकासे ॥ ३६ ॥ मुक्तगंधमपि वारिविहारैः पुष्पदाम न जहे शशिमुख्या । न स्वतोपि गुणवान् सुखहेयः किं पुनर्यदि स जीवनलीनः ॥ ३७ ॥ पंकजच्छददृशः कटिवस्त्रे नर्मणा व्यपहृते दयितेन । वस्त्रवन्निजदलानि ददानां—भोजिनी ध्रुवमधत्त सखीत्वं ॥ ३८ ॥ औक्षमौक्षमबलां ऽजितदृग्भ्यां कालिमा य उदवास्यत भर्त्रा । सोऽसहिष्णुवनितावदनाब्जे व्यक्ततामभजदाशु निविश्य ॥ ३९ ॥ ताडनाय समुदंचितमब्जं मत्प्रियामुखमिति प्रतिचुंबन् । तां स्मयेन परिवर्त्तितवक्त्रा मप्यहासयदहो कितवोन्यः ॥ ४० ॥ योषिता जलविहारवतीनां नूपुराणि रणितानि न चक्रुः । कः सदाचरणभाक् जलमध्ये स्वं तनोति यदि वा महिमानं ॥ ४१ ॥ सारसैरंभसि परस्परहर्षा दुज्झितैरपि सरोजमुखीभिः । श्रीरवाप्यत परा सुमगुच्छैः का श्रियां सुमनसो न पदं स्युः ॥ ४२ ॥ दंपती विधृतवार्यभिपूर्णा—यामशालिबिसशस्य तमास्यौ । प्रेमपानमिव चक्रतुरन्यो—न्यावलोकवशकूणितनेत्रौ ॥ ४३ ॥ स्मेरपंकजवने कथमन्यो ज्ञास्यदास्यकमलं कमलाक्ष्याः । कैतवेन कमले यदि सिक्ते नाहासिष्यदियमेव विमुग्धा ॥ ४४ ॥ चुंबितं स्मितसरोरुहबुद्ध्या तेन चाधरदले प्रहृतापि । कांतवक्त्रमलिना किल दष्टा—स्मीति तथ्यमपि नो बुबुधेन्या । वारिभिश्चलदृशामधरेभ्यो दूर्यतेस्म नवयावकरागः । मंडनं तदधिकं तु वितेने तत्र कांतनिहितैरदनांकैः ॥ ४६ ॥ मंडनं चपलदृग्नयनानां वारिणांजनमलोपि लवेन । भंजनेपि हि जडस्य मतिः किं कृत्यवस्तु वद पाटवमेति ॥ ४७ ॥
८ ] जलक्रीडावर्णनम् ४९ बिंबिते॑बुनि निजाननपद्मे कापि दृग्द्वयमवेक्ष्य झषाक्षी । पद्मकोशगतमीनधिया तत् गृह्णती दयितचित्तमगृहीत् ॥ ४८ ॥ सांद्रितेंबुनि किलललनानां नेत्रकज्जलभरैर्हसितैश्च । गांगवारिकलितं रविकन्यां मेनिरे युवजनाः किमु धन्यां ॥ ४९ ॥ एहि मंक्षु नलिनीषु निलीनां दर्शयामि सुतनो भवदाली । विप्रतार्य दयितामिति कश्चित्तां जिगाय निभृते पणबंधे ॥ ५० ॥ प्रौढदेवनवशाद्रितवृद्धौ सारसैर्भसि निमग्नसरोजे । कुंतलच्छलमिलद्भ्रमरौघे योषितां सरसिजायितमास्यैः ॥ ५१ ॥ उत्तानमंभसि सुखं प्लुतिलाघवेन निष्पंदमंबुजदृशामभितस्थुषीनां । रेजुः स्तनाः सुविवृता भृशमुच्छ्वसंत- श्चक्रा इवापविवरं मिलितस्स्वकांताः ॥ ५२ ॥ व्यात्युक्षीषु भृशोक्षणाकुलितया वक्रीकृतग्रीवया व्यालोक्य प्रतिबिंषितां स्वकबवीं पृष्ठप्रतिष्ठेंबुनि । प्रेयान्वाराहिशंकया स्म परया संश्लिष्यते भीतया प्लातुं स्वासिलताशया पुनरिमां चिक्षेप हस्तं स च ॥ ५३ ॥ चिकुरनिचयमाशु खंसयामास नेत्रां—बुरुहमपि चुचुंबोरोजपीठे लुलोठ । जघनतटमुपासामास पस्पर्श पादौ प्रिय इव वनितानां सारसो वारिपूरः॥५४॥ स्रस्तो धम्मिल्लबंधो गलितमखिलमप्यंजनं लोचनानां भ्रष्टो रागोघराणामविरलपुलकैर्व्याप्तमंगं समग्रं । नष्टा शक्तिः कपोलस्तनतटलिखितापत्रलेखाप्यपास्ता वारिक्रीडा वधूनामजनि रतिरसस्य प्रवेशध्रुवेव ॥ ५५ ॥ परिनिस्सरच्चटुलदृग्जघनो—रसिजावलीरितरंगतति । अभिन्नज्जलं झगिति कूलभुवः सहयानमाभिरभितन्वदिव ॥ ५६ ॥ अत्युत्सुकत्वनिपतत्पदपातजात—स्फीतध्वनिश्रुतिवियोजितपक्षि पक्षाः । अन्योन्यपाणितलताडनलब्धलक्ष्या नीरान्निरीयुरथ दंपतयः सहेलं ॥ ५७ ॥ 7 k
५० श्रीहम्मीरमहाकाव्ये [सर्गः विलोक्यतां स्वच्छतयाऽबलानां जग्मुर्न वासांसि जलाद्रितानि । ध्रुवं परित्यागभयेन तासां निलीय देहद्युतिषु स्थितानि ॥ ५८ ॥ गतेऽगरागेपि तनूदरीणां न कायलक्ष्मीराधरीबभूव । स्वभावंरम्यस्य जनस्य यद्वा विभूषणं मंगलमात्रदायि ॥ ५९ ॥ विनिर्गतानां सरसो वधूनां पृष्ठे प्रलंबी शुचिकेशपाशः । परीक्षितुं प्रत्युत हेमपट्टे निवेशिताभात् कषपट्टिकेव ॥ ६० ॥ विनिर्गतानां सरसो वधूनां पृष्ठे प्रलंबी शुचिकेशपाशः । मेरोः शिलायां सुखमासितस्य शिखंडिनो बर्हमिव व्यराजत् ॥ ६१ ॥ निर्णीरितानि बिबभुर्वनिताजनानां चेलांचलैर्मृदुतरैर्नितरां वपूंषि । उत्तेजितानि सुमनोविशिखस्य शस्त्राणीवाखिलत्रिजगतीजयबद्धबुद्धेः ॥ ६२ ॥ उन्मिषन्नयननीलसरोजा भ्रूलतालसितकांततरंगाः । मुक्तबंधकचशैवलरम्याः सारसीं श्रियमलानिष नार्यः ॥ ६३ ॥ भूषापहृत्या रिपुरमस्मदीय मसौ यमात्तः सलिलं बिभर्ति । इति प्रकोपादिरिवांगनाभि रबध्यतावर्त्यशिरोजपाशः ॥ ६४ ॥ इत्थं विधाय जलकेलिमनन्यजन्यां श्रीजैत्रसिंहतनयः स हमीरवीरः । स्वान् स्वान् गृहान् प्रतिविसृज्य जनान्सहैतान् वेश्माससाद निजमर्थिकृतप्रसादः ॥ ६५ ॥ इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीर- महाकाव्ये वीरांक जलक्रीडावर्णनोनाम षष्ठः सर्गः समाप्तः ॥ अथ सप्तमः सर्गः अथ निशासमयागमलालसं चलदृशां प्रविदन्निव मानसं । चरमभूमिधराग्रिमचूलिका महिमरश्मिरभूषयदंशुभिः ॥ १ ॥ विधिवशाद्विपदं समुपेष्युषीं न खलु कोप्यवधीरयितुं क्षमः । गददिवेद्यहिमद्युतिमंडलः समभवद्विगलद्द्युतिमंडलः ॥ २ ॥
७ ] जलक्रीडावर्णनम् ५१ जगति-नाम पतंग इति स्फुटं मम दधुस्तदमी शलभेषु किं । इति वहन्निव सूरिपु कोपितां यहपुपौ जनि लोहितविग्रहः ॥ ३ ॥ अविरतांवरसंचरणोल्लसत् गुरुपरिश्रमसंगतविग्रहः । सलिलकेलिचिकीरिव वाहिनी दयितमध्यमगाहत भास्करः ॥ ४ ॥ जलशयेशशयांबुजनिन्हुते ककुचसिंधुसुतोरासिजभ्रमं । प्रवितरञ्जगतां जलधेर्जले-शकमप्रमभाद्रविमंडलं ॥ ५ ॥ भुवनचक्षुपि भास्वति वारुणी मभिनिषेव्य जडेऽपधिमज्जति । उचितमेव तदा त्वमपि व्यधात् यदखिलं भुवनं स्ववशं तमः ॥ ६ ॥ अहिंमभासि हृदेकतमप्रिये नयनमार्ग मतीत्य गते क्वचित् । अपरादिग्भवरागहुताशने प्रविविशे प्रणयेन दिनश्रिया ॥ ७ ॥ गलितभासि हृदेकतमप्रिये व्रजति भास्वति शोच्यदशांतरं । विशदतिव्रजैकतवतो विशात् हृदिव शोकतसः सरसीरुहां ॥ ८ ॥ विधिनियोगतयापतदापदं समभिवीक्ष्य पतिं महसामिह । सपदि संचुकुचे सरसीरुहे रपश्श्रिभिः सुहृदा मुचितं ह्यदः ॥ ९ ॥ सितगुरेव कुरंगकलंकभाग् मलिनहृत्क्षणदास्प वधूरपि । तदिहही किमवेक्ष्यत इत्यभूत् कमलिनी विनिमीलिसरोजदृक् ॥ १० ॥ उडुपतिश्रुतिपानपरिस्फुर त्वगजिगीषुतयेव दिनात्यये । निशि वियोगवतां पततां गणा निखिलमेव रवेः पपुरातपं ॥ ११ ॥ पुनरनाप्तिभिया पपुरातपं दिनकृतः किममून्यधिकं रुचेः । रथपदाह्व पतन् मिथुनानि नो यदधुना व्यपहंतं सहासितुं ॥ १२ ॥ निशि वियोगवतः पततः स्थिता बिसलतायलचंचुपुटे बभौ । असुगणं वनिताविरहाद्दिनि-र्जिगमिषुं विनिरोद्धुमिवार्गला ॥ १३ ॥ विसगुणोपि ययोर्युगचारिणोः कथमपि स्म नमाति पुरांतरा । अपि सरिद्दयितः सममात्तयो र्विलसितं न विधेः स्मृतिगोचरः ॥ १४ ॥ रुहद्दशां स्ववशे सकलं जगत् रचयितुं रतिजीवितवल्लभः । दिनविरामरणन्मुरजावलि-स्वनमिषेण निदेशमिवादित ॥ १५ ॥
५२ श्रीहम्मीरमहाकाव्ये [सर्गः तिमिरराशिरुदित्वरशक्तिरप्यधित नीचपदानि पुरा वशे । निजसमानवशीकरणोद्यमः प्रविजिगीषुगुणो ह्ययमादिमः ॥ १६ ॥ स्मरशरव्यितदुर्दयितांगना ज्वलितदुःखहुताशकणा इव । प्रतिपदं कृतलोचनकौतुका रुरुचिरेतितरां शिखिकीटकाः ॥ १७ ॥ अतिविदग्धतयाभ्रमिमाचरन्न कुलटा जन आट दृशोः पथं । विविधयुक्तिनिषेवणहृष्टहन् मनसिजेन वितीर्णवरादिव ॥ १८ ॥ भृशमपि क्षिपति प्रतिवासरं मयि मुहुर्मुहुरेति तमः कुतः । इति रुषेव वहन्नतिलोहितं वपुरगादुदयं रजनीकरः ॥ १९ ॥ शमयितुं तिमिराणि यदुत्सुको—प्यमृतसूरुदियाय शनैः शनैः । तदिदमंकमृगो मघवाप्रिया—र्पिततृणग्रसने खलु लुब्धवान् ॥ २० ॥ भुवनभेदनसंभवशोणितो—पचितमन्मथमार्गणघर्षणैः । अरुणतामिव यच्छशिमंडलं श्रियमदाद्गगनस्य निजस्य च ॥ २१ ॥ क्रकचचक्रजकेसरपांडुर—प्रसृमरोरुकरोत्करकैतवात् । अनुनिशादयितां हिमवालुका—प्रकरमास्यदिवाखरदीधितिः ॥ २२ ॥ हृदयमध्यगतं दधदुच्चकैः स्फुटतरांकमिषेण तमस्विनीं । अजयदर्धवपुर्धृतवल्लभं पशुपतिं प्रणयातिशयाच्छशी ॥ २३ ॥ सरसिजानि विहाय हरिप्रि —————————— ————————— कटाक्षनिरीक्षणलक्षिता ॥ २४ ॥ हिमकरं दयितं मिलितुं निशा विवसिताद्भुतभूषणया दधे । अविरलोदिततारकपेटक—च्छलमयी नवमौक्तिकजालिका ॥ २५ ॥ चिरभवन्मिलनादुपगूहनं द्विजपतावदयं ददति श्रियः । त्रुटति हारलतास्मसमुत्पत—द्विविधमौक्तिकतारकितांबरा ॥ २६ ॥ सुमशरान्प्रविहाय सुमायुधः शशिकरान् यदमन्यत तत्पदे । उचितमेव नवंनवमिच्छतां परिचिते रिपुता हि महीयसी ॥ २७ ॥ किममृतैः सिसिचे किमु चंदनैः किमु हमीरकुमारयशोभरैः । चितमिदं जगदिंदुकरोत्करै व्यतनुतेति वितर्कपरंपरां ॥ २८ ॥
७ ] . जलक्रीडावर्णनम् ५३ प्रियसरोजदृशां रतविज्ञता—स्थितिविवेकरुविभाविव दीक्षिताः । विविधभोगवतां रतमंदिरे रुरुचिरे परितोपि दशौधनाः ॥ २९ ॥ प्रणयिभिः सह सांप्रतमाहवः स्मरभवो भविता गुमहादिति । विविधभूषणकंकटसंग्रहा ड्यहवशां सुदृशो हृदयं व्यधुः ॥ ३० ॥ श्रवणकुंडलवेणिविलोचनां—युजमृजोषपिना मृगलोचनाः । सपदि चक्रहपाणशरावली—प्रभृति शस्त्रचयं किमराञ्जयन् ॥ ३१ ॥ उपगते दयिते भविता मया किमिह संपतयापि मुटर्मुहुः । इति रणत्कलकिंकिणिकामिषा—च्छ्रवणपूरित मेखलया जगौ ॥ ३२ ॥ तरुणिमोष्मविशुष्यदुपाहिता—च्छतरचंदनलेपनकौतवात् । मदनयुद्धकृते परिधापिता—विव कुचौ परया नववाससा ॥ ३३ ॥ रणितकिंकिणिसन्मनिमेखला—वलिमिषेण नगोढवपूरते । पतिभयादभितः स्मरमंदिरं स्फुरितजागरिदुर्गमिव व्यधात् ॥ ३४ ॥ रुरुचिरतितरां रुचिरद्युति—प्रसवसंभवशेष्परराजपः । स्मितसरोजदृशां मुखचंद्रमः—प्रसरदुन्नतिकांतिचया ’इव ॥ ३५ ॥ सरलकुज्जलकांतिलिपिच्छलात् वशकृतौ जगतः कमिता रतेः । ससुभटेषु पुरोगमतां दृशोः कथयतिस्म न किं हरिणीदृशां ॥ ३६ ॥ प्रतिफलन्निह मा रजनीकरो विदितलक्ष्ममुग्वं वितनिष्ट नः । इति धियेव जितेन्दुकपोलयो विदधिरे नवपत्रलताः स्त्रियः ॥ ३७ ॥ सहजपाटलतातिमनोहरे दधुरमूरधरे यदलक्तकं । तुहिनभासिरितीकरणश्रम—भ्रमकरं तदजायत नो किमु ॥ ३८ ॥ उरसिजेषु सखीजननिर्मिता मकरिका विवभुर्मृगचक्षुषाम् । मकरकेतुविभोस्तनवासिता—नुमिति साधनवंधुरविभ्रमाः ॥ ३९ ॥ परिपिबन् रमणो ध्वनिमेतयो र्भवति नैव समाभरतादरः । चरणयोर्विधृते इति नूपुरे मृदुगिरो हृदये बहु मेनिरे ॥ ४० ॥ न पटयोरपि सूचिकया विना भवति योग्यतमा किल योजना । दयितसंगमनेष्विति दूतिका जनगतागतमभ्यलपन् स्त्रियः ॥ ४१ ॥
५४ श्रीहम्मीरमहाकाव्ये [सर्गः स्वमपि कांतममूष्वभितो विला-सिनमवेक्ष्य परिच्युतमत्सरा । रतिरपि श्रयतिस्म तनूदरी र्वलवता हि बलं न सहोचितं ॥ ४२ ॥ अथ मिथोपि मुखांबुजदर्पणे नयनगोचरचुंबितनुश्रियः । उदितकामरसादियतागमो-त्सुकतरं दधिरे प्रमदा मनः ॥ ४३ ॥ चलदृशां दयितेषु समानतां-बुजरुचेव कृशत्वमाश्रयत् । शितिसरोजरुचेव सह क्षणा दतिशयत्वमगादनुनेतृता ॥ ४४ ॥ मृगदृशः स्म विभांति कटाक्षिताः प्रणयिभिः स्फुटितोष्मपयःकणाः । निशितपक्ष्मविभिन्नवपुःस्रुता-द्यरसविंदुचयोपचिता इव ॥ ४५ ॥ मृदुरवा दयितेषु यथा यथा-यतकटाक्षचयानभिचिक्षिपुः । रतिपतिः स्पृशति स्म तथा तथा धनुरधिज्यमसौ विदयाशयः ॥ ४६ ॥ चरणलंबितहारमिषाच्छिता-क्षवलयैस्तलिमर्जुपसोद्यमैः । अजनि वारवधूटिनिर्मित-प्रवलमोहनभंगभयादिव ॥ ४७ ॥ इह धृते प्रविलोकयिता स मां तमहम्प्यखिलात्मतया रते । इति विचिंत्य पराधितपार्श्वतो गृहमणिं ज्वलितोज्वलवर्त्तिकं ॥ ४८ ॥ अयि तनोषि किमु द्यणुकोदरी-ति निगदन्नपि भर्त्तरि सत्वरं । त्यजति मानमशेषमपि प्रिया-स्म कटरे रजनीसंमयोर्जितं ॥ ४९ ॥ प्रियसमागमसूचकवामदृक्-स्फुरणतो मुदिताशयय दन्यया । हृदयनाथमनुप्रहितापि किं निजसखी न पथः स्म निवर्त्यते ॥ ५० ॥ आपि लवो युगकोटिशतायते धृतिपरस्य जनस्य ऋते यतः । हृदयहारिणि तत्र किमौचितीं स्पृशति मानिनि मानपरिग्रहः ॥ ५१ ॥ अनुनयन्नपि चैवमुपेक्षितो ह्यसुभगामिव चेद्भवतों त्यजेत् । किमयशःपटहो न तदा तव व्रजति कोपिनि डिंडिमडंबरं ॥ ५२ ॥ रतिकृतां प्रथितो रिपुरेव य स्तमपि मानभरं परिपुष्णती । सुचरितेत्युदितापि तदाशये कथमिव प्रतिभासि विलासिनी ॥ ५३ ॥ प्रतिवधूरधिगत्य समं त्वया सकलहं विदधे यदि तं स्वसात् । तव तदास्तु पुनः स कुतः करे परिचिताः पुरुषा हि न कस्यचित् ॥५४॥
७ ] जलक्रीडावर्णनम् ५५ सखि हृदेकहितं भज मार्दवं परुषतां तु दुरंततरां त्यज । परुषता रचिता हि हृदीश्वरे फलति केवलमात्मनि मूढता ॥ ५५ ॥ मम वचोद्य कुरु स्वहितं नचे दनुशयं हृदयं तव यास्यति । इति परा प्रतिबोध्य सखीं निजां रमणमंदिरमध्यमपानयत् ॥ ५६ ॥ षड्भिः कुलकं स कितवोऽद्य समेष्यति चेत्तदा भुजयुगेन निबध्य रतालयं । समुपनीय निहन्मि तथा पुरा पुनरुपैति यथा न तदालयं ॥ ५७ ॥ हृदयनिकूटमध्यकृतोद्गमा कमितरीति मनोरथवल्लरी । सुभगया परया परया मुदा सफलभावमनीयत सत्वरं ॥ ५८ ॥ अनुनयान्वितमाश्रितगद्गदं सखि तथा वद जीवितवल्लभं । स समुपैति यथा न च कुप्यती—त्यभिविबोध्य सखीप्रहितान्यया ॥ ५९ ॥ यदि वियोगमवेक्ष्यमियद्व्यथं स्मयमधास्यमिमं हृदि किं तदा । इति परा परितप्य मुहुर्मुहु र्नयनमालिषु दीनमयाक्षिपत् ॥ ६० ॥ प्रिय स मेद्यसि सुभ्रु विमानह त्व किमीश यशो मदनस्य किं । सहि भवेक्षणजः किल सोपि तत्तव परेति हृदीशमजीहसत् ॥ ६१ ॥ प्रतिदिनं शतशोऽपि निवारितो मुहुरिह त्वमुपैषि कयाऽशया । कृतक कोपवतीत्यपरारया दुपरि तल्पमपातयदीश्वरं ॥ ६२ ॥ विनयतो वसनं कमितुः करौ करयुगेन परा त्रपयाऽग्रहीत । स्वयमपि स्फुरितोद्धषणैर्गल—न्निवसना सहसाथ किमातत ॥ ६३ ॥ यतिविरोधिंलसद्रसपूर्णयो रुपरि लोलदृशस्तनकुंभयोः । बभतुरीशकरांबुरुहे अधो—मुखपिधानतुलामिव बिभ्रती ॥ ६४ ॥ दृगतीतौ दयिते मृगचक्षुषां हृदि लवं यदि मानभरोऽल्लसत् । गृहपतौ समुपैयुषि कश्चिरं परगृहे लभते यदि वा स्थितिं ॥ ६५ ॥ स्पृशति भर्त्तरि हृत् हृदयेशयः सचकितं मदनोऽन्यनतध्रुवः । रासमुदतिष्ठदसंशयमत्रुटन् इतरया किमु कंचुकसंधयः ॥ ६६ ॥
५६ श्रीहम्मीरमहाकाव्ये [सर्गः सपदि गोत्रपरिस्खलनात्प्रिया मनुपरो दहनास्त्रमिवाकिरत् । समधित प्रतिशस्त्रमिवाथ सा जलमयं स्वदश्रुततिच्छलात् ॥ ६७ ॥ तव मुखं कमलं मम चंद्रमा स्तनदनयो रधुना स्मरकारितः । भवतु संधिरिति प्रवदन् परः स्वदयिताऽऽननयोजनमातनोत् ॥ ६८ ॥ तव ममाप्यधरं निपिपासतोर्विधुरतास्तु न कस्य च नेत्यथ । विलसतः स्म तथापपतुर्र्यथा—धरदलं सममेव वधूवरौ ॥ ६९ ॥ उपरि यावमृतस्य तयोरिहा—प्युपरितैव भवत्विति दंपती । विलसतः स्म तथा धरयोर्यथो—परितयैव मिथो जनि चुंबने ॥ ७० ॥ दयितयोरमृतोपरि यौ तयो रधरयोरधरेत्यभिधा कथं । अवगतं यदि वाधरता तयो रधरपानविधौ ग्रहणान्मियः ॥ ७१ ॥ अमृतमित्यनृतं दयिताधरो यदि तदेष न किं गद नामृतं । निमिमिषुर्यदमुं पिबतां दृशो विमुमुहुर्हृदयान्यपि कामिनां ॥ ७२ ॥ विशदमेव न किं दयिताविलो—कनसुधारसपानमसूचयन् । मुकुलिताक्षससीत्कृतशब्दिता—ननपुरः करणेन विलासिनः ॥ ७३ ॥ हृदि मयानुसृते तव सा स्वयं निरगमत्किल माऽत्र विषीद तत् । दयितमित्यभिधास्खलनादवा—ङ्मुखमभाषत काप्यधृताधृतिः ॥ ७४ ॥ प्रियतमाधरपल्लवचुंबनो—पनतकांतमुखेंदुमिषाच्छशी । मयि सुधा किल तादृगिहापि किं किमधिकेति विवेक्तुमिवालसत् ॥ ७५ ॥ दयितयोर्मिथ एक मुखासव—ग्रहणलंपटयोर्मुखसंगमे । द्विशशितापनिमित्तमुदलरी न किमुवाह विपर्ययवर्जनां ॥ ७६ ॥ श्रियमुखामुख एव हरन्निजां प्रियतमामुखवेषधरः शशी । अधरपानमिषाद्रुरुधे न किं वदनवारिरुहेण विलासिनः ॥ ७७ ॥ प्रणयिना विधृतापि मनस्विनी वपुरुवाह यदुत्पुलकं किल । क्रिमियतापि जगाद न सा वशं तव गतास्मि विधेहि यदीहितं ॥ ७८ ॥ भजं धृतिं त्यज भीतिमहेतुकां हियमवांचय वक्त्रमुदंचय । अभिनवामुपदेष्टुमिति प्रिया मजनि कोपि सखीव पटुः स्वयं ॥ ७९ ॥
७ ] शृंगारवर्णनम् ५७ जघनसंगमनोत्सुकमानसं हृदयनाथमवेत्य मृगीदृशः । स्वयमपासरदेव तदंशुकं किमुधिताचरणे गुणिनो ऽबुधाः ॥ ८० ॥ असह आशु विदूरायितुं परो युवतिनीविमतिश्रुटदुत्सुकः । विषहते समुदीरितमन्मथो न खलु कश्चन कालविलंबनं ॥ ८१ ॥ परिसमाप्तरतोपि परः प्रिया—धररसं सुरसायनमन्विबन् । पुनरपि स्फुरिताप्तमसायको व्यधित किं किमसो न हदीपितं ॥ ८२ ॥ शशिमुखी सुरतेषु तथा चलत्—कनककुंडलकैतवकंपितौ । मृगदृशः पुरुषायित मूर्जितं समभिवीक्ष्य शलक्ष्णशालिनाश्विर ॥ ८३ ॥ वरयिता रतकेलिषु कौशलं भृशमसौ वहतीति परा मुदा । ऋजुरणन्नूपुरसिंञ्जितै रभिजगावि तद्गुणगौरवं ॥ ८४ ॥ मम मुखस्य विधोरपि दर्शनात् तव दृशौ कुमुदे अपि मीलितः । किमिदामन्यपरा शयनोन्मुखं स्तनतटेन जघान हि सं मुहु ॥ ८५ ॥ पुनरुपैषि तदोकसि तां विलो—क्यति जल्पसि वाथ तया समं । दयितयेत्युदितो विदधे शठो नहि नहीति मृषाप्यमृगोत्तरं ॥ ८६ ॥ जहिहि लाक्षणिकीं रूपमुत्तमे नहि न वेद्मि मनस्तव यन्मयि । अहह पश्य तवाधरपल्लवः स्फुरति मामिव चुंबिनुमुत्सुकः ॥ ८७ ॥ अपिच रागममांतमिवाशये न यहतो न दृशौ बहिरुद्गतं । इति विदग्धवचाः कुपितामपि प्रियतमां न परः किमहासयत ॥ ८८ ॥ युग्मं रचयिता सखि तत्र किमेष मां नवरतं भविता च कथंकथं । इति मुहुः समवादि न का सखी रतिरसोत्सुकयापि नषोढया ॥ ८९ ॥ प्रियतमे पुरुषायितलाघवं किमपि पश्यति वक्त्रिनकंधरं । असहया रतमुज्झितुमन्यया गृहमणिः शमितः कुसुमौहया ॥ ९० ॥ सुरतकेलिषु शुभ्रु तवाहितं किमपि चेच्छपथोऽस्तु तदात्र मे । ऋतगिरं यदि मां न च मन्यसे ननु विधाय न पश्यसि किं तदा ॥ ९१ ॥ इति नवां रमणीं रतये परः स्मरकलाविदुरः समवूवुपत् । अतिविचक्षणतातिविमुग्धता—सुगविबोध्यमिदं यदि वा द्वयं ॥ ९२ ॥ 8 k
५८ श्रीहम्मीरमहाकाव्ये [सर्गः इति नवां रमणीं रमणः परः स्मरविलासकृते समबूबुधत् । सततनिर्मितकामकथोलसन् नवनवोक्त्यभिषिक्तमनोभवः ॥ ९३ ॥ प्रियतमस्य भृशं सुरतार्दने शपथपूर्वमदात् सुरतं पुरा । तदनुलब्धरसा न तदस्मर न्नववधूर्वपुरेस्मरवल्गितं ॥ ९४ ॥ अधरपानविधौ स्तनमर्दने नखरदोल्लिखने परिरंभणे । क्वचिदपि स्खलति स्म न कामिनां मतिरिहाप्यवधानभृतामिव ॥ ९५ ॥ हृदि यदेव दधे दयितैरते युवतयो ऽग्रत एव तदाचरन् । इतरथा कथमक्रमनस्रुकता रतिरहस्यमुपैति यथार्थतां ॥ ९६ ॥ इह सुखेषु सुखं सुरतोद्भवं महदिहापि मिठोप्यनुकूलता । रहसि केलिरिहापि यदृच्छया सममिहापि रतिर्यदि किं पुनः ॥ ९७ ॥ प्रियसखीभिरपि प्रतिबोधिता नवरतोत्सवतोभयशांकिनी । अतितरां परिरभ्य हृदीश्वरं कपटमुद्रितदृक् शयितेतरा ॥ ९८ ॥ दयितदष्टरदच्छदपल्लवा नववधूः करकंपनकैकवात् । विगतवंति दिनानि रतोत्सवै र्विरहितानि शुशोच मुहुर्न किं ॥ ९९ ॥ रतिरसं कलयन्नितमां पर स्तदुरुतागुणविघ्नितचुंबनः । परिनिनिंद कुचौ मुहुरीक्षयन् नच वधूं समयः स हि तादृशः॥ १०० ॥ रतिरसोपरमे स्खलनात्परः प्रणयिनीकुचपर्वतमस्तके । निपतितोपि मुमूर्च्छ न सन्मुखं दृढतरोजनि रंतुमहो पुनः ॥ १०१ ॥ प्रणयिनां यदभिद्यत कौसुमै रपि शरैर्हृदयं सुमधन्वनः । प्रणयिनीकुचशैलमहाहती—स्तदसहिष्ट यदद्भुतमेव तत् ॥ १०२ ॥ सपरिवेशशशिश्रियमूद्वहत् भुजयुगांतरवर्ति मुखं स्त्रियः। चिचलिषो ऽहृदयाधिपरेतसो ऽपशकुनाय न किं समजायत ॥ १०३ ॥ रतिरसं परमात्मरसाधिकं कथममी कथयंतु न कामिनः । यदि सुखी परमात्मविदेकको रतिविदो सुखिनौ पुनरप्युभौ ॥ १०४ ॥ अधिकृतां करकंकतयोजनां विदधतौ रहसींदुमुखीवरौ । विबभतुः सुगृहीतपरस्परा—विव मिथोऽप्युपपादयितुं रतिं ॥ १०५ ॥
७ ] शृंगारवर्णनम् ५९ अधिशिरोधि मिथः करकंकत—प्रगुणिताननयुग्ममिपादभात् । प्रणवसंपुटयंत्रमिव स्फुर—द्विवलयं रतिकृष्टिकृतेन्ययोः ॥ १०६ ॥ प्रणयिनो मुखचंद्रमसि स्फुर—त्यभिमुखं तरले परिचुंबितुं । अनुचितं किमिदं नवनायिका—मुखसरोजमजायत यत्पराक् ॥ १०७ ॥ रतिविरामभवादुपगूहनात् विघटनेच्छुमवेक्ष परा प्रियं । सुदृढमूरुयुगेन निपीडयं—स्तत हुंहुमिति स्मितजल्पितं ॥ १०८ ॥ परिपिबन् दयितो दयिताधरं मुकुलिते नयने यदसौ व्यधात् । किममुनैव जगाद न यत्पुरो ऽमृतमवेक्षितुमप्यरमंजसं ॥ १०९ ॥ सुरतकौशलशालिनि वलभे मुकुलिताक्षिमियात्समीविक्षत् । अविषयो वचसां किमिहांतरा स्फुरति द्रष्टुमिवेति परा दृशौ ॥ ११० ॥ रतकलां कलयत्यसुवलभे किमपि कुंचिमुखी सुमुखी नवा । हह ननेति ममेति वचोमिषात् मदनदीपनमंत्रमिवास्मरत् ॥ १११ ॥ अपदयं दयितस्य रतोत्सवं रचयतो नतनाभिपथादधः । करतलं ददती मुदमातनो न्नववधूरधिकां सुरतादपि ॥ ११२ ॥ अदहदीश्वरनेत्रहुताशनो रतिपतिं विदुषामिति यद्वचः । ऋतममंस्त तदत्र स एव यो वशयितुं प्रबभूव न मानिनीं ॥ ११३ ॥ मदनोरिरस्य मदनारिरित्यसौ मदनेन देह इति साधुरन्वयः । भुवि कामतलमधुनेति केवलं कथमप्यथालसदहो समंततः ॥ ११४ ॥ उत्थुष्य तल्पादितरा रतांति कांतं भुजाभ्यां दृढमालिलिंग । आदातुकामेव तदंगयष्टे रंगसर्वस्तमपि प्रपीड्य ॥ ११५ ॥ दद्यैांगानि यथा यथातिकठिनान्त्येपा नवोढा रते शंके धत्त तथा तथातिकठिनं चेतोपि चित्तप्रियः । मा मा मा न न मुंच मुंच हहहेत्युल्लापवत्यां मुहु- स्तस्यां नो कथमप्यथास्य करुणातारुण्यमासादयत् ॥ ११६ ॥ दंपत्योर्वदनैर्दुसंगममिपात्तथ्यं मिथश्चुंबने किं नैवाभ्युदगच्छदच्छरुचिभृत्सद्यः शशांकद्वयं ।
६० श्रीहम्मीरमहाकाव्ये [सर्गः आसीत्तेन महाहवः स्मरभवो यद्युक्तमेवेति तत् प्रीतिर्यच्च परैव युक्तमपि तत् यत्क्षेत्रयोरन्यता ॥ ११७ ॥ दृष्ट्वा स्वं प्रतिबिम्बमेव वहति प्रेयानयं स्वप्रिया- मक्ष्णीति स्ववदश्रुवारिभिरकरोन्मुग्धानिपानं पुरः । तत्रैव प्रतिबिम्बनान्निपतितां भर्त्रा समंयत्पद- द्वंद्वे स्वे मुमुदे च वीक्ष्य किमितोपि स्यात्परं योषितां ॥ ११८ ॥ कोपि स्मरोन्मुक्तविषाक्तबाण-मूर्च्छामतुच्छामिव हंतुकामः । शैलाविवालंब्य कुचौ कराभ्यां पपौ सुधामिंदुमुखीमुखेंदोः ॥ ११९ ॥ सुरत्राणः कस्य त्वमिति मुहुरेवाभिहितया- पणेणाक्ष्या प्रोक्तं स्मरशरशरव्यत्वमितया । परेषां सर्वेषामवनि हिमरुचे तव पुनः करक्रीतादासीगिरमिति पपौ कोपि सुकृती ॥ १२० ॥ स्वाभाविकात्सुरततो विपरीतमेत-द्रागं विशिष्य सुरतं वितनोति यूनां । निश्चेतनाप्यजनि रागवती यदत्र शय्यासयावकवधूपदबिंबदंभात् ॥ १२१ ॥ स्मरस्मेरलीलासुतल्पोदधस्तात् प्रसूनानि बभ्राजिरे निष्पतंति । मृगाक्षीवपुर्वल्लिविश्लेषभावा-न्निरासानदुःखाद्ददंतीव झंपां ॥ १२२ ॥ यस्यांगं तावदेवं बहिरपि विहितस्पर्शनं कामिनीना- मीदृक्सौख्यं विधत्ते स खलु रचयिता किं न मध्ये प्रविष्टः । इत्थं ध्यात्वा रता॑ते सुदृढतमपरीरंभदंभेन मध्ये कायं प्रक्षेप्तुमैच्छन्सकलमिव हितं कातराः कातराक्ष्यः ॥ १२३ ॥ भानोः संक्र्मणे श्रयेत मृदुतां विश्वं समस्तं यथा मन्ये शिश्रियतुस्तनावपि तथा स्त्रीणां रतेः संक्रमे । नैवं चेदुरुशैलवत्कठिनयोः श्रांता रता॑ते भृशं प्रेयांसः कणशोभवन्न पतिता मध्ये तयोस्तत्कथं ॥ १२४ ॥ क्षणं माने॑माने क्षणमथ मिथः काक्षकषणे क्षणं हासोल्लासे क्षणमथ दृढालिंगनविधौ ।
७ ] शृंगारवर्णनम् ६१ इति व्यधा निन्युः प्रतिगृहमशेषामपि निशां रतोत्साहैस्तैस्तैः समुदितमुदस्तै युवजनाः ॥ १२५ ॥ अन्योन्यार्पितरदच्छदखंडनानां नि शंकनिर्मितनखक्षतमंडनानां । संभोगसंभवपरिश्रमखिदितानां निद्रासुखं क्षणमभूद्रतयेथ यूनां ॥ १२६ ॥ अन्योन्यप्रवितीर्णदंतनखरमोद्यत्पदव्यंजनै- र्यूनोर्वीक्ष्य परां स्थितिं गतवतो निर्व्याजवीरव्रते । कंदर्पोपि गिरीशदर्पदलने निश्चिततामुद्वहन् आशिश्राय चिराय संगसुभगां निद्रां विशंके तदा ॥ १२७ ॥ तूलं स्पर्शानुकूलं मुखशशिरुचिरश्रीसमाकृष्टिमूलं तांबूलं नासिकायाव्रतसुकृतफलं स्फारपुष्पोपहारः । कांताश्रांतास्तनाभ्यामुरसि खिलमिदं न श्रुतः सप्तमश्चेत् सर्गः शृंगारसंजीवन इति विदितो वीरहम्मीरकाव्ये ॥ १२८ ॥ इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते महाकाव्ये हम्मीरचरिते वीरांके सुरतवर्णने शृंगारसंजीवनो नाम सप्तमः सर्गः समाप्तः ॥ अथाष्टमः सर्गः प्रपंचयंतः स्फुटतारमंद्र — मध्यस्वरान् पंचमरागगर्भान् । हम्मीरदेवाय निशाऽवसानं वैतालिका विज्ञपयां बभूवुः ॥ १ ॥ विच्छायमिंदुं मुखमावहंती विनिम्नताराकलुषांबैरैषा । विभावरी याति रजस्वलेव स्नातुं पयोधौ दिशि पश्चिमायां ॥ २ ॥ वियुक्तनारीजननेत्रपातो — ल्काभिः समंतादिव दीप्यमानं । विहाय शीतांशुरसौ विहाय आसीदपूर्वाचलचूलचुंबी ॥ ३ ॥ स्वातंत्र्यहंता न उदेति भास्वानस्पामिति क्रोधभरारुणाभिः । दृष्टेव दृग्भिः कुलटाजनेन पुरंदराशारुणतां जगाम ॥ ४ ॥
६२ श्रीहम्मीरमहाकाव्ये [सर्गः अबोधि किं न क्षणिका क्षपेयं मानो दधे यद्भवतीभिरेवं । इत्यभ्यसूयन्निव मानिनीभ्य स्वनोति शब्दान् कृकवाकुरेषः ॥ ५ ॥ जायापतीनां रंतकौतुकेन रात्रिं समग्रामपि जागरित्वा । घूर्णंस्यमी विस्फुरितप्रमीला इव प्रदीपा रतमंदिरेषु ॥ ६ ॥ निवर्त्य चेतः सुरतात्कथंचित् यावत्सुषुप्तंति युवान एते । मार्दंगिकैस्तावदवादि सद्यः प्रत्यूषसूचा सुभगो मृदंगः ॥ ७ ॥ विलेपनामोदितांततांत—स्वेदोदकास्वादनमंदचारः । संभोगशालासु निविश्य यूनः सुखाकरोत्येष उषासमीरः ॥ ८ ॥ प्राप्तप्रबोधा गुरुणोपदिष्टान्महाप्रयोगान् प्रणिधाय चित्ते । क्लिष्टै कवींद्रा इव निर्मलाथो—त्पत्तिं नरेंद्राः परिभावयंति ॥ ९ ॥ विप्राननोद्गीर्णविविक्तवर्ण—प्रचारचारुध्वनिवेदमंत्राः । सतां हृदंतस्तरसा प्रविश्य तमः कर्षंतीव समूलकाषं ॥ १० ॥ तमोमये प्रेक्ष्य विधिः प्रलीनं मेरुं युगांतेथ नवं सिसृक्षन् । प्रत्यूषसंध्याभवरागदंभात् चिनोति शृंगानि हिरण्मयानि ॥ ११ ॥ विभा विभातैव विभावरीय मद्यापि मानं किमिवादधासि । इति प्रियाया अपि बद्धमूलं मानं सुखेनैव नुनोद कश्चित् ॥ १२ ॥ संभोगकेलीं प्रविधाय पश्चात्सुप्तापि नारी प्रथमप्रबुद्धा । आलिंग्य सुप्तं प्रियसृप्तिभंगं विशंकमाना न जहाति तल्पं ॥ १३ ॥ कचिद्विभातीकृतयामिनीका अभ्येत्य कांता निभृतप्रचारं । स्वप्नेपि तत्तर्जनशांतचित्ता माश्लिष्य सुप्तां दयितां स्वपंति ॥ १४ ॥ अपि द्विजेशः श्रितवारुणीको ध्रुवं भवेन्नीचजडोपयोग्यः । इति प्रबोधं जगतां प्रयच्छन्नध्यास्त मध्यं जलधेः शशांकः ॥ १५ ॥ असौ सिषेवे चतुरोऽपि यामान् श्यामां क्षये सत्यपि यत्सकामः । तेनैव शंकेस्तमुपैति पकपलांडुपांडुः पतिरोषधीनां ॥ १६ ॥ समस्वरूपे शशिनो रवेश्व बिंबेस्तभावादुदयत्वतश्च । उपैति पूर्वापरयोर्विभेदे मतिर्जनानां क्षणमीश जाड्यं ॥ १७ ॥
८ ] प्रभातवर्णनम् ६३
- अवाप यस्यामुदयं विहाय तां मामथासावपरां सिषेवे । इत्यादधानेव रुषं हिमांशौ पुरंदराशाऽरुणतां जगाम ॥ १८ ॥ स्फुटं स्फुटत्कुङ्गलकोशनिर्य—द्विलोलरोलंबमिषेण हर्षात् । समागमे पत्युरिनस्य पश्याऽङ्गानीव मुंचंति सरोरुहिण्यः ॥ १९ ॥ कापि ह्रदे व्योमसुरिद्वरायाः पतिर्नदीनामनुबिंबितः किं । यद्वारि भातीह तमस्तरंगाः प्रत्यूषरागोपि तदंतराग्निः ॥ २० ॥ एषाहमेतच्च गृहं तवैवा—ऽगंतव्यमेवाशु पुनः प्रियेण । इत्युक्तिपूर्व्वं परिरभ्य गाढं भिंगान् प्रहिण्वंति पणैणनेत्राः ॥ २१ ॥ प्रकाशकल्पेपि सहस्ररश्मौ वारांनिधिश्चापलमुत्ससर्ज । हंसे प्रकाशं यति यत्सतीव जडेपि शांतत्वमुपैति मूत्तं ॥ २२ ॥ विच्छायतां भूरितरामुपेता दूरीभवत्पुष्करकोशवासाः । काले कलौ संत इवोडवौऽमी क्वचित् क्वचिन्नेत्रपथं प्रयांति ॥ २३ ॥ लोलत्तणूनां मयनेन दध्रस्तनूदरीणां कबरीमिषेण । ध्वांतावलीकुट्टनजातकाष्ण्र्यः स्फुरंति दंडा इव चंडरश्मेः ॥ २४ ॥ भिंगैर्निषिद्धैरपि दत्तदंत—पदालिवित्रेषु रदच्छदेषु । संभ्रांतचित्ताः पतिदृष्टिपातात् ददत्यलक्तं कुलटा नतास्याः ॥ २५ ॥ स्मराहवे स्मेरतरे प्रवृत्ते पलाय्य पृष्ठे मलिनो यमस्थात् । इत्यात्तकोपा इव केशपाशं गाढं निबध्नंति सरोरुहाक्ष्यः ॥ २६ ॥ कांचीगुणस्य ग्रथनप्रयासि प्रकोष्ठभूषागणसिंजितेन । मुक्तिं भजेथाः पुनरेव शीघ्र मित्यादिशंतीव तमंबुजाक्ष्यः ॥ २७ ॥ शिलालिहंतोप्यगसैंधवानां वक्त्रोष्महिष्मा मलयंति वाहाः । निश्वासवातैरिव पाणिगानाऽदर्शांन्निशाभोगवियोगिनार्यः ॥ २८ ॥ समूलमुन्मूल्य तमःसमूहं लोके प्रवेशं सृजतो दिनस्य । मांगल्यहेतोरविविंबदंभात् नीराजनामाचरतीव पूर्वा ॥ २९ ॥ भिंगैर्वितीर्णानणुवित्तवैर्रा दिवाप्रभातं भृशमर्दितांग्यः । सर्वांगसंस्पर्श्यापिभानवीय—करोत्करे जाग्रति नो भुजिष्याः ॥ ३० ॥
[सर्गः
घूकादिवैदोरिव नीलनीर----रुहादिवाकृष्य विभातकालः । रथांगनामार्कसरोरुहेषु मुदं प्रकाशं श्रियमार्दधाति ॥ ३१ ॥ पत्यूरुरुचीनामहिताङ्गयेन तमःसमूहो विरहय्य धात्रीम् । निशाटनेत्राणि विवेश नून मुत्पश्यतैतेषु कुतोऽन्यथासु ॥ ३२ ॥ विभावरीयाय विनाशमेषा मुदं दधस्वेत्यसुवल्लभा स्वा । विबोध्यते द्वंद्वचरेण याव----त्सा तावदागात्स्वयमेव पार्श्वम् ॥ ३३ ॥ क्रुधेव ताम्रं वपुरादधान मायांतमालोक्य सहस्ररश्मिम् । निलीयते भ्रश्यदितस्ततोपि भिया तमिस्रं गिरिगुह्वरेषु ॥ ३४ ॥ इत्युद्गतैर्वाक्यभरैर्विबोध----करैः समाख्यातविभातकालः । तदर्हकृत्यं विरचय्य दान----केलिं कुमारः कलयांचकार ॥ ३५ ॥ विभूषितास्थानसभं शुभैषी श्रीजैत्रसिंहं रिपुकुंभिसिंहं । गत्वा कुमारोथ मुदा नमस्या----मासानणीयस्तरभक्तिनम्रः ॥ ३६ ॥ कृतप्रणामं तमवेक्ष्य हृष्यद्रोमा पुलोमारिरिवो धरित्र्याः । रहस्युपानीय रहस्यवेदी जगाद निस्तंद्रतरास्यचंद्रः ॥ ३७ ॥ साम्राज्यलक्ष्मीकरपीडनाय जातप्रवीणप्रतिभे तनूजे । विदांवरेण्य क्वच नापि नास्म----दृशाः प्रशस्या विषयाभिवृष्ट्याः ॥ ३८ ॥ विध्वस्तबाह्यारिचयोप्यजित्वा----तरंगशत्रूनतिमात्रशक्तीन् । बाह्येतरारीन् जितवत्सु तेषु स्थितः कथंकारमहंचकास्मि ॥ ३९ ॥ कियद्वराका सविकाशमाहू----राज्यं नृपाणां विगलत्कृपाणां । इदं तु योगप्रणिधानभाजां यावद्वराकासविकाशमेव ॥ ४० ॥ बाह्याः शरीरे किल शैशवीया भावा यथा ऽत्यजिषताल्पयेस्य । हातुं तथाभ्यंतरगानपीमान् उदासते हंत किमत्र संतः ॥ ४१ ॥ शक्तावस्थां विषयाभिलाषो विडंवयत्येव जनान् प्रयोक्तॄन् । शांतोऽनलः फूत्क्रियमाण उच्चैः किं पूरयत्याशु न भस्मनाऽस्यं ॥ ४२ ॥ अपास्तलज्जं बहुदैन्यमस्मा नकामयंत स्मरकातरा याः । ताः कामयेम ह्यधुना मृगाक्षी र्वयं हहाऽतोपि विडंबना किं? ॥ ४३ ॥