भारतकोश
संग्रह पर लौटें

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

३ ] पृथ्वीराजसंग्रामवर्णनम् २५ देवानामपि कुंभजन्ममुनये दातुं किमर्थं व्यधात् नित्योल्लासिविकासिकाससुभगं भूष्णुश्रियं यौ दिवम् ॥ ७७ ॥ विधुरतिविधुरश्रींनिस्तरंगा च गंगा कनकगिरिरगौरस्तंक्तगर्वश्च शर्वः । कुमुदममदमैंद्रः सिंधुरो नोद्दुरोजा अजनि लसति विवस्त्रीचि यत्कीर्तिपूरे ॥ ७८ ॥ यान् यान् व्यत्यगमन्नृपान् कृतनतीस्ते ते प्रकाशं ययु- र्यान् यान् प्रत्यचलच्च भेजुरभितस्ते ते क्षणान्म्लानतां । यस्य क्षोणिपतेः प्रतापवसतेर्दिग्जैत्रयात्रोत्सवे सेना कापि न वा व्यराजततमां संचारिणी दीपिका ॥ ७९ ॥ कर्तुं दिग्गजमुद्यतस्य निखिलं क्षोणीतलं क्रामता- मश्वानां गतिभंगता मुपनयन् वेगोत्तरं धावतां । वारांराशिरसावजायत तमां यस्यांतरायः कवे- र्वाचां वाच्यविचारभास्वररुचां गोष्ठीशठानामिव ॥ ८० ॥ हत्तानेन विपक्षभूमिपतयः स्वैर्विभवं लंमिता अस्येमामुपकारितां स्वहृदये संभाव्य तेपि क्षणात् । सचक्रुर्गजवाजिराजिवसुधाकोशादिदानैरमुं वंध्यं सारपरोपकारजनितं पुण्यं न शत्रावपि ॥ ८१ ॥ हुत्वा यो निजकोपपावकमुखे द्विद्वीरहव्यं शुचा- कंदत्कंदमणीविलोचनगलद्वाष्पांबुभिर्भूरिभिः । भूचक्रेञ्च तथातिवृष्टिमनिश् प्रोल्लासयामासिनान् आशिश्राय यथाविनाशमचिरादन्यायबीजांकुरः ॥ ८२ ॥ इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमहा- काव्ये वीरांक श्रीपृथ्वीराजसंग्रामवर्णनो नाम तृतीयः सर्गः॥ 4 A . .

२६ श्रीहम्मीरमहाकाव्ये [ सर्गः अथ चतुर्थः सर्गः कुर्वन् कुवलयोल्लास मसन्तापकरैः करैः । वेला इव तुषारांशुः स प्रजा अभ्यवीवृधत् ॥ १ ॥ राज्यं निर्विशतेऽन्येद्यु र्हरिराजमहीभृते । प्रीतिव्रततिवृद्ध्यर्थं श्रीगुर्जरनरेश्वरः ॥ २ ॥ विस्फुरच्छुक्रसंबंधाः समुन्नतपयोधराः । वर्षा इवोहसद्धर्षाः प्रेषयामास नर्त्तकीः ॥ ३ ॥ युग्मं अन्यदा स्फुरितोदार—स्फारशृंगारभासुरे । नृपे च नृपलोके च स्फीतप्रीतौ निषेदुषि ॥ ४ ॥ वाद्यमानेषु वाद्येषु तालमेलमनोहरं । गायनेषु च गायत्सु कोकिलालापकोमलं ॥ ५ ॥ दृढयौवनसोपानाः शृंगाररसवारयः । विस्फुरद्बालसेवाला विलासोल्लासवीचयः ॥ ६ ॥ पीनस्तनोल्लसत्कोका विस्मेरवदनांबुजाः । चलदृक्पृथुलोमानः सुमेषोद्दीर्घिका इव ॥ ७ ॥ वात्याव्यतिकराद्धूत—कदलीदलवत्तनुं । वेल्ल्यंत्यो भ्रमंत्यश्च चक्रजीविकचक्रवत् ॥ ८ ॥ कदाचिद्भुजयोर्मूलं कदाचिन्नाभिमंडलं । कदाचन कुचोन्नत्यं दर्शयंत्यो मुहुर्मुहुः ॥ ९ ॥ लसल्लावण्यलीलाभि र्लोकलोचनलोभनाः । मूर्त्ताः (कंदर्प) दर्पास्ताः प्रावर्तंत प्रनर्त्तितुं ॥ १० ॥ सप्तभिः तस्याजननमेवासी दासां लावण्यवारिधौ । मग्ने दृग्मनसी यस्य निर्यातुं शक्ततां गते ॥ ११ ॥

४ ] तज्जन्मवर्णनम् २७ इति तासां स्फुरद्वासो नाट्यं पश्यन्नहर्निशं । क्षणमात्रमपि त्यक्तुं नालंभूष्णुरभूदयं ॥ १२ ॥ ततोऽसौ गीतनृत्तादि—दक्षदानपरायणः । मितंपचत्वं शिश्राय सेविनां जीविकार्पणे ॥ १३ ॥ वार्तामलभमानास्ते तस्य सेवामहासिनुः। स्वार्थसिद्धिं विना कोपि किं स्यात्कस्यापि सेवकः ॥ १४ ॥ राज्यस्थितिं तथाभूतां दर्शदर्शं प्रजा अपि । विरज्यंतेस्म तस्मात् द्वाग् स्त्रितमा दुर्भगादिव ॥ १५ ॥ एतत्स्वरूपं विज्ञाय प्राग्वैरी शकनायकः । ससैन्योभ्येत्य दिल्लीतो देशसीमानमानशे ॥ १६ ॥ काकनाशं ततो भीत्या प्रनष्टजनताननात् । सौख्यसर्वंकषं श्रुत्वा गमनं शत्रुभूपतेः ॥ १७ ॥ आरभ्य पृथ्वीराजेंद्र—नाकलोकातिवासरं । अकृत्यमिति संत्यक्त—शकाननविलोकनः ॥ १८ ॥ सांतःपुरपुरंध्रीक स्ततोऽसौ ज्वलने विशत् । भाविनी यादृशी कीर्ति र्मतिः स्यात्तादृशी नृणां ॥ १९ ॥ त्रिभिर्विशेषकं नाकलोकं पृणे ऽमुष्मि नम्लासीत्तत्परिच्छदः । अस्तंगते जगद्दीपे स्मेरः किं कमलाकरः ॥ २० ॥ अपुत्रत्वेन भूभर्तुः शत्रोरागमनेन च । चिंताचांतहृदो बाढं मंत्रयंति स्म मंत्रिणः ॥ २१ ॥ अपत्यं भूपतेर्नास्ति भटा न च रणोद्धताः । विपक्षस्तु महावीर्यः कथं रक्षिष्यते पुरं ॥ २२ ॥ तत् त्यक्त्वा नीवृतं यामो रणस्तंभपुरं प्रति । सूरोपि बलवैकल्यात् श्रयेत् द्वीपांतरं न किं ॥ २३ ॥

२८ श्रीहम्मीरमहाकाव्ये [ सर्गः तत्रास्ति पृथ्वीराजस्य प्राक् पित्रातो निरासितः । पौत्रो गोविंदराजाख्यः स्वसामर्थ्यात्तवैभवः ॥ २४ ॥ स्वस्वामिवंशकासार-हंसं तं भूपमाश्रिताः । कीर्त्तिपानीभवंतोऽव-तिष्ठेम ह्यकुतोभयाः ॥ २५ ॥ मंत्रयित्वेति भूपीयं सर्वं कोशवलादिकं । सहादाय चलंतिस्म रणस्तंभपुरंप्रति ॥ २६ ॥ दावपावकवत् वाध्यं ज्वालयन् देशमुद्धसं । शकः पश्चादुपागत्या ऽजयमेरुपुरं ललौ ॥ २७ ॥ अथ प्राप्य रणस्तंभं पुरं गोविंदभूपतेः । समगंसत ते सर्वे वृत्तांतं च न्यगादिषुः ॥ २८ ॥ पितृव्यस्य तथाभूतं मृत्युं श्रुत्वा धराधिपः । वाचामगोचरं कष्टं कलयामास मानसे ॥ २९ ॥ स्मृतिस्मृतिपरित्यक्त-शोकः कृतौर्ध्वदैहिकं । धीसत्त्वांस्तान् यथायोग्य-कार्येणायोजयन्नृपः ॥ ३० ॥ पराभवन् द्विषच्चक्रं प्रभवन् न्यायवृद्धये । सौख्यं चानुभवन्स्फीतं स प्रजाश्चिरमन्वशात् ॥ ३१ ॥ गोविंदे दिविषद्वृंदे संचारयति चातुरीं । तानवं शात्रवं निन्ये श्रीमद्वाल्हण भूपतिः ॥ ३२ ॥ घनवत् समरे यत्र शरासारं वितन्वति । नाशेनैवा ऽभवद्व्यक्ता रिपूणां राजहंसतां ॥ ३३ ॥ वर्षत्यपि भृशंवाण-धाराभिर्यद्धनुर्घने । चित्रं विच्छायतामेव भेजिरे शत्रुभूभृतः ॥ ३४ ॥ सखरं जिखरं वीक्ष्य समरे यमरिन्वजाः । अभिलेषुः सपक्षत्वं न वरं नाशहेतवे ॥ ३५ ॥ नाम्नि धाम्नि च संक्षेपं विधित्सन् यो विरोधिनां । अवनीपालतां हित्वा द्राग् वनीपालतां ददौ ॥ ३६ ॥

४ ] तज्जन्मवर्णनम् २९ स दानभोगौ गोचक्र-मंडनौ पापखंडनौ । उभावभूतां तत्पुत्रौ सूर्याचंद्रमसाविव ॥ ३७ ॥ गुणश्रेष्ठस्तयोर्ज्येष्ठः ख्यातः प्रल्हादनाह्वयः । द्वैतीयीको द्वितीयश्रीर्वाग्भटः प्रतिपद्भटः ॥ ३८ ॥ समं वितन्वतः क्रीडां सममभ्यस्यतः कलाः । अवर्द्धिष्ट तयोः प्रीती रामलक्ष्मणयोरिव ॥ ३९ ॥ वीक्ष्यान्यदा नृपो मूर्ध्नि पलितं करणीं जरां । शपतिस्माऽशु भोगेभ्यो योगेभ्यः श्लाघते स्म च ॥ ४० ॥ ततोऽनुशास्य विधिना भूपः पुत्रावुभावपि । न्यधात् प्रल्हादनं राज्ये प्रधानत्वे च वाग्भटं ॥ ४१ ॥ स्वयं स्थित्वा कियत्कालं तयोः प्रीतिमिवेक्षितुं । प्रांते स्मरन् परंब्रह्म बभूवे दिविषत्पदं ॥ ४२ ॥ कृतौर्ध्वदैहिकं वस्तु स्ततः प्रल्हादनो नृपः । अरंजयत्प्रजा नास्थ्यो-पनिषज्ज्ञो यथा सभाः ॥ ४३ ॥ भास्वत्यभ्युदिते यस्मि न्नासन्नजनि कर्त्तरि । सपक्षैश्च विपक्षैश्च कौतुकं कौशिकायितं ॥ ४४ ॥ विशामीशे दशाऽप्याशा जेतुं यत्र कृतोद्यमे । वैरिणो जीवितं त्रातुं द्विधापि प्रधनं जहुः ॥ ४५ ॥ बलिध्वंसोलसदाम शय शायिसुदर्शनः । विष्वक्सेनोऽपि यच्चित्रं न भेजे दानवारितां ॥ ४६ ॥ उत्सलद्धूलिविज्ञात-खुरामक्षुण्णभूतलाः । त्वरया वायुविस्फूर्ति-जिह्वरा स्तुरगा बभुः ॥ ४७ ॥ मुदान्यदा स दावाग्नि-प्रतापश्वापविप्लुतः । विधित्सुः पटुमाखेटं निरैगान्नगराद्वहिः ॥ ४८ ॥ आजानुलंबि सुस्थूल-नीलीचीवरधारिणः । चेलुः पदातयो मूर्त्ता भयानकरसा इव ॥ ४९ ॥

३० श्रीहम्मीरमहाकाव्ये [ सर्गः स्तब्धोर्ध्वकर्णाः सुस्निग्ध-वर्णाः स्वर्णाग्रकंठिकाः । चाक्षुषा मातरिश्वान इव श्वानश्चकासिरे ॥ ५० ॥ वाहिनीशतसंश्लेष-बहुलैः प्रचलद्दलैः । समुद्रैरिव कल्पांत-भ्रांतैर्विह्वलयन्निलां ॥ ५१ ॥ विस्मेरसुमनोबाण-करवीरमनोहराः । नारीरिव वनीर्वीक्ष्य नृपोभूद्द्रुतुमुन्मनाः ॥ ५२ ॥ बलभद्रास्ततः केपि हरिमार्गानुसारिणः । केचिच्छशधरादृष्ट-सिंहिकासुतविक्रमाः ॥ ५३ ॥ केचिच्छिवानुगा रौद्रा वृषोलंघनजांघिकाः । . अंतर्वणं विशंति स्म भटा आखेटलंपटाः ॥ ५४ ॥ द्विधापि पृष्ठदानेन सत्रपः कोपि सिंहयोः । यशोमृतं पिवन्नंतः स्थितः क्रोडं व्यडंबयत् ॥ ५५ ॥ मत्स्वामिवल्लभां शश्वद्वसुधां चंखनीयत्यं । इति प्रकुपितः कोपि वराहं मध्यतो ऽच्छिनत् ॥ ५६ ॥ त्वन्नेत्रकांतिचोरोयं यथारुचि विधीयताम् । इति कश्चित्प्रियाप्रीत्यै मृगं बध्वा समायहीत् ॥ ५७ ॥ निघ्नन् पुरः स्थितं सिंहं हत्वा पृष्ठागतं परं । लेभे काकाक्षगोलस्यो-पमानं कस्याचित्करः ॥ ५८ ॥ तत्कटीदर्शनादाशु प्रियां संस्मृत्य कश्चन । न हातुं न प्रहंतुं च सिंहमासीत्क्षणं क्षमः ॥ ५९ ॥ व्यात्तवक्त्रे करं क्षिप्त्वा छित्त्वा केसरिणः शिरः । उदांचितभुजो बाहु-त्राणवत्कोप्यदीदृशत् ॥ ६० ॥ निजिघांसुं मृगीं कंचिन्मृगो दृष्ट्वातिकोष्टितः । स्वयमासांतरावतीं कटास्नेहकटाक्षितं ॥ ६१ ॥ वंचयित्वाथ दाक्ष्येण कोपि दृग्गोचरं हरेः । पृष्ठमारूढवान् सिंह-यानलीलायितं दधौ ॥ ६२ ॥

४ ] तज्जन्मवर्णनम् ३१ कृत्वातिसिंहस्यामप्राक्—पश्चाच्छस्त्रेण पातितः । वराहो रारटीतिस्म स्वभावः खलु दुस्त्यजः ॥ ६३ ॥ नृपोपि वर्षन् हर्षेण शरासारैररुंतुदैः । श्वापदानापदाक्रांता न्कुर्वन्नाच्छन् यदृच्छया ॥ ६४ ॥ क्वचिद्धिरिणदीतीरे स्फुरच्छ्रवणांतरे । पारींद्रमेकमद्राक्षी निद्रामुद्रितलोचनं ॥ ६५ ॥ युग्मं उत्सार्य भूपो विज्ञात—शरसंधानमोक्षणः । निर्ममे दक्षिणेम्मर्माण तं पारींद्रं विनिद्रितं ॥ ६६ ॥ तेनैवोत्साहनादेन कुतोपि कुपितोऽन्यतः । तावत्परः स्फुरत्फालः सिंहः संहतविक्रमः ॥ ६७ ॥ जग्राह भूपतेरंसं प्रांशुं तीव्राग्रदंष्ट्रया । उरोविदारं राज्ञापि क्षुर्याऽसौ प्रतिचस्करे ॥ ६८ ॥ युग्मं दंष्ट्राघातस्रुवद्रक्त—धाराभिरभितश्चितः । दधौ धातुद्रवक्लिष्ट—शैललीलां क्षणं नृपः ॥ ६९ ॥ ततो दंष्ट्राविषोत्सर्पि—मूर्छाभिर्विह्वलीकृतः । यतीवर्द्धिं स पापर्द्धिं त्यक्त्वागादात्ममंदिरं ॥ ७० ॥ मंत्रवादिगणैर्वैद्य—वृंदैरपि परः शतैः । भृशं चिकित्स्यमानोपि नाभूद्भूयः स्वरूपभाक् ॥ ७१ ॥ दुश्चिकित्सतरं ज्ञात्वा ऽऽत्मानं भूपोथ सर्वथा । वीरनारायणं पुत्र मभ्यषिंचन्निजे पदे ॥ ७२ ॥ पतिष्यच्चाह्मानीय राज्यश्रीवल्लिपादपं । वाग्भटं च समाहूय सोदरं जगिवानिति ॥ ७३ ॥ शौर्यं बुद्धिरविश्वासो राज्यश्रीकारणं त्रयं । तद्युक्तं स्थावरे स्वापं दुरापं शैशवे पुनः ॥ ७४ ॥ तदस्ति स्वापचापल्याद् बाल्येऽसौ वयसि स्थितः । अनुशास्यस्तथाकारं यथास्यान्नाहितं क्वचित् ॥ ७५ ॥

३. जलालुद्दीन खिलजी पराभव व शरणागत महिमा

३२ श्रीहम्मीरमहाकाव्ये [ सर्गः दौःशल्येन सुतस्यास्य सशल्य इव वाग्भटः । मंदमंदमथाचख्यौ मन्युगद्गदया गिरा ॥ ७६ ॥ भवितव्यं तु न स्वामिन्निरोद्धुं कोपि सासहिः । त्वामिवैनं पुरोपासे सावधानः परं सदा ॥ ७७ ॥ उक्तेति वाग्भटे तूष्णीं तस्थुषि क्षितिपाग्रणीः । चिकीर्षयात्मनीनस्य सस्मार परमात्मनः ॥ ७८ ॥ राज्यथास्तमिते तस्मिन् वीरनारायणो विभुः । भास्वानिवासील्लोकानां कमलोल्लासकोविदः ॥ ७९ ॥ स्वतेजसैव यस्याशु द्विषतः पिंषतः सतः । वृथा मत्प्रतिकर्मेति किमसिः श्यामतामधात् ॥ ८० ॥ विस्फूर्जद्भुजशांडीर्य—फणभृद्दृष्टवैरिणां । यस्य खड्गलता नाग—दमनौषधिवद्बभौ ॥ ८१ ॥ सोन्यदा प्रमदानेत्र—पावनं यौवनं श्रितः । परिणेतुं सुतां कत्स—त्राहस्याऽन्नपुरीमगात् ॥ ८२ ॥ तत्राभिषेणितो जल्ला—लदीनशकभूभुजा । पलाय्यागाद्रणस्तंभं पृष्ठतः सोप्युपागमत् ॥ ८३ ॥ तत्र युध्वा चिरं जल्ला—लदीनः प्रौढपौरुषः । विज्ञाय तं छलग्राह्यं निवृत्यागान्निजां पुरीं ॥ ८४ ॥ कियत्यथगते काले ततः स शकभूपतिः । विजिगीषुच्छलेनामुं दूतेनेत्थमचीकथत् ॥ ८५ ॥ ज्योतिश्चक्रेषु सर्वेषु सूर्याचंद्रमसौ यथा । तथावां सार्वभौमा वो भूभृत्सु निखिलेष्वपि ॥ ८६ ॥ तन्नौ युक्ता मिथः प्रीतिः पचेलिमफलोदया । न च विग्रहविस्फूर्ति र्भिदेलिम तमायतिः ॥ ८७ ॥ सहायं त्वादृशं लब्ध्वा समीरमिव पावकः । दंदह्येय क्षणेनैव वैरिवंशान् दृढानपि ॥ ८८ ॥

४ ] तज्जन्मवर्णनम् ३३ प्रीतोस्मि तव शौर्येण त्वं मे भ्राताऽतः परं । द्रुह्यामि यद्यहं तुभ्यं तर्हि शपे ध्रुवं ॥ ८९ ॥ एकवेलं समेतव्यं मिलनाय परं त्वया । न चेदहं समाकार्य स्वदादेशवशंवदः ॥ ९० ॥ वक्षःस्थलपुरेशेन विग्रहाख्येन विग्रहैः । सुतरां विगृहीतस्य सिसाधयिषतोय तं ॥ ९१ ॥ ताभिर्द्वूतोक्तिभंगीभि भृंगीभिरिव वारिजं । चुंबितं चाहमानस्य हृदयं व्यश्वसीत्तमां ॥ ९२ ॥ युग्मं ० ततोवनीपतिं वीक्ष्य शकसंगमनोत्सुकं । रहः संवादयामास वाग्भटः प्रतिभाभटः ॥ ९३ ॥ नयशास्त्रांबुधेः पार-दृश्वनः का तवौचिती । क्रियते दुष्टहृन्म्लेछ-संगमाय यदुद्यमः ॥ ९४ ॥ शत्रुर्न मित्रतां गच्छे च्छतशः सेवितोपि सन् । दीपः स्नेहेन सिक्तोपि शीतात्मत्वमियार्ति किं ॥ ९५ ॥ प्रचिकीर्षसि चेद्राज्यं जिजीविषसि चोचिरं । तदा मद्युक्तिभृंगीयं नीयतां हृदयांबुजं ॥ ९६ ॥ गुरवो यदि वा संतो हितवाक्योपदेशिनः । हेयोपादेयतां तस्या-भव्यभव्यौ चिकीर्षतः ॥ ९७ ॥ इत्युक्त्वा तत्र तूष्णीके सर्वांगीणक्रुधांधलः । घटयन् भ्रकुटीं भीमां पार्थिवो जगिवानिति ॥ ९८ ॥ अकार्यं यदि वा कार्यं यन्मे रोचिष्यतेतमां । करिष्ये तदहं स्वैरं चिंतयात्र कृतं तव ॥ ९९ ॥ वाग्भटस्तेन वाक्येन प्रासेनेव हतो हृदि । ययौ तद्राज्यमुत्सृज्य मालवे सपरिच्छदः ॥ १०० ॥ परमप्रीतिगौराणां पौराणामपि भाषितं । उपेक्ष्य गर्वादुर्वशो ययिवान् योगिनीपुरं ॥ १०१ ॥ 5 A

३४ श्रीहम्मीरमहाकाव्ये [ सर्गः अंतर्दुष्टो मुखे मिष्टः शकेंद्रोभ्येत्य सन्मुखं । महेन महतानैषी दंतःपुरि नरेश्वरं ॥ १०२ ॥ प्रियालपनसारखं वनंवद्दर्शयन्मुहुः । चिरं चकार चेतोस्य चित्रप्रचयचुंबितं ॥ १०३ ॥ अन्येद्युर्विषयोगेन शकान्तृपममीमरत् । काप्यकृत्यं प्रकुर्वंतः पापा मुह्यंति हंत किं ॥ १०४ ॥ हतेत्रान्यच्छक्रो बोधि जितमेवाशु राजकं । मूले छिन्ने हि सुग्राहं फलागुच्चैस्तरोरपि ॥ १०५ ॥ ततो वाग्भटभूपाल-सूर्येण परिवर्जितं । रणस्तंभपुरव्योम व्यानशे शकतारकैः ॥ १०६ ॥ शकप्रेरणयेहापि जिघांसुं मालवेश्वरं । विज्ञाय वाग्भटो हत्वा ललौ तद्राज्यमूर्जितं ॥ १०७ ॥ शकातंकपरित्रस्तै र्बहुजैः शरणागतैः । तद्राज्यं प्राज्यलीलाभृ दवर्धिष्ट दिने दिने ॥ १०८ ॥ शके जल्लालदीनेय षर्प्परैरभिषेणिते ॥ वाग्भटोप्यमिलत्सैन्यं रणस्तंभांधिधीर्षया ॥ १०९ ॥ पुंनागसंगसुभगाः प्रक्षरन्मदनिर्झराः । जंगमावनिभृल्लीलां कलयांचक्रिरे द्विपाः ॥ ११० ॥ खुरोत्खातरजःपुंजै र्विश्वमप्येकरूपतां । नयंतो वाजिनां व्यूहा रेजिरेऽद्वैतवादिवत् ॥ १११ ॥ संचरद्रथचक्राणां दिशां कूलंकषैः स्वनैः । शब्दाद्वैतमयीवासी दखिलाप्यब्धिमेखला ॥ ११२ ॥ धृतिहेतिततिस्फीत-द्युतियोतितदिङ्मुखाः । बभुः पदातयो द्वेधा-प्यरिप्राणापहारिणः ॥ ११३ ॥ चलद्दलभरैर्भोगि-विभुना दुर्धरां धरां । सृजन्नधो रणस्तंभं शिविरं संन्यवेशयत् ॥ ११४ ॥

दृष्ट्वानेकरणोत्सेक—क्रीडद्वीरकुलं बलं । दधिवांसोदरोद्रेकं दुर्गस्थाः शकपुंगवाः ॥ ११५ ॥ लोका अपि लसच्छोका बभूवुः पुरवासिनः । सौख्यनाडिंधमाः के वा परचक्रे समेयुषि ॥ ११६ ॥ नृपादेशाततः स्फूर्जच्छौर्यावेशा भटव्रजाः । दुर्गग्राहग्रहग्रस्ता अभियोद्धुं द्रुतौकिरे ॥ ११७ ॥ गोलैष्टंकैः कुशीभिश्च प्रभिंदंतोप्यनेकशः । न तेऽलंभूषणवोभूवन् दुर्गं भेत्तुं मनागपि ॥ ११८ ॥ भटानां शौर्यचातुर्यं दुर्ग्राह्यबलं पुरस्य च । दर्शंदर्शं नरेंद्रोभू द्विपादाश्चर्यचुंबितः ॥ ११९ ॥ मत्वा दुर्गं बलाग्राह्यं सोथ नीतिविदां गुरुः । वेष्टयित्वाभितस्तस्थौ निवार्य समराद्भटान् ॥ १२० ॥ निर्यातुं च प्रवेष्टुं चा—शक्नुवंतस्ततो भिया । पुरोदरस्थिता लोका लेगिवांसो विषीदितुं ॥ १२१ ॥ वारीण्यदुग्धपर्यंतक्षु—यटीयंत तृणान्यपि । एधांस्यचंदनायंत प्राप्यभावात्पुरांतरे ॥ १२२ ॥ त्रिमास्यामपि जग्मुष्या पुरं रक्षितुमक्षमाः । पलायिषत सर्वेपि जीवं लात्वा शकध्रुवाः ॥ १२३ ॥ भक्तिगौरास्ततः पौरा उपदापात्रपाणयः । संजग्मिरे महीशस्य जयशस्य तमद्रुतेः ॥ १२४ ॥ नृपोपि तेभ्यो वस्त्रादि दत्वा कृत्वा च सत्क्रियां । स्वच्छोत्सवोच्छलच्छायं प्रविवेश पुरांतरं ॥ १२५ ॥ सैंहिकेयास्यनिर्मुक्त—चंद्रबिंबविडंबिनीं । पश्यन्नयारिनिर्मुक्त—रणस्तंभपुरश्रियं ॥ १२६ ॥ गजाश्वस्वर्णरत्नाद्यैर्यथास्थाननिवेशितैः । स चकार धरां सार—मंदिरां माद्यदिंदिरं ॥ १२७ ॥

३६ श्रीहम्मीरमहाकाव्ये [ सर्गः क्रमागतोदयस्थानं भास्वान् लब्ध्वा स वाग्भटः । कान्कान्भूमीभृतो नैव पादाक्रांतानरीरचत् ॥ १२८ ॥ निवेश्य देशसीमासु चतुर्दिक्षु बलं निजं । सुखं द्वादशवर्षाणि स्वयं राज्यं स तेनिवान् ॥ १२९ ॥ तस्मिन्स्वर्लोकलोलाक्षी—कटाक्षविशिखावलैः । वीरयोगव्रतावाप्यां वेध्यतामुपचालरे ॥ १३० ॥ तन्नंदनो जगन्नेत्रा—नंदनश्चंदनद्रुवत् । जैत्रप्रतापः श्रीजैत्रसिंहोऽभूद्भूमिबल्लभः ॥ १३१ ॥ युग्मं समूलकार्षकषिता—ऽन्यायसंतमसोदयः । तिग्मांशुरिव लोकानां यः प्रियं भावुकोऽभवत् ॥ १३२ ॥ सद्वंशस्यापि यच्चाप—दंडस्पाहो अनौचिती । जग्राह दोषमेवास्य समाजे संगते द्विषां ॥ १३३ ॥ बिभ्रत्सदानभोगत्वं सुमनःश्रेणिसेवितः । शचीवरयितुर्लीलां यो भूमिष्ठोप्यचूचुरत् ॥ १३४ ॥ कर्णजाहं जगाहाने शौर्ये यद्दुजदंडयोः । चकंपिरे शिरांसि द्राक् दृढानामपि भूभृताम् ॥ १३५ ॥ यदातंकतमग्रस्ते शत्रुशौर्यनभोमणौ । व्यक्तं शोकतमोभासी तन्नारीणां कचच्छलात् ॥ १३६ ॥ सद्वंशस्याप्यैकमत्यं न यच्चापस्य यस्य च । पृष्ठं यद्युध्यदात्माच्यः परेषां न पुनः परः ॥ १३७ ॥ अगण्यपुण्यलावण्य—रसप्रसरसारणिः । हीरादेवीति तस्यासी त्प्रेयसी श्रेयसी गुणैः ॥ १३८ ॥ सौंदर्येण जिता यस्या रतिस्तामेव भेजुषी । जगदे वह्निदग्धस्य शरणं वह्निरेव वा ॥ १३९ ॥ भुंजाना भूभुजा साकं सा कंदर्परसं भृशं । शुभं गर्भं दधातिस्म विस्मयैकपदं सतां ॥ १४० ॥

४ ] तज्जन्मवर्णनम् ३७ स्वकरांभोजकीनाश—दासीकृतशकासृजा । गर्भानुभावतो राज—पत्नी सिक्तासतिस्म सा ॥ १४१ ॥ प्रहर्षुलमनः प्रेयः पूरितोद्दामदौहृदा । समये सुपुवे सूनुं सा श्रीरिव सुमायुधं ॥ १४२ ॥ असौ शकासृग्वाप्पूरैः संस्नाप्य धरणीमिमां । दृष्टातन्मूं — — — — — — — — — — — — — — — — — — — — — — — — सृत्खरैः अभ्युद्यत्सहस्रार्क मिवासीत्सूतिकागृहं ॥ १४४ ॥ दिशः प्रसादमासेदुः सुखसेव्यो ववौ मरुत् । नभो निर्मलतां भेजे दिनकृद्दिद्युतेतरां ॥ १४५ ॥ विशदं सम्मदं यं त—ज्जनने जनको दधौ । शतांशोपि न तस्यासीत् कवीनां गोचरो गिरां ॥ १४६ ॥ तज्जनौ स्वर्णधाराभि रवर्षद्भूपतिस्तया । मूलतोपि यथाशुष्य द्दारिद्र्योरुखवासकः ॥ १४७ ॥ कृत्वा दशाहिकमहं विश्वं विश्वसुखावहं । हर्षार्द्धंमीरदेवेति नामामुष्मै पिता ददौ ॥ १४८ ॥ मातापित्रोर्दृशः सिंचन् स्वदर्शनसुधारसैः । सौम्यमूर्तिरवर्धिष्ट स शशीव दिने दिने ॥ १४९ ॥ दिनैः कतिपयैरेवा—कृच्छ्रं गुर्व्वनुभावतः । शस्त्रशास्त्ररहस्यानि स स्ववश्यानि तेनिमान् ॥ १५० ॥ न तच्छास्त्रं न तच्छस्त्रं न च तज्जनरंजनं । सदाशयांबुजे तस्य न यद्भ्रमरायत ॥ १५१ ॥ अथामंगुरशृंगार—जीवनं यौवनं श्रितः । कासां मृगीदृशां निन्ये वशं दृग्मनसी न–सः ॥ १५२ ॥ दृग्द्वंद्वपेयसौंदर्य—श्रीणामेकं तमास्पदं । दृष्ट्वा वांछन् पतीकर्त्तुं कामिन्यः का न मानसे ॥ १५३ ॥

३८ श्रीहम्मीरमहाकाव्ये [ सर्गः अकृत्रिमालंकृतिराननस्य तस्योत्थिते श्मश्रुलते व्यभातां । आधिक्यतो घ्राणयुगाध्वनिर्य—च्छृंगारधारे इव नेत्रपेये ॥ १५४ ॥ केशाः केकिकलापकांतिजयिनो वक्त्रं शशिप्रीतिभित् कंठः कंबुरिपुः कपाटपटुताविशेषि वक्षस्थलं । दोर्दंडौ परिघापघातनिबिडौ पादौ कृताब्जापदौ किंकिं रम्यतरं न यौवनपदं प्राप्तस्य तस्याभवत् ॥ १५५ ॥ विंध्ये सिंधुरवत् धने विधनवत् जातिप्रसूनेऽलिवत् त्यागे याचकवत् गुणे सगुणवन्न्याये महीपालवत् । माकंदे पिकवच्छ्रुते विदुरवत्पाथोरुहे हंसवत् तस्मिन् संसृजतिस्म वागविषयां प्रीतिं मनो योषितां ॥ १५६ ॥ नारीभिः सुमचाप इत्यमरभूजन्मेति च प्रार्थिभि- र्गंगाभूरिति सत्यसंगरपरै र्ब्रह्मेति तत्वोन्मुखैः । स्वर्भूभूरिति योद्धृभिर्यम इति प्रत्यर्थिपृथ्वीधवैः कैः कैरेष कथं कथं न युवतामध्याश्रितस्तर्कितः ॥ १५७ ॥ सौंदर्यधन्या अथ सप्तकन्या पित्रा प्रमोदात्परिणायितोसौ । चिक्रीड ताभिः सह शश्वदस्तव्रीडं यथा दुश्चवनः शचीभिः ॥ १५८ ॥ हम्मीरादितरावपि क्षितिपतेर्जैत्रस्य पित्र्यानुजौ जज्ञातेऽगरुहौ गुहाविव जगज्जैत्रप्रतापोदयौ । आद्योभादनयोर्नयोदयदलद्दल्लीवसंतः सुर- त्राणोन्यः परवीरदारणरणारंभप्रभो वीरमः ॥ १५९ ॥ पूर्द्धारार्गलदीर्घपीनभुजभू प्रौढप्रतापज्वलत्- ज्वालाजिह्वविषावलीकवलितप्रत्यर्थिभूमीधवैः । इत्यभ्यस्तनयैस्त्रिभिः स्वतनयैः संसेव्यमानोन्वहं श्रीजैत्रः क्षितिपः स्म वीरजनकोत्तंसत्वमास्तिष्ठते ॥ १६० ॥ इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते हम्मीरमहा- काव्ये वीरांक तज्जन्मवर्णनोनाम चतुर्थः सर्गः समाप्तः ॥

५ ] वसंतवर्णनम् ३९ अथ पंचमः सर्गः अथ जैत्रसिंहनृपतौ धरणिं करणिं दिवः श्रितहरेः सृजति । उदजृंभतप्रियसृहत्सुरभिः सुमसायकस्य किल विश्वजितः ॥ १ ॥ पुपुषे ध्रुवं मलयशैलभवोऽनिल एष भोगियुवतिश्वसितैः । कथमंन्यथास्य सहता भवति स्म वियोगिनो झगिति मूर्च्छयितुं ॥ २ ॥ ऋतुराजविक्षणरसान्नितरा मरुणेन न ध्रुव मनोदि रथः । कथमन्यथा दधु रमी दिवसा गुरुतां रथांगविहगैकहितां ॥ ३ ॥ अतिदुःसहप्रियसृहद्विरहैः प्रमदजनैः कथमिवैष स नः । महिमा सहिष्यत इतीव निशाः कृशता मधुमधुरिताः कृपया ॥ ४ ॥ समुदाचरंति मधुपा मलिना न च निर्मला स्फुरति जातिरिह । इति वा बभूव ऋतुराट्समयो नवरं न वल्लभतरो यतिनां ॥ ५ ॥ मलयानिलो मलयजैः सुरभौ सुदृशा मुरोजयुगले विलसन् । समुपागतं मलयशैलमहा—शिखराधिरोहण ममंस्त पुनः ॥ ६ ॥ अमुना विवर्णितदला मभितो नलिनीं विलोक्य नलिनीदयितः । कुपितः प्रहिंसितुमिवैष हिमो—च्चय मभ्यगा द्विमवतः ककुभं ॥ ७ ॥ स्थलतां प्रयाति गगने पवने—रितपुष्पराजिरजसां पटलैः । अचलन् यदर्कतुरगाः शनकै स्तदिवास वासरगणोत्र गुरुः ॥ ८ ॥ मधुकप्रसूनमधुपानवशा दतिमात्रमत्तमधुकृद्युवतेः । विनिशम्य झंकृतमं दधिरे कति रे न चेतसि विकारभरं ॥ ९ ॥ सहकारसारतरमंजरिका—प्रसनोल्लसन्मधुरिमांचितया । परपुष्टया कुसुमकांडकरे ऽरचि लीलया प्यखिलमेव जगत् ॥ १० ॥ इय मागतेव शशिनाशिकुहू रथचेयमान्यलपदन्यभृतः । पिककूजितेष्विति न का मुमुदे विषसाद चाध्वगवधू रसकृत् ॥ ११ ॥ शुकचंचुसंनिभपलाशदल—त्कुसुमानि रेजुरभितोनुवनं । शमदंतिनं भृशमुपानयतो वशमंकुशा इव सुमेपुविभोः ॥ १२ ॥

४० श्रीहम्मीरमहाकाव्ये [ सर्गः यदि पुष्पिताहमिह तत्कियतीं श्रियमुद्वहंतु लतिका इतराः । किमिदं विचिंत्य कृपया सुरभौ विचकास नाभिनवजातिलता ॥ १३ ॥ विकसत्प्रसूननिचयाः शुचयः प्रतिकाननं शुशुभिरे तरुषु । प्रथिता हसा इव वनीयुवते र्निजजीवितेशमृतुराजमनु ॥ १४ ॥ जलदागमे स्वमहिमोल्लसिते रवधीदसौ पथिकलोकवधूः । इति पंक्तिबाह्यविहितेव मधौ नवमालती न सुमनस्स्वविशत् ॥ १५ ॥ मदनोऽधुनापि परदेशजुषां हृदि नष्टशल्यमभिहंतुमिव । कुसुमानि वृंतसुषिराणि भृशं विरचय्य कांडफलतामनयत् ॥ १६ ॥ मम नाम नालिकशरा यदि मास्तः सहेत कतरे स्पृशतीः । किमितीह नाद्रियत जातिलता कलिकां मधौ मधुसखः स्फुटतीः ॥ १७ ॥ विकसत्प्रियालतरुमंजरिका—रजसारुणैरपि मृगीनयनैः । मधुसीधुपानघनरागजुषः सुदृशां दृशः सदृशतां न जहुः ॥ १८ ॥ परिसंचरन्मलयदिक्पवन—प्रविकंपिपल्लवकरांबुरुहैः । उपगूहनाय वनराजिवधू र्निजकांतमाह्वयदिर्तुपतिं ॥ १९ ॥ मधुपानतः शिथिलितभ्रमरा भ्रमिरा बभुः प्रतिवनं तरुषु । गुलिकास्त्रकाभ्यसनमुन्नयतो गुलिका इव प्रसवचापविभोः ॥ २० ॥ प्रविलोकनादपि वियोगवशा विदधदृशा विधृतकंपरसाः । अनयत्पलाशशिखरी तरसा चरितार्थतां जगति नाम निजं ॥ २१ ॥ पदसंगमात्र उपजाततृषो मम निष्प्रजन्नुरिमिकाः प्रसभं । गतभर्तृका इति सकोप इवा—ज्वरयन्मुहुर्मुहुरशोकतरुः ॥ २२ ॥ परिलोभयन् मधुकरप्रकरान् मधुसंगमेन मधुरै र्मधुभिः । तिलकद्रुमस्तिलकवन्निखिले—ष्वपि भूरुहेषु लभतेस्म रुचिं ॥ २३ ॥ अपि तन्मुखाभिषवसेकमृते श्रियमुद्वहन्नतिवचोविषयां । अधरीचकार सुदृशामखिला मपि मानसंस्थितिं मगो बकुलः ॥ २४ ॥ निजकालिमोल्लसितसंजनिता ऽसमयक्षपालिषु वनीततिषु । अलभंत चंपकतरोः कलिकाः स्मरराजदीपकलिकोपमितिं ॥ २५ ॥

५ ] वसंतवर्णनम् ४१ भृशलीनषट्चरणचक्रवशा ऽधिकनीलनीरजदले सरसि । . कमलै रलंभिविलसत्कमलैर्गगने नवोदितशशांकरुचिः ॥ २६ ॥ मलिनांबुबिंदुतुलनां कलय—न्विकसत्पलाशकुसुमवृंतमभात् । शिरसाऽग्निसाधनतपो रचय न्निव मालतीविरहतोऽलियुवा ॥ २७ ॥ कृतवेलनामलयदिक्पवनै र्धनवलयो रुरुचिरेऽतितरां । उपगूहनानि चिरकालभवन् मिथः प्रविरतं - - त्य इव ॥ २८ ॥ सकलत्रिलोकविजयप्रभवं श्रमवारिसंगतमनंगपतिं । इव वीजयंत्यभिबभौ सुरभौ कदलीदलै रनिलसंगचलैः ॥ २९ ॥ हृदयेश्वरं भजत मानममुं त्यजताशु नैति समयो हि गतः । इति बोधयन्निव कुरंगदृशो रुचिरं चिकूज परपुष्टयुवा ॥ ३० ॥ किमु चुंबनं किमथवा मधुरं मधु इत्यसाविव विवेचनकृत् । क्षणमंबुजं क्षणमथ भ्रमरी—वदनं चुचुंब मधुकृत्प्रवणः ॥ ३१ ॥ विलसद्विलासिनि वसंतऋतौ कुसुमानि कानिचिदिहाविदुषां । इदमीददेतदिदमित्यवदन् इव झंकृतैर्मधुकराः कतिचित् ॥ ३२ ॥ विधुतत्वराणि विदधन्नितरां युवमानसानि दयितानुनये । चटुकूजितैः कलरवो मदयन् दयितां चुचुंब परिरभ्य मुहुः ॥ ३३ ॥ विकसत्सुमस्तबकचारुकुचा नवपल्लवाद्भुतकरक्रमणाः । मधुमागताः समवलोकयितुं वनदेवता इव लता व्यरुचन् ॥ ३४ ॥ अधिकाधिकं तनुविलेपविधौ प्रमदाभिराद्रियत वह्निशिखं । उपकारकारि सुचिरोपनतं सहसैव हेयमिह वस्तु कथं ॥ ३५ ॥ पथिकांगनाजनपरासनजै र्गुरुपाततैकैरिव नितांतचिताः । हविराचिताऽजनघनद्युतयो भ्रमरा बभुः प्रतिवनभ्रमिराः ॥ ३६ ॥ इति वीक्ष्य वीक्षणयुगप्रसभा—हृतसंमदं सुरभिकालमिमं । परिपृच्छय जैत्रजगतीदयितं सहि वीरमाग्रजकुमारवरः ॥ ३७ ॥ अदसीयरूपविलुलोचयिषा—नुग्रहाधिरूढललनावदनैः । दिवसेपि विस्फुरदनेकसुधा—करबिंबमंबरतलं जनयन् ॥ ३८ ॥ 6 k

४२ श्रीहम्मीरमहाकाव्ये [सर्गः घनसारसारमृगनाभिमिलन्—मलयद्रुनागरजःप्रकरैः । कृतदेवनो वनविनोदचिकी—रवरोधवंधुरवधूमधुरः ॥ ३९ ॥ प्रचलदलावलिलसत्पवनं तरुराजिराजितपुरोपवनं । प्रययौ स यौवनवयः सवयः—परिहासभासुरतरास्यशशी ॥ ४० ॥ चतुर्भिः कलापकं तरुणा लसन्नवनवाभरणा अय चेलुरर्हन्तमचेलभृतः । मदकृन्मधूत्सवकृते मदनो—द्यमदीप्तदीप्तिमुतनूभिरमा ॥ ४१ ॥ कृतभूष्यापि वदनांबुरुहः सखि सांप्रतं तव रुषोदिषया । कृतमेहि सत्वरममुं दयितं सुतरां प्रसाद्य जहि वैरिमुदं ॥ ४२ ॥ इति काचन प्रियसखीवचनैः सुचिरं विमृश्य हृदये निपुणं । परिहृत्य मानमुपगत्य पतिं विशदप्रसादललितं व्यतनोत् ॥ ४३ ॥ युग्मं अनुनेतुमन्यतर इंदुमुखीं विविधेंगितानि विदधन्निपुणं । परिरभ्यतेस्म तरसैव तया सपूर्वसूचिततदिंगितया ॥ ४४ ॥ प्रचलालिकाननमितः कितवो विरहा तवांग स किमातनुते । प्रविलोकयाव इति कांपि मिषादुपनीय तां प्रियतमाय ददौ ॥ ४५ ॥ अनुनेतुमंबुजदृशः पदयोः पतितस्य कस्यचन वेणिरभात् । इदमीयमानमभिपाटयितुं कुसुमायुधस्य तरवारिरिव ॥ ४६ ॥ अयि पश्य शस्यवदने मधुरा मधुवासरा झटिति यांति कथं । अधुनापि मानमिममादधती स्वपराहिलं किमु चिकीर्षसि हा ॥ ४७ ॥ इति कश्चन प्रकुपितां दयिता मनुनीय योषिदनुनीतिचणः । उपगूहनं प्रतिपदं वितरन्नचलन्मधूत्सवकृते सुकृती ॥ ४८ ॥ न विलोकसे न च ददासि वचः कथमेष जीवतु तवानुचरः । इति पीतवल्लभतचा इतरा मदपानतोप्यधिकमाप मदं ॥ ४९ ॥ नवपल्लवाङ्गुतकरां मधुपा—वलिवेणिमिद्धसुमगुच्छकुचां । नववल्लभाभिव विलोक्य वनीं दधुरुत्सुकत्वमथ रंतुममी ॥ ५० ॥

५] वसंतवर्णनम् ४३ तरुणीगणे विकरुणं प्रसवा—वचयं विधातुमभियोगवति । तरुभिः प्रकंपितमिव प्रवह—त्पवमानेवेलितदलालिमिषात् ॥ ५१ ॥ प्रविहाय काननसुमान्यभितो निपतद्भिरंबुजधिया वदने । भृशमुन्मदिष्णुमधुकान्निकरैरुदवेजि काचन सरोजमुखी ॥ ५२ ॥ दयितां लताग्रमपिरोहयता क्वच नापि केनचिददायि तनौ । नखरक्षतं यदतनोत्किलितं न मुदं तदीयहृदये कियतीं ॥ ५३ ॥ सुमकंदुकौ निजकरग्रथितौ सहसं प्रदर्श्य किल केन च न ॥ त्वदुरोजकौ ध्रुवमित्यममौ वदतेत्यहासि कुपितापि सुदृक् ॥ ५४ ॥ अयि वल्लभे मधुरगंधमिदं कुसुमं वदन्नितिपरो विदुरः । उपनासमाप्य किल सिंघयण—च्छलतः करं न्यधित तामधरे ॥ ५५ ॥ मुखचुंबनं यदि ददासि सकृत् प्रददे तदा कुसुममाल्यमिदं । गदतीति भर्त्तरि सखीविदितं त्रपया मुदा च समगदि परा ॥ ५६ ॥ दयितस्य वृक्षमधिरूढवतः पदमाशु पल्लवधिया विधृतं । न चकष्र्ष नैव च मुमोच परा तदवाप्तिजातपुलकप्रसरा ॥ ५७ ॥ पुरतो लताततिषु रम्यतमाः प्रसवाः स्फुरंति ननु चंद्रमुखी । इति विप्रलोभ्य दयितामितरो विजनप्रदेशमनयद्रतये ॥ ५८ ॥ अयि पश्यतोपि कुसुमस्तवकः क्व गतो ममेति कितवोक्तिपरः । करसाद्विधाय दयितोरसिजं निजगाद लब्धमिति कोपि हसन् ॥ ५९ ॥ अयि पश्यतोपि कुसुमस्तवकः क्व गतो ममेति कितवोक्तिपरः । प्रममर्द नैकयुवतेः कुचयो र्युगुलं गवेषणपरः--- ॥ ६० ॥ तनुवल्लिवद्धनवपुष्पगलन्—मकरंदलुब्धमधुकृन्निकरः । परिरभ्यतेस्म तरुकैतवतो ऽनिविदग्धया प्रियतमः परया ॥ ६१ ॥ फलदाधिरूढहृदयाधिपति—प्रविलोकिनापहृतचेतनया । विनरेममंग वितरेममिति प्रसवं वृथैव परयाभिदधे ॥ ६२ ॥ इतरेण गोत्रभिदया प्रहितः कुसुमोच्चयानुवनितामनया । प्रहतो --- तव निःश्वसिते रनवेक्ष्य तां किमुदितः प्रति यां ॥ ६३ ॥

४४ श्रीहम्मीरमहाकाव्ये [ सर्गः अयि पश्य पश्य पुरतो लकुचे सुकुचे कथं भ्रमति भृंगयुवा । इति विप्रलोभ्य दयितामितरो निपपौ परां सुचिरमर्द्धदृशा ॥ ६४ ॥ तरुराजितो विकसितप्रसव—प्रकरान्निधाय शिरसि प्रयतान् । गुरुझंकृतिप्रमुखरा भ्रमरा वनरक्षका इव परां रुरुधुः ॥ ६५ ॥ दधदंतरा नवतिरस्करिणीमिव तापनोदनमिषेण पटीं । वनितां विलोभ्य कितवो हृदयाधिकृतां चुचुंब गतभीरितरां ॥ ६६ ॥ उपवीजयन्निजकराग्रयित—प्रविकाशिभासिकुसुमव्यजनैः । कृतविप्रियोपि भृशमन्वनयत् सुदृशं परः स्मरकलाविदुरः ॥ ६७ ॥ तरुशृंगसंस्थितसुमग्रहणे—र्ध्वसरत्करत्वतः सुकृशादुदरात् । गलदंबराक्षणमभादपरा प्रकटीभवत्तनुकशक्तिरिव ॥ ६८ ॥ कितवेन पल्लवमिषादधरे विधृते प्रिया यदतनोद्वसितं । अभवत्तदेव किल तत्कपट—स्फुटपाटवस्य शशिभासि यशः ॥ ६९ ॥ जडगात्रवर्तनपराङ्ग्गमितां दधदेकबाहुलतया दयितां । नलिनं करेण च परेण परः शुशुभे स्मरः सशरचाप इव ॥ ७० ॥ कामिन्याः कुसुमानि चेतुमधिरोहंत्यास्तरुस्कंधकं भूमौ स्थायिनि दक्षिणे पदतले वामे च शाखास्पृशि । कृत्वा किंचन कैतवं विनमितोऽधोनाभिमूलं परो दृष्ट्वोदीरितकाम ऊर्ध्वसुरते वांच्छामतुच्छां दधौ ॥ ७१ ॥ शाखाग्रस्थमिदं ददासि कुसुमं चेत्तर्हि यद्याचसे तत्तेहं प्रददे प्रिय ध्रुवमिति प्रोक्तेऽन्यया मुग्धया । नीत्वा लग्नकतां तदालिमचिराद्दत्वा च पुष्पं छलात् आसीद्यद्धृदये द्वयोरपि तयोर्धूर्तेन तत्प्रस्तुतं ॥ ७२ ॥ करांबुजालंबितलंबशाखा मिथोपि संयोजितपादपद्माः । आंदोलनिता आलिजनैः स्वयं ता दोलातुलां शिश्रियुरंबुजाक्ष्यः ॥ ७३ ॥ कामिनीकरजकोटिविलून—स्रस्तपल्लववनावनीपीठे । पुष्पराजिभिरराजत मुक्ता—वेणिवद्विपुलविद्रुमपात्रे ॥ ७४ ॥