भारतकोश
संग्रह पर लौटें

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ

उपोद्घातः | १०३

सिंहव्याघ्रसमन्विता Minoan नाम्ना व्यवहृता देवी मूर्तिः, एलोनियादेशे सिंहवाहना Cybele नाम्ना व्यवहृता देवीमूर्तिश्च प्राचीना लभ्यन्त इति महेञ्जोदारोविवरणपुस्तकादुपलम्भो $^१$भारतीयं च देशान्तरीयं समसूत्रानुवेधं दर्शयति ॥

भारतीयानां पुराकाले दूरदूरदेशान्तरपर्यन्तमप्युपगमस्तत्परिचयश्च ज्ञायते । वैदिक्यामप्यवस्थायां भुज्युप्रभृतीनां द्वीपान्तरगमनमवाप्यते । प्राचीनेतिहासा Bibliotheca/अनुसन्धाने ययातिनृपतेः पुत्राणामनुद्रुह्यतुर्वसुप्रभृतीनां स्वनियोगापरिपालनेन पित्रा द्वीपान्तरेषु निष्कासनं, पाण्डवैर्दूरदूरदेशानामपि विजयः, महाभारतीयुद्धभूमौ दूरदेशनृपाणामपि सद्भावः, भारतीयनृपादीनां गान्धारादिपश्चिमप्रान्तियैः सह वैवाहिकसम्बन्धः, पुराणे नीलनद्या नामोल्लेखः, पाश्चात्यदेशीयप्राचीनेतिहासमुद्रादिष्वपि नामसंवादं लब्धवतां केषाञ्चिन्नृपादीनां भारतहरिवंशादिषु नामोपलम्भः, मनुसंहितायामपि देशान्तरीयजातिविशेषाणां मूलस्त्रोतोनिर्देशनमित्यादीनि प्राचीनभारतस्य देशान्तरेषु सम्बन्धमवगमयन्ति । पश्चादपि (B. C. 217 समये) (Tsin Shih Huanungti) सम्राजो राज्ये भारतादष्टादशभिक्षूणां चीनदेशे उपगमवृत्तं, B. C. 200 शताब्द्यां Changkin नामकचीनदेशीयपुरुषस्य भारते यातायातवृत्तं च श्रीयुतकालिदासनाग$^२$महाशयेनोल्लिखितमस्ति ॥

प्राचीनसभ्यताया यातायातविषये बहूनां विवेचकानां बहुशो विचाराः सन्ति । समय एव याथातथ्यं स्फुटीकरिष्यति । तथेतरथापि वा भारतीय प्राचीणार्याणां प्राचीनपाश्चात्यजातीनां च सभ्यतासु अतिपुराकालेऽपि सन्निकृष्टो मिथः सम्बन्ध आसीदिति वक्तुं शक्यते ॥

आस्तां तावदसौ सभ्यतान्तरसम्बन्धः, प्रकृते वैद्यकविषयेऽप्यभितो दृशं प्रसार्य विचारणे इदं पुरो भवति—

लोके यावन्ति प्राचीनवैद्यकानि तेषु सर्वेषु ऋग्वेदोत्तरम् आथर्वणं वैद्यकसाहित्यं सर्वप्रथममिति सम्मन्यते । अथर्ववेदो भारतीयचिकित्साविज्ञानस्योत्पत्तिस्थानमिति वैज्ञानिकदृष्टिपथ्येऽप्यमूल्योऽयं ग्रन्थं इत्यु$^३$च्यते ॥

आथर्वणे तेषु तेषु रोगेषु मन्त्रप्रक्रियया औषधप्रक्रियया च द्विधा चिकित्सा प्रदर्श्यते । एवम्भावेनैव कौशिकसूत्रकृताऽपि क्वचन मन्त्रोपयोगेन केवलं जलादीनां सेचनेन पानेन वा विनियोगः प्रदर्श्यते । क्वचन मन्त्रेण सहापि तेषु तेषु रोगेषु औषधविशेषाणामप्युपयोगो विहितोऽस्ति । रोगोत्पत्तौ कारणत्वेन दुष्टा देवविशेषा ग्रहस्कन्दादयो यातुधाना वा मन्त्रेषूपलभ्यन्ते ।


१. ब्रह्मविष्णुमहेश्वरा भारते प्राचीनतरकालादेवोपास्यन्ते । भिन्नभिन्नदेवोपासनामार्गे देशकालान्तरेण प्रचालिते तत्तदुपासनापथानां परस्परविमर्दं परिहर्तुमेकीकरणेन उमामहेश्वरहरिहरादी नामिव ब्रह्मविष्णुमहेश्वराणामभेदभावमवबोधयन्ती संवलिताकारारित्रमूर्त्तिरप्युपास्यतां प्रपेदे । दिलीपनृपेण कामिकाचले त्रिमूर्त्तेरुपासना विहिताऽऽसीदिति देवीपुराणेऽपि (अ. ६०) दृश्यते । बहु पुराकालादेवात्र प्रसिद्धतया भारतस्यैवासाधारण्य एता देवताः । येन महेञ्जोदारोप्रदेशेऽपि त्रिमूर्त्तिशिवमूर्त्यादीनामुपलम्भः समुचित एव । ईदृशमूर्त्तिभिः सहैवोपलब्धा स्त्रीमूर्त्तिरपि भारतीयैः पुराकालादुपासितायाः स्त्रीदेवताया एव मूर्तिः । शक्तेरुपासनासंप्रदायो भारते प्राचीनकालादेवानुवर्तते । कुलजातयोऽपि भारते पुराकालादनुवर्तन्ते । महाभारतरामायणपुराणादिष्वपि दुर्गादिदेवी-नामुपासनेतिहासा अनेके लभ्यन्ते । निगमवत्पुराकालादेव प्रसिद्धास्तन्त्रादयो बहुश आगमाअपि शक्तेर्महिमानमुपासनामुपासकान् महर्ष्यादींश्च प्रतिपादयन्ति । पूर्वापरप्रसृतप्राकारायिते हिमवति अर्वाग्पराग्भागयातायातसाधनघाटीद्वारदेशरूपेषु उद्यान-जालन्धर-पूर्णगिरि-कामरूपेषु चत्वारि शक्तेर्महापीठानि तत्र तत्रान्यान्यपि शतशः पीठोपपीठानि भारते पुराकालान्मान्यन्ते । शक्तिप्रभेदानां काल्यादीनामुत्पत्तेश्चरित्राणाञ्चेतिहासा भारतीया एव । शक्त्युपासनासम्प्रदायो द्विसहस्रवर्षेभ्योऽर्वाचीन इति वदतां केषाञ्चिद्विदुषां प्रतिवादाय महेञ्जोदारोपलब्धा ईदृश्यः प्राचीनतरा मूर्त्तयोऽपि विवेचकानां नयनान्मुद्घाटयन्ति । एवमासेतुहिमाचलं विश्वमभिव्याप्य वर्त मानो भारते समुत्पन्नः शक्त्युपासनासम्प्रदायो गुणमहिम्ना शाखोपशाखाभिर्विजृम्भमाणे देशान्तरेषूपलब्धानां स्त्रीदेवतामूर्तीनां तत्तन्त्रैर्नामान्तरेण व्यवहारेऽपि तत्र तत्र भारतीयसभ्यतायाः प्रभावं प्रसारयति ॥ २. Greater India (P. 22) by Kalidas Nag. ३. आयुर्वेद वों नव्यरसायन पृ. ५

८ का.सं.

१०४काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

तेषां निरसनदृशा मान्त्रिकी प्रक्रिया, रोगाणां निरसनाय औषधप्रक्रियाऽप्यथर्ववेदीयभैषज्ये लभ्यते। तत उत्तरोत्तरं मन्त्रविद्ययोपचारपथमतिशय्य औषधोपचारपथः प्रससार। परम्तन्तोऽद्यापि कचनांशविशेषैर्मान्त्रिकविद्याऽप्युपचाररूपेण ग्रन्थेषु व्यवहारेषु चानुवर्तत एवेत्यवोचाम ।।

आसीरियावेल्लोनियाप्रदेशे पूर्वकाले भारतीयपूर्वदृष्टाविव अशुचिपुरुषसहवाससम्पर्कसम्भाषोच्छिष्टभोजनादिना रोगागमः, रोगाणां भूतप्रेतपिशाचाद्युपसर्गरूपत्वं, दुर्दर्शभीषणमूर्त्यादिकल्पना, रोगनिरसनायाभिमन्त्र्य जलादिपानमौषधविशेषभक्षणम्, औषधिविशेषधारणं, प्रतिसरबन्धनं, पिष्टकधूल्यादिभी रोगिणामावरणं, वृक्षविशेषपल्लवादिभि रोगिणो मार्जनं, रोगकारकदुष्टदेवताभ्यश्छागशूकरादिबलिदानं, तान्त्रिकपद्धताविव प्रतिपक्षव्यक्तेः केशनखपादधूल्याद्यभिमन्त्रणेन प्रतिकृतिं निर्मायापमार्जनम्, ऋग्वेदोपलब्धमार्डूकदेवतासमच्छायानाम्ना मर्डूकाख्यदेवताया उपासनेन रोगपरिहारश्चैवमादयो बहव आथर्वणतान्त्रिकादिभारतीयप्रयोगसमानप्राया उपायादयो दृश्यन्ते। भोजनात्पूर्वं प्रातरौषधोपयोगः, विरेचनस्य महिमा, तैलेन विरेचनम्, उदरामये पर्वतीयलवणोपयोगः लशुनोपयोगः, मेहोगे मूत्रपरीक्षणं, दन्तरोगे कीटानां हेतुता, इत्यादयोऽप्यायुर्वेदीय-विचारानुरूपा विचारा वस्तूपयोगा अपि तेषां लभ्यन्ते। यथा आथर्वणसम्प्रदाये य एव शान्तिपुष्ट्यादिप्रयोक्तारो धार्मिको आचार्यास्ते मान्त्रिक्या प्रक्रियया औषधाद्युपयोगेन च रोगपरिहर्तारो भिषजोऽप्यासन्, ये अथर्वाणोऽभिधीयन्ते, एवमेव मिश्रादिदेशीयपूर्ववृत्तेऽपि धर्मगुरव एव रोगादेरपि चिकित्सका (Priest Doctor) आसन्, येन तदीया देवालया एव प्राधान्येन चिकित्सास्थानान्यासन्। तादृशस्थलेषु औषधोल्लेखलेखा अप्यलभ्यन्त ।।

बेब्लोनियाप्रदेशे रोगिणां चिकित्सार्थै आपणादिषु जनसमवायेषु उपस्थाप्यमानानां वृत्तोपलम्भेन तदात्वे तत्र भैषज्यविद्याया विशेषोन्नतिर्नासीदिति हेरोडोटस् नाम्न ऐतिहासिकविदुष उक्तेः प्रतिवादेन क्याम्बलथोम्स १न्नामको विद्वान् बेब्लोनियानां वैद्यकं नानुन्नतमासीत्, शस्त्रभिषजः शल्यचिकित्सायामन्यथाकुर्वाणा दण्ड्या इति हेसूर्वन् (Hemmurabri) नृपसमये राजनियम एवासीत्, इति दर्शयन् B. C. 700 समये अर्डनना (Arda-nana) नामकवैद्येन लिखिते उपलब्धे वृत्तान्तपत्रे नेत्रचिकित्सनेन सप्ताष्टदिवसैरायोग्यस्य, नासिकाव्रणाद्धिरुपचारेणोपजातस्य रुधिरस्त्रावस्यान्तरौषधपट्टबन्धेन प्रतीकारस्य चैवमादीनां प्रतीकारादीनां सफलताया उल्लेखोपलम्भेन पूर्वसमयादेव भैषज्यविज्ञानमपि तत्र समुन्नतमासीदिति निश्चाययति ।।

आसीरियाप्रदेशे पूर्वकालेऽपि शस्त्रचिकित्सा विशेषतः प्रचालिताऽऽसीदिति Herbert Loewe २महोदयेन लिखितमस्ति ।।

मिश्रदेशीये प्राचीने पेपर्यरख्ये त्वक्पत्रे सार्द्धशतं रोगाः, तथा एवर्स (Ebers) त्वक्पत्रे ज्वरोदररोगजलोदरदन्तशोथप्रभृतयः १७० विधा रोगाश्चोपवर्णिता दृश्यन्ते। तद्देशीयद्वादशवंशसमयलिखिते एकस्मिन् पुस्तके तत्रत्यायाः कस्याश्चिन्नार्यारजोषिकारार्बुदादयो रोगाः, अद्यत्वेऽभ्युपगम्यमाना नेत्ररोगाणां प्रभेदाश्च लभ्यन्ते, सूक्ष्मरोगाणामपि तत्र गणनादर्शनेन न तत्र रोगाणां बाहुल्यमनुमेयमपि तु तदात्वे तत्रत्यानां विदुषां रोगविषये विज्ञानबाहुल्यमुन्नतमासीदिति प्रतीयते। हेरोडोटस्विद्वानपि नीलनदीपरिसरप्रदेशं स्वास्थ्यप्रदं वर्णयति। तत्रत्यानामपि असीरियादिप्रदेशान्तरेष्विव भूतप्रेतदेवप्रकोपादितो रोगोत्पत्तिवाद आसीत्। चिकित्साविषयका ग्रन्था मन्त्रमया आसन्, धार्मिकाः पुरोहिताश्चिकित्सका अप्यासन् इति George Faucart विद्वां ३न्निरूपयति। प्राचीनमिश्रदेशेऽप्यथर्ववेदानुरूप्येण मन्त्रतन्त्रसहितस्य चिकित्साविज्ञानस्य रसायनशास्त्रस्य च व्यवहार आसीदिति Cf. Berthelot ४महाशयोऽप्युल्लिखति। प्राचीनमिश्रदेशे तैलघृतवृक्षभैषज्यानामपि व्यवहारः श्रूयत इति श्रीयुतसुरेन्द्रना ५थदास-गुप्तमहाशयोऽपि निर्दिशति ।।


१. E. R. E. Vol 4. P. 746 by R. C. Thompson.
२. E. R. E. Vol 4. P. 757.
३. E. R. E. Vol. 4. P. 749.
४. Cf. Berthelot 'Les origines de i' olehienie P. 81-83.
५. प्रवासो ३४ भाग १ खण्ड. पृष्ठ १९४

उपोद्घातः | १०५

रोमदेशीयप्राचीनेट्रुष्कन् (Etruscan)—जातेः, ग्रीसदेशीयप्राचीनजातेश्च पूर्ववृत्तेऽपि रोगनिवृत्तये देवतोपासनाप्रार्थनावल्यादयो मान्त्रिका उपचारा अप्युपलभ्यन्ते ॥

केल्टिकजातीयविचारे वैद्यकस्य धर्मस्य च मिथो घनिष्ठः सम्बन्धः। तदीया धर्मगुरवो डुइडनामका एव चिकित्सका अप्यासन्। आथर्वणपद्धताविव तेषामपि मान्त्रिके औषधसम्बन्धिनि चिकित्सने दृष्टिरासीदिति T. Barns ^१महोदयो लिखति ॥

यूरोपीयट्यूटून (Teuton)—जातेः प्राचीनचिकित्सायां मर्सवर्गस्य (Mersseburg) मान्त्रिकप्रयोगेण (Charms) सह कतिपयभारतीयवैदिकमन्त्राणां सादृश्यमुपलभ्यते, कृमिरोगेऽस्थिभग्नचिकित्सायां तु विशेषरूपेण तत्सादृश्यं सुस्पष्टं परिदृश्यते इति एडालू^२वार्ट कून् (Adalbert Kuhn) अपि लिखति।

एतज्जातेः प्राचीनविचारे भूतानां देवप्रकोपस्य पापानां च रोगे कारणत्वं, दैवप्रकोपेज पशुबल्यादीनां प्रतीकारः, रोगपरिहाराय वृक्षत्वगादौ तदीयमन्त्रं विलिख्य हस्तादौ धारणं मन्त्रपाठः, यन्त्रधारणं देवमूर्त्याप्लवजलपानं, धूपादिभिर्भूताद्यपसारणप्रक्रिया चासादिति K. Sudhoff महाशयो J. Jolly महा^३शयोऽपि वर्णयति। एषां विषयाणामनुसन्धाने आथर्वणप्रक्रियाया भारतीयायुर्वेदीयप्रक्रियायाश्च तत्रापि बहुधा साम्यमुपलभ्यते। लिथुनियादिजात्यन्तरेष्वपि शब्द-विशेषाचारव्यवहारायुर्वेदीयविषयादिषु भारतीयच्छायानुवेधो दृश्यते ॥

उत्तरअमेरिकाय रेडइण्डियन च्यारोकी (Cherokees) जातीयानां प्राचीने मान्त्रिकभैषज्येऽपि आथर्वणमान्त्रिकप्रयोगस्य बहुधा साम्यमीक्ष्यते इत्यपि जाँ^४ली (J. Jolly) महाशयो लिखति ॥

"चीनप्रदेशे सार्द्धचतुःसहस्रवर्षपूर्वतने तदीयग्रन्थे दशसहस्रप्रकाश ज्वरस्य, 'चतुर्दशविभागा आमाशयस्य निर्दिष्टाः सन्ति। नाडीपरीक्षायां तत्र विशेषदृष्टिरासीत्। B. C. 400 वर्षपूर्वत आरभ्य प्रतिवर्षमुपजायमानानामामयानां निघण्टपत्रं कल्पितमासीत्। चीनदेशीयभैषज्यग्रन्थे आर्द्रक-दाडिममूल-वत्सनाभ-गन्धक-पारद-बहुविधप्राणिमलमूत्रासङ्ख्यवृक्षपत्रमूलादीना-मौषधरूपेणोल्लेखोऽस्ति। चीनदेशेऽद्यापि लक्षशो द्रव्याणां वृक्षपत्रमूलादीन्यौषधरूपेण विक्रीयन्ते। शीतलावेधनविज्ञानं तत्र पूर्वमेवासीत्। चिकित्साशास्त्रेतिहासप्रणेता ग्यारिसन्महाशयो याथातथ्येन चीनदेशीयैर्भारतादेव भैषज्यविद्याऽलम्भीति निरूपयति" इति श्रीसुरेन्द्रनाथदासगुप्तमहा^५शयेन निर्दिष्टमस्ति ॥

चीनराज्यस्य B. C. 200 सामयकतया चीनोल्लेखगर्भं कौटिल्यशास्त्रं नातिप्राचीनमिति कस्यचिदभ्युपगमे अवेस्ताग्रन्थे निर्दिष्टासु पञ्चसु जातिषु चीनानामप्युल्लेखदर्शनेन चीनस्य प्राचीनत्वमेव। चीननामकं माण्डलिकराज्यं B. C. 900 शताब्द्रामासीदिति मोदीमहाशयेन निर्दिष्टमिति जयचन्द्रविद्या^६लङ्कारमहोदयो वर्णयति ॥


१. E. R. E. Vol 4. P. 747.
२. A. Kuhu Zeitschrift fur verglei Cheude Sprachfoss Chung XIII P. 49-74 & 113-157.
३. The cure of wounds and fractures is aflected by incantations which have been compared by A. Kuhn with the Mersseburg charm of German antiquity.
J. Jolly. E. R. E. Vol 4. P. 754.
४. The charms of the Atharvaveda have been fitly compared with the sacred formulae of the Cherokees and other spells current among the Indians of North America.
E. R. E. Vol 4. P. 754. by J. Jolly.
५. प्रवासी ३४ भाग १ खण्ड. पृ. १९४
६. भारत के इतिहास की रूपरेखा पृ. ७००

१०६ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

तुर्फानप्रदेशाद्दक्षिणतः काराशरनामके स्थाने पूर्वसमये केचन प्राचीनकूचजातीया आसन्। ईशवीयारम्भात्पूर्वं कदा तेषां तत्रोपगम इति किमपि न ज्ञायते। सा कूचजातिरार्यशाखीया इत्यनुमन्यते सर्वैः। पश्चाद् द्वित्रशताब्दीसमये वणिग्जनैः सह बौद्धधर्मप्रचाराय तत्रोपगतान् भारतीयभिक्षूनालोक्य अस्मदीयपूर्वदेशोद्भवा एते भारतीया इत्यात्मीयभावेन बहुशस्ते सद्कुवन्नितीतिवृत्तं तेषामुपलभ्यते¹ ।।

एतज्जातेस्तत्प्रदेशस्य च विषये चीनभाषायामुल्लिखितं प्रागितिवृत्तमेवमुपलभ्यते। द्वितीयशताब्द्यां मध्येशियापरिसरप्रदेशान् विजयमानेनापि चीनराज्येन बलवत्या कूचजात्याऽधिष्ठितेऽस्मिन् प्रदेशे आक्रान्तुमशक्ये सत्युभयोद्देशयोर्मिथो मैत्रीसम्बन्धः स्थापितोऽभूत्। ईशवीयाब्दारम्भोत्तर २६५-३१६ अब्दसमयान्तरे तत्र बौद्धधर्मः पूर्णतया प्रचलितआसीत्। कुमारजीवनामा बौद्धभिक्षुस्तत्रैवासीत्। अन्येऽपि बौद्धभिक्षवस्तत्रोपगताः। बहूनि बौद्धस्तूपमन्दिराण्युपि निरमीयन्त। तान्यद्यापि भूगर्भादुपलभ्यन्ते। भारतीया वणिजो बौद्धधर्मप्रचारकाश्चानेनैव पथा चीनदेशयातायातमकूर्वन्। ईशवीयाब्दारम्भात्राक्कालादेवारम्भ दक्षिणदेशस्थानां चीनदेशे व्यापारमार्गोप्येष एवासीत्। हुयेन्सङ्गनामा चैनिकपरिव्राजकोऽप्यनेनैव वर्त्मना भारतमुपागमत्, इत्येवमनर्वाचीनं तदीयं चीनभारतसहयोगि प्राग्वृत्तमवगम्यते। तत्र भूगर्भशोधनेऽतः परमपि प्रवृत्ते प्राचीनभारतसम्बन्धीनि बहूनि विशेषान्तराण्युपलब्धुं शक्येयुरित्याशास्यते। तत्र ब्राह्मलिप्यां लिखितानि प्राचीनसंस्कृतपुस्तकानि भारतीयसंस्कृतग्रन्थेभ्यः कूचभाषायामनुदिताः काष्ठपट्टिकोत्कीर्णा लिखिताश्चानुवादग्रन्था अपि बहुश उपलब्धाः। भूगर्भाद्बहूनि प्राचीनवस्तून्यप्युपलब्धानीत्यपि स्टाइनमहाशयेन² निर्दिष्टमस्ति ।।

भाषातत्त्वविदा A. C. उलनरमहाशयेन तदीयकूचभाषायाः संस्कृतेन सह तुलनायां भारतीयायुर्वेदी यौषधिवाचकानां संस्कृतशब्दानां कानिचिद्विकृतानि कानिचिद्भाषोच्चारणकृतवैचित्र्यमात्रवन्ति रूपाणि कानिचित्तद्रूपाणि च स्वरूपाण्युपलभ्यन्ते। रायल एशियाटिकसोसाइटीपत्रिकायां³ प्रकाशितमस्ति। ते शब्दा यथा—

कूचभाषासंस्कृतकूचभाषासंस्कृत
माञ्च्छ(माञ्जिष्ठा)सुक्ष्मेल(सूक्ष्मेला)
करञ्जपीज(करञ्जबीज)प्रियङ्कु(प्रियङ्गु)
अपमार्क(अपामार्ग)विरङ्क(विडङ्ग)
सारिप(शारिवा)उपद्रव(उपद्रव)
मर्गी(मार्गी)शालवर्णी(शालपर्णी)
किञ्चेल(किञ्जल्क)किरोत(गिलोध)
तकरु(तगर)कुन्तर्क(गुन्द्रक)
पृङ्करच(भृङ्गराज)चिपक(जीवक)
करुणसारि(कालानुसारी)शञ्चपो(शिंशपा)
पितरी(विदारी)पिप्पाल(पिप्पली)
अश्वकान्ता(अश्वगन्धा)मोततें(अजमोदा)
तेचवती(तेजोवती)कोरोशा(गोरोचन)
मेत(मेदा)पिस्सौ(विश्वा)
खादिर(खदिर)सुमां(सोम)

१. India and China No 2. P. 24.
२. Innermost Asia Vol II P. 565-572. P. 1028.
३. J. R. A. S. 1925, P. 623

उपोद्घातः १०७

इत्येवमनिश्चितपूर्वसमयात् तावति दूरे वर्तमानायाः प्राचीनकूचजातेरार्यजातीयत्वस्य स्पष्टोल्लेखेन तत्संवादयता पश्चात्सङ्गतानं भारतीयानामात्मीयत्वेन समादरोल्लेखेन च भारतीयार्यजातित्वेन निश्चितानां कूचानां भाषायामपि भारतीयौषधिशब्दानां विकृत्याऽविकृत्या च बहुशोऽनुप्रवेशदर्शने सति भारतीयजातेस्तत्तद्देशोपगमनेन साकं ते शब्दा अपि तत्रोपगताः किं वा समयेनोपगताः स्युः, उभयथाऽपि भारतीयायुर्वेदस्य तावति देशकालविप्रकर्षेऽपि प्रचारः प्राचीनगौरवाय ॥

इरानाभिजनानां पारसीकानांमवेस्ताख्ये मूलग्रन्थेऽथर्ववेदस्य तदीयभाषायां देववाण्याश्च विशेषतः सन्निकर्षो दृश्यते । तेषामुपास्या देवता भारतीयैः परिचितस्यासुरस्योच्चारणमात्रविभेदेनाहुरनाम्ना निर्दिश्यते । अग्न्युपासन–गोपूजन–सूर्योपासन–होमप्राधान्य–मित्रादिदेवताप्रभृतिषु बहुषु विषयेष्वपि प्राचीनभारतस्यालोकस्तत्र भासते । इरानजातीया भारतीयायैर्भ्य एव विभक्ता इतीतिहासविद्भिरप्युल्लिख्यते । इरानप्रदेशे एकमेनियन्स (Achaemenians) नृपकुले, तथा प्रथमडेरियस (Darius I. B. C. 521) नृपसमये डेमोकेडियस (Demokedes) नामा, समयान्तरे स्टेसीयस (Ctesias) अपोलोनीडस् (Apollonides) नामानौ च ग्रीकवैद्या आसन् । इरानदेशीये ग्रीकदेशीये च भेषज्ये बहुशो विचारसाम्येन इरानदेशे ग्रीकवैद्यकस्य प्रभावोऽप्यासीदित्येल्लेखोऽपि दृ¹श्यते । इरानप्रदेशेऽपि ससेनियन्सन्नृपवंशे राजकुले ग्रीकवैद्या इव भारतीयवैद्या अप्यासन् विदेशीयानां तद्देशीयानां च वैद्यानां मिथः प्रतिस्पर्द्धाऽऽसीदिति स्पीगल²महाशयोऽप्युल्लिखति । तेन इरानदेशीयवैद्यके येष्वंशेषु ग्रीसोपज्ञमुद्भूता असाधारणा विषयाः परिच्छिद्यन्ते, तेषु ग्रीसवैद्यकस्य प्रभावः स्यान्नाम, परं वैद्यकविषये ये भारतीयायुर्वेदीयरोगशारीरकादिविषयका ऽविचाराः समानतया तत्रोपलभ्यन्ते, ये वा ग्रीकादिसाधारणा अपि भारतीया विचारास्तत्र ज्ञायन्ते, तेषु भारतीयवैद्यानां तदीयवैद्यकस्य च प्रभावो निरूपणीयः । ग्रीसवैद्यके भारतीयायुर्वेदीयविषयाणामपि साम्यं कीथ—(A. B. Keith) महाशयेन यथा निर्दिष्टमस्ति, तेष्वंशेषु तत्रापि साक्षात् परंपरया वा भारतीयः प्रभावः पश्चान्निरूपयिष्यते । इरानदेशेन सह भारतस्य देशतोऽपि सन्निकर्षोऽस्ति । तस्यैवप्रथमडेरियसन्नृपतेः साहाय्यभावेन B. C. 479 समये प्लेटियारणस्थले ग्रीसवीरैः सह भारतीयसेनाया युद्धे³स्योल्लेखनमपि लभ्यते । तदेवम् इरानभारतयोर्धनतरे मिथः सम्बन्धे भारतीयवैद्यानामपि तत्र प्रतिष्ठितत्वे चागम्यमाने भारतीयवैद्यानां विशेषरूपेण तत्र प्रभावो निरूपणीयः । किमन्यत्, इरानदेशीयपर्शू⁴भारति (Pehlavi) भाषायां भिषग्भेषजमन्त्रादिशब्दसमाना वेषज (Baeshaza, Beshaj), भिजिष्क (Bejishka) माथू, इत्यादिशब्दा अप्युपलभ्यन्ते । किं बहुना अर्मिनियन् (Armenian) भाषायामपि एषां शब्दानामेव स्वरूपास्तराणि (Bzhishk, Bzhshkel) दृश्यन्ते । इरानभाषायामपि वैद्यवाचको भिजिष्कशब्दः, औषधवाचको वेषजंशब्दोऽपि भारतीयभिषग्भेषज-शब्दयोरेवोच्चारविभेदकृतः स्वरूपविशेषः । तथाविधौ अथर्ववेदोक्तौ ऋग्वेदोक्तौ च प्रधानशब्दावपि भारतात् तत्र सङ्क्रान्तौ चेत् तत्र भारतीयायुर्वेदस्य प्रभाव एतावताऽपि बहुशोऽनुमातुं शक्य⁵ते । किं बहुना


१. Encyclopaedia of Religion and Ethics Vol 4, P. 759 by L. C. Casartelli. २. Spiegal thinks it probable that in populous cities foreign physicians often competed with native ones. Under the Sassanians, too, we find Greek physicians at the royal court, and Spiegal is of opinion that Indian physicians made their way there also. (Eran Alterth.) E. R. E. Vol IV P. 759. ३. Greater India by Kalidas Nag M. A. D. Litt. No. I, P. 15. ४. The commonest term to indicate indifferently ‘medicine’, ‘healing’, ‘medicaments’, or ‘physician’ is Baeshaga, corresponding to Sanskrit Bhishaj, Bheshaja. In Pehlavi we find this word as Beshsj, but more commonly under the curiously inverted from bejishak as in modern Persian and Armenian words Bezhishk ‘physician’ and ‘Bezhshkel’ ‘heal’ By L. C. Casartelli, E. R. E Vol 4, P. 757. ५. There is no question of a Greek influence either on the medical knowledge current in ancient Iran. The Iranians use in the Avesta the word Bhaesaj, which was certainly derived either from Indian

१०८ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

पारसीकमतप्रवर्तकाज्जस्थुष्ट्रादपि प्राक्तनैस्तद्देशीयनिवासिभिर्मागीजातीयैर्यै गुप्ता वैद्यकविद्या भारतीयब्राह्मणेभ्योऽधिगतेति चतुर्थशताब्द्या रोमेतिहासलेखकानाम् ‘अमीनस् मर्सिनस्’ प्रभृतीनां लेखोपलम्भेन, इरानदेशेऽतिपुराकालादेव भारतीयवैद्यकप्रभावस्य स्पष्टतया ततः परमपि भारतीयवैद्यानामुपगमवृत्तोपलम्भेन च भारतीयायुर्वेदस्यालोकस्तत्र चिरात् प्रतिफलितः स्पष्टीभवति । आयुर्वेदीयग्रन्थेषु चरकवृद्धजीवकीयादिषु बाल्हीकभिषक्त्वेन काङ्कायनो निर्दिष्टोऽस्ति । पुरा बहुकालमिरानाधिपत्येनाधिष्ठितो बलखप्रदेशो बाल्हीकशब्देन बोध्यते । काङ्कायनस्य सुश्रुतव्याख्योद्धृतसुश्रुतसतीर्थ्यत्वोक्तेः प्रामाणिकत्वे ‘बाल्हीकभिषजां वर’ इति निर्दिष्टेन काङ्कायनेन तत्र प्रवर्तिता वैद्यकविद्या भारतीयैव सिध्यति । अन्यथाऽपि भारतीयाचार्यैः सह पक्षप्रतिपक्षभावेन दर्शितसंवादस्य काङ्कायनस्य आचार्यकुक्षौ संमानेन निबन्ध संग्रहादौ संस्कृतभाषामयानां तदीयवचनानामुद्धारदर्शनेनापि भारतीयानुरूप एव तदीयोऽपि सम्प्रदायो न देशान्तरीयः, बुद्धसामयिकस्य जीवकस्याध्यापकत्वेनाभ्युपगतेनात्रेयेण काश्यपेनापि निर्दिष्टस्य बाल्हीकभिषजां वरस्य काङ्कायनस्य समयो ग्रीकवैद्यैः सह सम्पर्कमुपेतानां पूर्वोल्लिखितानामिराननृपाणां समयाद् अन्ततोऽपि गत्वा एकद्वशतवर्षपूर्व एव दृश्यत इति तत्र भारतीनां सम्बन्धः प्रभावश्च न किं प्राचीनतरः सिद्ध्यति ? प्रत्युत एतावन्तोऽशाइति परिच्छेतुं न शक्यन्ते, तदपि इरानप्रदेशाद्भारताच्च कतिपये वैद्यकविषया ग्रीसवैद्यके प्रतिसङ्क्रान्ताः सन्तीति मतमपि E. B. बृहत्¹कोशे निर्दिष्टमस्ति ॥

एवमादिरूपेण दूरदूरमपि प्राचीनेष्वनेकदेशेषु शाखोपशाखारूपासु प्राचीनानेकजातिष्वपि न्यूनाधिकरूपेण भारतीयप्राचीनव्यवहृतीनामाथर्वणप्रक्रियासाम्येन मान्त्रिकप्रक्रियया भेषजोपयोगेन च चिकित्सनसम्प्रदायस्य च गमकान्यसाधारणलक्षणानि बहुशो दृश्यन्ते । येषु प्रकृविच्छेदविस्तरभयाद्दिङ्मात्रमिह निदर्शितम् । एवं दर्शनं भारतस्य देशान्तराणां चातिपुराकालादेव मिथः परिचयं सम्पर्कं व्यवहारं विद्याविज्ञानादिसङ्क्रमणादिकं च निश्चाययति ॥

प्राचीनभारतस्य सभ्यताया विषयान्तरविभागेष्विव आयुर्वेदीयविभागेऽपि प्राचीन एवोन्मेषः । आध्यात्मिकेषु विचारेषु बाह्येषु कलाकौशलादिषु च पुरासमयाद्विकसितां दृशं दधद्भारतं सर्वोपजीव्यशारीरयात्रोपयोगिनि भेषज्यप्रस्थाने कथमुदासीत । आयुर्वेदीयसंहितासु तु लोकसृष्टेः समकालमेव ब्रह्मणायुर्वेदोद्गमः प्रतिपाद्यते । वैदिके साहित्ये यथा हि विद्यान्तराणि तथैव वैद्यकविषया अपि ऋग्यजुःसामतैत्तिरीयादिषु ततोऽप्याथर्वणे विशेषत उपलभ्यन्ते ॥

वैदिकसमयादेवायुर्वेदविद्यायाः संमाननेन उपवेदपदमुपादीयते² । वैदिके समयेऽपि नानाप्रस्थानान्तरेष्विव आयुर्वेदीये प्रस्थानेऽपि पूर्वे महर्षयो बहुशः कृतपरिशीलनास्तत्तद्दशोबभूवुः । वैदिके समये शतशो वैद्याः, सहस्त्रश औषधानि, अनेकशा रोगाः, तत्तत्प्रतीकारोपायाश्चासन्निति प्रतिपादितमेव । ततः पराक्कालेऽपि आधुनिकविचारेण उपत्रिसहस्त्रवर्षप्राचीनतयाऽनुसन्धीयमानेषु ऐतरेय–शतपथ–कौषीतक्यादिब्राह्मणेषु छान्दोग्याद्युपनिषत्सु गर्भोपनिषदि श्रौतसूत्रादिषु गृह्यसूत्रादिषु रामायणमहाभारत³पुराणादिष्वपि


Bhesaj, Bhaisajya found both in the Rk and Atharvavedas, both of which are more ancient than the Gathas. The word is not of Indo-European origin and the Greeks do not use it. The persistence of this word in Iranian shows that the Iranians had most probably preserved medical tradition not of Greek origin but most probably of Indian origin. Even admiting that the Atharvaveda is of the same age as that of the Avesta there is no doubt that Rgveda is older than both and the word is found in it too.

१. Persian and Indian sources contributed something to Greek Medicine, As to the amount and the character of these contributions, we are not yet in a position to speak with definiteness.
E. B. Vol 15, P. 198.

२. लक्ष्मणविशल्यीकरणम् ।
३. उपातिष्ठन्नथो वैद्याः शल्योद्धरणकोविदाः । सवोपकरणैर्युक्ताः कुशलेः साधु शिक्षिताः—
(महाभारत भीष्मपर्वणि अ. १२०)

उपोद्घातः | १०९


अङ्गप्रत्यङ्गादीनि शारीरकाणि रोगास्तत्परिहारोपाया भेषजानि एवमादाय आयुर्वेदीयविषयास्तत्सम्बन्धिन इतिहासा उपाख्यानान्युल्लेखाश्चोपलभ्यन्ते। महाभारते यु^१द्धादिष्वपि साङ्ग्रामिकसैन्यैः सह वैद्यानां चिकित्सकानामपि सह नयनं सर्वोपकरणोपेतानां शास्त्रविशारदानां बहूनां वैद्यानां युद्धशिबिरेष्ववस्थापनं, तद्द्वारा आहतानां प्रतीकारप्रवृत्तिरपि तत्र तत्र दृश्यते। एष विषयो मत्थू^२महाशयेनापि निर्दिष्टोऽस्ति। रामायणे सुषेणवैद्यकथा प्रसिद्धैव॥

कौटिलीये सा^३ङ्ग्रामिकाधिकरणे शस्त्रयन्त्रागदस्नेहवस्त्रहस्तचिकित्सकस्त्र्यादीनामपि सेनापृष्ठभागेऽवस्थानं निर्दिष्टमस्ति।

पुराणेतिहासादिष्वपि न खल्वेष विषयो विरलः॥

तदेवं गुरुदक्षिणाप्रदेयाश्वानां प्राप्त्यै काशीपतिं दिवोदासमुपयुषे गालवाय हिमवन्मूले वायव्यदिशि मारीचकश्यपस्याश्रमस्य निर्देशनस्योपलम्भेन दिवोदासादनतिपूर्वं किं वा तत्समकाले कृताश्रमो मारीचकश्यप इति महाभारतोल्लेखः, मारीचकश्यपस्य ऋक्सर्वानुक्रमसूत्रे बृहद्देवतायामप्युपलम्भः, आत्रेयसहभावित्वाद् वायोर्विदस्य मारीचकश्यपात्रेयपुनर्वसुसहभावः, कृष्णात्रेयस्य पुनर्वस्वात्रेयसामानाधिकरण्यं, चिकित्सितप्रवर्तकत्वेन कृष्णात्रेयस्य महाभारते निर्देशः, आत्रेयान्तेवासितया भेस्योल्लेखः भेडसहभावितयाऽऽत्रेयपुनर्वसूपदेशतया च गान्धारनृपस्य नग्नजित उल्लेखः, नग्नजितो दारुवाहस्य च सामानाधिकरण्यं, दारुवाहस्य काश्यपीये निर्देशः, गान्धारनृपस्य नग्नजित ऐतरेयब्राह्मणे, गान्धारस्य प्राणविदो नग्नजितस्तत्पुत्रस्य स्वर्जितोऽपि शतपथब्राह्मणे कीर्तनं, दिवोदासस्य कौषीतकिब्राह्मणे कौषीतक्युपनिषदि काठकसंहिताब्राह्मणांशे महाभारतेऽप्युपलम्भः, तत्पूर्वपुरुषत्वेन धन्वन्तरेलर्भिश्रेत्येवं सर्वतो दृशः प्रवर्त्य विचारणे मारीचकश्यपः, पुनर्वसुरात्रेयः, भेडः, नग्नजिद्दारुवाहः, वायोर्विदश्चैते भैषज्यविद्याचार्या ऐतरेयकौषीतकिशतपथकाठकब्राह्मणकालादनर्वाचीना धन्वन्तरिदिवोदासवद्ब्राह्मणोपनिषत्सहभावेन लेशतः पौर्वापर्येण वा वर्तमाना आसन्निति पूर्वं प्रतिपादितमेव॥

आत्रेयकश्यपादिभिरपि कति पूर्वाचार्याणां मतानि बहूनि नामानि च गृहीतानि दृश्यन्ते। एषामात्रेयादीनां संहितार्कतृतायाऽपि पूर्वाचार्योपदिष्टानां विप्रकीर्णविषयाणां संहननमभिव्यज्यते॥

तदेवं वैदिकात्समयात् परम्परानुवृत्ता क्रमविकासेन विवृद्धा चिकित्साविद्या पूर्वतनग्रन्थानां विलोपेनाद्यत्वेऽनुपलम्भेऽपि उपलभ्यमानात्रेयसुश्रुतकश्यपादिग्रन्थान्तर्गतविषयाणां निध्याने तत्समये परां प्रौढिमापन्नाऽनुभूयते। चिकित्साप्रधानैरात्रेयकश्यपभेदादिभिरपि शल्यप्रक्रियायाः सूचनेन शल्यविद्याऽपि प्राचीना तदात्वे प्रस्थानविशेषरूपेण प्रौढिमादधानाऽवगम्यते। एभिरेवात्रेयादिभिरुल्लिखितेषु शालाक्यादि षड्विभागान्तरेष्वपि विचारपूर्णाः प्रौढा ग्रन्थाः स्युः। कालवशेनैषामपि लोपो महते खेदाय॥

आश्विन-भारद्वाज-जतूकर्ण-पाराशर-हारीत-क्षारपाणि-भानुपुत्र-भोज^४-कपिलबलादीनामाचार्याणां भूततन्त्रस्य चाद्यत्वे मूलग्रन्थानुपलम्भेऽपि तेषां वचनानि ताडपत्रीये प्राचीने ज्वरसमुच्चये, केषाञ्चिदेषामाचार्याणामन्येषामपि कतिपयानां वचनानि पश्चात्तनैषु तन्त्रसारे चरकादिव्याख्यासु निबन्धग्रन्थेषु च समुद्धृतानि बहून्युपलभ्यन्ते। एवमुपलम्भेन तावत्कालपर्यन्तमपि तेषामाचार्याणां ग्रन्था उपलभ्यमानाः परिशील्यमानाश्वासन्निति स्पष्टप्रतीतयेऽद्यापि चिह्नमावशिष्यते॥


१. I. कोशं यन्त्रायुधं चैव ये च वैद्याश्चिकित्सकाः। तत्संगृह्य ययौ राजां ये चापि परिचारकाः। ५८ उद्योग अ. १५१
II. शिबिराणि महार्हाणि राज्ञां तत्र पृथक्पृथक्। तत्रासन् शिल्पिनः प्राज्ञाः शतशो दत्तवेतनाः।
सर्वोपस्करर्णैर्युक्त वैद्याः शास्त्रविशारदाः। (१२) उद्योगे अ. १५२
२. Antiquity of Hindu Medicine by D. C. Muthu A. D. P. 21, 52.
३. चिकित्सकाः शस्त्रयन्त्रागदस्नेहवस्त्रहस्ताः स्त्रियश्चान्रपानरक्षिण्यः उद्धर्षणीयाः पृष्ठतोऽनुगच्छेयुः (कौटिलीये अधिकरणे १०)।
४. एष भोजः प्राचीनाचार्यः सुश्रुतसमकालीनो नतु धारानगरराधीशः॥

११० काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

प्राचीनैरात्रेयकश्यपादिभिः काम्पिल्यगङ्गाद्वारादिकं तत्तत्स्थानमलङ्कुर्वद्भिरायुर्वेदाचार्यैस्तत्तत्स्थलेष्वेव स्वोपदेशपरम्परया शिष्यसंप्रदायाद्यभिवर्धनेन स्वस्वीया विचारा एव केवलं न प्रकाशिताः, अपि तु अद्यत्वे वैद्यविद्यापीठमधिष्ठितैस्तैस्तैर्वैद्याचार्यैस्तत्र तत्र प्रदेशे सम्भूय वैद्यसंमेलनसमितिमवस्थाप्य स्वस्वविचारोद्भूतानां नवनवानां प्राचीनानाञ्च विषयाणां विमर्शनमिव प्राचीनकालेऽपि यदा कदाचित् देशदेशान्तरागतैस्तदानीन्तनैः प्रसिद्धैस्तैस्तैराचार्यैस्तेषु तेषु स्था<sup></sup>नेषु सम्भूय परिषदमवस्थाप्यापि परस्परविमर्शा विधीयमाना आसन्। येनैवं विमर्शे शाणसङ्घर्षोज्ज्वलानि रत्नानीव तानि तानि सिद्धान्तरत्नानि, नवनवा विचाराः, स्वस्वाभिप्रायविचाराश्च स्वस्वसंहितासु निर्दिष्टाः दृश्यन्ते ॥

पाणिनिनाऽपि गर्गादिभ्यो यञिति (४-१-१०५) सूत्रीयगर्गादिगणे जतूकर्णपराशराग्निवेशशब्दानामुल्लेखनेन, कथादिभ्यष्ठगिति (४-४-२) सूत्रे कथादिगणे आयुर्वेदशब्दं प्रवेश्य तत्र साधुरित्यर्थे ‘आयुर्वेदिकः’ इति पदसाधनेन च तदात्वेऽप्यायुर्वेदविद्या समुन्नतावस्थायामासीत्, तत्र कुशलाविदांसोऽपि बहव आसन्नित्यपि प्रतीयते । 'मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात्' इति (२-१-६७) सूत्रकृता गौतमेन तत्तदौषधोपयोगोपदेशानुसारेण तत्तद्रोगनिवृत्त्यादीनां लाभेन आयुर्वेदस्य विषभूताशनिप्रतिषेधार्थानां मन्त्राणां च तत्तत्प्रयोगविशेषे फलानुपप्लवेन यथा प्रामाण्यं व्यवस्थितमेतत्तौल्येषु सर्वेषां वेदानां प्रामाण्यमिति आयुर्वेदादेः प्रामाण्यं सिद्धवत् कृत्वा तन्निदर्शनेन सर्वेषां वेदानां प्रामाण्यस्य व्यवस्थापनेन प्राचीनाचार्याणामेषां समयेऽप्यायुर्वेदविद्यायाः प्रचारः, संमाननं, प्रामाण्यं चाभ्युपगतमासीदिति च ज्ञायते, न्यायमञ्जरीका<sup></sup>रेण जयन्तभट्टेनाप्यस्मिन्विषये सुनिरूपितमस्ति ॥

महावग्गादिपालीग्रन्थलेखे कालाञ्जन-रसाञ्जन-स्रोतोञ्जनगैरिकाद्यौषधानां, भगन्दरादिरोगाणां त्रिदोषाणां, स्वेदनबस्तिकर्मादीनां च भारतीयायुर्वेदिकविषयाणां तदीयशब्दैर्व्यवहृतानामुपलम्भेन जीवकीयचिकित्सनवृत्तेन च बुद्धसमयेऽपि (B. C. 600) (B. C. 600) एतदीयः प्रचारो बहुशः स्फुटीभवति ॥

महावग्गीयजीवकस्य चरित्रानुसन्धाने गुरुणा परीक्षायै वनस्पत्यालोचनाय नियुक्तेनानेनैकस्याप्यनुपयोगिनो वनस्पतेरनुपलम्भवर्णनेन भेषजप्रयोगेण बहूनां तीव्ररोगाणां चिकित्सनेतिवृत्तेन च कायचिकित्सायाम्, अन्त्रभेदनकपालभेदपर्यन्तया शस्त्रप्रक्रिययाऽपि चिकित्सनेन शल्यप्रस्थानेऽप्यसाधारणं विशेषविज्ञानं तदीयमवगम्यते । तस्य महावग्गतिब्बतीयकथा-जातकादिलेखेभ्यो बुद्धस्य तत्कालीननृपादीनां च चिकित्सनस्य निर्देशेन तस्य बुद्धसामयिकत्वं, तल्लेखात्तस्य तक्षशिलायाममध्ययनमपि निश्चेतुं शक्यते । परं महावग्गलेखात् तद्विद्याप्रमुखात् कस्माच्चिदेवाचार्यात् तदध्ययनमायाति । तिब्बतीयेोप<sup></sup>कथात आत्रेयात् तदध्ययनं प्रतीयते इति केचन वदन्ति । तस्य मूलं तु न प्राप्यत इति पूर्वं (पृ. ४१) उक्तमेव । तेन स चात्रेयः चरकसंहिताया मूलाचार्यः पुनर्वसुरात्रेयएवेति न ततोऽवधार्यते । चरकसंहिताया लेखादपि पुनर्वसुरात्रेयो, भिक्षुरात्रेयः, कृष्णात्रेय इति त्रय आत्रेयास्तदानीं वैद्यविद्यायामाचार्यत्वेन प्रसिद्धा ज्ञायन्ते । आत्रेय इति गोत्रनाम । तद्गोत्रोत्पन्ना अनेके पूर्वापरा आत्रेयशब्देन शब्द्यन्ते । जीवकस्याचार्यत्वेनाभ्युपगत आत्रेयः कतम इति एतावतैवानिश्चीयमानतया आत्रेयशब्दसाम्यमात्रेण स एव पुनर्वसुरात्रेयो जीवकगुरुरिति न वक्तुं शक्यते । आत्रेयेण तिस्रैषणीयाध्याये त्रिविधौषधवर्णने ‘शस्त्रप्रणिधानं पुनश्छेदनभेदनव्यधनदारणलेखनोत्पाटनप्रच्छनसीवनैषणक्षारजलौकसश्च’ इति शस्त्रप्रणिधानस्य नाममात्रोद्देशोऽस्ति (पृ. ५७८) । सोऽपि तदध्यायीयविषयाणामन्ते कृष्णात्रेयत्वस्योल्लेखात्तदीयः प्रतीयते । काश्यपसंहितायां ‘परतन्त्रस्य समयम्’ इति शल्यविद्यायाः परतन्त्ररूपेणोल्लेखवदात्रेयेणापि ‘धान्वन्तरीयाणाम्’ ‘एके’ इत्यादिशब्दैर्धान्वन्तरंसंप्रदायो निर्दिष्टः। चिकित्सास्थाने द्विव्रणीयाध्याये शल्यप्रस्थानीयोपचाराणामपि निर्देशोऽस्ति । परं स निर्देशः पश्चाद्दृढबलपूरितांश


१. हिमवतः पार्श्वे, चैत्ररथवने, जनपदमण्डले पाञ्चालक्षेत्रे काम्पिल्यराजधान्यां, पञ्चगङ्गे च आयुर्वेदीयविचाराय महर्षीणां समवायश्चरकंसंहितायां तत्र तत्रोल्लिखितोऽस्ति । तत्रैव विमानस्थाने परिषदोऽपि निरूपणमस्ति । काश्यपसंहितायामपि जातिसूत्रीये ‘इति परिषद्’ (पृ. ७९) ‘भूयांसः’ (पृ. १५३) इति परिषदो विद्वत्समवायस्य चोल्लेखोऽस्ति ॥ २. न्यायमञ्जर्याम् (पृ. २५३-२६०)। ३. Tibetan Tales P. 98.

उपोद्घातः १११

एव। टीकाकर्तृणां मतभेदेन तदंशस्यात्रेयाग्निवेशीयांशत्ववादेऽपि तत्रैवाध्याये—'इति षड्विधमुद्दिष्टं शस्त्रकर्म मनीषिभिः' (श्लो. ६१), तेषां चिकित्सा निर्दिष्टा यथास्वं स्वे चिकित्सिते' (श्लो. ११९) इत्युक्तेः स्वारस्येन प्रस्थानान्तरीयः परकीयः संप्रदायो निर्दिष्टोऽवगम्यते। ततः पूर्वमर्शश्चिकित्सितप्रकरणे (अ. १२) अर्शसामुपचाररूपेण नानाविधौषधप्रयोगान् प्रथमं निर्दिश्य—

'तत्राहुरेके शस्त्रेण कर्तनं हितमर्शसाम्। दाहं क्षारेण चाप्येके दाहमेके तथाऽग्निना।
अस्त्येतद्भूरितन्त्रेण धीमता दृष्टकर्मणा ।। क्रियते त्रिविधं कर्म भ्रंशस्तत्र सुदारुणः' ।
(चि.अ. १२, श्लो. ३३)

इति शस्त्रक्षारदाहप्रक्रियाया एकीयत्वेन परकीयत्वापरपर्यायरूपेण निर्देशनं, तत्र अल्पज्ञानेन हानिसंभावाद्भूरितन्त्रज्ञानावश्यकत्वं ब्रुवता तस्मिन् विषये स्वस्य ताटस्थ्यमिवावबोध्यते आत्रेयाचार्येण। सुश्रुते—अष्टसु प्रस्थानेषु कतमत् प्रस्थानमुपदिशामीति दिवोदासोक्तिवत् पुनर्वसोरात्रेयस्योक्त्यदर्शनेन आत्रेयसंहितायां विषतन्त्रादिविषयान्तराणामनुप्रवेशेऽपि शल्यविद्याविषयस्यानुपदेशेन च तच्छिष्याणां षण्णां कायचिकित्साविषय एव ग्रन्थप्रणयनेन शल्यप्रस्थाने शिष्यभूतस्यान्यस्य कस्यापि नामानुपलम्भेन च अद्यत्वे कायचिकित्साविषये शस्त्रचिकित्साविषये चासाधारणवैदुष्यवतां भिषजां (Physician and surgeon) पार्थक्येन प्रसिद्धिवत् तदात्वे पुनर्वसोरात्रेयस्यापि कायचिकित्साविषय एवासाधारणवैदुष्यमाचार्यभावश्चासीदिति परिज्ञायते। महावग्गीयजीवकस्य तु कायचिकित्सायामिव शल्यचिकित्सायामप्यसाधारणं वैदुष्यमीक्ष्यते। पुनर्वसोरात्रेयस्य शिष्यत्वेऽस्येदृश्यासाधारणस्य सतीर्थ्यस्य अग्निवेशादीनां षण्णां पुनर्वस्वात्रेयशिष्याणां सहभावेन किमिति नाम नोपादीयेत आत्रेयपुनर्वसोरपि पूर्वतनस्यात्रि-परम्परागतस्यान्यस्यैवात्रेयस्यान्तेवासी जीवकः स्यादित्यपि कल्पयितुं न शक्यते। तथात्वे चरकसंहितायामुपक्रमग्रन्थे मध्येऽपि प्रसिद्धानां पूर्वेषामायुर्वेदविदामाचार्याणां निर्देशे तथा प्रसिद्धतरस्य महाभिषजो जीवकस्य नाम किमिति नोपात्तं स्यात्। बुद्धसामयिकजीवकगुरोरात्रेयादप्यर्वाचीनत्वेन संभावनेऽनेनात्रेयपुनर्वसुना काशीनरेशयोर्वार्योर्विदवामकयोर्वैदेहनिमेश्च समं सामयिकमुल्लेखं कुर्वता वैद्यविद्याध्येतृतया जातकाद्युक्तस्य काशीपतेर्ब्रह्मदत्तस्यापि नाम किमिति नोपादीयेत। तत्सामयिकेन काश्यपेनापि कथं नोपादीयेत। अग्निवेशस्याचार्यो हि आत्रेयपुनर्वसुशब्देन काम्पिल्यस्थानीयत्वेन निर्दिश्यते। बुद्धसामयिकजीवकाचार्यत्वेन ज्ञात आत्रेयस्तु तक्षशिलागतत्वेन निर्दिश्यते। काम्पिल्यं वेदकालात् प्रसिद्धं, तक्षशिला तु पश्चादेव प्रसिद्धतरेत्यवोचाम। अर्वाचीनतया कल्पने अनेनात्रेयपुनर्वसुना तथा प्रसिद्धायास्तक्षशिलायाः पाटलिपुत्रस्य च नाम किमिति नोपादीयेत, इत्येवमालोचने आत्रेयपुनर्वसोः कालोनार्वाग् भवितुं शक्नोति। ततः पश्चात्तनोऽन्य एव वसिष्ठादिशब्दवद्गोत्रनाम्ना आत्रेयशब्देन व्यवहृतः शल्यप्रस्थाने कायचिकित्सायां च वैदुष्यशाली तक्षशिलायामाचार्यः स्यात्। तत एव बुद्धसामयिकेन जीवकेनाधीतं स्यादिति कथयितुं शक्यते। अतः केवलमात्रेयशब्दमात्रमुपादाय पुनर्वसुरात्रेय एवास्य जीवकस्य गुरुरिति साधयितुं बलवत्प्रमाणमपेक्ष्यते, इत्यादि पूर्वं (पृ. ४१) प्रतिपादितमेव। तस्य वृद्धजीवकनाम्ना अपरस्य जीवकनाम्ना प्रसिद्धिरपि द्वयोर्भेदं पूर्वापरभावं चावबोधयति।। एवं परित आलोचनेन तिब्बतीयेोपकथोक्तात्रेयोऽपि पुनर्वसोरात्रेयाद्भिन्नः पश्चात्तनश्चेत्यायाति।।

यदि नाम पूर्वोपदर्शितदिशा एतत्तन्त्राचार्यस्य वृद्धजीवकस्य महावग्गादिबौद्धग्रन्थनिर्दिष्टस्य प्रसिद्धवैद्यवरस्य जीवकस्य च जन्मस्थानगुरुकुलचिकित्सनेतिहासादीनां मिथो विभिन्नानां विभेदं साधयतां बहूनां बाधकविसंवादकानां दर्शनेऽपि स्वस्वविषयोपरक्तदृष्टिभिर्लिखितेष्वितिहासेषु तथैतरथा वोल्लेखेऽपि प्रमेयांशमात्रमनुसन्धाय संवादः सम्भावनीयः। महावग्गे तत्पूर्वचरित्रानुसारेण कुमारभृत इति वक्तुमौचित्येऽपि कुमारभच्चो इति तद्विशेषणेन कुमारभृत्य इति परिचयविशेषलाभात् तत्साधकतया राजकुमारेणाभयेन पालितत्वरूपं यत्पूर्ववृत्तं निर्दिष्टमस्ति तत्र न स्वारसिकं सङ्गमनं भवति। पालीलेखतस्तस्य कुमारभृत्यत्वे कौमारभृत्यवेत्तृत्वमेव विनिगमकं स्यात्। पूर्वसम्प्रदायानुसारेण कौमारभृत्यशब्देन बालचिकित्सैवावबोध्यते। कालिदासेनापि कुमा¹रभृत्याकुशलैरिति तत्परत्वमभिप्रेयते। तादृशस्य महाभिषजो बालचिकित्सागतानुल्लेखेऽपि तद्वृत्तत्वं


१. 'कुमारभृत्याकुशलैरनुष्ठिते भिषग्भिराप्तैरथ गर्भभर्मणि'। (रघुवंशे ३ सर्गे) ।।

११२काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

न खलु न सम्भवति । पुरावृत्ते क्वचननैसर्गिकविषयोपस्थितौ दैवी शक्तिः किमपि कौतुकं वोल्लिखितं तत्र तत्रेक्ष्यते । तत्रान्तर्निध्याने किमपि रहस्यं प्रक्रियान्तरेणोपरञ्जकतयाऽवबोधितं प्रतिभासते । अस्मिंस्तन्त्रे पञ्चवार्षिकस्य जीवकस्य गङ्गाह्रदोन्मज्जने क्षणादेव वलीपलितव्याप्तया वृद्धभावे किमपि कौतुकं, बौद्धग्रन्थोक्तजीवकस्यापि पूर्वतनमुत्पत्त्यादिबाल्यवृत्तमसाधारणमित्युभयतः किमपि बालरहस्यं निगूढमवभासते । पञ्चनदगान्धारादिपश्चिमविभागे नानाचार्यैर्विद्याविधाया उपबृंहणं, वैद्यकतन्त्रकृतामाचार्यत्वेनात्रेयस्य निर्देशः, महावग्गलेखे आत्रेयानुल्लेखेऽपि तिब्बतीयगाथायां तक्षशिलायां जीवकेनात्रेयाद्वैद्यविद्याया ग्रहणस्योल्लेखश्चास्ति । चरके आत्रेयेण मारीचिकश्यपस्योल्लेखेऽपि तथा प्रसिद्धस्य जीवकस्यानुल्लेखेन संहिताकर्तुर्मरीचकश्यपाज्जीवकस्य पश्चातनत्वमायाति । वृद्धजीवकीये प्राचीनेन काश्यपेन सह जीवकस्य प्रश्नप्रतिवचनसम्बन्धदर्शनमपि स्वग्रन्थस्य मौलिकत्वप्रदर्शनमेवाभिप्रैति । एवं सति तल्लेखनीतोऽप्युत्सर्पिण्यवसर्पिणीनिग्रन्थ्यादितादात्विकलोकप्रसिद्धशब्दविशेषाणामन्त्रानुप्रवेशनं च सम्भवति, इत्येवं स्थालीपुलाकदृशा नामैकदेशसाम्यमात्रेण आत्रेयोऽपि स एव, वृद्धजीवकोऽपि बौद्धग्रन्थोक्तः प्रसिद्धो भिषग्जीवक एवेति बलादैक्यमभ्युपगम्येत, तदाऽपि आत्रेयस्य जीवकस्यापि बुद्धसमयएवायाति । न तु ततोऽपि पश्चात्कालः । इतोऽपि २६०० वर्षेभ्योऽनर्वाक्तनत्वमेव सिद्ध्यति ॥

बुद्धसामयिकेन जीवकेनापि शल्यप्रक्रियया नानाविधैरसाधारणौषधप्रयोगैश्च सुयशस्विना उभाभ्यां हस्ताभ्यामुभे प्रस्थानेसमकक्षयामुद्गमय्य तदात्वे परां प्रौढिमारूढे प्रदर्शिते । सद्गुरूपदेशाध्ययनबलोपजाततयाऽध्ययनाध्यापनप्रणालीगौरवस्यानुसन्धेयतया तदात्वे प्रचारवशेन परःशतानां व्यक्तन्तराणामपि तारतम्यभाजामायुर्वेदविद्याविदां विशेषतः सम्भवेन कायचिकित्सायां शल्यप्रस्थाने च स समयः आयुर्वेदविद्यारसयानेन पूर्णयौवनारूढोऽवगम्यते ॥

आत्रेयशिष्यतया कीर्तितेन जीवकेन कायचिकित्साविज्ञानाय चरकसंहितायाः पूर्वाप्रतिसंस्कृतावस्थारूपाऽऽत्रेयसंहितैव, शल्यप्रस्थाने विज्ञानाय आत्रेयसंहितायामपि संमानदृशा धन्वन्तरेरुल्लेखेन पुराकालादसाधारण्येन प्रसिद्धा सुश्रुतसंहिता तत्पूर्वावस्थारूपा धन्वन्तरिसंहिता वाऽधीता स्यादिति तदीयेतिवृत्तगतक्रियाकौशलफलबलकल्पनीयमेव । स एवान्यो वाऽस्तु जीवकः, तेन बालतन्त्रपरिज्ञानायापि तदात्वे प्रसिद्धकाश्यपसंहितैवोपात्ता स्यात्, आयुर्वेदीयपरम्परागतानि तदात्वे उपलब्धानि आश्विनभारद्वाजादिसंहितान्तराणि च विशेषविज्ञानायावलम्बनानि भवेयुः । तदात्वे उपस्थितानीदृशानार्षग्रन्थान् परित्यज्य ग्रन्थान्तराणां, पूर्वसमये प्रसिद्धानितिहासतोऽपिसंवादिन आत्रेयादीनाचार्यान् विहाय अनुपस्थितेभ्यो वैदेशिकादिभ्य आचार्यन्तरेभ्यो वाऽध्ययनं कल्पयितुं न किमपि प्रमाणमवलम्ब्यते । यदि तथाऽभविष्यत्तदा आत्रेयमुल्लिखत्सु तिब्बतीयकथाजातकादिग्रन्थेषु तथाऽप्युदलेखिष्यत ॥

पुरा समयादेव विद्यासम्प्रदायोज्ज्वले भारतीये पश्चिमविभागे तक्षशिलापरिसरप्रदेशो बुद्धसमयात् पूर्वतः पाणिनिव्याडिसदृशैरन्यैरपि परःशतैर्वेदवेदाङ्गादितत्तद्विषयाचार्यैर्वैद्याचार्यैश्च सुप्रतिष्ठित आसीदिति विदितमेव । एतद्विषये राइस डेविडमहोदयमतमिति भारती¹मासिकपत्रिकायां तक्षशिलाविश्वविद्यालये आयुर्वेदधनुर्वेदगान्धर्वविद्याऽर्थशास्त्ररसायनधर्मशास्त्रप्रभृतीनां बहुविधानां विद्यानामध्ययनाध्यापनप्रवृत्तिः, विशेषत आयुर्वेदशास्त्रस्य चर्चाबाहुल्यं चासीत् । तत्र विश्वविद्यालये बेब्लोनियन—मिशर—फिनीशियन्—सीरियन्—अरब—चीनप्रभृतिदेशपण्डिता अपि बहवो वैद्यशिक्षासम्बन्धमुद्दिश्य समवेता अवर्तन्तेति तदीयो महिमा साधूपवर्णितः, किन्तु तेनैवमुपवर्णयता तत्समये ग्रीसभिषजोऽपि आयुर्वेदशिक्षायै तक्षशिलायामागच्छन्त आसन्, तत्रैव जीवकोऽपि गत्वाऽऽयुर्वेदशास्त्रमपठदिति च यदुल्लिखितं तत् पश्चात्तनं बौद्धधर्मप्रसरणकालमुपादाय निर्दिष्टं स्यात् । जातकग्रन्थेष्वपि तक्षशिलाविद्यालये भारतीयतत्तद्देशागतविद्यार्थिभिर्भारतीयाध्यापकेभ्यो भारतीयपूर्वसम्प्रदायग्रन्थानां स्मृत्यायुर्वेदधनुर्वेदार्थशास्त्रादीनामेवाध्ययनमुल्लिखितं दृश्यते, आत्रेयाज्जीवकस्याध्ययनसमयस्तु प्राक्तनः जीवकाध्ययनसम्बन्धिनः पश्चात्तनबौद्धसामयिकस्य च विषयस्यैकसूत्रे संग्रथनं भ्रममुत्पादयति । महावग्गीयजीवकाध्ययनसमये मगधेऽपि बौद्धधर्मस्य प्रारम्भिकव्यवस्थाजाताऽऽसीत् । बुद्धस्येतिवृत्ततोऽपि तत्समये मगध-साकेतकपिलवस्त्वादिषु सन्निकृष्टदेशेष्वेव तदीयः


१. भारती वर्ष ४८. पृ. ७०४.

उपोद्घातः ११३

प्रभावोऽवगम्यते । मज्झिमनिकायप्रभृतिपालीत्रिपिटकग्रन्थानामनुसन्धाने यमुनायाः पश्चिमदिग्भागे बुद्धस्य गमनं धर्मप्रचारणं च नोपलभ्यते। तक्षशिलायाः परिचयं दधानो महावग्गलेखोऽपि तत्प्रदेशे बौद्धधर्मप्रभावं नानुदर्शयति । अलेक्जेण्डरागमनसमयेऽपि नृपान्तराधिष्ठिते तक्षशिलाप्रदेशे बौद्धधर्मप्रभावो नावगम्यते । पश्चादशोकनृपतेः समये मिलिन्देन बौद्धधर्मग्रहणोत्तरं वा तत्र बौद्धधर्मप्रचारेण तक्षशिलाविश्वविद्यालयेऽपि तत्प्रभावः समुन्मिमेष, यदि नाम ग्रीकवैद्यानां तत्रोपगमः स्यात् तर्हि पश्चात्तन बौद्धप्रभावप्रसरणसमय एव सम्भवेत् । बुद्धसामयिकस्य जीवकस्याध्ययनसमये तु जन्मनाऽप्यलब्धसत्ताकस्य ग्रीकवैद्यकप्रथमजनकस्य हिपोक्रिटसस्याप्यागमनमपि न सङ्गच्छते, नतरां तदितरेशामन्येषामप्यध्यापकत्वम् । तदात्वे ग्रीकवैद्यविद्यासुगन्धलब्धये भारतीयानां यवनदेशोपगमस्य, अत्रोपगतैः प्राचीनयवनैर्भारतीयवैद्यके अतिशयाधानस्य कस्यापि ग्रीकवैद्यकस्य भारतेऽध्यापकत्वस्य वा वृत्तं भारतीये ग्रीसीये वा इतिहासे न किमपि लभ्यते । राजदौत्यमादाय भारते समागतेन स्वयं ग्रीसवैद्येन मेगस्थनीजेन ग्रीकवैद्यानां यवनानां भारते अध्यापकत्वस्य प्रभावस्य चानुल्लेखेन, प्रत्युत चन्द्रगुप्तराज्ये वर्तमानानां वैदेशिकजनानाममयवित्त्वे आरोग्यसम्पादनाय भारतीयवैद्यानां नियोजनस्य व्यवस्थाया उल्लेखेन¹ तदात्वे भारते भेषज्यविद्याया भारतीयवैद्यहस्तगतत्वं वैदेशिकानां लेशतोऽप्यप्रभावश्च स्पष्टमवगम्यते ।।

हिपोक्रिटस सम्बन्धी विमर्शः

पाश्चात्त्यग्रीकवैद्यके प्राधान्येनाचार्यपदं हिपोक्रिटसस्य निर्दिष्टमस्ति । तस्य जन्म कास²-(Cos) स्थाने B. C. 460 मतान्तरेण ४५० संवत्सरे बभूव । अनेन पितुः Heraclides सकाशात्, Herodicus सकाशाच्चाधीतम् । स विद्यासम्पत्तये दूरदेशानप्युपजगाम । ८५ तः ११० वर्षपर्यन्ते तदीये जीवनावधौ मतभेदोऽस्ति । हिपोक्रिटसो भेषज्यविषयाध्यापनवृत्तिमानासीदिति प्रोटागोरस (Protagoras) ग्रन्थे, दर्शनविषये फेड्रस (Phaedrus) ग्रन्थे च प्लेटो (Plato B. C. 428-348) ³नामकेन विदुषा द्विवारमस्य नाम गृहीतमस्ति । तिमियस (Timaeus) नामके इन्द्रियविज्ञानविषयके ग्रन्थे तेन नाम न गृहीतम् । अरिष्टाटल (Aristotle B. C. 384-322) विदुषा स्वीये नैतिकग्रन्थे सकृदेवास्य नाम गृहीतं दृश्यते । एतद्दर्शनेन हिपोक्रिटसो⁴ भेषज्यविद्याध्यापनवृत्तिमान् विद्वानासीदिति समर्थितं भवति । ग्रीसेतिहासलेखकेन हिरोडोटसेन (Herodotus B. C. 484-425) पाथागोरसादीनां विदुषामुल्लेखेऽपि स्वोत्तरवयसि वर्तमानस्यास्य अनिर्देशेन तावत्पर्यन्तं न तथा प्रसिद्धिरवगम्यते । कासस्थानीयपूर्ववृत्तगवेषकेण हरजोगेन⁵ (Herzog) कासस्थानीये बहुलेखेऽप्यस्य विषये उदासितं दृश्यन्ते । अन्यत्र प्राचीनग्रन्थेष्वप्यस्य विशेषनिर्देशो न दृश्यते ।।


१. Among the Indian officers are appointed even for foreigners, whose duty is to see that no foreigner is wronged. Should any of them lose his health, they send physicians to attend him, and take care of him otherwise. P. 42 M. 'Crindle's Megasthenes and Arrian.

२. From the ancient biographies of Hippocrates by Suidas, by Tzetzes and by Soranus, we gather that Hippocrates was born in Cos in 460 B. C. Hippocrates Vol. I P. XLII.

३. The former passage (Protagoras) tells us that Hippocrates was a Coan and an Asclepiad and a professional trainer of medical students. This passage (in Protagoras) tells us little except that Hippocrates took pupils for a fee. Plato's Protagoras 311 B. C. Hippocrates Vol. I P. XXXIII. See also Plato's Phaedrus. Ibid Vol. I P. XLIII.

४. From Aristotle we learn that Hippocrates was already known as 'the great Hippocrates' Ibid Vol. I. P. XLIV.

५. Herzog's untiring researches in Cos have not yielded a single fact regarding him (Hippocrates). E. R. E. Vol. VI P. 544 E. Thramer.

११४ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

B. C. 427 आरम्भ B. C. 400 समयान्नातिपश्चात् स्यादनेन ग्रन्थसंपादनं कृतमिति Galen (C. 130-200 A.D.) महाशयस्य^१ मतम्, B. C. 430 आरभ्य 420 पर्यन्तमिति Littre महाशयस्य^२ मतम्, छन्दोव्याकरणलेखशैलीनामनुसन्धाने अलेक्जेण्डरादनन्तरं हिपोक्रिटसग्रन्थस्य B. C. 300 समये रचनेति कस्यचन^३ मतं वर्तते। तन्नाम्ना बहवो ग्रन्था दृश्यन्ते, तेषु परस्परविरोधलेखशैलीभेदाद्दर्शनेन सर्वे हिपोक्रिटसीया इति पूर्णतया विश्वस्य कथयितुं न शक्यते इति थ्रेमर (E. Thra-mer) महाशयेन^४; केषाञ्चित्तदीयत्वेऽपि सर्वे न तदीयाः किन्तु तद्वंश्यैस्तदन्तेवासिभिस्तदनुयायिभिश्च लिखिता बहवः सन्तीति ड्रेपर (Draper) महाशयेन^५; P. C. रायमहाशयेनः अन्यैरपि च लिखितं वर्तते। हिपोक्रिटसात् पूर्वतनस्य डेमोकेडिसस्य^६ ग्रन्थोऽपि हिपोक्रिटस ग्रन्थेषु प्रविष्ट इत्यप्युपलभ्यते। तत्र एफारिजनामको ग्रन्थो डाइक्लिसविदुषा, आर्टिक्युलेशननामको ग्रन्थः टेरियिसविदुषा, द्वित्रा अन्ये ग्रन्था मेननविदुषा पूर्वं विज्ञाता आसन्। नेचर ऑफ मॅन नामको ग्रन्थः अरिष्टाटलविदुषा^७ विज्ञात आसीत्, सोऽपि पालिवसस्य तं ग्रन्थं जानाति। 'हिपोक्रिटसस्य स्वलेखमयोऽमुको ग्रन्थ इति निश्चयेन वक्तुं न शक्यते, ईदृशः कोऽपि ग्रन्थो नास्ति यो भेषज्यपितृपदारूढस्य रचनेति वक्तुं शक्येत। तदीयनाम्ना प्रसिद्धानां ग्रन्थानां सङ्ग्रहे उपशतं ग्रन्था वर्तन्ते, येषु परस्परं विभिन्ना विरुद्धाश्च विचारा दृश्यन्ते। विभिन्न-सांप्रदायिकैर्ग्रीसराष्ट्रीयविभिन्नस्थानीयैर्विभिन्नकालिकैश्च विद्वद्भिर्निर्मितानां नानाग्रन्थानामसौ सङ्ग्रहो ज्ञायते, येषां मिथः षट्शताब्दीपर्यन्तमपि समयान्तरमस्ति^८। केचन ग्रन्थास्तु


१. The style of a treatise is sometimes a sure test and sometimes not. Sophistic rhetoric is of such a marked character in its most pronounced form that a treatise showing it is not likely to be much earlier than 427 B. C. nor much later than 400 B. C. when sophistic extravagances began to be modified under the influence of the Attic orators. Hippocrates Vol. I, Introduction P. XXXII.

२. All this evidence tends to fix the date as approximately 430-420 B. C., and to suggest as the writer either Hippocrates or a very capable supporter of the medical school of which Hippocrates was a contemporary member. Hippocrates Vol. I, P. V.

३. In some respects grammar and diction are the surest tests of all. If the negative Un' markedly ousting ov' it is sure sign of Post Alexandrine (the hers of which was Alexander the Great) date. There is also a subtle quality about writings later than 300 B. C. an unnatural verbosity and tortuousness of expression, a suspicion of 'the baboo' that is as unmistakable as it is impalpable. A few of the Hippocratic treatises display this characteristic. Hippocrates Vol I, Introduction P. XXXII.

४. The Corpus Hippokr. contains over seventy treatises, but none of them can be with absolute confidence ascribed to the master (Hippocrates), while many are not the products of his school. E. R. E. Vol. VI P. 543 E. Thramer.

५. Of the works attributed to Hippocrates, many are doubtless the production of his family, his descendants, or his pupils. Draper-P. C. Ray History of Hindu Chemistry Vol. I P. XVIII.

६. But he (Demokedes) can hardly have lived to see the birth of Hippocrates, in whose time the most important of the treatises here translated were composed. Hippocrates Vol. III P. XVI.

७. Hippocrates Vol. I. P. XXVIII.

८. To the question ‘Which of these works is of Hippocrates’ ? no definite answer can be given. There is no work which we can state with confidence to be by Father of Medicine. The books of the collection, of which there are about 100, are by a number of authors of different schools, holding various and often contradictory views, living in widely separate parts of the Greek world and writing at dates separated, in extreme cases, by perhaps five or six centuries. E. B. Vol. XV P. 198.

उपोद्घातः १९५

रोमदेशे A.D. तृ$^{१}$तीयशताब्दीपर्यन्तं निष्पन्ना अप्यत्र प्रविष्टाः सन्ति' इति E. B. आङ्गलवृहत्कोशेऽस्ति । हिपोक्रिट्सस्तु महानित्युच्यते, विनैव ग्रन्थनिर्माणमस्य नाम प्रचलितमिति विलामाविजस्य$^{२}$ (Wilamowitz) मतम् । अरिष्टाटलात् प्राक् कार्पस-(Corpus) नामके ग्रन्थसङ्ग्रहे हिपोक्रिट्सीयलेखस्योद्धारदर्शनेन हिपोक्रिट्सनाम्ना प्रसिद्धानां ग्रन्थानां कर्ता न हिपोक्रिट्सः, अपि तु पालिबस-(Polybus) नामकोऽन्य एव विद्वानित्यपि मतं हिपोक्रिट्सीयग्रन्थानुवादभूमिका$^{३}$यां दृश्यते । 'प्राचीनानामपि ग्रन्थानां कालवशेन पाठविशेषावापोद्वापसंस्करणपरिवर्धनादिभिर्बहुशो विकार उपजातः' इत्यादीनि पाश्चात्त्यविदुषामन्येषां चान्यान्यपि मतानि वर्तन्ते । ते चोपशतं हिपोक्रिट्सनाम्ना प्रसिद्धा ग्रन्थाः प्रायश एकैकविषयप्रकरणरूपा लघवो दृश्यन्ते । A. D. 130-200 समये ग्लालन्-(Galen) नाम्ना विदुषा हिपोक्रिट्सनाम्ना प्रसिद्धानां कतिपयग्रन्थानां विवरणं विहितमस्ति । तेनापि हिपोक्रिट्सनाम्ना प्रसिद्धा ग्रन्था रूपान्तरितावस्थायामलभ्य$^{४}$न्त । लब्धेषु ग्रन्थेष्वपि बहवो ग्रन्था एशियामाइनरप्रदेशात्, एकद्वा ग्रन्थाः ·सिसलीप्रदेशात् प्राप्ता इति दर्शनेन तद्ग्रन्थस्य पुरातनग्रीसराज्येऽनुपलम्भः, अवस्थान्तरितस्योपलम्भश्चावबुध्यते । यदि तन्नाम्ना दृश्यमानाः सर्वे ग्रन्थास्तदीयास्तादात्विकाश्चाभविष्यन्, एतदीयग्रन्थानां ग्रीसे तदीयसमयादेवातिशयेन प्रचारश्चाभविष्यत्, तदा प्लेटोऽरिष्टाटलाभ्यां भैषज्याध्यापनविषये आध्यात्मिकविषये चास्य नामसङ्कीर्तनमिव प्लेटोकृते तिमियसग्रन्थे ग्रीसीयप्राचीनविद्वदन्तरग्रन्थेष्वपि तदीयभैषज्यग्रन्थप्रचारसम्बन्धमादाय बहुश उल्लेखा अवश्यमलप्स्यन्त । भैषज्यपितृपदे प्रतिष्ठितस्य हिपोक्रिट्सस्य स्वदेश एव सम्प्रदायप्रचारे विशेषतो जागरूकै तत्पश्चाद्भवैवा भैषज्यविद्याविशेषलब्धये मिश्रदेशं नानुधाविष्यन्त च । हिपोक्रिट्ससमयोत्तरं B. C. 382-364 वत्सराभ्यन्तरे यूडाक्सस (Eudoxas) नाम्ना मिश्रदेशं गत्वा पञ्चदशमासपर्यन्तं हेलियोपोलिस-स्थानीयभिषक्पुरोहितसकाशाद्वैषज्यविद्याया अध्ययनमितिहासे लभ्य$^{५}$ते । पूर्वकाल इवोत्तरकालेऽपि ग्रीसजनानां भैषज्यविद्याध्ययनाय मिश्रे उपगमनं तावत्पर्यन्तमपि ग्रीसे मिश्रप्रभावपातञ्च वर्णयन्ति ।

स्वसम्प्रदायप्रचाराय स्यात् स्नीडस (Cnidos) स्थानस्य मतान्तरेण कास-(Cos) स्थानस्यापि हिपोक्रिटसेन पूर्वपुस्तकालयस्य ज्वालनं कृतमित्यभियोगेन, इतस्ततोऽपि विद्याविवर्धनहेतोर्वा हिपोक्रिटसस्य यौवन एव वयसि स्वस्थानं


१. Of later works, some of the more recent, dating from the time of the Empire, were probably mostly written in Rome and may be as late as 300 A. D. E. B. Vol. XI P. 584. २. Such is the ancient account of Hippocrates, a name without writings as Wilamowitz says. Hippocrates Vol. I P. XLIV. ३. There is no quotation from any treatise in the Corpus before Aristotle and he assigns as the author not as Hippocrates but Polybus. In fact the connexion between the great physician and the collection of writing which bears his name cannot with any confidence be carried further back than Ctesias the Cnidian, Diocles of Carystus and Menon. Ctesias and Diocles belong to the earlier half of the 4th centusy and Menon a disciple of Aristotle. Hippocrates Vol. I, Introduction P. XLIV. ४. (a) But dubious in its origin as was the collection, it had not remained intact even between the time when first put together and the time of Galen. E. B. Vol. XI P. 584. (b) of these (the Hippocratic collection) the very earliest ....... come from the shores of Asia Minor, one or two possibly from Sicily. E. B. Vol. XI P. 584. ५. E. R. E. Vol VI P. 541 E. Thramer.

११६ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

परित्यज्य स्थानान्तरगमनवृत्तं चोपल१भ्यते । सोऽयं तस्य स्थानत्यागो मुख्ये तदीयस्थाने प्रचारसौकर्यं व्याघट्टयेन्नाम । तदात्वे मुद्रणकलाद्यभावेनाऽद्यत्व इव तत्प्रक्रियया झटिति प्रचारसौकर्यसाधनं नासीत् । बहुशः प्रतीकलेखानामितस्तत उपलब्धोऽध्ययनाध्यापनबाहुल्याञ्च पौर्वकालिकं प्रचारविशेषमभिव्यनक्ति । ग्रीसे अलेक्जेन्ड्रियायां वा तत्प्रचारविशेषः कार्पससङ्ग्रहो वा पूर्वमुपजातो वर्तमानो वा यद्यभविष्यत्, तदा ग्यालनदृष्टेर्बहिर्भावो नाभविष्यत्, एशियामाइनर-सिसलीप्रदेशात एव उपलम्भप्रयासोऽपि तस्य नाभविष्यत् । एव२मेव लिट्रे (Littre) महाशयोऽपि ब्रवीति । ग्रीसाद्वहिर्मिश्रदेशे B. C. तृतीयशताब्दीभवेन इन्ड्रीयस-(Andreas) विदुषा, रोमदेशे B. C. प्रथमशताब्दीभवेन एस्क्लिपियाडिस (Asclepiades) विदुषा हिपोक्रिटसवि३रुद्धतया परिशीलनं कृतमवगम्यते । कासस्थले हिपोक्रिटससाम्प्रदायिकपुस्तकालयावस्थितेः प्रमाणमपि नोपलभ्यते इति लिट्रे महाशयैरुच्यते । शतत्रिशतवर्षाभ्यन्तरे कार्पस संग्रह इति लिट्रे४ महाशयोक्त्या ग्यालनीयव्याख्यानोत्तरं स संग्रहो जातः स्यादिति सम्भाव्यते । तेन रूपान्तरितावस्थायामितस्ततो वर्तमानानां तन्नाम्ना व्यवहृतानां ग्रन्थानां ग्यालनेन यावदुपलम्भं संकलनेन, कतिपयग्रन्थानां व्याख्यानेन, उत्तरोत्तरं देशदेशान्तरविज्ञानालोकलब्ध्या तृतीयशताब्दीपर्यन्तं नवोपजातानां ग्रन्थानामपि तत्र प्रवेशनेन, नवोदितरोमसाम्राज्यावलम्बलाभेन, A. D. सप्तमशताब्द्यां लेटिन५ भाषायामप्यनुवादेन, यूरोपीयकतिपयदेशेष्वप्येतत्संप्रदायप्रसरणेन च पश्चात्काले यथा तन्नाम्ना प्रसिद्धानां ग्रन्थानां विशेषतः प्रचारो, न तथा पूर्वकाले ग्रीसे बभूवेत्यत्र मनः प्रवणीभवति ॥

ग्यालसमयपर्यन्तमपि पौरस्त्येषु असीरिया-पर्सिया-वेव्लोनियादिदूरदेशेषु तद्ग्रन्थोऽपलब्ध्यदर्शनेन तत्रापि पदन्यासम्दर्शयन्ती हिपोक्रिटसीया विद्या मण्डूकप्लुप्त्या पूर्वं भारते पादन्यासं कृतवती स्यादिति कल्पयितुं मनः सङ्कुचति ॥

ग्रीसभारतीयवैद्यकयोः प्रायिको विषयसंवादः

हिपोक्रिटसवैद्यकलेखे निदानेषु ज्वरादिरोगेषु भैषज्यप्रक्रियासु भेषजेषु चैवमनेकविषयेषु भारतीयायुर्वेदवैद्यकस्य साम्यं कीथ६-म्याकडोलनप्रभृतयो महाशयाः प्रतिपादयन्ति । अस्मद्दृष्टावपि बहुशः साम्यं प्रतीयते । भारतीयग्रन्थेषु


१. (a) It would thus seem certain that he (Hippocrates) left the island for ever at an early age. The Vita gives three distinct reasons for this: (1) an injunction intimated in a dream (Soranos); (2) his desire to widen the horizon of his medical knowledge; (3) his being accused of burning the Cnidian library. E. R. E, Vol, VI P. 544, E. Thramer.
(b) The ancient biographies of Hippocrates relate a fable that he destroyed the library of the Temple of Health at Cnidos (or, according to another form of the fable, at Cos) in order to enjoy the monopoly of the knowledge it contained.
Hippocrates Vol. I P. XXIX.
२. Hippocrates Vol. I P. XXVIII.
३. Among his detractors were Anrdeas of Carystus, who practised in Egypt at the end of the 3rd Cen. B. C., and Asclepiades of Bithynia, who practised in Rome in Ist Cen. B. C. The works of neither of them have survived. E. B. Vol. XI P. 584.
४. Hippocrates Vol. I Pp. XXVIII-XXIX.
५. Our earliest manuscript of a translation is of the 7th Century A. D., and is a Latin version of the obviously spurious Dynamidia. E.B. Vol. XI P. 584.
६. The striking similarty in many points between the Greek and the Indian medical systems has long been well known. We find in both such things as the doctrine of humours, whose derangement explains disease, the three stages of fever and other disorders which correspond to the Greek triad of aveyia ne yes and kpiois; the division of means of healing into hot and cold, or

उपोद्घातः ११७

रोगादीनामुत्पत्तिनिवृत्त्योरिष्टानां चानुसन्धानाय स्वप्नाध्यायः प्रवर्तते । असीरिया-बेब्लोनिया-प्रदेशेष्वपि असुरवनिपालनृपस्य (B. C. 668-626), यस्य नाम असुराव्रनिपाल इति संस्कृतशब्दवद्भासते, तस्य समये तत्रापि स्वप्नविचारसंस्था प्रवृत्ताऽऽसीत् । तादृश एव विचारो ग्रीसदर्शनेऽपि प्राक्प्रतिफलितः हिपोक्रिटसीयलेखेऽपि दृश्यमानः B. C. चतुर्थशताब्दीपर्यन्तमपि वर्तमानः पश्चाद्विल्लयमवा$^१$पेत्युल्लिख्यते । भारतीयायुर्वेद रुद्रकोपादितो जनमारादिरोगप्रादुर्भावो वर्ण्यते । एवंविध एव दैवकोपतो रोगाद्युत्पत्तेः प्राचीनविचारो ग्रीसदेशे आसीदिति होमरलेखतः प्रतीयते । हिपोक्रिटसपूर्वपुरुषस्य एस्क्लपियस (Asclepios) स्याप्येवमेव विचार आसीत् ॥

एवं भारते यथा प्राचीनवैद्यकविद्या दार्शनिकविषयसंपृक्ताऽऽसीत्, तथैव ग्रीसदेशेऽपि हिपोक्रिटसतः पूर्वं शतवर्षाभ्यन्तरे प्रवर्तमाना भैषज्यविद्या दार्शनिकविषयसंबद्धाऽऽसीदिति वर्ण्यते । ततो दार्शनिकविषयादीन्$^२$पाकृत्य केवलया भैषज्यविद्याया नवोद्भावनं हिपोक्रिटसेन विहितमित्युल्लिख्यते । तेन प्राचीनदेशेषु भारतीयपूर्वस्रोतःसाम्यवत्सु स्रोतःसु ग्रीसेऽपि तच्छाद्यस्रोतःसु विद्यमानेषु पश्चाद् ग्रीसदेशे प्राचीनस्रोतांसां विपर्यासेन हिपोक्रिटससमये नवस्वरूपोदयोऽवगम्यते । हिपोक्रिटसेन नवोद्भावितस्य वैद्यकविज्ञानस्य प्रभावो भारतेऽपतिष्यत्, तदा तद्देव दार्शनिकादिप्राचीनस्रोतोविषयवर्जिताया एव भैषज्यविद्याया भारते दर्शनमभविष्यत् । हिपोक्रिटसेन नवोद्भाविता विषयविशेषास्तदीयशब्दच्छायादयोऽप्यनुप्रविष्टाअद्रक्ष्यन्त, नहीयं तथात्वेनोपलभ्यते । भारतीया भैषज्यविद्या दार्शनिकविषयादिसंपृक्तत्वेन प्रवर्तमानाऽद्यापि तथैवास्ते । भारतीयादिप्राचीनपरम्परागतविषयाणां हिपोक्रिटसवैद्यके अपोद्धारदर्शनं प्रत्युत भारतीयवैद्यकप्रतिष्ठोत्तरमेव हिपोक्रिटसवैद्यकोदयमवगमयितुं प्रभवति ॥


cold, or dry and oily; the healing of disease by remedies of opposing character; The insistence in the manner of Hippocrates on prognosis; the oath exacted from doctors and the rules of etiquette and professional conduct declared to be incumbent on healers. There are also many detailed correspondences; both systems emphasize the influence of the seasons on health, and contray to Indian feeling we have in some cases insistence on the use of strong drink as a remedy. Quotidian, tertian, and quartan-fevers are noted, consumption is prominently dealt with, while little account comparatively is taken of affections of the heart. There are also similarities in regard to embryology; the doctrine of the simultaneous development of the members is held, the connexion of the male sex with right side is noted, and a like cause is given for the production of twins-the viability of an eighth month foetus is asserted, that of a seventh-month is denied; there is similarity in regard to the removal of a dead foetus. In surgery there is similarity is the operation for stone, in modes of dealing with haemorrhoids, in blood-letting, in the use of leeches, including according to Suśruta those from Greece, cauteries, many surgical instruments, and the use of the left hand to deal with the right eye in ophthalmology. It must however be confessed that it is very difficult to determine how much is due to Greek influence and how much is merely parallel development. The doctrine of the three humours' which at first sight might be held to be definitely Greek, is in close connexion with the Sāṁkhya system of the three Gunas or constituents, moreover, one of the humours, wind, is already known in the Atharvaveda, and the Kaus i ksutra is alleged by the comment, perhaps with justification, to have recognized the doctrine of three, wind, bile, and phlegm. History of Sanskrit Literature P. 513 by A. B. Keith.

१. E. R. E. Vol. VI P. 542 E. Thramer.
२. The Roman Celsus in his preface (Hippocrates) asserts that Hippocrates separated medicine from Philosophy.
Hippocrates Vol. I P. XV; E. B. Vol. XI P. 584.

१९८काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

शारीरमूलतत्त्वानि कफवातपित्तानि ग्रीसवैद्यकाद्भारते उपा¹तानीत्यपि वक्तुं न शक्यते। पाश्चात्त्या विद्वांसो ग्रीसोपज्ञं त्रिधातुवाद इत्यत्र न व्यवतिष्ठन्ते, मिश्रदेशीयमेतूसम्प्र²दायतो गृहीत इत्यन्यन्मूलं प्रदर्शयन्ति। भारतीयायुर्वेदविषयके विमर्शे कीथमहाशयोक्तेः पर्यालोचने तत्र नैतिकोक्तिविशेषाणां दर्शनेऽपि उपक्रमोपसंहारदृशा तदीयप्रघट्टकार्थग्रहणे ग्रीसवैद्यकाद्भारतीयवैद्यकस्य प्राग्भावे मूलभावे च तेषामपि हृदयस्य प्रवणीभाव इव प्रतिभाति। अतिपूर्वकालं प्रति दृष्टिदाने तु त्रिनोंअश्विनेति आश्विनसूक्तगते ऋङ्मन्त्रे त्रिधातु³शब्देन वातपित्तश्लेष्मधातुत्रयमुपादाय तच्छमनजन्यसुखप्राप्तेः प्रार्थनायाउपलभ्भेन, अथर्ववेदे वलास (कफ) रोग-निदानचिकित्सादेः (६. १४. १-३), पित्तस्य (१. २४. १, १८. ३. ५), भेषजत्वेन व्याधिनिदानत्वेन च वातस्य (४. १३. २), वरुणपुत्रार्चिः शोचिरादिशब्दविशेषैः श्लेष्मवातपित्तज्वराणां च निर्देशदर्शनेन भारतीये वैद्यके श्लेष्मवातपित्तरूपत्रिधातुवादो वेदकालादेवानुवृत्तो निश्चीयते। कौशि⁴कसूत्रेऽपि त्रिदोषोल्लेखोऽस्ति इति कीथमहाशयो वदति। महाभारतेऽपि तदुल्लेखो लभ्य⁵ते। शारीराणि कफवातपित्तानि नाम कानि तत्त्वानीत्यत्र श्रीमत्प्यु⁶भृतीनां बहूनां विदुषां मतविशेषा दृश्यन्त इति त्वन्यदेतत्। परं यथा तथा वा भवतु त्रिधातुवादः प्राचीनो भारतीय एव। तदेवं वैदिकादतिपूर्वकालात् परम्परयाऽनुवर्तमानस्य त्रिदोषवादस्य ग्रीसतो भारते प्रतिफलनोक्तिर्न यौक्तिकी भवति। यदा भारतीयं वैद्यकविज्ञानं प्रादुर्बभूव, तदैव सोमसूर्यानिलानामिव विस⁷र्गादानविक्षेपकार्यसंपादकतया शरीरान्तस्तत्त्वानां श्लेष्मवातपित्तानामपि विज्ञानमुदियाय। भारतीयमिदं प्राचीनविज्ञानं विज्ञानान्तरैः सह देशान्तरेऽपि प्रसर्तुं पारयत्येव। त्रिधातुवादो भारतीय एव, तत एव हिपोक्रिटसेन गृहीत इति J. J. मोदीम⁸हाशयेन निरूपितमस्ति॥


१. The doctrine of three humours which at first sight might be held definitely to be Greek.
Hist. of Sans. Lit. by Keith P. 513.

२. The Egyptian doctrine of Metu survives in the Greek theory of humours.
E. R. E. Vol. VI P. 541.

३. त्रिनों अश्विना दिव्यानिभेषजात्रिः पार्थिवानि त्रिरुदत्तमद्भ्यः।
ओमानं शंयोर्ममकाय सूनवे त्रिधातु शर्म वहतं शुभस्पती॥ ऋग्वेद १/३४/६
सायणः—हे अश्विना अस्मभ्यं दिव्यानि द्युलोकवर्तीनि भेषजा औषधानि त्रिर्दत्तम्। तथा पार्थिवानि पृथिव्यामुत्पन्नान्यौषधानि त्रिर्दत्तम्। अद्भ्य उ अन्तरिक्षसकाशादप्यौषधानि त्रिर्दत्तम्। .... शंयोरेतन्नामकस्य बृहस्पतिपुत्रस्य .... सम्बन्धिनमोमानं सुखविशेषं ममकाय सूनवे मदीयाय पुत्राय दत्तम्। हे शुभस्पती शोभनस्यौषधजातस्य पालकौ युवां त्रिधातु वातपित्तश्लेष्मधातुत्रयशमनविषयं सुखं वहतं प्रापयतम्॥

४. History of Sanskrit Literature P. 514 Keith.

५. अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत। शरीरस्य यथा राजन् वातपित्तकफैस्त्रिभिः। महाभारते ६/८१/४१

६. They (humours) are Vāyu, nerve force; Pitta, metabolism and heat production; and Kapha which presides over heat regulation, and Mucuous and Glandular Secretions.
The Antiquity of Hindu Medicine—David C. Muthu P. 21.

७. विसर्गादानविक्षेपैः सोमसूर्यानिला यथा। धारयन्ति जगद्देहं कफपित्तानिलास्तथा॥ (आयुर्वेदांची मूलतत्वे)

८. This pituita, i. e., Bile is the Pitta of the Old Indian Medicine. Now it is a well-known fact that the Indian Medicine is woven round the theory of the three humours of the body viz, Vayu, Pitta and kapha; and that this theory was borrowed by Hippocrates, the originator of Western Medicine, for his explanation of diseases.
Fourth All-Indian Oriental Conference.
Vol. II P. 428.

उपोद्घातः ११९

पाञ्चभौतिकवादो भारतीयः प्राचीनः। आयुर्वेदेऽपि आत्रेय-धन्वन्तरि-कश्यपादिभिः पञ्चभूतात्मकत्वं शरीरस्य प्रदर्शितमस्ति। येन समुदितानामेषां चेतनाविकलितत्वेनावस्थानमुपादाय मृत्योः पञ्च¹ताशब्देनापि व्यवहारोऽस्ति। पञ्चभूतेष्वाकाशतत्त्वं पृथगनभिसन्धाय चतुर्भूतमात्रवादो लोकायतादिमतेषु प्राचीनभारतेऽपि गृहीतो दृश्यते। हिपोक्रिट्²सेन चातुर्भौतिकत्ववादं पूर्वैरभ्युपगतमेकीय रूपेणोपादाय तत्र स्वस्यानभिरुचिः प्रदर्शिताऽस्ति। ग्रीसदेशे एष चतुर्भूतवादः एम्पिडोक्लिसनेन (Empedocles 495-435 B. C.) प्रथममुद्भावित इति धार्मिकेति³हासे लभ्यते। तस्य एम्पिडोक्लिसस्य ईरानभारतोपकण्ठादिपूर्वदेशागमनं, ततो दार्शनिकविषयपरिज्ञानं, ग्रीसदेशे दार्शनिकविषयप्रचारणं च ल⁴भ्यते। तमिममेम्पिडोक्लिससेनाभ्युपगतं पूर्ववादं प्रतिक्षिपते हिपोक्रिटसस्य हृदये भारतीयः स प्राचीनः सिद्धान्तः साक्षात् परम्परया वा स्फुरित उपलक्ष्यते। पञ्चभूतेष्वस्तस्त्रैकं भूतमपास्य चतुर्भूतेभ्यः शरीरोत्पत्तिर्भारतीयपूर्वसिद्धान्ते लभ्यते। भूतहेतुप्रत्याख्यानवादस्तु न भारते पूर्वकालिको दृश्यते। यदि नाम हिपोक्रिट्सीयविचारालोको भारतेऽपतिष्यत् तदा प्रत्याख्यानवादोऽपि भारतीये वैद्यकेऽलक्ष्ष्यत। तदेवं हिपोक्रिटसेन प्रतिक्षिप्तस्य पूर्ववादस्य भारते उपलम्भः, हिपोक्रिट्सोदितस्य प्रतिक्षेपवादस्य भारतेऽनुपलम्भश्चानयोर्दृष्टिदाने कतरस्य पौर्वापर्यं कतरस्यापरत्रालोकपात इत्यपि विद्वद्भिरवधारयितुं शक्यते।।

किञ्च, आत्रेयसंहितायां⁵ वातकलाकलीयाध्याये परस्परमतानि जिज्ञासमानानां महर्षीणां सम्भूय विचारे वातप्राधान्यवादितया कुशभरद्वाजकाङ्क्षायनभार्गववार्योविदानां, पित्तप्राधान्यवादिनो मरीचेः, कफप्राधान्यवादिनः काप्यस्य मतेषु दर्शितेषु 'सर्व एव खलु वातपित्तश्लेष्माणः प्रकृतिभूताः पुरुषमायुषा महतोपपादयन्ति' इति त्रयाणामप्येषां संवलितप्राधान्यवाद आत्रेयेण स्वोन्मेषरूपेण प्रदर्शितोऽस्ति। हिपोक्रिट्⁶सेन यथैकैकप्राधान्यवादमेकीयमत्तत्वेन प्रदर्श्य पश्चात् समुच्चयवादः प्रदर्शितो दृश्यते। एकैकप्राधान्यवादाः कस्य कस्येति न नामनिर्देशोऽस्ति। समुच्चयवादमपि स्वोद्भावितसिद्धान्तरूपेण न निर्दिशति। आत्रेयेण तु तत्तन्मतान्युल्लिख्य सम्मिलितत्ववादः स्वसिद्धान्तरूपेण दर्शितः। तेन भारते पूर्वप्रचलिता एकैकवादाः समुच्चयवादश्चानूदिताः, तेषु समुच्चयवादे स्वाभिरुचिश्च प्रदर्शितेति स्पष्टमवबुध्यते।।

नैतावदेव, अपि तु दन्तरोगविषये चरके सुश्रुते च पैत्तिकादयः प्रभेदा दर्शिताः। डॉ. हिपोक्रिट्सेनापि दन्तवेष्टनशोथरोगोल्लेखे Pituita (Bile) इति पित्तं दोषतया निर्दिष्टमस्ति। तदिदं पैत्तिकदन्तरोगस्य निदानतया भारतीयैरभ्युपगतं पित्तमेव निर्दिष्टमिति शब्दापभ्रंशदृशाऽपि वीक्ष्यते।।

एवमेव मुखदौर्गन्ध्यप्रतीकारविषये यदौषधं निर्दिष्टं तस्य Indian Medicament (भारतीयौषधम्) इति शब्देन व्यवहारः कृतो व⁷र्तते इति डॉ. जे. जे. मोदी L. M. & S., L. D. S. (Eng.) ⁸महाशयेन निरूपितमस्ति। भारतादेव


१. परं खादीन्यहंकारादुत्पद्यन्ते यथाक्रमम्। ततः सम्पूर्णसर्वाङ्गो जातोऽभ्युदित उच्यते।।
शरीरं हि गते तस्मिञ्छून्यागारमचेतनम्। पञ्चभूतावशेषत्वात् पञ्चत्वं गतमुच्यते।। (चरकशारीरे १ अध्याये ।।) २. Hippocrates Vol. IV P. 3. ३. Empedocles brought forward a theory of elements : fire, water, air and earth.
A. History of Religions-Denis Stuart P. 140. ४. History of Hindu Chemistry. Vol. I P. 22-by P. C. Ray. ५. वातकलाकलज्ञानमधिकृत्य परस्परमतानि जिज्ञासमानाः समुपविश्य महर्षयः पप्रच्छुरन्योन्यम्। .... भगवान्पुनर्वसुरात्रेय उवाच सर्व एव भवन्तः सम्यगाहुरन्यत्रैकान्तिकवचनात्। सर्व एव खलु वातपित्तश्लेष्माणः ... तदृषयः सर्व एवानुमेनिरे वचनमात्रेयस्य भगवतोऽभिननन्दुश्च। (चरकसूत्रे, अ. १२. पृ. ७८-८१) ६. Some of them say that a man is blood, others that he is bile, a few that he is phlegm. Physicians like the metaphysicians, all add the same appendix. For they say that a man is a unity giving it the name that severally they wish to give it. Hippocrates Vol. IV P. 5. ७. De Morbis Mulierum lib. II P. 666. ८. History of Dentistry by Dr. Gerini P. 50 and Fourth Oriental Conference Proceedings. Vol. II. P. 427.


९ का.सं.

१२० काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

तस्मिन् रोगे तस्य औषधस्य परिज्ञातत्वेनैव भारतीयौषधमिति संज्ञाकरणं संभवति। इदमेकमेव पदमपि तस्य भारतीयं भेषज्यविज्ञानं साधयति। किमन्यत्, हिपोक्रिटसीये मेटेरिया मेडिका (निघण्टु) ग्रन्थे। 'जतमनसी (जटामांसी), जिङ्गिबेर (शृङ्गवेर), पिपरनिग्रम् (मरीचं पिप्पली वा), पेपेरी (पिंप्पली), पेपेरियस रिजा (पिप्पलीमूलम्), कोस्तस (कुष्ठं) कर्दमोमोस (कर्दमम्), सकरून (शर्करा), इत्यादय औषधवाचकशब्दा भारतीयायुर्वेदसंस्कृतशब्दानां सन्निकृष्टा अपभ्रंशाः स्पष्टं दृश्य¹न्ते। भारतीयतिलवाचके ‘सिसमं इण्डिकम्’ शब्दे, भारतीयकरञ्जवाचके ‘ग्यालेडुपाइण्डिका’ शब्दे च भारतवाचकस्य इण्डिकशब्दस्य प्रयोगदर्शनेन तस्य भारतपरिज्ञानं भारतीयवस्तुविशेषाणां व्यवहार उपादानञ्च साक्षात्क्रियते। हिपोक्रास² (Hippocras) नाम्नि योगौषधे भारतीयासाधारणवस्तूनां त्वगार्द्रकशर्कराणां प्रवेशो दृश्यते। तस्य योगौषधस्य ‘हिपोक्रास’ इति तन्नामसङ्केतदर्शनेन तदीयमेव तद्वस्तुपरिज्ञानं दृढीभवति। B. C. 350 वर्षभवेन थियोफ्रेष्टस (Theophrastus) विदुषाऽपि फिकस इण्डिका (Ficus Indica) नामकौषधे इण्डिकाशब्दो निर्दिष्टोऽस्ति। बहुशो भारतीयवनस्पत्योषधीनां ³ग्रीसदेशे उपगमस्य वृत्तं पोकाकादिविद्वद्भिरप्युल्लिख्यते। यान्यौषधानि भारत एवोद्भवन्ति, यानि भारतीयवैद्यैस्तेषु तेषु रोगेषूपयोज्यन्ते, नहि तेषां परिज्ञानं विना तानि ग्रीसभिषजो हृदये स्वतः प्रतिभातुं कल्पन्ते। अनेनैव निदर्शनेन डॉ. हिपोक्रिटसस्य भेषज्यविषये भारतीयभैषज्यविषयाणां रोगनिदानौषधोपचारादिषु दृश्यमानं साम्यमपि तस्य भारतीयविज्ञानमूलकतां द्रढयितुं शक्नोति। एवमेव बहूनि प्रमाणानि निर्दिश्य डॉ. जे. जे. मोदीमहाशयेन Is Ayurveda a quackery इत्यत्र, रायलएशियाटिकसोसाइठ्यां पठिते पत्रेऽपि सर्वविदेशीयभैषज्यपद्धतीनां भारतीयायुर्वेदपद्धतिरेव मूल⁴मिति निरूपितमस्ति। तदीयवैद्यकग्रन्थे भारतमात्रोद्भविनोऽनेके ईदृशावनस्पत्योषधयो निर्दिष्टाः। तेन शब्दतोऽर्थतश्च भारतीयवैद्यकविज्ञानं तस्य साक्षात् परम्परया वाऽऽसीदित्यकामेनाप्यभ्युपगन्तव्यं भवति॥

यद्यपि ‘भारताद् बहुशो विज्ञानान्तराणि ग्रीसेन गृहीतानि, भैषज्यविद्या गृहीता न वा, भैषज्यविद्यायां ग्रीसस्य प्रभावः पतितो न वेत्यपि निश्चेतुं न शक्यते’ इति प्रथमतॊ निर्दिश्य, ‘त्रिपिटकसंवादेन चरकस्य कनिष्कसामयिकत्वावगमे भारतीयवैद्यकात् प्राक्तनत्वं हिपोक्रिटसस्य, तेन ग्रीसस्य भारते प्रभावः पतितः’ इति म्या⁵कडोनलमहाशयेन पश्चाल्लिखितं


१. (a) Some five centuries before Christ, Hippocrates in his Materia Medica recommends several Indian plants mentioned in Sanskrit works of much anterior date, as for instance, Sesamum indicum (tila), Nardostachys Jatamansi (Jatamansi), Boswellia thurifera (kunduru), Zingiber officinale (Shringavera), Piper (Nigrum (Marichi), etc. In the first century of the Christian Era, Dioscorides, a Greek physician, thoroughly investigated the medicinal virtues of many Indian plants which were then taken to the market of Europe, and incoporated in his extant book on Materia Medica, which for many ages was received as a standard work.
A Short History of Aryan Medical Science P. 123 by H. H. Bhagvatsinhajee.
(b) There is similarity in the names of Greek and Indian medicine:-Gk. Pepero, Pepercosriza, Costus, Ziggiberis Indian-Pippali, Pippalimula, Kustha, Sṛngavera Gk. Kardamomos, Hakoros, Bdellion Sakkaron, Ind. Kardama, Vaca, Guggulu, Sarkarā.
Hellenism in Ancient India P. 203 J. Jolly-Medicine.

२. Hippocras, and old medicinal drink or cordial, made of wine mixed with spices such as cinnamon, ginger and sugar. E. B. Vol. XI P. 584.

३. India in Greece by Pococke. P. 363.

४. The virtues of the Indian drugs were known not only in the country of their birth, but in other countries as well.
History of Aryan Medical Science. (Gondal).

५. History of Sanskrit Literature P. 421 by A. A. Macdonell.

उपोद्घातः १२१

दृश्यते । परं यदि नाम चरकाचार्य एवास्या आत्रेयसंहितायामूलाचार्योऽभविष्यत्, तदा एवमनुसन्धीयमानं पौर्वापर्यं समभविष्यत् । तत्र चरकाचार्यः खलु चरकनाम्ना प्रसिद्धाया आत्रेयसंहितायाः न निर्माता, अपि तु पश्चात् प्रतिसंस्कर्तैव । संहितायाः कालस्तु आत्रेयाग्निवेशयोः समय इति पूर्वमुक्तमेव । काश्यपभेदादिनिर्देशसंवादोऽप्यमुमेवार्थं द्रढयति । आत्रेयस्त्वौपनिषत्कालिक इत्यवोचाम । अन्ततो गत्वा तिब्बतीयोपकथावलम्बनेऽपि बुद्धान्नार्वाचीन आत्रेयः सिद्ध्यति । अनेन पौर्वापर्य्यायेन प्रत्युत आत्रेयस्य विद्याप्रभावो हिपोक्रिटसवैद्यके पतित इति वक्तव्यमायाति, न पुनर्वैपरीत्यम् ।।

हिपोक्रिटसात् पूर्वोद्भूवेन वैद्येन इम्पीड़ोक्लिस१ (Empedocles) नाम्नाऽपि अध्यात्मविद्या पूर्वदेशादेवाधीता, भैषज्यविद्याऽपि तत एवाधीता स्यादिति; हिपोक्रिटसेनापि भैषज्यविद्या भारतादेवाधीता इति च केचन वदन्ति । हिपोक्रिटसस्य भारतागमनं गोण्डलीयठा२कुरमहाशयेन निर्दिष्टमप्युपलभ्यते । इम्पीड़ोक्लिसस्य भारवतोपकण्ठपर्यन्तमागमनस्य साधकप्रमाणोपलम्भेऽपि हिपोक्रिटसस्य भारतागमने प्रमाणं किंरूपमिति पर्येवेक्षणीयं भवति । हिपोक्रिटसेन न केवलं स्वदेश एव, अपि तु दूरदे३शानप्युपेत्य विज्ञानानि सञ्चितातीति विदुषां निर्देशेन सर्वतो विज्ञानमधुबिन्दूँश्चिन्वानस्यास्य पुराकालतो भैषज्यादिविद्यासु प्रतिष्ठिते भारते तदुपकण्ठे वाऽप्युपगमो न खलु न सम्भवति, किन्तु स्पष्टोल्लेखानुपलम्भेन भारते तेन विद्यायाः प्रदानमिव साक्षादादानमपि नैव निश्चेतुं शक्यते ।।

यद्यपि प्रथमडेरियसन्नृपसमये (B. C. 521) डेमोकेडिसनाम्नो यवनशल्यवैद्यस्य ईरानदेशे आगमनवृत्तं ल४भ्यते, तथाऽपि तत्समयस्य हिपोक्रिटसात् प्राग्भावेन तद्द्वारा हिपोक्रिटसीयाम्प्रदायप्रभावपातशङ्काया अपि नावसरः । हिपोक्रिट्ससमयादुत्तरं टेरियस्यस्य५ अर्दक्षीरमेमनून (Artaxerexes Memnon B C. 404-359) नृपसमये B. C. चतुर्थशताब्द्यामिरानदेशे भारवतोपकण्ठे च, मेगस्थ६नीजस्य B. C. चतुर्थशताब्दन्ते भारते उपगमवृत्तं लभ्यते । तथाऽपि तयोः हिपोक्रिटसस्यैव सम्प्रदायानुयायित्वे साधकं प्रमाणं नोपलभ्यते । टेरियसेन हिपोक्रिट्सीयस्य आर्टिकुलेसननामकग्रन्थस्य सकृदभिधानेऽपि तत्साम्प्रदायिकत्वमेवास्येत्यत्र साधकं नोपलभ्यते । राजदौत्यमादाय भारतमुपगतस्य मेगस्थनीजस्य ग्रीसवैद्यत्वे सत्यपि ग्रीसवैद्यकविषयाणामुपदेशनप्रचारण-प्रयोगाद्युल्लेखा न क्वाप्युपलभ्यते । प्रत्युत तेनापि भारतीयवैद्यानां प्रशंसनं तद्द्वारा वैदिकजनानामारोग्यसम्पादनमुल्लिखितमस्ति । वैद्येन सताऽप्यनेन भारतीयवैद्यानां समादरणां तद्द्वारौषधिकरणमपि प्रत्युत भारतीयवैद्यकविज्ञानस्यैव समृद्धिमतिरेकं चं साधयति । भारवतोपकण्ठमुपगतेन टेरियसेनापि हिपोकिटससांप्रदायिकस्य७ सम्प्रदायान्तरीयस्य वा ग्रीसवैद्यकस्य भारते प्रचारणोपदेशनादेवृत्तस्यालाभेन स्वीये इण्डिकानाम्नि ग्रन्थेऽप्यनुल्लेखेन च तद्द्वाराऽपि भारते प्रभावपातो न दृश्यते । प्रत्युत उत्तरभारतमेत्य विनिवृत्तेन तेन स्वीये त्रयोविंशतिग्रन्थात्मके पर्सिकानाम्नि ग्रन्थे इण्डिकानाम्नि ग्रन्थे च भारतविषये बहुशो निरूपितमस्ति । तत्र भारतीयगजकपिशुकसारिकाकीटरङ्गादिविषये इव


१. According to Greek tradition, Thales, Empedocles, Anaxagoras, Democritus and others undertook journeys to oriental countries in order to study philosophy. Hence there is at least the historical possibility of the Greeks having been influenced by Indian thought through Persia. History of Hindu Chemistry Vol. I. P. 22. by Dr. P. C. Roy. २. In the opinion of some writers, Hippocrates acquired his knowledge of medicine in India. Short History of Aryan Medical Science P. 190. by H. H. Bhagvatsinhajee. ३. It is said and is is likely that Hippocrates travelled widely. E. B. Vol. XI P. 584. ४. History of Greece Vol. IV Grotes P. 181 f. Hippocrates Vol. III P. XVI. ५. The Surgical Instruments of the Hindus by G. N. Mukhopadhyay Vol. I P. 344. History of Sanskrit Literature P. 514-A. B. Keith. ६. Ibid Vol. I P. 344. by G. N. Mukhopadhyay. ७. E. B. Vol. VI P. 832.

१२२ काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

वनस्पतिविशेषस्यापि वर्णनं कृतम्। भारते शिरोरोगदन्तरोगनेत्ररोगमुखव्रणास्थिव्रणादयो रोगविशेषा न भवन्तीति च वर्णितम्^१स्तीत्युल्लेखोपलम्भेन भारतमुपगतेन इरानसम्राजो राजकुलवैद्यपदे प्रतिष्ठितेनानेन ग्रीसवैद्येन भारतीयविषयसङ्ग्रहे भारते पूर्वतः प्रतिष्ठायावैद्यकविद्याया विषयान्तराण्यपि विशेषतः सङ्गृह्य स्वात्मा विनोदितः स्यादिति प्रतिभाति॥

प्राचीन ग्रीसवैद्यकसम्प्रदायाः

मास्तु हिपोक्रिटसीयवैद्यकप्रभावपातो भारते, किन्तु हिपोक्रिटसात् पूर्वमपि ग्रीसदेशे प्रिनोसन्स ऑफ् कास (Prenotions of Cos) फर्स्ट प्रिरेटिक^२ (First Prerrehetic) इम्पिडोक्लि^३स (Empedocles) स्त्रिदोस^४ (Cnidos) इति त्रयः सम्प्रदाया आसन्। यत्र डेमोकेडिस Democedes (प्रभृतयः) पाथागोरससमकालिका भैषज्यविद्वांस^५ आसन्निति ज्ञायते। तेषां प्रभावो भारते पतितो वेति तर्कोऽपि नास्पदं लभते। तेषामपि पूर्वसम्प्रदायानां हिपोक्रिटसात् प्राक् शतवर्षाभ्यन्तर एव सत्त्वमव^६गम्यते, नातोऽधिकं प्राचीनत्वम्। तेष्वपि सम्प्रदायेष्वेकः स एव प्राचीनॊ मन्त्रप्रधानः सम्प्रदायः प्रतिभाति। इतरयोर्दाशनिकविषयसंवलितत्वमस्ति। भारतादध्यात्मविद्यां ग्रीसे नयतः पाथोगोरसस्य समकालिकतया, तेन सह सम्बन्धवत्तया, पाथागोरससम्बन्धे वक्ष्यमाणतया च तयोः पूर्वसम्प्रदायोरपि केनाप्यंशेन भारतीयविषयसम्पर्कदर्शनेन ग्रीसोपज्ञता तादृशी विज्ञानसम्बद्धता वा न तथोपलभ्यते। सुसानगरस्य कारागारे दासैः सह निगडितेन डेमोकेडिसेन इराननृपतेश्चात् पतनेन विश्लथीभूतस्य पादस्य शस्त्रं विनैव यथास्थानं सन्धानेनारोग्यसम्पादिनाद्भाग्येन यशस्विता^७या लाभेऽपि तद्विषयके वर्णन शस्त्राद्यपकरणैः परिपूर्णत्वाभाव^८स्योल्लेखेन तावत्पर्यन्तं शस्त्रप्रक्रियाया ग्रीसे अपरिपूर्णत्वागमनेन च ग्रीसवैद्यकस्य तदात्वे प्रथमावस्था समर्थ्यते। यदि नाम ग्रीसदेशे पूर्वतः प्रौढभावेन भैषज्यविद्या विशेषतः प्रावर्तिष्यत, तदा कथमनन्तरं हिपोक्रिटसः पितृपदमुपारोक्ष्यत। तथा पदमधिरूढेनानेन हिपोक्रिटसेन तदात्वे ग्रीसदेशे सविज्ञानभैषज्यविद्यायाः शैशवावस्थैव समवबोध्यते। ग्रीसदेशे तदात्वे भैषज्यविज्ञानं कीर्तनीयं यद्यभविष्यत्, तदा मिश्रगतां भैषज्यविद्यां दृष्ट्वा पर्यटतः पाथागोरसस्य


१. The Surgical Instruments of the Hindus. Vol. I P. 344. by G. N. Mukhopadhyay.
२. The Prenotions of Cos and the First Prorrhetic (the latter being the earlier, although both are supposed to be earlier than Hippocrates) show that in the medical school of Cos great attention was paid to the natural history of diseases, especially to the probability of a fatal or not fatal issue. Hippocrates Vol. I P. XIII
३. Empedocles who flourished somewhat earlier than Philolaus, was a 'medicine-man' rather than a physician, though he is called by Galen the founder of the Italian school of medicine. The medical side of his teaching was partly magic and quackery. The work on humours may be taken to be typical of the Italian-Sioilian school of medicine, in which a priori assumptions of the 'Philosophic' type were freely admitted. Hippocrates Vol. I, Intro P. XII-XIII.
४. Besides these two schools there was also a famous one at Cnidos, the doctrines of which are criticised in the Hippocratic treatise. Regimen in Acute diseases.
Hippocrates Vol. I. Introduction P. XIII.
५. History of Greece Vol. IV Grotes P. 180, 327.
६. E. B. Vol. XI P. 584.
७. History of Greece by Grotes Vol. IV P. 181-182.
८. So rapid was his success even in the first year-'though very imperfectly equipped with instruments and apparatus'—that the citizen of the island made a contract with him to remain there for one year at a salary of one talent (about 383 I sterling, an AEginaean talent).
History of Greece Vol. IV P. 180-181, Grotes.