भारतकोश
संग्रह पर लौटें

काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)

Kashyapa Samhita Hindi

महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा

स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)

DevanagariHindipublished942 पृष्ठ
१३४काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

‘भारतीयायाः प्राचीनभैषज्यविद्याया आलोचने तदीयगूढविचारसूक्ष्मबुद्धिविकासलेखसौष्ठवादीनामनुसन्धाने तदीयं स्थानमत्युच्चमासीदिति ज्ञायते १इति च न्यूबर्गर (Neuberger) विद्वानपि वर्णयति ॥

पाश्चात्यदेशैः सह भारतस्य पुराकालादेव मिथः परिचयः सम्पर्कॊ व्यवहारश्चासीदिति हेरोडोटसफीलोष्ट्रेट्सप्रभृतयः प्राचीनाः पाश्चात्यविद्वांसोऽप्युल्लिखन्ति । जैसोड्स-आफिसेनस्-अफ्रिकेनस्-इत्यादिप्राचीनतत्तदाचार्यसंगृहीता लेखा अप्येतदेव द्रढयन्ति । प्रथमशताब्दीभवस्य प्लेनीना२मकस्य ग्रीक विदुषो लेखादपि भारतीयानां वनस्पत्यौषधानां योगौषधानानामपि विक्रयाय ग्रीसदेशे नयनमित्यादय उपलब्ध्यन्ते । ग्रीस भारतयोः पारस्परिकः सम्बन्धः पूर्वमप्यासीत्, भारतीयैः पूर्वप्रसाधितां पक्षाघाताम्लपित्तादिरोगेषु धत्तूरस्योपयोगितां यूरोपीयैरप्यनुपात्तामुल्लिखन् रायेल्३ (Royle) पण्डितः पाश्चात्येषु भारतीयविज्ञानप्रभावं दर्शयति । प्राचीनग्रीकवैद्यके भारतीयायुर्वेदस्य कैरप्यंशैरनुप्रभाव आसीत्, भारतीयानां ग्रीकानां च भैषज्यप्रणाल्यां समानता दृश्यते इति होमेल्ट्४न् विद्वानपि संमन्यते । ब्यानर्जीमहा५शयोऽपि तदेव विवृणोति ॥

श्रीयुतरमेशचन्द्रदत्तमहाशयेन स्व६कीयपुस्तकेऽपीत्थं लिखितं वर्तते ।


१. Neuberger says.—‘The medicine of the indians, if it does not equal the best achievements of their race, at least nearly approaches them, and owing to its wealth of knowledge, depth of speculation and systematic consideration takes an outstanding position in the history of oriental medicine’.
Neuberger. History of Medicine. Trans. by Playfair Vol. I P. 437

२. Pliny, the Roman contemporary of Dioscorides had also mentioned Indian medicinal plants and drugs. ‘Hindu achievements in exact sciences B. K. Sarkar P. 50-51. See also Intercourse between India and the Western World P. 102 by H. G. Rawlinson.

३. The smoking of dhattura leaves in asthma ..... are modern in Europe, but have come down in India since very old times (Royle) Vide-Hindu Achievements in exact Sciences by B. K. Sarkar P. 49 Antiquity of Hindu Medicine.

४. When we remember also that Pythagoras introduced Brahmanical system ... ‘that there was some Indian influence on the medicine of ancient Greece. The analogy between Hindu and Greek system of medicine is certainly much too close to be the result of accident’. (W. Hamilton, History of medicine Vol. I P. 43)—Hellenism in Ancient.
India P. 196 by G. N. Banerji.

५. ‘Nor do the Hindoos appear to have derived their knowledge of Medicine from any of their neighbours. The Greeks were the only people from whom they would have borrowed it; but besides the immeasurable distance and absence of frequent communication between the two countries in such remote times, the Hindoos were naturally so averse to travelling and so little desirous of intercourse with foreigners, that the hypothesis of their having borrowed the medical literature seems to stand on an exceedingly slender basis’.
Hellenism in Ancient India. P. 191 G. Banerjee

६. In Europe the antiquity of Hindu medicine is not yet generally known and recognised, and the habit of tracing the origin of all Aryan culture to the Greek style impedes an impartial inquiry. As Dr. Wise justly remarks, ‘Facts regarding the ancient history of medicine have been sought for only in the classical authors of Greece and Rome, and have been arranged to suit traditional theory which repudiated all systems which did not proceed from a Grecian source. We are familiar from our youth with classical history, and love to recall events illustrated by the torch of genius and depicted in our memories; and it requires a through examination of a subject, a careful weighing of new evidence, and a degree of ingeniousness

उपोद्घातः

१३५

उत्तरकालेऽपि भारतीयवैद्यो मंकनामकः अरबाधिपतेः (खलिफा) हारूनअलरसीद (A. D. 700) नामकस्य राजकुलमुपेत्य तदीयरोगं निरवारयत्, चरकीयविषतन्त्रस्य पर्शियनभाषायामनुवादं चाकरोत्, इति; Saleh (शल्य) नामकोऽपि भारतीयवैद्यः खलिफाहारूनअलरसीदस्य राजकुले आसीत्, स प्यालिष्टाइनप्रदेशे गत्वा तत इजिष्टप्रदेशमुपेत्य तत्रैव देहं जहौ, इति च आरव्यविदुषा इन्बअसेवनाम्ना निर्दिष्ट^१मस्ति। एतद्दर्शनेन इतः पूर्वमपि कति भारतीया विद्वांसो वैद्याश्च दूरदूरमपि प्राप्ताः सम्भाव्यन्ते ।।

तदेवमुपदर्शितदिशा पाथागोरसादिसमयतः समये समये बहूनां ग्रीकजनानां विद्यालब्धये भारवोपगमस्य, भारताद्द्वारतोपकण्ठाद्वा भारतीयविषयाणामवगमस्य, भारतीयविदुषामपि केषाञ्चित् पूर्वकालाद् ग्रीसदेशोपगमस्य, भारतीयविदुषां तत्र समादरस्य, भारतनिवर्तने भारतीयवैद्यानामतिशयानुसन्धानेन ग्रीसाधिपतिना स्वदेशे नयनस्य, अशोकसमयेऽपि तदीयशिलालेखानुसारेण पाश्चात्त्यदेशेषु भारतीयभैषज्यप्रस्थानप्रचारस्य चेतिवृत्ततो लाभेन, हिपोक्रिटसनाम्ना प्रसिद्धानां सर्वेषां ग्रन्थानामपौर्वकालिकत्वस्य पश्चादपि विकसितविज्ञानमयानां लेखानां तत्र सम्मेलनस्य विद्वद्भिः परिदृष्टतया, भारतीयवैद्यके ग्रीसवैद्यकासाधारणलिङ्गानुपलम्भेन, प्रत्युत भारतीयवैद्यकच्छायालिङ्गानां ग्रीसवैद्यके बहुश उपलम्भेन च पुराकालादेवमिथः परिचयमितस्ततो यातायातं कुर्वद्भिः पाथागोरसादिभिर्भारतीयैर्वा भारतीयभैषज्यविज्ञानं न्यूनाधिकैरंशैः समये समये ग्रीसवैद्यकस्य शरीरपुष्टये सम्पादितमुपलक्ष्यते; हिपोक्रिटससमयस्तस्ततः कियतोऽपि पूर्वसमयतो वा उदिते वैज्ञानिके ग्रीसभैषज्ये मिश्रबेब्लोनियादिप्राचीनदेशान्तरविज्ञानामपि प्रभावो न्यूनाधिकभावेन पतित एव, किन्तु ग्रीसभैषज्यं देशान्तराणामिव साक्षात् परम्परया वा भारतस्याप्यधमर्णभावं भजत्येवेति प्रतिभाति, न पुनः पश्चादुदिता ग्रीसस्य सविज्ञाना भैषज्यविद्या पूर्वतः प्रतिष्ठिते भारतीयायुर्वेदवैद्यके लेशतोऽपि आलोकप्रदानाय बभूवेति अप्रतिहतं दर्शनमुन्मिषति ।।

महाविदुषा हिपो क्रिटसेन भैषज्यविषये देशान्तरेभ्यः प्रक्रियान्तरेभ्योऽपि वा उपयोगिनो विषयान् निरीक्ष्य स्वीयविचारनिकषोज्ज्वलांश्च विषयानुपादाय भैषज्यविषये अत्युत्तमा निबन्धाः सम्पादिताः । येनासौ पाश्चात्त्यदेशीयवैद्यकस्य


not always to be found, to alter early impressions. Still candour and truth require us to examine the value of new facts in history as they are discovered, so as to arrive at just conclusions'.

The Greeks themselves did not lay claim to the honour (which is now after claimed for them by modern writers) of originating ancient culture generally, or the science of medicine in particular. Nearchus (apud Arrian) informs of that 'the Grecian physicians found no remedy against the bite of snakes, but the Indians cured those who happened to incur that misfortune'. Arrian himself tells us that the Greeks, 'when Indisposed applied to their sophists (Brahmans)', who, by wonderful, and even more than human means, cured whatever would admit of cure'. Diosorides who lived in the first Century. A. D., is the most copious author on the Materia Medica of the ancients, and Dr. Royle has in an exhaustive inquiry shown how much of his Materia Medica was taken from the more ancient Materia Medica of the Hindus. The same remark holds good with regard to Theophrastus, who lived in the third Century B. C., while even the physician Classias, who lived in the fifth Century B. C., wrote an account of India, which Dr. H. H. Wilson has shown, contains notices of the natural products of India, But the chain of evidence is complete when Hippocrates is called the 'Father of Medicine'. because he first cultivated the subject as science in Europe, is shown to have borrowed his Materia Medica from the Hindus. We refer our reeders for evidence to Dr. Royle's excellent essay. 'It is to the Hindus', says Dr. Wise, 'We owe the first system of medicine.'

Civilisation in India Vol, II P. 249.
(हिन्दू सभ्यता का इतिहास)


१. Ancient and Mediaeval India. Vol. I Mrs. Manning P. 353.

१० का.सं.

१३६काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

पितृपदमध्यतिष्ठत् । हिपोक्रिटसविचारे ये विषयास्तदीयपरिष्कृतविचारोद्भूताः स्युस्तेषु तदुपज्ञभाव एव स्यात् । परं ये भारतीयायुर्वेदविषयसंवादिनः शब्दा विषया विचारा वा दृश्यन्ते तेषु साक्षात् परम्परया वा भारतीयप्राचीनवैद्यकस्यैव प्रतिफलनं वक्तव्यं भवति । पूर्वतनबाह्यदेशीयभैषज्यसम्प्रदायानां भारतीयपूर्वाचार्यैरनुसृतत्वे भारतीयपूर्वाचार्यग्रन्थैरपि बाह्यसम्प्रदायानुरूपैरेव भवितव्यं, न च तथाऽस्ति । किन्तु पूर्वोपदर्शितरीत्या (पृ. ६३-६५) एकमूषानिषिक्तनानाप्रतिमावदेकस्यामेव भूमिकायां निष्पन्ना एता विभिन्ना निबन्धनाकृतयः प्राचीनायुर्वेदीयादेकस्मादेवार्षस्रोतसः समुद्भूतमात्मानमवबोधयन्ति । इतः पूर्वतना अप्येतत्स्रोतोगता आर्षग्रन्था विषयविभेदेऽप्येतत्स्रोतःपातिन्यैवाकृत्या वर्तमानाः स्युरित्यनुमीयन्ते । ततश्च हिपोक्रिटसेन प्रवर्तितस्य पूर्वतनस्य वा ग्रीसवैद्यकस्यालोको वेदकालादनुस्यूततन्तौ इतिहासतो भौगर्भिकदृशा च तद्विद्गुणपूर्वकालेऽपि प्रौढतां दर्शयति भारतीयायुर्वेदवैद्यके पतितः स्यादिति वक्तुं जिह्वा प्रतिरुध्यते ॥

यद्यपि पञ्चसहस्रवत्सरात् पूर्वं ज्यौतिषविद्यायाः समुत्पादका अपि भारतीया एवेति $^१$पाश्चात्यविद्वांसोऽपि वदन्ति । परं, ग्रीसदेशे ज्योतिषविद्योन्नत्तौ द्वितीयशताब्दीभवस्य कस्यचिद्यवनविदुषो भाषामयो जातकग्रन्थो विचारगौरवेण प्रसरन् भारतीयैरप्यादरणेन देववाण्यामनूदितो यवनजातकनाम्ना भारते यावनज्यौतिषविद्याया निदर्शनमभूत् । वराहमिहिरादयः पश्चात्तन ज्यौतिषाचार्या अपि यवनाचार्यं निर्दिशन्ति । कालक्रमेण यावना रमलताजिकदिविषया अपि भारतीयं विज्ञानमनुप्राविशन् । एवं रोमकसिद्धान्तोऽपि भारते प्रसिद्धिं प्राप । प्राचीनवैद्यकविषये त्वयमंशो यावनः प्रसाद इत्यत्र न किमपि साधकमुपलभ्यते । वैद्यकविषये प्राचीनः कोऽपि यावनोऽतिशयः सम्पर्कः सहयोगो वाऽभविष्यत्, तदा शारीरके शल्यप्रक्रियायां कायचिकित्सा-यामौषधेषूपचारेषु अन्यासु वा वैद्यकप्रक्रियासु काऽपि यावनी प्रतिच्छाया प्राचीनभारतीयायुर्वेदग्रन्थेषु सुतरामलप्स्यत ॥

आत्रेयकश्यपादयः पूर्वाचार्याः 'काङ्कायनो नाम बाह्लीकभिषक्, बाह्लीकभिषजो वा, बाह्लीकास्त्वपरे' इत्यादिशब्दैः काङ्कायनं नामतोऽन्यांश्च बाह्लीकवैद्यान् बाह्यानपि ससंमानमाचार्यभावेन निर्दिशन्ति । आत्रेयकश्यपाभ्याम्प्युल्लिखितोऽयं बाह्लीकदेशः ग्रीकानामाक्रमणात् पूर्वे बलखनाम्ना प्रसिद्धः इरानप्रदेशः । तदात्वे तत्रापि वैद्यविद्यायाः समुन्नतिः, साऽपि आत्रेयाद्युक्ताचार्यविशेषविमर्शश्रेण्यां काङ्कायनस्य निर्देशान्भारतीयवैद्यप्रक्रियातो नातिविसंवादिनी केवलं तत्र तत्र विषये विचारविशेषमात्रमादधती प्रतीयते । सुश्रुतव्याख्याकारलेखस्य समूलत्वे तु सुश्रुताचार्यसतीर्थ्यश्रेण्यां काङ्कायनोल्लेखेन 'बाह्लीकभिषजां वर' इति निर्दिष्टे काङ्कायनेऽपि भारतीयस्रोतोगतमेव वैद्यकविज्ञानं स्फुटीभवति ॥

एवमपक्षपातं सबहुमानं बाह्यदेशविदुषोऽपि आचार्यकुक्षौ निक्षिप्य गुणग्राहितां कृतज्ञतां निदर्शयन्तः कश्यपात्रेयादयो भारतीयाचार्या भारतीयवैद्यकं यवनाचार्यैः प्रभावितं चेत् कथं तान्नाम्नाऽपि नोल्लिखेयुः ॥

ग्रीसे शस्त्रवैद्यकस्य पश्चात्प्रचारः

यद्यपि शरीरवतां स्वास्थ्यसम्पत्तये न्यूनाधिकेन येन केनापि रूपेण भैषज्यमिव राज्यसम्बन्धेन मिथो राज्ञां संमर्दस्य पुराकालादेव सर्वेषु, देशेषु जायमानतया तदनुषङ्गेणाहतप्रत्याहतोपचाररूपं शल्यचिकित्सनमपि केनचिदंशेन पुराकालेऽपि


१. The Hindoos were the first to cultivate Astronomical Science (Jyotisha). All modern astronomers admit the great antiquity of their observations. Cassini, Bailly and Playfair have stated that observations taken by Hindoo Astronomers upwards of 3000 years before Christ are still extant, and prove a considerable degree of progress already made at that period. The ancient Hindoos fixed the calendar, observed and predicted the eclipses, and were acquainted with the phases of the moon and the motions of several planets. According to Colebrooke, they were more correct than Ptolemy in their notions regarding the precession of the equinoxes.
Short History of the Aryan Medical Science
Pp. 13-14; by H. H. Bhagvatsinhajee,

उपोद्घातः | १३७

भवितुमर्हति । होमरालेखतो ग्रीसेऽपि शस्त्रवैद्यकस्य आभेव प्रतिभाति । तथाऽपि भारतीयं भैषज्यविज्ञानं नयद्भिः प्रतिसंक्रामयद्भिर्वा पाश्चात्त्यैः पाथागोरसादिभिः कायचिकित्साविज्ञानं यथा प्रथमतः प्रतिष्ठापितं, न तथा वैज्ञानिकं शस्त्रवैद्यमपि । तत्तु कायचिकित्साविज्ञानोदयस्य पश्चात् समयान्तरेणैव ग्रीसे प्रचलितं प्रतीयते । मिश्रदेशे B. C. तृतीयशताब्द्यां सविज्ञानं शस्त्रवैद्यकमासीत्, ग्रीसदेशेनाऽभूत पूर्वं शस्त्रवैद्यकं B. C.प्रथमशताब्द्यां मिश्रदेशादधिगतमित्यु^१ल्लेख उपलभ्यते । हिपोक्रिट्सीयलेखादपि तदात्वे तस्य शिराधमन्यस्थ्यादिशारीरकज्ञानं सामस्त्येन नासीदिति प्रतीयते G. N. व्या^२नर्जीविदुषामपीयमेव दृष्टिः । हिपोक्रिटसस्य व्यायामलब्धशारीरहितादिबाह्यज्ञानवर्जमान्तरशारीरज्ञानं विशेषतो नासीदिति लिटरे (Littre) महाश^३यस्य मतं ग्रोट्सोऽप्युल्लिखति । हिपोक्रिट्सीयग्रन्थे अंशत एव शारीरकज्ञानं दृश्यते, तद्यपि मिश्रतः प्राप्तमिति ग्रीसेतिवृत्ते ल^४भ्यते । ग्रीसे अस्थि अस्थिधमन्यादिविषयज्ञानस्य प्रदर्शकः पूर्वलेखविशेषो न लभ्यते इति कीथ^५महाशयोऽपि वदति । सुश्रुतसदृशः प्राचीनशारीरकग्रन्थो ग्रीसदेशे पूर्वं नासीदिति ब्यान^६र्जीमहाशयोऽपि निर्दिशति ॥

शस्त्रवैद्यकस्य काश्यादिपूर्वदेशे प्रवृत्ततया भारतीयपश्चिमविभागे तक्षशिलादौ कायचिकित्साविज्ञानस्यैव पूर्वं वर्तमानतया पाश्चत्त्यैः प्रथमतः सन्निकृष्टात् पश्चिमविभागतः कायचिकित्साविज्ञानमेव नीतं, समयक्रमेण पूर्वदेशेऽपि स्वप्रसरणसम्पर्कपरिचयादा-वुपजाते तत्रत्यं शस्त्रवैद्यकविज्ञानमपि पश्चान्नीतमिति हैतुको विचारविशेषः कस्यचिद्विदुषो दृश्यते । परं तत्रेदमनुसन्धेयं भवति,—शस्त्रवैद्यकसम्प्रदायस्य काशिराजेन दिवोदासेन प्रतिष्ठापनात् प्राधान्येन काश्यादिपूर्वदेशीयत्वावगमेऽपि आत्रेयभेदकश्यपादिभिरपि धान्वन्तरा इतिबहुवचनान्तशब्दविशेषैः प्रस्थानान्तररूपेण निर्देशात् कायचिकित्साप्रधानेषु स्वोपदेशेष्वपि शस्त्रचिकित्सासम्बन्धिनां कतिपयविषयाणां सूचनाच्च आत्रेयादिभिः कायचिकित्साज्ञानेनोज्ज्वलिते पश्चिमप्रदेशेऽपि शस्त्रैद्यकविज्ञानं प्रचलितं, तत्साम्प्रदायिकाश्च बहव आसन्निति च ज्ञायते । तक्षशिलायामध्यनेन विशिष्टवैदुष्यमवाप्तस्य जीवकस्य महावग्गादावुल्लिखितः शस्त्रचिकित्साकौशलातिशयस्तत्र शस्त्रचिकित्साविज्ञानस्यापि उत्कर्षं स्फुटीकरोत्येव । सुश्रुतसंहितायां दिवोदासशिष्यत्वेन निर्दिष्टाः सुश्रुतसतीर्थ्या नानादेशीया अप्यवबुध्यन्ते । तेषु शल्यविषये विशिष्टतन्त्रकर्तृतयोल्लिखितेषु स्वेन सह चतु^७र्ष्वाचार्येषु पौष्कलावतस्योल्लेखाऽस्ति । प्राचीनगान्धारराजधानीत्वेनावगम्यस्य पुष्कलावत्यास्याभिजनसम्बन्धं वहन्नयं पौष्कलावतो भवितुमर्हति । तदीयोऽपि सम्प्रदायस्तक्षशिलापरिसरे प्रचलितः स्यात् । औपगवोऽप्याचार्यः पश्चिमप्रदेशीयः, बाह्लीकभिषक्काङ्कायन इव औरभ्रोऽपि आधुनिकभारताद्बाह्याः पश्चिमोत्तरप्रदेशीय इति पश्चात् तर्कयिष्यते । एवं दर्शनेन


१. History of Sans. Lit. A. B. Keith P. 514.
२. Neither in his (Hippocrates’) time nor for two centuries later, is there any distinct record of human dissection being practised by the Greeks. Hellenism in Ancient India—G. N. Banerji P. 191.
३. Littre—History of Greece by Grotes. Vol. IV P. 325.
४. There are sevaral treatises in the collection, of which the earliest, On Wounds of the Head, dates from the early part of the 4th Cen. B. C. It has affinities with certain Egyptian papyri and part of it may be of Egyptian origin. E. B. Vol. XI P. 585.
५. The definite evidence of relation (bet. India and Greece) is rendered almost impracticable of attainment by absence of any early Greek lists of bones of the human body as reckoned in the Greek surgery. History of Sans. Lit A. B. Keith P. 514.
६. No summary of Osteological doctrines, such as we find in the writings of Charaka and Sus'ruta, appears to exist in any of the known works of the earlier Greek medical works. Hellenism in Ancient India by G. N. Banerji P. 194.
७. औपधेनवमौरभ्रं सौश्रुतं पौष्कलावतम् । शेषाणां शल्यतन्त्राणां मूलान्येतानि निर्दिशेत् ॥
सुश्रुतसंहितायां ४ अध्याये.

१३८काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

तक्षशिलागान्धारादिपरिसरप्रदेशोऽपि सौश्रुतसम्प्रदायस्य तत्राप्रसरणाभ्युपगमपक्षेऽपि पश्चिमतः प्रसिद्धत्वेन संभावितानामेषामाचार्यान्तराणां सम्प्रदायैरपि शस्त्रवैद्यकविज्ञानसमृद्धतामात्मनोऽवगमयति । जीवकस्य तक्षशिलायामध्ययनसमये तद्गुरुणा विहितस्य कपालभेदनस्य तत्रापि जीवकस्य विशेषदृष्टेष्व जातकग्रन्थात्, ततोऽधीत्य निवृत्तेन जीवकेन विहितस्य कपालभेदनस्यापि महावग्गलेखतोऽवगम्यमानतया तक्षशिलायामूर्ध्वजत्रुविभागीयशालाक्यविज्ञानस्यापि प्रचार आसीदिति वक्तुं शक्यते ।

B. C. 327 वर्षे भारतमुपेतस्य अलेक्जेण्डरस्य प्रत्यावर्तनान्मरणादप्यनन्तरं B. C. 304 संवत्सरे मिश्रदेशे अलेक्जेण्ड्रियायामुद्घाटिते सङ्ग्रहालये (Museum) हीरोफिलस (Herophilus) एरासिस्ट्रेटस (Erasistratus) नामकाभ्यां शारीरज्ञानसम्बन्धिलेखानां स्थापनं कृतं, यत् A. D. द्वितीयशताब्दीभवेन ग्रीसविदुषा ग्यालनेनान्विष्यापि न प्राप्तमित्युल्लेखो^१ दृश्यते । ग्यालनेनापि मिश्रादेव शारीरविज्ञानस्योपलब्धेः, विषयान्तराणां चानुसन्धानतो मिश्रदेशे तृतीयशताब्दीतः शारीरकस्य शस्त्रवैद्यकस्य च विशेषज्ञानमासीदित्यवगम्यते । ग्रीसदेशीयेषु मिश्रदेशीयेषु च शल्यवैद्यकशस्त्रेषु भारतीयशल्यवैद्यकशस्त्राणां साम्यमप्युपलभ्यते । ग्रीसवैद्यकशस्त्राणि सुश्रुतोक्तशस्त्रानुरूपाणीति G. N. मु^२खोपाध्यायोऽपि ब्रवीति । हार्^३नलोऽप्येवमुल्लिखति । तदिदं दृश्यमानं साम्यमपि भारतीयशस्त्रवैद्यकस्य यैः कैश्चिद्देशैः प्रभावपातमनुमापयति ॥

भारते इतस्ततः प्रौढभावेन वर्तमाना नानाविद्याः विशेषतो विद्यान्तरेभ्योऽपि शैल्यवैद्यकविभागीयस्य कायचिकित्साविभागीयस्य च भैषज्यविज्ञानस्य तक्षशिलादिप्रदेशेषु प्रौढतरतां दृष्टवता गुणगौरवैः स्वदेशं समेधयितुं प्रयत्नवत महता ग्रीसाधिपेन अलेक्जेण्डेरेण गान्धाराचार्यपौष्कलावतस्य सुश्रुतस्यापि वा सम्प्रदायेन तक्षशिलापुष्कलावतगान्धारादिप्रदेशेषु समृद्धस्य वैज्ञानिकशस्त्रवैद्यकस्यापि विशेषतः समादर उपग्रहणं च विहितमिति भारतीयचिकित्सकानां स्वे स्कन्धावारे स्थापनस्य स्वदेशे नयनस्य चेतिवृत्तं व्याख्यात्येव । विषयेभ्यो विरज्य वनस्थवृत्तिमुपाददानमाध्यात्मिकविद्वांसं कल्याणं (Kalanos) तक्षशिलानृपतेः प्रेषणप्रेरणसाहाय्यमप्युपादाय स्वदेशे विद्यागौरवाधानाय नीतवता तेन लोकोपयोगिनो विशेषतः संमर्द्दवृत्तिभी राजभिरपेक्षणीया शस्त्रभिषजः कायचिकित्सका अपि बहुशो नीता अवश्यं भवितुमर्हन्ति । अलेक्जेण्डरेतिवृत्ते इत्थंभावोपलम्भः, B. C. ३२७ वर्षे भारतमुपेतस्य अलेक्लेण्डरस्य प्रत्यावर्तनान्मरणादष्यनन्तरमुद्घाटितायामलेक्जेण्ड्रियायां वैज्ञानिकशस्त्रवैद्यकस्योद्गतिदर्शनं च मिथः समेत्य तत्रापि भारतीयप्रभावपातं गुणाधायकं न किं प्रत्याययति ।

इरानदेशे मिश्रदेशीयैश्चिकित्सकैः प्रथमडेरियसनृपतेश्चिकित्सनवृत्तस्योपलम्भात् मिश्रदेशे B. C. तृतीयशताब्दीतः पूर्वमपि शल्यवैद्यकमासीदिति प्रतीयेत, परं तेषां तत्रासफलतावृत्तं तदीयामवस्थामपि ध्वनयति । मिश्रे पौर्वकालिकस्य शारीरकविज्ञानस्य निदर्शनं नाप्युपलभ्यते । सत्त्वेऽपि तत्र भारतीयः प्रभावः पश्चाद्दर्शयिष्यते ॥

ग्रीसदेशोपलब्धप्राचीनमूर्तिषु मांसपेशीनां यथावदङ्कनदर्शनेन तत्र शारीरकज्ञानं विशेषतः पुराकालादेव आसीदित्यपि तर्कितुं न शक्यते । चित्रमूर्तिषु मांसपेशीनामङ्कनं तु भारते सुमेरियाबेब्लोनियादिप्रदेशेष्वपि पूर्वकालत उपलभ्यते । चित्रमूर्तिषु बाह्यपैश्यादीनामङ्कने सौष्ठवमसौष्ठवं च चित्रकलायां कौशलमकौशलं चावबोधयतः । आन्तरशारीरकावयवपरिज्ञानस्यापि


१. (a) It is not until after the death of Alexander the Great, and the institution of the Museum at Alexandria (304 B. C.), that the great anatomists, Erasistratus and Herophilus recorded their discoveries. In the time of Galen none of their works remained extant. Hellenism im Ancient India P. 192 G. N. Banerji.
(b) Whatever was the case with Hippocrates, there is no doubt of the prevalence of dissection of the human body in the Alexandrian schools of Herophilus and Erasistratos in the third Century B. C. History of Sanskrit Litrature P. 514-A. B. Keith.
२. Surgical Instruments of the Hindus.
Vol. I P. 342-243 by G. N. Mukhopadhyay.
३. Medicine of Ancient India Vol. I by Hoernle.

उपोद्घातः१३१


सद्भावे चित्रकलायां गुणाधानमपि सम्भवतीत्यत्र न कस्यापि विमतिः। परं यथावच्चित्राङ्कनदर्शनमात्रेणान्तः-शारीरकावयवानामपि विशेषज्ञानं कल्पयितुं न शक्यते। शस्त्रवैद्यकोपयोगि शारीरकविज्ञानं त्वान्तरं सूक्ष्मं बहुविषयोपबृंहितं विभिन्नमेव। अद्यत्वेऽपि चित्रकलायां निष्णाता अप्यान्तरशारीरकज्ञानविनाकृताः, अन्तःशारीरकज्ञानपूर्णा अपि चित्रनिर्माणे अकृतहस्ताश्च बहुशो दृश्यन्त एव। बाह्यमान्तरं चेदं विज्ञानं पृथक्पृथक्प्रस्थानरूपमेवेति एकतो विज्ञानदर्शनं विज्ञानान्तरमप्यवगमयितुं न प्रभवति॥

यः खलु मिलाण्डरो नाम ग्रीसदेशीयः साकेतपर्यन्तं भारतमभ्येत्य पश्चाद् बौद्धधर्ममग्रहीत्, तदीयवृत्तसम्बन्धिनि मिलिन्दप्रश्ननामके बौद्धपालीग्रन्थे यवनाधिपं मिलाण्डरं प्रत्युपदेशे धन्व¹न्तर्यादीनामुल्लेखश्च पूर्वं (पृ. ३१) प्रदर्शित एव। बा²णविद्धव्रणे मांसविकृत्यां त्रिदोषवृद्ध्या ज्वराद्युत्पत्तौ यथा व्रणं शस्त्रेणावकार्य क्षारादिभिः संशोध्य लेपेन शोथं निवत्र्य शस्त्रचिकित्सका भिषजश्चोपचरन्ति, तथा विधाने न पापम्, अपि तु लोकोपकार इति दृष्टान्तविधया व्रणोपचारे शस्त्रचालने व्रणबन्धे च तदीयाः सूक्ष्मा विशेषाः, स्थले स्थले विरेचनरोगोत्पत्ति निदानौषधप्रयोगादीनां बहूनां वैद्यकविषयाणामुल्लेखाश्च तत्र सन्ति॥

B. C. ६०० वर्षपूर्वमपि भारतीयभैषज्यविद्याऽतीवोन्नताऽऽसीत्, शस्त्रचिकित्सनम्, अस्थ्यादिज्ञानं, शारीरककौशलं चासीदिति; भारतीयप्राचीनवैद्यकग्रन्थेष्वपि शारीरकविज्ञानस्य विशेषतो विवरणं सर्वेषां विस्मयावहमुपलभ्यते इति; हिपोक्रिटसीयसम्प्रदाये शवच्छेदनविद्याया विवरणं न लक्ष्यते, टेरियसस्य भारते आगमनमपि लभ्यते, ग्रीसीयशारीरकविज्ञानस्य मूलं भारतीयशारीरकविज्ञानमित्येतन्न प्रत्याख्यातुं शक्यते इति चैवमादयो भारतीयवैद्यकस्य गौरवोल्लेखाः हार्नल³ (Hoernle) महाशयस्य बहुशो दृश्यन्ते॥


१. ‘Nārada, Dhanvantari, Aṅgiras and Kapila ....... all these teachers knowing thoroughly and of themselves and without any omission, the rise of disease and its cause and nature and progress and cure and treatment and management—each of them composed his treatise in bloc ......’
Questions of King Milinda T. W. Rhys Davids Vol. XXX VI.

२. Suppose, in treating a wound ........ an able physician and surgeon were to anoint it with a rough, sharp, bitter stinging ointment to the end that the inflammation had gone down ...... suppose he were then to cut into it with a lancet and burn it with caustic. And when he hed causterised it, suppose he were to prescribe an alkaline wash, and anoint it with some drug to the end that the wound might heal up and the sick man recover his health. Now, tell me O King, ‘would it be out of cruelty that the surgeon thus smeared with ointment and cut with the lancet and causterised with the smell of caustic and administered a salty wash’ ?
The questions of King Milinda (translated by)
T. W. Rhys Davids Vol. XXXV.

३. Considering that we have no direct evidence of the practice of human dissection in the Hippocratic school, but know of the visit, about 400 B. C., of Ktesias to India, the alternative conclusion of a dependence of Greek anatomy on that of India cannot be simply put aside. P. IV.
Probably it will come as a surprise to many, as it did to myself, to discover the amount of anatomical knowledge which is disclosed in the works of the earliest medical works of India. Its extent and accuracy are surprising, when we allow for their early age—probably the sixth century before Christ—and their peculiar methods of definition.
Medicine of Ancient India—P. III. Vol. I by Hoernle.

१४० . काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

एवमेव १डायज (Diaz), डाक्टरहर्श्वबर्ग (Dr. Hirschberg), डाक्टर हुइलेट (Dr. Huillet), डाक्टर वाइज् (Dr. Wise), विट्नी (Whitney) प्रभृतिभिर्महोदयैरपि समर्थितं वर्तते ॥

प्राचीनमिश्रे भैषज्यविज्ञानम्

प्राचीनानां ग्रीसदेशीयानामन्येषां च बहूनां विदुषां लेखानुसन्धाने ग्रीसवैद्यकस्य मूलं मिश्रीयं स्रोतः प्राधान्येनावगम्यते । ग्रीसे वैज्ञानिकवैद्यकोदयात् पूर्वमेव मिश्रे वैज्ञानिकं वैद्यकं प्रतिष्ठितमुपलभ्यते च । देशसन्निकर्षोऽपीदं सङ्गमयति । तेन मिश्रीयभैषज्यविज्ञानबीजेभ्योऽपि ग्रीसे तदीयनत्राङ्कुरा उदिताः प्रतीयन्ते ॥

मिश्रगतं भैषज्यविज्ञानमपि केनापि देशान्तरविज्ञानेनानुप्राणितमुत स्वस्यामेव भूमिकायां स्वबलेनैवोत्थितं प्रतिष्ठितं चेति निर्धारयितुमसाधारणानि विनिगमकानि परिच्छेत्तव्यानि भवन्ति । अशोकशिलालेखतस्तत्समये (B. C. 273-233) मिश्रेऽपि भारताद्वैषज्यसंस्थानां भेषजानां च प्रवर्तनस्य स्पष्टोपलम्भेन, भारताद्विदुषो भिषजश्च सादरं नीतवतोऽलेक्जेण्डरस्योपरममनु (B. C. 323) अलेक्जेण्ड्रियायामुदिते भैषज्यविज्ञानविशेषे भारतीयविज्ञानप्रभासम्पर्कस्य बहुशः सम्भवितया च एतत्समयतःस्तु मिश्रेपि भारतीयभैषज्यविज्ञानप्रभानुवेधो वक्तव्य एव । अशोकशिलालेखेऽपि निर्दिष्टेन मिश्राधिपतिना तुरमय (Ptolemy Philadelphos) नाम्ना अलेक्जेण्ड्रियायाः प्रसिद्धपुस्तकालयस्य स्थापनमथवा वर्धनं व्यधायि, तदीयपुस्तकालयस्य कार्याध्यक्षो भारतीयानां बहूनां ग्रन्थानामनुवादे समुत्सुक आसीदिति एपीफेनिस (Epiphanius) महोदयेन वर्णितमस्तीति भाण्डारकरीये अशोक२नाम्नि पुस्तके दृश्यते । इरानग्रीसयोः (B. C. 479) सामयिके युद्धे प्लेटियारणस्थले ग्रीसवीरैः सह


१. Professor Diaz of the Konigsberg university clearly.detects the principles of Indian medicine in the Greek system.
Dr. Hirschberg of Berlin says—‘The whole plastic surgery in Europe had taken its new light when these cunning devices of Indian workmen became known to us. The transplanting of sensible skin flaps is also an entirely Indian method’. The same writer also gives credit to the Indians for discovering the art of cataract couching, ‘which was entirely unknown to the Greeks, the Egyptians, or any other nation’.
He also adds in a learned paper, with regards to certain surgical operations, that, ‘the Indians knew and practised ingenious operations, which always remained unknown to the Greeks, and which even we Europeans only learnt from them with surprise in the beginning of this century. Pp. 178, 193.
Dr. Huillet, late of Pondicherry, assures us that ‘Vaccination was known to a physician Dhanvantari, who flourished before Hippocrates’. P. 179
The Hindoos knew human anatomy and something of physiology. ‘The Hindoo Philosophers’, says Dr. Wise, ‘undoubtedly deserve the credit of having, though opposed by strong prejudice, entertained sound and philosophical views respecting uses of the dead to living; and were the first scientific and succesful cultivators of the most important and essential of all the departments of medical knowledge—practical anatomy’. P. 179.
The ophthalmic and obstetric and other operations have been practised for ages in India and ‘our modern surgeons have been able to borrow from them (Hindoos) the operation of rhinoplasty’.
Whitney says: ‘The medical science, although its beginning goes back even to the Veda, in the use of medicinal plants with accompanying incantations, is of little account, and its proper literature by no means ancient’.
Introduction to Whitney's Sanskrit Grammar P. XXII.
२. Asoka-by D. R. Bhandarkar P. 158.

उपोद्घातः१४१

भारतीयसेनाया अपि संमर्दस्य पूर्वं (पृ. ७६) निर्दिष्टस्यानु¹सन्धाने इरानेन सह भारतस्य घनिष्ठो मैत्रीसम्बन्धश्चासीदिति तु स्पष्टमेव। अभियातव्यस्य ग्रीसस्य भारतेन, अभ्यायातानां भारतीयानां ग्रीसेनाप्यवश्यं विज्ञेयतया ग्रीसभारतयोः हिपोक्रिटसतः पूर्वमपि मिथः परिचयो नासीदिति न वक्तुं शक्यते। तस्मिन् युद्धे भारतीयानामिव मिश्रीयानामपि सद्भावेतिवृत्तोपलम्भेन मिश्रभारतयोरपि मिथः परिचयः सम्भवति। युयुत्सया परकीयदेशं यान्त्या भारतीयसेनया सह महाभारतकौटिलीयलेखानुसारण भारतीयैर्भिषग्भिरपि भवितव्यमेव। तदात्वे न केवलं ग्रीसेन विशेषतः सहयोगिभिर्मिश्रीयैरपि भारतीयभिषजां परिचयलाभोऽनुमीयते। परं ततः प्राक्तनं मिश्रीयं भैषज्यविज्ञानं सापेक्षं निरपेक्षं वेति निर्णयो विचारमपेक्षते॥

मिश्रगतं प्राचीनं भैषज्यविज्ञानं किमात्मकमासीदित्यनुसन्धाने एबिरस-पेपिरस (Ebers Papyrus) नाम्ना ख्यातानि त्वक्पत्राणि प्राचीनभैषज्यविज्ञानचिह्नान्युपलभ्दानि। येषु काहुन-पेपिरसस्य प्रायः B. C. 1850 समयम्, एडविनस्मिथैनोपलब्धानां त्वक्पत्राणां प्रायः B. C. 1600 समयम्, एबिरस-पेपिरसस्य प्रायः B. C. उपसहस्रवर्षपूर्व समयं सम्भावयन्ति। परमेषां समयनिर्देशे विदुषां मतभेदस्यापि दर्शनेन काल्पनिके समये न्यूनाधिकभावोऽपि सम्भवेत्। काहुन-पेपिरसपत्रे विरेचनादिर्विषयः, ऐडविन-स्मिथोपलब्धेषु त्वक्पत्रेषु शल्यसम्बद्धाः ४८ विषयाः, रोगपरिज्ञानं, प्रतीकारः, व्यवहारगतौषधानि, रोगचिकित्साप्रक्रिया च; एबिरस-पेपिरसपत्रे सर्पदंशनादयः क्षयान्ताः १७०, मतान्तरे ७०० रोगा निर्दिष्टाः सन्तीति च वर्णय²न्ति विवेचकाः। ‘कतिपयानि रोगप्रतीकारव्यवस्थापत्राणि चोपलब्धानि। येषु कतिपयेषु पल्लीरुधिरं, शूकरकर्णदन्तमांसमेदांसि, कच्छपमस्तिष्कं, शयितायाः स्त्रियाः स्तन्यं, ब्रह्मचारिण्याः स्त्रिया मूत्रं, मनुष्यगर्दभश्वसिंहमार्जारयुकशुक्रमित्यादीन्यौषधानि निर्दिष्टानि दृश्यन्ते। कतिपयेषु मान्त्रिकी प्रक्रियापि निर्दिष्टाऽस्ति। प्रायस्ते मान्त्रिकप्रयोगेषु विश्वासवन्त आसन्। द्वादशवंशस्य राज्ञा निखातशवेन सह चषकाणि (Vases), लघुदर्व्यः (Spoons), शुष्कौषधानि, मूलानि चोपलब्धानि’’³ इत्यपि विल्डुराण्ट³ (Will Durant) महाशयो निरूपयति। एवमुपलम्भेन मिश्रे पुराकालेऽपि भैषज्यप्रवृत्तिरासीदिति ज्ञायते। मिश्रे भैषज्यविद्यासम्बन्धिनो लेखास्त्वक्पत्र (पेपेरी) रूपेण म⁴न्दिरेषु स्थाप्यमाना आसन्। राजकुलेऽपि मान्त्रिकभैषज्यप्रक्रिया, तस्याः प्रतिष्ठा चासीत्। मनुष्याणां देवानां चारोग्यसंपादकतया ‘रा’नामकदेवताया निर्देशः एबिरस-पेपिरसपत्रे लभ्यते इत्यपि वदन्ति। भारते रविरिव⁵ तदीयो ‘रा’ देवः प्रतीयते॥

असीरिया बेब्लोनियोयोः पूर्वं भैषज्यज्ञानम्

असीरिया-बेब्लोनियाप्रदेशोऽपि प्राचीनभैषज्यसम्बन्धिविषयोपलम्भः पूर्वं (७४) दर्शित एव। बेब्लोनियनीयप्राचीननृपस्य हेमूर्बन् (Hammurabi B. C. 100 मतान्तरेण B. C. 2500) नामकस्य सामयिकानां त्रयोदशलेखानां निर्गमनवृत्तमुपलभ्यते। यत्र साधुभावेन व्रणादिचिकित्सकानां प्रदेयं पारितोषिकद्रव्यं शस्त्रचिकित्सनादौ विपर्ययकृतां दण्डनमित्यादयो विषयाः सन्तीत्यच्यते। मिथ्योपचारिणां चिकित्सकानां दण्डो मन्वा⁶दिभिरपि निर्दिष्टोऽस्ति। हेमूर्वन्नृपस्य सामयिकं पूर्णं वर्णनमनुपलभ्य तादात्विकी परिस्थितिनैतावता सम्यक् परिच्छिद्यते। तदुत्तरमसुर⁷वनिपालसमये भैषज्यविद्यायां विशेषोऽवगम्यते। येन


१. (a) History of Greece Vol. V P. 20; by Grotes.
(b) Greater India by Kalidas Nag No. I, P. 15.
२. The Story of Civilization P. 182-83; by Will Durant.
३. The Story of Civilization P. 183; by Will Durant.
४. E. R. E. Vol. VI P. 541.
५. E. R. E. Vol. IV P. 750.
६. चिकित्सकानां सर्वेषां मिथ्याप्रचरतां दमः। अमानुषेषु प्रथमो मानुषेषु तु मध्यमः॥ मनुस्मृतौ ९. २८४.
भिषङ् मिथ्याचरन् दण्ड्यस्तियक्षु प्रथमं दमम्। मानुषे मध्यमं राजपुरुषेषूत्तमं दमम्॥ याज्ञवल्क्यस्मृतौ. २.२४२
७. History of Assyria by Olmstead P. 492.

१४२काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

पूर्व्वतः प्रवृत्तो मान्त्रिकोपचारः शैथिल्यमानीयत। परं तदात्वेऽपि मान्त्रिकी प्रक्रिया तत्रानुवर्त्तमानाऽऽसीत्। भैषज्यविद्यायां बेब्लोनियनीयं स्रोतो मिश्रस्य पूर्व्वस्रोतः$^१$ इत्युच्यते कैश्चिद्विपश्चिद्भिः॥

मिश्रबेब्लोनियेरानचीनेषु भारतीयशब्दादिसाम्यम्

मिश्रबेब्लोनियाऽसीरियाचाल्डियासुमेरियादिप्राचीनदेशीयसभ्यताया अनुसन्धाने भारतीयशब्दप्रतिच्छायानां शब्दानां भारतीयविषयप्रतिबिम्बारयितानां विषयाणां तेषु तेषु प्राचीनस्थानेषूपलम्भः, किं बहुना इक्ष्वाकुप्रभृतीनां भारतीयपूर्व्वनृपनामनामपि सुमेरियाप्रदेशीयनृपनामसंवादोपलम्भः समसभ्यतासम्बन्धमनुदर्शयतीति, केषुचिद्देशेषु क्वचन भैषज्यसम्बन्धिशब्दविषयविशेषादीनां बिम्बानुबिम्बभावोऽप्यस्तीति च (पृ. ७२-७६) पूर्वं निर्दिष्टमस्ति। अन्येऽप्येवंरूपा$^२$ दृश्यन्ते—

भारते.मिश्रे.भारतेबेब्लोनियायाम्
सूर्यः(हरिः)होरसअहि
ईश्वरःओसिरीससत्यव्रतहसिसद्र
ईश्वरीईसिस्अहिहन्ईहन्
शिवसेवदहनदगनु
शक्तिसेखेतचन्द्रसिन
प्रकृतिपख्तवायुविन
श्वेतसेतमरुत्मतु, मर्तु
मातृमेतेरदिनेशदियानिसु
सूर्यवंशीसूरियसमार्डिकमर्द्दूक
क्षत्रियखेतअप्अप्सु
अत्रिअत्तिस्तमस्त्यामत
मित्रमिश्रपुरोहितपटेसिस
शरद्सरदीश्रेष्ठिसेठ
रविरातैमाततियामत्

भा$^३$रत इव मिश्रे लिङ्गपूजनं वृषस्यादरः, बेब्लोनियां पृथ्व्याः पूजा इत्यादयो बहवः समसभ्यतासम्बन्धा विज्ञायन्ते॥

इरानीयानां प्राचीनमूलग्रन्थस्य जेन्दावस्थायाश्चतुर्षु भागेष्वेकतमः वेन्दिदादनामको विभागोऽस्ति। तदीयेषु प्रकरणेषु भैषज्यसम्बन्धिनो विषयाः सन्ति। तत्र सामावंशोद्भवः थ्रितो नाम सर्वप्रथमो वैद्य आसीत्, स रोगनिवृत्तये अहुरोमज्दानामकं तदीयं देवं सम्प्रार्थ्य सोमेन सह वर्धमाना रोगनाशिनीर्दशसहस्रोन्योषधीर्लेभे; वनस्पतीनां हओमः (सोमः) राजाऽऽसीत्। स थ्रितः क्षय्रवैर्यात् सहरवराच्च रोगनिवर्तकोपायान् विज्ञाय शस्त्रचिकित्साविज्ञानं च प्राप्य ज्वरकासशिरोरोगक्षयादीन् रोगान् न्यवारयत् इत्यादीनीतिवृत्तानि, तत्तद्रोगविशेषोपचारादयः, वैद्यैरिन्द्रियौषधतन्निर्माणज्ञानवद्भिः सुशीलै रोगप्रसादकैश्च भवितव्यमित्यादयः


१. E. R. E. Vol. VI P. 541. २. (a) The Modern Review, June 1910 P. 530-533. (b) Rgvedic India by A. C. Das P. 228-233; 261-265; 178-180. ३. (a) The Modern Review-June 1910 P. 530-533. (b) The Edinburgh Review (See Ibid) (c) Phallism; London (1889), P. 54.

उपोद्घातः १४३

शिक्षाविशेषाश्च तत्र लभ्यन्त इति $^१$वर्ण्यते। जेन्दावस्थायां वैदिकसाहित्ये चालोच्यमानयोः तदीयदेवतानां वैदिकदेवतानां च शब्दसाम्यं न केवलं देवताविषये, तदीयगाथानामनुवादतः संस्कृतशब्दानां बहुशस्तौल्यमस्तीत्युपवर्ण्यते। प्राचीनभारतसम्प्रदाय इवाग्न्युपासनहोमेष्ट्यादियागप्रभृतयो विषयाः सन्तीति पूर्वं (पृ. ७६) वर्णितमेव। हओमशब्दितस्य सोमस्य प्रशंसा ओषधिराजत्वं यागोप योगश्रैवमादयस्तत्र दृश्यन्ते।।

जेन्दभाषायां संस्कृतभाषायां च बिम्बानुबिम्बभावेनेत्यं शब्दा$^२$ दृश्यन्ते—

संस्कृतम्जेन्द.संस्कृतम्.जेन्द.
सरस्वतीहरह्यतीअसुरअहुर
सप्तसिन्धुहप्तहिन्दुदेवदैव
सोमहओमविश्वेदेवविश्योदैव
नासत्यनाहत्यनराशंसनैयोंसंघ
अर्यमन्एर्यमनवायुवयु
विवस्वत्विवङ्ह्वत्वृत्रहावेरेथ्रघ्न
काव्यउशनस्कवउसदानवदानव
अध्वर्युरथ्वीइष्टिइशित
आहुतिआजूइतिहोताजओता
बर्हिःवरेश्मन्आप्रीआफ्री
गाथागाथापशुपशु
अथर्वन्अथ्रवन्अहिअजि
यज्ञयस्नअपांनपात्अपंनपात्

इत्यादयो बहुशः शब्दास्तद्भवतत्समादिरूपेण एकच्छायावगाहिनो दृश्यन्ते। एतद्विषये Gatha by J. M. Chatterji & Yasna by L. Mills इत्यत्र विशेषतो निरूपितमस्ति। वेदे इव अवेस्तायामपि प्रधानदेवतास्त्रयस्त्रिंशत्संख्यया गण्यन्ते। एवं दर्शनेन प्राचीनेरानस्य प्राचीनभारतस्य च सम्बन्धो मिश्रासीरियाबेब्लोनियादेशापेक्षयाऽपि घनिष्ठ आसीदिति प्रतीयते।।

चीनदेशेऽपि प्राचीनौषज्यविषयोपलम्भः पूर्वं (पृ. ७५) निर्दिष्ट एव। तद्देशीयस्य सर्वप्राचीनस्य भैषज्यग्रन्थस्य (B. C. 2597) समयो व$^३$र्ण्यते। चीनदेशे भारतीयस्य बौद्धधर्मस्य प्रभावपातः, तद्धर्मप्रचारकाणां भारतीयानां तत्रोपगमः, भारतीयग्रन्थानामपि तत्र पूर्वकालात् प्रचारः, महाभारतादिषु भारतीयप्राचीनग्रन्थेष्वपि चीनदेशस्य चीनांशुकादेः, तन्त्रग्रन्थेषु चीनाचारस्य निर्देशः, कौटिल्यार्थशास्त्रे चीनदेशागतवस्तुषु शुल्कव्यवस्थानिर्देशश्चेत्यादीनां मिथो व्यवहारसाधनानामुपलम्भेन वैदिकसमये स देशः केन नाम्ना व्यवहृत आसीदित्यज्ञानेऽपि चीननाम्ना तद्देशस्य भारतेन, भारतस्यापि तेन परिचयो मिथो यातायातवाणिज्यादिसम्बन्धश्च पूर्वकालादेवासीदिति स्पष्टीभवति। काश्यपसंहितायामपि चीनदेशस्योल्लेखोऽस्ति।।

भारतचीनयोरन्तरावर्त्तगते काराशारनामकस्थाने वर्तमानायां प्राचीनकूचभाषायामपि भारतीयौषधवाचकशब्दविशेषाणां तत्समतद्भावादिरूपेणोपलम्भः पूर्वं (पृ. ७५) दर्शित एव।।


१. The Zendavesta Vol. I (S. B. E. Vol. IV) P. 225-230. २. Essay on the Religion of the Parsis by M. Haug P. 267. ३. The Surgical Instruments of the Hindus–Vol. I, P. 341; by G. N. Mukhopadhyay.

१४४काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

प्राचीनभारतस्य देशान्तरसम्बन्धः

उपदर्शितदिशा असीरिया–बेब्लोनिया–मेसोपोटामियामिश्रादिप्राचीनोन्नतदेशेषु शाखोपशाखारूपासु प्राचीनपाश्चात्त्यजातिषु च, किं बहुना अमेरिकागतरेडइण्डियनचीनादिसुदूरपर्यन्तमपि अद्यावदुपलभ्यभारतीयग्रन्थभूगर्भोपलब्धविषयाचारव्यवहारादीना-मायुर्वेदीयभैषज्यविद्यायाश्च तत्र तत्र न्यूनाधिकरूपेण तुलना परिदृश्यते। आथर्वणे यथा भूतादिवादप्रक्रियया मान्त्रिकप्रक्रियया च संवलितं भैषज्यं, प्राय एवं प्रकार एव भैषज्यसम्प्रदायः प्राचीनेषु प्रायः सर्वेषु देशेषु, प्रायः सर्वासु प्राचीनजातिषु च पूर्वोक्तदिशा विवेचकैरुपवर्ण्यते। नह्येवं विष्वक्प्रदेशेषु बहुशोऽसाधारणाः संवादाः काकतालीयन्यायेन स्वतः समुद्भवितुं युज्यन्ते। ईदृशी प्राचीनभारतस्य प्राचीनदेशान्तराणां च बहुर्शोऽशेषु समानविषयता साक्षात् परम्परया वा मिथः परिचयं सम्पर्कं व्यवहारं चैकान्ततोऽवगमयति ।।

प्राचीनभारतस्य पुराकालादेव देशान्तरैः सह सम्बन्ध आसीदिति अनेकैर्विद्वद्भि^१रुल्लिखितं चास्ति। मिश्रदेशे तत्सन्निकृष्टस्थानान्तरेष्वपि भारतस्य वाणिज्यसम्बन्ध आसीदिति तदात्वे (A. D. 100) मिश्रदेशस्तेन पेरिप्लस^२नाम्नाऽप्यु-ल्लिखितमस्ति ।।

सर विलियम जोन्स (Sir William Jones), मेजरविल्फोर्ड (Major Wilford), लुइस् ज्याकोलिओट् (Louis Jacolliot) प्र^३भृतिभिरपि सभ्यताकलास्मृतिज्ञानानि भारतादेव मिश्रदेशेऽपि गतानीति प्रतिपादितं वर्तते ।।

‘भारतीयभैषज्यविद्यायाः प्रभावो ग्रीसवैद्यके पतित इति अर्धेन मनसा पाश्चात्या लोका मन्यन्ते। मिश्रपर्सियाऽरेबियाद्वारा भारतीयं भैषज्यविज्ञानं ग्रीसे उपगतं, मिश्रपर्सियाऽरेवियादेशैरपि भारत्ताल्लब्धम्’ इति स्वमतमनुदर्शयन् जे. जे. मोदीमहाशयः^४ ‘सर्वदेशीयानां भैषज्यपद्धतीनां मूलमेकमेव, पाथागोरसेन हिपोक्रिटसपूर्वजैर्वा ग्रीसदेशे यद्भैषज्यविज्ञानं प्रथगतो गृहीतं तदपि


१. (a) History of Indian Shipping and Maritime activity from the earliest times—R. K. Mukarji.
(b) Intercourse between Indian and the Western World—H. G. Rawlison.
(c) Lassen's History of Indian Commerce.
२. The Periplus of the Erythraean Sea—P. 3.
३. Sir William Jones, in the report of the Royal Asiatic Society is led to believe that Egypt must have been in remote ages colonised by the Indian Aryans, and writers like Major Wilford consider the 'Mishrasthana' of the Purans to be no other than 'Mishra', the ancient name of Egypt. There is, on the other hand, no record of the Egyptians having ever migrated into India, Such circumstancial evidence has led some European writers—Louis Jacolliot among others—to affirm that if Egypt gave civlization to Greece and the latter bequeathed it to Rome, Egypt herself received her laws, arts and sciences from India. There is nothing in the Egyptian medicine which is not in the Indian system, and there is much in the elaborate Indian system that is wanting in the medical science of Egypt.
Short History of Aryan Medical Science Pp. 194-195.
४. It seems a half-hearted admission of the influnce of the Indian Medicine on the Greek Medicine, and in making this admission ...... but he seems to forget India's indirect influence on Greek Medicince exerted through Egypt, Persia and Arabia. Now it has been proved that Greek Medicine to a considerable extent owed its knowledge to these countries; ....... owe their medical knowledge to India. Referring India's indirect influence on Greek medicine practised by Hippocrates

उपोद्घातः १४५

मिश्रदेशीयानामृषीणां साहाय्येन प्राप्तं, मिश्रीयैरपि रहस्यपूर्णात् पूर्वदेशादधिगतम्' इति वाइजमहोदयस्य मतमुपवर्णयति। यूरोपीयप्राचीनराष्ट्रेषून्नतेः प्रागेव भारतेन ज्योतिषगणितविज्ञानभैषज्यादिविद्यासूत्रन्निधायिः सभ्यताया ज्ञानस्य च तत्त्वानामुद्गमः पूर्वदेशे बभूव; तत एव पश्चिमदिशि तेषां प्रतिसंक्रमणमभूत्, न तु पश्चिमतः पूर्वदेशे इति मोनियर विलियम्स (M. Monier Williams) म¹हाशयोऽपि निरूपयति ॥

पूर्वसमये सिन्धोः पारेगतान् देशानप्यन्तर्निधाय तादात्विककेन्द्रभूतात् तक्षशिलाश²रावतीपरिसरप्रदेशात् प्राच्यामासामदेशमवाच्यां चोलादिदेशान् यावदेकात्मतयाऽतिबहोः कालात् प्रतिष्ठितस्य प्राचीनभारतस्य प्रतीच्यां प्रतिवेशिस्थानीयानां मिश्रादिदेशानां मिथो यातायातसम्पर्कपरिचयादिसिद्धये कियती दूरता व्याघातिका वक्तुं शक्येत ॥

वैदिक्यामप्यवस्थायां भुज्युप्रभृतीनां द्वीपान्तरगमनमनुद्रुह्युतुर्वसूनां पित्रा निष्कासितानां द्वीपान्तरोपगमेन वंशान्तरप्रवर्तनं, पाण्डवैर्दूरदूरदेशानामपि विजयश्चैवमादीनामुपलम्भेन भारतीयानां द्वीपान्तरयातायातादिकमवगम्यते इति पूर्व (पृ. ७४) विवृतमेव। ऋग्वेदादिष्वपि सामुद्रिकनावामुल्लेखः, प्राचीनग्रन्थेष्वपि सामुद्रिकवणिजां शुल्कव्यवस्था चोपलभ्यते। वेदे 'पणि'नाम्ना देशान्तरेषु यायिनां श्रेणीरूपाणां वणिजां निर्देशो दृश्यते। एतादृशैरेव वणिग्जनैः पश्चिमैशियग्रीसमिश्रसेमेटिकप्रदेशेषु प्रभावः पातित इति ³ए. सी. दासमहाशयोऽप्युल्लिखति। महाजनकशङ्खजात⁴कयोरपि भारतीयवणिजां सिंहलबेब्लोनिया-सौवर्णभूमिप्रदेशेषु गमनमुल्लिखितमस्ति। कालिदासकविनाऽपि रघुमुपलक्ष्य पारसीकपर्‍यन्तम्⁵पि स्थलपथेनाभियाने दृष्टिः प्रदत्ता वर्तते। पश्चादपि चीनदेशात् खोतानघाटीद्वारा स्थलपथेन भारतमुपेतस्य फाहियानस्य सिलोनप्रदेशात्नौमार्गेण स्वं चीनदेशं प्रति निवर्तनस्य, ग्रीसदेशे रोमदेशे च नौद्वारैव सौकर्येण सम्भविनो भारतीयहस्तिसिंहादिनयनवृत्तस्य, पश्चिमदिश्यपि भारतात् झटिति प्रतिनिवर्तमानस्य यवनेशितुरलेक्जेण्डरस्य महत्यै सेनायै पर्याप्तानां नावामुपस्थितेरनुसन्धानेन, मिश्रेमेसोपोटामियादिषु जलतटस्थपथादपि जलपथस्थानुकूल्येन च भारतस्य पाश्चात्यदेशैः सह पुराकालान्मियो यातायातपरिचयसम्पर्कादिका व्यवहृतिर्न कथमपि व्याहन्यते ॥


& Pythagoras ....... western midicine, Dr. Wise in his book 'Hindu System of Medicine' says: 'All these midical systems have a common source ...... The Greecian philosophers were assisted by the Egyptian sages who appear to have obtained much of their knowledge from some mysterious nation of the East'. Fourth Indian Oriental Conference Vol. II P. 426.

१. (a) More than this the Hindus had made considerable advances in astronomy, algebra, arithmetic, botany and medicine, not to mention their superiority in grammar, long before some of these sciences were cultivated by the most ancient nations of Europe.
Vide-Sans. Eng. Dictionary, M. Monier Williams P. XXI.
(b) Is not the case that the earliest elements of Civilization and enlightenment have always originated in the East, and spread from the East to the West—not from the West to the East. Ibid P. XXIII.

२. लोकोऽयं भारतं वर्षं शरावत्यास्तु योऽवधेः ।
देशः प्राग्दक्षिणः प्राच्य उदीच्यः पश्चिमोत्तरः ॥

३. Rgvedic India by A. C. Das P. 198-208.

४. Intercourse between India and the Western World by H. G. Rawlinson P. 5.

५. पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्त्मना ॥ रघुवंशे ४ सर्गे.

१४६काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

धन्वन्तर्यादीनां पौर्वकालिकता

भारतीयआयुर्वेदविज्ञानस्रोतसो मूलोद्गममनुसन्धातुं दृष्टिमन्त्र्यालोचने—उपलभ्यमानायुर्वेदग्रन्थाचार्यतया ज्ञायमानानां धन्वन्तरिदिवोदासकाश्य पात्रेयाग्निवेशभेडसुश्रुतादीनामपि नार्वाचीनः समयः। धन्वन्तरेर्महाभारते, हरिवंशे, पुराणान्तरेषु (पृ. २९), मिलिन्दपह्रोपालीग्रन्थे (पृ. ३१), अयोधरजातके (पृ. ३१), चोल्लेखेन; भीमसेन पुत्रस्य दिवोदासस्य हरिवंशे, महाभारते, काठकसंहितायां, प्रतर्दनपितृत्वेन दिवोदासस्य कौषीतकि ब्राह्मणे, कौषीतक्युपनि’ षदि (पृ. २९), कातीयऋक्सर्वानुक्रमे, (पृ. ३०) महाभाष्ये च निर्देशेन; दिवोदासप्रतिष्ठापितत्वेन निर्दिष्टाया वाराणस्या महावग्गादावप्युल्लेखदर्शनेन (पृ. २९-३०), मारीचकाश्यपस्य महाभारते, ऋक्सर्वानुक्रमे, बृहद्देवतायाम् (पृ. १७) अथर्वसर्वानुक्रमे च निर्देशेन; भेडनिर्दिष्टस्य गान्धारस्य नग्नजितः ऐतरेयशतपथब्राह्मणयोः (पृ. ५१) निर्देशेन; भेडस्य आत्रेयान्तेवासितया गान्धारनग्नजित्साहित्येन च निर्देशेन; आत्रेयस्य मारीचकश्यपेन, सवाक्योद्धारमाचार्यतया भेडेन, कृष्णात्रेयनाम्ना च महाभारते निर्देशेन; भारद्वाजस्यापि महाभारते निर्देशेन च भारद्वाजधन्वन्तरिदिवोदासात्रेयमारीचकाश्यपनग्नजिद्दारुवाहवार्योविदानां सन्निकृष्टकालिकेन मिथः सम्बन्धेन एते उपनिषत्कालिका आचार्या इति तत्र तत्र पूर्वमुपदर्शितमस्ति । उपनिषत्कालविचारे पाश्चात्त्यविद्वन्मतानां पूर्वं (पृ. ३०) प्रदर्शितत्वेऽपि कौषीतक्यैतरेययोः B. C. 2500 इति चिन्तामणिविनायकमहाशयेन, ज्यौतिषगणनानुसारेण B. C. 1850-2900 इति दीक्षितमहाशयेन समर्थितमस्ति । पालीलेखतो महावग्गलेखतः सिंहलब्रह्मदेशीयोपकथातास्तब्बतीयमूल-लेखतोऽपि जीवकगुरोरात्रेय एवेति साधने प्रमाणानुपलम्भेन, आत्रेयस्य तक्षशिलोत्यानादुत्तरभवत्वे पाञ्चालगङ्गाद्वारपरिसरप्रदेशेषु बम्भ्रम्योपदिशता तेन विद्यापीठाभावेन प्रसिद्धियास्तक्षशिलाया अवश्यमुपादेयत्वेन प्रत्युत तन्नाम्नोऽप्यनु पादानेन, मारीचकश्यपेन गृह्यमाणनामतया च आत्रेयपुनर्वसोरनर्वाचीनत्वस्यावधारणेनापि तिब्बतीयोपकथामादाय जीवकगुरोरात्रेयो बुद्धसमकालिक इत्याशङ्का नावतिष्ठते। जीवकगुरोरात्रेयत्वाभ्युपगमेऽपि गोत्रनाम्ना व्यवहृतोऽन्य एव कोऽप्यात्रेयः स्यात्, न त्वात्रेयपुनर्वसुरिति च पूर्वं (पृ. ४०-४२-७९) निर्दिष्टमेव । जे. जे. मोदीम¹हाशयः सुश्रुतस्य B. C. 1500 समयं, डोरोथिया च्यापलिनमहा²शयो हिपोक्रिट्ससमयात् १२०० वर्षपूर्वं धन्वन्तरिसमयं वर्णयति। श्रीयुताक्षयकुमारमजूमदारमहाशयः जनकस्य विदेहराजस्य B. C. 2500, अगस्त्यस्य B. C. 2200 जाबालस्य B. C. 2000 जाजलेः B. C. 1900, पैलस्य B. C. 1800, कवथस्य B. C. 1800, धन्वन्तरेः B. C. 1600, भैमरथेर्दिवोदासस्य B. C. 1500 चरकसुश्रुतसंहितयोः B. C. 1400, 1500 समयं निर्देश³ति । ‘भारते भैषज्यविद्याऽपि बहोः पूर्वसमयादेवोन्नताऽऽसीत्’ इति F.E. Keay ⁴महाशयोऽपि ब्रवीति; ‘धर्म-दर्शन-विज्ञान-कला-सङ्गीत-भैषज्यविद्यासु B. C. 1500 तः B. C. 500 पर्यन्तं भारतस्य तुलनां स्पर्धो च कर्तुं योग्यं किमपि राष्ट्रान्तरं नासीत्’ J. C. इति च⁵टर्जीमहाशयोऽपि निरूपयति ॥


१. Writing about practical anatomy, i. e., dissection, Susruta, that famous Indian surgeon, and father of Indian surgery, who flourished in about 15th century B. C., has said ...... F. I. O. C. Vol. II P. 415-16.

२. Dhanvantari, the founder of Hindu Medical science, declared, about a dozen centuries before Hippocrates, that 'Health is positive-disease is negative', and how to turn the negative into positive was the Problem he set himself to solve.
Some Aspects of Hindu Medical Treatment P. 11; by Dorothea Chaplin.

३. The Hindu History by Akshaykumar Mazumdar P. 474-76, 791.

४. Medicine also received an early development in India as well as law.
Ancient Indian Education P. 42; by F. E. Keay.

५. In fact between the years 1500 and 500 B. C., the people of India were so far advanced in religion, metaphysics, philosophy, science, art, music; and medicine, that on other nation could stand as their rival, or complete with them in any of these branches of knowledge.
J. C. Chatterji. The Wisdom of the Hindus ed. by Brian Brown. P. XXV.

उपोद्घातः १४७

प्राचीनत्वेनावधारितेषु धन्वन्तर्यत्रेयकाश्यपादिमूलग्रन्थेषु मिश्रीयहिपोक्रिट्सीयादिलेखेष्विव पश्चात्संस्करणवशेन केषाञ्चिदवाचीनत्वेन शङ्क्यमानानामंशानां प्रवेशाभ्युपगमेऽपि, जीर्णोद्धारप्रक्रियया नूतनशिल्पसङ्कीर्णानां प्राचीनमन्दिरभवनादीनां यथा सर्वाशतो नूतनत्वं वक्तुं न शक्यते तथैवात्रापि मौलिकं प्राचीनत्वं न कथमपि व्याहन्यते इत्येष विषयः पूर्वं (पृ. ६०-६१) विवृत एव ।।

सुमेरियन्मिश्रादिप्रदेशानां पुरा काले तथोन्नतसभ्यतायाउपलम्भे तत्सहयोगि भारतं तदात्वे मोहनिद्रया सुषुप्तं स्यादिति न खलु सम्भावयितुं शक्यते । पूर्वतने मिश्रदेशभूगर्भसादिते शवशरीरे कपालभेदसन्धानाङ्क उपलब्धः, योऽद्यत्वेऽतिनिष्णातैरपि शल्यविद्भिः समुचितः समर्थ्यते । मिश्रदेशे विक्रमाब्दारम्भात् सार्धद्विशतवर्षपूर्वं (B. C. 301) शल्यविद्याया उन्नत्यवस्था, ततः शतद्वयवर्षानिनु तदनुविधानेन ग्रीसदेशेऽपि शल्यविद्योदय इतितिहासविदामुल्लेखोऽस्ति । सौश्रुते शल्यविज्ञाने देशान्तरीयशल्यविद्यायाश्छायानुपलम्भेन समयविचारे अन्ततो गत्वाऽपि सुश्रुतस्य २६०० वर्षेभ्योऽर्वाचीनताया वक्तुमशक्यतया बहुशः पाश्चात्यविद्वद्भिरपि तथैव निष्कृष्टमतोपवर्णनेन च देशान्तरीयेभ्यः प्रागेव सुश्रुतसमये भारतीया शल्यविद्या प्रौढावस्थामुपगता ज्ञायते । काश्यपसंहितायामात्रेयसंहितायामपि शल्यविद्याविषयोल्लेखेन ततः पूर्वमपि तत्प्रचार आसीदित्यवगम्यते । महावग्गीये जीवकेतिहासेऽपि कपालभेदनान्त्रवेधनादीनां शल्यप्रस्थानीयानां प्रस्थानान्तरीयाणां च भैषज्यानां भारते विशेषकौशलमीक्ष्यते । ततः प्रागपि रामायणभारतादियुद्धेषु यदैव जनानां मिथः संमर्दे बाणादीनां शल्यानि शरीरेष्वन्तर्गमनानि निष्कासनीयान्यभूवंस्तदाऽपि तदुद्धरणविद्याया विज्ञेयतया शल्योद्धरणविधानाम्ना शल्यविद्या स्वस्याः सत्त्वमवबोधयति । किमेतावदेव, आयुर्वेदीयप्रवाहस्य पूर्वपूर्वोद्गमालोचने अथर्वऋगादिष्वपि पूर्वोपदर्शितदिशा भग्नसन्धानादयः शल्यविषया उपलभ्यन्ते ।।

भारतीयस्रोतसोदेशकालव्याप्तिः

उपलभ्यमानग्रन्था धन्वन्तर्यत्रेयकश्यपभेदादय एव नास्मिन्नायुर्वेदप्रस्थाने मूलाचार्याः, पश्चात्प्रसिद्धैः संहिताकर्तृभिः कश्यपात्रेयसुश्रुतादिभिरेकैकं प्रस्थानाचार्यपीठमधिष्ठितैः कति पूर्वाचार्यानाम्ना निर्दिष्टाः, कति तु विनैव नामनिर्देशमपरे परे इत्यादि Muir/शब्दैरेव सूचिताः । ततः पूर्वतमाः भारद्वाजाश्विनादयोऽपि संहिताकर्तृतया ज्ञायन्ते । आश्विनादिसंहितासु कालबलेनाद्यत्वे दर्शनमप्राप्तास्त्वपि तदीयविषयवचनोद्धारादयः ताडपत्रीयज्वरसमुच्चयादिप्राचीनवैद्यकग्रन्थेषूपलभ्यन्ते । आयुर्वेदग्रन्थेष्वपीन्द्र-भरद्वाजादीनां परमाचार्यभावस्तत्परम्परयाऽस्य सम्प्रदायस्य प्रसरणं च विज्ञायते । अश्विनादीनां भिषग्भावो वेदेऽप्युपवर्ण्यते । सेयं सम्प्रदायपरम्परा भारतीयं स्रोतः समुन्नमयति । एवमायुर्वेदीयः प्रवाहः पूर्वपूर्वतोऽनुसन्धीयमानो वैदिकात् समयादात्मनः उदयं समृद्धिं चावबोधयति । तस्मात् प्राचीनतरसमयादेव वैदिकविज्ञानमहाशैलादुद्गच्छाद्यायुर्वेदीयं स्रोतस्तत्तदाचार्यविचारधारोपबृंहितं बहून् समयान् बहून् देशांश्चाभिव्याप । भारतीयमिदं स्रोतो वंशाङ्कुर इव केवलमुपर्युरिभावेन वर्तमानं नासीत्, अपि तु नानाप्रदेशीयानां बहूनामाचार्याणामनुसन्धानेऽपि समन्ततोऽपि प्रसृतमासीदिति प्रतीयते ।।

काङ्कायनस्य सुश्रुतसतीर्थ्यभावो डल्लणेन प्रदर्शितोऽस्ति । काङ्कायनो हि 'बाहीकभिषक्, बाहीकभिषजां वरः' इति आत्रेयेण बाहीकदेशीयभिषगुत्तमत्वेन निर्दिष्टो दृश्यते । मारीचकश्यपेनापि एतन्मतं सनामग्राहं निर्दिष्टमस्ति । तेनायमपि तादात्विकैर्विज्ञातो बाह्यदेशीयः प्राचीनतमो दृश्यते । बाहीकभिषग्जनेषु मुख्यत्वेनज्ञातस्यास्य काङ्कायनस्य दिवोदास-शिष्यभावेऽवगम्यमाने भारतीयभैषज्यविद्याया न केवलं भारते, अपितु बहिरपि आदर्शभावेन प्रसरणं, भारतस्य तत्तद्देशेभ्य इव बाह्य प्रदेशेभ्योऽप्येतदधिगमाय जिज्ञासूनामन्तेवासिभावेनोपगमश्च प्रतीयते । तस्य दिवोदासशिष्यत्वाभावेऽपि तदीयमतस्य भारतीयैः पूर्वाचार्यैरपि निर्दिष्टतया मिथः परिचयः स्पष्टीभवति ।।

न केवलं काङ्कायनः, औपधेनववैतरणौरभ्रपौष्कलावतकरवीर्यगोपुररक्षितभोजादयोऽपि दिवोदासान्तेवासिन आसन्निति सुश्रुतलेखतो ज्ञायते । अयोधरनाम्नि पालीजातके बुद्धस्य पूर्वजन्मनावदानोल्लेखे अतीतवैद्याचार्यत्वेन धन्वन्तरिणा सह सुश्रुतसतीर्थ्ययोर्भोजवैतरणयोः पूर्वं (पृ. ३१) निर्दिष्टोऽप्युल्लेखः पूर्वकालसम्बन्धमेव प्रत्याययति । एवं दर्शनेन औपधेनवादयस्ते आचार्याः पौर्वकालिकाः, नामाद्यनुसन्धानेन नानादेशीयाश्चावबुध्यन्ते ।।

१४८ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

पौष्कलावतकरवीर्यौरभ्राद्याचार्येषु वितर्कः

पूर्वेषामभिधानानि पितुर्मातुराचार्यस्य गोत्रस्य देशस्य असाधारणगुणविशेषस्य वा सम्बन्धमुपादाय व्यवहृतानि प्रायशो दृश्यन्ते। तेन प्राचीनव्यक्तिविशेषाणां नाम्नो दर्शने देशव्यक्तिविशेषादिकं किन्नाम मूलमुपादायेत्थं व्यवहृतमिति जिज्ञासा निर्वक्तुं नयने उन्मीलयति। एतन्न्यायेन साधितशब्दात्मकाः पौष्कलावतादयो नामविशेषा अपि कञ्चन देशविशेषं व्यक्तिविशेषं वा मूलसम्बन्धितयोपादाय ‘तत्र जातः, तत्र भवः’ इत्याद्यर्थविशेषप्रत्ययेन निष्पन्ना भवेयुः॥

तत्र पुष्कलावतो नाम न कोऽपि व्यक्तिविशेषो भारतीयेतिवृत्ते लभ्यते। किन्तु प्रदेशविशेषबोधकतया स शब्दो लभ्यते। पौष्कलावतो नाम ‘पुष्कलावतदेशे भव’ इत्यर्थमादाय देशनाम्ना तथा व्यवहृतः प्रतिभाति। पौष्कलावतो नाम भरतपुत्रेण पुष्कलेन निवेशित इति विष्णुपुराणे^१ऽस्ति। वाल्मीकिरामायणे^२ऽप्येतदुल्लेखोऽस्ति। आसन्दीवत्पस्त्यावच्छर्यणा-वदित्यादिभिर्वेददृष्टस्थाननामभिर्महाभारतोक्तवारणावतनाम्ना च सह सारूप्यं वहदिदं पौष्कलावतनाम स्वरूपेणापि भारतपश्चिमविभागीयप्राचीनदेशं प्रत्याययति। एतन्नाम्नी गान्धारराज्यस्य प्राचीना राजधानी चासीत्। अलेकजेण्डरागमनसमयेऽपीयं नगरी गान्धारे प्राधान्येनासीत्। एरियन्-ष्ट्रेवो-टालेमीप्रभृतिभिर्बहुभिः प्राचीनग्रीसविद्वद्भिः सिन्धोर्नातिदूरे महानगरतया अस्या उल्ले खेन ग्रीकजनैरपि विशेषतः परिचिता कीर्तिता चेय^३मासीत्। तत्प्रदेशीय एवायमाचार्यः पौष्कलावतः सम्भाव्यते। सुश्रुतेन शल्यप्रधान^४तन्त्रकर्तृतया सविशेषं निर्दिष्टोऽयं शस्त्रवैद्यके गान्धारप्रदेशस्यापि पुरा प्रतिष्ठामवबोधयति॥

करवीर्यशब्दः ‘करवीरप्रदेशे भव’ इत्यर्थमवबोधयन्निव भाति। करवीर^५पुरं दृषद्वत्यास्तटे आसीदित्युपलभ्यते। कालिकापुराणेऽप्यस्य करवीरपुरस्योल्लेखोऽस्ति। दृषद्वती वेदेऽपि प्रसिद्धा। करवीरपुरोद्भवत्वेन तस्य तथाऽभिहितत्वे तत्प्रदेशीयत्वमप्यस्याचार्यस्य सम्भवति। किंवा शस्त्रचिकित्साविद्वत्तया करगतं तत्कौशलरूपं वीर्यं वहन्नाचार्यविशेषोऽनेन नाम्ना प्रसिद्धोऽपि सम्भवति॥

किञ्च—इरानदेशीयप्राचीनावेस्ताग्रन्थाभ्यन्तरे वेन्दिदादनाम्नि भैषज्यप्रकरणे तदीयशल्यचिकित्साविज्ञानस्य मूलाचार्यः क्षथ्रवैर्र्यनाम्ना कीर्तितोऽस्ति। अद्यत्वे व्यवह्रियमाणस्य वेन्दिदादशब्दस्य प्राचीनं स्वरूपं विदैवोदात^६ इत्युच्यते। वैदिकसम्प्रदाये समीचीनभावावबोधकेषु सुरदेवादिBack/शब्देषु तेषामसदर्थावभासेन किल सदर्थपर्यवसानाय असुरविदेवादिप्रयोगस्य दर्शनेन तन्न्यायेन दैवोदासशब्देऽपि ‘दिव’-शब्देन सह ‘वि’-शब्दस्य सम्पर्केण भैषज्यविद्यायुतविभागबोधको विदैवोदातशब्दः अपभ्रंशभावेन दैवोदाससम्प्रदायमभिप्रैति किमु इति तर्कनाऽप्युदेति। अहुरमज्दात औषधीन् क्षथ्रवैर्र्यात् सोहरवराच्च कायचिकित्साशस्त्रचिकित्साविज्ञाने च श्रितोऽवाप्तवानिति, तत्र शस्त्रविज्ञानस्याद्य उद्भावकः क्षथ्र^७वैर्र्य इति चोल्लिख्यते। श्रितस्याप्याचार्यभावेन निर्दिष्टौ क्षथ्रवैर्र्यः सोहरवरश्च कौ? इत्यनुसन्धातुं युज्यते। विदैवोदातशब्दे दैवोदासशब्दस्य प्रतिभानेन तत्साहचर्येण चिकित्साविज्ञानाचार्यविशेषे सोहरवरे सुश्रुतस्य, शल्यचिकित्साविज्ञाननवोद्भावके क्षथ्रवैर्र्ये दिवोदासशिष्यस्य


१. Viṣṇu Purāṇa (Bk. IV. Ch. 4) trans. by H. H. Wilson Vol. III, P. 319.
२. Rāmāyaṇa-uttara, Chs, 101, 114, Lassen-J. A. S. B. 1840, P. 476.
३. Penkalaltis (Pukkalaoli-Pali; Puskalavati Skt.) which is also of great size and not far from the Indus.
M'crindle's–Megasthenes & Arrian. P. 184.
४. औपधेनवमौरभ्रं सौश्रुतं पौष्कलावतम्। शेषाणां शल्यतन्त्राणां मूलान्येतानि निर्दिशेत्॥ सुश्रुते. सू. स्था. अ. ४
५. Sanskrit-Wortlbuch Vol. I, P. 112; by O. Bo htlingk & R. Roth.
६. (a) Essays on the Religion of the Parsis by M. Hang P. 268.
(b) Zendavesta Part I (S. B. E. Vol. IV) P. LXX by J. Darmesteter.
७. Zendavesta Part I (S. B. E. Vol. IV) P. 226-27, J. Darmesteter.

उपोद्घातः १४९

शल्यप्रस्थानाचार्यस्य सुश्रुतसतीर्थ्यस्य करवीर्यस्य शब्दतः कार्यतश्च सन्निकर्षेण काचन आभा उदेति। भारतीयपूर्वाचार्यकृतो निर्देशो बाह्लीकभिषजः काङ्कायनस्य भारतेन परिचयमिव, वेन्दिदादनिर्देशो भारतीयाचार्याणां दिवोदाससुश्रुतकरवीर्याणामिरानेन परिचयमभिव्यञ्जयति किमु ?। अवेस्तायां भारतीयशब्दविषयादीनां साम्यं पूर्वमुक्तमेव। तद्वद्भैषज्यानुसन्धानेऽपि—

अथर्ववेदेअवेस्तायाम्अर्थः
तक्मन्तफ्नुज्वरः
अप्वाअजह्नुअपवाहः
पामा (सुश्रुतेऽपि)पामन्चर्मरोगः
शीर्षक्तिःसारस्त्यशिरोरोगः
सारणःसारन^१

एवं कुरुघ (दुष्टव्रण), दुरुक् (अश्मरी), अघोस्ति (शीर्णास्थि), दञ्जु (ज्वर) र इत्यादिशब्देष्वपि कुरुक्, दृषत, ..... ऽस्थि, दाह इत्यादिसंस्कृतशब्दापभ्रंशता प्रतीयते। अन्येष्वपि शब्देष्वनुसन्धाने बहुशः साम्यं प्रतिच्छाया वोपलक्ष्येत। अवेस्तायां मानसं शारीरकं चेति द्विधा^२ स्वास्थ्यं वर्ण्यते। सुश्रुतेऽपि 'पुनश्च द्विविधाः शारीरा मानसाश्च' (सू. स्था. अ. २४) इति द्वैविध्योल्लेखोऽस्ति। अवेस्तायां मन्त्र (मन्त्र), उर्वर (उर्वीरूह), केरेत (कर्तिका, कर्तरी, करपत्रं वा) इति मन्त्रवनस्पत्योषधिशस्त्ररूपास्त्रयो रोगनिवर्तनोपा^३याः कीर्तिताः सन्ति। भारतीये भैषज्यसम्प्रदायेऽपि मन्त्रौषधशस्त्ररूपास्त्रिधा प्रतीकारोपायाः पूर्वानुवृता दृश्यन्ते। अवेस्तायां 'गौकिर^४न, इति, यस्य पश्चाद्द्द्रवभाषायां 'गोकार्त' इति रूपं जातम्, तस्य सर्वप्रधानौषधिवृक्षभावेन निर्देशोऽस्ति। यः शब्दो 'गोकर्ण' इति अश्वगन्धावाचकस्य संस्कृतशब्दस्य विकृतिरिव भाति। अश्वगन्धाया आयुर्वेदेऽपि प्राशस्त्यं कीर्त्यते। सोमस्य यज्ञसम्बन्धितया ओषधिभावेन चोभयथाऽप्युपयोग उभयत्र दृश्यते। अवेस्तायां भैषज्यविज्ञानं, वैद्यः, रोगः, रोगनिवृत्त्युपाय इति भैषज्यस्य चत्वार^५: पादाः कीर्तिताः सन्ति। आयुर्वेदीयसम्प्रदायेऽपि भैषज्यविज्ञानं, वैद्यः रोगः, परिचारक इति कचन अंशो गणनीयांशनविभेदेऽपि धन्व^६न्तरिकश्यपात्रेयभेदादिभिश्चतुष्पाद-सिद्धान्त उपवर्णितोऽस्ति। थ्रितेन अहुरोमज्दातो विषप्रतीकाराय 'विसचित्तं', शल्यचिकित्सार्थं सौवर्णाग्रच्छुरिका च लब्धे इत्युप^७वर्ण्यते। विसचित्तमिति शब्दे 'विषचिकित्सा विषकृत्यं वा' अस्य शब्दस्य छायेव प्रतिभाति। भारतीये सम्प्रदायेऽपि


१. सारणसारनशब्दयोरानुपूर्वीसाम्येऽपि वैदिकस्य अतीसारबोधकतया, अवेस्तागतस्य शिरोरोगबोधकतया निर्देशेन अर्थभेदो दृश्यते।
२. E. R. E. Vol. IV P. 758 by L. C. Casartelli.
३. Ibid Vol. IV P. 758 by L. C. Casartelli.
४. (a) Zendavesta Part I (S. B. E. Vol. IV), P. 227. (b) E. R. E. Vol. IV P. 758 by L. C. Casartelli.
५. It is curious to remark that Hindu medical science also distinguished the four feet (Pada) of medicine. which, however, were reckoned as the physician, disease, medicine, the nurse; while Hippocrates has a threefold division. (de morb, Vulg. i. 1.)
E. R. E. Vol. IV P. 759 by L. C. Casartelli
६. सुश्रुते—वैद्यो व्याध्युपसृष्टश्च भेषजं परिचारकः। एते पादाश्चिकित्सायाः कर्मसाधनहेतवः ॥ सू. स्था. अ. ३४
काश्यपीये—भिषक्, भेषजम्, आतुरः, परिचारक इति। पृ. ३७ चरके—भिषग्द्रव्याण्युपस्थाता रोगी पादचतुष्टयम् ॥ सू. स्था. अ. ९
७. (a) As Khshathravairya presides our metals it was a knife he received, 'of which the point and the base were set in gold'. He was therefore the first who healed with knife, as well as the first who healed with herbs. Zendavesta Part I (S. B. E. Vol. IV), P. 227.
(b) E. R.E. Vol. IV, P. 758.

१५०काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

कर्णवेधे सौवर्णसूच्याः, चूडाक्षुरकर्मणि सुवर्णसम्पृक्तक्षुरस्य उपादेयत्वं लभ्यते। सुश्रुते शल्यचिकित्साशास्त्रोपवर्णने ‘तानि (शस्त्राणि) प्रायशो लौहानि भवन्ति’ इत्युक्तमस्ति। यस्य व्याख्यायां ‘लोहाः पञ्च सुवर्णादयः’ इति सुवर्णप्रमुखभावेन निर्देशोऽस्ति। एवं दर्शनेन तदीयप्रथमवैद्यस्य त्रितस्याऽप्याचार्यभावेन निर्दिष्टस्यावबोधके क्षथ्रवैर्यशब्दे करवीर्य-क्षेत्रवीर्य-क्षतवीर्येत्यादिभारतीयसंस्कृतच्छायाया दृश्यमानतया भारतीयसम्प्रदाये ज्ञायमानः करवीर्योऽन्यो वाऽज्ञायमानः कश्चन भारतीयो भिषगाचार्य इव स प्रतिभाति॥

तूङ्गाङ्गतहार्नलोपलब्धप्राचीनलेखे जीवकाय बुद्धेन कृते भैषज्योपदेशे पूर्वं (पृ. २८) निर्दिष्टे संस्कृतेन सह प्राचीनेरानभाषानुवादस्याप्युपलम्भो भारतीयभैषज्यविषयस्य प्राचीनेराने ग्रहणमादरं स्वभाषायामनूद्यापि प्रचारं च दर्शयति॥

अवेस्तायां भैषज्यप्रस्थानोद्भावकत्वेन थ्रितस्य, रोगनिवृत्तेः प्रार्थनाकर्तृतया थ्रैतानस्य निर्देशेन, वेदेऽपि त्रितस्य त्रैतनस्य चोपलम्भेन वेदे अवेस्तायां च निर्दिष्टौविमौ शब्दसामीप्यादेकौ स्यातामिति बहूनां विदुषां$^१$ दृष्टिरस्ति। ऋग्वेदे त्रैतनस्य सकृदुल्लेखेऽपि जिघांसया दीर्घतमतृषिं जलाग्न्योः पातयतस्तदङ्गच्छेदकस्य दासजातीयस्य भावेन$^२$ निर्देशदर्शनादश्विभ्यां भूयो रक्षितस्यापि दीर्घतमस ऋषेः प्रतिपक्षः कश्चन विपक्षः स त्रैतन इति प्रतीयते; परं नास्य भैषज्यसम्बन्धो वैदिकाल्लेखाल्लभ्यते। त्रितस्य ऋग्वेदेऽथर्ववेदे च बहुश उल्लेकखेऽपि क्वचन त्रितशब्दोऽग्न्यादिदेवताविशेषपरत्वेन व्याख्यातोऽस्ति। यत्र मानवभावावबोधकः स शब्दोऽस्ति तत्र क्वचन सूक्तद्रष्टृषिभावेन त्रितस्योपलम्भोऽस्ति। बृहद्देवतायां यास्कनिरुक्तेऽपि ऋषित्वमुल्लिखितमस्ति। ईदृशेषु स्थलेषु त्वर्थान्तरमेव। यत्र तु वेदे ‘आप्यः आप्त्यः त्रितः’ अवेस्तायाम् ‘आथ्व्यः थ्रितः’ इति शब्दतो बहुशः साम्यं दृश्यते, तत्र परिवेदनदुःस्वप्नस्वर्णकारमालाकारादिदुष्कृतमार्जनस्थानत्वेनापि त्रितस्योल्लेख$^३$दर्शनेन वैदिके सम्प्रदाये हेयभावेन गृहीततया सुराणामसुर इव त्रितेऽपि विपक्षभावोऽवबुध्यते। त्रितस्य थ्रितस्य चैकत्वे वैदिकाश्विनभैषज्यसम्प्रदायस्येव इरानीयरूय थ्रितभैषज्यसम्प्रदायस्यापि समयो विशेषेणोपर्यरारोहति। किन्तु त्रिते भैषज्यविषयसम्बन्धो न क्वापि वेदे दृश्यते। तैत्तिरीयसंहितायामेकत्र (१. ८. १०. २) आयुष्यदातृतया त्रितस्य प्रार्थनोपलम्भेन वैदिके त्रितेऽपि भैषज्यसम्बन्धो दृश्यत इति मार्टिन विदुषा$^४$ कथ्यते, तथाऽपि तत्र त्रितशब्दस्य अग््न्यर्थकत्वेन व्याख्याततया राजसूयप्राकरणिकतया च प्रकृते त्रिते भैषज्यविषयसम्बन्धस्ततोऽपि न स्फुटीभवति। विचारणीयोऽयं तर्कविषयः॥

औरणशब्दो हि उरणस्यापत्यमिति उरणे भव इति वाऽर्थमादाय व्यक्तिविशेषस्य देशविशेषस्य वा वाचकादुरणशब्दात्रिष्पन्नः स्यात्। उरणव्यक्तिः उरणदेशो वा प्राग्भारते न ज्ञायते। उरणशब्द उरणशब्दश्च मेषावबोधकतया प्रसिद्धौ, वेदेऽप्युपलभ्येते। सिन्धौ संगच्छन्त्या ऊर्णावत्या नद्या वेदेऽप्युल्लेखोऽस्ति। गान्धारे तदुत्तरदेशेषु च मेषप्राचुर्यं पुराऽपि कीर्त्यते। तत्राचुर्यसम्बन्धेनैव स्यात् नद्या अपि ऊर्णावतीति नाम निरुच्यते। ‘अध्वर्यवो य उरणं जघान’ इति ऋङ्मन्त्रे (२.१४.४) इन्द्रेण हतस्य उरणनामकस्यासुरस्योल्लेख उपलभ्यते। बेबिलोनदेशस्य प्राचीननगरेष्वेकम् ‘उर’ नामकं नगरमनुश्रूयते। यत् चाल्डियनानां समये अब्राहमस्य प्रधानस्थानं, सुमेरियनानां B. C. 3000 पूर्वसमये सेमेटिकसत्तायाः प्रारम्भे सारगानवंशजानन्तरम् ‘उरगुर’ नाम्नः ‘उर एन गर’ नाम्नो वा नृपस्य समये उरनगरं प्रधानं, बाबिलोनसमयस्यान्तपर्यन्तं धार्मिकवाङ्मययोर्विषययोः प्रसिद्धतरं चासीत्। उरनगरे प्राचीनस्य ‘उ$^५$र नम्मु’ (Ur Nammu B. C. 2300-2200) नामकस्य ‘बर्सिन’ (Bursin) नामकस्य च नृपस्य शिलालेखौ प्राप्तौ। असीरियन्प्रदेशीयपूर्वजातयः असुरत्वेनाभ्युपगम्यन्ते। इन्द्रेण हत


१. Essays on the Religion of the Parsis by M. Hang, P. 277-78.
२. ऋक् १. १५८. ३
३. ऋक् ६. ४७. १४-१५। अथर्व ६. ११३. १/६. ११४. ३/१९. ५६. ४
४. Essays on the Religion of the Parsis by H. Hang. P. 277-78.
५. Babylonian Life and History P. 221-23 by E. A. Wallis Budge.

उपोद्घातः | १५१

उरणस्तद्देशीयः सम्भावयितुं शक्यते । उरशब्दस्य उरभ्रदिशब्देष्वनुगमस्तद्देशसम्बन्धसूचनाय चेतः संशाययति । उरप्रदेशे भारतीयशालवृक्षकाष्ठमुपलब्धमासीदिति ए. सी. दा^१सो वर्णयति । तद्देशवाचकस्य उरशब्दस्य सम्बन्धेन उरभ्रशब्दो निष्पन्नश्चेत् काङ्कायनेन बाह्लीकप्रदेश इव दिवोदासशिष्येणोरभ्राचार्येण उरप्रदेशोऽपि उपुरक्षितः किमु इति तर्कणास्थानमुदेति ॥

गोपुररक्षितनाम्ना निर्दिष्टौ गोपुरो रक्षितश्चेति द्वावाचार्यौ केचन मन्यन्ते । केचन समष्टिनाम्ना व्यवहृत एक एवेति मन्यन्ते । दाक्षिणात्यशिल्पग्रन्थे गोपुरस्य निर्देशात् दाक्षिणात्यदेशेषु गोपुरस्याद्यापि विशेषतः प्रसिद्ध्या च गोपुरनाम्ना व्यवहृत आचार्यो दाक्षिणात्योऽपि भवितुं सम्भवति । किन्तु महाभारते रामायणेऽपि गोपुरस्य पुरद्वारार्थकस्योपलम्भेन एतावतैव देशनिर्धारणं कर्तुं न शक्यते । किंवा गोपुरमिव अज्ञातनगरान्तरस्य सम्बन्धेन व्यवहृतो गोपुररक्षितोऽपि सम्भवति ॥

प्राचीनो भोजदेशः कान्यकुब्जदेशगतभागीरथ्या दक्षिणे तटे पञ्चदशषोडशक्रोशान्तराले आसीदित्यु^२पवर्ण्यते । दिवोदासान्तेवासी भोजाचार्यो भोजदेशसम्बन्धमादाय तन्नाम्ना व्यवहतः सम्भवति ॥

उपधेनोरपत्यसम्बन्धमादाय औपधेनव इति निष्पद्यते । औपधेनव नामाचार्योऽन्यत्र नोपलभ्यते । किन्तु उपगोरपत्यमौपगव इति पाणिनीयसूत्रोदाहरणे महाभाष्यकृता उपग्वपत्यरूपेण औपगवो निर्दिष्टोऽस्ति । विष्णुपुराणे मिथिलागृपतेः सीरध्वजस्य भ्रातुः काशिराजस्य कुशध्वजस्य वंशोद्भव एक उपगुर्लभ्यते । उपगुर्नाम वशिष्ठगोत्रोद्भव ऋषिविशेषोऽपि लभ्यते । औरवकौत्सनृपतिपुरोहितस्य सौश्रवस उपगोराख्यानं पञ्चविंशब्राह्मणे (१४. ६. ८) दृश्यते । औपगवेर्यूनश्छात्रा औपगवीया इति महाभाष्यकृता (४. १. ३. ९०) लिखिततया छात्रसम्प्रदायप्रवर्तकत्वमौषगवस्यावगम्यते । सोऽयं प्रसिद्ध औपगव एव औपधेनवः किमु ? पर्यायशब्दैरपि पूर्वेषां क्वचन व्यवहारो दृश्यते । कोऽयमौपधेनवः कुत्रत्यश्चेति न निश्चीयते ।

ईदृशास्तर्का दृढप्रमाणपर्येषणामन्तरेण न किमपि निश्चाययितुं प्रभवन्ति । तदपि दर्शितेन पथा तर्कितानीमान्याचार्यनामानि भारते तत्र तत्र प्रदेशेष्विव बहिर्दूरदेशेष्वपि धान्वन्तरसम्प्रदायालोकप्रसरणे द्वारसद्भावं सम्भावयन्ति । एवन्न्यायेन न केवलं धान्वन्तरसम्प्रदायस्यैव, किन्तु विभागान्तरीयभैषज्यविज्ञानानामप्यालोकस्य परितः प्रसरणाय द्वाराणि भवेयुः । किमन्यत्, ऋग्वेदोऽपि प्रयुज्यमानस्य वैद्यवाचकस्य भिषक्-शब्दस्य औषधवाचकस्य भेषज-शब्दस्य च विकृतमाकारं स्फुटमवबोधयन्तौ बिजिष्क (Bejishke) बेषज (Beshaj) शब्दौ इरानदेशीयपर्शुभारतीयभाषायां, बिझिष्क (Bzhishk) बेझष्क (Bzhshkel) शब्दौ अर्मिनियन्भाषायामप्युपलभ्येते इति पूर्वं (पृ. ७६) निर्दिष्टमस्ति वैद्यौषधवाचकयोः प्रधानशब्दयोरपि एवंरूपेण पूर्वकाले दूरदेशान्तरप्रसरणेऽवगम्यमाने एतद्विद्या प्रस्थानविषयाणां परितः प्रसरणे न किमपि कौतुकम् । वाडेल^३महाशयेन सुमेरियन्प्रदेशीयप्राचीनमुद्रागतैः साङ्केतिकाक्षरैः कल्पितानां तद्देशीयशब्दानां भारतीयशब्दानां च

वृगु-भृगु.सख-शक्र.गुधिया-गाधि.
वर्गव-भार्गव.इन्दुरु-इन्द्रसुसिन-सुषेण.
गुर्गु-गर्ग.अस्सि-अश्वि.एमद्गल-मुद्गल.
हनक-जनक.गल्ह-गालव.उर्वस-हर्यश्व.

एवंदिशा बहुशो बिम्बानुबिम्बभावेन साम्यं सम्भावितमस्ति । किं बहुना धन्वन्तरिदिवोदासयोरपि तत्रोद्भावनं कृतम् । तद्गतपूर्वनृपादीनामिशीवीयाब्दारम्भतः उपद्वित्रसहस्रवर्षपूर्वत्वं च दर्शितमस्ति । शालिहोत्रीये पूर्वं (पृ. १२) निर्दिष्टे आयुर्वेदशास्त्रकर्तृनिर्देशे गालवस्योल्लेखेन, चरकोपक्रमग्रन्थेऽप्यायुर्वेदप्रवर्तकाचार्येषु तन्नामोपलम्भेन च गालवोऽप्यायुर्वेद-


१. Rigvedio India by A.C. Das P. 216-19.
२. Geographical Dictionary of Ancient and Mediaeval India. by Nundo Lal Day. P. 33.
३. Indo—Sumerian Seals deciphered. Makers of civilization in Race and History. by L. A. Waddell.

११ का.सं.

१५२ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्

विद्यायामाचार्यभावेनावगम्यते । गालवस्य काशिराजदिवोदाससङ्गमो मारीचकाश्यपाश्रमद्रष्टृत्वं च महाभारतोक्तमपि पूर्वं (पृ. १७) निर्दिष्टमेव । तस्य गालवस्य अश्वलिप्साप्रसङ्गेन इतस्ततो दूरेऽपि पर्यटनं महाभारतलेखादायाति । सुमेरियन्प्रदेशीयपूर्वमुद्रादृष्टो गल्हो नाम गालव इति वाडेलमहाशयेन सम्भाव्यते । मुद्गलमौद्गल्यादीनामपि भारते वैद्याचार्यतयोपलब्धिरस्ति । सुमेरियन्प्रदेशीये एमद्गले ‘अजू’ इति वैद्यविद्याज्ञानावबोधकं विशेषणमस्तीत्यपि वाडेलमहाशयेनोच्यते । यदि गल्ह-गालवयोः, एमद्गल-मुद्गलयोरैक्यं भवेत् तदा भारतीयायुर्वेदविद्याचार्यैः सुमेरियन्प्रदेशोऽप्युपरञ्जितः सम्भवेदिति वितर्कोऽप्युदेतुं शक्नोति । परमतिप्राचीनविषयतया प्राचीनमुद्राक्षराणामपि ऐकमत्येनानिश्चिततया तदीयेषु सम्भावितगालवजनकधन्वन्तरिदिवोदासादिषु भैषज्यवेत्तृत्वादेर्विषयस्यानुपलम्भेन च पूर्णतयाऽनुसन्धानं विना नैतावन्मात्रेण प्रकृते याथातथ्येन न किमपि वक्तुं शक्यत इत्यास्तां तावदेतत् । अस्यां काश्यपसंहितायां भोजनकल्पाध्याये (पृ. २०६) सात्म्याशनप्रसङ्गे काश्मीरचीनापरचीनादिभिः सह बाह्लीकदासेरकशातसाररामणदेशानामप्युल्ले खोऽस्ति । दासेरकदेशो मालवाप्रान्तीय इति कैश्चिदुच्यते । परं महा२भारतेऽनेकस्थलेषु दासेरकोल्लेखे मालवस्य पृथगुल्लेखदर्शनेन मालवदेशादन्य एव स देश इति ततः प्रतीयते । शातसारः को देश इति च न प्रतीयते । तथाऽपि बाह्लीकरामणदेशसाहित्येन दासेरकशातसारयोरपि तत्सन्निकृष्टदेशविशेषत्वमनुमीयते । रामणदेशस्तु अरमेनिया (Armenia) देश३ इति निरूपितोऽस्ति । रामणपर्वतस्योल्लेखो जेन्दावस्तायामप्यस्ति । म.४भारते उत्तरीयनानाजातीनां निर्देशे हूणपारसीकचीनादिभिः सह रमणजातीनां, निषधस्योत्तरतो रमणवर्षस्य निर्देशश्च दृश्यते । एवमुल्लेखदर्शनेन अरमेनियाप्रदेशपर्यन्तमपि भारतीयपूर्वाचार्याणां परिचय आसीदित्यनुमातुं शक्यते । अलेक्जेण्डरेण सह नीतानाम्, अशोकसमये इतस्ततः प्रेषितानां च विदुषां कानि नामानीति इतिहासो निगूहते । ‘यिशुखृष्टस्य समये मिश्रदेशे ‘थेराप्यूत’ नाम्ना प्रसिद्धाः केऽपि विरक्ता भिक्षुवृत्तय आसन् । येषां शिक्षाप्रभावो यिशुखृष्टेऽपि पपात । इमे पूर्वदेशाभिजनाधर्मोपदेशेन साकं चिकित्सामपि कुर्वाणा आसन् । येषां नाम्ना पाश्चात्यचिकित्साशास्त्रे ‘थेराप्यूटिक्स’ नामको विभागविशेषोऽस्ति । एषां थेराप्यूतानां जीवनं भारतीयथेरो (स्थविर) भिक्षूकाणामिवासीत् । अशोकसमये पाश्चात्त्यप्रदेशेषु गतानां भिक्षुकाणां चिकित्सकानां च सन्ततय एते भवेयुः’ इति भारतेयेतिहासग्रन्थे जय५चन्द्रविद्यालङ्कारो वर्णयति । पोकाकम६हाशयोऽप्येवमेव निरूपयति । देशान्तरीयेतिहासेष्वपि कति निलीना भवेयुः । देशान्तरेतिहासगतान्यपि कति भारतीयनामानि देशान्तरभाषासु बहुशो विकृत्या अपरिचयभावमापद्य तद्देशीयव्यक्तिनामानीव प्रतीयमानानि स्युः । यथा हि कलोनस (Kalanos) नाम्नाऽभिहितो भारतीयः कल्याण इति विवेचकैर्निरूप्यमाणः स एवायमिति परिचीयते । एवंभावेन बहुशो विकारैर्विवेचकदृशो बहिर्भावेन च भारतीय अपि अपरिचयभावेन देशान्तरीया इव प्रतीयमाना इतिहासगर्भंगता भवेयुः । कतिपयेषु जायमाना सदसती प्रत्यभिज्ञासम्भावनाऽपि विचाराय दृशः प्रेरयति ॥


१. Daseraka—Malwa, Geographical Dictionary of Ancient & Mediaeval India, P. 54; by Nundo Lal day.
२. भीष्मपर्वणि ११७, १३२-३३ । द्रोणपर्वणि ११, १६-१७ ॥
३. (a) Rāmanīyaka—A pleonastic form of Rāmanīya, that is Armenia (Mbh. Adi-Ch. 26.) P. 166. The Geographical Dictionary of Ancient & Medieval India. by Nundo Lal Day.
(b) Ramana Mount (going forwards the East) P. 288. Zendavesta Part II (S. B. E. Vol. XXIII)–J. Darmesteter.
४. उत्तराश्चापरे म्लेच्छाः क्रूरा भरतसत्तम् । यवनाश्चीनकाम्बोजा दारुणा म्लेच्छजातयः ।।
सकृद्ग्रहाः कुलत्थाश्च हूणाः पारसिकैः सह । तथैव रमणाश्चीनास्तथैव दशमालिकाः ।।—भीष्मपर्वणि ९ अध्याये.
दक्षिणेन तु श्वेतस्य निषधस्योत्तरेण तु । वर्षं रमणकं नाम जायन्ते तत्र मानवाः ।।—तत्रवै ८ अध्याये.
५. भारतीय इतिहास की रूपरेखा भाग २ पृ. ५९६.
६. ‘India in Greece’ by Pococke.

उपोद्घातः १५३

चरकसुश्रुतकश्यपभेदादीनां प्राचीनग्रन्थेषु गृहीतनाम्नां पूर्वाचार्याणामन्येषामपि नामान्येकैकश उपादाय यथावत्रिर्वचनं, पर्यालोचनं, विषयानुसन्धानमपि आयुर्वेदीयपूर्वावस्थाया देशतः कालतः स्वरूपतोऽपि विवेकाय यं कमपि सालोकं मार्गमुपदर्शयेदेव, किन्तु विस्तरभयादिदानीमेतावत्तैवोपरम्यते ॥

वैदिकसाहित्यमूलकं भारतीयभैषज्यसमर्थनम्

वैदिकसाहित्ये मान्त्रिकप्रक्रियाया उपलम्भेऽपि केवलभेषजप्रक्रियाया अपि नाल्पा न वा साधारणाः, अपि तु असाधारणा बहुशो विषया ऋग्वेदेऽपि दृश्यन्ते; अथर्ववेदे तु शारीरकाणि औषधयः शस्त्रवैद्यकविषया रोगनिर्देशा रोगोपचाराश्चेत्येतादृशा भैषज्यविषया ओताः प्रोताश्चेति पूर्वं (पृ. ५-७) निर्दिष्टमेव । षष्ट्यधिकत्रिशतास्थि¹ज्ञानं शतसहस्रशः सिरा² (हिरा) धमनीनां पौर्वकालिकं ज्ञानं मन्त्रलिङ्गादपि स्फुटीभवति । शत³पथब्राह्मणेऽप्यस्थ्नां षष्ट्यधिकत्रिशतानां वर्णनमस्ति । वैदिकां यागप्रक्रियायां पाशुकविभागे न केवलं पशूनां, मनुष्याणामपि मेधेषु तत्तदवयवानां पृथक्करणं विनियोजनं च दृश्यमानं तद्विषयकं विज्ञानविशेषं व्यनक्ति । वपाहृदयाद्युद्धरणे हस्तकौशलमपि विज्ञानवर्धकमभ्यासं दर्शयति । 'अथर्ववेदस्य दशमकाण्डद्वितीयसूक्ते शारीरकास्थानामानुक्रमिकं समीचीनं च वर्णनं लभ्यते । वेदकालिकैर्भारतीयैः प्रथमं शरीरस्य शारीरकविज्ञानस्य च मिथः सम्बन्धमावहन्तो विषयाः परिज्ञाता आसन्' इति वैदिकविषये वैदुष्यवद्व्र्यां कीथम्याकडोनलमहाशयाभ्यामपि लिखितमस्ति ॥

ऋगथर्वयजुर्मन्त्रलिङ्गतो विशेषतो बह्नीनामोषधीनां ज्ञानं विनियोगश्च पूर्वं दर्शित एव विकृतभग्नाद्यवयवानां रोहणसन्धानाद्यर्थमोषधीनां प्रार्थनाऽथ⁵र्ववेदे दृश्यते । ऋग्वेदे सोमस्य ओषधिराजत्वेन वर्णनमपि बहुश उपलभ्यते । सौमिकी याज्ञिकप्रक्रिया यदा प्रवृत्ताऽऽसीत् तया साकमेव सोमस्य प्रधानौषधिभावेन परिज्ञानं दृश्यते । अश्विनोर्देवभिषग्भावं सोमाश्विनयोर्घनिष्ठं सम्बन्धं च बहुशो मन्त्रलिङ्गानि गमयन्ति । सुश्रुतेऽपि सोमस्यौषधिभावेन बहुशो निर्देशोऽस्ति । सोमस्ययाज्ञिक्यां संस्थायां भेषजसंस्थायां च सम्बन्धविशेषावगमोऽप्येतद्विद्यायाः प्राचीनतरत्वं दर्शयति । अथर्विणि कुष्ठौषधवर्णनसूक्ते⁶ कुष्ठस्य इक्ष्वाकुकाम्यवसैः पूर्वकाले परिज्ञानस्य निर्देशदर्शनेन ओषधिविशेषाणामन्वेषणं परिज्ञानं च पूर्वकालादेव बहूनामासीदित्यपि मन्त्रलिङ्गतो लभ्यते नैतावदेव, वेदमन्त्रः सहस्रश ओषधीनां शतशो भिषजां च तादात्विकीं प्रज्ञप्तिमप्युद्गिरति । न केवलं वेदाकाल एव, अपि तु त्रियुगात् पूर्वमप्योषधिपरिज्ञानमासीदिति 'या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा' इति वैदिकादेव मन्त्रलिङ्गाद् दृश्यते ॥


१. द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ त तच्चिकेत । तत्राहतास्त्रीणि शतानि शङ्कवः षष्टिश्च कीला अविचाचला ये ॥ अथर्व. १०. ८. ४

२. शतस्य धमनीनां सहस्रस्य हिराणाम् । अस्थुरिन्मध्यमा इमाः साकमन्ता अरंसत ॥ अथर्व. १. १७. ३ इमा यास्ते शतं हिराः सहस्रं धमनीरुत । तासां ते सर्वासा महमश्मना विलमप्यधाम् ॥ अथर्व. ७. ३६. २

३. शतपथे १२. १. ३ । १२. ३. २ ।

४. The interest of the Vedic Indians seems early to have been attracted to the considerations of questions connected with the anatomy of the body. Thus a hymn of the Atharva Veda (X. 2) enumerates many Parts of the body with some approach to accuracy and orderly arrangement'. F. I. O. C. Prceedings Vol. II. P. 415.

५. सं ते मज्जा मज्ज्ञा भवतु समु ते परुषाः परुः । सं ते मांसस्य विस्रस्तं समस्थ्यपि रोहतु ॥ मज्जा मज्ज्ञा सं धीयतां चर्मणा चर्म रोहतु । असृक् ते अस्थि रोहतु मांसं मांसेन रोहतु ॥ लोम लोम्ना सं कल्पया त्वचा सं कल्पया त्वचम् । असृक् ते अस्थि रोहतु छिन्नं सं धेह्योषधे ॥ अथर्व. ४. १२. ३. ५

६. यं त्वा वेद पूर्व इक्ष्वाको यं वा त्वा कुष्ठ काम्यः । यं वा वसो यमास्यस्तेनासि विश्वभेषजः । अथर्व. १९. ३९. ९