भारतकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

[Header] 492 मानमेयरहस्यश्लोकवार्तिके

उपश्लेषमिवार्थानामाकरोत्यविचारिता । सार्वरूप्यमिवापन्ना विषयत्वेन वर्तते ॥ प्रमाणत्वेन तां लोकस्सर्वस्समुपगच्छति । व्यवहाराः प्रवर्तन्ते तिरश्चामपि तद्वशात् ॥ स्वरवृत्तिं विकुरुते मधौ पुंस्कोकिलः कथम् । जन्त्वादयः कुलायादेः करणे शिक्षिताः कथम् ॥ आहारप्रीतिविद्वेषप्लवनादिक्रियासु कः । जात्यन्वयप्रसिद्धासु प्रयोक्ता मृगपक्षिणाम् ॥ 5 सखण्डपक्षे वाक्यार्थः क्रमसंघातपक्षयोः । संसर्ग इति, संघातपक्षेऽप्यस्ति मतान्तरम् ॥ पदार्थ एव विश्रान्तः विशेषे वाक्यगोचरः । आख्यातशब्दपक्षे तु क्रिया वाक्यार्थ इष्यते ॥ प्रतिभा यत्प्रभूतार्था यामनुष्ठानमाश्रितम् । फलं प्रसूयेत यतः सा क्रिया वाक्यगोचरः ॥ संसृष्ट एव वाक्यार्थः तुर्यपञ्चमकल्पयोः । अभिधेयः पदार्थस्स्यात् वाक्यार्थस्तु प्रयोजनम् । इत्युक्तः फलवाक्यार्थवादस्साधारणो मतः । लक्षणानां च सर्वेषां वाक्यार्थाष्षडिमे मताः ॥ प्रतिभाचैव संसर्गः पदार्थश्च विशेषतः । पदार्थ एव संसृष्टः क्रिया चाथ प्रयोजनम् ॥

वाक्यवादः 493 अत्रान्विताभिधानं स्यात् क्रियासंसृष्टपक्षयोः । चतुर्ष्वप्यवशिष्टेषु पक्षेष्वभिहितान्वयः ॥ प्रतिभायां त्वेकरसा प्रतिपत्तिरुदेत्यतः । न तत्र काचिच्चर्चाऽस्ति मतयोरुभयोरपि ॥ ये मीमांसकवाक्यार्थविकल्पा भावनादयः । तेऽप्यत्रान्तर्भवन्तीति न स्यादधिककल्पना ॥ क्रियैव भावना तत्र प्रकृतिप्रत्ययार्थयोः । विवादः केवलं वैयाकरणानां तु तैस्सह ॥ नियोगाद्यास्तु वाक्यार्थाः लिङादियुतवाक्यगाः । न सर्ववाक्यविषया इति तेष्विह नादरः ॥ अनादितद्वाक्यार्थविकल्पोत्थैरुपप्लवैः । बहीरूपतयाऽध्यस्तैः क्रमवद्भिरिवाक्रमैः ॥ पदार्थैश्चित्रित इव विकल्पोल्लेखलक्षणः । आकारो बहिरध्यस्तः निरंशश्शाक्यसम्मतः ॥ वाक्यार्थो यः प्रायशोऽसौ प्रतिभायास्सहोदरः । अथातो वाक्यवाक्यार्थसंसर्गस्य विकल्पना ॥ 6 तत्रानवयवे स्फोटे तदर्थे प्रतिभात्मके । वाक्येऽप्यथच वाक्यार्थे संबन्धोऽध्यासलक्षणः ॥ एके तादात्म्यमिच्छन्ति परे परिणतिं विदुः । तद्विम्बप्रतिबिम्बत्वं वेति कैश्चिद्विकल्प्यते ॥

अवशिष्टेषु पक्षेषु वाच्यवाचकतात्मिका । मीमांसकानां दृष्ट्या तु संबन्धो योग्यता मता ॥ शाक्यदृष्ट्या तु शब्दार्थे बौद्धे विज्ञानवादतः । कार्यकारणभावाख्यस्संबन्ध इति निश्चितः ॥ बाह्यार्थे त्वथ वाक्यार्थे स च संकेतलक्षणः । इति तार्किकसिद्धान्त इति रीतिश्चतुष्टयी ॥ पदानि कल्पितानीति टीकाकारमतं स्मृतम् । वाक्यं तु कल्पितमिति पदकारमतं श्रुतम् ॥ अभेदपूर्वका भेदाः कल्पिता वाक्यवादिभिः । भेदपूर्वानभेदांस्तु मन्यन्ते पददर्शिनः ॥ 7 शब्दवित्संप्रदायेऽस्मिन् वाक्यं प्रायेण शोधितम् । अर्थवित्संप्रदायोऽपि तथा किंचिद्विचार्यते ॥ क्रियावाक्यार्थपक्षश्च बादर्याचार्यसम्मतः । शेषलक्ष्माधिकरणे जैमिनीये निरूपितः ॥ पदार्थाः किल वाक्यार्थभावमायान्ति संहताः । अपेक्षानुगुणान्योन्यव्यतिषङ्गविशेषतः ॥ साध्यं निष्पद्यमानत्वात् प्रधानमवगम्यते । तस्मात्तदेव वाक्यार्थः क्रियातो नापरं च तत् ॥ यजेत दद्याज्जुहुयात् अधीयीतेति बोधितः । क्रियां साध्यतया वेत्ति तां च लोकोऽनुतिष्ठति ॥

भावनावाक्यार्थः 499

क्रियैव तावत्कार्यात्मा प्रेरणात्मा फलार्थिता । प्रतीयते ततोऽन्यस्तु नियोगो नोभयात्मकः ॥ कुर्यादित्येवमादिभ्यः क्रियादिव्यतिरेकिणः । नार्थान्तरस्य संवित्तिः कस्यचित्प्रेरणात्मनः ॥ स चोदनामतिक्रमेत् यः क्रियां नानुतिष्ठति । यश्शब्दपरतन्त्रस्स्यात् शब्दप्रामाण्यवाद्यसौ ॥ फलाभिसन्धिहीनोऽपि कर्मसंस्कारसंस्कृतः । परिपक्ककषायस्स्यात् स्तोकस्तोकक्रमादसौ ॥ प्रपञ्चप्रविलापेन चोत्तमाधिक्रियायुतः । ज्ञातास्वादस्तमेवासौ पुमर्थं प्राप्तुमिच्छति ॥ विस्तरस्तु मतस्यास्य ज्ञेयो विधिविवेकतः । प्रायेणैते निष्प्रपञ्चनियोगन्यायवादिनः ॥ (101) भावनावाक्यार्थः. 1 वाक्यार्थभावनापक्षसारांशोऽथावधार्यताम् । भाव्यनिष्ठो भावकस्य व्यापारो भावना मता । सा शब्दभावनाऽथार्थभावनेत्यपिच द्विधा । विभज्य व्यवहारस्य विषयीक्रियते बुधैः ॥ पुंप्रवृत्त्यनुकूलात्मा व्यापारश्शब्दभावना । प्रवर्तना प्रेरणा सा नियोग इति कीर्त्यते ॥

496 मानमेयरहस्यश्लोकवार्तिके क्रियानुकूलः पुरुषव्यापारो ह्यर्थभावना । कृतिः प्रयत्न इत्यादिपर्यायपदशब्दिता ॥ लोकेऽस्मिन्नभिधाशब्दः शब्दव्यापारबोधकः । अतोऽभिधाभावनेति तामाहुश्शब्दभावनाम् ॥ भावना या तु पुरुषैरिष्टोपायतयाऽर्थ्यते । पुंव्यापारात्मिका सैषा कीर्त्यते चार्थभावना ॥ भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते । तत्सिद्धान्तकटाक्षेण भाव्येत्यादिपरिष्कृतिः ॥ सैव वाक्यस्यार्थ इति कुमारिलविनिर्णयः । वेदाद्गुरुनियोगाद्वा शासनाद्वा महीभुजाम् ॥ न सचेताः क्रियां कांचिद् अनुतिष्ठति निष्फलाम् । वस्तुतस्तु फलं तस्मात्प्रधानमवगम्यते ॥ सएव वाक्यार्थ इति वक्तुं युक्तं च यद्यपि । तथाऽपि काम्यमानत्वात् सिद्धं तन्नावगम्यते ॥ साध्यमानत्वपक्षे तु साक्षात्तत्सिद्धयवेदनात् । व्यापार एव तन्निष्ठः वाक्यवेद्य इतीष्यताम् ॥ अत एवहि वाक्यार्थे भावनां प्रतिजानते । यथोचितफलाढ्यां च त्रयसंबन्धबन्धुराम् ॥ आस्तां विधिपदं तावद्वर्तमानापदेशिनः । शब्दाद्यजत इत्यादेः भावना न न गम्यते ॥

भावनावाक्यार्थः 497 2 क्रियाविशेष एवायं व्यापारो ज्ञातुरात्मनः । स्पन्दात्मकबहिर्भूतक्रियाक्षणविलक्षणः ॥ 3 पुरुषस्य प्रयत्नो वा भावनेत्यभिधीयते । औदासीन्यदशाऽपायं पुमान् येन प्रपद्यते ॥ स यत्नो यागदानादिक्रियानिर्वृत्तिकारणम् । तस्य तद्व्यतिरेक्तत्वं प्रायस्सर्वोऽनुमन्यते ॥ न चायमात्मधर्मोऽपि न विभुत्वादिवन्मतः । साध्यरूपाभिसम्बन्धात् धत्ते विषयतां विधेः ॥ 4 अन्ये धात्वर्थसामान्यं भावनामभ्युपागमन् । यागदानाद्यनुस्यूतं रूपं गोत्वादिजातिवत् ॥ धात्वर्थव्यतिरेकेण यद्यप्येषा न लभ्यते । तथाऽपि सर्वसामान्यरूपेणान्या प्रतीयते ॥ सा धातोः प्रत्ययाद्वाऽपि भावनाऽवगता सती । अपेक्षतेऽशत्रितयं किं केन कथमित्यदः ॥ सिद्धसाध्यस्वभावाभ्यां धात्वर्थो द्विविधस्तयोः । अन्योत्पादानुकूलात्मा भावना साध्यरूपिणी ॥ सिद्धभावस्तु यस्तस्याः स घञादिनिबन्धनः । इत्याहुरपरे प्राज्ञाः भावनातत्त्ववेदिनः ॥ भावनैवहि वाक्यार्थः सर्वत्राख्यातवत्तया । अनेकगुणजात्यादिकारकार्थानुरञ्जिता ॥ M. R. 63

498 | मानमेयरहस्यश्लोकवार्तिके

एकयैवहि बुद्ध्याऽसौ गृह्यते चित्ररूपया । पदार्थाहितसंस्कारचित्रपिण्डप्रसूतया ॥ पदात्प्रभृति या चैषा प्रज्ञा ज्ञातुर्विजृम्भते । पुष्पिता सा पदार्थेषु वाक्यार्थेषु फलिष्यति ॥ 5 अभिधाभावनामाहुरन्यामेव लिङादयः । अर्थात्मा भावना त्वन्या सर्वाख्यातेषु दृश्यते ॥ प्रयत्नव्यतिरिक्त्तार्थभावना तु न शक्यते । वक्तुमाख्यातवाच्येति सिद्धान्तः राणकेरितः ॥ कार्यत्वान्तःप्रविष्टा या कृतिस्सैवहि भावना । स्वर्गादेर्भवितुर्भावयित्री स्याद्भावकाश्रिता ॥ तेन व्यापारसामान्यं पुंव्यापारनिबन्धनम् । इति सिद्ध्या स स्वभाववादो लौकायतो हतः ॥ विधेर्लक्षणमेतावदप्रवृत्तप्रवर्तनम् । अतिप्रसङ्गदोषेण नाज्ञातज्ञापनं विधिः ॥ णिजर्थात्तु लिङर्थोऽसौ प्रेरणाऽस्ति विलक्षणा । ज्ञापकव्यापार एष स तु कारकसंश्रितः ॥ प्रवर्तनस्मृतिः प्राप्ते प्रैष इत्यभिधीयते । अप्राप्ते प्रेषणं सर्वं विधित्वं प्रतिपद्यते ॥ विधिः प्रवर्तकत्वाख्यस्वरूपस्योपपत्तये । स्वर्गं साध्यतया यागं साधनत्वेन बोधयेत् ॥

नियोगवाक्यार्थः 49 अथापि शाब्दी शक्तिस्सा प्रधानमिति गम्यते । अतस्त्विष्टोपायतैषा धात्वर्थस्थेति सूरयः ॥ वाक्यार्थाधिकृतावस्य विस्तरः श्लोकवार्तिके । शाब्दबोधक्रमस्त्वेष खण्डदेवादि Bour शोधितः ॥ 6 यजेतेत्यत्रचाख्यातं लिङ्त्वेनाख्याति भावनाम् अभिधाख्यां तथैवार्थीमाख्यातत्वेन बोधयेत् ॥ उभे अंशत्रययुते इति विश्रुतमेव तत् । विशिष्टशाब्दीप्रयोज्या तादृश्यार्थीति गम्यते ॥ प्रयोज्यत्वं स्वविषयज्ञानजन्याऽनुमा तु या । तत्प्रयोज्यत्वमनुमा त्वेतादृश्यत्र गम्यताम् ॥ यागो मदिष्टहेतुस्स्यात् इत्याकारा तया पुनः । पुमान् प्रवर्तत इति प्रयोज्यत्वं निरूपितम् ॥ यागस्य चेष्टहेतुत्वमेव प्राशस्त्यलक्षणम् । स शब्दभावनांशस्सन् एवमत्रोपयुज्यते ॥ (102) नियोगवाक्यार्थः. 1 नियोगवाक्यार्थवादिटीकाकारमतं पुनः । प्रदर्श्यतेऽथ यच्छिष्याः कार्यवाक्यार्थवादिनः ॥ कर्ता संख्या तथाचार्थभावना शब्दभावना । तस्याः कृतिः तदाख्यानं चेत्येतदतिदुर्भरम् ॥

०० मानमेयरहस्यश्लोकवार्तिके तस्मान्नियोग एकोऽर्थः कालत्रयविवर्जितः । नियुक्तोऽस्मीत्यनुभवात् प्रेरणात्माऽथ तद्धिया ॥ आत्माकूतविशेषो यः आत्मधर्मस्स जायते । भौतिकस्पन्दहेतुस्सः न मानान्तरगोचरः ॥ औदासीन्यप्रच्युतिर्वा योद्योग इति कीर्त्यते । आद्या प्रवृत्तिराकूतं चिकीर्षेत्यादिनामभाक् ॥ शब्दस्यैव लिङादेर्यैः बुधैः प्रेरकतेष्यते । तेऽत्यन्तभीरवस्तस्मिन् संगतिग्रहणालसाः ॥ २ कार्यत्वावगतिस्त्वार्थी शाब्दी प्रेरकतामतिः । तस्मात्प्रेरक एवासौ प्रधानमिति निर्णयः ॥ अन्ये तु शाब्दं कार्यत्वं नियोगस्येति मन्वते । प्रेरकत्वं त्वार्थमिति नातस्स्याच्छब्दगौरवम् ॥ ३ अनुबन्धद्वयं तस्य विषयश्चाधिकार्यपि । नियोगः कस्य कुत्रेति तदाकाङ्क्षे इमे उभे ॥ विषयः फलहेतुश्चेत्फलकामोऽधिकार्यतः । फलं पुंबुद्धिमूलं तत् न शास्त्रीयमिति स्थितिः । यावज्जीवं सुखं जीवेदित्यादीच्छानिवारकम् । यावज्जीवं चाग्निहोत्रं कर्तव्यमिति शासनम् ॥ न दैन्यमीदृशं सोढुं स्वतन्त्रं शास्त्रमर्हति । यत्प्रवर्तयितुं पुंसः न शक्नोति फलं विना ॥

नियोगवाक्यार्थः 50 4 नित्याधिकारे तत्कर्म वेदोऽसौ शुचिजीविनः । विधत्तेऽतोऽफलमपि कार्यमित्येव कुर्वते ॥ विहिताकरणायत्तप्रत्यवायापनुत्तये । कर्तव्यमिति सिद्धान्तः भाट्टैः पर्यायतः कृतः ॥ तदेकदेशिनां पण्डापूर्वमिष्टं फलात्मकम् । स्वतएव पुमर्थत्वं तस्य पण्डत्वमिष्यते ॥ 5 कामाधिकारे तु नियोज्यान्यथाऽनुपपत्तितः । फलक्लृप्तिः तत्प्रवृत्तिस्तस्माल्लिप्सार्थलक्षणा ॥ अतएवाधर्मतेति श्येनादेरिति निर्णयः । अर्थशब्दः प्रयुक्तोऽतः तादृशानर्थवारकः ॥ नित्येतिकर्तव्यतांशे शास्त्रमेव प्रवर्तकम् । अतोऽग्नीषोमीयहिंसा नाधर्म इति ते विदुः ॥ 6 प्रतिषेधाधिकारेऽपि प्रत्यवायो न कल्प्यते । निषेध्यविषयादेव लब्धत्वादधिकारिणः ॥ तत्रास्मिन् कल्प्यमानेऽपि नरकादिफलोदये । अवैधत्वं प्रसज्येत न ह्याकाङ्क्षेदृशी विधेः ॥ विधेरपेक्षे द्वे एव नियोज्यविषयौ प्रति । तत्पूरणेन तृप्तस्तु न वाञ्छति ततोऽधिकम् ॥ नियोज्यस्तावदेतावान् क्रुद्धोऽरिहननोद्यतः । विषयस्तन्निवृत्तिस्स्यान्नियोगोऽतोऽत्र पुष्कलः ॥

502 मानमेयरहस्यश्लोकवार्तिके कथं नरो निवर्तेत प्रत्यवायभयाद्विना । मा निवर्तिष्ट, विधिना तावदुक्तं निवर्तनम् ॥ प्रवृद्धतररागान्धः प्रत्यवायेऽपि कल्पिते । न निवर्तेत इत्येवं किं विधेरप्रमाणता ॥ फलं भवतु मा वा भूत् पुरुषोऽपि प्रवर्तताम् । मा प्रवर्तिष्ट वा शास्त्रं नियुङ्क्ते त्वधिकारिणम् ॥ 7 कामप्रध्वंससिद्धान्ते सर्वं नैमित्तिकं मतम् । स्वर्गादिकामनानां तु निमित्तत्वमुपाश्रितम् ॥ स्त्रीकामो निष्कृतिं कुर्यादित्यादिषु निमित्तता । प्रतीयते नतु खलु फलसाधनता क्वचित् ॥ न पारलौकिकस्स्वर्गः किन्त्वैहिकसुखं सुखम् । धनधान्यादिकाङ्क्षिश्चेत्पुंसामिच्छा सुखे भवेत् ॥ यागेन तद्व्यये जाते कामः प्रध्वंसते स्वयम् । अतएव क्षत्रियाणां विश्वजिद्यागशासनम् ॥ तत्रापि स्वर्गक्लृप्तिस्तु जैमिनेर्दैन्यलक्षणा । तथैव रात्रिसत्रेऽपि वेदो हि प्रभुसम्मितः ॥ प्रत्यवायपरीहारोऽप्यत्र कार्पण्यलक्षणः । शंय्वन्ताधिक्रियान्यायो नैतत्सिद्धान्तसम्मतः ॥ नित्यं नैमित्तिकं कर्म कर्तव्यमिति वैदिकः । पन्थाः पुराणोऽयमत्र गीता भगवता स्वयम् ॥

कार्यवाक्यार्थः 503 इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । स कालेनेह महता योगो नष्टः पुरातनः ॥ कर्मण्येवाधिकारस्ते कुरु कर्मैव तत्पुनः । यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तत् ॥ अन्यत्र विस्तरस्तस्य द्रष्टव्योऽस्माभिरीरितः । अत्रापिच पुरः स्पष्टः फलकाण्डे भविष्यति ॥ (103) कार्यवाक्यार्थः. 1 प्रभाकरगुरूणान्तु कार्यवाक्यार्थवादिनाम् । वाक्यार्थसंग्रह्रसोऽयं विविक्तप्रतिपत्तये ॥ आस्तां तावत्क्रिया लोके गमनागमनादिका । अन्ततस्तनपानादितृप्तिकारिण्यपि क्रिया ॥ सा यावन्मम कार्येयमिति नैवावधार्यते । तावत्कदाऽपि लोकेऽत्र प्रवृत्तिर्न भविष्यति ॥ पुंसां नेष्टाभ्युपायत्वात्क्रियास्वन्यः प्रवर्तकः । प्रवृत्तिहेतुं धर्मं च प्रवदन्ति प्रवर्तनाम् ॥ कर्तुरिष्टाभ्युपाये हि कर्तव्यमिति लोकधीः । विपरीतं त्वकर्तव्यमिति तद्विषये मतिः ॥ इत्याहुर्मण्डनाचार्याः गुरुभिस्तन्नचेष्यते । कार्यता कृतिसाध्यत्वं फलसाधनता पुनः ॥

504 मानमेयरहस्यश्लोकवार्तिके कारणत्वं फलोत्पादे भिद्येते ते परस्परम् । किंच स्वयं क्लेशरूपं कर्म यत्कार्यतां व्रजेत् ॥ फलसाधनता तत्र कारणं तेन कार्यता । तद्भावभाविनी नित्यं तदात्मैव प्रतीयते ॥ 2 कार्ये मानान्तरावेद्ये क्रियादिव्यतिरेकिणि । व्यवहारात एवाहुः व्युत्पत्तिं प्रेरकात्मनि ॥ शब्दान्तराणि स्वार्थेषु व्युत्पद्यन्ते यथैव हि । आवापोद्वापभेदेन तथा कार्ये लिङादयः ॥ कार्यमेव हि कर्तॄणां ज्यायस्समकनीयसाम् । भेदात्प्रैषामन्त्रणाध्येषणादिव्यपदेशभाक् ॥ कृतिसाध्यं प्रधानं यत्तत्कार्यमभिधीयते । तच्च मानान्तरेणापि वेद्यमोदनपाकवत् ॥ एवं कार्यात्मकेऽप्यर्थे व्युत्पद्यन्ते लिङादयः । तदन्वितेषु स्वार्थेषु तथा शब्दान्तराण्यपि ॥ 3 यागानुष्ठानतः कार्यमात्मानं लब्धुमर्हति । नच कर्त्रा विना तस्यानुष्ठानमुपपद्यते ॥ न विना चाधिकारेण कर्तुर्लाभः क्वचिन्मतः । नियोज्यमन्तरा क्वापि नाधिकारः प्रसिद्ध्यति । नकदाप्यविशिष्टोऽत्र नियोज्यो ह्यवकल्पते । एवं विशेषणतया स्वर्गस्तत्रावकल्पते ॥

कर्तृत्वमधिकारित्वं नियोज्यत्वमिति स्थितम्। अवस्थात्रितयं तत्रानुष्ठातृत्वं हि कर्तृता॥ अधिकारः स्वकीयत्वबुद्धिमत्त्वं हि कर्मणि। कार्ये स्वकीयत्वबुद्धिमत्ता तु स्यान्नियोज्यता॥ 4 संविचार्यमिदं त्वत्र तत्कार्यं किं क्रियात्मकम्। उत तद्व्यतिरेकीति, तत्र लोकानुसारतः॥ लिङादिस्तत्र कार्यं चेत्क्रियामेवावबोधयेत्। समन्वयो नियोज्येन तदानीं नावकल्पते॥ नियोज्यस्य च कार्यं यत्स्वकीयत्वेन बुद्ध्यते। स्वर्गादिः कामयोगाच्च साध्यत्वेनैव गम्यते॥ क्रिया हि क्षणिकत्वेन न कालान्तरभाविनः। स्वर्गादेस्साध्यमानस्य न क्षमा जननं प्रति॥ इष्टस्याजनिका सा च नियोज्येन फलार्थिना। कार्यत्वेन न संबन्धमर्हति क्षणभङ्गिनी॥ तस्मान्नियोज्यसंबन्धसमर्थं विधिवाचिभिः। कार्यं कालान्तरस्थायि क्रियातो भिन्नमुच्यते॥ क्रियादिभिन्नं यत्कार्यं वेद्यं मानान्तरैर्न तत्। अतो मानान्तरापूर्वमपूर्वमिति गीयते॥ 5 कार्यत्वेन नियोज्यं च स्वात्मनि प्रेरयन्नसौ। नियोग इति मीमांसानिष्णातैरभिधीयते॥

6 कार्यस्यैव प्रधानत्वाद्वाक्यार्थत्वं च युज्यते । वाक्यं तदेव हि प्राह नियोज्यविषयान्वितम् ॥ आत्मसिद्धयनुकूलस्य नियोज्यस्य प्रसिद्धये । कुर्वत्स्वर्गादिकमपि प्रधानं कार्यमेव नः ॥ अतः पुरुषकारश्च दैवं च फलसाधनम् । मुख्यं दैवमपूर्वं स्यात् सहकारि तु पौरुषम् ॥ एवं नित्याधिकारादौ जीवनाद्येऽवधारिते । आत्मीयकार्यावगमात्प्रवृत्तिरुपपद्यते ॥ फलं फलतया नान्वीयते किंत्वधिकारिणः । विशेषणतयैवेति प्राभाकरविनिश्चयः ॥ एवं कामाधिकारार्थपर्यालोचनयोत्थिता । व्युत्पत्तिस्सर्ववाक्यार्थप्रतिपत्तौ निबन्धनम् ॥ तस्माल्लोकानुसारेण व्युत्पत्तिः कार्यमात्रके । तस्य त्वपूर्वरूपत्वं वेदवाक्यविमर्शजम् ॥ 7 ननु लोकविरुद्धत्वं पक्षेऽस्मिन्नपि दृश्यते । सर्वदैव यतो लोके क्रियाकार्यं प्रतीयते ॥ यदि स्यातां विरोधस्स्यात् क्रियाकार्यत्वगोचरौ प्रतिपत्तिप्रयोगौ तौ कार्येऽपूर्वेऽपि लौकिके ॥ प्रमाणान्तरगम्यं हि लोकश्शब्दैर्विवक्षति । क्रियाकार्यत्व एवातः प्रयोगो लक्षणान्वितः ॥

कार्यवाक्यार्थः ५० अभिधेयं लिङादीनामपूर्वं कार्यमेव तत् । अपूर्वेण क्रियाकार्यं नित्यं संबद्धमित्यतः ॥ लिङादयः क्रियाकार्ये बुधैर्लाक्षणिका मताः । तत्रान्विताभिधावादे सर्वं लाक्षणिकं मतम् ॥ लक्षणानाभिविज्ञानं मुख्यार्थानवधारणात् । येतु मुख्यार्थकुशलाः तेषां लाक्षणिकत्वधीः ॥ तस्मान्मानान्तरावेद्यं कार्यमर्थान्तरान्वितम् । वेदार्थ इति सिद्धान्तः प्रभाकरगुरोर्मतः ॥ वाक्यार्थमातृकायां च श्रीभाष्येऽपिच विस्तरः । शाब्दबोधक्रमस्त्वेषः कार्यवाक्यार्थवादिनाम् ॥ 8 यजेतेति पदात्कार्यप्रधानं यागगोचरम् । स्यात्कार्यं यागविषयमिति बोधस्स चादिमः ॥ ततश्च यागविषयं कार्यं स्यात्स्वर्गसाधनम् । इत्यर्थाध्याहाराविद्भिः द्वितीयो बोध इष्यते ॥ स्वर्गकामपदश्रुत्या स्वर्गकामनियोज्यकम् । प्रागुक्तद्विदळं कार्यमिति स स्यात्तृतीयकः ॥ ततश्च स्वर्गकामीयकृतिसाध्यमिति क्रमात् । प्रागुक्तत्रिदळं कार्यमिति बोधस्तुरीयकः ॥ नापूर्वे स्वर्गहेतुत्वं यागे तेन विना भवेत् । इति चानुपपत्तेस्तु प्रतिसन्धानसंभवे ॥

स्वर्गकामकृतेस्साध्यः स्वर्गकामनियोज्यकः । स्वर्गस्य साधनं याग इति बोधस्तु पश्चिमः ॥ यद्यप्यनुपपत्तेस्तु प्रतिसन्धानमुच्यते । तदुपादानमित्युक्तं धीरौपादानिकी ह्यसौ ॥ विध्याक्षेप उपादानं श्रुतार्थापत्तितः पृथक् । सा स्यादभिहितापर्यवसानाऽश्रुतकल्पना ॥ अभिधानानवसितिः उपादानमितीर्यते । तेनौपादानिकी त्युक्ता फलसाधनतामतिः ॥ इति प्रभाकरमतं वादारम्भसमर्थने । वादावळावन्ववादीदनन्तार्यबुधोत्तमः ॥ (104) निषेधवाक्यार्थः. 1 नञर्थस्य विचारेऽपि किंचिदत्र प्रकाश्यते । त्रिविधा हि नञो वृत्तिः कुमारिलमुखेरिता ॥ पर्युदासः तथाऽभावः प्रतिषेधस्तथेति च । पर्युदासस्स विज्ञेयः यत्रोत्तरपदेन नञ् ॥ प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् । इति कैश्चिन्निरुक्तं हि तत्रार्थः फलितस्त्वसौ ॥ अन्योन्याभावबोधे तु पर्युदास इतीर्यते । अत्यन्ताभावबोधे तु प्रसज्यप्रतिषेधवाक् ॥

निषेधवाक्यार्थः नेक्षेतोद्यन्तमादित्यं तथाचाब्राह्मणं नय । इत्यादावीक्षणाद्विप्रात् अन्यद्वस्त्ववगम्यते ॥ ईक्षणव्यतिरिक्ता हि क्रिया तत्राप्यपेक्षिता । प्रत्यासत्तेर्न संकल्पमतिक्रम्यावगम्यते ॥ तथैव क्षत्रियाद्यर्थः पर्युदस्तः प्रतीयते । नामधात्वर्थयोगी च नञ्तोऽन्यार्थगोचरः ॥ 2 लिङाद्यन्याख्यातयोगे चाभावार्थः प्रतीयते । तत्र चाज्ञातसंदिग्धविपरीतार्थवारणम् ॥ अस्तिनास्तीतिसंदेहे पाक्षिकास्तित्वबोधनम् । निवर्त्यते नञा यद्वा नास्तितैवोच्यते सती ॥ निवर्ततेऽस्तिताबुद्धिः मृगतृष्णादिबुद्धिवत् । अज्ञानादिनिवृत्तिश्च दृष्टा मानान्तरेऽपि हि ॥ 3 विधिना युज्यते यत्र न हन्यान्न पिबेदिति । नात्राभावार्थता यस्मात्प्राप्तं हि प्रतिषिध्यते ॥ रागादिना यदि प्राप्तं पानं च हननं च वा । कथं वा कथ्यते तत्राभावो भावनिवर्तितः ॥ यदि नानुष्ठास्यतेऽत्र प्राप्तिर्नैव प्रसिध्यति । तस्मादत्र निषेधार्थतत्त्वमेतन्निरूपितम् ॥ सच केशेषु पुरुषं गृहीत्वा विनिवर्तयन् । चिकीर्षिताच्च व्यापारात् अभावं स्थापयत्यपि ॥

अन्यथैव प्रवर्तन्ते भावाभावधियोऽपराः । व्यवस्थितबहिर्वस्तु परिच्छेदफलात्मिकाः ॥ अन्यथाऽनागतोत्पाद्यभावप्रेरणवारिका । अन्तस्संकल्पमूलात्मा वृत्तिर्विधिनिषेधयोः ॥ एतदुक्तं भवत्यत्र न्यायरत्नाकरोदितम् । यथा विधिर्विधेयस्य चेष्टहेतुत्वसिद्धये ॥ प्रमाणीभूय संकल्पं पुंसोऽनुष्ठानगोचरम् । जनयित्वा तेन पुंसा व्यापारं कारयन् स्वयम् ॥ तत्र कारकहेतुस्स्यात् निषेधोऽपि तथैव हि । निषिद्धस्यानिष्टहेतुभावे मानं भवन् ततः । अननुष्ठानसंकल्पं वैराग्याज्जनयन् पुनः । तदभावव्यवस्थां च करोतीति सुनिश्चितम् ॥ तथाच यदि रागादिप्राप्तं विध्यर्थलक्षणम् । कर्तव्यत्वं लिङाऽनूद्य नञा तस्य निषेधनम् ॥ यदिवाऽत्र नञर्थस्य वर्जनस्य विधेयता । लिङाऽवबोधः द्वेधाऽपि व्यापारेऽनर्थहेतुताम् ॥ कल्पयन् अननुष्ठानसंकल्पजननात्परम् । निवारणं स्यादित्येतन्निषेधस्य निरूपणम् ॥ 4 इयत्प्रयासहेतुश्च वक्ष्यमाणो विनिश्चितः । अवस्तुत्वादभावस्य न नृशृङ्गं नियुज्यते ॥

प्रयोजनवाक्यार्थः 51

नोपादेयं नैव हेयं न कार्यं नापि कारणम् । को विधिः को निषेधोऽत्र प्रख्योपाख्याविवर्जिते न कलञ्जं भक्षयेदित्येवमादिरपार्थकः । नियोग इति हि प्राहुरभावावस्तुवादिनः ॥ विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥ इत्यादिस्मृतिवाक्यार्थभङ्गो भाष्यकृतामपि । अभावावस्तुसिद्धान्तमूलदोषनिबन्धनाः ॥ अभावः कारणं कार्यं वस्तु येषां विपश्चिताम् । तेषां पुनः नवीनानां प्रयासो नैव कश्चन ॥ यस्याभावोऽधिकरणं यस्य भावान्तरं च वा । सर्वं तद्विषयं ज्ञेयं न विचारोऽत्र कश्चन ॥ अत्र राणककारेण प्रोक्तं भङ्ग्यन्तरं त्विदम् । स्वकाले यदकुर्वन् तत् करोत्यन्यदचेतनः ॥ प्रत्यवायोऽस्य तेनैव नाभावेन स जन्यते । इत्युक्तं तदपि प्रोक्ताभावतत्त्वविकल्पना ॥

(105) प्रयोजनवाक्यार्थः 1 अथ नैयायिकमते फलमेव प्रवर्तकम् । सम्मतं तत्र सारांशसंग्रहोऽप्यवधार्यताम् ॥