मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पूर्वमेघः ६७
यूथिकाजालकानि=मागधीपुष्प-कुड्मलानि, नवजलकणैः=नूतन-सलिलबिन्दुभिः, सिञ्चन्=आर्द्रयन्; गण्डस्वेदापनयन-रुजाक्लान्तकर्णोत्पलानाम्=कपोलस्वेदा-पनयनपीडाक्षामश्रोत्रपद्मानाम्; पुष्पलावीमुखानाम् = पुष्पावचायिकावदनानाम्; छायादानात्=अनातपीकरणात्, क्षणपरिचितः = किञ्चित्कालेन ज्ञातः, (सन्) व्रज = गच्छ ।
शब्दार्थः—तत्र=उस “नीचैः” नामक पर्वत पर; विश्रान्तः सन्=विश्राम करके, वननदीतीरजातानि=जंगली नदियों के किनारे उत्पन्न, उद्यानानाम्=बगीचों के, यूथिकाजालकानि=माधवी की कलियों को, नवजलकणैः=नूतन-जलबूंदों से, सिञ्चन्=सींचता हुआ, गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानाम् = जिसके कानों में ( पहने गये ) कमल गालों पर ( चूते हुए ) पसीने को पोछने के कारण मुरझा गये हैं, ऐसे, पुष्पलावीमुखानाम् = फूल तोड़नेवाली महिलाओं के मुखों का, छायादानात् = छाया देने के कारण, क्षणपरिचितः=कुछ समय के लिए परिचित होकर, व्रज=जाना ।
भावार्थः—( हे मेघ ! ) नीचैरद्रौ विश्रम्य नदीतटोत्पन्नानि आरामाणां मागधीकुसुमकुड्मलानि नूतनजललवैराद्रींकुर्वन् पुष्पावचयनपरायणानां नारीमुखानां गण्डघर्मजलदूरीकरणेन म्लानकर्णाऽऽभरणीभूतपद्मानां छायाप्रदानेन किञ्चित्कालाय परिचितः सन् गच्छ ।
हिन्दी—( हे मेघ ! ) वहां नीचैः नामक पर्वत पर विश्राम करके जंगली नदियों के तट पर विद्यमान बगीचों के जूही पुष्प की कलियों को नवीन जलकणों से सींचता हुआ, जिनके कानों में पहिने गये कमल गालों पर बहते हुए पसीनों को पोछने के कारण मुरझा गये हैं, ऐसी फूल तोड़ने वाली महिलाओं के मुख को छाया प्रदान करने के कारण कुछ समय के लिए परिचित होकर (आगे) जाना ।
समासः—वने या नद्यः तासां तीरेषु जातानि=वननदीतीरजातानि (बहुव्री०)। नवजलानां कणास्तैः (ष०तत्०) नवजलकणैः । गण्डयोःस्वेदः=गण्ड-स्वेदः (स० तत्०) गण्डस्वेदस्य अपनयनम गण्डस्वेदापनयनम् (ष० तत्०), तेन रुजा (तृ० तत्०) तया क्लान्तानि (तृ० तत्०) गण्डस्वेदापनयनरुजाक्लान्तानि,
६८ मेघदूतम्
कर्णयोः उत्पलानि कर्णोत्पलानि ( स० तत्० ) गण्डस्वेदापनयनरुजाक्लान्तानि कर्णोत्पलानि येषां तानि; तेषाम् (बहुव्रीहि०)। पुष्पाणि लुलन्तीति पुष्पलाव्यः तासां मुखानि = पुष्पलावीमुखानि (ष० तत्०) तेषाम् । छायायाः दानं तस्मात् ( ष० तत्० ) । क्षणं परिचितः = क्षणपरिचितः ( द्वि० तत्० ) ।
कोशः—पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम्, इत्यमरः। मागधी, गणिका यूथिकाऽम्बष्ठा, इत्यमरः। कोरकजालककलिकाकुङ्मलमुकुलानि तुल्यानि, इति हलायुधः। रुजा रोगे च भंगे, इति मेदिनी। छाया सूर्यप्रिया-कान्तिः प्रतिबिम्बमनातपः, इत्यमरः। अव्यापारस्थितौ कालविशेषोत्सवयोः क्षणः, इत्यमरः।
टिप्पणी—विश्रान्तः—वि उपसर्गपूर्वक 'श्रम्' धातु से ''क्त'' प्रत्यय करके "विश्रान्त" ऐसा रूप निष्पन्न किया जाता है। सिञ्चन्—"सिच्" धातु जिसका अर्थ है आद्रीकरण, से लट् लकार लाकर उसके स्थान पर "लटः शतृ०" इत्यादि सूत्र से "शतृ" प्रत्यय करके नुमादि लाकर सिञ्चन् ऐसा रूप बनता है। पुष्पलावी—पुष्प उपपदपूर्वक छेदनार्थक "लू" धातु से कर्म में "कर्मण्यण्" इस सूत्र से अण् प्रत्यय करके वृद्धि करके स्त्रीत्व विवक्षा में "टिड्ढाणञ्" इत्यादि सूत्र से "ङीप्" करके पुष्पलावी शब्द बना है। यहाँ "कुगतिप्रादयः" से पुष्प और लावी का समास हुआ है ।। २६ ।।
वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां
सौधोत्सङ्ग-प्रणय-विमुखो मास्म-भूर्दुज्जयिन्याः ।
विद्युद्दाम—स्फुरित—चकितैस्तत्र पौराङ्गनानां
लोलापाङ्गैर्यदि न रमते लोचनैर्वञ्चितोऽसि ॥ २७ ॥
अन्वयः—उत्तराशाम् प्रस्थितस्य भवतः पन्था यदपि वक्रः उज्जयिन्याः सौधोत्सङ्ग-प्रणय-विमुखः मास्मभूः। तत्र विद्युद्दामस्फुरितचकितैः लोलापाङ्गैः पौराङ्गनानाम् लोचनैः यदि न रमसे वञ्चित असि।
पूर्वमेघः ६९
व्याख्या—उत्तराशाम् उदीचीं दिशं प्रति, प्रस्थितस्य = गच्छतः, भवतः = मेघस्य, पन्था = मार्गः, यदपि = यद्यपि, वक्रः = अनृजुः, (तथापि) उज्जयिन्याः = विशालायाः, सौधोत्सङ्ग-प्रणयविमुखः = हर्म्योर्ध्वभागपरिचयपराङ्मुखः, मास्मभूः = मा.भव । तत्र = उज्जयिन्याम्, विद्युद्दामस्फुरितचकितैः = तडिल्लतादीप्तिचञ्चलैः, लोलापाङ्गैः = चञ्चलकटाक्षैः, पौराङ्गनानाम् = नागरिक-वनितानाम्, लोचनैः = नेत्रैः, यदि = चेत्, (त्वम्) न रमसे = न क्रीडसि, (तर्हि) वञ्चितोऽसि = प्रतारितोऽसि ।
शब्दार्थः—उत्तराशाम् = उत्तर दिशा की ओर, प्रस्थितस्य = प्रस्थान किये हुए, भवतः = आपका, पन्था = मार्ग, यदपि = यद्यपि, वक्रः = टेढ़ा है तथापि, उज्जयिन्याः = उज्जयिनी के, सौधोत्सङ्ग-प्रणयविमुखः = ऊँचे महलों के ऊपरी भाग के परिचय से पराङ्मुख, मास्म भू = मत होइयेगा । तत्र = उज्जयिनी के उन महलों पर, विद्युद्दामस्फुरित-चकितैः = विद्युल्लता की चमक से भौंचक्की, लोलापाङ्गैः = चञ्चल कटाक्षों वाली, पौराङ्गनानाम् = नागरिक रमणियों के, लोचनैः = आँखों से, यदि न रमसे = यदि विहार (रमण) नहीं किया तो अपने को, वञ्चितोऽसि = प्रताड़ित समझो (जीवन-लाभ से ठगा गया समझो) ।
भावार्थः—हे मेघ ! अलकां गन्तु प्रवृत्तस्य ते उज्जयिनी-गमने मार्गः यद्यपि वक्रस्तथापि उज्जयिन्या हर्म्यप्रासादपरिचयाद्विमुखो मा भव। तत्र विद्युल्लतायाः कान्तिभिश्चकितैः चञ्चलकटाक्षयुक्तैः नागरीणां युवतीनां नयनैः यदि न रमणं करोसि तर्हि जीवनफलादात्मानं प्रताडित एव जानीहि।
हिन्दी—हे मेघ ! अलका जाने के लिए प्रवृत्त तुम्हारा मार्ग यद्यपि टेढ़ा होगा, फिर भी उज्जयिनी के ऊँचे महलों की छतों के परिचय करने से विमुख मत होना। विजली की रेखा की चमक से भौंचक्की, चञ्चल कटाक्षों वाली, नगरवासी स्त्रियों की आँखों से यदि तुमने विहार नहीं किया (तो जीवन-लाभ से) अपने को वञ्चित ही समझो।
समासः—उत्तरा चेयमाशा उत्तराशा (कर्म० धा०) ताम्। सौधाना-मुत्सङ्गः सौधोत्सङ्गः (ष० तत्०) तेषु प्रणयः (स० तत्०) तस्मिन् विमुखः
७० मेघदूतम्
( स० तत्० ) सौधोत्सङ्गप्रणयविमुखः । लोला अपाङ्गा येषु तानि लोला-पाङ्गानि ( बहुव्री० ) तैः विद्युत: दामानीव विद्युद्दामानि ( उपमित० तत्० ) विद्युद्दाम्नां स्फुरितानि तैः = विद्युद्दामस्फुरितैः ( ष० तत्० ) चकितस्तैः । पौराश्च ताः अङ्गनाः ( कर्म० धा० ) तासाम् अथवा पौराणाम् अङ्गनाः ( ष० तत्० ) तासाम् ।
कोशः—उत्तरा दिगुदीची स्यात्, इत्यमरः । अयनं वर्त्ममार्गाध्वपन्थानः पदवी सृतिः, इत्यमरः । आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि, इत्यमरः । विशालोज्जयिनी समाः, इत्यमरः । उत्पलः प्रणयः स्यात्परिचये याच्ञायां सौहृदेऽपि च, यादवः । तडित्सौदामिनी विद्युच्चञ्चला चपला अपि, इत्यमरः । अप ग-स्त्वंगहीनेस्यान्नेत्रान्ते तिलकेऽपि च, इति मेदिनी । लोचनं नयनं नेत्रमित्यमरः ।
टिप्पणी—उत्तराशाम्—यहाँ प्रपूर्वक "स्था" ( प्रस्थितस्य के ) धातु के अकर्मक होने के कारण उसके योग में उत्तराशा शब्द की "सकर्मक धातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम्" से कर्म संज्ञा हो जाती है और "कर्मणि द्वितीया" इस सूत्र से द्वितीया विभक्ति हुई है।
वक्रः पन्था०—निर्विन्ध्या नदी विन्ध्याचल पर्वत से उत्तर की ओर बहती है और "उज्जयिनी "निर्विन्ध्या" नदी से पूरव की ओर है जिसे आजकल उज्जैन कहते हैं एवं उत्तरापथ जिधर अलका है निर्विन्ध्या से पश्चिम में है अतः अलका जाने वाले के लिए उज्जयिनी जाने का मार्ग टेढ़ा पड़ेगा । उज्जयिनी पहले कभी "मालव" देश की राजधानी थी । यहाँ शिप्रा नदी बहती हैं एवं महाकालेश्वर का मन्दिर है । आज भी यहाँ दूर-दूर से लोग दर्शन करने जाते हैं । इसे ही विशाला नगरी भी कहते हैं । प्रातःस्मरणीय सात पुण्य पुरियों में उज्जयिनी भी अन्यतम है :—
"अयोध्या मथुरा माया काशी काञ्ची ह्यवन्तिका ।
पुरी द्वारावती चैव सप्तैता मोक्षदायिकाः ॥
मास्मः—यहाँ आशीर्वाद अर्थ से "भू" धातु से मा और स्म के योग में "स्मोत्तरे लङ् च" इस सूत्र में चकार पाठ होने से लुङ् लकार आता है एवं
पूर्वमेघः ७१
"लुङ्लङ्लृङ्क्ष्वडुदात्तः" इस सूत्र से प्राप्त अडागम का "न माङ्योगे" इस सूत्र से निषेध हो गया है ॥ २७ ॥
वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः
संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः ।
निर्विन्ध्यायाः पथि भवरसाम्यन्तरः सन्निपत्य
स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ २८ ॥
अन्वयः—पथि वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः स्खलितसुभगं संसर्पन्त्याः दर्शितावर्तनाभेः निर्विन्ध्यायाः सन्निपत्य रसाभ्यन्तरः भव ! हि स्त्रीणाम् प्रियेषु विभ्रमः आद्यम् प्रणयवचनम् ।
व्याख्या—पथि=मार्गे, वीचिक्षोभस्तनितविहगश्रेणि-काञ्चीगुणायाः=तरङ्गसचलनशब्दायितपक्षिपङ्क्तिकटिबन्धदोरकः यस्याः तस्याः, स्खलितेन=मदस्खलितेन, सुभगम्=रमणीयम्, यथास्यात्तथा संसर्पन्त्याः=प्रवाहितायाः, वा निर्विन्ध्यायाः=एतन्नामिकायाः नद्याः अथवा कस्याश्चिन्नायिकायाः, सन्निपत्य=संयत्य, रसाभ्यन्तरः=जलमध्यगतः अन्तःस्थितशृंगारो वा, भव, हि=यतः, स्त्रीणाम्=कामिनीनाम्, प्रियेषु=कान्तेषु, (विषये) विभ्रमः=विलास एव, आद्यम्=प्रथमम्, प्रणयवचनम्=प्रेमवाक्यम् भवति । कामिन्यः रतिप्रसंगे स्वकीयामिच्छां हाव-भाव-प्रदर्शनेनैव प्रकटयन्ति, न तु शब्दतः कथयन्ति लज्जाधिक्यात् । अत्र विलासप्रदर्शनम् आवर्तरूपं नाभिप्रदर्शनमेव ।
शब्दार्थः—पथि=मार्ग में, वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः=लहरों के चलने से शब्द करते हुए पक्षियों (हंसादि) की पङ्क्ति ही जिसकी करधनी है, स्खलित-सुभगं संसर्पन्त्याः=पत्थरों से टकराते हुए (जवानी के मद से फिसलती हुई जो) बड़ी अच्छी चाल से बह रही है या चल रही है, दर्शितावर्तनाभेः=जिसने भँवररूपी अपनी नाभि को दिखा दिया है; (ऐसी) निर्विन्ध्यायाः=निर्विन्ध्या नदी के, सन्निपत्य=संपर्क में आकर;
७२ मेघदूतम्
रसाभ्यन्तरः = भीतर जल धारण करने वाला या शृङ्गार रस का आनन्द लेने वाला, भव = हो जाओ, हि = क्योंकि, स्त्रीणाम् = कामिनियों की, प्रियेषु = प्रिय के प्रति, विभ्रमः = हाव-भाव विलास प्रदर्शन ही, आद्यम् = पहली, प्रणय-वचनम् = प्रेमप्रार्थना होती है।
भावार्थः— (हे मेघ !) यस्यास्तरङ्ग-सञ्चलनेन शब्दायमानाः हंसादि-पक्षिणो रसनादोरका इव भवन्ति। उपस्खलने रमणीयं यथास्यात्तथा प्रवहन्त्या जलभ्रमिरूपां नाभि दर्शयन्त्या वनिताया इव निर्विन्ध्याया अन्तः प्रविश्य तद्रसास्वादं विधेहि, यतो हि वनितानां प्रियेषु विलास-प्रदर्शनमेव रतिप्रसंगे प्राथमिकं प्रेमप्रार्थनावाक्यं भवति।
हिन्दी— (हे मेघ !) मार्ग में लहरों के चलने से शब्द करते हुए पक्षि-गण ही जिनकी करधनी के समान हैं, पत्थरों पर गिरती हुई मानो मद से गिरती हुई मनोहरता के साथ बहने वाली तथा जल-भँवररूपी नाभि को दिखाने वाली निर्विन्ध्या नदी के पास पहुँच कर उसका रसास्वादन करो। क्योंकि स्त्रियों का अपने प्रिय के प्रति पहली प्रेम-प्रार्थना विलास प्रदर्शन ही होता है।
समासः— वीचीनां क्षोभः = वीचिक्षोभस्तेन (ष० तत्०)। स्तनिताश्च ते विहगाः सैव काञ्चीगुणो यस्याः, तस्याः (बहु०) स्खलितेन सुभगं यथा स्यात्तथा क्रियाविशेषणं (तृ० तत्०)। आवर्तं एव नाभिः = आवर्तनाभिः “मयूरव्यंसकादयश्च (रूपक-समास०)। रसः अभ्यन्तरे यस्य स रसाभ्यन्तरः (बहुव्रीहि०)।
कोशः— स्त्रियां वीचिरयोर्मिपु, इत्यमरः। खगे विहङ्गः विहगः विहङ्गम विहायसः, इत्यमरः, स्त्रीकट्यां मेखलाकाञ्चीसप्तकीरशना तथा, इत्यमरः। स्यादावर्तोम्भसां भ्रमः, इत्यमरः। शृङ्गारादौ छले वीर्ये सुवर्णे विषशुक्रयोः। तित्तादावमृते चैव निर्यासे पारदे ध्वनौ, आस्वादे च रसं प्राहुः, इति शब्दार्णवः। आवर्तश्चिन्तने वारिभ्रमे चावर्तने पुमान्, इति मेदिनी।
टिप्पणी— दर्शितः— “दृश्” धातु से क्त प्रत्यय लाकर उक्तरूप निष्पन्न किया जाता है। निर्विन्ध्याः— विन्ध्यात् निष्क्रान्ता = निर्विन्ध्या। यहाँ उक्त
पूर्वमेघः | ७३
विग्रह करके "निरादयः क्रान्ताद्यर्थे पञ्चम्या" से समास किया गया है। यहाँ समास कर चुकने के बाद "परवल्लिङ्गं द्वन्द्व-तत्पुरुषयोः" इस सूत्र से उक्त समास के तत्पुरुष होने के कारण "पर" पद "विन्ध्य" की तरह पुंल्लिङ्गता होनी चाहिए थी, परन्तु उसका निषेध "द्विगुप्राप्ताऽऽपन्नाऽलं पूर्वगति समासेषु प्रति-षेधो वाच्यः" इस वार्तिक से हो जाता है।
अलंकारः—यहाँ विहगश्रेणी जो उपमेय है उसमें उपमानकाञ्चीगुण का, एवं आवर्त में नाभि का आरोप होने से शाब्द हुआ एवं निर्विन्ध्या में नायिका का आरोप आर्थ होने से यहाँ "एक देश विवर्ति सांगरूपक" है। इस शब्द में "श्लेष" अलङ्कार है। एवं चतुर्थ चरण के द्वारा पूर्वकथित तीनों चरणों के वाक्यों का समर्थन होने से "अर्थान्तरन्यास" नामक अलंकार है। इस प्रकार यहाँ तीनों अलङ्कारों का अङ्गाङ्गिभाव से रहने के कारण "संकर" नामक अलंकार हो गया ॥ २८ ॥
वेणी-भूतप्रतनु-सलिलाऽसावतीतस्य सिन्धुः
पाण्डुच्छाया तटरुहतरु-भ्रंशिभिर्जीर्णपर्णैः ।
सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती
कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ २९ ॥
अन्वयः—वेणीभूत-प्रतनु-सलिला तटरुह-तरु-भ्रंशिभिः जीर्णपर्णैः पाण्डुच्छाया असौ सिन्धुः विरहावस्थया अतीतस्य ते सौभाग्यं व्यञ्जयन्ती येन विधिना कार्श्यं त्यजति, सुभग ! सः त्वया एवं उपपाद्यः ।
व्याख्या—वेणी-भूतप्रतनुसलिला = केशपाशीभूतस्वल्पजला, तटरुहतरु-भ्रंशिभिः = तीरोत्पन्न-वृक्ष-भ्रंशिभिः, जीर्णपर्णैः = शुष्कपत्रैः, पाण्डुच्छाया = पीतवर्णा, असौ = एषा, सिन्धुः = एतन्नामिका नदी निर्विन्ध्या वा, विरहावस्थया = वियोगावस्थया, अतीतस्य = प्रोषितस्य, ते = मेघस्य, सौभाग्यम् = सुभगत्वम्, व्यञ्जयन्ती = प्रकाशयन्ती, येन = तादृशेन, विधिना = प्रकारेण, कार्श्यम् = कृशतां, स्वल्पजलताम्, त्यजति = जहाति, हे सुभग = हे मेघ ! सः = तादृशः व्यापारः, त्वयैव = मेघेनैवः, उपपाद्यः = सम्पादनीयः ।
| ७४ | मेघदूतम् |
|---|
शब्दार्थः—वेणीभूत-प्रतनु-सलिला = पतली चोटी ( वेणी ) के समान जिसका जल स्वल्प है, तटरुहतरुभ्रंशिभिः = तीरों पर उत्पन्न वृक्षों से गिरे हुए, जीर्णपर्णैः = पुराने पत्तों से, पाण्डुच्छाया = पीले रंग की; असौ सिन्धुः = सिन्धुनाम की नदी ( या निर्विन्ध्या ), विरहावस्थया = वियोगावस्था के द्वारा, अतीतस्य = प्रोषित, ते = तेरे, सौभाग्यम् = सौभाग्य को, व्यञ्जयन्ती = प्रकाशित करती हुई, येन = जिस, विधिना = प्रकार से, कार्श्यम् = दुर्बलता को, त्यजति = छोड़े, हे सुभग ! = हे मेघ ! सः = वह उपाय, त्वया एव = तुम्हें ही, उपपाद्यः = करना चाहिए ।
भावार्थः—हे मेघ ! कामिन्याः स्वल्पा वेणीव स्वल्पजलवती सिन्धुः नाम्नी नदी, त्वद्वियोगेन स्वतटोत्पन्नवृक्षात् पतितैः पुराणपत्रैः पीता या तव सौभाग्यशालित्वं सूचयति । अतः येनोपायेन सा कृशतां त्यजेत् तादृशः उपायः त्वया कर्तव्यः ।
हिन्दी—हे मेघ स्त्रियों की चोटी की तरह कम जलवाली, तेरे वियोग के द्वारा, तीर पर उत्पन्न वृक्षों से गिरे पुराने पत्तों के कारण पीली कान्तिवाली सिन्धुनदी तुम्हारे सौभाग्य को सूचित कर रही है । अतः जिस उपाय से उसकी दुर्बलता दूर हो, ऐसा उपाय तुम्हें करना चाहिए ।
समासः—वेणीभूतप्रतनु-सलिला = न वेणी अवेणी (नञ्० तत्०), अवेणी वेणी सम्पद्यते यथा, तथाभूतं वेणीभूतम् ( अभूततद्भावे च्विः ) वेणीभूतं प्रतनु सलिलं यस्याः सा वेणीभूतप्रतनुसलिला ( बहुव्रीहि० ) तटयोः रुहा तटरुहा ( स० तत्० ) तटरुहाश्च ते तरवः = तटरुहतरवः ( कर्मधारयः ) तेभ्यो भ्रंशिभिः तटरुहतरुभ्रंशिभिः ( पञ्चमी तत्० ) । जीर्णानि च तानि पर्णानि जीर्णपर्णानि ( कर्म० धा० ) तैः जीर्णपर्णैः । विरहस्य अवस्था विरहावस्था ( ष० तत्० ) तया । शोभनं भगं ( भाग्यम् ) यस्य स तत्सम्बुद्धौ सुभग ! ( बहुव्री० ) ।
कोशः—वेणी प्रवेणी, इत्यमरः । स्त्री नद्यां ना नदे सिन्धुर्देशभेदेऽम्बुधौ गजे, इति वैजयन्ती । विधिर्ना नियमे काले विधाने परमेष्ठिनी, इति मेदिनी । तनुः काये त्वचि स्त्री स्यात् त्रिष्वल्पे विरले कृशे, इति मेदिनी ।
पूर्वमेघः ७५
टिप्पणी-वेणीभूतप्रतनुसलिला—अवेणी वेणी यथा सम्पद्यते तथाभूतं वेणीभूतम्; यहाँ अभूत तद्भाव अर्थ में "वेणी" शब्द से "कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः" प्रत्यय होकर एवं "भू" धातु से "क्त" प्रत्यय लाकर "वेणीभूत" ऐसा रूप सम्पन्न होता है (वेणी + च्वि + भू + क्त) । रुहाः—रोहन्तीति रुहाः, "रुह" धातु से "इगुपधज्ञाप्रीकिर कः" इस सूत्र से "क" प्रत्यय होकर बहुवचन की विवक्षा में "रुहाः" ऐसा रूप बना है। सिन्धुः—कुछ टीकाकार "सिन्धु" को स्वतन्त्र मालवदेश में बहनेवाली "काला सिन्धु" नदी ही मानते हैं। परन्तु महोपाध्याय मल्लिनाथजी "सिन्धु" का अर्थ सामान्यतया निर्विन्ध्या ही करते हैं। जो भी हो, हमने अपनी व्याख्या में "वा" करके दोनों का उल्लेख कर दिया है।
अलङ्कारः—इस श्लोक में लिङ्गसाम्य के द्वारा सिन्धु से नायिका का एवं मेघ से नायक का व्यवहार किया गया है, अतः यहाँ "समासोक्ति" नामक अलङ्कार है ॥ २९ ॥
प्राप्यावन्तीनुदयनकथा—कोविदग्रामवृद्धान्-
पूर्वोद्दिष्टामनुसर पुरीं श्रीविशालां विशालाम् ।
स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां
शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत् खण्डमेकम् ॥३०॥
अन्वयः—उदयनकथाकोविदग्रामवृद्धान् अवन्तीन् प्राप्य सुचरितफले स्वल्पीभूते गां गतानां स्वर्गिणां शेषैः पुण्यैः हृतं कान्तिमत् एकं दिवः खण्डम् इव पूर्वोद्दिष्टाम् श्रीविशालाम् विशालाम् पुरीम् अनुसर ।
व्याख्या—उदयनकथाकोविदग्रामवृद्धान् = वत्सराजकथाविज्ञजनपदवृद्धान्, अवन्तीन् = मालवदेशान्, प्राप्य = गत्वा, सुचरितफले = पुण्यफले, स्वल्पीभूते = क्षीणे सति, "क्षीणे पुण्ये मर्त्यलोकं विशन्ति" इति भगवद्वाक्यानुसारम्, गाम् = पृथ्वीम्, गतानाम् = प्राप्तानाम्, स्वर्गिणाम् = देवलोकनिवासिनाम्, शेषैः =
७६ | मेघदूतम्
अवशिष्टैः, पुण्यैः=धर्मैः, सुकृतैरिति भावः, हृतम् =अवतारितम्, कान्तिमत् = उज्ज्वलम्, एकम् =अन्यतमम्, दिवः=स्वर्गलोकस्य, खण्डमिव = शकलमिव, पूर्वोद्दिष्टाम् =पूर्वकथिताम्, श्रीविशालाम्=सम्पत्तिपूर्णाम (शोभाशालिनीम् ), विशालाम् =उज्जयिनीम्, पुरीम् =नगरीम्, अनुसर =गच्छ।
शब्दार्थः—उदयन० = जहाँ के गाँवों के वृद्धलोग उदयन राजा की कथाओं के पण्डित हैं, (ऐसे) अवन्तीन् =अवन्ती देश में, प्राप्य = जाकर, सुचरित-फले =पुण्यफल के, स्वल्पीभूते = क्षीण हो जाने पर, गाम् = पृथ्वी पर, गतानाम् =आए हुए, स्वर्गिणाम् = देवलोक में रहनेवालों के, शेषैः पुण्यैः= अवशिष्ट पुण्यों के द्वारा, हृतम् = लाया गया, कान्तिमत् =उज्ज्वल, एकम् = एक, दिवः = स्वर्ग के, शकलमिव = टुकड़े की तरह, पूर्वोद्दिष्टाम्=पहले कही गयी, श्रीविशालाम् = सम्पत्ति से परिपूर्ण, विशालाम् = उज्जयिनी, पुरीम् = नगरी को, अनुसर =जाना।
भावार्थः—हे मेघ ! यत्रत्याः ग्रामवृद्धाः वत्सराजोपाख्यानज्ञातारः सन्ति, तामवन्ति नगरीं प्राप्य, पुण्यफले क्षीणे सति पृथिव्यामागतानां स्वर्गनिवासिनामवशिष्टैः पुण्यफलैराहृतं स्वर्गस्यैकं दिव्यं शकलमिवं सम्पत्तिपूर्णां पूर्वकथितामुज्जयिनीं गच्छ।
हिन्दी—हे मेघ ! जहाँ के गाँवों के वृद्ध लोग राजा उदयन की कथा को जानने वाले हैं ऐसे अवन्तिनगरी में जाकर पुण्यफल के कम हो जाने पर पृथ्वीपर आये हुए स्वर्गवासियों के बचे हुए पुण्यफलों के द्वारा लाये गये स्वर्ग के एक उज्ज्वल टुकड़े की तरह सम्पत्ति से परिपूर्ण पूर्वोक्त उज्जयिनीनगरी को जाना।
समासः—उदयनस्यकथा=उदयनकथा (ष० तत्०), उदयनकथायां कोविदाः=उदयनकथा-कोविदाः (स० तत्०)। ग्रामे वृद्धाः=ग्रामवृद्धाः (स० तत्०), उदयन-कथा-कोविद-ग्रामवृद्धाः येषु तान् उदयनकथाकोविदग्रामवृद्धान् (बहु०)। श्रिया विशालाम् = श्रीविशालाम् (तृ० तत्०)। पूर्वम् उद्दिष्टाम् =पूर्वोद्दिष्टाम् (सुप्सुपेति समासः)। विविधाः शालाः यस्यां सा विशाला (बहुव्री०) ताम्।
पूर्वमेघः ७७
**कोशः—**विद्वान् विपश्चित् दोषज्ञः सन् सुधीः कोविदो बुधः, इत्यमरः। स्याद्धर्ममस्त्रियां पुण्यं श्रेयसी सुकृतं वृषः, इत्यमरः। द्यो दिवो द्वे स्त्रियामभ्रं व्योमपुष्करमम्बरम्, इत्यमरः। शोभा सम्पत्ति पद्मासु लक्ष्मीः श्रीरिव दृश्यते, इति शाश्वतः। विशालात्विन्द्रवारुण्यामुज्जयिन्यां तु योषिति, इति मेदिनी।
**टिप्पणी—उदयनकथा—**विदन्तीति विदाः—ज्ञानार्थक विद् धातु से "इगुपधज्ञाप्रीकिरः कः" इस सूत्र से क प्रत्यय लाकर "विदाः" यह रूप बना है। ओकसः (वेद्यस्थान के) विदाः = कोविदाः यहाँ महोपाध्याय मल्लिनाथजी ने "ओकस" शब्द के ओकार का "पृषोदरादीनि यथोपदिष्टम्" इस नियमानुसार लोप करके "कोविद" शब्द की साधुता निष्पन्न करते हैं। अर्थात् "कोविद" शब्द का अर्थ हुआ "वेद्य" स्थान के जानकार। वत्सराज उदयन की कथा पैशाची भाषा में लिखित सम्प्रति अनुपलब्ध वृहतकथा में, वृहतकथामञ्जरी, कथासरित्सागर, भास लिखित "स्वप्नवासवदत्तम्", रत्नावली, आदि ग्रन्थों में पायी जाती है। **सुचरितफले—**शोभनं चरितं सुचरितम् "कुगतिप्रादयः" से समास हुआ है। **स्वल्पीभूतम्—**अस्वल्पं स्वल्पं सम्पद्यते यथा तथाभूतम्। इस विग्रह में "स्वल्प" शब्द से अभूततद्भाव अर्थ में "च्वि" प्रत्यय एवं "भू" धातु से, "क्त" प्रत्यय लाकर स्वल्पीभूत शब्द की निष्पत्ति होती है। **स्वर्गिणाम्—**स्वर्गमस्त्यस्य इति स्वर्गी। स्वर्ग से "अतः इनठनौ" से इन् प्रत्यय लाकर "स्वर्गी" यह रूप बनता है। तेषां स्वर्गिणाम्।
**अलंकारः—**यहाँ "विशालाम्" में "दिवः खण्डमिव" इस वाक्य के द्वारा स्वर्ग के एक खण्ड की सम्भावना की गयी है अतः "उत्प्रेक्षा" अलंकार हुआ, एवं "श्रीविशालां विशालाम्" यहाँ "यमक" अलंकार हुआ इसलिए दोनों का "संसृष्टि" अलंकार है ॥ ३० ॥
दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानां
प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः ।
यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः
शिप्रावातः प्रियतम इव प्रार्थना चाटुकारः ॥ ३१ ॥
७८ मेघदूतम्
अन्वयः—यत्र प्रत्यूषेषु पटु मदकलम् सारसानाम् कूजितम् दीर्घीकुर्वन् स्फुटितकमलामोदमैत्रीकषायः अङ्गानुकूलः शिप्रावातः प्रार्थनाचाटुकारः प्रियतमः इव स्त्रीणाम् सुरतग्लानिम् हरति ।
व्याख्या—यत्र = विशालायाम्, प्रत्यूषेषु = प्रातःसमयेषु, पटु = स्फुटम्, मदकलम् = मदेनाव्यक्तमधुरम्, सारसानाम् = पक्षिविशेषाणाम्, कूजितम् = शब्दम्, दीर्घीकुर्वन् = वर्द्धयन्, स्फुटितकमलामोदमैत्रीकषायः = विकसितपद्मसुगन्धिसंसर्गसुरभिः, अङ्गानुकूलः = अवयवानुरूपः, शरीरसुखद इति भावः, शिप्रावातः = शिप्रानदीपवनः; प्रार्थनाचाटुकारः = रतिरचनाय मधुरभाषी, प्रियतमः = वल्लभः, इव = यथा, स्त्रीणाम् = कामिनीनाम्, सुरतग्लानिम् = सम्भोगपरिश्रमम्, हरति = दूरीकरोति ।
शब्दार्थः—यत्र = जहाँ अर्थात् ( विशाला में ) प्रत्यूषेषु = प्रातःकाल, पटु = प्रस्फुट, मदकलम् = मद से मधुर, सारसानाम् = सारस पक्षियों के, कूजितम् = शब्द को, दीर्घीकुर्वन् = विस्तृत करता हुआ, स्फुटितकमलामोदमैत्रीकषायः = विकसित कमलों के सुगन्ध के संसर्ग से सुगन्धित, अङ्गानुकूलः = शरीर को सुख देने वाला, शिप्रावातः = शिप्रा नदी का वायु, प्रार्थनाचाटुकारः = रतिक्रिया में ( पुनः प्रवृत्त्यर्थ ) मधुर-मधुर बोलने वाले, प्रियतम इव = प्रेमी के समान, सुरतग्लानिम् = संभोग के परिश्रम को, हरति = दूर करता है ।
भावार्थः—हे मेघ ! यस्यां विशालायां प्रातःकाले सारस-पक्षिविशेषाणां प्रस्फुटं मदेनाव्यक्तमधुरं कलरवं वर्द्धयन् विकसितकमलसुगन्धिसंस्पर्शसुगन्धितः सुखदः शिप्रानदीपवनः रतिक्रीडायां पुनः प्रवृत्त्यर्थं मधुरभाषणशीलः वल्लभ इव कामिनीनां सम्भोगजन्यपरिश्रमं दूरीकरोति ।
हिन्दी—हे मेघ ! जिस विशाला नगरी में प्रातःकाल सारस पक्षियों के तीक्ष्ण एवं मद से मधुर कलरव को विस्तृत करता हुआ पूर्ण विकसित कमल की सुगन्धि के सम्पर्क से सुगन्धित शरीर के अंगों को सुख देने वाला शिप्रा नदी का वायु रतिक्रीड़ा में (पुनः प्रवृत्ति के लिए) मीठी-मीठी बातें करने वाले प्रेमी के समान कामिनियों के सम्भोग के परिश्रम को दूर करता है ।
पूर्वमेघः ७९
समासः—स्फुटितानि च तानि कमलानि = स्फुटितकमलानि (कर्म-धा०) तेषाम् आमोदः (ष० तत्०) तेन मैत्री (तृ० तत्०) तया कषायः = स्फुटितकमलामोदमैत्रीकषायः (तृ० तत्०)। अदीर्घं दीर्घं करोतीति दीर्धीकरोति (अभूततद्०)। सुरतस्य ग्लानि सुरतग्लानि (ष० तत्०)। प्रार्थनायां चाटुकारः = प्रार्थनाचाटुकारः (स० तत्०)। अङ्गानाम् अनुकूलः अङ्गानुकूलः (ष० तत्०)।
कोशः—प्रत्यूषोऽहर्मुखं कल्यम्, इत्यमरः। ध्वनौ तु मधुरास्फुटे कलः, इत्यमरः। सरसो मैथुनी कामी गोनर्दः पुष्कराह्वयः, इति यादवः। चक्राङ्गः सारसो हंसः, शब्दार्णवः। मदोरेतसिकस्तूर्यां गर्वे हर्षे भेदानयोः, इति मेदिनी। पटुर्दक्षे च नीरोगे चतुरेऽप्यभिधेयवत्, इति मेदिनी। रागद्रव्ये कषायोऽस्त्री निर्यासे सौरभे रसे, इति यादवः। विमर्दोत्थे परिमलो गन्धे जनमनोहरे। आमोदः, इत्यमरः।
टिप्पणी—सरसि चरन्ति = सारसाः, या सरसि भवाः सारसाः—दोनों अर्थों में “सरस” शब्द से अण् प्रत्यय लाकर “सारस” शब्द निष्पन्न किया जाता है। मैत्री—मित्रस्य भावः—मित्र शब्द से भाव या कर्म में 'ष्यञ्' प्रत्यय करके उसके आदि वृद्धि करके षित्त्वात् “षिद्गौरादिभ्यश्च” से ङीष् करके “मैत्री” शब्द की निष्पत्ति होती है। “अङ्गानुकूल” को यदि वायु का विशेषण मानते हैं तब तो शरीर को सुख देने वाला यह अर्थ होगा, यदि “प्रियतम” का विशेषण मानें तब गाढालिङ्गन के द्वारा “नायिका के अङ्गों को सुख देने वाले” ऐसा अर्थ होगा। अच्छा तो यह होता कि “देहलीदीपकन्यायेन” दोनों का विशेषण माना जाता। शिप्रा नदी उज्जयिनी के समीप बहती है जो कि बहुत ही प्रसिद्ध नदी है। कुछ लोग यहाँ “प्रार्थना चाटुकारः” को लेकर “खण्डिता” नायिका के अनुनय की कल्पना करते हैं। परन्तु मल्लिनाथजी ने उसका खण्डन इसलिए किया है कि यहाँ खण्डिता नायिका के साथ पहले संभोग नहीं किया गया और इसलिए अनुनय कर रहा है तो पुनः उसके “सुरतग्लानि” का प्रश्न ही कहाँ रह जाता है। अतः यहाँ खण्डिता नायिका नहीं है बल्कि स्वकीया है जिसके साथ एक बार संभोग कर चुकने
६ मे० दू०
८० मेघदूतम्
के बाद पुनः प्रवृत्ति के लिए थकी-मांदी नायिका के परिश्रम को चिकनी-चुपड़ी बातों से नायक दूर करता है ।
अलंकार—यहाँ पूर्णोपमा नामक अलंकार है ॥ ३१ ॥
'हारांस्तारांस्तरलगुटिकान्कोटिशः शंखशुक्तीः
शष्प—श्यामान्मर कतमणीनुन्मयूख—प्ररोहान् ।
दृष्ट्वा यस्यां विपणिरचितान्विद्रुमाणाञ्च भङ्गान्
संलक्ष्यन्ते सलिलनिधय—स्तोयमात्रावशेषाः ॥३२॥
अन्वयः—यस्यां कोटिशो विपणि-रचितान् तारान् तरल-गुटिकान् हारान् शंखशुक्तीः शष्पश्यामान् उन्मयूखप्ररोहान् मरकतमणीन् विद्रुमाणां भङ्गान् च दृष्ट्वा सलिल-निधयः तोयमात्रावशेषाः संलक्ष्यन्ते ।
व्याख्या—यस्याम्=विशालायाम्, कोटिशः=असंख्यान्, विपणिरचितान्=पण्येषु विक्रयार्थं प्रसारितान्; “अयं शब्दः विशेषणत्वेन सर्वत्र यथालिङ्गमन्वीयते देहलीदीपन्यायेन” न्याय टिप्पण्यां स्पष्टयिष्यते ।” तारान्=विमलान् तरलगुटिकान्=हारमध्यमहारत्नान्; हारान्=मुक्तास्रजः, शंखशुक्तीः =कम्बुमुक्तास्फोटान्; शष्पश्यामान्=नव·तृणमिव हरितान्, उन्मयूख प्ररोहान्=उद्गतांकुरान्, मरकतमणीन्=मरकताख्य-मणि-विशेषान् गारुडरत्नानीति यावत्, विद्रुमाणाम्=प्रवालानाम्, भङ्गान् = शकलान्, च = तथा, दृष्ट्वा =अवलोक्य, सलिलनिधयः==रत्नकराः समुद्रा इत्यर्थः । तोयमात्रावशेषाः=केवल·जलावशिष्टाः, संलक्ष्यन्ते =अनुमीयन्ते । पण्येषु प्रसारितान् तादृशान् रत्नसमूहान् दृष्ट्वा जनाः समुद्रः रत्नहीनः जलमात्रावशिष्ट इत्यनुमीयन्ते ।
शब्दार्थः—यस्याम्=जिस उज्जायिनी नगरी में, कोटिशः=असंख्य,विपणिरचितान्=(बेचने के लिए) बाजारों में फैलाये गये, तारान्=विशुद्ध, तरलगुटिकान्=जिनमें मध्यमणीभूत महारत्न थे, (ऐसे ) हारान्=मोतियों की मालाओं को, शंखशुक्तीः =शंखों को एवं सीपियों को, शष्पश्यामान् =नयी घास की तरह गाढ़े हरे रंग की, उन्मयूख-प्ररोहान्=अंकुरों की तरह जिनकी किरणें ऊपर की
पूर्वमेघः ८१
ओर फैल रही हैं, (ऐसे) मरकतमणीन् = "मरकत" नामक मणियों को, विद्रुमाणां = मूंगों के, भङ्गान् = टुकड़ों को, दृष्ट्वा = देखकर, सलिलनिधयः = समुद्र, तोयमात्रावशेषाः = केवल जल वाला, संलक्ष्यन्ते = दिखाई देते हैं ।
भावार्थः—हे मेघ ! यस्यामुज्जयिन्यां पण्येषु विक्रयार्थं प्रसारितान् बहून् बहुमूल्यमुक्तास्रजः शङ्खान् शुक्तीः हरितवर्णान् मनोरमाऽङ्कुरान् मरकतमणीन् प्रवालशकलांश्च विलोक्य जनाः रत्नाकराः समुद्राः जलमात्रावशिष्टाः सञ्जाता इत्यनुमीयन्ते ।
हिन्दी—हे मेघ ! जिस उज्जयिनी नगरी में बाजारों में बेचने के लिए फैलाये गये असंख्य बहुमूल्यमोतियों की मालाओं को, जिनमें कि मध्यमणीभूत महारत्न लगे हैं, शङ्खों को, सीपियों को, घास की तरह गाढ़े हरे रंग की जिनकी किरणें ऊपर की ओर फैल रही हैं, ऐसे मरकत मणियों को, और मूँगों के टुकड़ों को देखकर लोग, समुद्र को केवल जलवाला ही (रत्न-विहीन) समझेंगे ।
समासः—विपणिषु रचिता विपणिरचिताः ( स० तत्० ) तान् । तरलाः गुटिकाः येषु ते (बहु०) तान् शङ्खांश्च शुक्तींश्च तान् (द्वन्द्व०) । उद्गताः मयूखाः येषां ते उन्मयूखाः (बहु०) तान् । उन्मयूखाः तादृशाः प्ररोहाः येषां ते उन्मयूखप्ररोहाः (बहु०) तान् । तोयमेव तोयमात्रम् ( रूपक-समासः ) तोयमात्रमवशेषो येषान्ते तोयमात्रावशेषाः (बहु०) । शष्पाणीव श्यामान् (उपमितकर्म० ) ।
कोशः—तरलो हारमध्यगः, इत्यमरः । पिण्डे मणौ महारत्ने गुटिकाबद्धपारदे, इति शब्दार्णवः । मुक्तास्फोटः स्त्रियां शुक्तिः शंखः स्यात् कम्बुरस्त्रियाम्, इत्यमरः । शष्पोः बालतृणं घासः, इत्यमरः । किरणोस्रमयूखांशुगभस्तिघृणिरश्मयः, इत्यमरः ।
टिप्पणी—संलक्ष्यन्ते—यह रूप "सम्" उपसर्गपूर्वक णिजन्त "लक्ष्" धातु के प्रथमपुरुष के बहुवचन का है । यह धातु आत्मनेपदी है 'कर्म में णिच् का विधान किया गया है ।
| ८२ | मेघदूतम् |
|---|
( प्रद्योतस्य प्रियदुहितरं वत्सराजोऽत्र जह्रे
हैमं तालद्रुमवनमभूदत्र तस्यैव राज्ञः ।
अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भमुत्पाट्य दर्पा-
दित्यगन्तून् रमयति जनौ यत्र बन्धूनभिज्ञः ॥ )
अन्वयः — अत्र वत्सराजः प्रतोद्यतस्य प्रियदुहितरम् जह्रे । अत्र तस्यैव राज्ञः हैमम् तालद्रुमवनम् अभूत् अत्र किल नलगिरिः दर्पात् स्तम्भम् उत्पाट्य उद्भ्रान्तः यत्र इति अभिज्ञः जनः आगन्तून् बन्धून् रमयति ।
व्याख्या — अत्र = उज्जयिन्याम्, वत्सराजः = वत्सदेशाधिपः उदयन इति भावः, प्रद्योतस्य = प्रद्योताभिधेयस्य, उज्जयिनीनरेशस्येति भावः, प्रियदुहितरम् = प्रियां पुत्रीम्, वासवदत्तामिति भावः, जह्रे = अपहृतवान् । अत्र = उज्जयिन्याम्, तस्यैव = प्रद्योतस्यैव, राज्ञः = नरेशस्य, हैमम् = सुवर्णमयम्, तालद्रुमवनम् = तालवृक्षकाननम्, अभूत् = आसीत् । अत्र = उज्जयिन्याम्, नलगिरिः = नलगिरि-नामको हस्ती, दर्पात् = मदात्, स्तम्भम् = स्थाणुम्, उत्पाट्य = उद्घृत्य, उद्भ्रान्तः = उद्भ्रमणं चकार, इति = अनेन प्रकारेण, अभिज्ञः = पूर्वोक्तकथा-कोविदः, जनः = नरः, आगन्तून् = प्राघुणिकान्, अन्यस्मात् देशादागतान्, बन्धून् = बान्धवान्, रमयति = विनोदयति ।
शब्दार्थ — अत्र = उज्जयिनी, में वत्सराजः = वत्सदेश के राजा (उदयन) प्रद्योतस्य = प्रद्योतनामक, उज्जयिनी नरेश की, प्रियदुहितरम् = प्रिय पुत्रीका ( वासवदत्ता का ), जह्रे = अपहरण किया था । अत्र = इसी उज्जयिनी में, तस्यैव = प्रद्योत, राज्ञः = नरेश का ही, हैमम् = स्वर्णमय, तालद्रुमवनम् = तालवृक्षों का वन, अभूत् = था । अत्र = यहाँ, किल = निश्चय ही, नलगिरिः = नलगिरि नामक राजा का हाथी, दर्पात् = मदमत्त होकर, स्तम्भम् = खूंटे को, उत्पाट्य = उखाड़कर, उद्भ्रान्तः = घूमा करता था, यत्र = जहाँ, इति = इस प्रकार से अभिज्ञः = उदयन-वासवदत्तादि की कथाओं के जानकार, जनः = लोग, आगन्तून् = दूसरे देशों से आये हुए, बन्धून् = बान्धवों का, रमयति = ( मन ) बहलाया करते हैं ।
पूर्वमेघः ८३
भावार्थः—हे मेघ ! उदयन उज्जयिन्यामेव वासवदत्तमपहृतवान् । अत्रैव प्रद्योतस्य राज्ञः सौवर्णतालवृक्षकाननमासीत्, अस्मिन्नेव प्रदेशे नलगिरिनामा उज्जयिनीनरेशगजः मदात् स्थूणमुत्पाट्य बभ्राम, एतादृशीः कथाः श्रावयित्वा कथाज्ञाता जनः देशान्तरादागतानां बान्धवानां मनांसि रमयति ।
हिन्दी—हे मेघ ! इसी उज्जयिनी में उदयन ने वासवदत्ता का अपहरण किया था । यहीं प्रद्योत का सोने का बना तालवृक्षों का वन था । इसी उज्जयिनी में, नलगिरि नाम के राजा का हाथी मदमत्त होकर खम्भों को उखाड़कर घूमा करता था, इस प्रकार की कथाओं को कहकर जानकार लोग दूसरे देश से आये हुए बन्धुओं का मनोविनोद किया करते हैं।
समासः—वत्सानां राजा = वत्सराजः ( ष० तत्० ) । प्रिया चासौ दुहिता च ताम् = प्रियदुहितरम् ( कर्म० धा० ) । तालानां द्रुमाः = तालद्रुमाः ( ष० तत्० ) तेषां वनम् तम् तालद्रुमवनम् ( ष० तत्० ) ।
कोशः—दर्पोऽवलेपोऽहङ्कारः, इत्यमरः । वार्तासंभाव्ययोः किल, इत्यमरः । प्रवीणे निपुणाभिज्ञनिष्णातशिक्षिताः, इत्यमरः । स्युरावैशिक आगन्तुर-तिथिनां गृहागते, इत्यमरः ।
टिप्पणी—वत्सराजः—यहाँ वत्स पद का राजा के साथ समास हो जाने पर ‘‘राजाऽहःसखिभ्यष्टच्’’ इस सूत्र से ‘‘टच्’’ प्रत्यय हुआ है ।
अभिज्ञः—‘‘अभि जानातीति’’ इस विग्रह में ‘‘अभि’’ पूर्वक ज्ञानार्थक ‘‘ज्ञा’’ धातु से ‘‘आतश्चोपसर्गे कः’’ इस सूत्र से ‘‘क’’ प्रत्यय लाकर ‘‘अभिज्ञ’’ ऐसा रूप बना है ।
अलंकार—जयदेव के ‘‘भाविकं भूतभाव्यर्थसाक्षाद्दर्शनवर्णनम् । अलं विलोकयाऽद्यापि युध्यन्तेऽत्र सुराऽसुराः ॥’’
इस लक्षण के अनुसार यहाँ ‘‘भाविक’’ नामक अलङ्कार है, क्योंकि यहाँ वत्सराजादि के बीते हुए वृत्तान्त का साक्षात् दर्शन के समान कथन है ॥
८४ मेघदूतम्
( पत्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहाः शैलोदग्रास्त्वमिव करिणो वृष्टिमन्तः प्रभेदाद् । योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः प्रत्यादिष्टाभरणरुचयश्चन्द्रहास-व्रणाङ्कैः ॥ )
अन्वयः—यत्र वाहाः पत्रश्यामाः दिनकरहयस्पर्धिनः शैलोदग्राः करिणः प्रभेदात् त्वमिव वृष्टिमन्तः योधाग्रण्यः संयुगे प्रतिदशमुखम् तस्थिवांसः चन्द्रहासव्रणाङ्कैः प्रत्यादिष्टाभरणरुचयः ।
व्याख्या—यत्र=उज्जयिन्याम्, वाहाः=घोटकाः, पत्रश्यामाः=पर्णश्यामाः हरितवर्णाः इत्यर्थः; दिनकरहयस्पर्धिनः=सूर्याश्वतुल्याः, वर्णेन वेगेन च सूर्याश्वतुल्या इति भावः। शैलोदग्राः=पर्वतेवोच्छ्रिताः, करिणः=गजाः, प्रभेदात्=मदस्रवणात्, त्वमिव=भवत्समानः, मेघेवेत्यर्थः, वृष्टिमन्तः=वर्षणशीलाः सन्तीति शेषः। योधाग्रण्यः=सेनानायकाः, संयुगे=युद्धे, प्रतिदशमुखम्=रावणसमक्षम्, तस्थिवांसः=स्थिताः, चन्द्रहासव्रणाङ्कैः=रावणकरवाल-क्षतचिह्नैः, प्रत्यादिष्टाऽऽभरणरुचयः=तिरस्कृतभूषणकान्तिमन्तः सन्तीति भावः।
शब्दार्थः—यत्र=जिस उज्जयिनी में, वाहाः=घोड़े, पत्रश्यामाः=पत्ते के समान हरे रंग के, दिनकरहयस्पर्धिनः=सूर्य के घोड़ों से, रंग में एवं वेग में होड़ लेने वाले हैं। शैलोदग्राः=पर्वत के समान ऊँचे, करिणः=हाथी, प्रभेदात्=मदजल के गिरने के कारण, त्वमिव=तुम्हारी तरह, वृष्टिमन्तः=वर्षा वाले हैं। योधाग्रण्यः=श्रेष्ठ योद्धा-गण, संयुगे=युद्ध में, प्रतिदशमुखम्=रावण के सम्मुख, तस्थिवांसः=स्थिर होकर ( उसके विरुद्ध होकर, ) चन्द्रहासव्रणाङ्कैः=रावण के तलवार के प्रहार के चिह्नों से, प्रत्यादिष्टाभरणरुचयः=आभूषणों को तिरस्कृत करने वाली कान्ति से युक्त है।
भावार्थः—हे मेघ ! यत्रत्याः अश्वाः हरितवर्णत्वात् वेगाच्च सूर्याश्वसंघर्षणशीलाः सन्ति, पर्वतसमानोच्चाः गजाः मदजलवर्षणात् वृष्टिमन्तः सन्ति, श्रेष्ठाः
पूर्वमेघः ८५
योद्धारः रणे रावणं प्रतियुद्ध्यन्तस्तदीयखड्गप्रहारचिह्नैः प्रत्याख्याताऽऽभरण-कान्तयः सन्ति ।
हिन्दी—हे मेघ ! जहाँ घोड़े हरे रंग के होने के कारण ( और वेग के कारण ) सूर्य के घोड़ों से होड़ लेने वाले हैं, पर्वत के समान ऊँचे हाथी मदजल के गिरने से वृष्टि वाले हैं एवं श्रेष्ठ योद्धागण युद्ध में रावण के विरुद्ध युद्ध करते हुए रावण के खड्ग के प्रहार-चिह्न से युक्त होकर आभूषण को तिरस्कृत करने वाली कान्ति से युक्त हैं ।
समासः—पत्रमिव श्यामाः = पत्रश्यामाः (कर्मधारयः) । दिनकरस्य हयाः = दिनकरहयाः ( ष० तत्० ) तैः स्पर्धन्ते तच्छीला इति दिनकरहयस्पर्धिनः । चन्द्रहासस्य व्रणानि चन्द्रहासव्रणानि ( ष० त० ) तान्येव अङ्कास्तैः चन्द्रहास-व्रणाङ्कैः ( रूपकसमासः ) । आभरणानां रुच्यः आभरणरुचयः ( ष० तत्० ) प्रत्यादिष्टा आभरणरुचयो यैस्ते = प्रत्यादिष्टाऽभरणरुचयः ( बहु० ) ।
कोशः—वाजिवाहाऽर्वागन्धर्वहयसैन्धवसप्तयः, इत्यमरः । खड्गे तु निस्त्रिंश-चन्द्रहासाऽसिरिष्टयः, इत्यमरः । स्युः प्रभा रुग् रुचिस्त्वड्भाभाश्छविद्युतिदीप्तयः, इत्यमरः ।
टिप्पणी—वाहाः ═ "वह" धातु से घञ् प्रत्यय करके "वाह" ऐसा रूप बनाया जाता है । दिनकरः—करोतीति करः दिनं करोतीति दिनकरः ॥
जालोद्गीर्णैरुपचितवपुः केशसंस्कारधूपै-
र्बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्योपहारः ।
हर्म्येष्वस्याः कुसुमंसुरभिष्वध्व-खेदं नयेथाः
लक्ष्मीं पश्येल्ललितवनितापादरागाङ्कितेषु ॥ ३२ ॥
अन्वयः—जालोद्गीर्णैः केशसंस्कारधूपैः उपचितवपुः बन्धुप्रीत्या भवन-शिखिभिः दत्तनृत्योपहारः कुसुमसुरभिषु ललितवनितापादरागाङ्कितेषु, हर्म्येषु अस्याः लक्ष्मीम् पश्यन् अध्वखेदम् नयेथाः ।
८६ मेघदूतम्
व्याख्या—जालोद्गीर्णैः=वातायननिर्गतैः, केशसंस्कारधूपैः=कामिनीवेणीसंस्कृतधूपैः, उपचितवपुः=परपुष्टदेहः, बन्धुप्रीत्या=बान्धवस्नेहेन, भवनशिखिभिः=सदनमयूरैः, दत्तनृत्योपहारः=प्रदत्तनर्तन उपहारः, कुसुम सुरभिषु=पुष्प सौरभेषु, ललितवनितापादरागाङ्कितेषु=सुन्दराङ्गनाचरणलाक्षारुचि-चिह्नितेषु, हर्म्येषु=अट्टालिकासु, अस्याः=उज्जयिन्याः, लक्ष्मीम्=शोभाम्, पश्यन्=बिलोकयन्, अध्वखेदम्=मार्गपरिश्रमम्, नयेथाः=दुरीकुरु।
शब्दार्थः—जालोद्गीर्णैः=जालियों से (खिड़की से) निकलते हुए, केशसंस्कारधूपैः=(कामिनियों के) केशों को सुगन्धित करने वाले धूप से, उपचितवपु=परिपुष्ट देह वाला, बन्धुप्रीत्या=बान्धव स्नेह से, भवनशिखिभिः=घर के (पालतू) मोरों द्वारा, दत्तनृत्योपहारः=जिसे नृत्य का उपहार दिया गया है, कुसुम-सुरभिषु=फूलों के सुगन्ध से सुगन्धित, ललितवनितापादरागाऽङ्कितेषु=सुन्दर स्त्रियों के पैरों में लगे महावर के चिह्न से चिह्नित, हर्म्येषु=महलों में, अस्याः=इस उज्जयिनी की, लक्ष्मीं=शोभा को, पश्यन्=देखता हुआ, अध्वखेदम्=रास्ते के परिश्रम को, नयेथाः=दूर करना।
भावार्थः—हे मेघ ! तत्रोज्जयिन्यां वातायनमार्गेनिर्गतैः कामिनीकचवासनार्थैः गन्धद्रव्यधूपैः परिपुष्टशरीरः भ्रातृस्नेहेन सदनमयूरेण नृत्यद्वारा कृतातिथ्यः (त्वम्) पुष्पपरिमलेषु सुन्दरललनाचरणालक्तकचिह्नितेषु भवनेषु उज्जयिन्याः शोभामवलोकयन् मार्गगमनजन्यपरिश्रममपनय ।
हिन्दी—हे मेघ ! वहाँ उज्जयिनी में खिड़की की जालियों से स्त्रियों के केशों को सुगन्धित करनेवाले धूप से परिपुष्ट देहवाले भ्रातृस्नेह से घर के पालतू मयूरों के द्वारा सत्कृत तुम पुष्प के सुगन्ध से सुगन्धित, सुन्दर स्त्रियों के पैरों में लगे महावर के चिह्नों से युक्त महलों में उज्जयिनी की शोभा को देखते हुए मार्ग में चलने के कारण उत्पन्न परिश्रम को दूर करना ।
समासः—जालेभ्यः उद्गीर्णाः तैः (ष० तत्०)। केशानां संस्कारः केशसंस्कारः (ष० तत्०) तस्य धूपस्तैः (ष० तत्०)। बन्धोः प्रीतिः तया बन्धुप्रीत्या (ष० तत्०)। उपचितं वपुर्यस्य स उपचितवपुः (बहु०)। भवनेषु