भारतकोश
संग्रह पर लौटें

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

दशमोऽङ्कः ६२३

वसन्तसेना-- ( सास्रमुत्थाय, पादयोर्निपत्य ) अज्ज चारुदत्त ! सा उज्जेव्व अहं पावा, जाए कारणादो इअ तुए असरिसी अवस्था पाविदा । ( आर्य-चारुदत्त ! सैवाहं पापा, यस्याः कारणादियं त्वयाऽसदृश्यवस्था प्राप्ता । )

( नेपथ्ये )

अच्छरिअं, अच्छरिअं, जीवदि वसन्तशेणा । ( आश्चर्यमाश्चर्यम्, जीवति वसन्तसेना । ) ( इति सर्वे पठन्ति । )

चारुदत्तः -- (आकर्ण्य सहसोत्थाय स्पर्शसुखमभिनीय निमीलिताक्ष एव हर्षगद्-गदाक्षरम् ) प्रिये ! वसन्तसेना त्वम् ?

वसन्तसेना -- सा उज्जेवाहं मंदभाआ । ( सैवाह मन्दभाग्या । )

चारुदत्तः-- ( निरूप्य सहर्षम् ) कथं वसन्तसेनैव ? ( सानन्दम् )

कुतो बाष्पाम्बुधाराभिः स्नपयन्ती पयोधरौ ।
मयि मृत्युवशं प्राप्ते विद्येव समुपागता ॥ ४२ ॥

क्या ? अथवा उस ( वसन्तसेना ) के रूप के समान रूप से यह कोई दूसरी स्त्री आई है क्या ? ॥ ४१ ॥

टीका-- पूर्वश्लोकोक्तमेवार्थं भङ्ग्यन्तरेण प्रतिपादयति —किमिति । मम=स्वप्रियस्य चारुदत्तस्य, जीवातोः=जीवनस्य, काम्या=इच्छा तया, मम जीवनरक्षणेच्छया, स्वर्गात्=सुरपुरात्, पुनः=द्वितीयवारम्, प्राप्ता=भूमौ समागता, किं नु ? न्विति वितर्के, उत=अथवा, तस्याः=वसन्तसेनायाः, रूपस्य=अवयवसंस्थानस्य, अनुरूपेण साम्येन, तदाकृतितुल्याकृत्येत्यर्थः, इयम्=पुरोवर्त्तमाना, अन्या=वसन्तसेनातः भिन्ना, आगता=समागता, किम् ? अत्र सन्देहालंकारः, पथ्यावक्त्रं वृत्तम् ॥ ४१ ॥

अर्थ--वसन्तसेना-- ( आंसुओं सहित उठकर चारुदत्त के पैरों पर गिर ) आर्य चारुदत्त ! मैं ही वह अभागिनी हूँ जिसके कारण आपको यह अनुचित दशा [ मृत्युदण्ड ] प्राप्त हुई ।

( नेपथ्य में )

आश्चर्य है, आश्चर्य, वसन्तसेना जीवित है । ( ऐसा सभी लोग बोलते हैं । )

चारुदत्त-- ( सुनकर अचानक उठकर स्पर्श सुख का अभिनय करके आँखें बन्द किये हुये ही हर्ष से गद्गद वाणी में ) प्रिये ! वसन्तसेना तुम ?

**वसन्तसेना--**हाँ, मैं ही वह अभागिनी हूँ ।

**अन्वयः--**मयि, मृत्युवशम्, प्राप्ते, बाष्पाम्बुधाराभिः, पयोधरौ, स्नपयन्ती, [ त्वम् ], विद्या, इव, कुतः समागता ? ॥ ४२ ॥

**शब्दार्थ--**मयि=मेरे, मृत्युवशम्=मौत के वश को, प्राप्ते=पा लेने पर, बाष्पा=

६२४ मृच्छकटिकम्

प्रिये वसन्तसेने !

त्वदर्थमेतद्विनिपात्यमानं देहं त्वयैव प्रतिमोचितं मे।
अहो प्रभावः प्रियसंगमस्य मृतोऽपि को नाम पुनर्ध्रियेत ? ॥ ४३ ॥

म्बुधाराभिः,=आंसुओं की धाराओं से, पयोधरौ=स्तनों को, स्तनपयन्ती=नहलाती हुई, [ त्वम्=तुम ], विद्या=विद्या, इव=के समान, कुतः=कैसे या कहाँ से, समा-गता=आ गयी हो ? ॥ ४२ ॥

अर्थ - चारुदत्त—(देखकर, हर्षसहित) क्या वसन्तसेना ही हो ? (आनन्दपूर्वक) मेरे मौत के मुंह में चले जाने पर आँसुओं की धाराओं से स्तनों को नहलाती हुई तुम [भूली हुई या सञ्जीवनी] विद्या के समान कहाँ से आ गयी हो ? ॥४२॥

टीका—स्वप्रेयसीं वसन्तसेना जीवन्तीं विलोक्य हर्षं प्रकटयन्नाह-कुत इति । मयि=चारुदत्ते इत्यर्थः, मृत्युवशम्=मरणाधीनताम्, गते=प्राप्ते सति, वाष्पाम्बु-धाराभिः=मद्दुःखद्रवितचेतसा विनिः सृताश्रुसमूहैः, पयोधरौ=स्तनौ, स्तनपयन्ती=अभिषिञ्चन्ती, त्वम्, विद्या=मूर्तिमती सञ्जीवनी विद्या, इव=यथा, कुतः=कस्मात् स्थानात्, समागता=इहागता । यथा खलु कस्यचिज्जीवनरक्षणार्थं सञ्जीवनी विद्या एव स्वयमुपस्थिता भूत्वा रक्षां करोति तथैव त्वमपि स्वतः उपस्थिता भूत्वा मम रक्षां करोषीति भावः । यद्वा विस्मृता काचिद् विद्या कदाचित् स्मृति-पथमागत्य कार्यं साधयति तथैव त्वमपि सहसोपसृत्य मम प्राणरक्षणमकार्षीरिति भावः । अत्रोपमालंकारः ॥ ४२ ॥

अन्वयः—त्वदर्थम्, विनिपात्यमानम्, मे, देहम्, त्वया, एव, प्रतिमोचितम्, प्रियसङ्गमस्य, अहो !, प्रभावः, कः, मृतः, नाम, पुनः ध्रियेत ॥ ४३ ॥

शब्दार्थ—त्वदर्थम्=तुम्हारे लिये या तुम्हारे कारण, विनिपात्यमानम्=विनष्ट किया जाता हुआ, मारा जाता हुआ, मे- मेरा, देह=शरीर, त्वया=तुमने, एव=ही प्रतिमोचितम्=बचा लिया, प्रियसङ्गमस्य=प्रियमिलन का, अहो=आश्चर्यजनक, प्रभावः=प्रभाव, फल, है, मृतः=मरा हुआ, अपि=भी, को नाम=कौन, पुनः=फिर, ध्रियेत=जीवित हो सकता है ! ॥ ४३ ॥

अर्थप्रिये वसन्तसेने !

तुम्हारे लिये या तुम्हारे कारण नष्ट किया जाता [ मारा जाता ] हुआ मेरा शरीर तुम्हारे द्वारा ही बचा लिया गया, प्रियमिलन का आश्चर्यजनक प्रभाव ही है। अन्यथा मरा हुआ भी कोई पुनः जिन्दा हो सकता है ॥ ४३ ॥

टीका—वसन्तसेना-निमित्ताद् मृत्युदण्डं प्राप्तः, पुनः तयैव प्रकटीभूय

दशमोऽङ्कः । ६२५

अपि च, प्रिये ! पश्य,--

रक्तं तदेव वरवस्त्रमियं च माला
कान्तागमेन हि वरस्य यथा विभाति ।
एते च वध्यपटहध्वनयस्तथैव
जाता विवाहपटहध्वनिभिः समानाः ॥ ४४ ॥

संरक्षित इति प्रियसङ्गमस्य प्रभावं प्रतिपादयति-त्वदर्थेति । त्वदर्थम्=त्वम्=वसन्तसेना एव अर्थः=निमित्तं यस्मिन् तद् यथा, क्रियाविशेषणम्, विनिपात्यमानम्=घातकैः त्वरितमेव विनाश्यमानम्, मे=मम, चारुदत्तस्येत्यर्थः, देहम्=शरीरम्, [ कायदेहौ क्लीबपुंसावित्यमरानुरोधेन देहशब्दस्य क्लीबत्वं समीचीनं बोध्यम् । ] त्वया=वसन्तसेनया, एव, प्रतिमोचितम्=रक्षितम् । तव कारणादेव मृत्युदण्डः निर्दिष्टः, तवोपस्थित्या एव च पुनर्जीवनमिति भावः । प्रियसंगमस्य=प्रियायाः समागमस्य, अहो=आश्चर्यकरः, प्रभावः=माहात्म्यम्, कः=को जनः, नाम=इदं सम्भावनायाम्, मृतः=गतप्राणः सन्नपि, पुनः=भूयः, ध्रियेत=जीवेत इति भावः । साम्प्रतं प्रियायाः संगमेनैव मम प्राणरक्षा कृतेति भावः । उपजातिवृत्तम् ॥४३॥

**अन्वयः—**कान्तागमेन, तदेव, रक्तम्, वरवस्त्रम्, इयम्, माला, च, वरस्य, यथा, हि, विभाति, तथैव, च, एते, वध्यपटहध्वनयः, विवाहपटहध्वनिभिः, समानाः, जाताः ॥ ४४ ॥

**शब्दार्थः—**कान्तागमेन=प्रेयसी वसन्तसेना के आ जाने से, तदेव=वही, रक्तम्=लाल, वरवस्त्रम्=श्रेष्ठ कपड़ा, च=और, इयम्=यह, माला=माला, वरस्य=दूल्हे के, यथा=समान, हि=निश्चितरूप से, विभाति=शोभित हो रही है, च=और, तथैव=उसी प्रकार, वध्यपटहध्वनयः=वध करने के लिये बजाये जाने वाले नगाड़े की आवाजें, विवाहपटहध्वनिभिः=विवाह में बजनेवाले नगाड़ा की आवाज के, समानाः=समान, जाताः=हो गयी हैं ॥४४॥

**अर्थ—**और भी, प्रिये ! देखो —

प्रेयसी के [ तुम्हारे ] आजाने से वही लाल कपड़ा श्रेष्ठ वस्त्र और यह माला ( विवाह के लिये जाते हुये ) दूल्हे के समान शोभित हो रही है। और उसी प्रकार वध के लिये बजने वाले नगाड़ा की आवाजें विवाह में बजने वाले नगाड़े के समान हो गयीं हैं ॥४४॥

**टीका—**परिस्थितिवशात् कदाचिदप्रियं वस्त्वपि प्रियरूपेण परिवर्तते इति प्रतिपादयति-रक्तमिति । कान्तायाः=प्रेयस्याः, आगमेन=उपस्थित्या हेतुनेत्यर्थः, तदेव=इदमेव, रक्तम्=रक्तवर्णम्, वरवस्त्रम्=उत्कृष्टवस्त्रम्, च=तथा, इयम्=मम ग्रीवायां लम्बमाना, माला=माल्यम्, वरस्य=उद्वोढुः यथा=इव, विभाति=शोभते,

४० मृ०

६२६मृच्छकटिकम्

वसन्तसेना--अदिदक्खिणदाए किं ण्णेदं ववसिदं अज्जेण ? ( अतिदाक्षिण्यतया किं न्विदं व्यवसितमार्येण ? )

चारुदत्तः--प्रिये ! ‘त्वं किल मया हतेति’--

पूर्वानुबद्धवैरेण शत्रुणा प्रभवष्णुिना ।
नरके पतता तेन मनागस्मि निपातितः ॥ ४५ ॥

वसन्तसेना--(कर्णौ पिधाय) संतं पावं, तेण म्हि राअसालेण वावादिदा ।
( शान्तं पापम्, तेनास्मि राजश्यालेन व्यापादिता । )

चारुदत्तः ( भिक्षुं दृष्ट्वा ) अयमपि कः ?


च, तथैव=तद्वदेव, एते=श्रूयमाणा इमे, वध्यपटहध्वनयः=वध्यस्य कृते क्रियमाणाः वाद्यविशेषध्वनयः, विवाहपटहध्वनिभिः=उद्वाहादौ वाद्यमानानां पटहानाम्=ढक्कादीनाम्, ध्वनिभिः समाना । पूर्वं ये पदार्थाः कष्टकारिण आसन् त एव साम्प्रतं वसन्तसेनायाः समागमने प्रीतिकराः परिवृत्ता इति भावः । वसन्ततिलकं वृत्तम् ॥४४॥

अर्थवसन्तसेना—अति उदारता के कारण आर्य आपने यह क्या कर डाला ?

अन्वयः--पूर्वानुबद्धवैरेण, प्रभवष्णुिना, नरके, पतता, शत्रुणा, मनाक्, निपातितः, अस्मि ॥ ४५ ॥

शब्दार्थ--पूर्वानुबद्धवैरेण=पहले से ही दुश्मनी रख लेने वाले प्रभवष्णुिना=सामर्थ्यशाली, नरके=नरक में, पतता=गिरने वाले, शत्रुणा=शत्रु शकार के द्वारा, मनाक्=थोड़ा, निपातितः=गिरा, कलंकित कर दिया गया, अस्मि=हूँ, था ॥ ४५ ॥

अर्थचारुदत्त—प्रिये ! ‘तुम्हें मैंने मार दिया’ --
पहले से ही दुश्मनी रखने वाले [ राजा का शाला होने से ] शक्तिशाली [ किन्तु ] नरक में गिरने वाले उस शत्रु शकार द्वारा कुछ गिरा दिया गया हूँ । [ कलंकित कर दिया गया था । ] ॥ ४५ ॥

टीका--प्राप्तदशायाः हेतुं स्वप्रियायै निवेदयति—पूर्वेतिपूर्वानुबद्धवैरेण=पूर्वतः एव अनुबद्धं=मनसि दृढ़ीकृतं वैरं=शत्रुत्वं येन तादृशेन, प्रभवष्णुिना=राज्ञः श्यालत्वेन सामर्थ्यवता, नरके=निरये, पतता=आत्मानं निक्षिपता, तेन=प्रसिद्धेन दुष्टेन, शकारेणेत्यर्थः, मनाक्=प्रायशः, स्वल्पं वा, निपातितः=विनाशितः, मिथ्यापवादे निक्षिप्तः, अस्मि=भवामि । ‘त्वं मया हृता’ इति मिथ्याभियोगेनाहं कलंकित इति भावः । पथ्यावक्त्रं वृत्तम् ॥ ४५ ॥

अर्थवसन्तसेना--( कान बन्द करके ) ऐसा मत कहिये । उस राजश्यालक शकार ने मारा था ।

चारुदत्त--( भिक्षु को देखकर ) यह कौन है ?

दशमोऽङ्कः ६२७

वसन्तसेना—तेण अणज्जेण वावादिदा, एदिणा अज्जेण जीवाविदम्हि । ( तेनानार्येण व्यापादिता; एतेनार्येण जीवं प्रापितास्मि । )

चारुदत्तः- कस्त्वमकारणबन्धुः ?

भिक्षुः--ण पच्चभिजाणादि मं अज्जो ? अहं शे अज्जश्श चणणशंवाहचिन्तए शंवाहके णाम जूदिअलेहिं गहिदे एदाए उवाशिकाए अज्जश्श केलके त्ति अलंकालपण्णिक्कीदेम्हि । तेण अ जूदणिठवेदेण शक्कशमणके संवुत्ते म्हि । एशा वि अज्जा पवहणविपज्जाशेण पुप्फकलंउकजिण्णुज्ज'णं गदा । तेण अ अणज्जेण ण मं बहु मण्णेशि त्ति बाहु'शबलक्कालेण मालिदा मए दिट्ठा । ( न प्रत्यभिजानाति मामार्यः ? अहं स आर्यस्य चरणसंवाहचिन्तकः संवाहको नाम द्यूतकरैर्गृहीत एतयोपासिकयाऽऽर्यस्यात्मीय इत्यलङ्कारपणनिष्क्रोतोऽस्मि । तेन च द्यूतनिर्वेदेन शाक्यश्रमणकः संवृत्तोऽस्मि । एषाप्यार्या प्रवहणविपर्यासेन पुष्पकरण्डकजीर्णोद्यानं गता । तेन चानार्येण न मां बहु मन्यते इति बाहुपाशबलात्कारेण मारिता मया दृष्टा । )

( नेपथ्ये कलकलः )

जयति वृषभकेतुर्दक्षयज्ञस्य हन्ता तदनु जयति भेत्ता षण्मुखः क्रौञ्चशत्रुः । तदनु जयति कृत्स्नां शुभ्रकैलासकेतुं विनिहतवरवैरी चार्यको गां विशालाम् ॥ ४६ ॥


वसन्तसेना—उस नीच ने मार डाला था इस सज्जन ने जीवन दे दिया, जिन्दा कर दिया ।

चारुदत्त—अकारणबन्धु तुम कौन हो ?

भिक्षु—आर्य ! आप मुझे नहीं पहचानते हैं ? मैं आर्य के चरण दबाने की चिन्ता करने वाला संवाहक जुआरियों द्वारा पकड़ लिया गया था इस उपासिका ने 'आपका अपना आदमी हूँ' यह मानकर आभूषण द्वारा मुझे मुक्त करा दिया था । उस जुआ खेलने की ग्लानि से बौद्ध संन्यासी बन गया । यह आर्या भी गाड़ी बदल जाने के कारण पुष्पकरण्डक उद्यान में पहुँच गयी थी । और उस नीच ने 'मुझे अधिक नहीं मानती हो' यह कहकर भुजपाश द्वारा जबरदस्ती मार डाला, मैंने देखा ।

अन्वयः--दक्षयज्ञस्य, हन्ता, वृषभकेतुः, जयति, तदनु, भेत्ता, क्रौञ्चशत्रुः, षण्मुखः, जयति, तदनु, विनिहतवरवैरी, आर्यकः, च, शुभ्रकैलाशकेतुम्, कृत्स्नाम्, विशालाम्, गाम्, जयति ॥ ४६ ॥

शब्दार्थ—दक्षयज्ञस्य = दक्ष के यज्ञ का, हन्ता = विध्वंस करने वाला, वृषभकेतुः = बैल के चिह्नवाली पताका वाले शंकर जी, जयति = जय प्राप्त कर रहे हैं, तदनु =

६२८

मृच्छकटिकम्

( प्रविश्य, सहसा )

शर्विलकः-

हत्वा तं कुनृपमहं हि पालकं भो- स्तद्राज्ये द्रुतमभिषिच्य चार्यकं तम्। तस्याज्ञां शिरसि निधाय शेषभूतां मोक्ष्येऽहं व्यसनगतं च चारुदत्तम् ॥ ४७ ॥

इसके बाद, भेत्ता=(दुश्मनों का) दलन करने वाले, क्रौञ्चशत्रुः=क्रौञ्च नामक दैत्य के दुश्मन, षण्मुखः=स्वामिकार्तिकेय, जयति=जय प्राप्त कर रहे हैं, च=और तदनु=इसके बाद, विनिहतवरवैरी=प्रधान शत्रु ( राजा पालक ) को मार डालने वाला, आर्यकः=अहीर का बेटा आर्यक, शुभ्रकैलाशकेतुम्=धवल कैलाश पर्वरूपी पताकावाली, कृत्स्नाम्=सम्पूर्ण, विशालाम्=विशाल, गाम्=पृथ्वी को, जयति=जीत रहा है॥ ४६ ॥

( नेपथ्य में कोलाहल )

अर्थ- दक्ष प्रजापति के यज्ञ का विध्वंस करने वाले वृषभध्वज=शंकर की जय हो। इसके बाद शत्रुओं का दलन करने वाले, क्रौञ्च राक्षस के शत्रु स्वामिकार्तिकेय की जय हो। और इसके बाद प्रधान शत्रु राजा पालक को मारने वाला [ अहीर का पुत्र ] आर्यक धवल कैलाशपर्वतरूपी पताकावाली सम्पूर्ण विशाल पृथ्वी को जीत रहा है, जीत लें ॥ ४६ ॥

टीका- प्रियमित्रस्यार्यकस्य राज्यप्राप्त्याऽतीवप्रसन्नः शर्विलकः स्वेष्टदेवतास्तुतिपूर्वकं तस्य राजसिंहासनारूढत्वं सूचयति—जयतीति। दक्षस्य=एतन्नामकप्रजापतेः, यः यज्ञः=यागः, तस्य हन्ता=विध्वंसकर्ता, वृषभध्वजः,=शिवः, जयति=सर्वोत्कर्षेण वर्तताम्, तदनु=एतदनन्तरम्, भेत्ता=शत्रुसमूहभेदनकरः, क्रौञ्चस्य=तदाख्यस्य दैत्यस्य, शत्रुः=विनाशकः, षण्मुखः=स्वामिकार्तिकेयः, जयति=सर्वोत्कर्षेण वर्तताम्, तदनु=तदनन्तरम्, विनिहतः=विनाशितः, वरः=प्रधानः, शत्रुः=रिपुः, पालको राजा येन सः, आर्यकः=एतन्नामकः गोपालपुत्रकः, शुभ्रः=धवलः, कैलासः=एतन्नामकः पर्वतविशेषः, केतुः=पताका यस्यास्ताम्, कृत्स्नाम्=सम्पूर्णाम्, विशालाम्=विस्तीर्णाम्, गाम्=पृथिवीम्, जयति=स्वायत्तीकरोतु इत्यर्थः, यद्वा पृथिव्यां सर्वतोत्कर्षेण वर्ततामित्यर्थः। मालिनी वृत्तम् ॥ ४६ ॥

अन्वयः- भोः ! अहम्, हि, तम्, कुनृपतिम्, हत्वा, तद्राज्ये, च, तम्, आर्यकम्, द्रुतम्, अभिषिच्य, तस्य, च, शेषभूताम्, आज्ञाम्, शिरसि, निधाय, अहम्, व्यसनगतम्, चारुदत्तम्, मोक्ष्ये ॥ ४७ ॥

शब्दार्थ- भोः=अरे सज्जनों!, अहम्=मैं, हि=निश्चितरूप से, तम्=उस,

दशमोऽङ्कः ६२६

हत्वा रिपुं तं बलमन्त्रिहीनं पौरान्समाश्वास्य पुनः प्रकर्षात् । प्राप्तं समग्रं वसुधाधिराज्यं राज्यं बलारेरिव शत्रुराज्यम् ॥४८॥

कुनृपतिम्=दुष्ट राजा पालक को, हत्वा=मारकर, च=और, तद्राज्ये=उसके राज्य में [ सिंहासन पर ], तम्=उस, आर्यकम् =आर्यक को, द्रुतम्,=शीघ्र ही, अभिषिच्य=अभिषिक्त करके, च=और, तस्य=उस राजा ( आर्यक ) की, शेषभूताम्=अन्तिम, आज्ञाम्=आदेश को, शिरसि=सिर पर, निधाय=रखकर, अहम्=मैं, शर्विलक, व्यसनगतम्=आपत्ति में पड़े हुये, चारुदत्तम्=चारुदत्त को, मोक्ष्ये=मुक्त करूँगा, अर्थात् करवाऊँगा ॥ ४७ ॥

अर्थ--( प्रवेश करके, अचानक )

शर्विलक-- हे सज्जनों ! उस दुष्ट राजा पालक को मारकर और उसके राज्य पर आर्यक को शीघ्र ही अभिषिक्त करके उस राजा आर्यक की अन्तिम=प्रधान आज्ञा को शिर से धारण करके विपत्ति में पड़े हुये चारुदत्त को मुक्त करूँगा, अर्थात् छुड़वा दूँगा ॥ ४७ ॥

टीका-- पालकस्य वधं पौराणां समाश्वासनं चारुदत्तस्य मुक्ति च सूचयति शर्विलकः -हत्वेति । भोः=इदं सम्बोधनम्, अहम्=शर्विलकः, तम्=सर्वविदितम्, कुनृपतिम्=कुत्सितं राजानम्, पालकम्, हत्वा=मारयित्वा, तम् च=पूर्वं सिद्धादेशेन निर्दिष्टं भाविनं राजानम्, आर्यकम्=गोपालपुत्रकम्, तद्राज्ये=पालकराज्ये, द्रुतम्=शीघ्रम्, अभिषिच्य=अभिषिक्तं कृत्वा, तस्य=आर्यकस्य, शेषभूताम्=अवशिष्टाम्, प्रमुखां वा, आज्ञाम्=आदेशम्, शिरसि=मस्तके, निधाय=कृत्वा, व्यसनगतम्=विपद्ग्रस्तम्, चारुदत्तम्=तन्नामकं सज्जनम्, अहम्=शर्विलकः, मोक्ष्ये=मोचयिष्यामि । इदं भाविघटनायाः सूचकम् । प्रहर्षिणी वृत्तम् ॥ ४७ ॥

अन्वयः-- बलमन्त्रिहीनम्, तम्, रिपुम्, हत्वा, पुनः, प्रकर्षात्, पौरान्, समाश्वास्य बलारेः, राज्यम्, इव, वसुधाधिराज्यम्, समग्रम्, शत्रुराज्यम्, प्राप्तम् ॥ ४८ ॥

शब्दार्थ-- बलमन्त्रिहीनम्=सेना और मन्त्रियों से रहित, तम्=उस, रिपुम्=शत्रु ( राजा पालक ) को, हत्वा=मारकर, पुनः=फिर, प्रकर्षात्=अपने प्रभाव का आश्रय लेकर, पौरान्=पुरवासियों को, समाश्वास्य=समाश्र्वस्त करके, बलारेः=बलासुर के शत्रु इन्द्र के, राज्यम्=राज्य के, इव=समान, वसुधाधिराज्यम्=पृथिवी के साम्राज्य, समग्रम्=समस्त, शत्रुराज्यम्=शत्रु के राज्यको, प्राप्तम्=पा लिया है ॥ ४८ ॥

अर्थ-- सेना और मन्त्रियों से रहित उस शत्रु [ पालक ] को मार कर [ अपने ] प्रभाव का आश्रय लेकर पुरवासियों को पुनः समाश्वस्त करके, बल नामक दैत्य के

६३० मृच्छकटिकम्

(अग्रतो निरूप्य) भवतु, अत्र तेन भवितव्यम्, यत्रायं जनपादसमवायः। अपि नामायमारम्भः क्षितिपतेरार्यकस्यार्यचारुदत्तस्य जीवितेन सफलः स्यात्। (त्वरिततरमुपसृत्य) अपयात जाल्माः ! । (दृष्ट्वा, सहर्षम्) अपि ध्रियते चारुदत्त. सह वसन्तसेनया ? संपूर्णाः खल्वस्मत्स्वामिनो मनोरथाः।

दिष्ट्या भो व्यसनमहार्णवादपारा- दुत्तीर्णं गुणवृतया सुशीलवत्या। नावेव प्रियतमया चिरान्निरीक्षे ज्योत्स्नाढ्यं शशिनमिवोपरागमुक्तम् ॥ ४६ ॥

शत्रु इन्द्र के राज्य [ स्वर्गपुरी ] के समान सम्पूर्ण पृथिवी के शासन वाले शत्रु के सारे राज्य को अपने अधिकार में कर लिया है ।। ४८ ।।

टीका—सैन्यमन्त्रिशक्तिहीनस्य राज्ञः पालकस्य वधं, पुरवासिनां शासन-परिवर्तनेन जातभीतिनिराकरणं सम्पूर्णे राज्ये आर्यकस्य आधिपत्यं च सूचयितुमाह-हत्वेति। बलानि=सैन्यानि, मन्त्रिणश्च=अमात्याश्च तैः हीनः=रहितः, तम्, रिपुन्=शत्रुम्, पालकमित्यर्थः, हत्वा=मारयित्वा, प्रकर्षात्=प्रभावमाश्रित्य, ल्यब्लोपे पञ्चमी बोध्या, पौरान्=पुरवासिलोकान्, समाश्वास्य=सान्त्वयित्वा, बलारेः=बलनामकदैत्यशत्रोः, इन्द्रस्येत्यर्थः, राज्यम्=स्वर्गम्, यद्वा इन्द्रत्वमित्यर्थः, इव=तुल्यम्, वसुधायाः=पृथिव्याः, अधिराज्यम्=साम्राज्यम्, समग्रम्=सम्पूर्णम्, शत्रुराज्यम्=रिपोः पालकस्य राज्यम्, प्राप्तम्=अधिगतम् । अत्रोपमालंकारः, इन्द्रवज्रा वृत्तम् ॥४८॥

विमर्शः--शर्विलक का तात्पर्य यह है कि राजा पालक का साथ देने के लिये न तो सेना थी और न मन्त्री । सभी उसकी मूर्खता और दुष्टता से परेशान थे। उसका साम्राज्य इन्द्रपुरी के समान अति सम्पन्न था । उसे विप्लव करके प्राप्त किया है । किन्तु सामान्य प्रजा को समाश्वस्त कर दिया गया है कि उन्हें कोई कष्ट नहीं होगा ।। ४८ ।।

अर्थ—(आगे देखकर) अच्छा, उन (चारुदत्त) को यहाँ होना चाहिये जहाँ जनपद के लोगों की भीड़ है। राजा आर्यक का यह कार्य [राज्याभिषेक] आर्य चारुदत्त के जीवित रह जाने से सफल हो जाता। (बहुत जल्दी पास जाकर) अरे धूर्तों ! हटो। (देखकर हर्षसहित) क्या वसन्तसेना के साथ आर्य चारुदत्त जीवित हैं ? हमारे राजा (आर्यक) के सभी मनोरथ सफल हो गये।

अन्वयः--भोः, नावा, इव, गुणधृतया, सुशीलवत्या, प्रियतमया, अपारात्, व्यसनमहार्णवात्, उत्तीर्णम्, उपरागमुक्तम्, ज्योत्स्नाऽढ्यम्, शशिनम्, इव, दिष्ट्या, चिरात्, निरीक्षे ॥४६॥

दशमोऽङ्कः ६३१

तत्कृतमहापातकः कथमिवैनमुपसर्पामि ? अथवा, सर्वत्रार्जवं शोभते ।

( प्रकाशमुपसृत्य बद्धाञ्जलिः ) आर्यचारुदत्त !

चारुदत्तः—ननु को भवान् ?


शब्दार्थ —भोः=हे सज्जनों !, नावा=नौका, इव=के समान, गुणधृतया= गुण=अनुरागादि से आकृष्ट, [ नौकापक्ष में-गुण=रस्सी आदि से खींची गयी ], सुशीलवत्या=सच्चरित्रवाली, प्रियतमया=प्रेयसी वसन्तसेना द्वारा, अपारात्=पार न कर सकने योग्य, व्यसनमहार्णवात्=विपत्तिरूपी समुद्रसे, उत्तीर्णम्=पार किये गये [ आर्य चारुदत्त ] को, उपरागमुक्तम्=राहु के ग्रास से निकले हुये, ज्योत्स्नाढ्यम्=चांदनी से युक्त, पूर्णमासी वाले, शशिनम्=चन्द्रमा, इव=के समान, दिष्ट्या=भाग्यवश, चिरात्=बहुत समय के पश्चात्, निरीक्षे=देख रहा हूँ ॥४६॥

अर्थ—हे सज्जनों ! नौका के समान, अनुरागादि गुणयुक्त, सच्चरित्रा प्रियतमा वसन्तसेना के द्वारा, पार न कर सकने योग्य विपत्तिरूपी महासागर से पार निकाले गये [ प्रिय मित्र चारुदत्त ] को, राहुग्रास से मुक्त चान्दनी से युक्त चन्द्रमा के समान, भाग्यवश बहुत समय बाद देख रहा हूँ ॥४६॥

टीका—वसन्तसेनासहितं चारुदत्तं दृष्ट्वाऽतीवप्रसन्नः शर्विलकः स्वहर्षोतिरेकं प्रकटयति —दिष्ट्येति । भोः=हे नागरजना इति शेषः, नावा=नौकया, इव=तुल्यया, गुणधृतया=गुणः=अनुरागादिः, नौकापक्षे-गुणः=रज्जुः, तेन, धृतया=आकृष्टया, एकत्र प्रियतमस्य उज्जजीवनार्थम् अन्यत्र च वाहनार्थमिति भावः, सुशीलवत्या=सच्चरित्रया, प्रियतमया=प्रेयस्या वसन्तसेनेत्यर्थः, कर्त्र्या, अपारात्=पारं कर्तुमयोग्यात्, व्यसनम्=मृत्युवधादिरूपा विपद् एव, महार्णवः=महासागरः, तस्मात्=उत्तीर्णम् पारं गतमिति भावः, आर्यचारुदत्तमिति शेषः, उपरागात्=ग्रासात्, मुक्तम्=परित्यक्तम्, ज्योत्स्नया=चन्द्रिकया, आढ्यम्=युक्तम्, सम्पूर्णमण्डलम्, शशिनम्=पौर्णमासीचन्द्रम्, इव, दिष्ट्या=भाग्यवशात्, चिरात्=बहुकालात् परम्, निरीक्षे=पश्यामि । यथा राहुणा ग्रस्तस्य चन्द्रस्य मुक्तिः लोकानामानन्ददायिनी भवति तथैव मृत्युमुखात् मुक्तस्य प्रियतमासहितस्य चारुदत्तस्य दर्शनमपि ममातीवानन्दकरमिति बोध्यम् । अत्र रूपकोपमादीनां संसृष्टिरलंकारः, प्रहर्षिणी वृत्तम् ॥४९॥

अर्थ—तो महापाप ( चारुदत्त के घर वसन्तसेना के धरोहर के गहनों को चुराने ) वाला मैं इसके पास कैसे चलूँ ? अथवा, [ इनकी ] सरलता सर्वत्र शोभित होती है । ( प्रकट रूप में, पास जाकर हाथ जोड़कर ) आर्य चारुदत्त !

चारुदत्त—अरे, आप कौन है ?

१३२ मृच्छकटिकम्

शर्विलकः—

येन ते भवनं भित्वा न्यासापहरणं कृतम् । सोऽहं कृतमहापापस्त्वामेव शरणं गतः ॥ ५० ॥

चारुदत्तः— सखे ! मैवम् । त्वयाऽसौ प्रणयः कृतः । (इति कण्ठे गृह्णाति ।)

शर्विलकः— अन्यच्च ।

आर्यकेणार्यवृत्तेन कुलं मानञ्च रक्षता । पशुवद्यज्ञवाटस्थो दुरात्मा पालको हतः ॥ ५१ ॥


अन्वयः— येन, ते, भवनम्, भित्वा, न्यासापहरणम्, कृतम्, कृतमहापापः, सः, अहम्, त्वाम्, एव, शरणम्, गतः ।।५०।।

शब्दार्थ— येन = जिसने, ते = तुम्हारे, भवनम् = घर को, भित्वा = फोड़ कर, सेंध लगाकर, न्यासापहरणम् = धरोहर के गहनों का अपहरण, चोरी, कृतम् = किया था, कृतमहापापः = महान् पाप करने वाला, सः = वह, अहम् = मैं, शर्विलक, त्वाम् = तुम्हारी, एव = ही, शरणम् = शरण में, गतः = प्राप्त हुआ हूँ ।।५०।।

अर्थ--शर्विलक-- जिसने आपके घर का भेदन करके ( सेंध फोड़ कर के ) धरोहर के गहनों को चुराया था । महापाप करने वाला वह मैं तुम्हारी ही शरण में आया हूँ ।।५०।।

टीका— झटिति स्वपरिचयं प्रदातुं स्वकीयं निन्दितमपि कर्म निवेदयति—येनेति । येन = मया शर्विलकेनेत्यर्थः, ते = तव, चारुदत्तस्य, भवनम् = गृहम्, भित्वा = विदार्य, तत्र सन्धि कृत्वेत्यर्थः, न्यासस्य = वसन्तसेनया निहितालंकार-समूहस्य, अपहरणम् = चौर्यम्, कृतम् = विहितम्, महापापम् = न्यासापहरणरूपं पातकं येन तादृशः, सः = पूर्वोक्तः, अहम् = शर्विलकः पापकर्त्ता त्वाम् = चारुदत्तम्, एव, शरणम् = रक्षितारम्, गतः = प्राप्तः । एवञ्च तवान्तिकं ममागमनं नोचितं तथापि शरण-प्रदत्वेन त्वयाहं रक्षितव्य इति भावः । पथ्यावक्त्रं वृत्तम् ।।५०।।

अर्थ—चारुदत्त— मित्र ! ऐसा मत कहो । तुमने तो यह स्नेह किया था । ( यह कह कर गले में लिपट जाता है । )

अन्वयः— आर्यवृत्तेन, कुलम्, मानम्, च, रक्षता, आर्यकेण, यज्ञवाटस्थः, दुरात्मा, पालकः, पशुवत्, हतः ।।५१।।

शब्दार्थ— आर्यवृत्तेन = प्रशस्त चरित्रवाले, कुलम् = कुल, च = और, मानम् = सम्मान की, रक्षता = रक्षा करने वाले, आर्यकेण = आर्यक [ गोपालपुत्र ] ने, यज्ञवाटस्थः = यज्ञशाला में विद्यमान, दुरात्मा = दुष्ट प्रकृतिवाले, पालकः = पालक ( राजा ) को, पशुवत् = पशु के समान, हतः = मार डाला ।।५१।।

दशमोऽङ्कः ६३३

चारुदत्तः—किम् ? शर्विलकः—

त्वद्यानं यः समारुह्य गतस्त्वां शरणं पुरा । पशुवद्वितते यज्ञे हतस्तेनाद्य पालकः ॥ ५२ ॥


अर्थ—शर्विलक—और भी,

प्रशस्त चरित्रवाले कुल तथा मान की रक्षा करने वाले आर्यक ने यज्ञशाला में स्थित दुष्ट प्रकृति वाले [ राजा ] पालक को पशु के समान मार डाला ॥५१॥

टीका—साम्प्रतं चारुदत्तस्य तोषाय आर्यकेण पालकस्य वधं विज्ञापयति— आर्यकेणेति । आर्यम्=प्रशस्तं, वृत्तम्=चारित्रं यस्य तेन, कुलम्=स्ववंशम्, मानम्=आत्मगौरवं, च, रक्षता=अवता, आर्यकेण=एतन्नामकेन आभीरपुत्रेण, यज्ञवाटस्थः=यज्ञशालास्थितः, दुरात्मा=दुष्टप्रकृतिकः, पालकः=एतन्नामकः तत्रत्यो राजा, पशुवत्=यज्ञीयवध्यपशुतुल्यः, हतः=मारितः । एवञ्च यथा यज्ञीयपशुवधे किमपि कष्टं न भवति तथैव तस्य पालकस्यापि वधे आर्यकस्य किमपि कष्टं न जातमिति बोध्यम् । अत्र पथ्यावक्त्रं वृत्तम् ॥ ५१ ॥

विमर्श—‘हत्वा तं कुनृपमहं हि पालकं भोः’ इत्यादि पूर्वोक्त १०।४७ पद्य में शर्विलक ने अपने द्वारा पालक का वध करना कहा है । और इसमें तथा आगे श्लोक में पालक द्वारा वध कह रहा है । इसमें विरोध प्रतीत हो रहा है । इसका समाधान यह है कि राज्यपरिवर्तन केवल शर्विलक या आर्यक नहीं कर सकते थे । इन्हें भी सहायकों की अपेक्षा थी । अब कार्य सम्पन्न हो जाने पर हर्षातिरेक में सभी अपनी २ प्रशंसा कर रहे हैं । परन्तु वास्तव वधकर्ता तो आर्यक ही है क्योंकि उसी को राजा बनाने की भविष्यवाणी है । अतः पूर्वापर-विरोध का अवसर नहीं है ॥ ५१ ॥

अर्थ—चारुदत्त—क्या ?

**अन्वयः—**यः पुरा, त्वद्यानम्, समारुह्य, त्वाम्, शरणम्, गतः [ आसीत् ], तेन, अद्य, वितते, यज्ञे, पालकः, पशुवत्, हतः ॥ ५२ ॥

**शब्दार्थ—यः=**जो, पुरा=पहले, त्वद्यानम्=तुम्हारी गाड़ी पर, समारुह्य=चढ़कर, त्वाम्=तुम्हारी, शरणम्=शरण में, गतः=गया था [ रक्षा की प्रार्थना की थी ], तेन=उस आभीरपुत्र आर्यक ने, अद्य=आज, वितते=विशाल [ अनेक लोगों से भरे हुये ], यज्ञे=यज्ञ [ शाला ] में, पशुवत्=वध्य पशु के समान, पालकः=पालक राजा को, हतः=मार डाला ॥ ५२ ॥

६३४ मृच्छकटिकम्

चारुदत्तः—शर्विलक ! योऽसौ पालकेन घोषादानीय निष्कारणं कूटागारे बद्ध आर्यकनामा त्वया मोचितः ?

शर्विलकः—यथाह तत्रभवान् ।

चारुदत्तः—प्रियं नः प्रियम् ।

शर्विलकः—प्रतिष्ठितमात्रेण तव सुहृदा आर्यकेण उज्जयिन्यां वेणातटे कुशावत्यां राज्यमतिसृष्टम् । तत् प्रतिमान्यतां प्रथमः सुहृत्प्रणयः । ( परिवृत्य ) अरे रे ! आनीयतामयं पापो राष्ट्रियशठः ।


अर्थ--शर्विलक-- पहले जो आपकी गाड़ी पर चढ़ कर [ आत्मरक्षार्थ ] आपकी शरण में पहुँचा था, उसी आर्यक ने आज विशाल यज्ञ [-शाला ] में राजा पालक को पशु के समान मार डाला ।। ५२ ।।

**टीका--**चारुदत्तस्य झटिति स्मरणाय पूर्वघटितं वृत्तान्तमुपवर्ण्यीयर्कं स्मारयति - त्वद्यानेति । यः=भवदपरिचितः आभीरपुत्रः आर्यकः, पुरा=पूर्वस्मिन् काले कदाचित्, त्वद्यानम्=तव शकटम्, समारुह्य=अज्ञातरूपेणारुह्य स्थित्वा, त्वाम्= दयालुं चारुदत्तम्, शरणम्=रक्षितारम्, गतः=प्राप्तः, भवता च दयालुस्वभावेन निगडादिनिर्मुक्तः कृतः सन् स्वाभीष्टं स्थानं प्रस्थितः आसीत्, अद्य=अस्मिन् दिने, तेन=भवदनुगृहीतेन तेनाभीरपुत्रेणार्यकेण, वितते=विशाले बहुजनसंकुले, यज्ञे=यज्ञमण्डपे इत्यर्थः, पशुवत्=यज्ञीयपशुतुल्यः, पालकः=एतन्नामा दुरात्मा राजा, हतः= मारितः । एवञ्च साम्प्रतं यो राजा जातः स भवतानुगृहीत आसीत् अतो न भवता कथमपि भेतव्यमिति तद्भावः । उपमालंकारः, पथ्यावक्त्रं वृत्तम् ।। ५२ ।।

**अर्थ--चारुदत्त--**शर्विलक ! वह आर्यक नाम वाला जिसे पालक ने अहीरों की बस्ती से बिना कारण पकड़ कर घोर कैदखाने में बन्द कर दिया था, तुमने छुड़ाया था ?

**शर्विलक—**हाँ, जैसा आप कह रहे हैं ।

**चारुदत्त—**हमारे लिये बहुत अच्छी खबर है, बहुत अच्छी खबर ।

**शर्विलक—**राज्यसिंहासन पर बैठते ही आपके मित्र आर्यक ने उज्जयिनी में वेणा नदी [ कुशावती ] के तट पर राज्य आपको दान कर दिया । अतः मित्र की यह पहली प्रार्थना स्वीकार करे । ( घूम कर ) अरे, इस दुष्ट पापी राजा के साले को ले आओ ।

दशमोऽङ्कः ६३५

( नेपथ्ये )

यथाज्ञापयति शर्विलकः ।

शर्विलकः--आर्य ! नन्वयमार्यको राजा विज्ञापयति; इदं मया युष्मद्-गुणोपार्जितं राज्यम्, तदुपयुज्यताम् ।

चारुदत्तः--अस्मद्गुणोपार्जितं राज्यम् ?

( नेपथ्ये )

अरे रे राष्ट्रियश्यालक ! एह्येहि स्वस्याविनयस्य फलमनुभव ।

( ततः प्रविशति पुरुषैरधिष्ठितः पश्चाद्बाहुबद्धः शकारः । )

शकारः--हीमादिके ( हन्त ! )

एब्बं दूलमदिक्कन्ते उद्दामे विअ गद्दहे।
आणीदे क्खु हगे बद्धे हुडे अण्णे व्व दुक्कले ॥ ५३ ॥
( एवं दूरमतिक्रान्तः उद्दाम इव गर्दभः।
आनीतः खल्वहं बद्धः कुक्कुरोऽन्य इव दुष्करः ॥ ५३ ॥ )


( नेपथ्य में )---

शर्विलक की जैसी आज्ञा ।

शर्विलक--आर्य ! ये राजा आर्यक विज्ञापित ( निवेदित ) करते हैं कि आपके गुणों [ दया दाक्षिण्यादि ] के कारण यह राज्य प्राप्त हुआ है, अतः [ आप ] उपभोग करें ।

चारुदत्त--क्या हमारे गुणों से उपार्जित राज्य ?

( नेपथ्य में )—

( अरे, राजा के शाले ! आओ आओ, अपनी धूर्तता का फल भोगो । )

( इस के बाद लोगों द्वारा पकड़ा गया, पीछे बन्धे हुये हाथों वाला शकार प्रवेश करता है । )

**अन्वयः--**उद्दामः, गर्दभः, इव, एवम्, दूरम्, अतिक्रान्तः, अहम्, खलु, आनीतः, दुष्करः, अन्यः, कुक्कुरः, इव, बद्धः ॥ ५३ ॥

**शब्दार्थ--**उद्दामः=रस्सी से रहित (निकले हुये), गर्दभः=गधा, इव=के समान, एवम्=इतनी, दूरम्=दूर तक, अतिक्रान्तः=भगा हुआ, अहम्=मैं, खलु=निश्चय ही, आनीतः=ले आया गया हूँ, दुष्करः=दुष्ट, असाध्य, अन्यः=दूसरे, कुक्कुरः=कुत्ता, इव=के समान, बद्धः=बाँध दिया गया हूँ ॥५३॥

अर्थ--शकार--हाय !

रस्सी से छूटे हुये गधे के समान इतनी दूर तक भागा हुआ मैं ले आया गया हूँ। दुष्ट ( असाध्य ) दूसरे कुत्ते के समान बाँध दिया गया हूँ ॥५३॥

६३६ मृच्छकटिकम्

( दिशोऽवलोक्य ) शमन्तदो उवट्ठिदे एशे लट्ठिअबन्धे ता कं दाणि अशलणे शलणं वजामि ? ( विचिन्त्य ) भोदु, तं ज्जेव अव्भुववण्ण-शलणं-वत्सलं गच्छामि । ( इत्युपसृत्य ) अज्जचालुदत्त ! पलित्ताआहि । ( समन्तत उपस्थित एष राष्ट्रियबन्धः तत् कमिदानीमशरणः शरणं व्रजामि ? ) ( भवतु, तमेव अभ्युपपन्नशरणवत्सलं गच्छामि । ) ( आर्यचारुदत्त ! परित्रायस्व परित्रायस्व । ) ( इति पादयोः पतति । )
( नेपथ्ये )
अज्जचालुदत्त ! मुञ्च मुञ्च, वावादेम्ह एदं । ( आर्यचारुदत्त ! मुञ्च, मुञ्च, व्यापादयाम एतम् । )
शकारः--( चारुदत्तं प्रति ) भो अशलणशलणे ! पलित्ताआहि । ( भो अशरणशरण ! परित्रायस्व । )
चारुदत्तः--(सानुकम्पम्) अहह ! अभयमभयं शरणागतस्य ।
शर्विलकः--(सावेगम्) आः, अपनीयतामयं चारुदत्तपार्श्वात् । ( चारुदत्तं प्रति ) ननु उच्यतां किमस्य पापस्यानुष्ठीयतामिति ।


**टीका--**शकारः साम्प्रतमात्मानं गर्दभरूपेण कुक्कुररूपेण च प्रतिपादयति-एवमिति । उद्दामः=उद्गतः दाम=बन्धनरज्जुः यस्य तादृशः, गर्दभः=रासभः, इव=यथा, एवम्=पूर्वोक्तरूपेण, अत्र पर्यन्तं वा, अतिक्रान्तः=पलायितः, तथा, दुष्करः=दुष्टः, असाध्यो वा, अन्यः=अपरः, कुकुकुरः=श्वा, इव=यथा, अहम्=शकारः, बद्धः=संयमितः, अस्मि । एवञ्च साम्प्रतमहं गर्दभः कुक्कुरश्च सञ्जातः । पथ्यावक्त्रं वृत्तम् ।।५३।।

अर्थ--( चारो ओर देखकर ) सभी ओर से राष्ट्रिय ( राजश्यालक ) का शत्रुवर्ग या बन्धन उपस्थित है । तो अब शरणहीन मैं किसकी शरण में जाऊँ ? ( सोंचकर ) शरण में आये हुये से प्रेम करनेवाले उन्हीं चारुदत्त की शरण में चलता हूँ । ( यह कह कर पास जाकर ) आर्य चारुदत्त ! रक्षा करो, रक्षा करो । ( यह कह कर पैरों पर गिर पड़ता है । )
( नेपथ्य में )
आर्य चारुदत्त ! छोड़ दो, छोड़ दो, हमलोग इसे मार डालते हैं ।
शकार--( चारुदत्त की ओर ) हे अशरणों के शरण ! मेरी रक्षा करो ।
चारुदत्त--( अनुकम्पा के साथ ) अहह ! शरण में आये हुये का अभय, अभय हो ।
शर्विलक--( आवेगपूर्वक ) ओह ! इसको चारुदत्त के पास से हटाओ । ( चारुदत्त की ओर ) अरे, बताइये इस पापी का क्या किया जाय ?

दशमोऽङ्कः ६३७

आकर्षन्तु सुबध्यैनं ? श्वभिः संखाद्यतामथ ? । शूले वा तिष्ठतामेषः पाट्यतां क्रकचेन वा ? ॥ ५४ ॥

चारुदत्त :— किमहमं यद् ब्रवीमि तत् क्रियते ? शर्विलकः— कोऽत्र सन्देहः ?

शकारः— भट्टालआ चालुदत्त ! शलणागदेम्हि, ता पलित्ताआहि पलित्ताआहि । जं तुए शलिशं, तं कलेहि । पुणो ण ईदिशं कलिश्शं । ( भट्टारक चारुदत्त ! शरणागतोऽस्मि, तत् परित्रायस्व परित्रायस्व । यत्तव सदृशम्, तत् कुरु, पुनर्न ईदृशं करिष्यामि । )


**अन्वयः—**एनम्, सुबध्य, [लोकाः ], आकर्षन्तु, अथ, श्वभिः, संखाद्यताम्, वा, एषः, शूले, तिष्ठताम्, वा, क्रकचेन, पाट्यताम् ॥५४॥

**शब्दार्थ—**एनम्=इस शकार को, सुबध्य=अच्छी तरह बांध कर, ( लोकाः=लोग ) आकर्षन्तु=खींचें, अथ=अथवा, श्वभिः=कुत्तों द्वारा, संखाद्यताम्=खा डाला जाय, वा=अथवा, एषः=यह, शूले=शूली पर, तिष्ठताम्=बैठ जाय, वा=अथवा, क्रकचेन=आरा से, पाट्यताम्=काट डाला जाय ॥५४॥

अर्थ—( लोग ) इसे अच्छी तरह बाँधकर खींचें । अथवा कुत्तों द्वारा खा लिया जाय अथवा शूली पर चढ़ जाय ( चढ़ा दिया जाय ) अथवा आरा से काट डाला जाय ? ॥५४॥

**टीका—**शकारस्य मृत्युं विधातुमनेकोपायान् प्रतिपादयति शर्विलकः आकर्षन्त्विति । एनम्=शकारम्, सुबध्य=सम्यग्रूपेण पादादिषु बद्ध्वेत्यर्थः, आकर्षन्तु=आकृष्य लोकाः मारयन्त्विति भावः, अथ=अथवा, श्वभिः=कुक्कुरैः, संखाद्यताम्=भक्ष्यताम्, एष =शकारः, शूले=मारणसाधनभूते लौह-यन्त्र-विशेषे, तिष्ठताम्=वर्तताम्, तत्रारोप्यैनं घ्नन्तु इति भावः, वा=अथवा, क्रकचेन=करपत्रेण, लौहस्य विदारणयन्त्रविशेषेणेत्यर्थः, पाट्यताम्=विदार्यताम् ।

क्वचित् ‘सुबद्ध्वा’ इति पाठः, सोऽशुद्धः, समासे सति क्त्वः ल्यपो दुर्वारत्वात्, ‘सुबध्य’ इत्येव भवितव्यम् । ‘तिष्ठताम्’ इत्यपि चिन्त्यम् ॥५४॥

**अर्थ—चारुदत्त—**क्या मैं जो कहूँगा वह किया जायगा ? **शर्विलक—**इसमें क्या सन्देह ? **शकारः—**स्वामी चारुदत्त ! मैं आपकी शरण में आया हूँ, अतः बचाइये बचाइये । जो आपके [ व्यक्तित्व ] के योग्य है वह करिये, अब फिर ऐसा कभी नहीं करूँगा !

६३८ मृच्छकटिकम्

( नेपथ्ये पौराः--वावादेह, किं णिमित्तं पादकी जीवावीअदि ? ) ( व्यापादयत, किं निमित्तं पातकी जीव्यते ? )

( वसन्तसेना वध्यमालां चारुदत्तस्य कण्ठादपनीय शकारस्योपरि क्षिपति । )

**शकारः--**गब्भदाशीधीए ! पशीद पशीद, ण उण मालेश्शं, ता पलित्ताआहि । ( गर्भदासीपुत्रि ! प्रसीद प्रसीद, न पुनर्मारयिष्यामि, तत् परित्रायस्व । )

**शर्विलकः--**अरे रे ! अपनयत । आर्यचारुदत्त ! आज्ञाप्यताम्--किमस्य पापस्यानुष्ठीयताम् ।

**चारुदत्तः--**किमहं यद् ब्रवीमि तत् क्रियते ?

**शर्विलकः--**कोऽत्र सन्देहः ।

**चारुदत्तः--**सत्यम् ?

**शर्विलकः--**सत्यम् ।

**चारुदत्तः--**यद्येवम्; शीघ्रमयम् --

**शर्विलकः--**किं हन्यताम् ?

**चारुदत्तः--**नहि नहि, मुच्यताम् ।

**शर्विलकः--**किमर्थम् ?


( नेपथ्य में )

**पुरवासी लोग—**मार डालो, यह पापी क्यों जीवित है ?

( वसन्तसेना चारुदत्त के गले से बध्यमाला को हटाकर शकार के ऊपर फेंक देती है । )

**शकार—**अरे गर्भकाल से ही दासी की बच्ची ! खुश हो जा, खुश हो जा, अब फिर नहीं मारूँगा । इस लिये रक्षा करो ।

**शर्विलक—**अरे रे ! हटाओ [ इसे ] । आर्य चारुदत्त ! आज्ञा दीजिये—इस पापी का क्या किया जाय ?

**चारुदत्त—**क्या जो मैं कहूँगा, वह किया जायगा ?

**शर्विलक—**इसमें क्या सन्देह ?

चारुदत्त— सच ?

शर्विलक— सच ।

**चारुदत्त—**यदि ऐसी बात है तब तो इसे शीघ्र......

**शर्विलक—**क्या मार डाला जाय ?

**चारुदत्त--**नहीं, नहीं, छोड़ दिया जाय ।

**शर्विलक--**किस लिये ?

दशमोऽङ्कः ६३६

चारुदत्त:

शत्रुः कृतापराधः शरणमुपेत्य पादयोः पतितः ।
शस्त्रेण न हन्तव्यः ... ... ... ... ... ... ... ॥

शर्विलकः-- एवं तर्हि श्वभिः खाद्यताम् ।

चारुदत्त:--

नहि
...... ...उपकारहतस्तु कर्त्तव्यः ॥ ५५ ॥

शर्विलक:-- अहो ! आश्चर्यम् । किं करोमि, वदत्वार्यः ।


चारुदत्त-- अपराध कर चुकने वाले शरण में आकर पैरों पर गिरे हुये शत्रु को शस्त्र से नहीं मारना चाहिये ।

शर्विलक-- ऐसा है तो कुत्तों द्वारा खिलवा दें ।

चारुदत्त:-- नहीं, उपकार द्वारा मरा हुआ करना चाहिये ।

अन्वयः-- [ यदि ], कृतापराधः, शत्रुः, शरणम्, उपेत्य, पादयोः, पतितः, ( तदा ), शस्त्रेण, न, हन्तव्यः, तु, उपकारहतः, कर्तव्यः ॥५५॥

शब्दार्थ-- [ यदि=यदि ] कृतापराधः=अपराध कर चुकने वाला अपराधी, शत्रु=दुश्मन, शरणम्=शरण में, उपेत्य=आकर, पादयोः=पैरों पर, पतितः=गिर पड़ा हो, [ तदा=तब ] शस्त्रेण=शस्त्र से, न=नहीं, हन्तव्यः=मारना चाहिये, तु=परन्तु, उपकारहतः=उपकार से मारा हुआ, कर्तव्यः=कर देना चाहिये ॥५५॥

अर्थ--चारुदत्त -

अपराधी भी शत्रु यदि शरण में आकर पैरों पर गिर पड़ा हो तो उसे शस्त्र से नहीं मारना चाहिये अपितु उपकार द्वारा मारा हुआ कर देना चाहिये अर्थात् उसका इतना उपकार कर देना चाहिये कि एहसान से ही मर जाय ॥५५॥

टीका-- कृतापराधिनं शत्रुं प्रति कथमाचरणीयमिति प्रतिपादयितुकामश्चारुदत्तः शकारस्य मुक्तये निर्दिशन्नाह - शत्रुरिति । कृतापराधः=पूर्वं विहितापराधः, शत्रुः=रिपुः, यदि=चेत्, शरणम्=रक्षकम्, उपेत्य=प्राप्य, पादयोः=चरणयोः, पतितः-लुठितः, जीवनदानभिक्षयेति भावः, तदा, शस्त्रेण=आयुधेन, न=नैव, हन्तव्यः=विनाशयः, उपकारेण=अनुग्रहप्रदर्शनेन, हतः=मारितः, कर्तव्यः=विधेयः, तस्मिन् एतावाननुग्रहो विधेयो येन स स्वयमेव लज्जामनुभूय स्वापराधं प्रति दुःखितो भूत्वा प्राणान् त्यजेदिति भावः । पथ्यावक्त्रं वृत्तम् ॥५५॥

विमर्शः-- यहाँ चारुदत्त के चरित्र का उत्कर्ष अवर्णनीय है ॥५५॥

शर्विलक-- अहो ! आश्चर्य है । आर्य ! बताइये मैं क्या करूँ ।

६४० मृच्छकटिकम्

चारुदत्तः— तन्मुच्यताम् ।
शर्विलकः— मुक्तो भवतु ।
शकारः— हीमादिके । पच्चुज्जोविदेम्हि ।
( हन्त । प्रत्युज्जीवितोऽस्मि । ) ( इति पुरुषैः सह निष्क्रान्तः । )

( नेपथ्ये कलकलः )

पुनर्नेपथ्ये— एसा अज्जचारुदत्तस्स बहुआ अज्जा धूदा पदे वसणञ्चले विलगन्तं दारअं अक्खिवन्ती बाप्फभरिद-णअणेहि जणेहि णिवारिज्जमाणा पज्जलिदे पावए पविसदि । ( एषा आर्यचारुदत्तस्य वधूरायां धूता पदे वसनाञ्चले विलगन्तं दारकमाक्षिपन्ती बाष्पभरित-नयनैर्जनैर्निवार्यमाणा प्रज्वलिते पावके प्रविशति । )

शर्विलकः— ( आकर्ण्य नेपथ्याभिमुखमवलोक्य ) कथं चन्दनकः ? चन्दनक ! किमेतत् ?

चन्दनकः— ( प्रविश्य ) किं ण पेक्खदि अज्जो ? महाराअप्पासादं दक्खिणेण महन्तो जणसंमद्दो वट्ठदि । ( एसा-इत्यादि पुनः पठति ) कथिदं अ मए तीए, जधा—अज्जे ! मा साहसं करेहि, जीवादि अज्जचारुदत्तो त्ति । परन्तु दुक्ख-आववुडदाए को सुणेदि ? को पत्तिआअदि ! ( किं न प्रेक्षते आर्यः ? महाराजप्रासादं दक्षिणेन महान् जनसम्मर्दो वर्त्तते । ) (कथितञ्च मया तस्यै


चारुदत्त— तब छोड़ दीजिये ।
शर्विलक— मुक्त हो जाय । ( छोड़ दिया जाय । )
शकार— ओह ! फिर से जीवित हो गया । ( ऐसा कह कर लोगों के साथ निकल गया । )

( नेपथ्य में—कोलाहल )

फिर नेपथ्य में-यह आर्य चारुदत्त की धर्मपत्नी आर्या धूता पैरों पर वस्त्रों पर लिपटने वाले बालक को अलग करती हुई, आंसुओं से पूरित नेत्रों वाले लोगों के द्वारा रोकी जाती हुई ( भी ) जलती आग में घुस रही है ।

शर्विलक— ( सुनकर नेपथ्य की ओर देख कर ) क्या चन्दनक ? चन्दनक ! यह क्या है ?

चन्दनक— ( प्रवेश करके ) श्रीमान् नहीं देख रहे हैं क्या ? महाराज के महल की दाहिनी ओर लोगों की विशाल भीड़ है । ( यह आर्य चारुदत्त की पत्नी आग में प्रवेश कर रही है-इत्यादि दुबारा कहता है । ) मैंने उससे यह

दशमोऽङ्कः ६४१

यथा--'आर्ये ! मा साहसं कुरु, जीवति आर्यचारुदत्त' इति । परन्तु दुःखव्यापृततया कः शृणोति ? कः प्रत्ययते ? )

चारुदत्तः - (सोद्वेगम्) हा प्रिये ! जीवत्यपि मयि किमेतत् व्यवसितम् ? ( उद्धर्वमवलोक्य दीर्घं निश्वस्य च )

न महीतलस्थितिसहानि भवच्चरितानि चारुचरिते ! यदपि ।
उचितं तथापि परलोकसुखं न पतिव्रते ! तव विहाय पतिम् ॥ ५६ ॥
( इति मोहमुपगतः । )

कहा "आर्ये ! दुस्साहस मत करो, आर्य चारुदत्त जीवित हैं।" लेकिन दुःख से अति व्याकुल होने के कारण कौन सुनता है ? कौन विश्वास करता है ?

अन्वयः— हे चारुचरिते ! यदपि, भवच्चरितानि, महीतलस्थितिसहानि, न, तथापि, हे पतिव्रते ! पतिम्, विहाय, तव, परलोकसुखम्, न, उचितम् ॥५६॥

शब्दार्थ— हे चारुचरिते = हे सुन्दर चरित्रवाली [ प्रिये ], यदपि = यद्यपि, भवच्चरितानि = आपके चरित्र, महीतलस्थितिसहानि = पृथ्वी लोक में रहने के योग्य, न = नहीं हैं, अर्थात् स्वर्ग में रहने योग्य हैं, तथापि = फिर भी, हे पतिव्रते = हे पतिव्रता, पतिम् = (मुझ) पति को, विहाय = छोड़कर, तव = तुम्हारा, परलोकसुखम् = परलोक का सुख, न = नहीं, उचितम् = ठीक है ॥५६॥

अर्थ—चारुदत्त— ( उद्वेगसहित ) हाय प्रिये ! मेरे जीवित रहने पर भी ( तुमने ) यह क्या कर डाला ? ( ऊपर देख कर और लम्बी सांसें लेकर ) —

हे सुन्दर चरित्रवाली ! आपके चरित्र यद्यपि पृथिवीलोक में रहने के योग्य नहीं हैं अर्थात् स्वर्गादियोग्य हैं। फिर भी, हे पतिव्रते ! मुझ पति को छोड़ कर तुम्हारा ( अकेला ) स्वर्गसुख ( प्राप्त करना ) उचित नहीं है ॥५६॥

( ऐसा कह कर मूर्च्छित हो जाता है । )

टीका— स्वमृत्युवधं श्रुत्वा आत्मदाहाय प्रयतमानां पत्नीमाकर्ण्य तद्गुणान् स्मरन् विलपति-नेति। हे चारुचरिते ! = चारु = सुन्दरम्, प्रशस्यम् चरितम् = आचरणम्, यस्यास्तत्सम्बुद्धौ रूपम्, हे प्रशस्याचरणवति !, भवच्चरितानि = भवत्याः चरितानि = आचरणानि, यदपि = यद्यपि, महीतलस्थितिसहानि = महीतले = पृथ्वीतले, स्थितिम् = अवस्थानम्, तां सहन्ते = योग्यानि भवन्ति, पृथिवीलोकनिवास-योग्यानि, न = नैव, सन्ति = वर्तन्ते, तथापि = एवं सत्यपि, हे पतिव्रते = पतिः = भर्ता, भर्तुःशुश्रूषा एव व्रतम् = नियमः यस्यास्तत्सम्बुद्धौ, यद्वा पतिः व्रतमिव, यस्यास्तत्सम्बुद्धौ रूपम्, पतिम् = भतीरम् अग्न्यादिसाक्ष्येण पतिरूपेणांगीकृतम्, मामिति शेषः, विहाय = त्यक्त्वा, तव = भवत्याः, धूताया इत्यर्थः, परलोकसुखम् = परलोकसुखोपभोग इति भावः, न = नैव, उचितम् = प्रशंसनीयम्। एवञ्च मया सहैव त्वया प्राणा हातव्याः,

४१ मृ०

६४२ मृच्छकटिकम्

शर्विलकः--अहो ! प्रमादः ।

त्वरया सर्पणं तत्र मोहमार्योऽत्र चागतः ।
हा धिक् प्रयत्नवैकल्यं दृश्यते सर्वतोमुखम् ॥ ५७ ॥

येन आवयोः सहैव स्वर्गसुखप्राप्तिः स्यादिति भावः । प्रमिताक्षरा वृत्तम्, एतल्लक्षणम्--“प्रमिताक्षरा सजससैः कथिता ॥५६॥

विमर्श--अपनी पत्नी के आचरण से अत्यन्त प्रसन्न और सन्तुष्ट रहने वाला चारुदत्त उसी की मृत्यु का समाचार सुनकर अति व्याकुल हो जाता है। वसन्तसेना उसे मिल चुकी है फिर भी वह अपनी पतिव्रता पत्नी को किसी भी स्थिति में छोड़ना सहन नहीं कर सकता। वह उसे पतिव्रता के धर्मों का संकेत करके अकेले स्वर्ग-सुख-प्राप्ति का निषेध करता है। हारीत ने पतिव्रता का यह लक्षण किया है—

आर्त्तार्ते, मुदिता हृष्टे, प्रोषिते मलिना कृशा ।
मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥५६॥

अन्वयः--तत्र, त्वरया, सर्पणम्, ( अपेक्षितम् ) अत्र, च, आर्यः, मोहम्, आगतः, हां धिक्, सर्वतोमुखम्, प्रयत्नवैकल्यम्, दृश्यते ॥५७॥

शब्दार्थ--तत्र=वहाँ [ आर्या धूता के पास ), त्वरया=जल्दीसे, सर्पणम्=पहुँचना, ( अपेक्षितम्=अपेक्षित, है) च=और, अत्र=यहाँ, आर्यः=श्रीमान्, चारुदत्त, मोहम्=मूर्च्छा को, आगतः=प्राप्त हो गये, मूर्छित हो गये, हा धिक् !=हाय धिक्कार है, सर्वतोमुखम्=सभी ओर, प्रयत्नवैकल्यम्=प्रयासों की विफलता, दृश्यते=दिखाई पड़ रही है ॥५७॥

अर्थ--शर्विलक--हाय ! बहुत बड़ी असावधानी ( हो गयी ) ।

वहाँ ( आर्या धूता के पास ) जल्दी जाना ( अपेक्षित ) है और यहाँ आर्य ( चारुदत्त ) मूर्छित हो गये हैं। हाय धिक्कार है, सभी ओर प्रयासों की विफलता दिखाई दे रही है ॥५७॥

टीका--मूर्च्छितस्य चारुदत्तस्य धूतासमीपे गमनमतिदुष्करमिति तस्याः प्राणरक्षणं दुःशकमिति विचिन्त्य शर्विलकः स्वप्रयासवैकल्यं विलोकयन् आह--त्वरयेति । तत्र=तस्मिन् स्थाने यत्रार्या धूता अग्नौ प्रविश्य स्वप्राणान् परित्यक्तुं प्रयतमानावस्ति, त्वरया=अतिशीघ्रमेव, सर्पणम्=गमनम्, अपेक्षितम्, च=किन्तु, अत्र=अस्मिन् स्थाने, आर्यः=श्रीमान् चारुदत्त:, मोहम्=मूर्च्छाम्, आगतः=उपगतः, एवञ्च मूर्च्छितः सः स्वपत्न्याः रक्षणं कथं करिष्यतीति भावः, हा धिक्=हा कष्टम्, सर्वतोमुखम्=सर्वस्मिन् वस्तुनि, मुखम्=प्रारम्भः, प्रसक्तिर्वा यस्य तत्, सर्वतो-