भारतकोश
संग्रह पर लौटें

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

सर्गः १ ] जीवातु-मदयन्तिकासहितम् । ४५ व्यलोकयच्चम्पककोरकावलीः स शम्बरारेर्बलिदीपिका इव ॥८६॥ विचिन्वतीरिति । [ पान्थपतङ्गहिंसनैः ] पन्थानं गच्छन्ति नित्यमिति पान्थाः, नित्यपथिकाः । ‘पन्थोऽण् नित्यम्’ इत्यण्प्रत्ययः पन्थादेशश्च । त एव पतङ्गाः पक्षिणः । ‘पतङ्गः पक्षिसूर्य्ययोः’ इत्यमरः । तेषां, हिंसनैर्वधैः, [ अपुण्यकर्माणि अलिकज्जलच्छलात् ] अपुण्यकर्माण्येव, अलयः कजलानीवेत्युपमितसमासः । तेषां छलादित्यपह्नुवालङ्कारः । विचिन्वतीः = संगृह्णतीः, हिंसापापकारिणीरित्यर्थः । चम्पककोरकावलीः, शम्बरारेः = मनसिजस्य, बलिदीपिकाः = पूजादीपिका इव इत्युत्प्रेक्षा । स = नलो व्यलोकयत् ॥८६॥ नल ने चम्पे की कलियों की कतारें देखीं, मानो वे कामदेव की बलि-प्रदीप हों--जो विरही पथिक रूपी फतिङ्गा के जलाने से, भौरें रूपी काजल के बहाने, मानों पाप बटोर रही थीं ॥८६॥ अमन्यतासौ कुसुमेशुगर्भजं परागमन्धङ्करणं वियोगिनाम् । स्मरेण मुक्तेषु पुरा पुरारये तदङ्गभस्मेव शरेषु सङ्गतम् ॥८७॥ अमन्यतेति । असौ = नलः । [ कुसुमेशुगर्भजं ] कुसुमान्येव इषवः काम- बाणास्तेषां गर्भजं गर्भजातं । वियोगिनाम् इति कर्मणि षष्ठी । अनन्धा अन्धाः क्रियन्तेऽनेनेत्यन्धङ्क रणं । ‘आढ्यसुभगे’ इत्यादिनाच्च्यर्थे ख्युन् प्रत्ययः । ‘अरुर्द्विषत्’ इत्यादिना मुमागमः । तं परागं पुरा = पूर्वं, पुरारये = पुरहराय स्मरेण मुक्तेषु शरेषु सङ्गत = संसक्तं । [ तदङ्गभस्म ] तस्य पुरारेरङ्गे यद्भस्म, तदिव मन्यत इति उत्प्रेक्षितवानित्यर्थः । पुरा पुरारये ये मुक्तास्त एवैते पुरोवर्त्तिनः, कुसुमेशव इत्यभिमानः । अन्यथैषां तदङ्गभस्मसङ्गोत्प्रेक्षानुत्थानादिति ॥८७॥ नल ने फूलों के भीतर पराग को—इस प्रकार विरहियों को कामान्ध करने- वाला—समझा; जैसे प्राचीनकाल में कामदेव से, पुरारि शिव पर चलाये गये फूल रूपी बाण में, लगी उनके अङ्ग की भस्म हो ॥८७॥ पिकाहूने शृण्वति भृङ्गहुङ्कृतैर्दशामुदञ्चत्करुणं वियोगिनाम् । अनास्थया सूनकरप्रसारिणीं ददर्श दूनः स्थलपद्मिनीं नलः ॥८८॥ पिकादिति । वने =उपवने श्रोतरि, पिकाद् वक्तुः सकाशात् , भृङ्गहुङ्कृतैः वियोगिनां दशाम् = अलिहुङ्कारकृतां दुःखावस्थामित्यर्थः । उदञ्चत्करुणं = विक- सद्बुद्धिविशेषम्, उद्यत् कृपं च यथा तथा शृण्वति सति, "करुणस्तु रसे वृक्षे कृपायां

४६ नैषधचरितम् । [ प्रथमः करुणा मता' इति विश्वः । अनास्थया = श्रोतुमनिच्छया, [ सूनकरप्रसारिणी ] सूनं प्रसूनमेव करं प्रसारयतीति प्रसारिणी, पुष्परूपहस्तविस्तारिणी, तथोक्तामनिष्टकथां करे वारयन्तीमिव स्थितामित्यर्थः । सूनकरेति प्रसारिणीमितिरूपकानुप्राणिता गम्यो- त्प्रेक्षेयम् । स्थलपद्मिनीं नलो दूनः = परितप्तः सन् । 'दूङः कर्त्तरि क्तः ।' 'ल्वादि- भ्यश्च' इति निष्ठानत्वं । ददर्श ॥८८॥ खिले हुए फूल युक्त करुण नामक पेड़ वाले ( वियोगियों के सन्ताप से उत्पन्न करुणा वाले ) उस उपवन में कोयलों की कूक से और भौंरों की हुँकार से विरही- जनों की कष्ट-गाथा सुनते हुए ( दमयन्ती-विरहजन्य सन्ताप से ) दुखी हो नल ने स्थलकमलिनी को देखा-जो ( वियोगियों की कथा सुनने से ) अपनी उदासीनता को मानों फूल रूपी हाथ पसार कर व्यक्त कर रही थी ॥८८॥ रसालसालः समदृश्यतामुना स्फुरद्विरेफारवरोषहुङ्कृतिः । समीरलोलैर्मुकुलैर्वियोगिने जनाय दित्सन्निव तर्जनाभियम् ॥८९॥ रसालेति । अमुना = नलेन, [ स्फुरद्विरेफारवरोषहुंकृतिः ] स्फुरन्तो द्विरेफास्तेषामारवो भ्रमरझङ्कार एव रोषणे या हुङ्कृतिर्हुङ्कारो यस्य सः । समीर- लोलै = वायुचलैर्मुकुलैरङ्गलिभिरिति भावः । वियोगिने जनाय तर्जनाभियं दित्सन् = दातुमिच्छन्निव स्थितः । ददातेः सन् प्रत्ययः । 'सनि मीमा' इत्यादिना इसादेशः । 'अत्र लोपोऽभ्यासस्य' इत्यभ्यासलोपः । 'सस्यार्द्धधातुके' इति सकारस्य तकारः । रसालसालः = चूतवृक्षः समदृश्यत = सम्यग्दृष्टः । द्विरेफेत्यादिरूपको- त्थापितेयं तर्जनाभयजननत्प्रेक्षेति सङ्करः ॥८६॥ नल ने आम का पेड़ देखा--जिसके ऊपर उड़-उड़कर भौंरे गुंजार कर रहे थे, मानो वह क्रोधपूर्वक हुँकार कर रहा हो । और वायु से हिलायी गयी कलियों से जो विरहियों को मानो फटकारने का भय दिखा रहा हो ॥८६॥ दिने दिने त्वं तनुरेधि रेऽधिकं पुनः पुनर्मूच्छ च मृत्युमृच्छ च । इतीव पान्थं शपतः पिकांन् द्विजान् सखेदमैक्षिष्ट स लोहितेक्षणान् ॥९०॥ दिने दिने इति । रे इति हीनसम्बोधने । त्वं दिने दिने अधिकं तनुः एधि = अधिकं कृशो भव । आस्तेर्लोट् सिप् । 'हुझल्भ्यो हेर्धि' इति धित्वम्, 'ध्वसोरे- दावभ्यासलोपश्च' इत्येत्वं । पुनः पुनः मूर्च्छ = मूर्च्छां लभस्व, मृत्युमृच्छ च इति पान्थं = नित्यपथिकं शपतः = शपमानानू इव स्थितानित्युत्प्रेक्षा । लोहितेक्षणान्

सर्गः १ ] जीवातु-मदयन्तिकासहितम् । ४७ Digitized by Sarayu Trust Foundation and eGangotri = रक्तदृष्टीन् । एकत्र स्वभावतोऽन्यत्र रोषाच्चेति द्रष्टव्यं, पिकान् = कोकिलान्, द्विजान् = पक्षिणो, ब्राह्मणांश्च ; स = नलः खेदमैक्षिष्ट स्वस्यापि उक्तशङ्क्येति भावः ॥ ६० ॥ उन्होंने लाल आँख वाली कोयल चिड़ियों को विषाद के साथ देखा-जो पथिकों (वियोगियों) को मानों यों शाप दे रही थीं कि अरे ! तुम दिन पर दिन दुबले होते जाओ, बार-बार मूर्च्छित होते रहो और मरते रहो ॥ ६० ॥ अळिस्रजा कुङ्मलमुच्चशेखरं निपीय चाम्पेयमधीरया दृशा । स धूमकेतुं विपदे वियोगिनामुदीतमातङ्कितवानशङ्कत ॥ ६१ ॥ अलिस्रजेति । अलिस्रजा = भ्रमरपङ्क्त्या, उच्चशेखरम् = उन्नतशिरो- भूषणं, अलिमलिनाङ्कमित्यर्थः । 'शिखास्वापीडशेखरौ'इत्यमरः । चाम्पेयं = चम्पक- विकारं, कुङ्मलं । 'अथ चाम्पेयः चम्पको हेमपुष्पकः'इत्यमरः । नन्वयुक्तमिदं, 'न षट्पदो गन्धफलीमजिघ्रत्'इत्यादौः अलीनां चम्पकस्पर्शाभावप्रसिद्धेरिति चेत् नैवं; किन्तु स्पृष्टेयं तावतैवास्पर्शोक्तिः क्वचित् केषाञ्चित् उक्तिपरिहारः । अथ वा चाम्पेयं = नागकेसरं । 'चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः'इत्यमरः । अधी- रया दृशा निपीय = विप्लवदृष्ट्या गाढं दृष्ट्वा आशङ्कितवान् किञ्चिदनिष्टमुत्प्रेक्षि- तवान् स = नलः । 'अनिष्टाभ्यागमोत्प्रेक्षां शङ्कामाचक्षते बुधाः' इति लक्षणात् । वियोगिनां विपदे उदीतम् = उत्थितं धूमकेतुम् अशङ्कत = अतर्कयत् इत्यु- त्प्रेक्षालङ्कारः ॥ ६१ ॥ भौरों की पंक्ति से उच्च शेखर वाली चम्पा की कली (अथवा नागकेसर के फूल) को अधीरदृष्टि से खूब गौर के साथ देख कर, नल ने आशंका की कि यह वियोगियों के विनाश के लिए उदय हुआ कोई धूमकेतु है ॥ ६१ ॥ गलत्पराग भ्रमद्भङ्गिभिः पतत् प्रसक्तभृङ्गावलि नागकेशरम् । स मारनाराचनिघर्षजस्खलज्ज्वलत्कणं शाणमिव व्यलोकयत् ॥ ६२ ॥ गलदिति । स = नलो गलत्परागं = निर्यद्रजस्कं भ्रमद्भङ्गिभिः = भ्रमण- प्रकारैरुपलक्षितं पतत् = भ्रंश्यत् प्रसक्तभृङ्गावलि = सक्तालिकुलं नागकेसरं = कुसुमविशेषं, [ मारनाराच-निघर्षण-स्खलज्ज्वलत्कणं ] मारनाराचनिघर्षणैः स्मरशरकर्षणैः, स्खलन्तः लुठन्तः ज्वलन्तश्च कणाः स्फुलिङ्गाः, यस्य तं । शाणं = निकषोत्पलम् इत्युत्प्रेक्षा । व्यलोकयत् । 'शाणस्तु निकषः कषः'इत्यमरः ॥ ६२ ॥

४८ नैषधचरितम् । [ प्रथमः Digitized by Sarayu Trust Foundation and eGangotri उन्होंने पराग निकलते हुए नागकेसर के फूल को देखा—जिस पर बैठी हुई भौरों की पंक्तियां रह-रह कर उड़जाती थीं। यह देख कर नल को ऐसा आभास हुआ मानों सान रखने का पत्थर हो और उस पर कामदेव के बाणों पर धार धरने से जलती हुई चिनगारियां छिटक रही हैं ॥ ६२ ॥ तदङ्गमुद्दिश्य सुगन्धि पातुकाः शिलीमुखालीः कुसुमाद्गुणस्पृशः । स्वचापदुर्निर्गतमार्गणाभ्रमात् स्मरः स्वनन्तीरवलोक्य लज्जितः ॥६३॥ तदङ्गमिति । सुगन्धि = शोभनगन्धं ‘गन्धस्य’इत्यादिना समासान्त इकारः, तदङ्गं = तस्य नलस्य अङ्गमुद्दिश्य = लक्ष्यीकृत्य । [ गुणस्पृशः ] गुणो गन्धादिः मौर्वी च, ‘गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु’इति वैजयन्ती । तत्स्पृशस्तद्युक्ताः । ‘स्पृशोऽनुदके’इति क्विन्, कुसुमात् आपादानात् पातुकाः = धावन्तीः । ‘लषपत’ इत्यादिना उकञ्प्रत्ययः । स्वनन्तीः = ध्वनन्तीः शिलीमुखालीः = अलिपङ्क्तीश्च अवलोक्य स्मरः । [ स्वचापदुर्निर्गतमार्गणाभ्रमात् ] स्वचापात् पौरुषाद्- दुर्निर्गताः विषमनिर्गताः, ये मार्गणा बाणास्तद्भ्रमाद्धेतोः लज्जितोऽभवत्ः, न्यून- मिति शेषः । दुर्निर्गतप्रवो ह्यधिकं स्वनन्तीति प्रसिद्धेः । अत्र स्वनच्छिलीमुखेषु दुनिं- र्गतमार्गणाभ्रमाद्भ्रान्तिमदलङ्कारः, स च शिलीमुखेति श्लेषानुप्राणितादुत्थापिता चेयं स्मरस्य लज्जितवोत्प्रेक्षेत्यनयोरङ्गाङ्गिभावेन सङ्करः ॥ ६३ ॥ गुण-( सुगन्धित द्रव्य, प्रत्यञ्चा ) ग्राही, शिलीमुखां ( भौरों, बाणों ) की पंक्तियां, नल के अङ्ग की ओर गुञ्जन ( शब्द ) करती हुईं, कुसुमों ( वृक्षस्थ- फूलों, कामदेव के पुष्पमय धनुष ) से ( उन्हें छोड़ कर ) चली आयीं—इसे देख कर, कामदेव को भ्रम हो गया कि अपने धनुष से छूटे हुए बाण लक्ष्यभ्रष्ट हो गये, अतः वह लज्जित हो गया ॥ ६३ ॥ मरुल्ललत्पल्लवकण्टकैः क्षतं समुच्चरच्चन्दनसारसौरभम् । स वारनारीकुचसञ्चितोपमं ददर्श माल्लूरफलं पचेलिमम् ॥६४॥ मरुदिति । [ मरुल्ललत्पल्लवकण्टकैः ] मरुता वायुना, ललत्पल्लवानां चलकिसलयानां, कण्टकैस्तीक्ष्णाग्रैरवयवैः क्षतं अन्यत्र विलसद्भिर्नखैः क्षतमिति गम्यते । [ समुच्चरच्चन्दनसारसौरभम् ] समुच्चरत् परितः प्रसर्पत्, चन्दना- सारस्येव सौरभं यस्य तत् । अन्यत्र तत् [ वारनारीकुचसञ्चितोपमं ] वारनारी- कुचेन वेश्यास्तनेन, सञ्चितोपमं सम्पादितसादृश्यमित्युपमालङ्कारः । ‘वारस्त्री गणिका

सर्गः १ ] जीवातु-मदयन्तिकासहितम् ४१ वेश्या'इत्यमरः। कुलङ्गनानखक्षतचिह्नोचितगद्दारविशेषणं । पचेलिम = स्वतः- पक्कं। 'कर्म कर्त्तरि केलिमच उपसंख्यानम्'इति पचेः केलिमच् प्रत्ययः। मालूरफलं =बिल्वफलं। 'बिल्वे शाण्डिल्यशैलूषौ मालूरः श्रीफलावपि'इत्यमरः। स = नलो ददर्श ॥ ६४ ॥ नलने--हवा से हिलायी गयी बेलपत्ती की नोंक से क्षत (काम-मरुत् से चञ्चल हुए नख-पल्लव से क्षत ) किया गया, चारो ओर चन्दन के समान उत्कृष्ट गन्ध फैलाता ( विलिप्त चन्दन की सुरभि युक्त )--वाराङ्गना के स्तन के तुल्य-पका ( बढ़ा ) हुआ बेल का फल देखा ॥ ६४ ॥ युवद्वयीचित्तनिमज्जनोचितप्रसूनशून्येत र गर्भ ग ह्वरम् । स्मरेषुधीकृत्य धिया भियान्धया स पाटलायाः स्तबकं प्रकम्पितः ॥६५॥ युवेति । [युवद्वयी-चित्त निमज्जनोचित-प्रसूनशून्येत र-गर्भ ग ह्वरं ] युवा च युवती च तयोर्यूनोर्द्वयी मिथुनं, तस्याश्चित्तयोः कर्मगोर्निमज्जने ण्यन्ताल्ल्युट् । उचितैः क्षमैः, प्रसूनैः पुष्पवाणैः, शून्येत रदशून्यं पूर्णं, गर्भ ग ह्वरं गर्भकुहरं यस्य तत्। पाटलायाः = पाटलवृक्षस्य स्त बकं=कुसुमगुच्छं, भियाऽन्धया=भयमूढ्या, धिया भयजन्यभ्रान्त्येत्यर्थः। स्मरेषुधीकृत्य = कामतूणीकृत्य, तथा विभ्रम्य इत्यर्थः । अत एव भयात् स प्रकम्पितः = चकम्पे । अत्र पाटलस्तबके मदनतूणीरभ्रमात् भ्रान्ति- मदलङ्कारः । 'कविसम्मतसादृश्याद्विषये विहितात्मनि । आरोप्यमाणानुभवो यत्र स भ्रान्तिमान् मतः' इति लक्षणात् ॥६५॥ काम-पीडा के भय के कारण, चकराई हुई बुद्धि से, पाटल के फूल के गुच्छे को-जिसका मध्यभाग युवक-युवतियों के हृदय में प्रवेश होने लायक पुष्परूपी काम-बाणों से परिपूर्ण था उसे-कामदेव का तरकस समझकर, नल काँप उठा॥६५॥ मुनिद्रुमः कोरकितः शितियुतिर्वनेऽमुनामन्यत सिंहिकासुतः । तमिस्रपक्षत्रटिकूटभक्षितं कलाकलापं किउ वैधबं वमन् ॥६६॥ मुनीति । अमुना=नलेन वने कोरकितः=सञ्जातकोरकः, शितियुति =पत्रेषु कृष्णच्छविः मुनिद्रुमः=अगस्त्यवृक्षः । [तमिस्रपक्षत्रुटिकूटभक्षितं ] तमिस्रपक्षे त्रुटिकूटेन क्षयव्याजेन, भक्षितम्, अभक्षितत्वे कुतः क्षय इति भावः । अत्र कूटशब्देन क्षयापह्नवेन भक्षणारोपादपह्रवभेदः । वैधवं=चन्द्रसम्बन्धि । 'विधुः सुधांशुः शुभ्रांशुः' इत्यमरः। कलाकलापं = कलासमूहं वमन्=उद्गिरन् सिंहिकासुतः=राहुः, अमन्यत ४

५० नैषधचरितम् । [ प्रथमः किल = खलु। अत्र कोरकौतशितद्युतित्वाभ्यां मुनिनु मस्येन्दु कलाकलापवमनविशिष्ट- राहुत्वोत्प्रेक्षा, सा चोक्तापह्नवोत्थापितेति सङ्करः ॥६६॥ नल ने उपवन में काले रंग की पत्ती वाले अगस्त्य वृक्ष को (कृष्णवर्ण दैत्य) राहु समझा । जिसमें (सफेद रंग की अर्द्धचन्द्राकार ) कलियाँ खिली हुई थीं-- जो ऐसा प्रतीत होता था कि कृष्णपक्ष में छल से धीरे-धीरे निगले हुए विधु के कलासमूह को मानों (राहु) उगल रहा है ॥६६॥ पुरो हठाक्षिप्ततुषारपाण्डरच्छदावृतेर्वीरुधि नद्धविभ्रमाः । मिलन्निमीलं विदधुर्विलोकिता नभस्वतस्तं कुसुमेषुकैलयः ॥९७॥ पुर इति । [पुरोहठाक्षिप्ततुषारपाण्डरच्छदावृतेः ] पुरोऽग्रे, हठात् झटित्याक्षिप्ता आकृष्टा, तुषारेण हिमेन, पाण्डराणां छदानां पत्राणां, तुषारवत् पाण्ड- रस्य च्छदस्याच्छादकस्य वस्त्रस्य च आवृत्तिरावरणं येन तस्य । नभस्वतः = वायोः, वीरुधि = लतायां । [ नद्धविभ्रमाः ] नद्धाः अनुबद्धाः, विभ्रमा भ्रमणानि विलासाश्च यासां ताः । [ कुसुमेषुकैलयः ] कुसुमेषु विषये केलयः क्रीडाः, कुसुमेषु- केलयः कामक्रीडाश्च विलोकिताः सत्यस्तं = नृपं नलं [ मिलन्निमीलं ] मिल- न्निमीलो मिलनं यस्य तं विदधुः = निमीलिताक्षं चक्रुरित्यर्थः । विरहिणामुद्दीपकदर्शनस्य दुःसहदुःखहेतुत्वात् ; अन्यत्र 'नेक्षेताकं न नग्नां स्त्रीं न च संसक्तमैथुनाम्'इति निषेधादिति भावः । अत्र प्रस्तुत नभस्वद्विशेषणसामर्थ्यादप्रस्तुतकामुकविरहप्रतीतेः समासोक्तिरलङ्कारः ॥६७॥ पहले बर्फ के सफेद रंग के पत्ते रूप आवरण (साड़ी) को हठपूर्वक (बलात् ) हटाकर नभस्वान् (वायु, नवयुवक ) ने लता ( लतारूपी कृशाङ्गी नव- युवती) के भ्रमण ( विभ्रमविलास = हाव भाव नखरे ) पर अनुरक्त हो, कुसुम- क्रीडा (कामकेलि ) आरम्भ की-- यह देख कर, नल ने अपने नेत्र मूँद लिये ॥ गता यदुत्सङ्गतले विशालतां द्रुमाः शिरोभिः फलगौरवेण ताम् । कथं न धात्रीमतिमात्रनामितैः स वन्दमानानाभिनन्दति स्म तान् ॥९८॥ गता इति । द्रुमाः, [ यदुत्सङ्गतले ] यस्या धात्र्या उत्सङ्गतले, उपरि देशे अङ्कदेशे च । विशालतां =विवृद्धिं गताः तां धात्रीं = भुवञ्च उपमातरं वा । 'धात्री जनन्यामलके वसुमत्युपमातृषु' इति विश्वः । 'धा कर्मणि ष्ट्रन्' इति दधातेष्ट्रन् प्रत्ययः । फलगौरवेण =फलभारेण, अतिमात्रं नामितैः = प्रह्वी-

सर्गः १ ] जीवातु-मदयन्तिकासहितम् ५१ कृतैः, नमेरिमित्तविकल्पाद्भूतस्वाभावः । शिरोभिः = अग्रैः, उत्तमाङ्गैश्च, वन्दमानान् = स्पृशतोऽभिवादयमानांश्च, तान् = प्रकृतान् द्रुमान्, अत एव यच्छब्दानपेक्षा स = नलः कथं नाभिनन्दति स्म = अभिननन्देवेत्यर्थः । वृक्षाणां क्षेत्रानुरूपफलस्य सम्पत्ति, अपत्यानां च मातृभक्तिञ्च को नाम नाभिनन्दतीति भावः । अत्रापि विशे- पणसामर्थ्यात् पुत्रप्रतीतेः समासोक्तिरलङ्कारः ॥९८॥ वृद्ध लोग जिसके उत्सङ्गतल ( ऊपर, गोद ) में विशालता ( वृद्धि ) को प्राप्त होते हैं, उस धात्री ( धरित्री, धाई ) की, फल-गौरव ( फलों की समृद्धि, सुकर्म ) के कारण, बहुत नीचे झुके हुए अगले हिस्सों ( शिरों ) से, वन्दना करते हुए उन वृक्षों ( कृतज्ञ पुत्रों ) का, नल क्यों न अभिनन्दन करते ? ॥९८॥ नृपाय तस्मै हिमितं वनानिलैः सुधाकृतं पुष्परसैरहर्महः । विनिर्मितं केतकरेणुभिः सितं वियोगिनेऽधत्त न कौमुदी मुदः ॥९९॥ अत्रातपस्य चन्द्रिकात्वनिरूपणाय तद्धर्मान् सम्पादयति-नृपायेति । वना- निलैः=उद्यानवातैः, हिमं शीतलं कृतं हिमितं । 'तत्करोति'इतिण्यन्तात् कर्मणि क्तः। पुष्परसैः = वनवातानीतैः मकरन्दैः, सुधीकृतम् = अमृतीकृतं तथा केतकरेणुभिः सितं विनिर्मित=शुभ्रीकृतं । अह्नो महस्तेजः अहर्महः=आतपः । 'रोः सुपि' इति रेफादेशः । तदेव कौमुदी इति व्यस्तरूपकं । वियोगिने तस्मै नृपाय मुदः = प्रमोदान् नाधत्त = न कृतवती । प्रत्युतोद्दीपकैवाभूदिति भावः ॥६६॥ उद्यान वायु से ठंडी, पुष्परस ( मकरन्द ) से सुधामय, केतकी के फूलों के पराग से सफेद बनी हुई-दिन की प्रभा तथा रात्रि की चाँदनी-उन वियोगी राजा नल को आनन्ददायक न हुई ॥६६॥ वियोगभाजोऽपि नृपस्य पश्यता तदेव साक्षादमृतांशुमाननम् । पिकेन रोषारुणचक्षुषा मुहुः कुहूरुताहूयत चन्द्रवैरिणी ॥१००॥ वियोगेति । वियोगभाजोऽपि = वियोगिनोऽपि नृपस्य तदाननमेव साक्षादमृतांशुं = प्रत्यक्षचन्द्रं पश्यता अत एव [रोषारुणचक्षुषा] रोषादद्यापि चन्द्रतां न जहातीति क्रोधादिवारुणचक्षुषा पिकेन चन्द्रवैरिणी [कुहूरुता] कुहूः= निजालाप एव कुहूर्नष्टचन्द्रममवास्येति श्लिष्टरूपकं । 'कुहूः स्यात् कोकिलालाप- नष्टेन्दुकलयोरपि'इति विश्वः । मुहुराहूयत = आहूता, किमित्युत्प्रेक्षा पूर्वोक्तरूपकसा-

५२ नैषधचरितम् । [ प्रथमः पेक्षेति सङ्करः। अस्य चन्द्रस्ययमव कुहूराह्वानाया स्यात् , तत्कान्तिराहित्यसम्भवा- दिति भावः ॥॥१००॥ साक्षात् चन्द्रमा के समान, वियोगी राजा नल के ( अम्लान ) मुख को देख- कर, लाल-लाल आँखें निकाल कर कोयल ने—बार-बार ‘कुहू’ ‘कुहू’ की आवाज करके चन्द्रमा की वैरिन ‘कुहू’ (अमावस्या) को बुलाया ॥१००॥ अशोकमर्थान्वितनामताशया गतान् शरण्यं गृहशोचिनोऽध्वगान्। अमन्यतावन्तमिवैष पल्लवैः प्रतीष्टकामज्वलदस्त्रजालकम् ॥१०१॥ अशोकमिति । एष = नलः, पल्लवैः [ प्रतीष्टकामज्वलदस्त्रजालकं ] प्रतीष्टानि प्रतिगृहीतानि, संच्छन्नानि, कामस्य ज्वलदस्त्राणि तद्रूपकाणि जालकानि क्षारकानि बालमुकुलगुच्छा येन तं; पल्लवसंच्छन्नकुसुमरूपकामास्त्रमित्यर्थः । अन्यथा, तद्दर्शनादेव ते म्रियेरन्निति भावः । अशोकम्, अत एव [अर्थान्वितनामताशया] अर्थान्वितनामता नास्ति शोकोऽस्मिन्नित्यन्वर्थसंज्ञा, तत्कृतया आशया; अस्मानप्य- शोकान् करिष्यतीत्यभिलाषेण । [शरण्यं] शरणे रक्षणे साधुं समर्थं शरण्यं, मत्वेति शेषः । ‘शरणं रक्षणे गृहे’ इति विश्वः । ‘तत्र साधु’ इति यत्प्रत्ययः । आगतान् = शरणागतानित्यर्थः । गृहान् दारान् शोचन्तीति गृहशोचिनः = गृहानुद्दिश्य शोचन्त इत्यर्थः । ‘गृहः पत्न्यां गृहे स्मृतः’ इति विश्वः । अध्वगान् = प्रोषितान् अवन्त- मिव = शरणागतरक्षणे महाफलस्मरणादन्यथा महादोषस्मरणाच्च रक्षन्तमिवेत्यर्थः । अमन्यत = ज्ञातवान् । अस्त्रभीरूणां तद्गोपनमेव रक्षणोपाय इति भावः ॥१०१॥ नल ने—पल्लवों ( कर-पल्लवों ) के रूप में, कामदेव के जलते हुए ( प्रदीप्त कुसुम ) अस्त्र-समूह ग्रहण करने वाले, अशोक पेड़ को—उसका नाम सार्थक होने की (अर्थात् अशोक के पास जाने से, हम वियोग के शोक से रहित हो जायंगे इस) आशा से शरण में आए हुए, घरनी की चिन्ता करने वाले बटोहियों का—रक्षक समझा ॥१०१॥ विलासवापीतटवीचिवादनात् पिकालीगीतेः शिखिलास्यलाघवात् । वनेऽपि तौर्यत्रिकमारराध तं क भोगमाप्नोति न भाग्यभाग्जनः ॥१०२॥ विलासेति । [ विलासवापी-तट-वीचि-वादनात् ] विलासवापी विहार- दीर्घिका, तस्यास्तटे वीचीनां वादनात्, [पिकालीगीतेः] पिकानामलीनाञ्च गीतेर्गा- नात्; [शिखिलास्यलाघवात्] शिखिनां मयूराणां, लास्यलाघवात् नृत्यनैपुण्यात्

सर्गः १ ] जीवातु-मदयन्तिकासहितम् ५३ च। वनेऽपि तं = नलं, तौर्यत्रिकं = नृत्यगीतवाद्यत्रयं, कर्तृ, आरराध = आरा- धयामास। तथा-हि भाग्यभाक् = भाग्यवान् जनः, कं [ भोगं ] भुज्यत इति भोगः सुखं तं, नाप्रोति = सर्वत्रैवाप्नोतीत्यर्थः । सामान्येन विशेषसमर्थनरूपोऽर्थान्त- रन्यासः ॥ १०२ ॥ विहार क्रीडा की बावलियों ने अपने तीर की लहरों के शब्द (वादन) से, कोयलों और भ्रमरियों ने अपनी गीत (गायन) सुनाकर, तथा मोरों ने अपने लास्य (नृत्य) के सौन्दर्य से, उस वन में नाचने-गाने-बजाने वाले नल को आनन्द दिया। ठीक है, भाग्यशाली जन कहाँ नहीं सुख पाते ? ॥१०२॥ तदर्थमध्याप्य जनेन तद्वने शुका विमुक्ताः पटवस्तमस्तुवन् । स्वरामृतेनोपजगुश्च शारिकास्तथैव तत्पौरुषगायनीकृताः ॥१०३॥ तदर्थमिति । जनेन=सेवकजनेन, तदर्थं = नलप्रीत्यर्थम्, अध्याप्य = स्तुतिं पाठयित्वा [ तद्वनं ] तस्मिन् वने, विमुक्ताः=विसृष्टाः पटवः = स्फुटगिरः शुकास्तं =नलम्, अस्तुवन् तथैव=शुकवदेव; तदर्थमध्याप्य मुक्ताः । [ तत्पौरुषगायनीकृताः ] तत्पौरुषस्य नलपराक्रमस्य, गायिन्यो गायकाः कृता गायनीकृताः, शारिकाः = शुक- वध्वः स्वरामृतेन = मधुरस्वरेणेत्यर्थः, उपजगुश्च ॥१०३॥ जनता द्वारा नल की स्तुति के लिए सिखा-पढ़ाकर, उनके पराक्रम के गायन में निपुण, उस वन में (पिंजड़े से) छोड़े गये सुग्गे उनकी स्तुति करते थे । उसी प्रकार (जनता द्वारा नल की स्तुति के लिए०) छोड़ी गयी मैना अपने अमृत (मधुर) स्वर से उनकी प्रशंसा गान करती थीं ॥१०३॥ इतीष्टगन्धाढ्यमटन्नसौ वनं पिकोपगीतोऽपि शुकस्तुतोऽपि च । अविन्दतामोदभरं बहिश्चरं विदर्भसुभ्रूविरहेण नान्तरम् ॥१०४॥ इतीति । इति=इत्थम् इष्टगन्धाढ्यं = इष्टसौगन्धसम्पन्नं वनमटन् । 'देश- कालाध्वगन्तव्याः कर्म्मसंज्ञा ह्यकर्म्मणाम्' इति वनस्य देशत्वात् कर्म्मत्वं । असौ = नलः [पिकोपगीतः] पिकैः कोकिलैरुपगीतोऽपि, शुकैः स्तुतोऽपि च, परं केवलं । 'परं स्यादुत्तमानाप्तवैरिदूतो केवले' इति विश्वः । बहिरामोदभरं = सौरभ्यातिरेक- मेव अविन्दत विदर्भसुभ्रुविरहेण हेतुना । आन्तरम्=आमोदभरम्, आनन्दाति- रेकरूपं नाविन्दत = न लब्धवान्, प्रत्युत दुःखमेवान्वभूदिति भावः । 'आमोदो गन्धहर्षयोः' इति विश्वः ॥१०४॥

५४ नैषधचरितम् । [ प्रथमः इस तरह अभीष्ट सुगन्ध से व्याप्त उपवन में, विचरण करते हुए नल ने— कोयलों से गाये जाने तथा सुग्गों से स्तुति किये जाने पर—( उपवनसौन्दर्य, फूल आदि देख-सूँघकर ) वाह्यरूप से तो प्रमोद प्राप्त किया; पर विदर्भतनया दमयन्ती के विरह के कारण वे आभ्यन्तरिक ( मानसिक ) आनन्द न पा सके ॥१०४॥ करेण मीनं निजकेतनं दधत् द्रुमालवालाम्बुनिवेशशङ्कया । व्यतर्कि सर्वर्तुघने वने मधुं स मित्रमत्रानुसरन्निव स्मरः ॥१०५॥ करेणेति । स = नलः, निजकेतनं = निजलाञ्छनं मीनं [द्रुमालवालाम्बु- निवेशशङ्कया] द्रुमालवालाम्बुषु निवेशशङ्कया प्रवेशभिया, करेण दधत् = तादृक्- शुभरेखाव्याजेन दधान इत्यर्थः । सर्वर्तुघने = सर्वर्तुसङ्कुले अत्र = अस्मिन् वने मित्रं = सखायं मधु = वसन्तम् अनुसरन् = अन्विष्यन्, स्मर इव व्यतर्कि = तर्कितः । इत्युत्प्रेक्षा ॥१०५॥ पेड़ों के थाले के जल में मछली न चली जाय—इस शङ्का से अपने चिह्न- मत्स्य को हाथ में धारण करने वाले नल को लोगों ने, मत्स्यचिह्नधारी कामदेव समझा— जो सब ऋतुओं से परिपूर्ण उपवन में मानो अपने मित्र वसन्त को ढूँढ़ रहा हो ॥ लताबलालास्यकलागुरुस्तरुप्रसूनगन्धोत्करपश्यतोहरः । असेवतामुं मधुगन्धवारिणि प्रणीतलीलाप्लवनो वनानिलः ॥१०६॥ लतेति । [लताऽबला-लास्य-कला-गुरुः] लता एवाऽबलास्तासां लास्यकलासु मधुरनृत्तविद्यासु, गुरुरुपदेष्टेति मान्योक्तिः । [तरुप्रसून-गन्धोत्कर-पश्यतोहरः] तरुप्रसूनगन्धोत्कराणां द्रुमकुसुमसौरभसम्पदां, पश्यतो हरः पश्यन्तमनादृत्य हरः, प्रसह्मापहर्तेत्यर्थः । 'पश्यतो यो हरत्यर्थं स चौरः पश्यतोहरः' इति हलायुधः, पचा- द्यच् । 'षष्ठी चानादरे' इति षष्ठी । 'वाग्दिक्पश्यन्द्भ्यो युक्तिदण्डहरेषु' इति वक्त- व्यादलुक् । एतेन सौरभ्यमुक्तं । [मधु-गन्धवारिणि] मधु मकरन्द एव, गन्धवारि गन्धोदकं, तत्र प्रणीतलीलाप्लवनः = कृतलीलावगाहनः, इति शैत्योक्तिः । ईदृग्- वनानिलोऽमुं=नलम्, असेवत । गुणवान् सेवकः सेव्यप्रियो भवतीति भावः॥१०६॥ लतारूपी अबलाओं को नृत्य-कला सिखाने वाले, पेड़ों के फूल के सुगन्धि-समूह को नज़रों के सामने चुराने वाले, फूलों के रस (मकरन्द) के गन्धयुक्त जलाशय में लीलापूर्वक विहार करने वाले-उपवन-पवन ने, नल की सेवाशुश्रूषा की ॥१०६॥

सर्गः १ ] जीवातु-मदयन्तिकासहितम् ५५ अथ स्वमादाय भयेन मन्थनाच्चिरन्तरत्नाधिकमुच्चितं चिरात् । निलीय तस्मिन्नवसन्नपां निधिर्वने तडागे ददृशेऽवनीभुजा ॥१०७॥ अथेति । अथ = वनालोकनानन्तरं मन्थनाद्भयेन = धनार्थे पुनर्मथिष्यतीति भयादित्यर्थः । चिरादुच्चितं = सञ्चितं चिरन्तरत्नाधिकं चिरन्तं चिरन्तनं । 'चिर- परुत्परुत्त्वादिभ्यस्त्रन् वक्तव्यः' इति त्रन्प्रत्ययः । तच्च तद्रत्नाधिकं श्रेष्ठवस्तु भूयिष्ठं चेति चिरन्तरत्नाधिकं । 'रत्नं स्वजातौ श्रेष्ठेऽपि' इत्यमरः । स्वं = धनमादाय तस्मिन् वने निलीय = अन्तर्धाय निवसन् वर्त्तमानोऽपांनिधिरिव इत्युत्प्रेक्षा । तेन नलेन तडागः = सरोविशेषोऽवनीभुजा = राज्ञा ददृशे = दृष्टः ॥१०७॥ इसके बाद नरपति नल ने तालाब देखा—जो ऐसा प्रतीत होता था मानों चिरकाल से सञ्चित किए हुए प्राचीन (ऐरावत आदि) रत्नों से युक्त अपनी विशाल सम्पत्ति को (देवताओं द्वारा, लुटेरे शासकों द्वारा ) मन्थन के भय से अपने भीतर छिपाए हुए, जलनिधि ( सागर ) ही उस उपवन में छिपकर निवास करता हो ॥ पयोनिलीनाभ्रमुकावलीरदाननन्तोरगपुच्छसच्छवीन । जलाद्धरुद्धस्य तटान्तभूमिदो मृणालजालस्य निभान्बभार यः॥१०८॥ तदुक्तं धनमादायेति तदेवात्र सम्पादयति नवभिः श्लोकैः-पय इत्यादिभिः । यः=तडागः, जलेनाद्धरुद्धस्य [जलाद्धरुद्धस्य] अर्द्धछन्नस्य, तटान्तभूमिदः = तटप्रान्तनिर्गतस्येत्यर्थः । मृणालजालस्य = बिसवृन्दस्य निभाद् = व्याजाद् इत्यपह्रवालङ्कारः । 'निभो व्याजसदृक्षयोः' इति विश्वः । [ अनन्तोरगपुच्छ- सच्छवीन् ] अनन्तोरगस्य शेषाहेः पुच्छेन सच्छवीन्, तद्वद्धवलानित्यर्थः । [ पयोनिलीनाऽभ्रमुकामुकाऽवली-रदान् ] पयोनिलीनानाम्, अभ्रमुकामुकाव- लीनाम्, ऐरावतश्रेणीनां रदान् दन्तान् । बभार । तत्रैक ऐरावतः, अत्र त्वसंख्या इति व्यतिरेकः । अभ्रमुकामुका इति द्वितीयासमासो मधुपिपासुवत् । 'न लोक' इत्यादिना षष्ठीप्रतिषेधात् । 'लषपते'इत्यादिना कमेरुकञ्प्रत्ययः ॥१०८॥ वह तालाब ( आधे जल के भीतर और आधे जल के ऊपर, इस प्रकार ) आधे ढँके हुए, किनारे की जगह को फोड़कर निकले हुए ( तीर समीप स्थल को तोड़नेवाले ), कमल-नाल के बहाने-मानों शेषनाग की पूँछ के समान छविवाले, जल में डूबे हुए अभ्रमु हथिनियों के कामुक पतियों ( अर्थात् ऐरावत हाथियों ) के झुण्ड के दाँतों को--धारण करता था ॥१०८॥

५६ नैषधचरितम् । [ प्रथमः तटान्तविश्रान्ततुरङ्गमच्छटा-स्फुटानुविम्बोदयचुम्बनेन यः । बभौ चलद्वीचिकाशान्तशातनैः सहस्रमुच्चैःश्रवसामिव श्रयन् ॥१०९॥ तटान्तेति । यः = तडागः [ तटान्तविश्रान्ततुरङ्गमच्छटास्फुटानुबिम्बो- दयचुम्बनेन ] तटान्ते तीरप्रान्ते, विश्रान्ता या तुरङ्गमच्छटा नलानीताश्वश्रेणी, तस्याः स्फुटानुविम्बोदयचुम्बनेन प्रकटप्रतिबिम्बाविर्भावप्रीत्या निमित्तेन च, एकैक- शस्तासां [ वीचिकाशान्तशातनैः ] वीचीनामन्तःशातनैः उम्रताडनैः । 'अश्वा- देस्ताडनी कशा' इत्यमरः । चलद् = उछलद् उच्चैःश्रवसां सहस्रं श्रयन् = प्राप्नु- वन्निव बभौ । इत्युत्प्रेक्षा व्यतिरेकश्च पूर्ववत् । एतेन नलाश्वानामुच्चैःश्रवःसाम्यं गम्यत इत्यलङ्कारेण वस्तुध्वनिः ॥१०६॥ किनारे पर विश्राम करनेवाले नल के घोड़ों की झुण्ड के स्पष्ट प्रतिबिम्ब के चुम्बन के बहाने, मानों लहररूपी चाबुक की छोर से ताड़ना होने पर, चञ्चल होते हुए हजारों उच्चैःश्रवा को धारण कर रहा हो-इस प्रकार वह तालाब सुशोभित हो रहा था ॥१०६॥ सिताम्बुजानां निवहस्य यश्छलाद्भूभावलिश्यामलितोदरश्रियाम् । तमःसमच्छायकलङ्कसङ्कुलं कुलं सुधांशोर्बहुलं वहन् बहु ॥११०॥ सितेति । यः = तडागः [ अलिश्यामलितोदरश्रियाम् ] अलिभिः श्याम- लितोदरश्रिया श्यामीकृतमध्यशोभानां, सिताम्बुजानां = पुण्डरीकाणां निवहस्य च्छलात् [ तमःसमच्छायकलङ्कसङ्कुलं ] तमःसमच्छायः तिमिरवर्णः यः कलङ्कः तेन सङ्कुलं बहुलं सम्पूर्ण बहु = अनेकं सुधांशोः = चन्द्रस्य, कुलं = वंशं, वहन् सन् बभौ । अत्र च्छलशब्देन पुण्डरीकेषु विषयापह्नवेन चन्द्रत्वाभेदापह्नवभेदः, व्यतिरेकस्तु पूर्ववत् ॥११०॥ जो तालाब भौरों के कारण जिनके मध्यभाग काले दिखाई पड़ते थे-ऐसे खिले हुए (चन्द्रमा के समान गोल आकारवाले) सफेद कमलों के समूह के बहाने मानों अन्धकारतुल्य (कृष्णवर्ण) कान्ति के समान कलङ्क (मृगलाञ्छन) से व्याप्त, असंख्य चन्द्रमा के समूह को धारणकर रहा हो--ऐसा सुशोभित हो रहा था ॥११०॥ रथाङ्गभाजा कमलानुषङ्गिणा शिलामुखस्तोमसखेन शार्ङ्गिणा । सरोजिनीस्तम्बकदम्बकैतवान्मृणालशेषैरिव संव्यधायि यः ॥१११॥ रथाङ्गेति । यः = तडागः [ रथाङ्गभाजा ] रथाङ्गं चक्रवाकः, चक्रायुधश्च ।

सर्गः १ ] जीवातु-मदयन्तिकासहितम् ५७ यद्यपि चक्रवाके रथाङ्गनामेति च प्रयोगो रूढः, तथापि प्रायेणास्य चक्रशब्दपर्यायत्व- प्रयोगदर्शनात् पदस्याप्युभयत्र प्रयोगं मन्यते कविः । तद्भाजा । भजो ण्विः, [ कमलानुषङ्गिणा ] कमलैः कमलया च, अनुषङ्गिणा संसर्गवता, शिलीमुख- स्तोमसखेन = अलिकुलसहचरेण; अन्यत्र सखिशब्दः सादृश्यवचनः, तत्सवर्ण- नेत्यर्थः । [ मृणालशेषादिशिगुवा ] मृणालं शेषादिरिवेत्युपमितसमासः । तद्रुवा तदाकारेण; अन्यत्र मृणालमिव शेषादिः तद्रुवा तदाधारेण, शार्ङ्गिणा = विष्णुना [ सरोजिनी-स्तम्बकदम्बकैतवात् ] सरोजिनीनां स्तम्बा गुल्माः । 'अप्रकाण्डे स्तम्बगुल्मम्'इत्यमरः । तेषां कदम्बस्य कैतवान्मिषात्, अन्वयायि = अनुयातो- ऽनुसृतोऽधिष्ठित इति यावत् । अत्रापि कैतवशब्देन स्तम्बत्वपमहुत्य शार्ङ्गित्वायो- पादपह्रवभेदः ॥ १११ ॥ जिस प्रकार शाङ्गधनुषधारी सुदर्शनचक्रधारी, कमला (लक्ष्मी) के साथ रहनेवाले, भौरों की तरह कृष्णवर्णवाले विष्णुभगवान् मृणाल के सदृश शेषनाग- शय्या पर शयन करते हैं उसी प्रकार वह तालाब भी था क्योंकि उसमें चकवे, कमल और भौंरें थे । इस प्रकार कमलिनी की झाड़ियों के समूह के बहाने, वह तालाब मृणालरूप शेषनाग का उत्पत्तिस्थल था ॥१११॥ तरङ्गिणीरङ्कजुषः स्ववल्लभास्तरङ्गलेखा बिभराम्वभूव यः । दरोद्गतैः कोकनदौघकोरकैर्धृतप्रवालाङ्कुरसञ्चयश्च यः ॥११२॥ तरङ्गिणीरिति । यः = तडागोऽङ्कजुषः = अन्तिकभाजः, उत्सङ्गसङ्गिन्यश्च वा । तरङ्गलेखाः = तरङ्गराजिरेव स्ववल्लभाः = तरङ्गिणीरिति व्यस्तरूपकं बिभराम्वभूव = बभार । 'भीह्रीभृहुवां श्लुवच्च'इति भृञो विकल्पादाम् प्रत्ययः । किञ्च यः = तडागो दरोद्गतैः = ईषद्बुद्धैः कोकनदौघकोरकैः = रक्तोत्पलखण्ड- कलिकाभिः, धृतप्रवालाङ्कुरसञ्चयश्च = धृतविद्रुमाङ्कुरनिकरश्चेति । अत्रापि कोक- नद-कोरकाणां विद्रुमत्वे रूपणाद्रूपकालङ्कारः ॥११२॥ वह तालाब अपनी गोद में अठखेली करती हुई तरंग रूपी कामिनी से युक्त होकर और अधखिली लालकमलों की कलियों से व्याप्त होकर, ऐसा सुशोभित हो रहा था—जैसे अपने उत्संग में शयन करनेवाली प्रियतमा नदियों से युक्त हो और मूँगे के अङ्कुर समूह को धारण कर, समुद्र हो ॥११२॥ महीयसः पङ्कजमण्डलस्य यशश्छलेन गौरस्य च मेचकस्य च ।

५८ नैषधचरितम् । [ प्रथमः नलेन मेने सलिले निलीनयोस्त्विषं विमुञ्चन् विधुकालकूटयोः ॥११३॥ महीयस इति । यः = तडागः महीयसः = महत्तरस्य, गौरस्य च, मेच- कस्य च पङ्कजमण्डलस्य = सितासितसरोजयोश्छलेन सलिले निलीनयोः विधु-कालकूटयोः, सितासितयोरिति भावः । त्विषं विमुञ्चन्=विसृजन्निव नलेन मेने । अत्रच्छलेन विमुञ्चन्निवेति सापह्नवोत्प्रेक्षा ॥११३॥ वह तालाब (रूप सागर) बहुत से सफेद तथा नीले कमल के बहाने, जल में विलीन चन्द्रमा तथा काल-कूट विष की (श्वेत तथा कृष्ण) द्युति को, जल के ऊपर उछाल रहा है—ऐसा नल ने अनुमान किया ॥११३॥ चलीकृता यत्र तरङ्गरिङ्गणैरबालशैवाललतापरम्पराः । ध्रुवं दधुर्बाडवहव्यवाडव-स्थितिप्ररोहत्तमभूमधूमताम् ॥११४॥ चलीकृता इति । यत्र = यस्मिन् तडागे, तरङ्गरिङ्गणैः = तरङ्गकम्पनैः चलीकृताः चञ्चलीकृताः [अबाल-शैवाललता-परम्पराः] अबालानां कठोराणां, शैवाललतानां परम्पराः पंक्तयः [ वाडव-हव्यवाडवस्थितिप्ररोहत्तम-भूम- धूमतां ] हव्यं वहतीति हव्यवाडग्निः । 'वहश्च' इति ण्विप्रत्ययः । तस्य छन्दोमात्र- विषयत्वाद् अनादरेण भाषायां प्रयोगः । वाडवहव्यवाहो वाडवाग्नेरेव स्थित्यान्तर- वस्थानेन, प्ररोहत्तमो बहिः प्रादुर्भवत्तमो भूमा येषां ते च ते धूमाश्च तेषां भावस्तत्ता दधुः ; बहिरुत्थितधूमपटलवद्बभुरित्यर्थः । ध्रुवम् इत्युत्प्रेक्षायाम् ॥११४॥ उस तालाब (रूप सागर) में लहरों के कम्पन से चलायमान किये गये, कठोर सेवार-लताओं के समूह—ऐसे प्रतीत होते थे मानो वडवानल के निवास से, खूब धूम-बाहुल्य उठ रहा हो ॥११४॥ प्रकाममादित्यमवाप्य कण्टकैः करम्बितामोदभरं विवृण्वती । धृतस्फुटश्रीगृहविग्रहा दिवा सरोजिनी यत्रभवाप्सरायिता ॥११५॥ प्रकाममिति । आदित्यं = सूर्यम् । अवाप्य प्रकामं कण्टकैः = नालगतैः तीक्ष्णाग्रैरवयवैः, करम्बिता = दन्तुरिता ; अन्यत्राऽऽदित्यम् अदितिपुत्रमिन्द्रम् अवाप्य कण्टकैः पुलकैः करम्बिता । अत एव आमोदभरं = परिमलसम्पदम्, आनन्दसम्पदं च, विवृण्वती = प्रकटयन्ती दिवा = दिवसे [ धृत-स्फुटश्रीगृह- विग्रहा ] धृतानि स्फुटश्रीगृहाणि पद्मानि यया सा, विग्रहः स्वरूपं यस्याः सा ; अन्यत्र दिवा स्वर्गेण स्फुटश्रीगृहमुज्ज्वलशोभास्पदं, विग्रहो देहो यस्याः सा ; स्वर्गलोक-

सर्गः १ जीवातु-मद्यन्तिकासहितम् ५९ वासिनीत्यर्थः । [ यत्प्रभवा ] यस्तडागः प्रभवः कारणं यस्याः सा, तज्जन्या । सरोजिनी = पद्मिनी अप्सरायिता = अप्सर इवाचरिता । उपमानात् 'कर्त्तुः क्यङ् सलोपश्च'इति कर्त्तरि कः । ओजसोऽप्सरसोरित्यप्सरसः सकारलोपः, श्लिष्ट- विशेषणेयमुपमा ॥११५॥ आदित्य ( सूर्य, अदितिपुत्र इन्द्र ) को पाकर, खूब कण्टकों ( कमल नालगत तीक्ष्णाग्र, पुलकावली ) से करम्बित ( सुशोभित, रोमाञ्चित ) हो, आमोद-भर (परिमल सम्पत्, आनन्दसम्पत् ) को प्रकट करती हुई, दिवस ( दिन, स्वर्ग ) में स्फुट श्रीगृह ( विकसित कमला-लक्ष्मी-निवास ) शरीरवाली हो, उस तालाब (रूपी सागर) में उत्पन्न हुई कमलिनी-अप्सरा के समान मालूम हुई ॥११५॥ यदम्बुपूरप्रतिबिम्बितायतिर्मरुत्तरङ्गैस्तरळस्तटद्रुमः निमज्य मैनाकमहीभृतः सतस्ततान पक्ष न् धुवतः सपक्षताम् ॥११६॥ यदि । [ यदम्बुपूर प्रतिबिम्बितायातः ] यस्य तडागस्याम्बुपूरे, प्रति- बिम्बितायतिः प्रतिफलितायामः, मरुत्तरङ्गैः = वातवीजनैस्तरळः=चञ्चलः तटद्रुमः निमज्य सतः = वर्त्तमानस्य, पक्षान् धुवतः = कम्पयतो मैनाकमहीभृतः=तदा- ख्यस्य पर्वतस्य, सपक्षतां = साम्यं, पक्षवत्त्वाञ्च ततान इत्युपमा ॥११६॥ जिस ( तालाब रूपी सागर ) की जलराशि में प्रतिबिम्बित तीर पर का लम्बा पेड़-पवन के झकोरों से चलायमान की गयी लहरों से चञ्चल हो-ऐसा मालूम पड़ता था, मानों भीतर घुस कर, अपने पंखों को कँपाता हुआ मैनाक- पर्वत हो ॥११६॥ पयोधिलक्ष्मीमुषि केलिपल्वले रिरंसु हंसोकलनादसादरम् । स तत्र चित्रं विचरन्तमन्तिके हिरण्मयं हंसमबोधि नैषधः ॥११७॥ पयोधीति । अथ स नैषधः = निषधानां राजा नलः । जनपदशब्दात् क्षत्रि- यादञ्प्रत्यन् । पयोधिलक्ष्मीमुषि = तत्सदृश इत्यर्थः । तत्र केलिपल्वले = क्रीडा- सरसि, [ रिरंसु-हंसी-कलनाद-सादरम् ] रिरंसूनां रन्तुमिच्छूनां, हंसीनां कल- नादेषु मधुरस्वरेषु सादरं सस्पृहं तत्रान्तिके = तत्समीपे विचरन्तं चित्रम् = अद्भुतं, हिरण्मयं = सुवर्णमयं । दाण्डिनायनादिना निपातनात् साधुः । हंसम्, अबोधि = ददर्शेत्यर्थः । 'दीपजन'इत्यादिना कर्त्तरि चिण् ॥११७॥ निषधाधिपति नल ने-समुद्र की शोभा को मात करनेवाले, क्रीड़ा-सरोवर के-

६० नैषधचरितम् । [ प्रथम Digitized by Sarayu Trust Foundation and eGangotri पास विचरण करते हुए, एक विचित्र सुनहले राजहंस को देखा, जो विहारामिला- षिणी हंसिनी के अस्फुट मधुरस्वर पर लवलीन हो, रति की कामना कर रहा था । प्रियासु बालासु रतिक्षमासु च द्विपत्त्रितं पल्लवितञ्च बिभ्रतम् । स्मरार्जितं रागमहीरुहाङ्कुरं मिषेण चञ्च्वोश्चरणद्वयस्य च ॥११८॥ पुनस्तमेव विशिनष्टि—प्रियास्विति । बालासु = अरतिक्षमासु, किन्त्वासन्न- यौवनास्वित्यर्थः । अन्यथा, रागाङ्कुरासम्भवात् ; रतिक्षमासु = युवतीषु द्विविधासु प्रियासु विषये क्रमात् चञ्च्वोः=ओष्ठयोः । 'चञ्चुस्त्रोटिरुभे स्त्रियाम्' इत्यमरः । चरणद्वयस्य च मिषेण, द्विपत्त्रितं = सञ्जातद्विपत्रं, पल्लवित = संक्रातपल्लवञ्च, चञ्च्वोर्द्वयोः सम्पुटितत्वे साम्यात् द्विपत्त्रित्वं । चरणयोस्तु विभ्रमरागमत्वेन पल्लव- साम्यात् पल्लवत्वं, राजहंसानां लोहितचञ्चुचरणत्वात् तस्मिन् मिषेणेत्युक्तम् । स्मरा- र्जित = स्मरेणैव वृक्षारोपणेनोत्पादितमित्यर्थः । राग एव महीरुहः, तस्याङ्कुरं राग- मह रुहाराङ्कुरं, बिभ्रतं, चञ्चुपुटामिषेण द्विपत्त्रितं बालिकागोचररागं, चरणमिषेण पल्लवितं युवतीविषये रागञ्च बिभ्रतमित्यर्थः । ईदृशं हंसमबोधीति पूर्वेणान्वयः। 'नाभ्यस्ताच्छतुः'इति नुम्प्रतिषेधः । वृक्षाङ्कुरो हि प्रथमं द्विपत्त्रितो भवति, पश्चाद् पल्लवित इति प्रसिद्धम् । तत्र रागं बिभ्रत इति हंसविशेषणात् , तद्रारागस्य हंसाधि- करणत्वोक्तिः, प्रियास्वधिकरणभूतास्वित्युपाध्यायविश्वेश्वरव्याख्यानं प्रत्याख्येयं अन्य- निष्ठस्य रागस्यान्याधिकरणत्वायोगात् । न चायमेक एवोभयनिष्ठ इति भ्रमितव्यम्, तस्येच्छापरतरपर्यायस्य तथात्वायोगात् , अन्यथा बुद्ध्यादीनामपि तथात्वापत्तौ सर्व- सिद्धान्तविरोधात्, विषयानुरागाभावप्रसङ्गाच्च । उभयोरपि रागत्त्वसाम्यादुभयनिष्ठ- भ्रमः केषाञ्चित् । तस्मात् कामिनोरन्योन्याधिकरणरागयोरन्योन्यविषयत्वमेव नाधि- करणत्वमेवमिति सिद्धान्तः । प्रियास्विति विषयसप्तमी न त्वाधारसप्तमीति सर्वं रम- णीयम् । अत्र रागमहीरुहाङ्कुरमिति रूपकं, चञ्चुचरणमिषेणेत्यपह्नवानुप्राणितमिति सङ्करः । तेन च बाह्याभ्यन्तररागयोर्भेदे अभेद्दलक्षणातिशयोत्थापिता चञ्चुचरण- व्याजेनान्तरस्यैव बहिरङ्कुरितत्वोत्प्रेक्षा व्यज्यत इत्यलङ्कारेणालङ्कारध्वनिः ॥११८॥ ( वह राजहंस ) बाला ( मुग्धा ) और रमणयोग्य युवती प्रियतमा हंसी के लिए, अपनी ( रक्त ) चोंच और ( रक्त ) युगल चरण के बहाने, क्रमशः काम- देव से उत्पादित अनुराग रूपी वृक्ष के दो लाल लाल शाखाएँ और दो पल्लव धारण करता था । (अर्थात् वह राजहंस कामदेव का क्रीडावृक्ष था। जिस के नव अंकुरित

सर्गः १ ] जीवातु-मदयन्तिकासहितम् ६१ दो पत्र रूपी चोंच उसकी बाला प्रियतमा के चुम्बन के लिए और जिस के नव अंकुरित पल्लव रूपी युगल रक्त चरण उस की सम्भोग-योग्या प्रेयसी के आलिङ्गन करने के लिए समर्थ थे ) ॥ ११८ ॥ महीमहेन्द्रस्तमवेक्ष्य स क्षणं शकुन्तमेकान्तमनोविनोदिनम् । प्रियावियोगाद्विधुरोऽपि निर्भरं कुतूहलाक्रान्तमना मनागभूत् ॥ ११९॥ महीति । महीमहेन्द्रः = भूदेवेन्द्रः, स = नलः, [एकान्तमनोविनोदिनम्] एकान्तं नितान्तं मनो विनोदयतीति तथोक्तं । तं शकुन्तं = पक्षिणं, क्षणम् अवेक्ष्य प्रियावियोगात् निर्भरम् = अतिमात्रं विधुरः = दुःस्थोऽपि मनाक् = ईषत् कुतू- हलाक्रान्तमनाः = कौतुकितचित्तोऽभूत् = गृहीतकामोऽभूदित्यर्थः ॥११९॥ अत्यन्त विनोद देनेवाले, उस हंसपक्षी को क्षणभर देख कर, दमयन्ती के वियोग से अत्यन्त दुःखी होने पर भी, राजा नल के मन में ( उसे पकड़ने का ) कुछ-कुछ कुतूहल पैदा हुआ ॥ ११९॥ अवश्यंभव्येष्वनवग्रहग्रहा यया दिशा धावति वेधसः स्पृहा । तृणेन वात्येव तयानुगम्यते जनस्य चित्तेन भृशावशात्मना ॥१२०॥ कथमहग्शे चापल्ये प्रवृत्तिरस्य धीरोदात्तस्येत्याशङ्क्य, नात्र जन्तोः स्वातन्त्र्यं; किन्तु भाव्यार्थानुसारिणी विधातुरिच्छैव तथा प्रेरयतीत्याह--अवश्येति । भव- श्यंभव्येषु अवश्यं भाव्यर्थेषु विषये । 'भव्यगेय'आदिना कर्त्तरि यत्प्रत्ययान्तो निपातः 'लुपेदवश्यमः कृत्ये' इत्यवश्यमो मकारलोपः । अनवग्रहग्रहा = अप्रतिबन्धानिर्वन्धा, निरङ्कुशाभिनिवेशेति यावत् । 'ग्रहोऽनुग्रहानिर्वन्धग्रहणेषु रणोद्यमः' इति विश्वः । वेधसः स्पृहा = विधातुरिच्छा, यया दिशा धावति=येनाध्वना प्रवर्त्तते तया एव दिशा, भृशावशात्मना = अत्यन्तपरतन्त्रस्वभावेन, जनस्य चित्तेन तृणेन वात्या वातसमूह इव । पाशादिभ्यो यः । अनुगम्यते, वेधसः स्पृहा कर्म ॥१२०॥ जो अवश्य होनेवाला है, उसके पीछे--बिना बाधा के जानेवाली ( अङ्कुश- हीन ) विधाता की इच्छा--जिस दिशा में जाती है, उसी दिशा में लोगों के अत्यन्त बेबस चित्त इस प्रकार जाते हैं, जैसे जिधर आँधी जाती है, उसी ओर तिनका उड़ कर जाता है ॥१२०॥ अथावलम्ब्य क्षणमेकपादिकां तदा निदद्रावुपपल्वलं खगः । स तिर्यगावर्जितकंधरः शिरः विधाय पक्षेण रतिक्लमालसः ॥१२१॥

६२ नैषधचरितम्। [ प्रथम सर्ग चिकीर्षितार्थे देवानुकूल्यं कार्यतो दर्शयति-अथेति । अथ=नलदृष्टिद्राप्त्यनन्तरं, रतिक्रमालसः स=खगो हंसः, तदा=नलकौतूहलकालक्षणम्, एकपादो यस्यां क्रिया- यामित्येकपादिका, एकपादेनावस्थानं । मत्वर्थीयष्ठन् प्रत्ययः 'तद्धितार्थ'इत्यादिना सङ्ख्यासमासः, 'यस्य इति'लोपस्य स्थानिवद्भावेन ताद्रूप्याभावान्न पादः पदादेशः, ताम् एकपादिकामवलम्ब्य तिर्यगावजितकन्धरः=आवर्त्तितग्रीवः सन् पक्षेण शिरः पिधाय उपपलवलं = पल्वले क्षणं निदद्रौ=सुस्वापं । स्वभावो क्तिरलङ्कारः । स्वभावोक्तिरलङ्कारो यथावद्वस्तुवर्णनम्'इति लक्षणात् ॥१२१॥ नल की नज़र पड़ने के बाद सुरत-जन्य खेद के कारण सुस्त हो, वह राजहंस उसी समय, पंखों से शिर ढँककर, गर्दन टेढ़ी झुकाकर और एक पंजे का सहारा लेकर, क्षणभर में सो गया ॥१२१॥ सनालमात्मानननिर्जितप्रभं हियानतं, काञ्चनमम्बुजन्म किम् ? अबुद्ध तं विद्रुमदण्डमण्डितं स पीतमम्भःप्रभुचामरत्न किम् ? ॥१२२॥ सनालमिति । स नलः, तं = निद्राणं हंसम् [ आत्मानननिर्जितप्रभं ] आत्माननेन निर्जितप्रभं निजमुखनिराकृतशोभम्; अत एव हियानतं सनालं = नालसहितं, काञ्चनं = सौवर्णम् अम्बुजन्म = अम्बुजं किम् ? तथा, [ विद्रुम- दण्डमण्डितं ] विद्रुमदण्डेन मण्डितं भूषितं, पीतं = पीतवर्णम् [ अम्भःप्रभु- चामरत्न ] अम्भःप्रभोः अपांपत्युः वरुणस्य, चामरं किम् ? इतिशब्दोऽत्राहार्यः । इति अबुद्ध = बुद्धवानुत्प्रेक्षितवानित्यर्थः । बुध्यतेर्लुङि तङः 'झषस्तथोर्धोऽधः'इति तकारस्य धकारः ॥१२२॥ क्या यह (एक पंजे के सहारे) डण्ठलसहित सोने का कमल है--जो (मेरी मुखकान्ति से ) अपने को विजित समझकर, लज्जा के मारे मुँह लटका कर, एक ओर पड़ गया है ? अथवा-क्या यादसां पति वरुण का--(लाल पंजा होने के कारण) मूँगे के डण्डे से अलंकृत, पीले रंग का--चँवर है ? नल ने राजहंस के बारे में इस तरह अनुमान किया ॥१२२॥ कृतावरोहस्य हयादुशानहौ ततः पदे रेततुरस्य बिभ्रती । तयोः प्रवालैर्वनयोस्तथाम्बुजैर्नियोद्धुकामे किमु बद्धवर्मणी ? ॥१२३॥ कृतेति । ततः = तन्निदर्शनानन्तरं, हयाद् = अश्वात् कृतावरोहस्य = कृता- वतरणस्य अस्य=नलस्य उपानहौ=वर्मणी पादत्राणे । 'पादत्राणे उपानहौ इत्यमरः ।

: १] जीवातु-मदयन्तिकासहितम् ६३ बभ्रती = बिभ्राणे, पद् = चरणे तयोर्वनयोः = सलिल-काननयोः । 'वनं सलिल- कानने' इत्यमरः । प्रवालैः = पल्लवैः तथाम्बुजैः = पद्मैश्च सहेत्यर्थः । सहार्थे तृतीया । नियोद्धुं कामोऽभिलाषो ययोस्ते नियोद्धुकामे = युद्धकाम इत्यर्थः । 'तुं काममनसोरपि' इति तुमुनो मकारलोपः । अतो बद्धवर्मणो किमु = बद्धकवचे इव ते रेजतुः किम् इत्युत्प्रेक्षा ॥१२३॥ तब घोड़े पर से उतरे हुए नल के जूते पहने हुए पैर—ऐसे शोभित हुए मानों वे-उस उपवन के पल्लवों और जल के कमलों के साथ युद्ध करने की अभिलाषा से, कवच पहन कर, वहाँ आये हों ॥१२३॥ विधाय मूर्त्तिं कपटेन वामनीं स्वयं बलिध्वंसिविडम्बिनीमयम् । उपेतपार्श्वश्चरणेन मौनिना नृपः पतङ्गं समधत्त पाणिना ॥१२४॥ विधायेति । अयं नृपः स्वयमेव कपटेन = छद्मना वामनीं = ह्रस्वां । गौरादित्वात् ङीष् । बलिध्वंसिविडम्बिनीं कपटवामनविष्णुमूर्त्त्यनुकारिणीमित्यर्थः । मूर्त्तिं विधाय=कायं सङ्कुच्येत्यर्थः । मौनिना = निःशब्देन चरणेन, उपेतपार्श्वः = प्राप्तहंसान्तिकः पाणिना पतङ्गं = पक्षिणं समधत्त = सन्धृतवान्, जग्राहेत्यर्थः । स्वभावोक्तिरलङ्कारः ॥१२४॥ राजा नल कपट (छल) से बलि के छलने वाले (वामन भगवान्) के अनुरूप अपनी वामनी मूर्त्ति (शरीर को झुकाकर, छोटा आकार) बनाकर, चुपचाप दबे पाँव से उसके पास जाकर, उसे अपने हाथ से पकड़ लिया ॥१२४॥ तदात्तमात्मानमवेत्य सम्भ्रमात् पुनः पुनः प्रायसदुत्प्लवाय सः । गतो विरुत्योड्डयने निराशतां करौ निरोद्धुर्ददशति स्म केवलम् ॥१२५॥ तदिति । स = हंसः आत्मानं तदा तु [ तदात्तं ] तेन नलेनात्तं गृहीतम् अवेत्य = ज्ञात्वा, सम्भ्रमाद् उत्पॢवाय=उत्पतनाय पुनः पुनः प्रायसत् = आय- स्तवान् । 'यसुप्रयत्ने'इति धातोर्लुङि पुषादित्वात् च्लेरङादेशः । उड्डयने = उत्पतने निराशतां गतो विरुत्य = विक्रुश्य निरोद्धुः = गृहीतुः, करौ केवलं = करावेव दशति स्म = दष्टवान् । अत्रापि स्वभावोक्तिरेव ॥१२५॥ जब उस राजहंस ने अपने को उन नल के द्वारा पकड़ा हुआ जाना तो डर के मारे घबड़ाकर उड़ जाने की बार-बार चेष्टा की। लेकिन उड़ने में बेबस हो, विशेष प्रकार से शब्द करके, वह केवल पकड़नेवाले के दोनों हाथों को काटने लगा ।

६४ | नैषधचरितम् । [ प्रथमः ससम्भ्रमोत्पातितपतत्कुलाकुलं सरः प्रपद्योत्कतयाऽनुकम्पिताम् । तमूर्मिलोलैः पतगग्रहात्नृपं न्यवारयद्वारिरुहैः करैरिव ॥१२६॥ स इति । [ससम्भ्रमोत्पातित-पतत्कुलाकुलं] ससम्भ्रमं सत्वरम्, उत्पातिना उड्डीयमानेन, पतत्कुलेन पक्षिसङ्घेन, आकुलं सङ्कुलं, सरः कर्तृ । उत्कतया = उन्मनस्तया । 'उत्क उन्मनाः' इति निपातनाद्विधानाच्च साधुः । अनुकम्पितां प्रपद्य = कृपालुतां प्राप्य, तं नृपम्, ऊर्मिलोलैः = चलैर्वारिरुहैः करैरिति व्यस्त- रूपकं । पतगग्रहात् = पक्षिग्रहात्, न्यवारयत् इव इत्युत्प्रेक्षा; वास्तवनिवारणा- सम्भवादुत्प्रेक्षा । निवारणस्य करसाध्यत्वात् तत्र रूपकाश्रयणम् । अत एवैवं शब्दस्य उपमाबाधेनार्थनुसाराद्व्यवहितान्ययेनाप्युत्प्रेक्षा व्यञ्जकत्वमिति रूपकोत्प्रेक्षयोरङ्गाङ्गि- भावेन सङ्करः ॥१२६॥ ( उधर ) डर के मारे हड़बड़ी में उड़ते हुए पक्षियों के समूह से अस्थिर हुए सरोवर ने— मानो ( पक्षियों के पंखों से कुल-कुल उठा हुआ जल वाला अर्थात् ) उन्मना हो, हंस पर करुणा करके, लहरों से चञ्चल हुए, कमलरूपी करों द्वारा, राजा नल को हंस के पकड़ने से मना किया-- ऐसा प्रतीत होता था ॥१२६॥ पतत्रिणा तद्रुचिरेण वञ्चितं श्रियः प्रयान्त्याः प्रविहाय पल्वलम् । चलत्पदाम्भोरुहनूपुरोपमा चुकूज कूले कलहंसमण्डली ॥१२७॥ पतत्रिणेति । रुचिरेण पतत्रिणा=हंसेन, वञ्चितं = विरहितं तत्पल्वलं = सरः प्रविहाय, प्रयान्त्याः = गच्छन्त्याः श्रियः = लक्ष्म्याः, [चलत्पदाम्भोरुह- नूपुरोपमा] चलद्रयां पदाम्भोरुहनूपुराभ्याम्, उपमा साम्यं, यस्याः सा, कलहंस- मण्डली कूले चुकूज । स्वयूथभ्रंशे कूजनमेषां स्वभावः । तत्र हंसेनेव सह गच्छन्त्या सरःशोभायाः, श्रीदेव्या सहाभेदाध्यवसायेन कूजत्कलहंसमण्डल्यां तन्नूपुरत्वमुत्प्रे- क्ष्यते । उपमाशब्दोऽपि मुख्यार्थानुपपत्तेः सम्भावणालक्षक इत्यवधेयम् ॥१२७॥ सुन्दर राजहंस से विहीन उस सरोवर को परित्यागकर, जाती हुई सुन्दर हंस- मण्डली ने किनारे पर, ऐसा मधुर गुञ्जन किया, मानो प्रस्थान करती हुई सरोवर- सौन्दर्य-श्री के चञ्चल चरण-कमलों के पाजेब की छुमछुम की आवाज़ हो ॥१२७॥ न वास्ययोग्या वसुधेयमीदृशस्त्वमङ्ग ! यस्याः पतिरुज्झितस्थितिः । इति प्रहाय क्षितिमाश्रिता नभः खगास्तमाचुक्रुशुरारवैः खलु ॥१२८॥ नेति । इयं वसुधा त्वया न वासयोग्या = निवासार्हा न । कुतः ? अङ्ग = भो !