भारतकोश
संग्रह पर लौटें

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

( ५५ )

अथ सीमन्तोन्नयनम् । १-१५-१

अथ—पुंसवनानन्तरं क्रमप्राप्तं सीमन्तोन्नयननामकं गर्भसंस्कारकं कर्म व्याख्यास्यते ।

पुꣳसवनवत् । १-१५-२

तच्च कर्म पुꣳसवनवत्—पुंसवनकर्मवत् पुं नक्षत्रे भवति ।

प्रथमगर्भे मासे षष्ठेऽष्टमे वा । १-१५-३

प्रथमगर्भे—आद्यगर्भे गर्भग्रहणप्रभृति षष्ठे अष्टमे वा मासे । सीमन्तोन्नयनं प्रथमगर्भे नियमेन कुर्यात्, गर्भान्तरे अनियम इति कर्काचार्याः । अन्ये तु प्रथमगर्भ एवेति वदन्ति ।

तिलमुद्गमिश्रꣳ स्थालीपाकꣳ श्रपयित्वा प्रजापतेर्हुत्वा पश्चादग्नेर्भद्रपीठे उपविष्टायां युग्मेन सटालुग्रप्सेनेनौदुम्बरेण—त्रिभिर्दर्भपिञ्जूलैस्त्रेण्या शलल्या वीरतरशङ्कुना पूर्णचात्रेण च सीमन्तमूर्द्ध्वं विनयति भू र्भुवः स्वरिति । १-१५-४

अत्र विशेषमाह— तिलमुद्गमिश्रं— तिलैः मुद्गैश्च मिश्रः तिलमुद्गंमिश्रः तं स्थालीपाकम्—ओदनं चरुं श्रपयित्वा—पक्त्वा आज्यभागान्ते प्रजापतेः हुत्वा—प्रजापतये स्वाहा इति एकामाहुतिं हुत्वा स्विष्टकृदादि प्राशनान्तं कुर्यात् । ततः अग्नेः पश्चात्—अग्नेः पश्चिमायां दिशि भर्तुः दक्षिणतः भद्रपीठे—कोमलासने उपविष्टायाम्—आसीनायां गर्भिण्यां भर्त्ता औदुम्बरेण—उदुम्बरवृक्षजातेन सटालुग्रप्सेन अपक्वफलैकस्तवकनिबद्धेन त्रिभिः दर्भपिञ्जूलैः—दर्भपवित्रैः कुशमञ्जरीभिरित भावः । त्रेण्या—त्रिषु स्थानेषु श्वेता त्रेणी, तया, शलल्या—शल्यकाख्यपक्षकण्टकेन, वीरतरशङ्कुना—अश्वत्थशङ्कुना शरेण कासतृणेन वा पूर्णचात्रेण—चात्रं सूत्रकर्त्तनसाधनं तकूः, सूत्रपूर्णेन तेन च—समुच्चयार्थः, एतैः सर्वैः स्त्रियाः सीमन्तं—ललाटान्तरमारभ्य ऊर्द्ध्वं विनयति—केशान् द्विधा करोति भूर्भुवः स्वर्विनयामि इति मन्त्रेण सकृत् ।

( ५६ )

प्रतिमहाव्याहृति वा । १-१५-५

पक्षान्तरमाह—वा— अथवा प्रतिमहाव्याहृति — महाव्याहृतिं प्रति महाव्याहृति विनयति । तेन भूर्विनयामि भुवर्विनयामि स्वर्विनयामि इति त्रिवारं विनयनम् ।

त्रिवृतमाबध्नाति—

अयमूर्जावतो वृक्ष उर्जोव फलिनी भवेति । १-१५-६

त्रिवृतं—त्रिभिर्वर्त्त्यते ग्रथ्यते इति त्रिवृत् वेणी, ण्यन्तात् कर्मणि यक्, तां प्रति, आवध्नाति—पुञ्जीकृतम् औदुम्बरादिपञ्चकं वेण्यां विनियुनक्ति अयमूर्जावत इत्यादिना मन्त्रेण ।

मन्त्रार्थः (प्रजापतिः, यजुः, फलिनी वन्धने)—हे गर्भिणि अयं सुप्रसिद्धः, वृक्षः—उदुम्बरवृक्षः ऊर्जावान् बलवान् 'अस्य ऊर्जावतः-बलवतः वृक्षस्य ऊर्जीव—सफलशाखेव त्वं फलिनी—फलयुक्ता भव

अथाह—वीणागाथिनौ राजानं संगायेतां यो वाप्यन्यो-वीरतर इति । १-१५-७

अथ – औदुम्बरादिपञ्चकस्य वेणीवन्धनानन्तरम् आह—ब्रवीति—हे वीणागाथिनौ—वीणावादनसहितगायनाभिज्ञौ ! युवां राजानं—भूपतिं संगायेताम् — सम्यक् गायेताम् राजविषयकगीतमिति भावः । वा—अथवा यः अन्यः अपि राजव्यतिरिक्तः वीरतरः—प्रकृष्टः वीरः तं सङ्गायेताम् इति

नियुक्तामप्येके गाथामुपोदाहरन्ति—

"सोम एव नो राजेमा मानुषीः प्रजाः ।
अविमुक्तचक्र आसीरंस्तीरे तुभ्यमसाविति ॥

एके—एके आचार्याः नियुक्तां—गाने विहितां गाथां—मन्त्रम् अपि उपोदाहरन्ति उप—समीपे उदाहरन्ति—पठन्ति । एतन्मते

( ५७ )

राजवीरतरयोरन्यतरस्य वर्णनं गाथागानं च समुच्चितं भवति। गाथामाह “सोम एवे”ति ।

गाथार्थः (प्रजापतिः गायत्री सोमः गाने) सोमः—चन्द्रः एव नः—प्रजानां राजा – प्रभुः । अतः—अस्मात् कारणात् इमाः दृश्यमानाः मानुषीः—मानुष्यः प्रजाः सौम्याः । मानुषीरिति प्रथमार्थे द्वितीया । हे नदि तुभ्यं-तव अविमुक्तचक्रे-शस्त्रघाताविदोषरहिते तीरे आसीरन् तिष्ठन्ति ।

यां नदीमुपावसिता भवति तस्या नाम गृह्णाति । १-१५-६

ततः—गर्भिणी यां नदीम् उपावसिता—उप—समीपे आवसिता-स्थिता भवति तस्याः नद्याः नाम – अभिधानं गृह्णाति—कीर्त्तयति ।

ततो ब्राह्मणभोजनम् । १-१५-१०

पूर्वं व्याख्यातम् ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां प्रथमकाण्डे पञ्चदशी कण्डिका ॥


सोष्यन्तीमद्भिरभ्युक्षति–एजतु दशमास्य इति प्राग्ग्रस्यैत इति । १-१६-१

सोष्यन्तीं—प्रसवशूलवतीं स्त्रियम् अद्भिः—जलेन अभ्युक्षति सिंचति । “एजतु दशमास्य” इति मन्त्रेण ।

सम्पूर्णोमन्त्रः—एजतु दशमास्यो गर्भो जरायुणा सह ।
यथायं वायुरेर्जति यथा समुद्र एजति एवायं दशमास्यो अस्रज्जरायुणा सह ।

( ५८ )

अथावरावपतनम्— अवैतु पृश्नि शैवलाऽ शुने जराय्वत्तवे । नैव माऽसेन पीवरीं न कस्मिंश्चनायतमवजरायु पद्यतामिति । १-१६-२

अथ—अभ्युक्षणानन्तरम् अवरावपतनम्—अवरम् उल्बं जरायु-वेष्टितं गर्भवेष्टनम् अव—अवाचीनम् अधः पतति अनेन मन्त्रेण जप्तेन इति अवरावपतनः मन्त्रः, तं मन्त्रम् “अवैतु पृश्नि'रित्यादि भर्त्ता स्त्री—समीपे जपति ।

मन्त्रार्थः (प्रजापतिः बृहती अग्निः अवपतने )—हे सोष्यन्ति ! मांसेन पीवरीं—मांसेन पुष्टं जरायु-गर्भवेष्टनं पृश्नि—क्षुद्रं शैवलमिव शैवलं यथा जलोपरि केनापि असंलग्नं तद्वत् वर्त्तमानम् । अवैतु—अव—अधस्तात् एतु—आगच्छतु । तच्च जरायु शुने—कुक्कुरस्य अत्तवे-भक्षितु' भक्षणाय न एतु । पुनश्च तज्जरायु कस्मिंश्चन गर्भव्यथकावयवविशेषे आयतं सम्बद्धं सत् न अवपद्यतां—नाधः पततु । सर्वथा गर्भो न विपद्यतामिति भावः । पीवरीमित्यत्र लिङ्गव्यत्ययः । शुनेः इति षष्ठ्यर्थे चतुर्थी । अत्तवे इत्यत्र तुमर्थे तवेङ् प्रत्ययः ।

जातस्य कुमारस्याच्छिन्नायां नाड्यां मेधाजननायुष्ये करोति । १-१६-३

जातस्य—उत्पन्नस्य कुमारस्य—पुत्रस्य न तु दुहितुः अच्छिन्नायां नाड्याम्—अखण्डिते नाले सति मेधाजननायुष्ये करोति पिता ।

अनामिकया सुवर्णान्तर्हितया मधुघृते प्राशयतिघृतं वा “भूस्त्वयि दधामि । भुवस्त्वयि दधामि । स्वस्त्वयि दधामि । भू-र्भुवः स्वः सर्वं त्वयि दधामीति । १-१६-४

मेधाजननमाह— सुवर्णान्तर्हितया — सुवर्णेन आच्छादितया अनामिकया—उपकनिष्ठिकया अङ्गुल्या मधुघृते—मधु च घृतं च ते मिश्रिते केवलं घृतं वा प्राशयति—कुमारस्य जिह्वायां निमार्टिष्ट, पिता

( ५६ )

“भूस्त्वयि दधामी”त्यादिमन्त्रेण सकृत् । अत्र इति—शब्देन व्याहृतीनां मन्त्रैकत्वं प्रतिपादितम् ।

अथास्यायुष्यं करोति— १-१६-५

अथ—मेधाजननानन्तरम् अस्य—जातस्य बालकस्य, आयुष्यम्—आयुषे हितं जीवनवर्द्धनं कर्म करोति ।

नाभ्यां दक्षिणे वा कर्णे जपति अग्निरायुष्मान्त्स वनस्पति- भिरायुष्माँस्तेन त्वायुषायुष्मन्तं करोमि । सोम आयुष्मान्त्स ओषधीभिरायुष्माँस्तेन त्वायुषायुष्मन्तं करोमि । ब्रह्मायुष्मत्तद् ब्राह्मणैरायुष्मत्तेन त्वायुषायुष्मन्तं करोमि देवा आयुष्मन्तस्तेऽ- मृतेनायुष्मन्तस्तेन त्वायुषायुष्मन्तं करोमि । ऋषय आयुष्मन्तस्ते व्रतैरायुष्मन्तस्तेन त्वायुषायुष्मन्तं करोमि । पितर आयुष्मन्तस्ते स्वधाभिरायुष्मन्तस्तेन त्वायुषा युष्मन्तं करोमि । यज्ञ आयुष्मान्त्स दक्षिणाभिरायुष्माँस्तेन त्वायुषायुष्मन्तं करोमि । समुद्र आयुष्मान्त्स स्रवन्तीभिरायु ष्माँस्तेन त्वायुषायुष्मन्तं करोमीति त्रिः १-१६-६

आयुष्यकरणविधानमाह सूत्रद्वयेन—नाभ्यां—नाभिदेशे दक्षिणे कर्णे वा, अत्र समीपे सप्तमी । तेन नाभिसमीपे कर्णसमीपे वा, अग्निरायुष्मानित्यादि त्रिवारं जपति ।

मन्त्रार्थस्तु स्पष्ट एव । (सर्वेषां प्रजापतिः गायत्री लिङ्गोक्ता आयुष्यकरणे) ।

त्र्यायुषमिति च । १-१६-७

त्र्यायुषं जमदग्नेरित्यादि मन्त्रं च त्रिवारं जपेत् । इदं चायुष्य-करणं यदि यथाकालं न सम्पाद्यते तर्हि कालान्तरेऽपि क्रियते ।

( ६० )

सम्पूर्णमन्त्रः— त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम् । यद्देवेषु त्र्यायुषं तन्नो अस्तु त्र्यायुषम् । शु. य. ३/६२

स यदि कामयेत सर्वमायुरियादिति वात्सप्रेणैनमभिमृशेत् । १-१६-८

स—पिता यदि कामयेत—इच्छेत् अय कुमारः सर्वं—सम्पूर्णम् आयुः जीवितम्, इयात्—प्राप्नुयात् इति, तर्हि एनं—शिशुं वात्सप्रेण—वात्सप्रिण भालन्दनेन दृष्टेन अनुवाकेन दिवस्परीत्यादिद्वादशर्चेन अभिमृशेत्— अभि—समन्ततः अर्थात् सर्वं शरीरम् आलभेत ।

दिवस्परीत्येतस्यानुवाकस्योत्तमामृचं परिशिनष्टि । १-१६-९

दिवस्परि इति एतस्य द्वादशार्चस्यानुवाकस्य उत्तमाम्—अन्तिमाम् ऋचम्—अस्ताव्यग्निरित्यादिकां परिशिनष्टि—व्युदस्यति परित्यजति । तां परित्यज्य एकादशभिः ऋग्भिः कुमारमभि मृशेदिति भावः ।

ते च मन्त्राविस्तरभिया न लिख्यन्ते । शु. यजु. १२ — १८तः

प्रतिदिशं पञ्च ब्राह्मणानवस्थाप्य ब्रूयादिममनुप्राणितेति १-१६-१०

कुमारस्य प्रतिदिशं—दिशं दिशं प्रति प्रतिदिशम् अर्थात् चतसृषु दिक्षु मध्ये च एकैकमिति पंच ब्राह्मणान् अवस्थाप्य – सन्निवेश्य, इमं—कुमारम् अनुप्राणित–अनुलक्ष्यीकृत्य प्राणेत्यादि ब्रूत इति ब्रूयात् ।

पूर्वो ब्रूयात् प्राणेति, व्यानेति दक्षिणः, अपानेत्यपरः उदानेत्युत्तरः, समानेति पञ्चम उपरिष्टादवेक्षमाणो ब्रूयात् । १-१६-११

( ६१ )

पूर्वः—पूर्वदिग्वर्त्ती ब्राह्मणः प्राण इति ब्रूयात् । दक्षिणः—दक्षिण- दिग्वर्त्ती ब्राह्मणः व्यान इति, अपरः—पश्चिमस्थः अपान इति, उदान— उत्तरस्थः समान इति, पञ्चमः—मध्यवर्त्ती उपरिष्टात् मध्यदेशम् अवेक्षमाणः ब्रूयात् ।

प्राणादीनां स्वरूपं यथा—कोष्ठस्थितो वायुः मुखनासिकाभ्यां निःसरन् प्राणः, पुनस्तेनैव मार्गेण अन्तः प्रविशन् अपानः । अतएव प्राणो रेचकः, अपानः पूरकः, तयोरधः—सन्धानं व्यानः कुम्भकरूपः ऊर्ध्वगतिरुदानः देहस्थितस्याशितपीतस्यान्नरसस्य सर्वाङ्गेषु समन- यनात् समानः । देवीभागवते च—७-३२-४० "हृदि प्राणो गुदेऽपानो नाभिस्थस्तु समानकः । कण्ठदेशेऽप्युदानः स्याद् व्यानः सर्वशरीरगः । इति

स्वयं वा कुर्यादनुपरिक्राममविद्यमानेषु । १-१६-१२

ब्राह्मणेषु अविद्यमानेषु—असत्सु, स्वयं—पिता वा अनुपरिक्रामं पूर्वादिकां दिशं परिक्रम्य परिक्रम्य अनुप्राणनं कुर्यात् । अस्मिन् पक्षे प्रैषाभावः ।

स यस्मिन् देशे जातो भवति तमभिमन्त्रयते वेद ते भूमि हृदयं दिवि चन्द्रमसि श्रितम् । वेदाहं तन्मां तद् विद्यात् पश्येम शरदः शतं जीवेम शरदः शतं शृणुयाम शरदः शतमिति १-१६-१३

स—शिशुः यस्मिन् देशे—यत्र जातो भवति—उत्पन्नः पतति, तं देशम् अभिमन्त्रयते, "वेद" ते इति मन्त्रेण—

मन्त्रार्थः (प्रजापतिः अनुष्टुप् भूमिः, अभिमन्त्रणे)—हे भूमि कुमारजन्मप्रदेश ! ते—तव हृदयं — सारभूतं दिवि — स्वर्गलोके चन्द्रमसि—चन्द्रलोके श्रितं—वर्त्तमानम् अहं वेद—जानामि, तत्र—तव

( ६२ )

हृदयं, मां यजमानं, विद्यात् —जानातु शरदः शतं, पश्येम, जीवेम, शृणुयाम, इति संक्षेपः ।

अथैनमभिमृशत्यश्मा भव परशुर्भव हिरण्यमस्तृतं भव आत्मा वै पुत्रनामासि स जीव शरदः शतमिति । १-१६-१४

अथ जन्मभूमेरभिमन्त्रणानन्तरम् एनं—कुमारम् अभिमृशति—सर्वशरीरे स्पृशति 'अश्मा भवे' त्यादिमन्त्रेण ।

मन्त्रार्थः (प्रजापतिः अनुष्टुप् लिङ्गोक्ता अभिमर्शने) हे कुमार ! त्वम् अश्मा भव पाषाणवत् दृढः स्थिरश्च भव । परशुर्भव—परशुवत् शत्रुनाशको भव । अस्तृतम्—अप्रच्युतं हिरण्यं—सुवर्णवत् कान्तिमान् भव । त्वं मम पुत्रनामा—पुत्रसंज्ञकः आत्मा असि—भवसि । वै—निश्चयेन । स त्वं—पुत्रः शरदः—वर्षस्य शतं जीव—प्राणान् धारय । अत्र शतशब्दः अपरिमितार्थः लोके ततोधिकमपि जीवतामुपलब्धेः।

अथास्य मातरमभिमन्त्रयते— इडासि मैत्रावरुणी वीरे वीरमजीजनथाः । सा त्वं वीरवती भव यास्मान् वीरवतोऽकरदिति । १-१६-१५

अथ—कुमारस्पर्शानन्तरम् अस्य कुमारस्य मातरं—जननीम् अभिमन्त्रयते—अभिलक्षीकृत्य मन्त्रं पठति “इडासि” इत्यादि ।

**मन्त्रार्थः (प्रजापतिः अनुष्टुप् इडाभिमन्त्रणे)—**हे वीरे वीराङ्गने ! त्वं मैत्रावरुणी—मित्रावरुणयोः सम्बन्धिनी पुनश्च त्वम् इडा—हविर्विशेषः तदाधारभूता यज्ञपात्री वा असि । त्वं वीरं पुत्रम् अजीजनथाः—असौषीः । या त्वम् अस्मान् वीरवतः पुत्रयुक्तान् अकरत्—अकरोः, सा—प्रसिद्धा त्वं वीरवती सततं पुत्रयुक्ता भव ।

( ६३ )

अथास्यै दक्षिणं स्तनं प्रक्षाल्य प्रयच्छतीमं स्तनमिति ।
१-१६-१६

**अथ—**अभिमन्त्रणानन्तरम्, **अस्यै—**अस्याः मातुः दक्षिणं स्तनं **प्रक्षाल्य—**जलेन क्षालयित्वा पिता कुमाराय पानार्थं प्रयच्छति "इमं स्तन' मित्यादिमन्त्रेण ।

मन्त्रः— 'इमं स्तनमूर्जस्वन्तं धयापां प्रपीनमग्ने सरिरस्य मध्ये उत्सं जुषस्व मधुमन्तमर्वन्समुद्रियं सदनमाविशस्व ।

यस्ते स्तन इत्युत्तरमेताभ्याम् । १-१६-१७

**ततः—**दक्षिणस्तनप्रदानान्तरम् **उत्तरं—**वामस्तनं पूर्ववत् प्रक्षाल्य पिता कुमाराय प्रयच्छति **एताभ्यां—**यस्ते स्तन, इमं स्तनमिति मन्त्राभ्याम् ।

मन्त्रः—(१) यस्ते स्तनः शशयो यो मयोभूर्योरत्नधा वसुविद्यः सुदत्त् । येन विश्वा पुष्यसि वार्याणि सरस्वति ! तामिह धातवेऽकः ।
शु. य. ८/५

(२) इमं स्तनम् (उक्तमेव)

उदपात्रग्ँ शिरस्तो निदधात्यापो देवेषु जाग्रथ, यथा देवेषु जाग्रथ, एवमस्यां सूतिकायाँ सपुत्रिकायां जाग्रथेति । १-१६-१८

**ततः उदपात्रं—**जलपूर्णपात्रं, **शिरस्तः—**शिरोभागे यस्यां दिशि कुमारस्य शिरः तस्यां दिशि, **निदधाति—**स्थापयति, “आपो देवेषु” इत्यादिमन्त्रेण ।

मन्त्रार्थः (प्रजापतिः अनुष्टुप् आपः जलपात्राधाने) — हे **आपः ! यूयं देवेषु—**देवकार्येषु, **जाग्रथ—**जागरणशीला भवथ । यथा

( ६४ )

यूयं देवेषु जाग्रथ, एवम्—अनेन प्रकारेण, अस्यां — पुरोवर्तिन्यां सपुत्रिकायां पुत्रसहितायां सूतिकायां—मद्भार्यायां जाग्रथ । उत्पन्नस्य कुमारस्य सूतिकायाश्च हितं सम्पादयत इति भावः ।

द्वारदेशे सूतिकाग्निमुपसमाधायोत्थानात् सन्धिवेलयोः फलीकरणमिश्रान् सर्षपानग्नाववपति-“षण्डा मर्का उपवीरः शौण्डिकेय उलूखलः । मलिम्लुचो द्रोणासश्च च्यवनो नश्यतादिति स्वाहा । आलिखन्ननिमिषः किम्बदन्त उपश्रुतिर्हर्यक्षः कुम्भीशत्रुः पात्रपाणिर्नृमणिर्हन्त्रीमुखः सर्षपारुणश्च्यवनो नश्यतादिति स्वाहेति । १-१६-१६

सूतिकागृहस्य द्वारदेशे पञ्चभूसंस्कारपूर्वकं सूतिकाग्निम् उपसमाधाय—संस्थाप्य, ओत्थानात्—आ उत्थानात् उत्थान पर्यन्तमित्यर्थः, सन्धिवेलयोः-सायं प्रातश्च, फलीकरणमिश्रान् तण्डुलकणयुक्तान् सर्षपान् अग्नौ—सूतिकाग्नौ, आवपति प्रक्षिपति "षण्डा मर्का, 'आलिखन्' इति मन्त्रद्वयेन वारद्वयम् । नात्र होमविधिः आवपनोपदेशात्।

मन्त्रार्थः (प्रजापतिः अनुष्टुप् लिङ्गोक्ता आवपने)—षण्डामर्कादयो बालग्रहाः । स सर्वः इतः—कुमार—जन्मदेशात्कुमारसमीपाद् वा नश्यतात्—अपगच्छतु । तथा आलिखन् प्रभृतयः अपगच्छन्तु । एतेषां बालग्रहाणां संज्ञा अन्वर्था । तेषां स्वरूपं प्रकाशयति । यथा—शृणोतीति षण्डः । मारयतीति मर्कः । उपघाते वीरः समर्थ उपवीरः । शौण्डिकेयः—विघ्नकुशलः । उलूखलः—आश्रितनाशकः । मलिम्लुचः—मलिनाशयः । द्रोणासः - दीर्घनासः । च्यवनः—च्यावयति अङ्गानि इति च्यवनः । आलिखन्—आ समन्तात् लिखन् भक्षयन्नास्ते इति आलिखन् । अनिमिषः निमेषरहितः । उपश्रुतिः—समीपेः श्रुत्वा अपकर्त्ता । हर्यक्षः—पिङ्गचक्षुः । कुम्भी—कुम्मयति स्तम्भयतीत्येतं-

( ६५ )

शीलः कुम्भी। शत्रुः—शातयतीति शत्रुः । पात्रहस्तः—पात्रपाणिः । नृमणिः—नॄन् मनुष्यान् मिनोति हिनस्तीति नृमणिः । हन्त्री—हिंसा हननं मुखे यस्यासौ हन्त्रीमुखः । सर्पपारुणः—सर्पपवदरुणवर्णः ।

यदि कुमार उपद्रवेज्जालेन प्रच्छाद्योत्तरीयेण वा पिताङ्क आधाय जपति— १) कूर्कूरः सुकूर्कुरः कूर्कुरो बालबन्धनः । चेच्चेच्छुनक सृज नमस्ते अस्तु सीसरो लपेतापह्वर । २) तत्सत्यं यत्ते देवा वरमददुः स त्वं कुमारमेव वावृणीथाः । चेच्चेच्छुनक सृज नमस्ते अस्तु सीसरो लपेतापह्वर । ३) तत्सत्यं यत्ते सरमा माता सीसरः पिता श्यामशवलौ भ्रातरौ चेच्चेच्छुनक सृज नमस्ते अस्तु सीसरो लपेतापह्वरेति । १-१६-२०

यदि—चेत्, कुमारः—बालग्रहविशेषः उपद्रवेत्—उपद्रवं सृजेत् । तर्हि तं बालं जालेन—मत्स्यग्रहणसाधनेन, उत्तरीयेण—उर्ध्ववाससा वा प्रच्छाद्य—छादयित्वा, पिता—जनकः, अङ्के—उत्सङ्गे, आधाय-धृत्वा "कूर्कूर" इत्यादिकान् मन्त्रान् जपति ।

मन्त्रार्थः (त्रयाणां प्रजापतिः अनुष्टुप् शुनकः जपे)— कूर्कूर-इत्यादयः शब्दाः बालग्रहवाचकाः । हे शुनक ! ते—तुभ्यं नमः अस्तु । एनं—कुमारम्, उत्सृज—मुञ्च । हे शुनक ! देवाः ते—तुभ्यं यत् वरम्-अभिलषितार्थम्, अददुः—दत्तवन्तः, तत् सत्यम् । स त्वं कुमारं—शिशुमेव वावृणीथाः—वृतवानसि । अन्यत् उक्तम् । हे शुनक ! ते यत् सरमा माता सीसरः पिता श्यामशवलौ भ्रातरौ तत् सत्यम् । अन्यत् पूर्ववत् ।

( ६६ )

अभिमृशति—
न नामयति न रुदति न हृष्यति न ग्लायति
यत्र वयं वदामो यत्र चाभिमृशामसीति । १-१६-२१

जपान्ते कुमारस्य सर्वाङ्गम अभिमृशति “न नामयति इति मन्त्रेण” ।
मन्त्रार्थः (प्रजापतिः अनुष्टुप् वायुः अभिमर्शने)—यत्र—यस्मिन् कुमारे वयं वदामः—मन्त्रं जपामः, यत्र च अभिमृशामसि—स्पृशामः, स कुमारः न नामयति—अङ्गानि न नामयतु । न रोदिति—न रोदितु । न ग्लायति न ग्लायतु ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां प्रथमकाण्डे
षोड़शी कण्डिका ।


( नामकरणम् )
दशभ्यामुत्थाप्य ब्राह्मणान् भोजयित्वा पिता नाम करोति ।
१-१७-१

दशम्यां—प्रसवदिवसात् दशम्यां रात्रौ अतीतायाम् एकादश-दिवसे उत्थाप्य—सूतिकागृहात् उत्थाप्य ब्राह्मणान्—त्रीन् ब्राह्मणान् भोजयित्वा पिता—जनकः नाम—नामधेयं करोति ।

द्वक्षरं चतुरक्षरं वा घोषवदाद्यन्तरन्तस्थं
दीर्घाभिनिष्ठानं कृतं कुर्यान्न तद्धितम् । १-१७-२

कीदृशं नाम कुर्यादित्यपेक्षायामाह—द्वक्षरं—द्वे अक्षरे यस्य तत् द्वक्षरं, चतुरक्षरं—चत्वारि अक्षराणि यस्य तत् चतुरक्षरं वा नाम कुर्यात् । वाशब्दात् अनयोर्विकल्पः । पुनश्च तन्नाम, घोषवदादि-घोषवदक्षरमादौ यस्य तत् घोषवन्ति अक्षराणि वर्गतृतीयचतुर्थपञ्चमानि हकारसहितानि

( ६७ )

अन्तरन्तस्थम्—अन्तः—मध्ये, अन्तःस्थम् अक्षं यस्य तादृशम्। अन्तः-स्था यरल्वाः। पुनश्च दीर्घाभिनिष्ठानं—दीर्घमह्रस्वम् अभिनिष्ठानम्-अवसानं यस्य तत्, तथा च कृतं—कृतप्रत्ययान्तं कुमारस्य नाम कुर्यात्। तद्धितं—तद्धितप्रत्ययान्तं नाम न कुर्यात्।

अयुजाक्षरमाकारान्तं स्त्रियै तद्धितम्। १-१७-३

स्त्रिया नाम्नि विशेषमाह—अयुजाक्षरम्—अयुजानि विषमाणि त्र्यादीनि अक्षराणि यस्य तत्, आकारान्तम्—आकारादि—दीर्घवर्णान्तं तद्धितं—तद्धितप्रत्ययान्तं नाम, स्त्रियै—स्त्रियाः, कुर्यात्।

शर्म ब्राह्मणस्य, वर्म क्षत्रियस्य गुप्तेति वैश्यस्य। १-१७-४

पूर्वोक्तलक्षणस्य नाम्नः अन्ते ब्राह्मणस्य—प्रथमवर्णस्य शर्म इति क्षत्रियस्य वर्म इति वैश्यस्य गुप्त इति पदं योज्यम्। अथवा ब्राह्मणस्य नाम शर्म—मङ्गलप्रतिपादकं क्षत्रियस्य नाम, वर्म—रक्षाप्रतिपादकं, वैश्यस्य गुप्तेतिधनवत्ताप्रतिपादकं नाम कुर्यात्। इति नामकरणम्।


( बहिर्निष्क्रमणम् )

चतुर्थे मासि निष्क्रमणिका। १-१७-५

चतुर्थे—उत्पत्तिमारेभ्य चतुर्थे मासि कुमारस्य निष्क्रमणिका—गृहात् बहिर्निष्क्रमणं करोति पिता।

सूर्यमुदीक्षयति तच्चक्षुरिति। १-१८-६

तत्र पिता कुमारं गृहात् वहिरानीय सूर्यम् उदीक्षयति—प्रदर्शयति "तच्चक्षुर्देवहित" मित्यादिना मन्त्रेण। सम्पूर्णोमन्त्रः— "तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत्। पश्येम शरदः शतं जीवेम शरदः शतꣳ शृणुयाम शरदः शतं प्रब्रवामशरदः शतमदीनाः स्याम शरदः शतं भूयश्च शरदः शतात्। शु. य ३६/२४।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां प्रथमकाण्डे सप्तदशी कण्डिका।

( ६८ )

प्रोष्येत्य गृहानुपतिष्ठते पूर्ववत् १-१८-१

गृहस्थः प्रोष्य — प्रवासं गत्वा एत्य — आगत्य, गृहान् — गृहस्थितान् भार्यापुत्रादीन्, उपतिष्ठते — प्रार्थयते, पूर्ववत् — अहिनाग्नि-प्रकरणोक्तवत् "गृहा मा बिभीत" (शु. यः ३/८१) इत्यादिभिस्त्रिभिर्मन्त्रैः ।

पुत्रं दृष्ट्वा जपति—

अङ्गादङ्गात् सम्भवसि हृदयादधि जायसे ।
आत्मा वै पुत्रनामासि स जीव शरदः शतम् इति ।
१ १८-२

पुत्रम् — आत्मजं, दृष्ट्वा — विलोक्य अङ्गादङ्गादित्यादिमन्त्रं जपति — पठति ।

मन्त्रार्थः—(प्रजापतिः अनुष्टुप् आयुः जपे) हे पुत्र ! त्वं मम अङ्गात् अङ्गात् — सर्वस्मादङ्गात् सम्भवसि — जायसे । हृदयात् — अन्तरङ्गात्, अधिजायसे — अधिकतया जायसे । हृदयपर्यायस्य मनसः प्रेरणया हि पुत्रस्य उत्पादने प्रवृत्तिः । अथवा हृदि आत्मनो निवासः । तस्मात् स्थानात् स्वयमात्मा एव आगत्य पुत्ररूपेण जायत इति । त्वं मम पुत्रनामा आत्मा असि । वै — निश्चये । त्वं मम आत्मा एव, पुत्र-नाम्ना तु प्रसिद्धो भवसि इत्यर्थः ।

अथास्य मूर्द्धानमवजिघ्रति—

"प्रजापते-ष्ट्वा हिंकारेणावजिघ्रामि
सहस्रायुषासौ जीव शरदः शतम् इति । १-१८-३

अथ — जपानन्तरम्, अस्य — पुत्रस्य मूर्द्धानं — शिरः अवजिघ्रति — अवाचीनं जिघ्रति "प्रजापतेष्ट्वा इति मन्त्रेण । अवघ्राणं सकृदिति हरिहरः । सकृन्मन्त्रेण द्विस्तूष्णीमिति जयरामः ।

( ६६ )

मन्त्रार्थः ( परमेष्ठी उष्णिक् अवघ्राणे )— हे पुत्र ! त्वा-त्वां प्रजापतेः - ब्रह्मणः, हिंकारेण-स्नेहार्द्रध्वनिना, अवजिघ्रामि - शिरसि चुम्बामि। असौ त्वं-पुत्रः सहस्रायुषा-सहस्रगुणितेन आयुषा-जीवनकालेन, शरदः-वर्षस्य शतं जीव ।

गवां त्वा हिंकारेणेति च त्रिः। १-१८-४

ततः "गवां त्वा हिंकारेण अवजिघ्रामि सहस्रायुषा अमुकशर्मन् जीव शरदः शतम्” इति त्रिः-त्रिवारम् अर्थात् “गवांत्वेति मन्त्रेण सकृत् ] अवघ्राय द्विः तूष्णीम् अवजिघ्रति ।

दक्षिणेऽस्य कर्णे जपति-
“अस्मे प्रयन्धि मघवन् ऋजीषिन् इन्द्र रायो विश्ववारस्य भूरेः ।
अस्मे शतं शरदो जीवसेऽधा अस्मे वीरान् शश्वत इन्द्र शिप्रिन्निति ।
( १-१८-५ )

अस्य पुत्रस्य दक्षिणे कर्णे-दक्षिणकर्णसमीपे जपति 'अस्मे प्रयन्धि इत्यादिमन्त्रम्' ।

मन्त्रार्थः ( प्रजापतिः त्रिष्टुप्, इन्द्रः दक्षिणकर्णजपे)—हे मघवन् इन्द्र ! अस्मे-अस्मैपुत्राय, विश्ववारस्य-विश्वैः-सर्वैः वरणीयस्य, भूरेः-प्रचुरस्य, रायः-धनस्य, अत्र द्वितीयार्थे षष्ठी । एतादृशं धनमित्यर्थः । प्रयन्धि-देहि । अस्मे-अस्मिन् , जीवसे-जीवितुं, शरदः शतम्, अधाः-निधेहि । पुनश्च हे शिप्रिन् इन्द्र ! अस्मे-अस्मिन् , शाश्वतः-दीर्घजीविनः, वीरान्-पुत्रान्, अधाः-स्थापय ।

इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे ।
पोषं रयीणामरिष्ठि तनूना ॐ स्वात्मानं वाचः सुदिनत्वमह्नामिति
सव्ये ॥ १-१८-६

ततः सव्ये-वामकर्णे "इन्द्रश्रेष्ठानि" इत्यादिमन्त्रं जपति ।

( ७० )

मन्त्रार्थः (प्रजापतिः त्रिष्टुप् इन्द्रः वामकर्णजपे )— हे इन्द्र ! परमैश्वर्ययुक्त, अस्मे-अस्मिन् कुमारे श्रेष्ठानि-बहुमूल्यानि, द्रविणानि-धनानि, चित्ति-ज्ञानं, दक्षस्य-दक्षप्रजापतेः, सुभगत्त्वं-सौभाग्यं च धेहि-स्थापय “रयीणां धनानां, पोषं-पुष्टिं, तनूनाम्-अवयवानाम्, अरिष्ट्टि-नीरोगत्वं, वाचः-ऋण्याः, स्वात्मानं-माधुर्यं विशुद्धिं वा, तथा अह्नां-दिवसानां, सुदिनत्वं-स्वानुकूलत्वं च धेहि-विधेहि”

स्त्रियै तु मूर्द्धानमेवावजिघ्रति तूष्णीम् । १-१८-७।

तु-किन्तु, स्त्रियै- स्त्रियाः पुत्रवत्या इतियावत्, मूर्द्धानं-शिरः एव अवजिघ्रति- चुम्बति तूष्णीं- विनामन्त्रम् । अत्र एवकारेण दर्शनजपकर्ण-जपयोर्निवृत्तिः ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां प्रथमकाण्डे
अष्टादशी कण्डिका ।

—४०४—

( अन्नप्रासनम् )
षष्ठे-मासेऽन्नप्राशनम् । १-१९-१

जन्मतः षष्ठे मासे अन्नप्रासनं-अन्नप्रासनाख्यसंस्कारकर्म विधेयम् ।

स्थालीपाकं श्रपयित्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुती जुहोति-
“देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति ।
सा नो मन्द्रेषमूर्जं दुहानाधेनुर्वागस्मानुपसुष्टुतैतु स्वाहेति”
वाजो नो अद्येति च द्वितीयाम् ॥ १-१९-२

स्थालीपाकं— चरूं, श्रपयित्वा आज्यभागौ— आधारपूर्वकौ आज्यभागौ इष्ट्वा—हुत्वा, आज्याहुती—आज्येन गव्यघृतेन द्वे आहुती जुहोति, “देवीं वाचमित्यादिना एकाम् । देवीं वाचं, वाजो नो इति मन्त्रद्वयेन च द्वितीयामाहुतिम् ।

द्वितीयमन्त्रो यथा ( प्रजापतिः अनुष्टुप् अन्नम् आज्यहोमे )—

( ७७१ )

मन्त्रार्थः (प्रजापतिः त्रिष्टुप् वाक् आज्यहोमे)—देवीं-देवसम्बन्धिनीं वाचं-वाणीं, देवाः-प्राणादिवायवः, अथवा देवीं-वाग्देवीं, देवा-ब्रह्मादयः, अजनयन्त- उत्पादितवन्तः । तां- वाणीं, विश्वरूपाः- नानारूपाः ऋषिमूनिबाह्मणादयः पशवः- जीवाः, वदन्ति- भाषन्ते । सा- प्रसिद्धा वाग्देवी, मन्द्रा हर्षविधायिनी, सुष्टुता- शोभनस्तुतियुक्ता सर्वप्रिया (वाक्पक्षे), धेनुपक्षे तु सुखसन्दोह्यत्वादिगुणयुक्ता, धेनुरिव-दोग्धी गौरिव, इषं- रसं क्षीरघृतादि, ऊर्जम्- अन्नं च दुहाना- प्रपूरयन्ती सती, नः- अस्मान्, उपैतु- आगच्छतु ।

द्वितीयमन्त्रो यथा ( प्रजापतिः अनुष्टुप् अन्नम् आज्यहोमे )—
वाजो॒नो अ॒द्य प्र॑सुवाति॒ दानं॒ वाजो॑ दे॒वाँ ऋ॒तुभि॑र्‍क॑ल्पयाति ।
वाजो॒ हि मा॒ सर्व॑वीरं॒ जजान॒ विश्वा॒ आशा॒ वाजप॑तिर्जयेयं॒ स्वाहा॑ ।

स्थालीपाकस्य जुहोति—

घ्राणेनान्नमशीय स्वाहाऽऽपानेन गन्धानशीय स्वाहा
चक्षुषा रूपाण्यशीय स्वाहा, श्रोत्रेण यशोऽशीय स्वाहेति ।
( १-१६-३ )

स्थालीपाकस्य-चरोः, अत्र अवयवलक्षणा षष्ठी । जुहोति—
प्राणेनान्नमशीय स्वाहेत्यादिभिश्चतुर्भिर्मन्त्रैः ।

मन्त्रार्थः— मुखनासिकाभ्यां निःसरन् वायुः प्राणः । तेन अन्नम्-अदनीयम्, अशीय-प्राप्नुयां लभेयम् । मुखनासिकाभ्याम् अन्तः प्रविशन् वायुः अपानः । तेन अपानेन गन्धान्-परिमलान् अशीय-प्राप्नुयाम् । चक्षुषा रूपाणि, श्रोत्रेण यशः-प्रशंसावचनम् अशीय “एतेन मम सर्वाणि इन्द्रियाणि अनुपहतबलानि सन्तु इति प्रार्थना ।

प्राशनान्ते सर्वानूत्सान्त्सर्वमन्नमेकतोद्धृत्याऽथैनं
प्राशयेत् तूष्णी ॐ हन्तेति वा, हन्तकारं मनुष्या इति श्रुतेः ।
१-१६-४

( ७२ )

प्राशनान्ते— स्विष्टकृदाद्याहुत्यनन्तरं संस्रवप्राशनान्ते सर्वान् मधुरादीन् रसान् , सर्वमन्नं भक्ष्यभोज्यलेह्यपेयादि एकतः एकस्मिन् पात्रे उद्धृत्य-संस्थाप्य, अथ- अन्नसंस्थापनानन्तरम् एनं- कुमारं प्राशयेत्- प्राशनं कारयेत् पिता तूष्णीं-विनामन्त्रम् हन्त इति मन्त्रेण वा। कुतः ? "हन्तकारं मनुष्या इति श्रुतेः "हन्तकारं मनुष्या उपजीवन्ति इति श्रवणात् ।

भारद्वाज्या मांसेन वाक्प्रसारकामस्य । १-१६-५

अत्र गुणफलमाह— भारद्वाजी-पक्षिणीविशेषः । तस्याः मांसेन वाक्प्रसारकामस्य—वाचः प्रसारः वाक्प्रसारः वाग्मिता, तां कामयते यः स वाक्प्रसारकामः । अर्थात् कुमारस्य वाक्प्रसारकामनया भारद्वाजी-मांसेन अन्नप्रासनं कारयेत् ।

कपिञ्जलमांसेनाऽन्नाद्यकामंस्य । १-१६-६

अन्नाद्यम्- अन्नम् ओदनः, तत्कामस्यकपिञ्जलमांसेन-कपिञ्जलः कारण्डव भैरवो मयूरो वा केचित् तित्तिरोवेति हरिहरः । तस्य मांसेन अन्नप्राशनम्

मत्स्यैर्जवनकामस्य । १-१६-७

जवनं—वेगगामित्वम् । तत्कामस्य मत्स्यैः अन्नप्राशनम् ।

कृकषाया आयुष्कामस्य । १-१६ ८

आयुष्कामस्य– चिरजीवनाभिलाषिणः, कृकषाया मांसेन अन्नप्रासनम् कृकषा कङ्कणहारिका इति गदाधरः ।

आट्या ब्रह्मवर्चसकामस्य । १-१६-६

यदि कुमारः ब्रह्मवर्चस्वी स्यादिति कामयते तदा आट्या मांसेन अन्नप्रासनम् । आटिः जलचरपक्षिविशेषः ।

सर्वैः सर्वकामस्य । १-१६-१०

सर्वकामस्य— वाक्प्रसारादिसर्वविधकामनोपेतस्य सर्वैः-भारद्वाजादिसर्वविधमांसैः अन्नप्राशनं कारयेत् ।

( ७३ )

अन्नपर्याय वा। ततो ब्राह्मणभोजनमन्नपर्याय वा
ततो ब्राह्मणभोजनम् । १-१६-११

अन्नपर्याय इति अविभक्तिकमार्षम् । अन्नपर्याय- अन्नपर्यायेण अन्नपरि-
पाट्या, अन्नवत् एकीकृत्य प्राशयेत् इति भावः । ततो ब्राह्मणभोजनम् ।
द्विरुक्तिः काण्डसमाप्तिज्ञापिका ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां
प्रथमकाण्डे एकोनविंशी कण्डिका ।

प्रथमः काण्डः समाप्तः ।

— ४०४ —

[ द्वितीयकाण्डः ]
( चूड़ाकरणकेशान्तौ )

सांवत्सरिकस्य चूडाकरणम् । २-१-१

अथ चूडाकरणकेशान्तौ तन्त्रेण सूत्रयति सांवत्सरिकस्येति । सांवत्सरिकस्य—संवत्सरः- अब्दः अतिक्रान्तः यस्य सः सांवत्सरिकः, तस्य कुमारस्य, चूडाकरणं—चूडाकरणसंस्कारं कुर्यात् ।

तृतीये वाऽप्रतिहते । २-१-२

अत्र पक्षान्तरमाह—तृतीये—तृतीयसंवत्सरे, अप्रतिहते—अल्पावशिष्टे, वा इति पक्षान्तरे, अथवा सर्वेषां यथामङ्गलं—यथाकुलाचारं कुर्यात् अग्रिमसूत्रापेक्षया । यस्य कुले नियमो नास्ति तस्य यदृच्छया विकल्पः।

षोडशवर्षस्य केशान्तः । २-१-३

षोडशवर्षस्य—षोडशवर्षाणि अतीतानि यस्य असौ षोडशवर्षः, तस्य सप्तदशे वर्षे केशान्तः—केशान्ताख्यः संस्कारकर्मविशेषः भवति । केशान्ते कालविकल्पाभावात् सर्वे कालविकल्पाः चूड़ाकरण एव न केशान्ते इत्यवगन्तव्यम् ।

यथामङ्गलं वा सर्वेषाम् । २-१-४

सूत्रमिदं चूडाकर्मपरं न केशान्तपरं केशान्ते विकल्पाभावात् इत्युक्तम् । चूडायां तु यथामङ्गलं-यथाकुलाचारम्, असति कुलाचारे स्वेच्छया विकल्प इति बोध्यम् । सर्वेषामिति सर्ववर्णानाम् ।

ब्राह्मणान् भोजयित्वा माता कुमारमादायाप्लाव्याहते वाससी परिधाप्याङ्क आधाय पश्चादग्नेरुपविशति । २-१-५

ब्राह्मणान्-त्रीन् ब्राह्मणान्, भोजयित्वा- भोजनं कारयित्वा माता-जननी, कुमारं- पुत्रम्, आदाय- गृहीत्वा, आप्लाव्य स्नापयित्वा, अहते-नवे सकृद्धौते, वाससी-द्वे वस्त्रे अन्तरियोत्तरीयस्वरूपे परिधाप्य-परिहिते