भारतकोश
संग्रह पर लौटें

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

( ७५ )

कारयित्वा अङ्के- उत्सङ्गे आधाय- स्थापयित्वा, अग्नेः पश्चात्- पश्चिमभागे उपविशति ।

अन्वारब्ध आज्याहुतीर्हुत्वा प्राशनान्ते शीतास्व- प्सूष्णा आसिञ्चति "उष्णेन वाय उदकेनेह्यदिते केशान् वपेति । २-१-६

ततः पिता अन्वारब्धः—ब्रह्मणा स्पृष्टः, आज्याहुतीः—आधारादिस्विष्ट-कृदन्ताः चतुर्दशाहुतीः हुत्वा, प्राशनान्ते—संस्रवप्राशनान्ते, शीतासु—शीतलासु, अप्सु, उष्णा अपः आसिञ्चति—प्रक्षिपति "उष्णेन वाय" इतिमन्त्रेण ।

मन्त्रार्थः (परमेष्ठी, प्रतिष्ठा वायुः आसेचने)— हे वायो ! उष्णेन उदकेन सह एहि-आगच्छ । हे अदिते ! देवमातः ! केशान् वप-केशान् छिन्धि । अथवा केशान् अभिलक्ष्य उष्णजले शीतजलं वप-प्रक्षिप ।

केशश्मश्रून्विति च केशान्ते । २-१-७

केशान्ते—केशान्तकर्मणि, केशान् वप इति स्थाने केशश्मश्रु वप इति मन्त्रे विशेषः ।

अथात्र नवनीतपिण्डं घृतपिण्डं दध्नो वा प्रास्यति । २-१-८

अथ— उष्णोदकसेकानन्तरम्, अत्र- शीतोष्णोदके, नवनीतपिण्डं घृतपिण्डं दध्नः पिण्डं वा प्रास्यति-प्रक्षिपति—

तत आदाय दक्षिणं गोदानमुन्दति- "सवित्रा प्रसूता दैव्या आप उन्दन्तु ते तनू दीर्घायुत्त्वाय वर्चस इति । २-१-६

ततः—ताभ्यः अद्द्भ्यः चुलुकेन एकदेशमादाय दक्षिणं-शिरसो दक्षिण-प्रदेशस्थं, गोदानं-केशसमूहम्, उन्दति=आर्द्रीकरोति "सवित्रा प्रसूता इति

( ७६ )

मन्त्रेण” अत्र गोदानपदेन स्वपतः जनस्य यः शिरोभागः भूमौ स्थाप्यते स उच्यते । गवि भूमौ दोयते इति गोदानमिति विग्रहः । तेन शिरसः पार्श्वत्रयं गोदानपदवाच्यम् ।

मन्त्रार्थः (प्रजापतिः गायत्री आपः क्लेदने;— हे कुमार ! सवित्रा सूर्येण, प्रसूताः—उत्पादिताः देव्याः—दिविभवाः, आपः—जलानि, ते— तव, तनू—शरीरं चूडालक्षणावयवं दीर्घायुत्वाय—दीर्घजीवनलाभाय, वर्चसे—तेजोलाभाय च उदन्तु—क्लेदयन्तु ।

त्रेण्या शलल्या विनीय त्रीणि कुशतरुणान्यन्त- र्दधाति “ओषध इति । २-१-१०

त्रेण्या— त्रिषु स्थानेषु श्वेता त्रेणी तया, शलल्या-शल्यकाख्यपक्ष- कण्टकेन, विनीय—पृथक्कृत्य, पूर्वदिवसाधिवासितायाः केशलतिकायाः अन्तः-मध्ये कुशतरुणानि—दर्भपत्राणि दधाति- धारयति “ओषधे त्रायस्व इति मन्त्रेण”। सम्पूर्णः मन्त्रः—ओषधे त्रायस्व स्वधिते मैनँ हिँसीः

शिवोनामेति लोहक्षुरमादाय निवर्त्तयामीति प्रवपति । २-१-११

शिवोनामेति—शिवोनामासीत्यादिमन्त्रेण, लोहक्षुरं—ताम्रपरिष्कृतं लोहनिर्मितं क्षुरम् आदाय—गृहीत्वा, दक्षिणकरेण निवर्त्तयामीति— निवर्त्तयाम्यायुषे इत्यादिमन्त्रेण, प्रवपति—कुशतरुणमध्ये निदधाति ।

मन्त्रयोः संपूर्णः पाठः— (१) शिवो नामासि स्वधितिस्ते पिता नमस्ते अस्तु मा मा हिंसीः । (शु.य. ३/६३) (२) निवर्त्तयाम्यायुषेऽन्नाद्याय प्रजननाय रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय । (शु.य. ३/६३)

येनावपत् सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो वपतेदमस्यायुष्यञ्जरदष्टिर्यथासदिति सकेशानि प्रच्छिद्यानडुहे गोमयपिण्डे प्रास्यत्युत्तरतो ध्रियमाणे । २-१-१२

( ७७ )

येनावपदित्यादिमन्त्रेण सकेशानि — केशसहितानि, कुशतरुणानि प्रच्छिद्य — खण्डयित्वा अग्नेरुत्तरतः — उत्तरस्यां दिशि भूभागे, ध्रियमाणे—स्थाप्यमाने, आनडुहे — आर्षभे, गोमयपिण्डे, प्रास्यति — प्रक्षिपति ।

मन्त्रार्थः (लम्बायनः पङ्क्तिः सविता कुशतरुणप्रच्छेदने) — येन-प्रसिद्धेन क्षुरेण, विद्वान्-वेदज्ञः, सविता-सूर्यः, सोमस्य राज्ञः, वरुणस्य-जलराजस्य च शिरः अवपत्-मुण्डितवान् । हे ब्रह्माणः ! तेन प्रसिद्धेन क्षुरेण अस्य कुमारस्य इदं-शिरः वपत-मुण्डयत । यथा—येनप्रकारेण इदं-चूडाकरणकर्म अस्य-कुमारस्य आयुष्यम्-आयुषे हितम् अस्तु, कुमारश्च जरदष्टिः-पूर्णायुः असत्-भूयात् ।

एवं द्विरपरं तूष्णीम् । २-१-१३

एवम्—उक्तेन प्रकारेण अपरम्—उन्दनादिगोमयपिण्डस्थापनान्तं कर्म, द्विः—द्विवारं, तूष्णीं—मन्त्ररहितं कुर्यात् ।

इतरयोश्चोन्दनादि । २-१-१४

इतरयोः—पश्चिमोत्तरयोः गोदानयोः, उन्दनादि—क्लेदन-प्रभृति कर्म, चकारात् सकृत् समन्त्रकं द्विवारममन्त्रकं भवति ।

अथ पश्चात् त्र्यायुषमिति । २-१-१५

पश्चिमगोदाने विशेषमाह अथेति-अथ- दक्षिणगोदानकर्मानन्तरं, पश्चात्—पश्चिमगोदाने त्र्यायुषमिति—त्र्यायुषं जमदग्ने इत्यादि-मन्त्रेण, सकेशानि कुशतरुणानि सकृत् प्रच्छिद्य पुनश्च द्विवारम् अमन्त्रकं गोमयपिण्डे प्रक्षिपति । त्र्यायुषमितिमन्त्रः पूर्वं १-१६-७स्थाने प्रदर्शितः ।

अथोत्तरतो-येनभूरिश्चरा दिवं ज्योक्च पश्चाद्धि सूर्यम् ।

तेन ते वपामि ब्रह्मणा जीवात्वे जीवनाय सुश्लोक्याय स्वस्तय इति । २-१-१६

अथ—पश्चिमगोदानकर्मानन्तरम् उत्तरतः—उत्तरगोदाने—

( ७८ )

उन्दनादिगोमयपिण्डनिधानान्ते, येन भूरिरित्यादिमन्त्रेण सकेशानां कुशतरूणां छेदनं कुर्यात् । ततः वारद्वयं विना मन्त्रं पूर्ववत् छेदनम् ।

मन्त्रार्थः (वामदेवः यजुः क्षुरः केशच्छेदने) — येन—ब्राह्मणा, भूरिः—प्रचुरः, चरा—चरणशीलः गतिशीलः वायुः चन्द्रो वा, ज्योक्—चिरं, दिवं—द्युलोकं, पश्चात्—अनन्तरं, सूर्यम्—आदित्यं च चरति—प्रविशति, तेन—प्रसिद्धेन ब्रह्मणा—मन्त्रलक्षणेन अर्थात् मन्त्रसंस्कृत क्षुरेण ते—कुमारस्य, वपामि—मुण्डनं करोमि । किमर्थं वपामि ? जीवातवे—जीवनहेतवे, जीवनाय—आयुषे, सुश्लोक्याय—शोभनयशोलाभाय, स्वस्तये—अविनाशाय ।

त्रिः क्षुरेण शिरः प्रदक्षिणं परिहरति, समुखं केशान्ते यत् क्षुरेण मज्जयता सुपेशसा वप्त्वाऽऽवपति केशाञ्छिन्धि शिरो माऽस्यायुः प्रमोषीः, मुखमिति च केशान्ते । २-१-१७

अनन्तरं त्रिः—त्रीन् वारान्, क्षुरेण-पूर्वोक्तेन, शिरः—कुमारस्य मूर्द्धानं, प्रदक्षिणं—प्रदक्षिणं यथा भवति तथा परिहरति-शिरसः समन्तात् प्रदक्षिणं क्षुरं भ्रामयति, "यत् क्षुरेण इत्यादिना मन्त्रेण" । अत्रापि चकारात् सकृत् समन्त्रकं क्षुरभ्रामणं वारद्वयममन्त्रकम् ।

केशान्ते-केशान्तकर्मणि, समुखं-मुखसहितं शिरः तथैव परिहरति । पुनश्च केशान्ते मन्त्रे मुखमिति पदम् अधिकमावपेत्

मन्त्रार्थः (वामदेवः यजुः क्षुरः भ्रामणे) — हे क्षुर ! यत्-यस्मात्, मज्जयता-एनं कुमारं संस्कुर्वता, सुपेशसा-शोभयता, क्षुरेण-क्षौरसाधनेन, वप्त्वा-मण्डयित्वा, आवपति-गोमयपिण्डे केशान् प्रक्षिपति । अतः अस्य केशान् छिन्धि-अवखण्डय, शिरः-मस्तकं (केशान्ते-शिरो मुखंचेति द्वयं) मा-न, छिन्धि । आयुः-जीवनकालं मा प्रमोषीः-न अपहर ।

ताभिरद्भिः शिरः समुन्द्य नापिताय क्षुरं प्रयच्छति अक्षण्वन् परिवपेति । २-१-१८

( ७६ )

ताभिः- पूर्वोक्ताभिः, अद्भिः- शीतोष्णाभिः, शिरः- कुमारस्य शिरः, समुन्द्य- आर्द्रीकृत्य, नापिताय- क्षौरकर्त्रे, क्षुरं प्रयच्छति-अर्पयति । अक्षण्वन् परिवप इति मन्त्रेण ।

मन्त्रार्थः (वामदेवः यजुः क्षुरः वपने)—अक्षण्वन्- अस्य कुमारस्य शिरः क्षतमकुर्वन् परि- सर्वतः, वप- मुण्डय ।

यथामङ्गल केशशेषकरणम् । २-१-१९

केशशेषकरणं- केशानां शेषकरणं शिखास्थापनमित्यर्थः । यथामङ्गल- यथाकुलाचारं भवति । अत्र कुलाचारानाह लौगाक्षिः "दक्षिणतः कम्बुजवासिष्ठानाम्, उत्तरतोऽत्रिकश्यपानाम्, मुण्डा भृगवः, पञ्चचूडा आङ्गिरसः, वाजसनेयिनामेका, मङ्गलार्थ शिखिनोऽन्ये इति ।

अनुगुप्तमेतठ्ं सकैशं गोमयपिण्डं निधाय गोष्ठे पल्वल उदकान्ते वा । २-१-२०

अनुगुप्तम्- आच्छादितम्, एतं- पूर्वस्थापितं, सकैशं- केशसहितं, गोमयपिण्डं, गोष्ठे- गवां व्रजे, पल्वले- अल्पोदके सरसि, उदकान्ते- उदकसमीपे, वा, निधाय- स्थापयित्वा, कर्म समापयेदिति शेषः ।

आचार्याय वरं ददाति । २-१-२१

आचार्याय- स्वकीयाय आचार्याय, वरम्- आचार्याभिलषितं द्रव्यं ददाति कर्मकर्त्ता पित्रादिः । तदभावे चतुःकार्षापणो वर इति वृद्धाः इति गदाधरः ।

गां केशान्ते । २-१ २२

केशान्ते- केशान्ताख्यसंस्कारकर्मणि, आचार्याय गां ददाति ।

संवत्सरं ब्रह्मचर्यमवपनं च केशान्ते । २-१-२३

केशान्ते- केशान्तकर्मणि, संवत्सरं- संवत्सरपर्यन्तम् "अत्यन्तसंयोगे द्वितीया" ब्रह्मचर्यम् अवपनं च करणीयम् ।

द्वादशरात्रं षड्रात्रं त्रिरात्रमन्ततः । २-१-२४

( ८० )

संवत्सरपर्यन्तं ब्रह्मचर्यादिपालनाशक्तौ द्वादशरात्रं, षड्रात्रम्, अन्ततः—परिशेषे, त्रिरात्रं वा ब्रह्मचर्यम् अवपनं च करणीयम् ।

गर्भाधानादिषु संस्कारकर्मसु पिता एव कर्त्ता, तदभावे अपरः सन्निहितः । एतानि संस्कारकर्माणि स्त्रीशूद्रयोरपि विना मन्त्रेण भवन्ति ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां द्वितीयकाण्डे प्रथमा कण्डिका ॥


( उपनयनम् )

अष्टवर्षं ब्राह्मणमुपनयेत् । २-२-१

अष्टवर्षम्- अष्टौ वर्षाणि जन्मतः अतीतानि यस्य असौ अष्टवर्षः, तं ब्राह्मणम्- द्विजोत्तमम्, उपनयेत्- उपनयनाख्येन संस्कारेण संस्कुर्यात् । आचार्यस्य उप-समीपे, नयनं- प्रापणम् उपनयनशब्देनोच्यते ।

गर्भाष्टमेषु वा । २-२-२

गर्भसहचरितोऽब्दः अष्टमः येषां तानि गर्भाष्टमानि तेषु अतीतेषु, अर्थात् जन्मतः अष्टमे वर्षे उपनयेत् । वा इति पक्षान्तरम् । गर्भाष्टमे इति गदाधरोद्धृतः पाठः । तन्मते गर्भसहिताष्टवार्षिकमुपनयेत् ।

एकादशवर्षं राजन्यम् । २-२-३

एकादशवर्षम्- एकादश वर्षाणि जन्मतः अतीतानि यस्य तादृशं राजन्यं- क्षत्रियम् उपनयेदिति शेषः ।

द्वादशवर्षं वैश्यम् । २-२-४

जन्मतः द्वादश वर्षाणि अतीतानि यस्य तादृशं वैश्यमुपनयेत् ।

यथामङ्गलं वा सर्वेषाम् । २-२-५

वा- अथवा, सर्वेषां- ब्राह्मणक्षत्रियविशां, यथामङ्गलं- यथाकुलाचारम् उपनयनं कारयेदिति विकल्पः ।

( ८१ )

ब्राह्मणान् भोजयेत्तं च । २-२-६

उपनयनकालमभिधाय इदानीं कर्माह—ब्राह्मणान्—त्रीन् ब्राह्मणान्, भोजयेत्—आशयेत्, तं—कुमारं च भोजयेत्

पर्युप्तशिरसमलंकृतमानयन्ति । २-२-७

पर्युप्तशिरसं—परि-सर्वतः उप्तं—मुण्डितं शिरः यस्य स पर्युप्तशिराः तं कुमारम्, अलंकृतं—यथासम्भवसुवर्णादिनिर्मितकटककुण्डलाद्यलंकारैर्भूषितम्, आनयन्ति आचार्यपुरुषाः आचार्यसमीपम् ।

पश्चादग्नेरवस्थाप्य ब्रह्मचर्यमागामिति वाचयति । २-२-८

आचार्यः माणवकम् अग्नेः पश्चात्—पश्चिमभागे स्वस्य दक्षिणतः अवस्थाप्य—अवस्थितं कारयित्वा, ब्रह्मचर्यम् आगाम् इति ब्रूहि इति वाचयति

मन्त्रार्थः—ब्रह्मचर्यं प्रति अहम् आगाम्—आगतोऽस्मि ।

ब्रह्मचार्यसानीति च । २-२-९

ब्रह्मचारी असानि इति ब्रूहि इति आचार्यः माणवकं प्रेरयति । ब्रह्मचारी च आचार्यप्रेरितः ब्रह्मचार्यसानीति च वदेत् ।

मन्त्रार्थः—ब्रह्मकर्म चरतीति एवंशीलो ब्रह्मचारी,असानि—भवामि ।

अथैनं वासः परिधापयति—

येनेन्द्राय बृहस्पतिर्वासः पर्यदधादमृतम् ।
तेन त्वा परिदधाम्यायुषे दीर्घायुत्वाय बलाय वर्चस इति ।
२-२-१०

अथ—वाचनानन्तरम् एनं—कुमारं वासः—शाणादिवासः स्वस्ववर्णविहितं, परिधापयति—परिहितं कारयति आचार्यः ‘येनेन्द्राये’ति मन्त्रेण ।

मन्त्रार्थः(अङ्गिरा बृहती बृहस्पतिः वासः परिधापने)—हे माणवक ! बृहस्पतिः—देवानामाचार्यः, येन-येन विधिना इन्द्राय अमृतम्—अहतं वासः पर्यदधात्—परिधापितवान्, तेन—तेन विधिना, त्वा—त्वां माणवकम् आयुषे—आयुर्लाभाय, दीर्घायुत्वाय—दीर्घजीवनाय, बलाय-

( ८२ )

शक्तिवृद्धये, वर्चसे—तेजोलाभाय च, परिदधामि—परिधापयामि । अत्र अन्तर्धटितोण्यर्थः ।

मेखलां बध्नीते—

इयं दुरुक्तं परिबाधमाना वर्णं पवित्रं पुनती म आगात् ।
प्राणापानाभ्यां बलमादधाना स्वसा देवी सुभगा मेखलेयमिति ।
२-२-११

मेखलां—मुंजात्तृणादिनिर्मितां, बध्नीते—माणवकस्य कटिप्रदेशे प्रादक्षिण्‍येन वेष्टयति आचार्य्यः 'इयं दुरुक्तमित्यादिना ।

मन्त्रार्थः (वामदेवः त्रिष्टुप् मेखला तद्वन्धने)— इयं—मेखला, मे—मम माणवकस्य, दुरुक्तम्—असत्याप्रियादिदुर्भाषितम्, अनुपनीतोऽयमिति अपवादं वा परिबाधमाना—परितः, निराकुर्वाणा, पवित्रं—शुद्धं, वर्णं—ब्राह्मणत्वादि, पुनती—प्रक्षालयन्ती सती, आगात्—आगता, सा इयं मेखला देवी—स्तुत्यादियुक्ता, प्राणापानाभ्यां, बलं—शक्तिम्, आदधाना—अर्पयन्ती, स्वसा—भगिनी, तद्वत् नित्यं हितकारिणी अस्तु इति भावः ।

युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः ।
तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्त इति वा ।
२-२-१२

मेखलाबन्धने मन्त्रविकल्पमाह “युवासुवासा इति—

मन्त्रार्थः (अङ्गिरा बृहती बृहस्पतिः परिधाने)— सुवासा—शोभनं वासः—वस्त्रं यस्य सः, परिवीतः—आच्छादितः, युवा—युवकः, आगात्—आगतः, स वस्त्रधारी जायमानः सन् श्रेयान् भवति । कवयः—क्रान्तदर्शिनः, स्वाध्यः—शुद्धचित्ताः, मनसा देवयन्तः—मनसा स्तुवन्तः, धीरासः—धीमन्तः, तं वस्त्रधारिणम् उन्नयन्ति—उत्कर्षं गमयन्ति प्रशंसन्ति इति भावः ।

तूष्णीं वा । २-२-१३

( ८३ )

वा—पक्षान्तरे, तूष्णीं—विना मन्त्रं, मेखलां बध्नोते ।

यद्यपि पारस्कराचार्येण यज्ञोपवीतधारणं न सूत्रितं, तथापि “एकवस्त्राः प्राचीनावीतिनः”३-१० १८ इति अग्रे प्रेतोदकदाने प्राचीनावीतत्वविधानात् सर्वकर्माङ्गत्वेन सदाधार्यत्वात् कर्काचार्यादिसकलभाष्यकारसम्मतत्वात् सकलदेशशिष्टाचाराच्चात्र यज्ञोपवीतं ग्राह्यं शाखान्तरमन्त्रेण । स मन्त्रो यथा—

यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ।

मन्त्रार्थः (गौतमात्रिभरद्वाजाः त्रिष्टुप् ब्रह्मविष्णुमहेश्वरा यज्ञोपवीताभिमन्त्रणे)— यत् प्रसिद्धं, यज्ञोपवीतं— यज्ञाय—यज्ञहेतवे उप— उपरि स्कन्धदेशे वीतं—परिहितं कार्पासादिसूत्रनिर्मितं, तत् परमं— पर आत्मा मीयते ज्ञायते अनेनेति परमं, तस्य मन्त्रोपदेशाधिकारहेतुत्वात्, पवित्रं—शोधकं, पुरस्तात्—सृष्टेः पूर्वं, प्रजापतेः—ब्रह्मणः, सहजं— सहजातम्, आयुष्यम्—आयुषे हितम् आयुष्यकरजपादिकर्मसु उपादेयत्वात् “सदोपवीतिना भाव्य”मित्यादिवचनात् । अग्र्यं—मुख्यं, शुभ्रं— निर्मलं, तत् यज्ञोपवीतं, प्रतिमुञ्च—धारय । प्रतिपूर्वो मुञ्चतिर्धारणे वर्त्तते इति शत्रुघ्नः । प्रतिपूर्वो मुञ्चतिर्बन्धनार्थ इति गदाधरः । तन्मते प्रतिमुञ्च—बध्नामि इत्यर्थः । एतस्य यज्ञोपवीतस्य ग्रहणेन बलं— शक्तिः, तेजः—कान्तिश्च अस्तु ।

अथ ऐणेयमजिनं प्रयच्छति मित्रस्यचक्षुरित्यादिमन्त्रेण हरिहरादिनिर्देशात् । मन्त्रो यथा—

“मित्रस्य चक्षुर्द्धरुणं बलीयस्तेजो यशस्वी स्थविरं समिद्धम्
अनाहनस्यं वसनं जरिष्णुः परीदं वाज्यजिनं दधेऽहम् ।

दण्डं प्रयच्छति । २-२-१४

अथ आचार्यः माणवकाय दण्डं—पालाशादिवृक्षोद्भवं प्रयच्छति ।

( ८४ )

तं प्रतिगृह्णाति—

यो मे दण्डः परापतद् वैहायसोऽधिभूम्याम् ।
तमहं पुनरादद आयुषे ब्रह्मणे ब्रह्मवर्चसाये'ति । २-२-१५

तम्— आचार्यदत्तं दण्डं प्रतिगृह्णाति— स्वीकारोति माणवकः “यो मे दण्ड” इति मन्त्रेण ।
मन्त्रार्थः (प्रजापतिः यजुः दण्डः तद् ग्रहणे — हे आचार्य ! यः— सुप्रसिद्धः, वैहायसः— विहायसि—आकाशे भवः दण्डः अधिभूम्यां— भूमेः उपरि, मे— मह्यं मदर्थं, परापतत्— आगच्छत्, तं— दण्डम्, अहं— माणवकः आयुषे— आयुर्लाभाय, ब्रह्मणे— वेदलाभाय, ब्रह्मवर्चसाय— वैदिकतेजोलाभाय च पुनः आददे— गृह्णामि । दण्डस्य स्कन्धस्थापनेन पुनरूर्ध्वगमनमिति पुनःशब्दस्यार्थः ।


दीक्षावदेके दीर्घसत्रमुपैतीति वचनात् । २-२-१६

एके— एके आचार्याः, दीक्षावत्— सोमयागे दीक्षायां यथा दण्डप्रदानं तथा अत्र दण्डग्रहणम् इच्छन्ति । तत्र “उच्छ्रयस्व वनस्पत” इत्यादिमन्त्रेण यजमानः दण्डं गृह्णाति, तद्वदत्र ब्रह्मचारी गृह्णातीति तेषां मतम् । तत्र ते कारणमाहुः— 'दीर्घसत्रमुपैतीतिवचनात्— 'दीर्घसत्रं वा एष उपैति यो ब्रह्मचर्यमुपैति” इत्यारभ्य ब्रह्मचर्यस्य दीर्घसत्रसम्पत्प्रतिपादकवचनबलात् ।


अथास्याऽद्भिरञ्जलिनाऽञ्जलिं पूरयति-

आपोहिष्ठेति तिसृभिः । २-२-१७

अथ— दण्डप्रदानान्तरम्, आचार्यः अस्य— माणवकस्य अञ्जलिम्, अञ्जलिना— निजाञ्जलिना अप आदाय ताभिरद्भिः पूरयति “आपोहिष्ठेत्यादिभिः तिसृभिः ऋग्भिः” । ताश्च ऋचः १-८-६ सूत्रव्याख्यानावसरे प्रदर्शिताः ।


अथैनठूं सूर्यमुदीक्षयति—तच्चक्षुरिति । २-२-१८

( ८५ )

अथ— अञ्जलिपूरणानन्तरम्, आचार्यः एनं—माणवकं, 'सूर्यम् उदीक्षस्व' इति प्रैषेण सूर्यम्—आदित्यम्, उदीक्षयति—उर्ध्वमुखं कारयित्वा प्रदर्शयति । स च प्रेषितः माणवकः "तच्चक्षुरिति मन्त्रं पठन् पश्यति । स च मन्त्रः १-१७-६ सूत्र व्याख्यायां दर्शितः ।

अथाऽस्य दक्षिणाँ समधि हृदयमालभते— मम व्रते ते हृदयं दधामि मम चित्तमनुचित्तं ते अस्तु । मम वाचमेकमना जुषस्व बृहस्पतिष्ट्वा नियुनक्तु मह्यमिति । २-२-१९

अथ—सूर्यदर्शनानन्तरम्, अस्य—माणवकस्य, दक्षिणांसम् अधि—दक्षिणस्कन्धस्य उपरि स्वं दक्षिणहस्तं नीत्वा, माणवकस्य हृदयं—वक्षः, आलभते—स्पृशति "मम व्रते ते" इत्यादिना मन्त्रेण । व्याख्यातश्चेदृशो मन्त्रः(१-१-८) विवाहप्रकरणे । तत्र 'प्रजापतिस्त्वा नियुनक्तु मह्यमिति, अत्र तु प्रजापतिस्थाने बृहस्पतिरिति विशेषः ।

बृहस्पतिः—बृहतां—मन्त्राणां पतिः ।

अथाऽस्य दक्षिणं हस्तं गृहोत्वाऽऽह को नामाऽसीति । २-२-२०

अथ—हृदयालम्भनानन्तरम, अस्य—माणवकस्य, दक्षिणं हस्तं स्वदक्षिणहस्तेन गृहीत्वा "को नामासि" इति आह—वदति आचार्यः ।

असावहं भो ! इति प्रत्याह । २-२-२१

माणवकः "असावहं भो !—असौ अमुकशर्माऽहं भो ! इति प्रत्याह—प्रतिवचनं करोति ।

अथैनमाह कस्य ब्रह्मचार्यसीति । २-२-२२

अथ—प्रतिवचनानन्तरम्, एनं—माणवकं "कस्य ब्रह्मचार्यसि" इति पृच्छति आचार्यः ।

( ८६ )

भवत इत्युच्यमान इन्द्रस्य ब्रह्मचार्यस्य-
ग्निराचार्यस्तवाहमाचार्यस्तवासाविति । २-२-२३

भवत इति—भवतः इति भवत एव ब्रह्मचारी अस्मि इति माणवकेन उच्यमाने आचार्यो वदति "असौ अमुकशर्मन् इन्द्रस्य ब्रह्मचारी असि, अग्निराचार्यस्तव—तव आचार्यः अग्निरेव, अहं तव आचार्यः।

अथैनं भूतेभ्यः परिददाति—
प्रजापतये त्वा परिददामि, देवाय त्वा सवित्रे ।
परिददाम्यद्भ्यस्त्वौषधिभ्यः परिददामि
द्यावापृथिवीभ्यां त्वा परिददामि विश्वेभ्यस्त्वा देवेभ्यः
परिददामि, सर्वेभ्यस्त्वा भूतेभ्यः परिददाम्यारिष्ट्या इति ।
२-२-२४

अथ—अनन्तरम्, आचार्यः एनं—माणवकं, भूतेभ्यः—प्रजापति-प्रभृतिभ्यः, परिददाति—परितः रक्षणार्थं प्रयच्छति, "प्रजापतये त्वा इत्यादिना मन्त्रेण।

मन्त्रार्थः सुगमः ( प्रजापतिः यजुः प्रजापत्यादयः रक्षणे ) । प्रजापतिः—स्रष्टा । भूतानि द्यावापृथिव्यादीनि पञ्च । अरिष्ट्यै—रक्षायै ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां
द्वितीयकाण्डे द्वितीया कण्डिका ॥

— ४०४ —

( ८७ )

प्रदक्षिणमग्निं परीत्योपविशति । १

परिदानान्तरं माणवकः अग्निं प्रदक्षिणं यथा स्यात्तथा परीत्य-परिक्रम्य, उपविशति अग्नेः पश्चात्—पश्चिमायां दिशि, आचार्यस्योत्तरभागे ।

अन्वारब्ध आज्याहुतीर्हुत्वा प्राशनान्तेऽथैनं सं
शास्तिब्रह्मचार्यस्यपोशान, कर्म कुरु, मा दिवा सुषुप्या,
वाचं यच्छ, समिधमाधेह्यपोशानेति । २

ततः—अन्वारब्धः—ब्रह्मणा स्पृष्टः आचार्यः, आज्याहुतीः—आघारादिस्विष्टकृदन्ताश्चतुर्दशाहुतीः, हुत्वा प्राशनान्ते—संस्रवप्राशनान्ते अथ—अनन्तरम्, आचार्यः, एनं—समीपे वर्त्तमानं माणवकं संशास्ति—शिक्षयति । यथा—ब्रह्मचारी असि इत्याचार्येण पृष्टः अशानि इति माणवकः ब्रूयात् । तथा अपोऽशान इत्युक्तः अशानि इति, कर्म कुरु इत्युक्तः करवाणि इति, मा दिवा सुषुप्या इत्युक्तः न स्वपामि इति, वाचं यच्छ इत्युक्तः यच्छानि इति, समिधमाधेहि इत्युक्तः आदधानि इति, अपोऽशान इत्युक्तः अशानि इति ब्रूयात् । यच्छ-नियमय । आधेहि—अग्नौ प्रक्षिप ।

अथास्मै सावित्रीमन्वाहोत्तरतोऽग्नेः प्रत्यङ्मुखायोपविष्टायो-
पसन्नाय समीक्षमाणाय समीक्षिताय । ३

अथ— अनुशासनानन्तरम् आचार्यः अग्नेः उत्तरतः—उत्तरस्यां दिशि उपविष्टाय, प्रत्यङ्मुखार्थ— पश्चिमाभिमुखाय, उपसन्नाय—पादोपसंग्रहणादिना भजमानाय, तथा, समीक्षमाणाय—सम्यगाचार्यमवलोकयते, समीक्षिताय—आचार्येण अवलोकिताय अस्मै—प्रागुक्ताय ब्रह्मचारिणे, सावित्रीं—सवितृदेवत्यां “तत्सवितु”रिति ऋचम् अन्वाह—उपदिशति ।

दक्षिणतस्तिष्ठत आसीनाय वैके । ४

( ८८ )

एके— एके आचार्याः, दक्षिणतः— अग्नेर्दक्षिणभागे, तिष्ठते— दण्डायमानाय वा—पक्षान्तरे आसीनाय— उपविष्टाय सावित्रीं दद्यादिति मन्यन्ते ।

पच्छोऽर्द्धर्चशः सर्वां च तृतीयेन सहानुवर्त्तयन् । ५

सावित्रीप्रदानप्रकारमाह— पच्छः— पादशः, प्रथमं पादं पादं शिक्षयेदिति भावः । ततः अर्द्धर्चशः, अर्द्धर्चम् अर्द्धर्चम् इतिकृत्वा शिक्षयेत् । ततः तृतीयेन वारेण सर्वाम् ऋचं, सह—मिलित्वा अनुवर्त्तयन् पठन्, शिक्षयेदिति शेषः ।

संवत्सरे षड्मास्ये चतुर्विंशत्यहे द्वादशाहे षडहे त्र्यहे वा । ६

सावित्रीप्रदानस्य कालविकल्पमाह— संवत्सरे— उपनयनदिवसमारभ्य पूर्णे वर्षे, षड्मास्ये—षड् एव मासाः षड्मास्यम् , स्वार्थे तद्धितश्छन्दसश्च वृद्धिलोपः, छन्दोवत् सूत्राणि भवन्ति” इति वचनात् “तस्मिन् षड्मास्ये पूर्णे, सप्तममासे इत्यर्थः । चतुर्विंशत्यहे—चतुर्विंशत्या अहोभिरुपलक्षितः कालः चतुर्विंशत्यहः तस्मिन्, तथा द्वादशाहे— द्वादशभिरहोभिरुपलक्षितः कालः द्वादशाहस्तस्मिन्, तथा षडहे, त्र्यहे वा सावित्रीं ब्रूयात् । एते कालविकल्पाः शिष्यगुणतारतम्यापेक्षया द्रष्टव्याः ।

सद्यस्त्वेव गायत्रीं ब्राह्मणायाऽनुब्रूयादाग्नेयो वै ब्राह्मण इति श्रुतेः

तु—किन्तु, सद्यः—उपनयनदिवस, एव—निश्चयेन, ब्राह्मणाय—ब्राह्मणब्रह्मचारिणे, गायत्रीं—तत्सवितुरित्यादिकाम् ऋचम्(शु य.३/३५) अनुब्रूयात्— उपदिशेत् । अत्र कारणमाह— “आग्नेयो वै ब्राह्मणः सद्योवाग्निर्जायते, तस्मात् सद्य एव ब्राह्मणायानुब्रूयात्” इति श्रुतिवचनात्आग्नेयः—अग्निदेवत्यः । एतेन संवत्सरादिकालविकल्पः क्षत्रियवैश्ययोरेवेति ज्ञायते ।

त्रिष्टुभं राजन्यस्य । ८

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF

( ८६ )

त्रिष्टुपं छन्दः यस्याः सा त्रिष्टुप्। तां त्रिष्टुभं—सावित्रीं राजन्यस्य—क्षत्रियस्य ब्रह्मचारिणः अनुब्रूयात्।
त्रिष्टुप् सावित्री यथा—
'देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय।
दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस्पतिर्वाजं नः
स्वदतु स्वाहा”। यजुः ९-१
भर्तृयज्ञमतेन "तां सवितु"रित्यादि मन्त्रः यजुः १७-७४

जगतीं वैश्यस्य । ६

जगतीं—जगतीछन्दस्कां सावित्रीं वैश्यस्य ब्रह्मचारिणः अनुब्रूयात् ।
जगती सावित्री यथा—
"विश्वा, रूपाणि प्रतिमुञ्चते कविः प्रासावीद् भद्रं द्विपदे चतुष्पदे ।
विनाकमख्यत् सविता वरेण्योऽनु प्रयाणमुषसो विराजति । यजुः १२-३
भर्तृयज्ञमतेन “युञ्जते मन इत्यादि मन्त्रः । यजुः ५-१४

सर्वेषां वा गायत्रीम् । १०

वा – पक्षान्तरे, सर्वेषां—ब्राह्मणक्षत्रियविशां ब्रह्मचारिणां गायत्रीं—गायत्रीछन्दस्कां 'तत्सवितु'रित्यादिकां सावित्रीम् अनुब्रूयात् ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां
द्वितीयकाण्डे तृतीया कण्डिका ॥

— ४८४ —

अत्र समिदाधानम् । १

अत्र—सावित्रीप्रदानोत्तरकाले, समिदाधानम्—अग्नौ समिधाम्—आधानं—प्रक्षेपः, ब्रह्मचारिणो भवति, सावित्रीग्रहणानन्तरं तस्य होमेऽधिकारात् । नेतः पूर्वम् । तस्य अनधिकारित्वात् । 'शूद्रेण हि समस्तावद् यावद् वेदे न जायते" इति मनुवचनात् । अस्मिन् सूत्रे अत्रशब्दः अग्निपर इति कर्कगदाधरौ । तन्मते अत्र—अग्नौ इति अर्थः । नायमर्थः उपयोगी । समिदाधानस्य अग्नावेव, विधीयमानत्वेन सिद्धत्वात्


Nepal Sanskrit University, Balmeeki Campus, Kathmandu

( ६० )

प्रदक्षिणमग्निं पर्युक्ष्येत्यादि वक्ष्यमाणसूत्रे तथा निर्देशाच्च ।

पाणिनाऽग्निं परिसमूहति—

अग्ने ! सुश्रवः सुश्रवसं मा कुरु । यथा त्वमग्ने
सुश्रवः सुश्रवा असि एवं मार्ठं सुश्रवःसौश्रवसं
कुरु । यथा त्वमग्ने देवानां यज्ञस्य निधिपा असि,
एवमहं मनुष्याणां वेदस्य निधिपो भूयासमिति । २

पाणिना— दक्षिणहस्तेन, अग्निम्—उपनयनाङ्गहोमाधिकरणं, परिसमूहति— इन्धनप्रक्षेपेण सन्धुक्षयति "अग्ने सुश्रवः इत्यादिभिः पञ्चभिर्मन्त्रैः । केषांचित् मते एते त्रयो मन्त्राः । तन्मते कुरु कुरु भूयासमिति पदेषु मन्त्रसमाप्तिः ।

मन्त्रार्थः(प्रजापतिः यजुः अग्निः समिन्धने)—हे सुश्रवः—सु-शोभनं श्रवः—कीर्त्तिः यस्यासौ सुश्रवाः तत्सम्बोधने सुश्रवः—सुकीर्त्ते ! अग्ने ! मा—मां ब्रह्मचारिणं सुश्रवसं शोभनकीर्तियुक्तं कुरु । हे सुश्रवः अग्ने, यथा—येन प्रकारेण त्वं सुश्रवा—कीर्त्तिमान् असि—भवसि, एवम्—अनेन प्रकारेण, मां ब्रह्मचारिणं, सुस्रवःसौश्रवसं—सुस्रवसः—शोभनकीर्तियुक्तस्य गुरोः शिष्यत्वेन सुश्रवसः अयं सौश्रवसः इति अनेनप्रकारेण मां सौश्रवसं कुरु । अर्थात् मां मम गुरुं च कीर्त्तिमन्तं कुरु । हे अग्ने ! त्वं यथा देवानां यज्ञस्य च निधिपा—निधिरक्षकः असि—भवसि, एवम् अहम् मनुष्याणां वेदस्य च निधिपा—रक्षकः भूयासम्—भवेयम् ।

प्रदक्षिणमग्निं पर्युक्ष्योत्तिष्ठन् समिधमादधाति—

"अग्नये समिधमाहार्षं बृहते जातवेदसे, यथा त्वमग्ने
समिधा समिध्यस एवमहमायुषा, मेधया, वर्चसा प्रजया,
पशुभिर्ब्रह्मवर्चसेन समिन्धे, जीवपुत्रो ममाचार्यो मेधाव्यह-
मसान्यनिराकरिष्णुर्यशस्वी तेजस्वी ब्रह्मवर्चस्यन्नादो भूयासठ्ँ
स्वाहेति । ३

( ६१ )

ततः ब्रह्मचारी, प्रदक्षिण—प्रदक्षिणरीत्या अग्निं पर्युक्ष्य—दक्षिण-हस्तगृहीतेन उदकेन परिषिच्य, उत्तिष्ठन्—प्राङ्मुखः तिष्ठन् समिधं—समिध्यते दीप्यते अग्निरनयेति समित् ताम्, आदधाति—प्रक्षिपति, "अग्नये समिधमाहार्ष"मित्यादिना मन्त्रेण ।

मन्त्रार्थः (प्रजापतिः आकृतिः अग्निः तदाधाने —अहं ब्रह्मचारी, बृहते—महते, जातवेदसे—जातं जातं वेत्तीति जातवेदाः तस्मै, अग्नये—अग्न्यर्थम् अग्निपरितोषायेति यावत्, समिधम् आहार्षम्—आहृतवानस्मि । हे अग्ने ! त्वं यथा—येनप्रकारेण समिधा—मद्दत्तया, समिध्यसे—दीप्यसे, एवम्—अनेन प्रकारेण अहं—ब्रह्मचारी, आयुष—जीवनकालेन, मेधया—धारणावत्या बुद्ध्या, वर्चसा—तेजसा, प्रजया—पुत्रादिभिः, पशुभिः—गवादिभिः ब्रह्मवर्चसेन—वेदार्थज्ञानेन, समिन्धे—सन्दीपितो भवामि । मम—ब्रह्मचारिणः आचार्यः—"यस्माद्धर्म्मानचिनोति स आचार्य इत्युक्तलक्षणः, जीवपुत्रः—दीर्घायुःपुत्रयुक्तः अस्तु । अहं च मेधावी—मेधा-धारणशक्तिः तद्युक्तः असानि—भवामि "तथा अनि-राकरिष्णुः—अविस्मरणशीलः, यशस्वी, तेजस्वी, ब्रह्मवर्चसी अन्नादः—अन्नभक्षणसमर्थश्च भूयासम्—भवेयम् 'स्वाहा-सुहुतमस्तु' ।

एवं द्वितीयां तथा तृतीयाम् । ४

एवम्—अनेन मन्त्रेण द्वितीयां—द्वितीयां समिधं, तथा—तेनैव मन्त्रेण तृतीयां—तृतीयां समिधं च आदधाति !

एषा त इति वा । ५

समिदाधाने मन्त्रविकल्पमाह—एषा ते अग्ने इत्यादिना मन्त्रेण वा—पक्षान्तरे समिदाधानं कुर्यात् ।

एषा त इति मन्त्रो यथा—

एषा ते अग्ने समित्तया वर्द्धस्व चाचप्यायस्व । वर्द्धिषीमहिच वयमाचप्यासिषीमहि। अग्ने वाजजिद् वाजं त्वा ससृवाꣳसं वाजजितꣳसंमार्ज्म । यजुः २-१४

समुच्चयो वा । ६

अथवा "अग्नये समिधमाहार्ष"मित्यादिमन्त्रः तथा "एषाते अग्ने

( ६२ )

इत्यादिमन्त्रश्च अनयोः द्वयोः समुच्चयः—ऐक्यं समिदाधाने। एतस्मिन् समुच्चयपक्षे मन्त्रद्वयपाठान्ते समित्प्रक्षेपः विधेयः।

पूर्ववत् परिसमूहनपर्युक्षणे । ७

पूर्ववत्—पूर्वं यथा उपदिष्टं तद्वत् ‘अग्ने सुश्रव” इत्यादिभिर्मन्त्रैः परिसमूहनं कर्त्तव्यं तथा पर्युक्षणमपि।

पाणी प्रतप्य मुखं विमृष्टे—

तनूपा अग्नेऽसि तन्वं मे पाहि । आयुर्दा अग्नेऽस्यायुर्मे देहि । वर्चोदा अग्नेऽसि वर्चो मे देहि । अग्ने यन्मे तन्वा ऊनं तन्म आपृण । मेधां मे देवः सविता, मेधां मे देवी सरस्वती, मेधामश्विनौ देवावाधत्तां पुष्करस्रजाविति । ८

पाणी—करतलौ, प्रतप्य—अग्नौ तूष्णीं तापयित्वा, मुखं—ललाटादिचिबुकान्तं, विमृष्टे—प्रोञ्छति "तनूपा अग्नेऽसि इत्यादिभिः सप्तभिर्मन्त्रैः। पञ्चमषष्ठमन्त्रयोः सवितासरस्वतीपदानन्तरम् आदधातु इति पदं योज्यम्।

मन्त्रार्थः सुगमः "यत् मे—मम ब्रह्मचारिणः तन्वा—शरीरस्य ऊनं—न्यूनता अस्ति, मे—मम तत्—न्यूनम् आपृण–पूरय इति प्रार्थना।

अत्र अङ्गालम्भनत्र्यायुषकरणाभिवादनानि गृह्यकारानुक्तान्यपि आचारतोऽनुष्ठेयानीति हरिहरादयः।

इति पारस्करगृह्यसूत्रव्याख्यायो मार्गदर्शिन्यां द्वितीयकाण्डे चतुर्थी कण्डिका।


अत्र भिक्षाचर्यचरणम् । १

अत्र—एतदवसरे समिदाधानानन्तरं, भिक्षाचर्यचरणं—भिक्षाचर्यानुष्ठानम्।

भवत् पूर्वा ब्राह्मणो भिक्षेत । २

( ६३ )

भवत्पूर्वां—भवच्छब्दः पूर्वः यस्याः सा भवत्पूर्वा तां भिक्षां, ब्राह्मणः—ब्राह्मणब्रह्मचारी भिक्षेत—याचेत । यथा— “भवति भिक्षां देहि” इति ।

भवन्मध्यां राजन्यः । ३

भवच्छब्दः मध्ये यस्याः सा भवन्मध्या तां भिक्षां राजन्यः—क्षत्रियः ब्रह्मचारी भिक्षेत । यथा “भिक्षां भवति ! देहि” इति ।

भवदन्त्यां वैश्यः । ४

भवच्छब्दः अन्त्यः यस्याः सा भवदन्त्या, तां भिक्षां वैश्यः ब्रह्मचारी भिक्षेत, यथा “भिक्षां देहि भवति” इति ।

तिस्रोऽप्रत्याख्यायिन्यः षड् द्वादशाऽपरिमिता वा । ५

प्रत्याख्यातुं—निराकर्तुं शीलं यासां ताः प्रत्याख्यायिन्यः, न प्रत्याख्यायिन्यः—अप्रत्याख्यायिन्यः । अत्र द्वितीयार्थे प्रथमा । अतएव एवम्भूताः तिस्रः स्त्रीः भिक्षेत । षड् वा द्वादश वा अपरिमिता वा स्त्रीः भिक्षेत इति विकल्पाः देशकालावस्थादृष्ट्या आदरणीयाः ।

मातरं प्रथमामेके । ६

एके आचार्याः मातरं—जननीं प्रथमाम्—अप्रत्याख्यायिनीषु आद्यां मन्यन्ते ।

आचार्याय भैक्षं निवेदयित्वा वाग्यतोऽहःशेषं तिष्ठेदित्येके । ७

आचार्याय—गुरवे, भैक्षं—भिक्षालब्धान्नं निवेदयित्वा—निवेद्य वाग्यतः—मौनी अहःशेषं—यावदस्तमयं, तिष्ठेत्— न उपविशेत् न शयीत इति एके आचार्या मन्यन्ते ! अस्माकं मते तु अत्र न नियमः ।

अहिंत्सन्नरण्यात् समिध आहृत्य तस्मिन्नग्नौ पूर्ववदाधाय वाचं विसृजते । ८

अहिंसन्—अच्छिन्दन्, अरण्यात्—न तु ग्रामात्, समिध आहृत्य—आनीय, तस्मिन्नग्नौ—यत्र उपनयनाङ्गहोमः कृतस्तस्मिन्नग्नौ, पूर्ववत्—समूहनादित्यायुषकरणान्तविधिना, आधाय—हुत्वा, वाचं विसृजति—

( ६४ )

मौनं त्यजति । अयं नियमः वाग्यमपक्षे इति भाष्यकाराः ।

अधः शाय्यक्षारालवणाशी स्यात् । ९

इत आरभ्य ब्रह्मचारिणो यमनियमा उच्यन्ते । ब्रह्मचारी अधः-शायी—अधः शयितुं शीलमस्य इति अधःशायी, पुनः अक्षारालवणाशी- अक्षारं च अलवणं च अशितुं शीलमस्येति अक्षारालवणाशी स्यात्—भवेत् ।

दण्डधारणमग्निपरिचरणं गुरुशुश्रूषा भिक्षाचर्या । १०

दण्डधारणं—दण्डस्य स्ववर्णविहितस्य पालाशादेः शास्त्रोक्तलक्षणलक्षितस्य धारणं—ग्रहणम्, अग्निपरिचरणम्—अग्नेः परिचरणं,—सायं प्रातः परिसमूहनादित्यायुषान्तसमिदाधानं, गुरुशुश्रूषा—गुरोः परिचर्या, भिक्षाचर्या—भिक्षार्थं चर्या भैक्षचरणमितियावत् ।

मधुमांसमज्जनोपर्यासनस्त्रीगमनानृतादत्तादानानि वर्जयेत् । ११

मधु—क्षौद्रं, मांसं—पललं, मज्जनं—नद्यादौ प्लवनं, स्नानं तु उद्धृतोदकेन विधेयम् । उपर्यासनम्—उपरि खट्वादौ आसनम्—उपवेशनम्, आसनस्योपरि मसूरिकाद्यासनं वा, स्त्रीगमनं—स्त्रीणां मध्ये अवस्थानम्, अनृतम्—असत्यभाषणम्, अदत्तादानम्—अदत्तस्य परद्रव्यस्य आदानं—ग्रहणं स्तेयमित्यर्थः । एतानि मध्वादीनि ब्रह्मचारी वर्जयेत् ।

अष्टचत्वारिंशद् वर्षाणि वेदब्रह्मचर्यं चरेत् । १२

अष्टाभिरधिकानि चत्वारिंशत् अष्टचत्वारिंशत् तानि वर्षाणि अत्रनैरन्तर्ये द्वितीया, वेदब्रह्मचर्यं—वेदार्थं ब्रह्मचर्यं चरेत्—आचरेत् । अत्र पक्षे चतुर्णां वेदानामेक एव व्रतादेशः ।

द्वादश द्वादश वा प्रतिवेदम् । १३

एकवेदादेशासामर्थ्ये प्रतिवेदं—वेदं वेदं प्रति द्वादशवर्षाणि ब्रह्मचर्यं चरेत् ।

यावद् ग्रहणं वा । १४