भारतकोश
संग्रह पर लौटें

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

५८ सात्वतसंहिता मध्ये प्राग्दक्षिणस्यां च सितरक्तेन तेजसा । वासुदेवो जगन्नाथो भावनीयो महामते ॥ २५ ॥ पूर्व और दक्षिण के मध्य वाले दस में सित और रक्त कान्ति वाले भगवान् जगन्नाथ वासुदेव की आराधना करे ॥ २५ ॥ अतिशुद्धाशयत्वेन स्फटिकोपलवद् विभुः । स्थानभेदं समासाद्य स च कान्तिद्वयात्तु वै ॥ २६ ॥ गृह्णाति शबलं रूपमुपसंहारलक्षणम् । अत्यन्त शुद्ध स्वरूप होने के कारण एवं स्फटिक मणि के समान वे प्रभु स्थान भेद के कारण दो-दो रंग की कान्ति से संहार लक्षण शबल रूप धारण करते हैं ॥ २६-२७ ॥ जाग्रतव्यूहमन्त्रचतुष्टयोद्धारः क्रमशोऽथ चतुर्णां वै वक्ष्ये मन्त्रगणं शृणु ॥ २७ ॥ अक्षान्तर्गतमादाय नाभेः पूर्वमतः परम् । भि(त्रे? त्रं) नाभिद्वितीयेन नेमिपूर्वमतः परम् ॥ २८ ॥ नाभिपञ्चमसंयुक्तं दशमात् प्रथमं ततः । तृतीयं च द्वितीयं च नेमेरादाय चाङ्कयेत् ॥ २९ ॥ नाभिद्वितीयबीजेन नवमादपरं ततः । तदधो विनियोक्तव्यं द्वितीयं द्वादशात्तु यत् ॥ ३० ॥ पञ्चमेनाथ वै नाभेर्युक्तं कुर्यादनन्तरम् । अष्टमादपरं शुद्धं नेमिपूर्वं तथाविधम् ॥ ३१ ॥ युक्तं नाभिद्वितीयेन द्वितीयं नेमिमण्डलात् । भूयस्तत्केवलं दद्यात् पदं योगेश्वराय वै ॥ ३२ ॥ तदन्ते चक्रिणे शब्दमथ नेमेर्यदष्टकम् । पश्चिमेनान्वितं नाभेस्तदन्ते विनिवेश्य च ॥ ३३ ॥ शुद्धमेकादशात् पूर्वमाद्यं तदनु चाष्टमात् । नेमेस्तृतीयेनाक्रान्तं ध्वजायाथ पदं न्यसेत् ॥ ३४ ॥ भिन्नमेकादशात् पूर्वं नाभितुर्येण वै ततः । अष्टमादपरं शुद्धं पञ्चमं नेमिमण्डलात् ॥ ३५ ॥ द्वितीयं स्वरसंयुक्तं ससेऽथ द्व्यक्षरं पदम् । वासुदेवाय तदनु सनमस्कं पदं भवेत् ॥ ३६ ॥ ततस्तन्मन्त्रानाह—क्रमशोऽथ चतुर्णामित्यादिभिः ।

पञ्चमः परिच्छेदः ५९ 'अक्षान्तर्गतमादायत्यारभ्य पदं पदविदांवरेत्यन्तम् 'ॐ अमाधुरायाद्भूतमयाय योगेश्वराय चक्रिणे सुपर्णध्वजाय पीतवाससे वासुदेवाय नमः' इति षट्त्रिंशदक्षरो मन्त्रः समुद्धृतो भवति ॥ २७-३९ ॥ अब इन चारों की आराधना के लिये क्रमशः मन्त्रगणों को कहता हूँ, उसे हे सङ्कर्षण ! सुनिये— 'अक्षान्तर्गतमादाय ... पदविदांवर' पर्यन्त मन्त्रों का उद्धार कहते हैं—मन्त्र का स्वरूप इस प्रकार है—'ॐ अमाधुरायाद्भूतमयाय योगेश्वराय चक्रिणे सुपर्ण- ध्वजाय पीतवाससे वासुदेवाय नमः'। यह ३६ अक्षर का मन्त्र है ॥ २७-३६ ॥ षट्त्रिंशदक्षरो मन्त्रो भेदस्तस्याधुनोच्यते । पदमेकादशार्णं तु प्रथमं परिकीर्तितम्॥ ३७ ॥ पञ्चाक्षरं द्वितीयं तु तृतीयं त्र्यक्षरं स्मृतम् । षडक्षरं चतुर्थं तु पञ्चार्णं पञ्चमं तु वै॥ ३८ ॥ षष्ठं सप्ताक्षरं विद्धि पदं पदविदांवर । हे महामते ! यह ३६ अक्षर का महामन्त्र है, इसमें ११ अक्षर का प्रथम पद है। द्वितीय पद पाँच अक्षर का है। तृतीय पद तीन अक्षर का, चतुर्थ पद छह अक्षर का, पञ्चम पद पाँच अक्षर का, छठाँ पद सात अक्षर का है। इस प्रकार, हे पदविदांवर ! इसके पदों और पदाक्षरों को समझना चाहिए ॥ ३७-३९ ॥ प्रणवान्ते त्वथादाय द्वितीयं नाभिमण्डलात् ॥ ३९ ॥ चतुर्दशेन वै नाभेर्युक्तं नेम्यष्टकं ततः । द्वितीयं दशमाच्छृन्दमथ भूयः समाहरेत् ॥ ४० ॥ तदधो नवमादन्तं नाभेस्तुर्यादिनान्वितम् । एकादशस्वराक्रान्तं द्वितीयं दशमात् ततः ॥ ४१ ॥ बाह्यादथाष्टमं नाभेर्युक्तं पञ्चदशेन तु । केवलं पञ्चमं नेमेर्द्वितीयं चाष्टमात् ततः ॥ ४२ ॥ नेमेस्तृतीयेनाक्रान्तं वर्णमेतत् समाहरेत् । युक्तं नाभेस्तृतीयेन प्रागरात् प्रथमं तु वै ॥ ४३ ॥ द्वितीयं दशमाद्वर्णं नाभेरेकादशाङ्कितम् । पञ्चाक्षरं पदं दद्यात् तदन्ते तालकेतवे ॥ ४४ ॥ भूयस्तदवसाने तु पञ्चार्णं नीलवाससे । प्रथमात् प्रथमं चाथ द्वितीयं स्वरसंयुक्तम् ॥ ४५ ॥ केवलं नेमिपूर्वं तु चाद्यमेकादशात् ततः ।

६० सात्वतसंहिता बहिष्ठेभ्यश्चतुर्थं तु द्वाभ्यां नाभेः परं न्यसेत् ॥ ४६ ॥ द्वितीयं केवलं बाह्यात् सङ्कर्षणाय वै पदम् । तृतीयं प्रथमं नेमेरादायाकारसंयुक्तम् ॥ ४७ ॥ द्वितीयमपि वै बाह्याच्छुद्धं तदनु वै नमः । षट्त्रिंशाक्षरसंयुक्तस्त्वयं मन्त्रो महामते ॥ ४८ ॥ प्रणवान्ते त्वथादायेत्यारभ्य त्रीणि पञ्चाक्षराणयत इत्यन्तम् 'ॐ आं सौनन्दकिने संवर्तकिने तालकेतवे नीलवाससे कामपालाय सङ्कर्षणाय रामाय नमः' इति षट्त्रिंश- दक्षरमन्त्रः समुद्धृतः ॥ ३९-४९ ॥ अब 'प्रणवान्ते त्वथादाय ... ... पञ्चाक्षराणयतः' (५.३९-५.४९) पर्यन्त दूसरे मन्त्र का उद्धार कहते हैं । मन्त्र का स्वरूप—'ॐ आं सौनन्दकिने संवर्तकिने तालकेतवे नीलवाससे कामपालाय सङ्कर्षणाय रामाय नमः' । यह ३६ अक्षर का मन्त्र कहा गया है ॥ ३९-४९ ॥ षड्वर्णं पदमस्याद्यं पञ्चार्णं तदनन्तरम् । दशाक्षरं तृतीयं तु त्रीणि पञ्चाक्षराणयतः ॥ ४९ ॥ इसका आदि पद छः अक्षर का, द्वितीय पद पाँच अक्षर का, तृतीय पद १० अक्षर का, इसके बाद ३ पद पाँच-पाँच अक्षरों के हैं ॥ ४९ ॥ अथादायार्क्षगं बीजं नाभेः पञ्चदशात् ततः । शार्ङ्गधृते पदं दद्याच्चतुर्वर्णमतः परम् ॥ ५० ॥ नेमिपूर्वमथादाय प्रागरात् प्रथमं ततः । तृतीयं च बहिष्ठेभ्यः पदं त्र्यर्णं ध्वजाय वै ॥ ५१ ॥ ततस्तृतीयं बाह्यात् तु प्रथमात् प्रथमं ततः । तदधो विनियोक्तव्यं द्वितीयं वर्णमष्टमात् ॥ ५२ ॥ द्वितीयस्वरसंयुक्तमथ बाह्यात् तु पञ्चमम् । अष्टमं तं तदुद्देशात् केवलं पुनरेव तत् ॥ ५३ ॥ नाभेरेकादशाक्रान्तं षडक्षरमतः परम् । पदं सनत्कुमाराय पञ्चाक्षरमनन्तरम् ॥ ५४ ॥ पदं जगत्प्रियायेति प्रद्युम्नाय नमस्ततः । चतुस्त्रिंशाक्षरः सोऽयं मन्त्रः शृणु पदान्यपि ॥ ५५ ॥ अथादायार्क्षगं बीजमित्यारभ्य षड्वर्णं षष्ठमेव हीत्यन्तम् 'ॐ अं शार्ङ्गधृते मकरध्वजाय रक्तवाससे सनत्कुमाराय जगत्प्रियाय प्रद्युम्नाय नमः' इति चतुस्त्रिंशदक्षरः समुद्धृतः ॥ ५०-५७ ॥

पञ्चमः परिच्छेदः ६१ 'अथादायाक्षगम् ... षड्वर्णं षष्ठमेव हि' पर्यन्त तृतीय मन्त्र का उद्धार कहते हैं । मन्त्र का स्वरूप—'ॐ अं शार्ङ्गिधृते मकरध्वजाय रक्तवाससे सनत्कुमाराय जगत्प्रियाय प्रद्युम्नाय नमः' । यह चौंतीस अक्षर का मन्त्र है ॥ ५०-५५ ॥ आद्यं षडक्षरं ज्ञेयं द्वितीयं तद्वदेव हि । पञ्चाक्षरं तृतीयं तु चतुर्थं तु षडक्षरम् ॥ ५६ ॥ पञ्चार्णं पञ्चमं विद्धि षड्वर्णं षष्ठमेव हि । इसमें पहला पद ६ अक्षर का, द्वितीय पद भी ६ अक्षर का, तृतीय पद पाँच अक्षर का, चौथा पद ६ अक्षर का, पाँचवाँ पद पाँच अक्षर का, छठाँ पद ६ अक्षर का कहा गया है । यहाँ तक तृतीय मन्त्र का उद्धार कहा गया ॥ ५६-५७ ॥ अक्षस्थं षोडशं नाभेर्द्वितीयं दशमात्तु वै ॥ ५७ ॥ केवलं ह्यथ तेनैव चाक्रान्तं नवमात् परम् । अथादाय च तस्यान्ते प्रथमात् प्रथमं परात् ॥ ५८ ॥ युक्तं नाभिद्वितीयेन वर्णमेकं महामते । वर्णद्वयं पदस्यादौ तदेवान्तेऽस्य वै पुनः ॥ ५९ ॥ अथ द्वितीयं नवमात् प्रथमात् प्रथमं ततः । तृतीयमथ वै नेमेर्द्वितीयस्वरसंयुतम् ॥ ६० ॥ द्वितीयं केवलं बाह्यात् सप्तमं नाभिमण्डलात् । अथ षष्ठेन वै नेमेराक्रान्तं द्वितीयं न्यसेत् ॥ ६१ ॥ प्राग्वर्णं दशमान्नेमेः पञ्चमस्योर्ध्वगं त्वथ । चतुर्थादपरं वर्णं द्वितीयं नेमिमण्डलात् ॥ ६२ ॥ द्वाभ्यां नाभिद्वितीयं तु योजयेत् तदनन्तरम् । दशमादपरं वर्णं तृतीयस्वरसंयुतम् ॥ ६३ ॥ तृतीयमथ वै नेमेर्नाभिपञ्चमसंयुतम् । द्वितीयस्वरसंयुक्तं द्वितीयं नवमादरात् ॥ ६४ ॥ अस्यैवाधो नियोक्तव्यं दशमात् प्रथमं हि यत् । शुद्धं नेमिद्वितीयं तु पदं त्वसितवाससे ॥ ६५ ॥ विष्वक्सेनाय तदनु नमस्कारसमन्वितम् । द्वात्रिंशार्णो ह्ययं मन्त्रः पदभेदेन वै पुनः ॥ ६६ ॥ एकाधिकस्तु भवति पदान्यथ निबोध मे । द्व्यक्षरं तु पदं पूर्वं द्वितीयं तु नवाक्षरम् ॥ ६७ ॥ त्रीणि पञ्चाक्षराण्यन्यत् षष्ठं सप्ताक्षरं स्मृतम् ।

६२ सात्वतसंहिता 'अक्षस्थं षोडशं नाभेरित्यारभ्य षष्ठं सप्ताक्षरं स्मृतम्' इत्यन्तम् 'ॐ अः नन्द- कानन्दकराय ऋष्यध्वजायानिरुद्धायासितवाससे विष्क्कसेनाय नमः' इति द्वात्रिंशद- क्षरो मन्त्रः समुद्धृतः ॥ ५७-६८ ॥ 'अक्षस्थं षोडशं विद्धि ... ... सप्ताक्षरं स्मृतम्' पर्यन्त चौथे मन्त्र का उद्धार कहते हैं । मन्त्र का स्वरूप इस प्रकार है—'ॐ अः नन्दकानन्दकराय ऋष्य- ध्वजायानिरुद्धायासितवाससे विष्क्कसेनाय नमः' । यह बत्तीस अक्षर का मन्त्र है । अब इसके पदों तथा अक्षरों की संख्या सुनिए—पद का भेद करने पर यह मन्त्र ३२ से एक अक्षर अधिक ३३ अक्षर का हो जाता है । पहला पद दो अक्षर का, द्वितीय नव अक्षर का, इसके बाद तीन पद पाँच-पाँच अक्षर का, छठाँ सात अक्षरों का होता है । इस प्रकार पद और मन्त्रों की संख्या कही गई ॥ ५७-६८ ॥ पुरुष, सत्य, अच्युत, वासुदेवमन्त्रोद्धारः अप्ययावसरे प्राप्ते स्मरणे चार्चने विभोः ॥ ६८ ॥ शृणु मन्त्रचतुष्कं तु पुनरन्यत् समासतः । आद्यमेकादशाद् वर्णं पञ्चमस्वरसंयुक्तम् ॥ ६९ ॥ युक्तं स्वरेण तेनैव तृतीयं नेमिमण्डलात् । द्वितीयस्वरसंयुक्तमथ बाह्यात् तु सप्तमम् ॥ ७० ॥ द्वितीयं केवलं नेमेराद्यन्ते प्रणवो नमः । शुद्धं त्वथाष्टमं बाह्याद् द्वितीयमथ चाष्टमात् ॥ ७१ ॥ अथो नेमिद्वितीयेन युक्तं नाभ्यपरेण तु । केवलं द्वितीयं बाह्यान्नमस्कारमतः परम् ॥ ७२ ॥ अथाक्षगं नाभिपूर्वं द्वितीयं त्रितयादरात् । तदधो द्वितयं बाह्यान्नाभिपञ्चमसंयुक्तम् ॥ ७३ ॥ अथ नाभिद्वितीयेन युक्तं यत् परमाष्टमात् । द्वितीयं केवलं बाह्यान्नमस्कारं ततः परम् ॥ ७४ ॥ अक्षस्थबीजं तदनु द्वितीयं द्वादशादरात् । द्वितीयात् प्रथमं चाथ पञ्चमं नेमिमण्डलात् ॥ ७५ ॥ केवलं त्रितयं ह्येतद् द्वितीयं च तथाष्टमात् । एकादशस्वराक्रान्तं वासुदेवाय वै नमः ॥ ७६ ॥ अथाप्ययक्रमेण व्यूहार्चने मन्त्रचतुष्टयमाह—अप्ययावसर इत्यादिभिः । तथा च—'ॐ पुरुषाय नमः, ॐ सत्याय नमः, ॐ अच्युताय नमः, ॐ भगवते वासुदेवाय नमः' इत्यनिरुद्धादिवासुदेवान्तमन्त्रचतुष्कमुक्तं भवति ॥ ६८-७९ ॥

पञ्चमः परिच्छेदः ६३ अब संहार क्रम से व्यूहार्चन में प्रयुक्त होने वाले चार मन्त्र का उद्धार कहते हैं—'अप्ययावसरे ... ... वासुदेवाय वै नमः' पर्यन्त मन्त्र का स्वरूप इस प्रकार है—'ॐ पुरुषाय नमः, ॐ सत्याय नमः, ॐ अच्युताय नमः, ॐ भगवते वासुदेवाय नमः' । इस प्रकार संहार क्रम से अनिरुद्धादि से वासुदेवान्त चार मन्त्र कहे गये ॥ ६८-७६ ॥ सप्ताक्षरस्तु प्राङ् मन्त्रो द्वितीयस्तु षडक्षरः । पूर्वतुल्यस्तृतीयस्तु चतुर्थो द्वादशाक्षरः ॥ ७७ ॥ पदभेदविनिर्मुक्तमेतन्मन्त्रचतुष्टयम् । गोपनीयं प्रयत्नेन विधिज्ञैः सिद्धिमीप्सुभिः ॥ ७८ ॥ पहला मन्त्र सात अक्षर का, द्वितीय छः अक्षर का, तृतीय पूर्व की भाँति (सात अक्षर का) और चतुर्थ बारह अक्षरों का है । ये चारों मन्त्र पदभेद से सर्वथा रहित हैं । सिद्धि की इच्छा रखने वाले एवं विधि के जानकार वैष्णवों को इन मन्त्रों को गुप्त रखना चाहिये ॥ ७७-७८ ॥ एवं ज्ञात्वाऽमृतमयैर्भोगैस्तोष्यश्च पूर्ववत् । वैभवीयैर्वृतो देवैश्चतुर्मूर्तिरधोक्षजः ॥ ७९ ॥ इन मन्त्रों को जान कर भक्त साधक को वैभवीय देवताओं से आवृत चतुर्मूर्ति भगवान् अधोक्षज को अमृतमय भोगों से सन्तुष्ट करना चाहिये ॥ ७९ ॥ चतुरङ्गाद्वर्णचक्रात् सर्वमन्त्राणामुद्धारः चतुरङ्गादयं चक्राच्चातुरात्म्यस्य वै विभोः । इति मन्त्रगणः प्रोक्तः सरहस्यः समासतः ॥ ८० ॥ एतावदन्तमुक्तमर्थं निगमयति—चतुरङ्गादिति । चतुरङ्गाद् नाभ्यरनेमिप्रधिसंज्ञा- ङ्गचतुष्टयविशिष्टादित्यर्थः ॥ ८० ॥ नाभि, अर, नेमि एवं प्रधिसंज्ञक चार चतुष्टयों से विशिष्ट चक्र से उत्पन्न उन चातुरात्म्य महा विभु के मन्त्रों का रहस्य के सहित संक्षेप में वर्णन किया गया ॥ ८० ॥ तुर्य-सुषुप्ति-स्वप्न-जाग्रद्व्यूहलक्षणानि अभेदेनादिमूर्तेर्वै संस्थितं वटबीजवत् । सर्वक्रियाविनिर्मुक्तमुत्तमं परमार्थतः ॥ ८१ ॥ चातुरात्म्यं तदाद्यं वै शुद्धसंविन्मयं महत् । तुर्यव्यूहलक्षणमाह—अभेदेनेति सार्धेन ॥ ८१-८२ ॥

६४ सात्वतसंहिता आदिमूर्त्ति के ये सभी मन्त्र अभेद-सम्बन्ध से वट-बीजवत् उन्हीं महाविष्णु में स्थित हैं और परमार्थ दृष्टि से यह चातुरात्म्य सभी क्रियाओं से विनिर्मुक्त तथा उत्तम है । यह तूर्य व्यूह का लक्षण है, जो शुद्ध संविन्मय है ॥ ८१ ॥ वह्न्यर्केन्दुसहस्राभमानन्दास्पदलक्षणम् ॥ ८२ ॥ बीजं सर्वक्रियाणां यद् विकल्पानां यदास्पदम् । चातुरात्म्यं तु तद् विद्धि द्वितीयममलेक्षण ॥ ८३ ॥ सुषुप्तिव्यूहलक्षणमाह—वह्न्यर्केति सार्धेन ॥ ८२-८३ ॥ यह अग्नि, सूर्य एवं चन्द्रमा से भी हजारों गुना देदीप्यमान है और आनन्दास्पन्द लक्षण वाला है । यही सर्वक्रिया का बीज है और सभी विकल्पों का आस्पद है । हे अमलेक्षण ! इस चातुरात्म्य को द्वितीय ‘सुषुप्ति’ व्यूह का लक्षण समझना चाहिए ॥ ८२-८३ ॥ नित्यं नित्याकृतिधरं तेजसा सूर्यवर्चसम् । भिन्नं सितादिभेदेन चोर्ध्वाधः संस्थितेन च ॥ ८४ ॥ कैवल्यभोगफलदं भवबीजक्षयङ्करम् । चातुरात्म्यं तृतीयं तु सुधासन्दोहसुन्दरम् ॥ ८५ ॥ स्वप्नव्यूहलक्षणमाह—नित्यमिति द्वाभ्याम् ॥ ८४-८५ ॥ जो नित्य नित्य-आकृति धारण करने वाला, तेज में सूर्य के समान तेजस्वी, सितादि भेद से भिन्न, नीचे-ऊपर सर्वत्र संस्थित, मोक्ष एवं भोग उभय रूप फल देने वाला, संसार बीज को क्षय करने वाला तथा सुधा सन्दोह के समान सुन्दर है, वह तृतीय चातुरात्म्य ‘स्वप्नव्यूह’ का लक्षण है ॥ ८४-८५ ॥ स्थित्युत्पत्तिप्रलयकृत् सर्वोपकरणान्वितम् । प्रकृतिं स्वामधिष्ठाय समुदेत्यस्तमेति च ॥ ८६ ॥ चतुर्थं विद्धि तद् यस्य विश्वं तिष्ठति शासनात् । धत्ते सितादिकं रूपं चतुर्धा यत् कृते युगे ॥ ८७ ॥ रक्ताद्यं सितनिष्ठं च त्रेतायां हि महामते । पीतं कृष्णं सितं रक्तं सम्प्राप्ते द्वापरे युगे ॥ ८८ ॥ कलौ कृष्णं सितं रक्तं पीतं चानुक्रमेण तु । जाग्रद्व्यूहलक्षणं तस्य युगभेदेन वर्णभेदं चाह—स्थित्युत्पत्तीत्यादिभिर्विभागो- ऽत्रावधार्यत इत्यन्तैः । लक्ष्मीतन्त्रेऽप्येवमेवोपबृंहितानि व्यूहलक्षणानि— वह्न्यर्केन्दुसहस्राभमानन्दास्पदलक्षणम् ॥ बीजं सर्वक्रियाणां तद् विकल्पानां तदास्पदम् ।

पञ्चमः परिच्छेदः ६५ सौषुप्तं चातुरात्म्यं तत् प्रथमं विद्धि वासव ॥ अथ स्वापपदे ह्येवं विभज्यात्मानमात्मना । देवः प्रागादिभेदेन वासुदेवादिरूपतः ॥ समासव्यासभेदेन गुणानां पुरुषोत्तमः । सितरक्तसुवर्णाभ्रसदृशैः परमाद्भुतैः ॥ आदिमूर्तिसमै रूपैश्चतुर्धा ह्यवतिष्ठते । कैवल्यभोगफलदं भवबीजक्षयङ्करम् ॥ चातुरात्म्यं द्वितीयं तत् सुधासंदोहसुन्दरम् । अथ जाग्रत्पदे देवः सितरक्तादिभेदितैः ॥ चतुर्भुजैरुदाराङ्गैः शङ्खचक्रादिचिह्नितैः । नानाध्वजविचित्राङ्गैर्वासुदेवादिंसंज्ञितैः ॥ व्यूहैः सम्प्रविभज्यास्ते विभुर्नाम स्वलीलया । जाग्रत्पदे स्थितं देवं चातुरात्म्यमनुत्तमम् ॥ स्थित्युत्पत्तिप्रलयकृत् सर्वोपकरणान्वितम् । सर्वं तच्चिन्तयेत्तस्य विश्वं तिष्ठति शासने ॥ त्रिविधं चातुरात्म्यं तु सुषुप्त्यादिपदत्रिके । सुव्यक्तं तत्पदे तुर्ये गुणलक्ष्यं परं स्थितम् ॥ इति ॥ —लक्ष्मी० ८६-९२ (१०।२०-२७, ४०-४२) अब 'जाग्रद्व्यूह' का लक्षण युग भेद से एवं वर्ण भेद से होता है, इस बात को कहते हैं—जो स्थिति, उत्पत्ति तथा प्रलय करने वाला है, सभी सृष्टि के उपकरणों से समन्वित है, अपनी प्रकृति पर स्थित हो कर उत्पन्न होता है और अस्त होता है। सारा विश्व जिसके शासन में रहता है, उसे चतुर्थव्यूह (जाग्रद्व्यूह) समझना चाहिए। जिसके शासन में यह सारा विश्व स्थित है, वह विष्णु कृतयुग में सित, रक्त, पीत तथा नील चारों वर्णों को धारण करते हैं। हे महामते! त्रेता में वह विष्णु रक्त वर्ण वाले और श्वेत पीत वर्ण धारण करते हैं। द्वापर में वही पीत कृष्ण, सित, रक्त वर्ण धारण करते हैं तथा कलि में कृष्ण, सित, रक्त और पीत वर्ण धारण करते हैं ॥ ८६-८९ ॥ युगसन्ध्याचतुष्के तु बिभर्ति परमेश्वरः ॥ ८९ ॥ विभिन्नमूर्तिसामान्यं रूपं यत् तन्निबोध मे । सितरक्तं कृतान्ते तु रक्तपीतमतः परम् ॥ ९० ॥ पीतकृष्णं च तदनु कृष्णशुक्लमन्तरम् । वह परमेश्वर चारों युगों की सन्ध्या में विभिन्न रूप में होकर जिस प्रकार सामान्य रूप धारण करते हैं। हे सङ्कर्षण! अब उसे सुनिए—सत्ययुग के अन्त में वह श्वेत रूप, उसके बाद त्रेता के अन्त में वह रक्त पीत, उसके बाद द्वापर के

६६ सात्वतसंहिता अन्त में वह पीत कृष्ण, इसके बाद कलियुग के अन्त में वह कृष्ण शुक्ल रूप धारण करते हैं ॥ ८९-९० ॥ भेदः प्रागुदितैर्ज्ञेय आयुधाम्बरलाञ्छनैः ॥ ९१ ॥ समत्वादन्यथा केन विभागोऽत्रावधार्यते । प्राक् उदीयमान आयुध एवं अम्बर (=वस्त्र) के लाञ्छनों (= चिन्हों) से कलि भेद समझना चाहिये अन्यथा काल के समान होने से कौन उसके भेद का निश्चय कर सकता है ॥ ९१-९२ ॥ वर्णकालस्थानभेदेन वासुदेवादिनां ध्यानकथनम् युगाब्ददिनरात्र्यर्थप्रहराणां क्रमेण तु ॥ ९२ ॥ विभागकल्पनं कृत्वा नित्यमालक्ष्य वै प्रभुम् । देहेऽस्मिन् मूर्ध्नि हृदये नाभौ तु तदधः पुनः ॥ ९३ ॥ तस्मादामूर्धपादान्तं भूतये मुक्तयेऽन्यथा । ग्रीवांसजानुगुल्फेषु स्मरेत् सन्ध्युक्तलक्षणम् ॥ ९४ ॥ वासुदेवादिनां स्मरणस्य कालभेदान् साधकशरीरे स्थानभेदांश्चाह—युगाब्देति त्रिभिः । आलक्ष्य ध्यात्वेत्यर्थः । भूतये ऐश्वर्याय । मुक्तये मोक्षाय । एवं च धाम- चतुष्टयं मूर्धादिचतुःस्थानेषु क्रमेण वासुदेवादि(नां?न्) स्मरतामैहिकं लौकिकं फलम्, पुनः प्रातिलोम्येन नाभेरधस्तादारभ्य मूर्द्धान्तं स्थानचतुष्टयेऽनिरुद्धादिवासुदेवान्तान् स्मरतां मूर्तिरूपं फलं च सिध्यतीति भावः । सन्ध्युक्तलक्षणं युगसन्धिभेदेन गृहीत- सितरक्तादिशबलरूपं वासुदेवादिचतुष्टयमित्यर्थः ॥ ९२-९५ ॥ अब वासुदेव के स्मरण का स्थान साधक के शरीर में कब और कहाँ होता है इस बात को कहते हैं—युग, वर्ष, दिन-रात, दोपहर आदि के क्रम से विभाग की कल्पना कर वहाँ प्रभु को स्मरण करे । इसी प्रकार इस देह में भी शिर, हृदय, नाभि तथा उसके नीचे के भाग में वासुदेव का स्मरण करने से ऐहिक पारलौकिक दोनों प्रकार का फल प्राप्त होता है । इसलिये मुक्ति तथा मूर्ति के लिये शिर से लेकर पादान्त भगवत्स्मरण करे । ग्रीवा, अंस, जानु तथा गुल्फ में तथा युगादि सन्धियों में उक्त लक्षण का स्मरण करे ॥ ९२-९४ ॥ सृष्टिंसंहारयोगेन यः स याति परां गतिम् । इत्येकमूर्तेर्व्यूहानां विभवस्याखिलस्य च ॥ ९५ ॥ जो इस प्रकार सृष्टि क्रम से तथा संहार क्रम से भगवान् का स्मरण करता है, वह वैष्णव परमगति को प्राप्त करता है ॥ ९५ ॥ अवतारस्तथा ध्यानमर्चनं मन्त्रपूर्वकम् । स्वपदस्थानभेदेन प्रोक्तमेकसमाधिना ॥ ९६ ॥

पञ्चमः परिच्छेदः ६७ उक्तमर्थं निगमयति—इतीति सार्धेन । एकमूर्तेः परात्परवासुदेवस्य व्यूहानां विभवस्य वासुदेवादीनां तुर्याद्यवस्थाभेदस्येत्यर्थः ॥ ९५-९६ ॥ इस प्रकार एक मूर्ति, परात्पर भगवान् वासुदेव के व्यूहों का तथा उनके विभवों का और तुर्यावस्था भेद का अवतार, मन्त्रपूर्वक ध्यान एवं अर्चन स्वपदस्थान के भेद से यहाँ एक समाधि के द्वारा कहा गया है ॥ ९५-९६ ॥ चातुरात्म्यसमाराधनोपसंहारः विशेषोऽप्यथ भेदाख्यस्त्ववतारपुरस्सरः । भावस्थितिविधौ चैव सर्वेषामधुनोच्यते ॥ ९७ ॥ एतेषां विशेष उच्यत इत्याह—विशेष इति ॥ ९७ ॥ अब सब के कल्याण के लिये भावस्थिति की विधि में अवतार पुरःसर विशेषताओं को बतलाया जा रहा है ॥ ९७ ॥ षाड्गुण्यमादिदेवाद्यं चातुरात्म्यमलाञ्छनम् । सृष्टये त्रितयं ह्येतत् सामर्थ्यं पारमेश्वरम् ॥ ९८ ॥ लोलीभूतमभेदेन स्मरेत् तुर्यात्मना पुरा । नित्योदितं च सुपदे स्थितमस्पन्दलक्षणम् ॥ ९९ ॥ विशेषमाह—षाड्गुण्यमिति द्वाभ्याम् । पारमेश्वरं सामर्थ्यं सामर्थ्यशक्तिरूपम्, एतत्तितयं सुषुप्त्यादिव्यूहत्रयम्, सृष्टये सृष्ट्यर्थं लोलभूतं स्मरेत् । अस्पन्दलक्षणम् अलोलभूतम्, नित्योदितं परात् परं भगवन्तमेव तुर्यात्मना तुर्यव्यूहरूपेण, अभिन्नं स्मरेदित्यर्थः ॥ ९८-९९ ॥ आदिदेव में रहने वाला, पहला षाड्गुण्य, दूसरा चातुराम्य लक्षण तथा तीसरा परमेश्वर की सामर्थ्य—ये तीन (सुषुप्त्यादिव्यूहमय) सृष्टि के लिये स्पन्दन करने वाले हैं । इनका स्मरण करे, इसके अतिरिक्त अस्पन्द लक्षण (अलोली- भूत स्थिर) एवं नित्योदित परात्पर भगवान् को तुर्यव्यूह रूप से अभिन्न विग्रह का भी स्मरण करे ॥ ९८-९९ ॥ भगवदवतारक्रमः अथार्चितुं यमिच्छेत्तु विशेषव्यक्तिलक्षणम् । सङ्कल्प्य तं स्वबुद्ध्या तु तत्कालसमनन्तरम् ॥ १०० ॥ ध्रुवा सामर्थ्यशक्तिर्वै स्पन्दतामेति च स्वयम् । सूतेऽग्निकणवन्मन्त्रं यत्र मन्त्री कृतास्पदः ॥ १०१ ॥ तमागतमिवाकाशात् तारकं कर्णिकान्तरे । भावयेदथ तन्मध्यादाराध्यमुदितं स्मरेत् ॥ १०२ ॥

६८ सात्वतसंहिता आदिमूर्तिस्वरूपेण चतुर्मूर्तिमयेन वा। पृथक्त्वेन चतुर्मूर्तेरेकैकाकृतिनाऽप्यथ ॥ १०३ ॥ अथवा वैभवीयेन नानाकृत्यात्मना तु वै। अङ्गसङ्घं तदीयं च न्यसेत् पद्मदलाश्रितम् ॥ १०४ ॥ परिवारं बहिः पद्मात् स्वकं यो यस्य विद्यते । अर्चनार्थं भगवदवतरणक्रममाह—अथेति सार्धैः पञ्चभिः । यः साधको विशेष- व्यक्तिलक्षणं परव्यूहविभवाख्यंतत्तन्मूर्तिविशिष्टं भगवन्तमर्चितुमिच्छेत्, तं साधकं स्वबुद्ध्या संकल्प्य स्वाभिमुखं ज्ञात्वा तत्कालसमनन्तरं तदिच्छानन्तरमेव सामर्थ्यशक्तिः स्वयमेव स्पन्दतामेति । मन्त्री साधकः, यत्र कृतास्पदः, यन्मन्त्रमिच्छति तन्मन्त्रमग्नि- कणवत् सूते च । तत्स्पन्दनमात्रेणाऽग्नेः, स्फुलिङ्गवन्मन्त्रः समुद्भूतो भवतीति भावः । तन्मन्त्रमाकाशात् तारकमिव कर्णिकान्तरे हृत्कमलकर्णिकामध्ये आगतं भावयेत् । तन्मध्यात् मन्त्रमध्यात्, आराध्यं मन्त्रनाथम्, आदिमूर्तिस्वरूपेण परवासुदेवरूपेण । यद्वा चतुर्मूर्तेर्व्यूहस्य पृथक्त्वेन, एकैकाकृतिना केवलमेकैकमूर्तिरूपेण, आहोस्वित्नानाकृ- त्यात्मना वैभवीयेन रूपेण पद्मनाभादिभेदेन, उदितम् उत्पन्नं स्मरेत् ॥ १००-१०५ ॥ अब अर्चन के लिए भगवान् के अवतार का क्रम कहते हैं—जो वैष्णव साधक विशेष व्यक्तिलक्षण परव्यूहविभव नामक उन-उन मूर्तिविशिष्ट भगवान् के विग्रह की अर्चना करना चाहते हैं, उस साधक को अपनी बुद्धि से उन विभवावतारों की कल्पना मन में करके उन्हें अपने सन्मुख हुआ समझकर उसी समय अर्चना की इच्छा मन में होते ही सामर्थ्यशक्ति स्वयमेव मन में स्पन्दित हो जाती है । वैष्णव मन्त्रज्ञ साधक जहाँ कहीं भी उन विभवावतार का सान्निध्य (= आस्पद) चाहता है वहीं पर, मन्त्र रूप अग्नि कण के समान उन्हें उत्पन्न कर लेता है अर्थात् जैसे अग्नि की छोटी सी चिनगारी प्रज्वलित अग्नि बना देती है वैसे ही साधक मन्त्र रूप चिनगारी से उन्हें प्रकट कर देता है । उस मन्त्र रूप आकाश के मध्य तारों के समान हृत् कमल रूप कर्णिका के मध्य में साधक उनकी भावना करे । वह यह भावना करे कि आराध्य मन्त्र के देवता आदि मूर्ति पर वासुदेव रूप से हृत्कमल की कर्णिका में उसी प्रकार प्रगट हो गए हैं जैसे आकाश में तारे प्रगट हो जाते हैं । साधक यदि इच्छा करे तो चतुर्व्यूह में से एक-एक आकृति का एक-एक मूर्ति रूप से स्मरण करे अथवा पद्मनाभादि विभवावतारों में से जिनको चाहे उन्हें स्मरण कर उत्पन्न कर लेवे । इस प्रकार उन स्मृत देवता के अङ्ग-समूह का पद्मदल में न्यास करे । उन स्मृत देवता के जो परिवार हों उन्हें पद्म के बाहर न्यास करे ॥ १००-१०५ ॥ सशक्तिकस्य मन्त्रस्य दिक्क्रमेण हृदादि यत् ॥ १०५ ॥ न्यसेत् केसरजालस्थं पत्रमध्ये तु शक्तयः ।

पञ्चमः परिच्छेदः ६९ (निः? स) शक्तिकस्य मन्त्रस्य प्रागादिदलेषु हृदयाद्यङ्गमन्त्रन्यासं कमलाद् बहिस्तत्तत्परिवारन्यासं चाह—सशक्तिकस्येति । एवं दलेषु लक्ष्यादिशक्तिन्यास- नियमस्य प्रायिकत्वं बोध्यम् । यतोऽत्रैव त्रयोदशे परिच्छेदे— षट्कं केसरजालस्थं तत्र प्राक् पश्चिमे द्वयम् ॥ द्वयं द्वयं सौम्ययाम्ये तासां वामकरेषु च । —(सात्वत० १३।५२-५३) इति केसरस्थानेऽपि शक्त्यवस्थानमुक्तम् । सप्तदशपरिच्छेदेऽपि— नेमिभागे श्रियं देवीं पुष्टिमुत्तरतो न्यसेत् । पृष्ठदेशे स्थितां निद्रामग्रभागे सरस्वतीम् ॥—(सात्वत० १७।७०) इति कमलाद् बहिरपि शक्तिन्यास उक्तः । किञ्च, सात्वतोपबृंहणे ईश्वरे पारमेश्वरे च— 'देवस्य कर्णिकायां तु श्रियं पुष्टिं ततोऽपरे' (ई०सं० ४।७९; पा०सं० ६।२४९) इति कर्णिकायामपि देवस्य पार्श्वद्वये शक्त्यर्चनमुक्तम् ॥ १०५-१०६ ॥ अब पहले पद्म के आदि दलों में शक्ति के सहित हृदयाद्यङ्गमन्त्रों का न्यास एवं कमल के बाहर उनके परिवार का न्यास कहते हैं—केशर स्थान में शक्ति का अवस्थान कहा गया है । अतः पूर्व से आरम्भ करके दो-दो शक्तियों का पत्र के मध्य में न्यास करे ॥ १०५-१०६ ॥ निःशक्तिको निरङ्गो यो मन्त्रनाथस्तु केवलः ॥ १०६ ॥ शब्दमात्रेण तं भूयो दलजालगतं यजेत् । निःशक्तिकत्वनिरङ्गकत्वोभयविशिष्टस्य भगवतस्तु केवलमन्त्रमात्रेण भाग- स्थानेऽप्यर्चनमाह—निःशक्तिक इति ॥ १०६-१०७ ॥ शक्ति रहित एवं निराकार उभय विशिष्ट भगवान् का अर्चन केवल मन्त्र मात्र से कमल निर्देशित भागस्थान पर करना चाहिए ॥ १०६-१०७ ॥ इत्येवमन्तर्यागस्तु देवस्य परमात्मनः ॥ १०७ ॥ समासेनोदितः सम्यगथ मूर्तेर्यजेद् बहिः । उक्तमर्थं निगमयति—इतीति ॥ १०७-१०८ ॥ इस प्रकार परमात्मा विष्णु देव के अन्तर्याग का विधान संक्षेप से किया गया है । अब मूर्ति का पूजन बाहर करना चाहिए इसे कहते हैं ॥ १०७-१०८ ॥ बहिर्यागोपक्रमः वेद्यां पुराहृतैर्भोगैर्बिम्बे वा चक्रपङ्कजे ॥ १०८ ॥ हेमादिद्रव्यजनिते चक्रे वा केवलाम्बुजे ।

७० सात्वतसंहिता भद्रपीठभुवो मध्ये सुशलक्षणे केवल तु वा ॥ १०९ ॥ ध्यात्वा ध्यात्वा स्वमन्त्रेण ह्यपवर्गफलाप्तये । समर्चनीयं विधिवच्छ्रद्धाभक्तिपुरस्सरम् ॥ ११० ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां जाग्रत्यूहसमाराधनं नाम पञ्चमः परिच्छेदः ॥ ५ ॥ — ❦ ꕤ ❧ — बहिर्यागस्थानान्याह—वेदामित्यादिभिः ॥ १०८-११० ॥ ॥ इति श्रीमौज्यायनायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये पञ्चमः परिच्छेदः ॥ ५ ॥ — ❦ ꕤ ❧ — बहिर्याग का उपक्रम करते हैं—पहले से आहत भोगों द्वारा वेदी पर अथवा बिम्ब में या चक्रपङ्कज में पूजन करे । अथवा स्वर्ण निर्मित चक्र में या केवल कमल दल पर ही अर्चन करे । सुन्दर लक्षण वाले भद्रपीठ पर भी यजन किया जाता है । इस प्रकार अपवर्ग रूप फल की प्राप्ति के लिए वैष्णव साधक अपने इष्ट देव की पूजा भक्तिपूर्वक अपने मन्त्र से करे ॥ १०८-११० ॥ ॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के जाग्रत्यूहसमाराधन नामक पाँचवें परिच्छेद की हिन्दी समाप्त हुई ॥ ५ ॥ — ❦ ꕤ ❧ —

षष्ठः परिच्छेदः चातुरात्म्यबाह्याराधनम् नारद उवाच वक्ष्ये विप्रवराः सम्यग् य रक्तश्चक्रपाणिना । प्रसङ्गाद् बलदेवस्य द्रव्ययागोऽप्यनन्तरम् ॥ १ ॥ अथ षष्ठो व्याख्यास्यते । बहिर्यागं वक्ष्य इत्याह—वक्ष्य इति । द्रव्ययागः द्रव्यैरर्घ्यादिभिः क्रियमाणो यागः । बाह्याराधनमित्यर्थः ॥ १ ॥ नारद जी ने कहा—भगवान् चक्रपाणि ने प्रसङ्ग उपस्थित होने पर बलदेव से इसके बाद बाह्यसाधनभूत द्रव्ययाग (= बहिर्याग) इस प्रकार कहा ॥ १ ॥ भद्रपीठशोधनविधानम् श्रीभगवानुवाच यत्किञ्चित् पत्रपुष्पाद्यं परिदृश्येत पीठगम् । पाणिना तत्समाहृत्य शुचिस्थाने निधाय वै ॥ २ ॥ गव्यैर्वा चामरैर्वालैः शिखिपक्षैः कुशैरथ । संमार्ज्य भद्रपीठं तु वाससा सुसितेन वा ॥ ३ ॥ बहुना वस्त्रपूतेन वारिणा तदनन्तरम् । प्रक्षाल्य द्वादशार्णेन प्रणवाद्यन्तकेन तु ॥ ४ ॥ आदौ भद्रपीठशोधनप्रकारमाह—यत्किञ्चिदिति त्रिभिः । पत्रपुष्पाद्यं = पूर्वदिने भगवद्भुक्ततुलसीपत्रादिकमित्यर्थः । प्रणवाद्यन्तकेन = प्रणवसम्पुटितेनेत्यर्थः । द्वाद- शार्णेन = वासुदेवद्वादशाक्षरेणेत्यर्थः । एवं भद्रपीठशोधनादिकस्य कालान्तरकर्तव्य- त्वमप्युक्तमीश्वरपारमेश्वर्योः— यद्वा प्राग्यागभवनप्रवेशानन्तरं द्विजाः ॥ न्यस्य भद्रासनाद्यन्तमन्यदन्यत् समाचरेत् । यद्वा तदातने काले न्यस्य भद्रासनं ततः ॥ आद्यं मार्गत्रयं कृत्वा यथोक्तविधिना ततः । योगपीठार्चनारम्भे बिम्बोक्तं सर्वमाचरेत् ॥ इति ॥ २-४ ॥ —(ई०सं० ३।१६-१८; पा० सं० ६।३२-३४)

७२ सात्वतसंहिता श्रीभगवान् ने कहा—पूर्व दिन में भद्रपीठ पर भगवान् की आराधना के लिये निवेदित तुलसीपत्रादि को साधक हाथ से उठाकर किसी पवित्र स्थान पर स्थापित कर देवें, अथवा गोपुच्छ, चामर, बाल, मयूरपुच्छ अथवा कुशा से सम्मार्जित कर देवे, अथवा अत्यन्त सुन्दर स्वच्छ वस्त्र से झाड़, पोंछकर भद्र पीठ को शुद्ध कर लेवे । फिर वस्त्र से छाने हुए जल द्वारा प्रणव सम्पुटित द्वादशाक्षर मन्त्र से उस भद्रपीठ का प्रक्षालन करे ॥ २-४ ॥ चक्रराजार्चनविधानम् सर्वलोकमयं तत्र सर्वदेवसमाश्रयम् । सर्वाधारमयं ध्यायेदन्तर्लीनं तु चक्रराट् ॥ ५ ॥ प्रणवेन स्वनाम्नाऽथ नमोऽन्तेनार्चयेच्च तम् । अर्घ्यालिभनधूपैस्तु माल्यैर्नानास्रगुद्भवैः ॥ ६ ॥ भद्रपीठान्तर्लीनचक्रराजार्चनमाह—सर्वलोकमयमिति द्वाभ्याम् । चक्रराट् = चक्रराजमित्यर्थः । विभक्तिविनिमयश्छान्दसः । आलभनम् = आलभ्यते आलिप्यते- ऽऽनेनाङ्गमित्यालभनं गन्धः । नानास्रगुद्भवैः नानाविधाः स्रजामुद्भवा रचनाविशेषा येषां तैः, द्विसरत्रिसरादिभेदेन नानारूपस्वररचनाविशिष्टैरिति यावत् । अथवा नाना- विधपुष्पजनितैरित्यर्थः । स्रक्शब्दस्य केवलपुष्पमात्रपरत्वं ज्ञेयम् । यत एवमुत्तर- त्राप्यग्निकार्यप्रकरणे 'स्रग् धूपं मधुपर्कं च' (सात्वत० ६।९८, १४८) इत्यत्र स्रक्शब्दस्य पुष्पमात्रपरत्वमङ्गीक्रियते । ननु तत्रापि स्रक्शब्दस्य मालिकापरत्वे कः प्रत्यवाय इति चेदुच्यते, किमा- वयौर्विवादेन, लक्ष्मीतन्त्रे—'ततः पुष्पमयीं दद्याद् धूपद्रव्यमयीं तथा' (ल० ४०।६८) इति स्रक्शब्दस्य पुष्पपरत्वेन महालक्ष्म्यैव व्याख्यातत्वात्, ततो माल्यमयीं दद्यादित्य- नुक्तेः । किञ्च, सात्वतोपबृंहणे ईश्वरे पारमेश्वरे च होमद्रव्यविवरणप्रकरणे— 'सुगन्धैः स्थलपद्माद्यैः पुष्पैश्चैव सितादिकैः' । इति । —(ई० सं० ५।२०६; पा० सं० ७।१६९) तर्पितः स्थलपद्माद्यैः पुष्पैश्चान्यैः सितादिकैः ॥ सौभाग्यमतुलं विप्रा अचिरादेव यच्छति । —(ई० सं० ५।२१६-२१७; पा० सं० ७।१८०) इति च केवलपुष्पमात्रोक्तेः । किञ्च, पाद्मेऽपि आहुतिप्रमाणनिरूपणप्रकरणे— 'फलैः पुष्पैरखण्डितैः' इति पुष्पाणामखण्डितत्वमात्रलक्षणोक्तेः, केवलपुष्पैरेव होम- सम्प्रदायाच्च स्रक्शब्दः पुष्पमात्रपरो बोध्यः । किञ्च, 'स्रग्दामसूत्रसम्बद्धमाकर्णा- च्चरणावधि' (६।५५) इत्यलङ्कारासनप्रकरणे वक्ष्यमाणं वाक्यमप्यत्रानुकूलं ज्ञेयम्, एषामेव श्लोकानां पारमेश्वरेऽपि प्रतिपादितत्वात् । तद्व्याख्याने तु—'नानास्रगुद्ध- वैर्माल्यैः, नानाविधस्रजामुद्भवहेतुभूतैः पुष्पैः', 'माल्यं पुष्पे च दामनि' (६।३।२५) इति वैजयन्ती' इति लिखितम् । तदस्वरसम्, विशेषणस्य वैयर्थ्यात्; मालिकादिभिः

षष्ठः परिच्छेदः ७३ पीठार्चने प्रत्यवायाऽभावाच्च । अस्मिन्नवसरे नृसिंहकल्पवक्ष्यमाणरीत्याऽनन्तादिपीठ- देवानाम्प्यर्चनं कार्यम् ॥ ५-६ ॥ फिर सर्वलोकमय एवं समस्त देवों के आश्रयभूत, सर्वाधारमय, अन्तर्लीन चक्रराज का ध्यान करे । 'चक्रराट्' द्वितीया के स्थान में प्रथमा का प्रयोग आर्ष समझना चाहिये ॥ ५ ॥ फिर प्रणव के साथ चक्रराज को चतुर्थ्यन्त कर अन्त में नमः लगा कर (ॐ चक्रराजाय नमः) इस मन्त्र से उन चक्रराज का अर्घ्य, गन्ध, धूप एवं नाना प्रकार के पुष्प माल्य द्वारा अर्चन करे ॥ ६ ॥ ततः कुम्भचतुष्कं तु हेमादिद्रव्यनिर्मितम् । गालितेनाम्भसा पूर्णं स्रगाद्यैरप्यलङ्कृतम् ॥ ७ ॥ गन्धसर्वोषधीरत्नफलबीजकुशोदकम् । बहिःकोणचतुष्के तु न्यसेदाधारपृष्ठगम् ॥ ८ ॥ ॐ अर्घ्यं कल्पयामीति ह्युक्त्वा वायुपदे न्यसेत् । कलशं तद्वदैशान्यां न्यसेदाचमनार्थतः ॥ ९ ॥ स्नानार्थमग्निकोणे तु पाद्यार्थं नैर्ऋते तथा । अथ पात्रपरिकल्पनमाह—तत इति सार्धैस्त्रिभिः । अत्र गन्धसर्वोषधीरत्नफल- बीजकुशादिकमित्यर्थ्यादीनां चतुर्णामित्यविभागेन द्रव्याण्युक्तानि । एषां विभागस्त्व- ष्टादशपरिच्छेदे (६४-६८ श्लो०) वक्ष्यमाणो ज्ञेयः । तथा चेश्वरपारमेश्वरयोः— आधारोपरि पात्राणि स्वपूर्वनियमेन तु । वायव्यादिषु विन्यस्य तत्तत्कल्पनमन्त्रतः ॥ इति ॥ —(ई० सं० ३।२६-२७; पा० सं० ६।३७) किञ्च, अत्रार्घ्यादीनां चतुर्णामेवोक्तत्वेऽप्यष्टादशपरिच्छेदे (७०-७६ श्लो०) वक्ष्यमाणं द्वितीयार्घ्यमपि ग्राह्यम्, तस्य पीठार्चनाद्युपयुक्तत्वात् । अत्र पात्रपरिकल्पनात् पूर्वमेव पीठान्तर्लीनचक्रराजार्चनोक्तावपि पाठक्रमादर्थक्रमस्य बलीयस्त्वेन तत् तद- नन्तरमेव ग्राह्यम् । तथा वक्ष्यति सप्तदशे परिच्छेदे— पुष्पैस्थार्घ्यपात्रं तु मन्त्रैः सम्पूज्य निष्कलैः । पात्रे परस्मिंस्तस्माद्वै स्तोकमुद्धृत्य चोदकम् ॥ योगपीठार्चनं कुर्यादनुसंधानपूर्वकम् । —(सात्वत० १७।५२-५३) इति ॥ ७-१० ॥ इसके बाद सुवर्णादि द्रव्यों द्वारा निर्मित, वस्त्र से छाने हुए जल से परिपूर्ण, माला आदि से अलङ्कृत, गन्ध, सर्वौषधि, रत्न, फल, बीज, कुशा और अर्घ्य जल से युक्त कर आधार पृष्ठ पर स्थापित उन कलशों के बाहर के चारों कोणों पर उन्हें स्थापित करे ॥ ७-८ ॥ सा० सं० - 9

७४ सात्वतसंहिता

'ॐ अर्घ्यं कल्पयामि' यह मन्त्र पढ़कर प्रथम कलश को वायव्यकोण में स्थापित करें। इसी प्रकार 'ॐ आचमनार्थं कल्पयामि' इस मन्त्र को पढ़कर ईशान कोण में दूसरा कलश स्थापित करे। इसी प्रकार 'ॐ स्नानार्थं कल्पयामि' इस मन्त्र को पढ़कर तीसरा कलश अग्निकोण में स्थापित करे। फिर पाद्यार्थं कल्पयामि इस मन्त्र को पढ़कर नैर्ऋत्य कोण में चौथा कलश स्थापित करे ॥ ९-१० ॥ अथ मङ्गलकुम्भानामुपकुम्भसमन्वितम् ॥ १० ॥ चतुष्कं विन्यसेद् बाह्ये दिक्क्रमेण सुपूजितम् । अथ परितः कलशाष्टकस्थापनमाह—अथेति । उपकुम्भसमन्वितम्, विदिक्षु स्थापनीयैश्चतुर्भिः कलशैः सहितमित्यर्थः । अथवा नृसिंहकल्पपरिच्छेदे शान्तिकादि- प्रकरणेषु वक्ष्यमाणरीत्योपस्थापनीयैश्चतुर्भिरुपकुम्भैः समन्वितमित्यर्थः । मङ्गल- कुम्भानां चतुष्कं प्रागुदीरितं (सात्वत० ६।७) चतुर्दिक्षु स्थापनीयकलशचतुष्टय- मित्यर्थः ॥ १०-११ ॥ इसी प्रकार मङ्गल कुम्भ के समीप बाहर के चारों दिशाओं में क्रमशः पूर्व की भाँति सुपूजित चार उपकुम्भ भी स्थापित करे ॥ १०-११ ॥ भगवद्विम्बपूर्वं तु यागाङ्गं प्रागुदीरितम् ॥ ११ ॥ एकं सुलक्षणं तत्र ततो मध्येऽवतार्य च । तत्कलशाष्टकमध्ये भगवद्विम्बाद्यन्यतमस्थापनमाह—भगवदिति । प्रागुदीरितं (षष्ठा? पञ्चमा) ध्यायान्ते उक्तमित्यर्थः । भद्रपीठोपरि केवलचरबिम्बाद्यर्चनप्रकरणे । एवं परितः कलशाष्टकस्थापनं कार्यम् । स्थिरबिम्बार्चनविषये तु तदप्रकृतम् । अत एव ईश्वरपारमेश्वरयोर्नोक्तं च ॥ ११-१२ ॥ इस प्रकार ८ कलशों की स्थापना बहिर्याग में कही गई । बहिर्याग के अङ्गभूत भगवद् बिम्ब के विषय में पहले कह दिया गया है (द्र. पञ्चमाध्याय के अन्त में) । उन आठ कलशों के मध्य में सुलक्षण भगवद् बिम्ब की स्थापना करनी चाहिए ॥ ११-१२ ॥ बिम्बशोधनकथनम् भुक्तमर्घ्यादिकं तस्मादपनीयाभिवन्द्य च ॥ १२ ॥ उशीरवंशकूर्चेन क्षालयेदम्भसा ततः । बिम्बशोधनमाह—भुक्तिमिति । भुक्तमर्घ्यादिकं पूर्वदिने, यद्वाऽभिगमणार्चन- काले भगवद्भुक्तार्घ्यपुष्पादिकमित्यर्थः । उशीरवंशकूर्चेन लाम(ञ्छ?ज्जक)- पिञ्जुलेन ॥ १२-१३ ॥ बिम्बशोधन का प्रकार कहते हैं—पूर्व दिन में बिम्ब पर निवेदित भुक्त अर्घ्यादि पदार्थों को उशीर अथवा बाँस के कूँचे (झाडू) से हटा कर उसका अभिनन्दन करें। फिर स्वच्छ जल से सुलक्षण अर्घ्य पात्र का प्रक्षालन करे ॥ १२-१३ ॥

षष्ठः परिच्छेदः ७५ पुराङ्कितं तु चक्राद्यैर्यथाबद्धं तु वा शुभम् ॥ १३ ॥ सलिलेनार्घ्यपात्रं तु सम्पूर्याग्रे निधाय वै । तिलान् सुमनसस्तस्मिन् दूर्वाः सिद्धार्थकान् क्षिपेत् ॥ १४ ॥ चतुरावर्तयेन्मन्त्रं कृत्वा पाणितले स्थितम् । ततः सर्वगतं देवं मन्त्रमूर्तित्वमागतम् ॥ १५ ॥ समाहूय स्वमन्त्रेण त्वागच्छान्तपदेन तु । यथा सर्वगतो वायुर्व्यजनेन महामते ॥ १६ ॥ व्यक्तिमभ्येति भगवानाहूतस्तद्वदेव हि । भावदर्पणसङ्क्रान्तं कृत्वा हृत्कमलात्तु वै ॥ १७ ॥ सन्निरुध्य बहिर्वेद्यां मन्त्रोच्चारावसानतः । अथावाहनक्रममाह—पुराङ्कितमिति पञ्चभिः । चक्राद्यैरङ्कितमित्यनेन सुवर्णा- दिकं द्रव्यमयं पात्रमुच्यते । यथाबद्धं तु वेत्यनेन पलाशादिपत्रमयमुच्यते । तथा च जयाख्ये— अर्घ्यपात्रं समादाय सुवर्णरजतादिजम् ॥ शैलं मृद्दारुजं वाऽथ पलाशाम्बुजपर्णजम् । —(१३।६३-६४) इति । सलिलेन = प्रधानार्घ्यसलिलेनेत्यर्थः । यतः— आवाहने सन्निधाने सन्निरोधे तथार्चने ॥ विसर्जनेऽर्घ्यदानं तु प्राक्पात्रान्नित्यमाचरेत् । —(१८।७०-७१) इति वक्ष्यति । अर्घ्यपात्रम् आवाहनार्थं कृतं पृथक् पात्रमित्यर्थः । तथा च पाद्मे— आवाहितपदं पात्रं प्रक्षालितमथाम्बुभिः । पूरयेन्मूलमन्त्रेण हस्ताभ्यां च समुद्धरेत् ॥ ललाटसममेतस्मिन् अन्तरावाह्य केशवम् । इति ॥ सिद्धार्थकान् = श्वेतसर्षपानित्यर्थः । मन्त्रम् आगच्छपदसंयुक्तं तत्तन्मूर्तिमन्त्रमि- त्यर्थः । ‘समाहूय स्वमन्त्रेण त्वागच्छान्तपदेन तु' (सा० ६।१६) इत्युक्तत्वात् । तथा च पाद्मेऽपि—'चतुरुच्चारयेन्मन्त्रमागच्छपदसंयुतम्' इति । एवमावाहनकाले मन्त्रस्य चतुरुच्चारणं लक्ष्मीतन्त्रेऽप्युक्तम्—'तारकं चतुरुच्चार्य तारिकां तु त्रिरुच्चरेत् (३८।४) इति । ततः सर्वगतं देवमिति श्लोकेनोक्तस्यार्थस्यानुवादः कृतः । मन्दमतीनां भगव- दावाहने विस्रम्भजननार्थं यथा सर्वगतो वायुरिति दृष्टान्तकथनम् । एवमेव वक्ष्यति प्रतिष्ठाध्यायेऽपि— सर्वत्रगोऽसि भगवन् किल यद्यपि त्वा- मावाहयामि हि यथा व्यजनेन वायुम् ।

७६ सात्वतसंहिता गूढो यथैव दहनो मथनादुपैति आवाहतोऽपि हि तथा त्वमुपैषि चार्चाम् ॥ —(सा० २५।१२१) इति । भावदर्पणसंक्रान्तं कृत्वेत्यनेन— तमागतमिवाकाशात् तारकं कर्णिकान्तरे । भावयेदथ तन्मध्यादाराध्यमुदितं स्मरेत् ॥—(सा० ५।१०२) इत्युक्तार्थः स्मारितो भवति । वेद्यामिति पदं बिम्बाद्युपलक्षकम् । सन्निरुध्य पूजावसानिकां स्थितिं प्रार्थ्येत्यर्थः । अत्र सन्निधिसाम्मुख्यकरणमप्यपेक्षितमीश्वरादिषु ग्राह्यम् । मन्त्रोच्चारावसानतः तत्तन्मूलमन्त्रावसान इत्यर्थः । किञ्च— आवाहयामि लक्ष्मीशं परमात्मानमव्ययम् ॥ आतिष्ठतामिमां मूर्तिं मदनुग्रहकाम्यया । श्रिया सार्धं जगन्नाथो देवो नारायणः पुमान् ॥ —(ल० ३६।९४-९५) इति लक्ष्मीतन्त्रोक्तो मन्त्रश्चात्र प्रकृतः । नन्वेतच्छ्लोकपञ्चकस्याप्यावाहनपरत्वे पुराङ्कितमित्यादिश्लोकद्वयं सात्वतोपबृंहणेश्वरेपारमेश्वर्योः कुतो नोक्तमिति चेत्सत्यम्, तत्र— गन्धार्घ्यपुष्पैः सम्पूर्य मूलमन्त्रं समुच्चरन् । पीठोपरि हरेरग्रे मूर्ध्नि पुष्पाञ्जलिं क्षिपेत् ॥ —(ई०सं० ४।५९; पा०सं० ६।२२९) इत्यनेनैव तच्छ्लोकद्वयार्थः संगृहीतो भवतीति बोध्यम्, तदावाहनपात्रस्थार्घ्य- जलस्याञ्जलिद्वारेणैव बिम्बोपरि सेचनीयत्वात् । 'तिलान् सुमनसस्तस्मिन् दूर्वाः सिद्धार्थकान् क्षिपेत्' (६।१४) इत्युक्तस्य द्रव्यचतुष्टयप्रक्षेपस्य प्रधानार्घ्यजलपूरणेनैव चारितार्थ्याच्च । नन्वेवं तेनैव तद्द्रव्यचतुष्टयप्रक्षेपस्य चरितार्थ्ये सात्वते पुनः किमर्थं तदुपादान- मिति चेत्, सत्यम्— पाद्ये द्रव्यान्तरालाभे दूर्वा चार्घ्येऽथ सर्षपः । शस्तमाचमनीये तु तक्कोलं मार्जनाम्भसि ॥ इति पाद्मोक्तन्यायेनार्घ्यादिषु द्रव्यान्तरालाभेनेकैकद्रव्यप्रक्षेपेऽप्यावाहनार्घ्ये तिला- दीनां चतुर्णामपि प्रक्षेपसिद्ध्यर्थं पुनरुपादानमिति ज्ञेयम् । एवं चैवमावाहनं चरबिम्ब- कुम्भमण्डलाद्यर्चनविषयम्, न तु स्थिरबिम्बविषयम्, स्थितमायतने वाऽथ साकारं परमेश्वरम् । शङ्खचक्रधरं विष्णुं सुरसिद्धावतारितम् ॥ ऋषिभिर्मनुजैर्वाथ भक्तियुक्तैः प्रतिष्ठितम् । तन्मूर्त्तौ च स्वमन्त्रेण यजेदावाहनं विना । —(१३।५८-६०)

षष्ठः परिच्छेदः ७७ इति जयाख्योक्तेः, 'संस्थितेऽभिमुखीभावस्तदेवावाहनं हरेः' इति पाद्मोक्तेः, तथैवेश्वरपारमेश्वरयोः प्रतिपादितत्वाच्च ॥ १३-१८ ॥ तदनन्तर चक्रादि चिह्नों से अलङ्कृत तथा पलाशादि पत्रों से आबद्ध उस स्वर्ण के अर्घ्यपात्र को जल से पूर्ण करे । फिर अपने आगे स्थापित करे । उसमें तिल, पुष्प, दूर्वा एवं सिद्धार्थक (श्वेत सर्षप) डाल देवें ॥ १३-१४ ॥ फिर उस अर्घ्यपात्र को हाथ पर रख कर चार बार मन्त्र से उस जल का अवलोकन करे और ऐसी भावना करे कि सर्वव्यापक वह परमात्मा इस अर्घ्य के जल में मन्त्र मूर्ति के रूप में आ गये हैं ॥ १५ ॥ फिर उनके मन्त्र से आगच्छान्त पद से उनका इस प्रकार आवाहन करे 'जिस प्रकार सर्वगत वायु व्यजन के द्वारा प्रगट किया जाता है, उसी प्रकार सर्वगत हे विष्णो ! मैं आप का आवाहन करता हूँ । इस प्रकार हृदय कमल से निकाल कर उन प्रभु को भावदर्पण में संक्रान्त करे । फिर मन्त्रोच्चारण के अन्त में उन्हें वहाँ से हटा कर बाहर को वेदी में स्थापित करे ॥ १६-१८ ॥ मन्त्रमागच्छमानं तु निर्गतं तु स्वकात् पदात् ॥ १८ ॥ कालं पाद्यार्घ्यदानान्तमुत्थितं भावयेत् सदा । अथोपचर्यमाणं तं भोगैः कालानुकूलतः ॥ १९ ॥ स्नानालभनवस्त्रस्रग्दानेऽलङ्करणे तथा । अन्यत्र भोगपूजायां स्मरेत् पद्मासनादिना ॥ २० ॥ पुनस्तमेवोपविष्टं सानुकम्पं च सम्मुखम् । बिम्बं विनाऽन्यत्राधारे भवत्येवं महामते ॥ २१ ॥ केवलवेदिकुम्भमण्डलादिष्वावाहितस्य देवस्य तत्तदुपचारानुरोधेनावस्थानभेद- भावनमाह—मन्त्रमिति सार्धैस्त्रिभिः ॥ १८-२१ ॥ अपने पदों से निकल कर जब मन्त्र आने लगे तो, उस काल को पाद्य एवं अर्घ्यादि के निवेदन के लिये उचित समझकर, उसके निवेदन की भावना करे । इसी प्रकार पूजोपचार का भी उचित काल समझकर, कालानुकूल उन्हें स्नान, गन्ध, वस्त्र, पुष्प, माला एवं अलङ्कार द्वारा पूजा करे । योग पूजा से अतिरिक्त स्थिति में केवल पद्मासनादि से भगवान् का स्मरण कर लेवें ॥ १८-२० ॥ हे महामते! फिर साधक उन भगवान् को सानुग्रह अपने सम्मुख बैठा हुआ देखें । यह तब करे जब बिम्ब न हो, कोई और आधार हो तब ऐसा समझे ॥ २१ ॥ बिम्बाकृत्यात्मना बिम्बे समागत्यावतिष्ठते । करोत्यमूर्तामखिलां भोगशक्तिं तु चात्मसात् ॥ २२ ॥