सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
चेत्यर्थः । चतुस्त्रिर्देवतान्तानां महिमान्तानामित्यर्थः । एवमाद्यं कमलादित्रयमेव पौनः- पुन्येन ध्यायेदित्यर्थः ॥ ६६-७०॥ अब इन द्वादश देवियों के रूप एवं लाञ्छन चिह्नों को कहता हूँ—ये सभी द्वादश देवियाँ पूर्णिमा के चन्द्रमा के समान मुख वाली हैं और सभी सर्वर्तु पुष्पों से शोभित हैं ॥ ६६ ॥ ये सभी सर्व लक्षण सम्पन्ना हैं और सर्वाभरणों से भूषित हैं । इनमें से आदि की तीन विद्रुम के समान आभा वाली हैं । इसके बाद दूसरी त्रिक वाली देवियाँ चम्पा के समान आभा वाली हैं । तृतीय देवी त्रय प्रियङ्गु की मञ्जरी के समान श्याम वर्ण वाली हैं । चौथी त्रितय देवियाँ जाती पुष्प के समान प्रभा वाली हैं । इस प्रकार इन बारह देवियों का ध्यान करे ॥ ६७-६८ ॥ आदि त्रिक वाली देवियों के हाथ में कमल है । अन्य दूसरी त्रिक वाली देवियों के हाथ में चक्र है, तीसरी त्रिक वाली देवयों के हाथ में शङ्ख है । इस प्रकार तीन त्रिक वाली देवियों के हाथ में तीन त्रिक का ध्यान करे । चौथे त्रिक वाली देवियों के हाथ में आद्य त्रिक के समान कमल है । एकादशी के दिन साधक इन देवियों का ध्यान कर जागरण समन्वित पूजन करे ॥ ६९-७० ॥ स्तोत्रैः कथानकैर्वाद्यैर्गीतकैः क्षपयेन्निशाम् । रात्रिक्षये ततः स्नायात् सिताम्बरधरः शुचिः ॥ ७१ ॥ एवं ध्यानपूर्वकमेकादश्यां कालत्रयार्चनं कृत्वा जागरणं कुर्यादित्याह— स्मृत्वेति ॥ ७०-७१ ॥ मासेशमन्त्रसन्नद्धं कृत्वा देवं स्मरेत् तथा । पूजापनयनं कृत्वा स्नानकर्म समाचरेत् ॥ ७२ ॥ द्वादश्यां प्रातः स्वनित्यकर्मानुष्ठानपूर्वकं तन्मासेशकेशवध्यानं रात्रौ तदर्पित- पूजाद्रव्यापनयनादिकं कृत्वाऽर्चनकाले वक्ष्यमाणं स्नपनं कुर्यादित्याह—रात्रिक्षय इति सार्धेन ॥ ७१-७२ ॥ स्तोत्र पाठ, कथानक, वाद्य और गीतों से साधक रात बितावें । रात्रि बीतने पर स्नान करे और श्वेत वस्त्र पहनकर शुद्ध होए । साधक द्वादशी के दिन स्वकर्मानुष्ठानपूर्वक तन्मासेश का ध्यान कर रात्रि में तदर्पित पूजा द्रव्यों का अपनयन करे और अर्चन काल होने पर स्नान कर्म करे ॥ ७१-७२ ॥ मध्यतः केशवस्यादौ केवलस्य महात्मनः । वासुदेवस्वरूपस्य चक्रस्थस्य त्वनन्तरम् ॥ ७३ ॥ प्रागरेऽभिनिविष्टस्य सकलस्याव्ययस्य च । तदादिद्वादशानां च दद्यात् स्नानादिकं क्रमात् ॥ ७४ ॥
१७८ सात्वतसंहिता केशवादीनामर्चनस्थानान्याह—मध्यत इति द्वाभ्याम्। मध्यतः = पीठमध्यस्थ- कर्णिकामध्ये इत्यर्थः। केवलस्य = इत्यनेनारस्थाने देव्या सहार्चनम्। अत्र तु केशव- स्येति ज्ञायते। वासुदेवस्वरूपस्य = इत्यनेन चक्राधिष्ठातुः कालस्यापि प्रागरे केशवेन सहार्चनं ज्ञायते। तदादिद्वादशानां = केशवादिद्वादशमूर्तीनामित्यर्थः॥ ७३-७४॥ पीठ के मध्य में स्थित कर्णिका के मध्य में स्थित केवल महात्मा केशव को स्नान कराए। इसके बाद चक्रस्थ वासुदेव स्वरूप को, फिर अरा पर सन्निविष्ट चक्राधिष्ठान महाकाल को, तत्पश्चात् तदादि केशवादि द्वादश मूर्तियों को स्नान करावे॥ ७३-७४॥ स्नपनद्रव्यकथनम् अम्बुना पञ्चगव्येन क्षीरेण तदनन्तरम्। दध्ना घृतेन मधुना सर्वौषधिजलेन च॥ ७५॥ बीजाम्बुफलतोयेन गन्धपुष्पाम्बुना ततः। हेमरत्नोदकेनाथ कुम्भस्थेन पृथक् पृथक्॥ ७६॥ स्नपनद्रव्याण्याह—अम्बुनेति द्वाभ्याम्। अत्राम्बुना मध्यस्थकेशवस्य, पञ्च- गव्येनारस्थकेशवस्य, क्षीराद्येकादशकलशैर्नारायणादिदामोदरान्तानां च स्नपनमिति ज्ञायते। नन्वीश्वरपारमेश्वरयोः— अम्बुना पञ्चगव्येन क्षीरेण तदनन्तरम्। दध्ना घृतेन मधुना सर्वौषधिजलेन तु॥ बीजाम्बुफलतोयेन गन्धपुष्पाम्बुना ततः। हेमरत्नोदकेनाथ पूरितं तु यथाक्रमम्॥ कलशानां द्विषट्कं यत् परमेतदुदाहृतम्। —(ई० सं० १५।७८-८०, पा० सं० १४।७८, ८१) इतीदमेव स्नपनं द्वादशकलशात्मकत्वेन प्रतिपादितम्, इह भवता त्रयोदश- कलशात्मकत्वेन व्याख्यातं कथमेतदविरुद्धं भवतीति चेत्, सत्यम्। अविरोधं ब्रूमः—किमीश्वरपारमेश्वरयोरम्बुनेत्युक्तमात्रेण विरोधः? तत्र यथा मूलमम्बुनेत्यादिप्रतिपादनेऽपि तत्र विवक्षितम्, कलशानां द्विषट्कमित्युक्तत्वात्; पञ्च- गव्यादिन्येव विवक्षितानि। यथा पारमेश्वरे भोगयागप्रकरणे (५।१३०) "लक्ष्माद्याः केसरादिषु" (१२।८१) इति जयाख्यवचने प्रतिपादितेऽपि तत्र लक्ष्मीर्न विवक्षिता, हृन्मन्त्र एव विवक्षितः, तद्वदिहापि विवक्षाधीनं बोध्यम्। अत एवास्मत्तातपादैः सात्वतामृते पञ्चगव्यादीन्येव प्रतिपादितानि। ननु च किमेतावता प्रयासेन, मध्यस्थकेशवस्याप्यभिषेकसिद्ध्यर्थं खलु भवता त्रयोदशकलशात्मकत्वमङ्गीक्रियते, तथा त्रयोदशकलशात्मकत्वं ममापीष्टमेव। अपि तु
अष्टमः परिच्छेदः १७९ मध्यस्थितकेशवस्यारस्थितकेशवस्य चैकदेवत्वात्दम्बुनैव पृथक् कलशाभिषेकः, नारायणादीनां तु पञ्चगव्यादिभिरिति ज्ञेयम् । एवं चात्र त्रयोदशकलशात्मकमेव स्नपनम् । तत्र तु अम्बुना कलशद्वयपूरणस्याप्रकृतत्वाद् द्वादशकलशात्मकत्वेनैव प्रतिपादितत्वाच्चाम्बुनैक एव कलशः पूर्यः । तथा चाम्बुनेति पदस्यापि सार्थक्यं भवतीति चेन्न, अम्बुनैव कलशद्वयपूरणे पञ्चगव्यादिद्वादशद्रव्येष्वेकतमस्य गत्य- भावात् । न च गन्धपुष्पाम्बुनेत्यत्रैकवचनाद् गन्धसहितपुष्पोदकमेवार्थः, न तु द्रव्य- द्वयम् । अतः पञ्चगव्यादीन्येकादशैवेति वाच्यम्, हेमरत्नोकेनेत्यत्राप्येकवचनेन विनि- गमनाविरहात् पञ्चविंशतिकलशस्नपनप्रकरणे गन्धपुष्पोदकयोर्हेमरत्नोदकयोश्च पार्थ- क्येनोक्तत्वाच्च । नन्वम्बुना पञ्चगव्येनेत्याद्युक्तद्रव्येकं परित्यज्य पञ्चगव्यादीनामेव ग्रहणमनुचित- मिति चेन्न, श्रीसात्वतषष्ठपरिच्छेदोक्तपञ्चविंशतिकलशस्नपने क्षीरादीनि परित्यज्य धात्रीफलोदकादिभिरेव द्वादशकलशस्नपनमीश्वरपारमेश्वर्योः प्रतिपादितं यथा समुचितं भवति, तद्वदिदमपि बोध्यम् । ननु च तत्र निर्विवादं द्वादशैव द्रव्याणि प्रतिपादितानि, अत्र तु त्रयोदश- द्रव्याणामप्युक्तत्वात् तन्मध्ये किं त्याज्यम्, कानि ग्राह्याणि, तत्र किं विनिगमकमिति चेदुच्यते, मध्यस्थितस्य केशवस्याभिषेकार्थं यदुक्तं तत् त्याज्यम्, अरस्थकेशवादि- क्रमेण यान्युक्तानि, तानि द्वादशद्रव्याण्यपि ग्राह्याणि । केशवादिक्रमेणोक्तानां द्रव्याणां मध्ये कस्यचित् परित्यागानौचित्यमेव तत्र विनिगमकमिति सूक्ष्मदृष्ट्या द्रष्टव्य- मायूष्मता ॥ ७५-७६ ॥ अब स्नपन का द्रव्य कहते हैं—जल से एवं पञ्चगव्य के दूध से इसके बाद दही, घृत, मधु तथा सर्वौषधि के जल से स्नान करावे । इसके बाद बीजाम्बु फल, तोय, गन्ध, जल, पुष्प जल, फिर हेमरत्नोदक फिर कुम्भस्थ जल से पृथक्-पृथक् स्नान करावे ॥ ७५-७६ ॥ सितं विलेपनं पुष्पं धूपं मधु घृतं दधि । नैवेद्यं विविधं पूतं व्रीहयो यवसंयुताः ॥ ७७ ॥ निवेद्य राजते पात्रे यथाशक्ति विनिर्मिते । पात्राभावाच्च रजतं स्वल्पमात्रं न लोपयेत् ॥ ७८ ॥ अथ केशवादित्रिकस्य सितवर्णत्वात् श्वेतवर्णचन्दनकुसुमादिभिरेव तदर्चनम्, रजतपात्रे यवव्रीहिमात्रानिवेदनम्, पात्रालाभे मात्रादानेन सह किञ्चिद्रजतं वा देयमिति चाह—सितमिति द्वाभ्याम् ॥ ७७-७८ ॥ इसके बाद सित, विलेपन, पुष्प, धूप, मधु, घृत, दधि, विविधपुत, नैवेद्य, यव संयुक्त व्रीहि इत्यादि पदार्थ यथाशक्ति विनिर्मित करे और रजत पात्र में स्थापित कर नैवेद्य अर्पित करे । यदि पात्र न प्राप्त हो तो स्वल्प रजत निवेदन करे । किन्तु क्रिया का लोप न करे ॥ ७७-७८ ॥
१८० सात्वतसंहिता पश्चात् तद्भगवत्पूतं मधुपर्कादिकं तु वै। प्रतिपाद्य गुरोर्भक्त्या प्रसन्नेनान्तरात्मना ॥ ७९ ॥ अनन्तरं गुर्वर्चनमाह—पश्चादिति ॥ ७९ ॥ अब गुरुपूजन कहते हैं—इसके बाद भगवान् को निवेदित मधुपर्कादि पदार्थ प्रसन्नचित्त से भक्तिपूर्वक गुरु को प्रदान करे ॥ ७९ ॥ यवान्नं व्रीहिजं त्वादौ समश्नीयाद् घृतान्वितम्। व्रतिनो भोज्यद्रव्यमाह—यवान्नमित्यर्थेन ॥ ८०॥ ततः प्रभृतिकालाच्च प्रत्यहं केशवस्य तु ॥ ८० ॥ स्थानद्वयं निविष्टस्य पूजनं च समाचरेत्। प्राग्वन्मध्ये केशवस्य देवीयुक्तस्य बाह्यतः ॥ ८१ ॥ ततो नारायणादीनां सदेवीनां च वै क्रमात्। सर्वेषां पूजनं कुर्यात् प्रादक्षिण्येन यत्नतः ॥ ८२ ॥ यथासम्भवतो भक्त्या पुष्पधूपादिकेन तु। यावदभ्येति दशमी सिता पौषस्य वै तिथिः ॥ ८३ ॥ एवं पुष्यशुद्धदशमीपर्यन्तं प्रत्यहं केशवस्य कर्णिकामध्येऽरप्रदेशे च स्थान- द्वयेऽर्चनम्, तत्र मध्ये केवलस्य, अरस्थाने देव्या सहार्चनम्, तथैवारस्थितानां नारायणादीनामपि तत्तद्देवीभिः सह प्रादक्षिण्येनार्चनं च कार्यमित्याह—तत इति सार्द्धैस्त्रिभिः ॥ ८०-८३ ॥ इसके बाद सर्वप्रथम घृतान्वित यवान्न और व्रीहिज अन्न से स्वयं भोजन करे। उस काल से लेकर पुष्य नक्षत्र युक्त शुक्ल दशमी पर्यन्त केशव का कर्णिका मध्य में पूजन करे तथा अर स्थान में देवी के साथ दोनों स्थानों में अर्चन करे। इसी प्रकार अर में स्थित देवी सहित नारायणादि का क्रमशः सभी का प्रदक्षिण क्रम से यथा संभव प्राप्त पुष्प, धूपादि के साथ भक्तिपूर्वक पूजन करे ॥ ८०-८३ ॥ ततः प्रभृतिकालाच्च प्रागुक्तविधिनाऽखिलम्। नारायणाख्यमन्त्रेण व्रतकर्म समापयेत् ॥ ८४ ॥ तमर्चयेत् तु प्रथमं मध्ये कारणमूर्तिगम्। बहिर्देवीसमेतं च प्राग्वत् स्नानादिना प्रभुम् ॥ ८५ ॥ द्वादश्यन्तं विधानेन केशवेन समन्वितम्। किन्त्वत्र विहितं पश्चात् पूजनं केशवस्य च ॥ ८६ ॥ दिनावसाने द्वादश्यां धूपं दत्त्वा क्षमापयेत्।
अष्टमः परिच्छेदः १८१ कान्तासमन्वितं देवं केशवं क्लेशनाशनम् ॥ ८७ ॥ अथ तद्दशमीमारभ्य नारायणमन्त्रेण व्रतानुष्ठानम्, तदर्थं पूर्वोक्तकर्णिका- मध्ये केवलस्य स्वकारणभूतवासुदेवाकारनारायणस्यार्चनम्, बहिररस्थाने नारायणस्य तद्देव्या सहार्चनम्, दशम्याद्दिद्वादश्यन्तं दिनत्रये नारायणस्यार्चनानन्तरं केशव- स्यापि स्थानद्वयेऽर्चनम्, द्वादश्यां रात्रौ केशवस्योत्तरपूजां चाह—ततः प्रभृतीति चतुर्भिः ॥ ८४-८७ ॥ उसी काल से पहले कही गई विधि के अनुसार नारायणाख्य मन्त्र द्वारा समस्त व्रत कर्म समाप्त करे ॥ ८४ ॥ सर्वप्रथम कर्णिका के मध्य में सबके कारणभूत वासुदेवाकार श्री नारायण का अर्चन करे । फिर बाहर अर के स्थान में पूर्व की भाँति स्नानादि से देवी समेत नारायण की पूजा करे ॥ ८५ ॥ द्वादशी के दिन विधानपूर्वक केशव के साथ नारायण की पूजा करे । किन्तु यहाँ नारायण के बाद केशव की पूजा का विधान है । इसके बाद दिन बीत जाने पर क्लेशनाशक कान्ता सहित भगवान् केशव से क्षमा माँगे ॥ ८६-८७ ॥ विमर्श—दशमी से लेकर द्वादशी पर्यन्त तीन दिन तक नारायण की पूजा के बाद दो स्थानों में केशव का भी अर्चन करना चाहिए । अर्थात् पौष शुक्ल दशमी से आरम्भ कर नारायण का व्रतानुष्ठान करे । पहले पूर्वोक्त कर्णिका के मध्य में स्वकारणभूत वासुदेवाकार केवल नारायण का अर्चन करे । फिर बाहर अर स्थान में नारायण का देवी के साथ अर्चन करे । दशमी से लेकर द्वादशी पर्यन्त तीन दिन नारायण की अर्चना के बाद केशव का भी दोनों स्थानों में अर्चन करे । फिर द्वादशी के दिन रात्रि में केवल केशव की पूजा करे । अथ दामोदरान्ताभिर्मूर्त्तिभिश्च समन्वितम् । देवं नारायणं भक्त्या परेऽहनि समर्चयेत् ॥ ८८ ॥ मध्ये केशववत् पश्चाच्चक्रस्थं केशवारके । केशवं च तदीयेऽरे यजेत् कान्तासमन्वितम् ॥ ८९ ॥ एवं प्रतिदिनं तावद् यावन्मासस्य सा तिथिः । ततो माधवमूर्तेर्वै प्राग्वदाराधनं भवेत् ॥ ९० ॥ तदपरदिनमारभ्य माघशुक्लदशम्यन्तं नारायणस्यैव केशववत् स्थानद्वयेऽर्चनम्, तदनन्तरं केशवमाधवादीनां द्वितीयाद्यरेषु क्रमेण पूजनं च कार्यमित्याह—अथेति सार्ध- द्वाभ्याम् । केशवारके पूर्वकल्पे केशवो यस्मिन्नरे पूजितस्तस्मिन्नित्यर्थः । तदीयेऽरे नारायणः पूर्वं यस्मिन्नर्चितस्तस्मिन्नर इत्यर्थः । माघमासे माधवमन्त्रेण व्रतानुष्ठानं पूर्ववदेव कार्यमित्याह—तत इत्यर्धेन । अत्र प्राग्वदित्यनेन माघशुक्लदशम्यादि- द्वादश्यन्तं दिनत्रयेऽपि माधवस्य स्थानद्वयार्चनानन्तरं नारायणस्यापि स्थानद्वयेऽर्चनम्,
१८२ सात्वतसंहिता द्वादश्यां रात्रौ नारायणस्योत्तरपूजनम्, तदपरदिनमारभ्य फाल्गुनशुक्लद्वादश्यन्तं माधव- स्यैव स्थानद्वयेऽर्चनम्, द्वितीयाद्यरेषु केशवनारायणगोविन्दादीनामर्चनम्, तद्द्वादश्यां रात्रौ माधवस्योत्तरपूजनं चोक्तं भवति । तद्दशम्यादिद्वादश्यन्तं दिनत्रयेऽपि माधवा- र्चनात् पूर्वमेव गोविन्दादित्रिककारणभूतस्य सङ्कर्षणस्य कर्णिकामध्ये वासुदेववत् परत्वेन ध्यानम्, तत्र तदाकारस्य गोविन्दस्यार्चनम्, तस्यारस्थानेऽपि देव्या सहार्चनम्, सङ्कर्षणसमुत्पन्नगोविन्दादित्रिकस्य रक्तवर्णत्वेन चन्दनकुसुमवस्त्रभूषणनैवेद्यादीनामपि रक्तवर्णत्वम्, केषाञ्चित् कुसुमादीनामपि रक्तवर्णाभावेऽपि केनचिद्रक्तधातुना तद्रक्तीकरणम्, ताम्रपात्रे सक्तुमात्रनिवेदनं च ॥ ८८-९०॥ अब पौष शुक्ल दशमी के दूसरे दिन से आरम्भ कर माघ शुक्ल दशमी पर्यन्त नारायण की भी केशव की तरह दोनों स्थानों पर पूजा कहते हैं—इसके बाद दूसरे दिन दामोदरान्त मूर्तियों के साथ नारायण देव की भक्तिपूर्वक अर्चना करे । पीठ मध्यस्थ कर्णिका के मध्य में केशव की ही भाँति केवल तथा चक्र के अरे में चक्र पर स्थित सपत्नीक नारायण का पूजन करे । इस प्रकार प्रतिदिन तब तक पूजन करे जब तक अगले मास की अगली तिथि न आ जावे । इसी प्रकार माधव की मूर्ति की भी आराधना करे ॥ ८८-९० ॥ तदर्चने समाप्ते तु द्वादश्यां फाल्गुनस्य च । सङ्कर्षणं परत्वेन भावयेद् वासुदेववत् ॥ ९१ ॥ तदाश्रितं तु गोविन्दं मध्ये मूर्तं समाह्वयेत् । चक्रस्थं सह देव्या वै ततस्तं पूज्य पूर्ववत् ॥ ९२ ॥ रक्तचन्दनयुक्तेन कुङ्कुमेन तथैव च । पुष्पस्रग्वाससा तद्वद् रक्तशाल्योदनेन च ॥ ९३ ॥ सुगन्धेन फलै रक्तैर्लिप्तैर्वा रक्तधातुभिः । आरक्तरत्नसंसिद्धैर्विद्रुमैः पुरुभूषितैः ॥ ९४ ॥ सक्तूंस्तु ताम्रपात्रे तु कृत्वाऽथ विनिवेद्य तु । विशेषमाह—तदर्चने समाप्त इत्यादिभिः । अत्र द्वादश्यामित्यनेन दशम्यादिद्वाद- श्यन्तदिनत्रयमप्युपलक्ष्यते ॥ ९१-९५ ॥ माधव की अर्चना की समाप्ति के बाद फाल्गुन शुक्ल दशमी को वासुदेव की तरह ही परस्वरूप सङ्कर्षण की भावना करे ॥ ९१ ॥ फिर उनसे निष्पन्न उन्हीं के आश्रित गोविन्द का कर्णिका मध्य में आवाहन करे तथा चक्र के अरे में देवी के साथ पूजन करे । (यहाँ तदाकार होने से गोविन्द का पूजन कहा गया है) यतः गोविन्द रक्त वर्ण के हैं इसलिये इनका पूजन भी रक्त चन्दन, रक्त कुङ्कुम, रक्त पुष्प, रक्त वस्त्र, रक्त शालि का ओदन, रक्त सुगन्ध, रक्त फल, रक्तानुलेपन, रक्त धातु एवं रक्त वर्ण के रत्नों के
अष्टमः परिच्छेदः १८३ आभूषणों से करे । फिर ताम्रपात्र में सक्तु स्थापित कर निवेदन करे । अर्चन के समाप्त होने पर होम करे ॥ ९२-९५ ॥ तदर्चने च होमान्ते सम्पन्ने सति वै व्रती ॥ ९५ ॥ याते मासत्रये चैव प्रसन्नेऽन्तःस्थितेऽच्युते । गुरुमूर्तिगतो देवः पूजनीयश्च भक्तितः ॥ ९६ ॥ वस्त्रैर्विलेपनैर्माल्यैः कटकैरङ्गुलीयकैः । यथाशक्ति विना शाठ्यं पारणे पारणे ततः ॥ ९७ ॥ प्रीणयेद् वासुदेवं च मूर्तित्रयसमन्वितम् । ऐहिकान् धर्मकामार्थान् मम यच्छन्तु शक्तयः ॥ ९८ ॥ मोक्षविघ्नोपशमनं नित्यं कुर्वन्तु मूर्तयः । सर्वदा नित्यशुद्धो यः परमात्मा परः प्रभुः ॥ ९९ ॥ पतितस्य भवाम्बोधौ वासुदेवोऽस्तु मे गतिः । कृत्वैवं प्रीणनं सम्यग् वासुदेवस्य भक्तितः ॥ १०० ॥ तन्मूर्तित्रितयस्यापि शक्तित्रययुतस्य च । एवं होमान्ते गोविन्दार्चनप्रारम्भानन्तरं मार्गशीर्षादिमासत्रयकृतप्रसादगुणार्थं विशेषेण गुर्वर्चनम्, पारणानन्तरं प्रणवनमःपूर्वकश्लोकद्वयात्मकमन्त्रेण दक्षिणपाणि- स्थसपुष्पार्घ्योदकेन वासुदेवप्रीणनं चाह—तदर्चन इति षड्भिः । शक्तयः श्रिया- दयस्तिस्र इत्यर्थः । मूर्तयः केशवादयस्त्रय इत्यर्थः ॥ ९५-१०१ ॥ इस प्रकार गोविन्दार्चन आरम्भ के बाद तीन महीने के बीत जाने पर व्रती साधक अपने गुरु का अर्चन करे । यतः गुरु साक्षात् मूर्त्तिगत देवं हैं अतः भक्तिपूर्वक उनका पूजन करना ही चाहिये । वस्त्र, विलेपन, माला, कटक तथा अंगूठी अपनी शक्ति के अनुसार पारण पर उन्हें प्रदान करे, शठता न करे । फिर मूर्त्तिमय समन्वित वासुदेव को भी पूजा से प्रसन्न करे और उनकी शक्तियों से इस प्रकार प्रार्थना करे ॥ ९६-९८ ॥ हे शक्तियों ! मुझे ऐहिक (इस लोक में) धर्म, काम और अर्थ प्रदान कीजिए । मेरे मोक्ष में आने वाले सभी विघ्नों को ये मूर्त्तियाँ शान्त करें, जो परमात्मा नित्य शुद्ध पर प्रभु हैं वह भगवान् वासुदेव संसार समुद्र में गिरे हुए मुझ अशरण की रक्षा करें । इस प्रकार भगवान् वासुदेव को भली-भाँति भक्तिपूर्वक प्रसन्न करे ॥ ९९-१०० ॥ इसी प्रकार श्रियादि तीन शक्तियों को तथा केशवादि तीन मूर्त्तियों को भी प्रसन्न करे ॥ १०१ ॥ अथ त्रितययुक्तस्य द्वितीयस्य महात्मनः ॥ १०१ ॥
१८४ सात्वतसंहिता सङ्कर्षणाभिधानस्य तत आरभ्य यत्नतः । प्राग्वदाराधनं कुर्यात् प्रत्यहं मासभेदतः ॥ १०२ ॥ अथ तदारभ्य ज्येष्ठशुक्लद्वादश्यन्तं मासत्रये क्रमेण गोविन्दविष्णुमधुसूदन- मन्त्रैर्व्रतानुष्ठानम्, तेषां कारणभूतसङ्कर्षणस्य कर्णिकामध्ये मासत्रयेऽपि परत्वेनार्चनं चाह—अथेति सार्धेन ॥ १०१-१०२ ॥ उस दिन से प्रारम्भ कर ज्येष्ठ शुक्ल द्वादशी पर्यन्त तीन मास तक गोविन्द, विष्णु एवं मधुसूदन के मन्त्रों से तत्कारणभूत सङ्कर्षण का कर्णिका के मध्य में पहले की तरह मास भेद से प्रतिदिन आराधन करे ॥ १०१-१०२ ॥ पश्चान्मासत्रये याते प्राप्ते ज्येष्ठस्य तद्दिने । त्रिविक्रमाख्यमन्त्रेण चान्यत् सर्वं पुरोदितम् ॥ १०३ ॥ मध्यतोऽम्बुजगर्भस्थं प्रद्युम्नं सर्वगं स्मरेत् । त्रिविक्रमं तदाकारं भावयित्वा ततो यजेत् ॥ १०४ ॥ अनन्तरं च संस्थानादानीय प्रागरान्तरम् । यष्टव्यः सविशेषेण त्वनुज्झिततनुः क्रमात् ॥ १०५ ॥ तन्मासत्रयानन्तरं तद्दशम्यां त्रिविक्रममन्त्रेण व्रतप्रारम्भम्, त्रिविक्रमादित्रिक- कारणभूतप्रद्युम्नस्य परत्वेन कर्णिकामध्ये ध्यानम्, तदाकारत्वेन ध्यातस्य त्रिविक्रमस्य तस्यार्चनम्, तस्यारस्थानेऽपि देव्या सहार्चनं चाह—पश्चादिति त्रिभिः ॥१०३-१०५॥ इसके बाद तीन महीना व्यतीत हो जाने पर ज्येष्ठ शुक्ल दशमी से त्रिविक्रम मन्त्र से व्रतारम्भ करे । त्रिविक्रम के कारणभूत प्रद्युम्न का कर्णिका के मध्य में ध्यान करे । तदाकार होने से ध्यात त्रिविक्रम का अर्चन करे और अर स्थान पर देवी के साथ उनकी अर्चना करे ॥ १०३-१०५ ॥ श्रीखण्डं च सकर्पूरमीषत् कुङ्कुमभावितम् । पीतं विलेपनं चात्र तथा पुष्पफलादिकम् ॥ १०६ ॥ पीतानां फलपुष्पाणामभावे मसृणेन तु । पीतेन धातुचूर्णेन रञ्जयेत् कुङ्कुमेन वा ॥ १०७ ॥ सघृतं हेमपात्रं च पूजान्ते विनिवेद्य च । पात्राभावे यथाशक्ति काञ्चनं च घृतोपरि ॥ १०८ ॥ प्रद्युम्नोत्पन्नत्रिविक्रमादित्रिकस्य पीतवर्णत्वेन तादृशवर्णैरेव गन्धपुष्पादिभिरर्च- नम्, केषाञ्चित् पीतानामलाभेऽपि हरिद्राकुङ्कुमादिना पीतीकरणम्, घृतपूरितहेमपात्र- दानम्, तदशक्तौ यथाशक्ति काञ्चनान्वितघृतदानं वा कार्यमित्याह—श्रीखण्डमिति त्रिभिः ॥ १०६-१०८ ॥
अष्टमः परिच्छेदः १८५ यतः प्रद्युम्नोत्पन्न त्रिविक्रमादि का वर्ण पीत है, इसलिये उनकी पूजा पीत गन्ध-पुष्पादि से ही करे । उसके अभाव में हल्दी, कुङ्कुमादि से रंग कर पीत वर्ण बनाकर उनकी पूजा करे और घृत पूरित हेमपात्र का दान करे ॥ १०६-१०८ ॥ गुर्वर्चननिरूपणम् ततः सम्पूजनं कुर्याद् व्रतादेष्टरि पूर्ववत् । गोहेमवस्त्रपूर्वस्तु यथा सन्तोषमेति सः ॥ १०९ ॥ अथ गुर्वर्चनमाह—तत इति । व्रतादेष्टरि गुरावित्यर्थः ॥ १०९ ॥ तत्पूजान्ते पारणेन द्वितीयं च जगत्पतिम् । प्रीणयेत् सङ्कर्षणं च गृहीत्वा पाणिना जलम् ॥ ११० ॥ प्रणवाद्येन तेनैव मन्त्रेणाद्योदितेन च । सनमस्केन किन्त्वत्र गतिः सङ्कर्षणोऽस्तु मे ॥ १११ ॥ अथ पारणानन्तर पूर्वोक्तरीत्या सङ्कर्षणप्रीणनम्, पूर्वोक्तमन्त्रे वासुदेवोऽस्तु मे गतिरिति वाक्यं विहाय सङ्कर्षणोऽस्तु मे गतिरिति वाक्ययोजनं चाह—तत्पूजान्त इति द्वाभ्याम् । पारणेन ब्राह्मणभोजनेनेत्यर्थः । गृहीत्वा पाणिना जलमित्यत्र सपुष्पं प्रधानार्घ्यजलं ग्राह्यम् । दीक्षापरिच्छेदे— तदम्भसा चार्घणं तु तथैव परिषेचनम् ॥ कुर्यात् प्रणयनादानं प्रीणनं प्रीतिकर्म च । (१८।७१-७२) इति प्रधानार्घ्यजलेन प्रीणनस्य वक्ष्यमाणत्वात्, ईश्वरपारमेश्वर्योः— इत्युक्त्वा सोदकं पश्चात् पुष्पं दक्षिणपाणिगम् ॥ अग्रतो निक्षिपेद् विष्णोर्मूलमन्त्रेण नारद । (१३।२३१-२३२) —(ई०सं० ५।३७-३८, पा०सं० ६।४११-४१२) इति जयाख्यवचनेनोदाहृतेन सपुष्पस्योक्तत्वाच्च ॥ ११०-१११ ॥ अब गुरु की अर्चना कहते हैं—इसके बाद व्रत के आदेष्टा गुरु का पूर्ववत् पूजन करना चाहिये । उन्हें गाय, सुवर्ण एवं वस्त्रादि दान करे जिससे वे सन्तुष्ट हो जावें । फिर पारण करने के पश्चात् द्वितीय जगत्पति सङ्कर्षण का पूजन कर उन्हें प्रसन्न करना चाहिये । साधक हाथ में जल लेकर प्रणवादि के सहित पूर्व में कहे गये मन्त्र से प्रसन्न होकर ‘ॐ सङ्कर्षणोऽस्तु मे गतिः’ इस मन्त्र से प्रार्थना करे ॥ १०९-१११ ॥ अथ त्रिविक्रमं देवं वामनं श्रीधरं प्रभुम् । यजेन्मासत्रयं तावद्यावत् स्याद् दशमी सिता ॥ ११२ ॥ तदादि वै हृषीकेशमन्त्रेणाखिलमाचरेत् । सा० सं० - 16
१८६ सात्वतसंहिता परत्वमनिरुद्धस्य प्राप्ते चावसरे स्मरेत् ॥ ११३ ॥ तदाकारं हृषीकेशं पद्मोदरगतं स्मरेत् । इष्ट्वा सम्यग्विधानेन चक्रारस्थं यथा पुरा ॥ ११४ ॥ अत्र राजोपचारैस्तु षट्पदाभैस्तु चाऽर्चनम् । पुष्पौदनाम्बरैः कुर्यादभावादञ्जनादिना ॥ ११५ ॥ पिञ्जरीकृत्य यत्नेन देवाय विनिवेद्य च । कृष्णागुरुविमिश्रं च लेपनं चात्र कुङ्कुमम् ॥ ११६ ॥ धौतायसमयं पात्रं मणिभिश्चासितैश्चितम् । सम्पूर्णं च तिलैः कृष्णैः पूजान्ते विनिवेद्य च ॥ ११७ ॥ सम्यक् तदर्चनं कृत्वा यथासम्पत्ति भक्तितः । तृतीयं प्रीणयेत् प्राग्वत् प्रद्युम्नो मेऽस्तु वै गतिः ॥ ११८ ॥ अथ त्रिविक्रमादिमन्त्रत्रयेण भाद्रपदशुक्लदशम्यन्तं व्रतानुष्ठानम्, तदारभ्य हृषीकेशमन्त्रेण व्रतारम्भम्, हृषीकेशादित्रिककारणभूतानिरुद्धस्य कृष्णवर्णत्वे कृष्ण- वर्णैरेव गन्धपुष्पवस्त्ररत्नफलादिभिरर्चनम्, केषाञ्चित् कृष्णवर्णानामलाभेऽप्यञ्जनादिना तत्कृष्णीकरणम्, कृष्णतिलपूरितधूपपात्रमात्रादानम्, गुर्वर्चनम्, ततः पूर्वोक्तरीत्या प्रद्युम्नप्रीणनं चाह—(अत्र राजोपचारैरिति चतुर्भिः ? अथ त्रिविक्रममिति सप्तभिः) । सम्यक् तदर्चनं कृत्वेत्यत्र तदर्चनं गुर्वर्चनमित्यर्थः ॥ ११२-११८ ॥ अब त्रिविक्रमादि मन्त्र त्रय के साथ भाद्र शुक्ल दशमी पर्यन्त व्रतानुष्ठान कहते हैं—इसके बाद त्रिविक्रम, वामन एवं श्रीधर का तीन महीने तक, जब तक आगे वाली शुक्ल पक्ष की दशमी न आ जाय तब तक पूजन करे ॥ ११२ ॥ उसके आदि में हृषीकेश मन्त्र से समस्त कार्य करे । फिर परस्वरूप अनिरुद्ध का और अवसर प्राप्त होने पर उनके आकार वाले हृषीकेश का कमल के मध्य में ध्यान करे ॥ ११३ ॥ पूर्व की भाँति विधानपूर्वक पूजन कर चक्र के अरे में सपत्नीक उनका ध्यान करे और राजोपचार से काले पदार्थों द्वारा उनका अर्चन करे । काले पुष्प, काला ओदन और काले वस्त्रों से उनका पूजन करे । इनके अभाव में गन्ध, पुष्पादि वस्तुओं से अञ्जनादि से रंग कर उसे काला बना कर पूजन करे । फिर कृष्णागुरु विमिश्रित लेपन, कुङ्कुम एवं घृत को तथा काले मणियों को और काले तिलों को किसी काले लौह पात्र में स्थापित कर दान देवें । इस प्रकार भक्तिपूर्वक अपनी सम्पत्ति के अनुसार पूजन करे । फिर 'प्रद्युम्नो मेऽस्तु वै गतिः' इस मन्त्र से प्रद्युम्न से प्रार्थना करे ॥ ११३-११८ ॥ ततो मासानुमासं च हृषीकेशादनन्तरम् ।
अष्टमः परिच्छेदः १८७ पद्मनाभं समभ्यर्च्य ततो दामोदरं तु वै ॥ ११९ ॥ गते मासत्रये ह्येवं सम्प्राप्य पुनरेव हि । दशमीं मार्गशीर्षस्य तदा कर्मणि कर्मणि ॥ १२० ॥ चतुर्षु चातुरात्मीयं मन्त्राणां विनियोज्य च । चतुर्मूर्त्यभिधानं च समालम्व्य यजेच्च तत् ॥ १२१ ॥ कर्णिकोपरि पत्रेषु प्रागादि हृदयादिकम् । विदिक्ष्वस्त्रं विभोरग्रे नेत्रं वै केशराश्रितम् ॥ १२२ ॥ अरान्तरे ततः स्वे स्वे दश द्वौ केशवादिकान् । चतुर्वर्णैस्तु कुसुमैस्तथा वस्त्रानुलेपनैः ॥ १२३ ॥ तद्वद् भक्ष्यैश्च नैवेद्यैः पानकैः पावनैः फलैः । अथान्यैर्विविधैर्भोगैर्ध्वजाद्यैर्यानवाहनैः ॥ १२४ ॥ मात्राभिः सहिरण्याभिस्ताम्बूलेनात्मना ततः । अथ हृषीकेशादिमन्त्रत्रयेण मार्गशीर्षशुक्लदशम्यन्तं मासत्रयं व्रतानुष्ठानम्, तदारम्भे द्वादश्यन्तं दिनत्रये कर्णिकामध्ये वासुदेवादीनां चतुर्णामप्यर्चनम्, प्राग्दलादिषु हृन्मन्त्राद्यर्चनम्, अरुषु केशवादिद्वादशमूर्तीनामर्चनं च पूर्वोक्तैश्चतुर्वर्णचन्दन कुसुमादिभिश्चतुर्विधमात्राभिश्च तत्तन्मूर्त्यनुसारेण कार्यमित्याह—ततो मासानुमासं चेत्यादिभिः ॥ ११९-१२५ ॥ इस प्रकार हृषीकेशादि मन्त्र से मार्गशीर्ष शुक्ल दशमी पर्यन्त तीन मास तक क्रमशः हृषीकेश एवं पद्मनाभ तदनन्तर दामोदर का अर्चन करे ॥ ११९ ॥ इस प्रकार तीन मास बीत जाने पर मार्गशीर्ष शुक्ल द्वादशी पर्यन्त तीन दिन तक कर्णिका के मध्य में वासुदेवादि चारों व्यूह का अर्चन करे । कर्णिका के बाद पूर्वादिक पत्रों पर हृन्मन्त्रादि का अर्चन करे, विदिक् में विभु के अस्त्र का तथा केशर पर स्थित नेत्र का अर्चन करे । बारह अरों पर अपने-अपने स्थान में बारह केशवादि का अर्चन करे । पूर्वोक्त कहे गये चारों प्रकार के (श्वेत, लाल, पीत और काले) वर्ण वाले व्यूह देवता का चन्दन, पुष्प, वस्त्र, अनुलेपन, भक्ष्य, नैवेद्य, दुग्धादि, पानक, पवित्र फल तथा अन्य प्रकार के भोग, ध्वजादि, वाहनों से तथा मात्रा (तिलादि विभिन्न अन्न) हिरण्यादि ताम्बूलादि से अर्चना करे । तदनन्तर पूर्वोक्त कहे गये वह्निमध्यस्थ मन्त्र-ग्रामों का अर्चन करे ॥ १२०-१२५ ॥ तर्पयेद् वह्निमध्यस्थं मन्त्रग्रामं यथोदितम् ॥ १२५ ॥ ततोऽर्चनं गुरोः कुर्याद् विशेषेण पुरोदितम् । ब्राह्मणान् भोजयेत् पश्चात्तेभ्यो दद्याच्च दक्षिणाम् ॥ १२६ ॥ प्रीणनं च पठेत् प्राग्वदनिरुद्धोऽस्तु मे गतिः ।
१८८ सात्वतसंहिता ततः पूर्णाहुतिं दद्यात् पश्चादिदमुदाहरेत् ॥ १२७ ॥ व्रतोत्तमेनानेनाद्य मया भक्त्या कृतेन च। चत्वारो वासुदेवाद्या मूर्तयः शक्तिभिः सह ॥ १२८ ॥ प्रयान्तु प्रीतिमतुलां दिशन्तु भविनोऽभयम्। धन्यं व्रतमिदं पुण्यं संसाराध्वनिवर्तनम् ॥ १२९ ॥ एषां सर्वेषामपि वह्निमध्ये सन्तर्पणम्, ततो गुर्वर्चनम्, ब्राह्मणभोजनम्, अनि- रुद्धप्रीणनम्, पूर्णाहुतिम्, वासुदेवादीनां चतुर्णामपि युगपत् प्रीणनं चाह—तर्पयेदिति चतुर्भिः ॥ १२५-१२९ ॥ इसके बाद गुरु का अर्चन, विशेष रूप से जो पहले कहा गया है उसके अनुसार, करे। फिर ब्राह्मणों को भोजन करावे और उन्हें दक्षिणा प्रदान करे। तदनन्तर 'अनिरुद्धोऽस्तु मे गतिः' यह प्रीणन मन्त्र पढ़कर अनिरुद्ध से प्रार्थना करे। फिर पूर्णाहुति दे कर उसके बाद चारों व्यूह को प्रीणन के लिये यह प्रार्थना करे ॥ १२६-१२७ ॥ भक्तिपूर्वक मेरे द्वारा किये गये इस व्रत से अपनी-अपनी शक्तियों के साथ चारों वासुदेवादि मूर्त्तियाँ अत्यन्त प्रसन्न हो जावें, संसारी मनुष्यों को अभय करें, यह व्रत अनन्त फल देने वाला है। इसमें विघ्न आने पर भी अभय ही रहना चाहिये क्योंकि यह व्रत धन्य है, पुण्यावह है, संसार रूपी मार्ग से निवृत्त करने वाला है ॥ १२८-१२९ ॥ अल्पक्लेशमसङ्कीर्णमनन्तफलदं नृणाम्। नावसादस्त्वतः कार्य एतदाचरणे तु वै॥ १३० ॥ अस्य व्रतस्यासम्पूर्णत्वेऽप्यनन्तफलप्रदत्वान्मध्ये विघ्नान्न भेतव्यमित्याह—धन्य- मिति सार्धेन ॥ १२९-१३०॥ यथोपसदनैः कार्यमध्यमैर्मध्यमैर्जनैः। अशाठ्येन यथाशक्ति त्वारण्यैः कुसुमादिकैः ॥ १३१ ॥ अद्भिर्दूर्वाङ्कुरैः पत्रैर्जपजागरणादिना। दीपेनाभ्युक्षणेनैव मार्जनेनोपलेपनैः ॥ १३२ ॥ इदं व्रतं यथाशक्ति मध्यमकल्पेनाधमकल्पेन वा केवलं पत्रपुष्पफलतोयादिभिर्वा जपजागरणदीपारोपणमार्जनानुलेपनादिकैङ्कर्येण वाऽनुष्ठेयमित्याह—यथोपसदनैरिति द्वाभ्याम् ॥ १३१-१३२ ॥ इस व्रत में क्लेश किञ्चिन्मात्र है। यह व्यापक है और मनुष्यों को अनन्त फल देने वाला है। इसमें दुःख रञ्चमात्र भी नहीं है। यह व्रत यथाशक्ति मध्यम
अष्टमः परिच्छेदः १८९ कल्प एवं अधम कल्प वाले मनुष्यों के द्वारा केवल पत्र, पुष्प, फल और जलादि यथोपलब्ध स्वल्प सामग्री से भी अनुष्ठेय है । यथाशक्ति आरण्यक पुष्पों से, दूर्वाङ्कुरों से, जल से, पत्र, जप, जागरणादि से, दीपारोपण, मार्जन, अनुलेपनादि, कैङ्कर्यों से अनुष्ठेय है ॥ १३०-१३२ ॥ व्रीहीन् सक्तूनथाज्यं च तिलान्यन्नान्यथाहरेत् । संवत्सरस्य पूजार्थं दानार्थं प्राशनाय च ॥ १३३ ॥ व्रतार्थं पूर्वं चतुर्विधमात्रा (द्या?) र्जनमाह—व्रीहीनिति ॥ १३३ ॥ सम्पूर्ण संवत्सर तक पूजा के लिये, दान के लिये, प्राशन के लिये, सर्वप्रथम इस व्रीहि व्रत में सूक्त घृत, तिल एवं अन्न एकत्रित करे ॥ १३३ ॥ पूर्वं मासत्रयं दद्याद् व्रीहीन् वै विनिवेद्य च । द्वादश्यां भोजनात् पूर्वं हितं तत्प्राशनं सदा ॥ १३४ ॥ अपरं सक्तवश्चैव तृतीयं त्रितयं घृतम् । तिलानां त्रितयं चान्यत् प्राशनं चैवमेव हि ॥ १३५ ॥ मार्गशीर्षादिमासत्रयेऽपि द्वादश्यां भोजनात् पूर्वं व्रीहिमात्रादानम्, ततो व्रीह्यन्न- भोजनम्, फाल्गुनादित्रये सक्तुदानम्, तत्प्राशनम्, ज्येष्ठादित्रये आज्यदानम्, तत्प्राशनम्, भाद्रपदादित्रये तिलदानम्, तिलप्राशनं चाह—पूर्वमिति द्वाभ्याम् ॥ १३४-१३५ ॥ मार्गशीर्ष से लेकर तीन मास तक द्वादशी में भोजन से पूर्व व्रीहिपात्र का दान करे । तदनन्तर ब्रहि अन्न का भोजन तथा फाल्गुनादि तीन मास तक समुदान एवं तत्प्राशन करे । फिर ज्येष्ठादि तीन मास तक आज्यदान एवं आज्यप्राशन और भाद्रपदादि तीन मास तक तिलदान तथा तिलप्राशन करे ॥ १३४-१३५ ॥ द्वादशीनिर्णयकथनम् स्याद् यद्येकादशी पूर्णा द्वादश्यथ तया सह । परेऽहनि तदा कुर्याद् द्वादश्यामर्चनादिकम् ॥ १३६ ॥ द्वादशीनिर्णयमाह—स्यादिति । एकादशी पूर्णा स्याद्यदि द्वादशीदिनेऽप्यवशिष्टा चेदित्यर्थः । तया सह एकादश्या सह द्वादशी च पूर्णा स्याद्यदि त्रयोदशीदिनेऽप्य- वशिष्टा चेदित्यर्थः । तदा परेऽहनि द्वादश्यां त्रयोदशीदिनावशिष्टद्वादश्यामेवार्चनादिकं पूर्वोक्तव्रतार्चनपारणादिकं कुर्यादित्यर्थः । तथा च दर्शनिर्णये चन्द्रिकायाम्— सम्पूर्णैकादशी यत्र प्रभाते पुनरेव सा । वैष्णवी च त्रयोदश्यां घटिकैकापि दृश्यते ॥ गृहस्थोऽपि परां कुर्यात् पूर्वा नोपवसेद् गृही । इति पूर्णशब्दार्थ उक्तः । अत्रैकादश्याः पूर्णशब्दविशेषणेनैव दशमीवेधराहित्य- मप्युच्यते, यतो दर्शनिर्णये—
१९० सात्वतसंहिता उदयात् प्राग् यदा विप्र मुहूर्त्तद्वयसंयुता । सम्पूर्णैकादशी नाम तत्रैवोपवसेद् गृही ॥ इति पूर्णशब्दार्थ उक्तः ॥ १३६ ॥ अब द्वादशी के निर्णय के विषय में कहते हैं—यदि एकादशी पूरे रात दिन हो और द्वादशी के दिन भी कुछ शेष हो । एकादशी के साथ यदि द्वादशी पूर्ण हो तथा दूसरे दिन भी त्रयोदशी के साथ शेष द्वादशी हो, तब दूसरे दिन, जिस दिन द्वादशी हो, अथवा जिस दिन त्रयोदशी के साथ अवशिष्ट द्वादशी हो, उसी में पूर्वोक्त व्रतार्चन एवं पारणादिक कर्म करे ॥ १३६ ॥ संवत्सरस्य वै मध्याद् यस्त्वेकां कर्तुमिच्छति । तस्यामपि स्वमन्त्रेण कर्म पूजान्तमाचरेत् ॥ १३७ ॥ यथाप्राप्तैस्तु पुष्पाद्यैः प्रागुक्ताङ्गैः सहार्चनम् । पररूपस्य मध्ये तु पूजनं स्वेऽन्वगेव हि ॥ १३८ ॥ केवलस्य तु तस्यैव स्वनाम्ना प्रीणनं हितम् । पारणं प्राग्विधानेन त्वेकं भूरिफलप्रदम् ॥ १३९ ॥ तस्माद् द्वे त्रीणि वा कुर्यात् स्वशक्त्या श्रद्धयान्वितः । एवमेकं वत्सरं प्रतिद्वादशीव्रतानुष्ठानाशक्तावेकस्यां वा द्वादश्यां तन्मासेश- मन्त्रेण तदनुगुणवर्णफलपुष्पादिवस्तुभिस्तत्कारणभूतवासुदेवाद्यन्यतमाकारस्य केवलस्य = कर्णिकामध्येऽर्चनम्, बहिररस्थाने तद्देव्या सहार्चनम्, एकस्य त्रयाणां वा ब्राह्मणानां भोजनम्, तेन तन्मासेशप्रीणनं च कार्यमित्याह—संवत्सरस्येति सार्धैस्त्रिभिः ॥ १३७-१४०॥ यदि कोई एक वर्ष तक प्रतिद्वादशी के व्रतानुष्ठान में अशक्त है तब वह किसी भी एक द्वादशी को उस मासेश के मन्त्र से यथाप्राप्त पुष्पादि से, प्रागुक्त अङ्गों के साथ वासुदेवादि किसी एक आकार का, केवल कर्णिका के मध्य में अर्चन करे, बाहर अरा के स्थान में देवी के साथ अर्चन करे । एक अथवा तीन ब्राह्मणों को भोजन करावे तथा उस मासेश को प्रसन्न रखे । केवल उसी एक का नाम ही प्रीतिकारक तथा हितकारी है । पूर्व के विधानानुसार केवल एक ही पारण भूरि फल देने वाला कहा गया है । इस कारण साधक श्रद्धा से संयुक्त होकर अपनी शक्ति के अनुसार एक, दो अथवा तीन द्वादशी का व्रत करे ॥ १३७-१४० ॥ नारी ह्यनन्यशरणा यद्येवं हि समाचरेत् ॥ १४० ॥ निःस्वामिका वानुज्ञाता पत्या साऽथाप्नुयाच्च तत् । इदं व्रतं स्त्रीभिरपि सुमङ्गलाभिः पूर्वसुमङ्गलाभिर्वाऽनुष्ठेयमित्याह—नारीति । तद् व्रतफलमित्यर्थः । सुमङ्गलायाः स्त्रियः पत्युरनुज्ञां विना व्रतानुष्ठानानौचित्यात्
अष्टमः परिच्छेदः १९१ पत्याऽनुज्ञातेत्युक्तम् । तथा च गारुडे— नारी खल्वननुज्ञाता पित्रा भर्त्रा सुतेन वा । निष्फलं तु भवेत् तस्या यत् करोति व्रतादिकम् ॥ अनापृच्छ्य तु भर्तारमुपोष्य व्रतमाचरेत् । आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् ॥ नास्ति स्त्रीणां पृथक् कर्म न व्रतं नाप्युपोषणम् । पतिशुश्रूषणं तासां तेन स्वर्गो विधीयते ॥ इति ॥ १४०-१४१ ॥ यह व्रत सुमङ्गला नारी अथवा पूर्वसुमङ्गला (= विधवा) दोनों को करना चाहिये । सुमङ्गला स्त्री पति की आज्ञा से यदि व्रत करे तो उसे भी इसका फल प्राप्त होता है ॥ १४०-१४१ ॥ चातुर्मास्यविधानम् अथापवर्गदं वक्ष्ये चातुर्मास्यं व्रतोत्तमम् ॥ १४१ ॥ यत्कृत्वाऽभिमतान् कामानिहैव लभते नरः । गृहमासाद्य निर्बाधं देशे वा न जनाकुले ॥ १४२ ॥ यथाविभवविस्तीर्णं तुर्याश्रं वा यथायतम् । धूमनिर्गमनोपेतं गवाक्षगणभूषितम् ॥ १४३ ॥ इष्टकाद्यैश्चितं कुर्यात् तन्मध्ये पिण्डिकात्रयम् । चतुरश्रं च विच्छिन्नं भूमेः किञ्चित् समुन्नतम् ॥ १४४ ॥ ततो दक्षिणदिग्वेदेरूर्ध्वे कुण्डं तु पूर्ववत् । मध्ये चन्दनमिश्रेण रोचनाकुङ्कुमेन च ॥ १४५ ॥ गोक्षीरमर्दितेनैव मासि मासि लिखेच्छुभम् । चक्रं षट्पत्रगर्भं तु स्नानपीठमुदग्दिशि ॥ १४६ ॥ ततस्त्वाषाढमासस्य दशम्यामुदितेन्दुना । वासुदेवाख्यमन्त्रेण तोयमादाय पाणिना ॥ १४७ ॥ भगवन् पुण्डरीकाक्ष सर्वव्रतपतेऽच्युत । व्रतं मे त्वत्प्रसादेन निष्पद्यतु तवाप्तये ॥ १४८ ॥ ततोऽर्चयेद् वासुदेवं द्वादश्यां कमलोदरे । प्रागादावथ पत्राणां त्रयं सङ्कर्षणादिकम् ॥ १४९ ॥ प्रादक्षिण्येन विन्यस्य यावद्रक्षःपदच्छदम् । ईशानपदपत्रात् तु अनिरुद्धादिकत्रयम् ॥ १५० ॥
१९२ सात्वतसंहिता अप्ययेन तु सम्पूज्य यावत् पश्चिमदिग्दलम् । भूतावासं पुनर्मध्ये ततश्चक्रारकेषु च ॥ १५१ ॥ क्रमेण पूर्वदारभ्य न्यासं पूजनमाचरेत् । वामनं चाथ तद्देवीं हृन्मन्त्रं च ततः शिरः ॥ १५२ ॥ श्रीधरस्त्वथ तत्कान्ता शिखा कवचमेव च । हृषीकेशश्च तत्पत्नी ह्यस्त्रं तदनु लोचनम् ॥ १५३ ॥ ध्यानं स्नानं तथा पूजां होमं जपसमन्वितम् । क्रमेणानेन सर्वेषां सर्वदैव समाचरेत् ॥ १५४ ॥ द्वादश्यां श्रावणस्याथ मध्ये सङ्कर्षणं यजेत् । तत्पत्राभ्यां वासुदेवं चक्रारेष्वथ पूर्ववत् ॥ १५५ ॥ त्रितयं पद्मनाभाद्यं तथा देवीं हृदादि यत् । ततो नभस्यद्वादश्यां प्रद्युम्नः कर्णिकागतः ॥ १५६ ॥ आद्यस्तत्पत्रगोऽराणां त्रयं नारायणादिकम् । देव्यश्चैवाङ्गषट्कं तु पूर्ववच्चारकान्तरे ॥ १५७ ॥ ततस्तदग्रद्वादश्यामनिरुद्धं यथा पुरा । पत्रयुग्मे तदीये तु आदिदेवं यजेत् क्रमात् ॥ १५८ ॥ त्रिविक्रमान्तं विष्ण्वाद्यं शक्तिरङ्गान्यथादिवत् । एवं तावद् यजेद् यावद् द्वादशी कार्तिकस्य तु ॥ १५९ ॥ तत्राखिलैर्मन्त्रवरैः कर्म निश्शेषमाचरेत् । द्वादश्यां पूर्ववन्मध्ये षडङ्गं तुल्यरूपधृक् ॥ १६० ॥ मूर्तयोऽरान्तरस्थाश्च नेमिस्थो देवतागणः । पूजाहोमं विशेषेण पूर्णान्तं पूर्वचोदितम् ॥ १६१ ॥ इत्येतत् सविशेषं च व्रतमुक्तं समासतः । यत्कृत्वा पुनरप्यत्र जायते न पुनर्भवे ॥ १६२ ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां समन्त्रकव्रतविधिर्नाम अष्टमः परिच्छेदः ॥ ८ ॥ — ൡ ॐ ൹ — अथ चातुर्मास्याविधिमाह—'अथापवर्गदं वक्ष्ये' इत्यारभ्य यावत्परिच्छेदपरि- समाप्ति । सुखबोधनायैतद्व्याख्या प्रयोगरूपेण विलिख्यते ।
अष्टमः परिच्छेदः १९३ निर्बाधे स्वगृहे विजनेऽन्यत्र वा देशे यथाविभवविस्तारायां धूमनिर्गमनार्थ- मूर्ध्वगवाक्षान्वितं परितश्च गवाक्षोपशोभितं यागमण्डपं परिकल्प्य तन्मध्ये इष्टकाभि- र्विरचितं चतुरश्रं भूमेः किञ्चिदुन्नतं वेदिकात्रयं निर्माय तत्र दक्षिणदिग्वेदेरूर्ध्वं पूर्वोक्तं कुण्डं कल्पयेत् । मध्यवेद्यां गोक्षीरमर्दितेन चन्दनमिश्रेण रोचनासहितेन कुङ्कुमेन प्रतिमासं षड्दलपद्मगर्भं द्वादशारं चक्रं विलिखेत् । उत्तरवेदेरूर्ध्वं स्नानपीठं स्थापयेत् । अथाषाढशुक्लदशम्यां सायं वासुदेवमन्त्रेण दक्षिणपाणिना तोयमादाय, भगवन् पुण्डरीकाक्ष सर्वव्रतपतेऽच्युत । व्रतं मे त्वत्प्रसादेन निष्पद्यतु तवाप्तये ॥ (८।१४८) इत्युदकप्रक्षेपपूर्वकं संकल्प्य, एकादश्यां समुपोष्य, द्वादश्यां प्रातः कर्णिकामध्ये वासुदेवं प्रागाग्नेयनैर्ऋतदलेषु प्रादक्षिण्येन सङ्कर्षणप्रद्युम्नानिरुद्धान्, ऐशान्यवायव्य- पश्चिमदलेष्वप्ययक्रमेणानिरुद्धप्रद्युम्नसङ्कर्षणांश्च सम्पूज्य, पुनर्मध्ये वासुदेवमभ्यर्च्य, चक्रस्य प्रागाद्यरेषु वामनं प्रीतिसंज्ञां तद्देवी हृन्मन्त्रं शिरोमन्त्रम्, श्रीधरं रतिसंज्ञां तद्देवी शिखामन्त्रं कवचमन्त्रम्, हृषीकेशं मायाख्यां तद्देवीमस्त्रमन्त्रं नेत्रमन्त्रं च क्रमेणाभ्यर्च्य, ध्यानार्चनस्नपननिवेदनहोमजपादिभिः सर्वान् सन्तोष्य, अथ श्रावण- शुक्ल द्वादश्यां कर्णिकामध्ये सङ्कर्षणं दलेषु सङ्कर्षणस्थानयोर्वासुदेवमरेषु पद्म- नाभादामोदरकेशवान् धीमहिमाश्रीदेवीत्रयं हृन्मन्त्रादिष्टकं चाभ्यर्च्य, भाद्रपदशुक्ल- द्वादश्यां मध्ये प्रद्युम्नं दलेषु प्रद्युम्नस्थानयोर्वासुदेवमरेषु नारायणमाधवगोविन्दान् वागीश्वरीकान्तिक्रियाख्यदेवीत्रयं हृन्मन्त्रादिष्टकं चाभ्यर्च्य, आश्वयुजशुक्लद्वादश्यां मध्येऽनिरुद्धं दलेष्वनिरुद्धस्थानयोर्वासुदेवमरेषु विष्णुमधुसूदनत्रिविक्रमान् शक्तिविभू (तिच्छाया? तीच्छाख्य)देवीत्रयं हृन्मन्त्रादिष्टकं च क्रमेणाभ्यर्च्य, कार्तिकशुक्ल- द्वादश्यां कर्णिकामध्ये वासुदेवादिमूर्तिचतुष्टये दलेषु हृन्मन्त्रादिष्टकमरेषु केशवादि- मूर्तिद्विष्टकं नेमिस्थाने श्रियादिदेवी-द्विष्टकं च यथाविधि विशेषेणाभ्यर्च्य होमं पूर्णाहृत्यन्तं कुर्यात् ॥ १४१-१६२ ॥ ॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये अष्टमः परिच्छेदः ॥ ८ ॥ हे सङ्कर्षण! अब मोक्ष देने वाला सर्वोत्तम 'चातुर्मास्य व्रत' कहता हूँ जिसके करने से मनुष्य अपनी सभी अभीष्ट कामनायें इसी लोक में प्राप्त कर लेता है । निर्बाध अपने गृह में, अथवा किसी निर्जन प्रदेश में, जो अपने विभव के अनुकूल लम्बा-चौड़ा हो, चौकोर हो, उस स्थान में धुआँ निकालने के लिये अपर गवाक्ष हो तथा चारों ओर भी गवाक्ष हो, ऐसे याग मण्डप का निर्माण करे । उसके मध्य में चौकोर भूमि में, भूमि से ऊपर ईंटों से तीन वेदी निर्माण करावे । उसमें दक्षिण वेदी के ऊपर पूर्वोक्त कुण्ड निर्माण करावे । मध्य वेदी में गोक्षीर से मर्दित चन्दन
१९४ सात्वतसंहिता मिश्रित रोचना सहित कुङ्कुम से प्रतिमास षड्दलगर्भ वाले द्वादशार चक्र को लिखे। उत्तर दिशा की वेदी में स्नान पीठ स्थापित करे। फिर आषाढ मास की शुक्ल दशमी को सायङ्काल के समय वासुदेव मन्त्र से हाथ में जल ले कर, 'भगवन् पुण्डरीकाक्ष सर्वव्रतपतेऽच्युत। व्रतं मे त्वत्प्रसादेन निष्पद्यतु तवाप्तये॥' इस मन्त्र को पढ़कर संकल्प करे फिर जल प्रक्षिप्त कर देवे। तदनन्तर एकादशी को उपवास करे, द्वादशी के दिन प्रातःकाल कर्णिका मध्य में वासुदेव का और पूर्व, अग्नि एवं नैर्ऋत दलों में प्रदक्षिण क्रम से सङ्कर्षण, प्रद्युम्न तथा अनिरुद्ध का अर्चन करे। ईशान, वायव्य तथा पश्चिम दिशा में संहार क्रम से अनिरुद्ध, प्रद्युम्न तथा सङ्कर्षण का पूजन करे। फिर मध्य में वासुदेव की अर्चना कर चक्र के पूर्व स्थित पहले अरे में वामन एवं प्रीति संज्ञक उनकी देवी का हृन्मन्त्र और शिरो मन्त्र से, फिर श्रीधर एवं रति संज्ञक उनकी देवी का शिखा मन्त्र और कवच मन्त्र से, फिर हृषीकेश एवं माया नामक उनकी देवी का अस्त्र मन्त्र एवं नेत्र मन्त्र से क्रमशः अर्चन कर ध्यान करे। इस प्रकार अर्चन, स्नपन, निवेदन, होम एवं जपादि से सबको सन्तुष्ट करे ॥ १४१-१५४ ॥ फिर श्रावण शुक्ल द्वादशी के दिन कर्णिका के मध्य में सङ्कर्षण का और उन सङ्कर्षण के दलों में एवं सङ्कर्षण स्थान में वासुदेव का, अरों में पद्मनाभ, दामोदर और केशव का तथा धी, महिमा और श्रीदेवी का, फिर ६ हृन्मन्त्रादि का अर्चन करे। फिर भाद्रपद शुक्ल द्वादशी को मध्य में प्रद्युम्न की, प्रद्युम्न स्थान में वासुदेव की, अरों में नारायण, माधव, गोविन्द की तथा वागीश्वरी कान्ति और क्रिया, उनकी तीनों देवियों की हृन्मन्त्रादि षटकों से पूजा करे। फिर आश्विन शुक्ल द्वादशी को मध्य में अनिरुद्ध तथा अनिरुद्ध स्थान में वासुदेव की, अरों में विष्णु, मधु-सूदन, त्रिविक्रम की तथा शक्ति, विभूति, छाया उनकी देवियों की हृन्मन्त्रादि षटकों से क्रम से अर्चना करे। कार्तिक शुक्ल द्वादशी को कर्णिका के मध्य में वासुदेवादि मूर्त्ति चतुष्टय की दलों पर हृन्मन्त्रादि षटकों से, अरों पर केशवादि द्वादश मूर्त्तियों की, नेमि स्थान में द्वादश श्रियादि देवियों की यथाविधि विशेष रूप से अर्चना कर होमपूर्वक पूर्णाहुति करे। हे सङ्कर्षण! यहाँ सविशेष किन्तु संक्षेप में यह व्रत कहा गया है। जिसे सम्पादन करने पर मनुष्य फिर इस लोक में जन्म नहीं लेता। इस प्रकार यहाँ चातुर्मास्य याग का विधान और फल कहा गया ॥ १५५-१६२ ॥ ॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के समन्त्रकव्रतविधि नामक अष्टम परिच्छेद की हिन्दी समाप्त हुई ॥ ८ ॥ — ❦ ❀ ❦ —
नवमः परिच्छेदः विभवदेवतान्तर्यागविधिः नारद उवाच अथ लाङ्गलिना देवश्चक्रधृक् परिचोदितः । यत् तच्छृणुत विप्रेन्द्राः कथ्यमानं मयाऽधुना ॥ १ ॥ अथ नवमो व्याख्यास्यते । सङ्कर्षणपरिपृष्टेन वासुदेवेन यदुक्तं तच्छृण्वध्वमिति नारदो मुनीन् प्रत्याह—अथेति ॥ १ ॥ नारद ने कहा—हे विप्रेन्द्रगण ! इसके बाद सङ्कर्षण द्वारा पूछे जाने पर चक्रधारी भगवान् विष्णु ने जो कहा अब उसे मैं कह रहा हूँ, उसे आप लोग सुनिए ॥ १ ॥ सङ्कर्षण उवाच सूक्ष्मव्यूहविभागेन सबाह्याभ्यन्तरं हि यत् । परस्य ब्रह्मणः सम्यग् ज्ञातमाराधनं मया ॥ २ ॥ इदानीं श्रोतुमिच्छामि विभोः सद्भिभवात्मनः । आराधनं यथावच्च भविनामीप्सितप्रदम् ॥ ३ ॥ प्रश्नप्रकारमाह—सूक्ष्मेति द्वाभ्याम् । सूक्ष्मव्यूहविभागेन परव्यूहभेदेनेत्यर्थः । सबाह्याभ्यन्तरं मानसयागबाह्ययागभेदभिन्नमित्यर्थः ॥ २-३ ॥ सङ्कर्षण ने कहा—हे भगवन् ! आपने सूक्ष्म विभाग के साथ उस परब्रह्म का बाह्यान्तर सहित सम्यग् आराधना का निरूपण, उसे मैंने सुन लिया । अब मैं उस विभवान्तर विभु की आराधना जिस प्रकार की जाती है उसे सुनना चाहता हूँ जो संसारी मनुष्यों के लिये कल्याणकारी है ॥ २-३ ॥ स्थूलसूक्ष्मपरत्वभेदेन विभवावतारस्य त्रैविध्यकथनम् भगवानुवाच वैभवीयो महाबुद्धे देवतानिश्चयो महान् ।
१९६ सात्वतसंहिता य उक्तस्ते मया पूर्वमेकैकं विद्धि तन्त्रिधा ॥ ४ ॥ चतुर्णां युगसन्धीनां युगानां च तथैव हि । विश्वविप्लवदोषाणां विनाशाय समुद्यतम् ॥ ५ ॥ सितरक्तादिरूपेण ज्वलदस्त्रकराङ्कितम् । कार्यारम्भे तथा मध्ये ह्यवसाने तु सर्वदा ॥ ६ ॥ सन्धत्ते रूपमात्मीयमेक एव त्वनेकधा । श्रेयसे सर्वलोकानां स्थूलं तत् कामरूपधृक् ॥ ७ ॥ अनुद्यतेन वपुषा कुन्देन्दुधवलेन च । वीरासनादिना चैव स्थितं मुदितमानसम् ॥ ८ ॥ लीलाविधृतसर्वास्त्रं सौम्यवक्त्रमनाकुलम् । धिया दोषगणं सर्वं ध्वंसयन्तं च मोक्षिणाम् ॥ ९ ॥ तद्व्यक्तं शान्तसंज्ञं च रूपं रूपवतांवरम् । प्रकाशयति सन्मार्गं समाधिनिरतात्मनाम् ॥ १० ॥ तेजोमयं यत् तद्रूपं वैभवं शान्तसंज्ञकम् । उपासकानां भक्तानां सर्वे सर्वफलप्रदाः ॥ ११ ॥ एवं पृष्टो भगवान् स्थूलसूक्ष्मपरत्वभेदेन विभवावतारस्य त्रैविध्यमाह—वैभवीय इत्यारभ्य आमोक्षात्रिर्विचारेणेत्यन्तम् । अत्र युगानां युगसन्धीनामिति षष्ठ्या अधिक- रणत्वमर्थः । विश्वविप्लवदोषाणां विनाशाय समुद्यतम् । युगेषु तत्सन्धिकालॆषु च ये ये दोषाः संभवन्ति, तेषां प्रशमायाविर्भूतमित्यर्थः । अनेन— परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥ — (गी० ४।८) इत्यर्थः स्मारितो भवति । सितरक्तादिरूपेण तत्तद्युगानुकारिवर्णभेदेनेत्यर्थः । तथा च श्रीभागवते— आसन् वर्णास्त्रयो ह्यस्य गृह्णतोऽनुयुगं तनूः । शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः ॥ इति । —(श्रीमद्भा० १०।८।१३) कार्यारम्भे मध्येऽवसाने च सृष्टिस्थितिसंहारकालेष्वित्यर्थः । एक एवानेकधा रूपं सन्धत्ते । सृष्टिकाले रक्तं रूपम्, रक्षणकाले शुक्लं रूपम्, संहारकाले कृष्णं रूपं बिभर्तीत्यर्थः । स्थूलं जाग्रत्पदस्थितमित्यर्थः । कामरूपधृक् = स्वेच्छया नाना- रूपधरमित्यर्थः । 'तद्व्यक्तं शान्तसंज्ञं च रूपम्' इत्यत्र व्यक्तमित्यनेन स्वप्नसुषुप्ति- पदाश्रितत्वम्, शान्तसंज्ञमित्यनेन तुर्यपदाश्रितत्वं चोच्यते । यतो लक्ष्मीतन्त्रे— त्रिविधं चातुरात्म्यं तु सुषुप्यादिपदत्रिके ।