भारतकोश
संग्रह पर लौटें

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

एकविंशः परिच्छेदः ५०३ क्रमणीयं न पादेन कल्प्यं नैवासनार्थतः । भगवच्छासनज्ञानामाराधनरतात्मनाम् ॥ १० ॥ यथोचितं यथाशक्ति पूजा कार्या सदैव हि । शङ्खचक्राद्यङ्कितपात्रे न भोक्तव्यमित्याह—नेत्यर्द्धेन शङ्खचक्राङ्कितं शिलाकाष्ठ- लोष्टफलकादिकं च पादेन नाक्रमणीयम्, आसनार्थं न कल्पनीयमिति चाह— तल्लक्ष्मेति । भगवच्छास्त्राभिज्ञानां तदुक्तभगवदाराधननिष्ठानां च निरन्तरं यथा- शक्त्यर्चनं कार्यमित्याह—भगवच्छासनेति ॥ ९-११ ॥ जिस पात्र में शङ्ख एवं चक्र का चिह्न अङ्कित हो, उस पात्र में भोजन न करे । जिस उपल, काष्ठ, लौह तथा फलकादिक में शङ्ख एवं चक्र का चिह्न हो उसे पैर से लङ्घन न करे तथा उनका आसन न बनाये । भगवत् शास्त्रों के विज्ञाता तथा भगवच्छास्त्रोक्त विधि से आराधना करने वाले भक्तों का यथाशक्ति सर्वदा अर्चन करना चाहिए ॥ ९-११ ॥ प्रासादं देवदेवीयमाचार्यं पाञ्चरात्रिकम् ॥ ११ ॥ अश्वत्थं च वटं धेनुं सत्समूहं गुरोर्गृहम् । दूरात् प्रदक्षिणीकुर्यान्निकटात् प्रतिमां विभोः ॥ १२ ॥ दण्डवत्प्रणिपातैस्तु नमस्कुर्याच्चतुर्दिशम् । भगवद्विमानादीनां प्रदक्षिणनमस्कारप्रकारावाह—प्रासादमिति द्वाभ्याम् । छायाक्रमणभिया दूरादित्युक्तमिति ज्ञेयम् ॥ ११-१३ ॥ देवता, देवों का प्रासाद, आचार्य, पाञ्चरात्रिक, अश्वत्थ, वट; धेनु, सत्समूह एवं गुरु का घर दूर से ही देखकर इनकी प्रदक्षिणा करे, सन्निकट से प्रदक्षिणा करने में छायोल्लङ्घन का भय है ॥ ११-१३ ॥ न यानपादुकारूढो न सोपानत्कपादभृत् ॥ १३ ॥ न विक्षिप्तमना भूत्वा संविशेद् भगवद्गृहम् । न व्याख्यावसरे कुर्यात् प्रत्युत्थानाभिवादने ॥ १४ ॥ भगवन्मन्दिरप्रवेशकाले पादुकामुपानहं वा पद्भ्यां न स्पृशेदन्तर मनोवृत्तिं च न वर्तयेदित्याह—नेति ॥ १३-१४ ॥ भगवन्मन्दिर में सवारी से, पादुका धारण कर, जूता पहन कर तथा विक्षिप्त मन से प्रवेश न करे । गुरु यदि शास्त्र की व्याख्या करते हों, तो उस समय प्रत्युत्थान अभिवादन न करे ॥ १३-१४ ॥ नाभक्तानां न मूर्खाणां नास्तिकानां विशेषतः । दातव्यः सम्प्रवेशश्च नोपहासरतात्मनाम् ॥ १५ ॥

५०४ सात्वतसंहिता आगमव्याख्यानकाले प्रत्युत्थानप्रणामनिषेधमभक्तादीनां तत्र प्रवेशनिषेधं चाह— नेति सार्धेन। नास्तिकानामित्यत्रापि नेत्यनुषङ्गः कार्यः॥ १५॥ आगम व्याख्यान के अवसर में जो भक्त न हों, मूर्ख हो, नास्तिक हो, तथा शास्त्र का उपहास करने वाले हों, उन्हें विशेष रूप से प्रवेश न देवे॥ १५॥ नापूजितं समुद्घाट्यं शासनं पारमेश्वरम्। समक्षं नान्यभक्तानां न तत्सन्देहशान्तये॥ १६॥ प्रकाशनीयं तल्लोभान्न चाऽन्यायेन नो भयात्। अयोग्यं प्रति वाऽन्यदेवताभक्तानां समक्षं वा लोभाद् भयादन्यायाद्वा भगवच्छास्त्रं न प्रकाश्यमित्याह—नेति॥ १६-१७॥ अयोग्यों तथा अन्य देवताओं के भक्तों के सामने लोभ से या भय से, अन्याय से भगवच्छास्त्रों का प्रकाश न करे और न उनसे सुगन्ध, फल, पुष्पादि और भी अपूर्व उचित वस्तु न लेवे और संदेह की शान्ति करे॥ १६-१७॥ सुगन्धफलपुष्पाद्यमपूर्वमुचितं च यत्॥ १७॥ अभोज्यं गुरुदेवाग्निनिवेदनविवर्जितम्। अपूर्वं योग्यं फलपुष्पादिकं वस्तु गुरुदेवाग्निसमर्पणमन्तरा न भोज्यमित्याह— सुगन्धेति॥ १७-१८॥ तस्करात् पतिताच्चण्डाद् दम्भलोभमदान्वितात्॥ १८॥ मात्रावित्तं न गृह्णीयाद्भक्तादुपचारतः। तस्करादिभ्यो मात्राद्रव्यप्रतिग्रहनिषेधमाह—तस्करादिति। तथा च स्मरति शाण्डिल्यः— कुलटाषण्ढपतितस्वैरिभ्यः काकिणीमपि। उद्यतामपि गृह्णीयान्नापद्यपि कदाचन॥ (६।९८) इति॥ १८-१९॥ गृहीत्वा भगवद्विम्बं वृत्त्यर्थमटतीह यः॥ १९॥ नगरापणवीथीषु तस्य देवलकस्य च। दर्शनं स्पर्शनं नैव कुर्यात् सम्भाषणं तथा॥ २०॥ स्वगृहे समाराध्यं भगवद्विम्बमादाय द्रव्यार्जनार्थं नगरादिषु सञ्चरमाणस्य देवल- कस्य दर्शनादिकमपि न कार्यमित्याह—गृहीत्वेति सार्धेन। नन्वेतन्मन्दिरस्थभगव- द्विम्बविषयमपि स्यादिति चेन्न, तस्य राजाधीनतया बहिर्द्रव्यार्जनार्थमानेतुमशक्यत्वात्, तत्र तादृशशङ्काया एवानवकाशात्॥ १९-२०॥ गुरु देवता तथा अग्नि को जिस अन्न का अर्पण न हुआ हो, उस अन्न का

एकविंशः परिच्छेदः ५०५ कदापि भोजन न करे । पतित, तस्कर, चाण्डाल, दम्भी, लोभी, मद्यपी तथा अभक्त से आपत्ति काल में भी मात्रावित्त तथा द्रव्य का प्रतिग्रह न लेवे । जो वृत्ति के लिये भगवान् की प्रतिमा लेकर जहाँ-तहाँ पर्यटन करता हो उसका दर्शन, स्पर्शन तथा संभाषण वर्जित करे ॥ १८-२० ॥ गायेत् तु भगवद्गाथां यो ग्रामे नगरान्तरे । तं प्रभुस्तावकं चैव पूजयेच्चैव सर्वदा ॥ २१ ॥ श्रीमद्वैकुण्ठाभरणादिविरचितदिव्यप्रबन्धगाथागायकानां निरन्तरपूज्यत्वमाह— गायेदिति ॥ २१ ॥ ग्राम एवं नगर में श्रीमद् वैकुण्ठाभरणादि विरचित दिव्य प्रबन्ध की गाथा गाने वाले तथा प्रभु का स्तवन करने वाले भगवद् भक्तों की सर्वदा पूजा करनी चाहिए ॥ २१ ॥ विष्णुपरियाणां विष्णुवत् पूज्यत्वविधानम् विष्णुव्रतपरं चैव विष्ण्वायतनवासिनम् । विष्ण्वालापकथासक्तं विष्ण्वायतनमार्जकम् ॥ २२ ॥ स्तावकं वैष्णवानां च विष्णुधर्मपरायणम् । पर्येष्टिकृद् वैष्णवानां मान्यो वै विष्णुवत् सदा ॥ २३ ॥ भगवत्कैङ्कर्यपराणां विष्णुवत् पूज्यत्वमाह—विष्ण्विति द्वाभ्याम् । वैष्णवानां पर्येष्टिकृद् वैष्णवधर्मान्वेषणपरः, पूजनार्थं भागवतान्वेषणपर इति वाऽर्थः । ‘पर्येषणा परीष्टिश्थान्वेषणा च गवेषणा’ (२।७।३२) इत्यमरः । गायेदिति वचनं शठकोपाद्य- र्चनपरम्, विष्णुव्रतपरमित्यादिकं शाण्डिल्याद्यार्चनपरमित्यपि सरसम् ॥ २२-२३ ॥ विष्णु का व्रत करने वाले, विष्णु के आयतन में निवास करने वाले, विष्णु की चर्चा, विष्णु की कथा में आसक्ति रखने वाले, विष्णु मन्दिर का मार्जन करने वाले, वैष्णवों की प्रशंसा करने वाले, वैष्णव धर्म का अन्वेषण करने वाले, विष्णु धर्म परायण लोगों का विष्णु के समान सम्मान प्रदान करे ॥ २२-२३ ॥ पुष्पादीनामाहरणप्रकार कथनम् प्रातरुत्थाय चिन्वीयात् स्वारामात् स्वयमेव हि । पूजार्थमस्त्रमन्त्रेण पुष्पादीन् प्रयतः सदा ॥ २४ ॥ यायादरण्यमथवा निर्बाधं हि तदार्जने । भगवदाराधनार्थं पुष्पादीनामाहरणप्रकारमाह—प्रातरिति सार्धेन । “अत्र वैशेषिकार्चनादिषु कदाचित् प्रातःशब्दस्य मुख्यार्थता, अन्यथाऽभिगमनविधिना प्रातः- कालोपरोधात्, अन्येषु च सर्वेषु शास्त्रेषु द्वितीयकाल एव द्रव्यार्जनविधानात् । प्रातः- सा० सं० - 36

५०६ सात्वतसंहिता शब्देन सन्निकर्षवशात् त्वरातिशयसिद्ध्यर्थं तदुचितकालो लक्ष्यते, "सायं प्रातर्द्विजाती- नामशनं विधिचोदितम्" इतिवत् । अत एवात्रत्यमुत्थानं च न स्वापानन्तरभावि, अपि तु—"ततः पुष्पकुशादीनामुत्थायार्जनमाचरेत्" (२२।६९) इति जयाख्यसंहितोक्तम- भिगमनानन्तरं देवसन्निधेरुत्थानम्" (पृ० १२९) इति श्रीपाञ्चरात्ररक्षायां व्याख्यातम्। एवं व्याख्यानं गृहार्चनप्रकरणे समञ्जसं भवति । मन्दिरे तु प्राभातिकार्चनादीनां कर्तव्यत्वात् तत्र प्रत्यहं प्रातःशब्दस्य मुख्यार्थतैव संभवतीति बोध्यम् । ननु प्रातरुत्थाय चिन्वीयादित्यादित्यादिनियमः स्वगृहार्चनपर एव, मन्दिरार्चने तु पुष्पाद्याहरणं परिचारकैः क्रियत इति चेन्न, यत उभयत्रापि स्वार्जितं मुख्यम्, अन्यार्जितं गौणमिति सिद्धम् । ननु तर्हि स्वयमेवोपादानप्रवृत्तः कथं मन्दिरे प्राभातिकाद्यर्चनादि निर्वहेदिति चेत्, शक्तः सर्वं निर्वहत्येव । अशक्तस्य गौणानुष्ठानम् । अन्यथा मन्दिरा- र्चनपरस्याभिगमनादिपाञ्चकालिकानुष्ठानं कथं सिद्ध्येत् । अत एव हि पारमेश्वरादिषु द्वादशकालार्चनप्रवृत्तस्यापि पाञ्चकालिकधर्मानुष्ठापनावकाशः प्रदर्शितः। परिचारका- श्चेदपि प्रातःकालं विना पुष्पाद्याहरणं पुनः कदा कुर्युः । गृहार्चनार्थमिव तैः संभव- काले संगृहीतं पुष्पादिकं कथं प्राभातिकार्चने उपयुज्यते ॥ २४-२५ ॥ प्रातःकाल उठकर अपनी वाटिका से स्वयं विष्णु पूजा के लिये सावधान होकर अस्त्रमन्त्र से पुष्पादि का सञ्चय करे अथवा उनके चयन के लिये खतरे से रहित जङ्गल में स्वयं जावे ॥ २४ ॥ पूजाद्रव्याणां ग्राह्याग्राह्यत्वकथनम् अकण्टकद्रुमोत्थाश्च कण्टकद्रुमजा अपि॥ २५ ॥ हृद्याः सुगन्धाः कर्मण्या ग्राह्याः सर्वे सितादयः । उग्रगन्धा ह्यकर्मण्यास्त्वप्रसिद्धास्तथैव च॥ २६ ॥ चतुष्पथशिवावासश्मशानावनिमध्यगाः । क्षता अशनिपाताद्यैः क्रिमिकीटसमावृताः॥ २७ ॥ वर्जनीयाः प्रयत्नेन पत्रपुष्पफलादयः । अम्बुजानि सुगन्धीनि सितरक्तादिकानि च॥ २८ ॥ अथ पुष्पफलपत्राङ्कुराणां मधुपर्कधूपदीपद्रव्याणां हविःपाकोपयुक्तद्रव्याणां च ग्राह्याग्राह्यत्वनियममाह—अकण्टकद्रुमोत्थाश्चेत्यारभ्य नारनालविभावितमित्यन्तम् । एवं पुष्पादीनां हविःपाकद्रव्याणां च वर्ज्यावर्ज्यविभागः संहितान्तरेषु श्रीपञ्चरात्ररक्षायां (पृ० १२७-१३४) च विस्तरेण विचारितो द्रष्टव्यः ॥ २५-३८ ॥ कण्टक रहित वृक्षों में फूले अथवा कण्टक युक्त वृक्ष में भी जो मनोहर सुगन्ध कर्म के योग्य श्वेतादि वर्ण के पुष्पों का चयन करे, किन्तु उग्र गन्ध वाले, पूजा में वर्जित, अप्रसिद्ध (अज्ञात) पुष्पों का चयन न करे । चतुष्पथ में उत्पन्न, अपवित्र स्थान में उत्पन्न एवं श्मशान भूमि में उत्पन्न वृक्षों के पुष्प ग्रहण न करे ।

एकविंशः परिच्छेदः ५०७ वज्रपात से आहत, कृमि, कीट संयुक्त सभी पत्र, पुष्प, फलादि प्रयत्नपूर्वक वर्जित करे ॥ २४-२८ ॥ योक्तव्यानि पवित्राणि नित्यमाराधने तु वै । साङ्कुराणि च पत्राणि भूगतान्येवमेव हि ॥ २९ ॥ विहितान्यर्चने नित्यं यथर्तुप्रभवाणि च । न गृहे करवीरोत्थैः कुसुमैरर्चनं हितम् ॥ ३० ॥ सित रक्त एवं नील वर्णों वाले सुगन्धित पवित्र कमल नित्य आराधन में अवश्य ग्राह्य हैं, इसी प्रकार अङ्कुरयुक्त पृथ्वी से संयुक्त पत्र जो ऋतुकाल के अनुसार उत्पन्न होते हैं । वे भी अर्चन में विहित है, अतः ग्राह्य है, घर पर कनैल (करवीर) के पुष्पों से अर्चन न करे ॥ २९-३० ॥ विशेषतः सकामस्य सिद्धिभूतयुतस्य च । अतोऽन्यथा न दोषोऽस्ति दोष उन्मत्तकादिभिः ॥ ३१ ॥ सद्योहृतानां विहितस्त्वम्लानानां यथा क्रयः । प्रदानमम्बुसिक्तानां तेषां कार्यं न चान्यथा ॥ ३२ ॥ विशेष कर सकाम अर्चन करने वालों तथा सिद्धि से युक्त लोगों के लिये यह निषेध है । इससे अतिरिक्त लोगों के लिये करवीरार्चन निषिद्ध नही है । धतूरादि द्वारा अर्चन अवश्य निषिद्ध है । तुरन्त चुने गये म्लानता रहित (विकसित) पुष्पों को खरीद कर भी पूजा का विधान हैं, किन्तु खरीदने के बाद उन्हें जल से संसिक्त कर ही पूजा करे, अन्यथा नहीं ॥ ३१-३२ ॥ निर्दोषतां प्रयान्त्याशु मन्त्रिणामवलोकनात् । भवन्ति भक्तिपूतानि हृन्मन्त्रनिरतात्मनाम् ॥ ३३ ॥ हृदय मन्त्र में निरत मन्त्रज्ञ पुरुषों के अवलोकन से भी पुष्प निर्दोष हो जाते हैं । किं बहुना, भक्ति से भी वे पूत हो जाते हैं ॥ ३३ ॥ न कांस्यपात्रे भोक्तव्यं न तत्र विनिवेदयेत् । देवाय मधुपर्काद्यं तथा वै सति सम्भवे ॥ ३४ ॥ मृण्मयायसपात्रेषु न धूपमपि निर्दहेत् । धूपार्थं गुग्गुलुः साज्यो देयश्चाभवतोऽपरः ॥ ३५ ॥ कांस्य पात्र में भोजन न करे । उसमें भोजन रख कर नैवेद्य अर्पित नं करे । इसी प्रकार संभव होने पर देवताओं के लिये कांस्य पात्र में अर्घ्य प्रदान भी न करे । मिट्टी के पात्र तथा लोहे के पात्र धूप भी न जलावे अभाव में धूप के लिये साज्य गुग्गुल घण्टा शब्द के साथ दिया जा सकता है ॥ ३४-३५ ॥

५०८ सात्वतसंहिता सह घण्टारवेणैव दीपार्थं परिवर्जयेत् । मेदो मज्जाऽतसीतैलं घृतं तैलविमिश्रितम् ॥ ३६ ॥ दीप के लिये मेद, मज्जा, अतसी का तेल तथा तैल विमिश्रित द्रव्य का प्रयोग वर्जित है ॥ ३६ ॥ नाविकं मधुपर्कार्थे दधिक्षीरादिकं शुभम् । कौलत्थः कौद्रवः कृष्णशाल्युत्थो नौदनो हितः ॥ ३७ ॥ नापक्वान्नं न मांसञ्च नारनालविभावितम् । मधुपर्क के लिये भेंड का दधि एवं क्षीर शुभावह नहीं है । इसी प्रकार नैवेद्य के लिये कुलत्थ, कोदो एवं कृष्णशाली का भात शुभावह नहीं है । इसी प्रकार नैवेद्य में अपक्वान्न, मांस तथा आरनाल (काँजी) मिश्रित अन्न वर्जित है । पूजा करते समय जल्दीबाजी से न उठे ॥ ३७-३८ ॥ न चाराधनकाले तु समुत्तिष्ठेत् त्वरान्वितः ॥ ३८ ॥ आ समाप्तिक्रियां चैव उपरोधेन केनचित् । आराधनकाले केनचित् कारणेन त्वरया नोत्थातव्यमित्याह—नेति ॥ ३८-३९॥ किसी उपरोध से अपने को बन्द कर विष्णु पूजा करे और जब तक वह समाप्त न हो जावे तब तक न उठे ॥ ३८-३९ ॥ आधाराद् भगवद्विम्बाद् भद्रपीठान्मलच्युतिः ॥ ३९ ॥ न कार्या कण्टकैर्लोहैर्मृदुकूर्चादिना विना । न स्नायान्न स्वपेन्नग्नो न मौनं चाचरेद् गुरोः ॥ ४० ॥ बिम्बादिशोधनं शिखिपक्षादिमृदुकूर्चेर्विना कण्टकादिभिर्न कार्यमित्याह— आधारादिति ॥ ३९-४० ॥ भगवदाधार भगवद् चित्त भद्रपीठ से मलिनता-निवारण कोमल कूर्च के अतिरिक्त काँटे अथवा लौह जैसे कड़े पदार्थों से न करे । निर्वस्त्र हो कर स्नान तथा शयन न करे । गुरु को चुप न करे ॥ ३९-४० ॥ नोच्छिष्टं संस्पृशेत् किञ्चिन्नाश्नीयाद् भगवद्गृहे । सन्निकर्षे न चाग्नेस्तु न गृहे मद्यसंकरे ॥ ४१ ॥ स्नानकाले स्वापकाले च विवस्त्रो न भवेत्, गुरुषु मौनं न कुर्यात्, उच्छिष्टं न स्पृशेत्, भगवन्मन्दिरादिषु न भुञ्जीतेति चाह—नेति सार्धेन । अत्र भोजननिषेधमात्र- तात्पर्येण निकृष्टोत्कृष्टानां सह पाठः कृत इति बोध्यम् । यथा "श्वयुवमघोनाम्" (६।४।१३३) इति सहपठिताः पाणिनिना ॥ ४१ ॥

एकविंशः परिच्छेदः ५०९ उच्छिष्ट रूप में उनका स्पर्श न करे । भगवान् के मन्दिर में भोजन न करे । इसी प्रकार अग्नि के समीप तथा मद्य स्थापित घर में भी साधक को पूजा नहीं करनी चाहिए ॥ ४१ ॥ भक्तानां कृतदीक्षाणां व्यङ्ग्यः शास्त्रार्थ एव हि । अन्येषां धर्मशास्त्रं च लोभनिर्मुक्तया धिया ॥ ४२ ॥ शिष्याणां विष्णुभक्तानां नित्यं कुर्याच्च संग्रहम् । कृतदीक्षाणामेव भगवच्छास्त्रो वाच्यः, तदन्येषां तु केवलधर्मशास्त्रमेव वाच्य- मिति, द्रव्यसंग्रहणबुद्धिं विना केवलमुपकारार्थं वैष्णवानां शिष्याणां संग्रहणं कुर्यादिति चाह—भक्तानामिति सार्धेन ॥ ४२-४३ ॥ शास्त्रार्थ की व्याख्या दीक्षा-प्राप्त भगवद् भक्तों को ही करे । अन्यों से लोभरहित बुद्धि से मात्र धर्मशास्त्र का व्याख्यान करे । जहाँ तक हो सके शिष्यों एवं विष्णु भक्तों का संग्रह करे ॥ ४२-४३ ॥ मानमात्सर्यकार्पण्यलोभमोहादयोऽगुणाः ॥ ४३ ॥ नेतव्यास्तानवं सर्वे यावज्जीवावधि क्रमात् । स्वनिष्ठाः शिष्यनिष्ठाश्च मानादिदुर्गुणाः कार्श्यं नेतव्या इत्याह—मानेति। तानवं तनुत्वम्, कार्श्यमित्यर्थः ॥ ४३-४४ ॥ मान, मात्सर्य, कार्पण्य, लोभ एवं मोह आदि अवगुणों को यावज्जीवन कम करने का प्रयास करता रहे ॥ ४३-४४ ॥ अकस्मादुपसन्नानां देशान्तरनिवासिनाम् ॥ ४४ ॥ इष्टोपदेशः कर्तव्यो नारायणरतात्मनाम् । देशान्तरादागतानां वैष्णवानामिष्टोपदेशः कार्य इत्याह— अकस्मादिति ॥ ४४-४५ ॥ अकस्माद् देशान्तर से अपने समीप में आये हुए नारायण परायण भक्तों को कल्याणकारी उपदेश करे ॥ ४४-४५ ॥ यो न वेत्त्याच्युतं तत्त्वं पञ्चरात्रार्थमेव च ॥ ४५ ॥ तथा सद्वैष्णवीं दीक्षां नानाशास्त्रोक्तलक्षणाम् । न तेन सह सम्बन्धः कार्यों भिन्नक्रमेण तु ॥ ४६ ॥ अवैष्णवेन सह सम्बन्धो न कार्य इत्याह—य इति सार्धेन ॥ ४५-४६ ॥ जो अच्युत तत्त्व नही जानता, जिसे पाञ्चरात्र का ज्ञान नहीं है और नाना शास्त्रों में प्रतिपादित वैष्णवी दीक्षा का ज्ञान जिसे नहीं है, इस प्रकार के अवैष्णवों को विरुद्ध क्रम से उपदेश न करे ॥ ४५-४६ ॥

५१० सात्वतसंहिता न शास्त्रार्थस्य शास्त्राणां बुद्धिपूर्व उपप्लवः । आचर्तव्य इहाज्ञानात् पारम्पर्यक्रमं विना ॥ ४७ ॥ शास्त्रशास्त्रार्थयोः साङ्कर्यं न कार्यमित्याह—नेति । एतद्वचनतात्पर्यमेवमुक्तं श्री- पञ्चरात्ररक्षायाम्—‘‘अस्खलितपारम्पर्यप्रत्यभिज्ञानेषु स्थानेषु परिदृश्यमानप्रमाणमूला- न्याचारपरम्परागृहीतानि च कर्माणि न मात्रयापि परिहाप्यानि, न च तद्विरुद्धान्युपा- देयानीत्युक्तं भवति’’ (पृ० ५) इति ॥ ४७ ॥ प्रष्टव्यो भगवद्भक्त आप्तो लक्षणकोविदः । प्रसिद्ध आर्जवे वृद्धो नष्टं शास्त्रार्थलक्षणम् ॥ ४८ ॥ चिरकालराष्ट्रक्षोभादिना प्रस्खलितपारम्पर्यप्रत्यभिज्ञानेषु स्थानेषु वृद्धमुखात् तज्ज्ञातव्यमित्याह—प्रष्टव्य इति ॥ ४८ ॥ जिस स्थान पर परम्परापूर्वक शास्त्रार्थ प्रस्खलित नहीं है, वहाँ परिदृश्यमान प्रमाण के साथ मूलाधार शास्त्र को स्थापित न करे । वहाँ रञ्चमात्र भी कर्म व्याख्यान परिस्खलित न करे और न लोक विरुद्ध उपदेश ही करे । जहाँ राष्ट्र क्षोभ के कारण वैष्णव ज्ञान की परम्परा प्रस्खलित हो गई है, उसके परिज्ञान परम्परा को वृद्ध वैष्णवों द्वारा जानना चाहिये ॥ ४७-४८ ॥ मुद्रामण्डलमन्त्राणां निस्सन्देहपरेण च । भवितव्यं गुरूणां च सकाशात् सर्वदैव हि ॥ ४९ ॥ मुद्रामण्डलमन्त्राश्च गुरोः सकाशान्निःसन्देहं ज्ञातव्या इत्याह—मुद्रेति ॥ ४९ ॥ भगवन्मन्त्रों में गुरु के द्वारा मुद्रा, मण्डल और मन्त्र का ज्ञान संदेह रहित होकर करे ॥ ४९ ॥ न च सर्वज्ञमन्त्राणां विना भावांशकेन तु । आनुकूल्यं गवेष्टव्यं मुक्त्वा मण्डलदर्शनम् ॥ ५० ॥ भगवन्मन्त्राणां सिद्धारिवीक्षणादिनाऽऽनुकूल्यान्वेषणं न कार्यमित्याह— न चेति ॥ ५० ॥ भगवन्मन्त्रों में सिद्ध अरिमन्त्र का विचार न करे । सर्वदा उनके अनुकूल होकर ही अन्वेषण या अनुसंधान करे ॥ ५० ॥ नाभिचक्रे तु हृत्पद्मे कन्दमूले गलावटे । भ्रूमध्ये ब्रह्मरन्ध्रे च स्थानेष्वेतेषु मन्त्रराट् ॥ ५१ ॥ स्मर्तव्यः सूर्यसंकाशः प्रवासे शयनेऽध्वनि । स्वशरीरे मन्त्रनाथस्मरणस्थानानि तत्कालांश्चाह—नाभीति सार्धेन ॥ ५१-५२ ॥

एकविंशः परिच्छेदः ५११ अब अपने शरीर में मन्त्रनाथ के स्मरण का स्थान तथा उसके लिये उचित काल कहते हैं—नाभिचक्र, हृत्कमल, कुण्डलिनी का मूल, गलारूप गर्त में, भ्रूमध्य में और ब्रह्मरन्ध्र में—इन स्थानों में मन्त्रराट् का स्मरण करे ॥ ५१ ॥ प्रवास, शयन तथा रास्ते में सूर्य के समान प्रकाशित इष्टदेव के मन्त्र का स्मरण सर्वदा करे ॥ ५२ ॥ मृगसूकरमांसानि नाद्यान्मीनोत्थितानि च ॥ ५२ ॥ न हंसकच्छपीयानि न शृङ्गाटपलानि च । न तथा पद्मबीजानि न वटाग्रं समारुहेत् ॥ ५३ ॥ सिंहसूकरादिरूपैर्भगवतोऽवतीर्णत्वात् तत्तन्मांसानि न भक्षयेत् । तथा चतुष्पथ- विक्रीतमांसानि च न भक्षयेदिति चाह—मृगेति । मृगसूकरादिषु भगवद्बुद्धिरेव कार्येति भावः । उक्तः खलु नृसिंहकल्पे समयोपदेशप्रकरणे— दूरादेव नमस्कार्यो मृगराड् व्याघ्र एव वा । तदाकृतिर्मृगो वान्यौ तच्चर्मापि च नारुहेत् ॥ (१७।१२९) इति । एवं मांसनिषेधश्च कृतयुगविषयः, कलौ सामान्यतो निषेधात् ॥ ५२-५३ ॥ मृग, सूकर तथा मछली के मांस का भोजन न करे । इसी प्रकार हंस, कच्छप तथा सींग वाले जीवों का मांस न खावे । भगवदाश्रित होने के कारण कमलगट्टा न खावे तथा वट पर भगवान् के शयन करने के कारण वट पर आरोहण न करे ॥ ५२-५३ ॥ छेद्यमानं न तत्पश्येत् तद्दलं नाङ्घ्रिणा स्पृशेत् । एवं पद्मस्य भगवदाश्रितत्वात् तद्बीजानामभक्ष्यत्वम्, भगवतो वटपत्रशायित्वात् तदारोहणादिनिषेधं चाह—न तथेति ॥ ५३-५४ ॥ वट के दल को तोड़ते हुए न देखे और उसके पत्ते को पैर से स्पर्श भी न करे ॥ ५४ ॥ चातुर्मास्यव्रतानुष्ठानस्थानकथनम् पुण्यक्षेत्रं महातीर्थं सिद्धाश्रममनुत्तमम् ॥ ५४ ॥ वैष्णवीं पर्षदं वापि व्यक्तिस्थानं तथाच्युतम् । आसाद्य मण्डलं कृत्वा चक्रं वा द्वादशारकम् ॥ ५५ ॥ निर्वाहणीयं विधिवत् चातुर्मास्यं महामते । गृहे संयमपूर्वं वा चक्रं कृत्वा तु कुड्यगम् ॥ ५६ ॥ चतुर्विधेन रजसा प्रतिमाया अथाग्रतः । चातुर्मास्यव्रतानुष्ठानस्थानान्याह—पुण्यक्षेत्रमिति त्रिभिः ॥ ५४-५७ ॥

५१२ सात्वतसंहिता संयुक्तानपि पूर्वोक्तैरेतांश्च समयान् सदा ॥ ५७ ॥ निर्वाहियाणां भक्तानां प्रयच्छेत् सततं गुरुः । एतान् समयान् निर्वाहियाणां शिष्याणामुपदिशेदित्याह—संयुक्तनिति। पूर्वोक्तैः श्रीनृसिंहकल्पोक्तैः समयैरित्यर्थः ॥ ५७-५८ ॥ अब चातुर्मास्य व्रत के अनुष्ठान का स्थान और समय कहते हैं— पुण्यक्षेत्र, महातीर्थ, श्रेष्ठ सिद्धाश्रम, विष्णु के पार्षद के स्थान, भगवान् के अवतार के स्थान, इन स्थानों को प्राप्त कर वहाँ मण्डल निर्माण करे, अथवा द्वादशार चक्र का निर्माण करे । हे महामते ! वहाँ विधिवत् चातुर्मास्य व्रत का अनुष्ठान करे, अथवा घर पर ही नियमपूर्वक रहते हुए भीत पर नीलपीतादि चारों रङ्ग से चक्र का निर्माण करे, अथवा प्रतिमा के आगे चक्र निर्माण कर चातुर्मास्य व्रत का अनुष्ठान करे । गुरु इस प्रकार वैष्णव धर्म निर्वाहक नियम समयज्ञों के लिये तथा नृसिंह कल्पोक्तादि में कथित समय-धर्म के पालन करने वाले भक्तों के लिये उपदेश करे । इस प्रकार समय-धर्म के निर्वाह करने वाले शिष्यों की योग्यता देखकर उन्हें उन-उन धर्मों का उपदेश गुरु करे ॥ ५४-५८ ॥ ज्ञात्वा निर्वाहकं भक्तं तस्यादौ देशिकेन तु ॥ ५८ ॥ समुद्दिश्यास्तु ते सर्वे निर्वहन्त्यथ येषु वै। तेषु तेषु नियोक्तव्यो तथा न च्यवते पुनः ॥ ५९ ॥ पूर्वं शिष्यस्य निर्वाहकतां ज्ञात्वा तस्य समया उपदेष्टव्याः । ततस्तस्य येषु येषु निर्वाहः संभवति, स तेषु तेषु समयेषु पुनर्यथा समयच्युतो न भवेत्, तथा नियोजनीय इत्याह—ज्ञात्वेति सार्धेन ॥ ५८-५९ ॥ वे जिस प्रकार इन-इन समय-धर्मों का ठीक से पालन करें, प्रच्युत न हों, ऐसा समझ कर ही उन्हें उन-उन धर्मों में नियुक्त करे ॥ ५८-५९ ॥ धावन्ति समयघ्नस्य सविघ्नास्तु विनायकाः । विमुखाः सिद्धयो यान्ति ह्यापदो हि भवन्ति च ॥ ६० ॥ ज्ञातवैवं सावधानेन निर्वक्तव्यं हि तान् प्रति । समयभ्रष्टस्यानिष्टपरम्परा संभवति, अतः सावधानं समयाः पालनीया इत्याह— धावन्तीति सार्धेन । विनायका = दुष्टग्रहविशेषा इत्यर्थः । “भूतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः” (१०।६।२७) इति श्रीभागवते । समयघ्नस्य धावन्ति = समयघ्नं प्रति धावन्तीत्यर्थः ॥ ६०-६१ ॥ जो शिष्य समय-धर्म का ठीक-ठीक तरह से पालन नहीं करते, उनके पीछे-पीछे विघ्न सहित विनायकगण दौड़ते रहते हैं । उनको सिद्धि की बात तो दूर उल्टे आपत्तियाँ ही घेर लेती हैं । उस समय धर्म से परिभ्रष्ट शिष्य के अनिष्ट

परम्परा का वारापार नहीं होता । अतः समय-धर्म के परिपालन में प्रमाद न करे । ऐसा विचार कर गुरु बड़ी सावधानी से शिष्यों को समय-धर्म का उपदेश करे ॥ ६०-६१ ॥ सारमादाय वै बुद्ध्या निर्मथ्य नियमो दधिम् ॥ ६१ ॥ कृपया गुरुणा देयं समयानां तु पञ्चकम् । भक्तिरग्नौ गुरौ मन्त्रे शास्त्रे तदधिकारिणि ॥ ६२ ॥ एतेषु समयेषु सारभूतमग्निभक्तिगुरुभक्त्यादिपञ्चकं विशेषेणोपदेष्टव्यमित्याह —सारमिति सार्धेन ॥ ६१-६२ ॥ इन समयों में गुरु स्वयं नियमरूप दधि का निर्मन्थन करे । फिर अपनी बुद्धि से कृपापूर्वक उसका सारभूत अग्निभक्ति, गुरुभक्ति मन्त्र एवं शास्त्र आदि पाँचों का विशेष रूप से अधिकारी को उपदेश करे ॥ ६१-६२ ॥ नियतं पञ्चकस्यास्य यथावत् परिपालनात् । अनुष्ठानात् तु नान्येषां स्वातन्त्र्येण यथेच्छया ॥ ६३ ॥ भव्यानां मनसोऽभीष्टाः प्रवर्तन्ते हि सिद्धयः । एतत्समयपञ्चकस्य परिपालनादन्येषां समयानामननुष्ठानेऽपि मनोऽभीष्टसिद्धि- मान् भवतीत्याह—नियतमिति सार्धेन । अथवा गुर्वादिचोदनां विनाऽन्येषां कर्मणां स्वच्छन्दस्वातन्त्र्येणानुष्ठानाभावाच्चेत्यर्थः । यद्वा (आनन्दः?) क्रियापदेनान्वये परि- पालनादिति ‘ल्यब्लोपे पञ्चमी’ ॥ ६३-६४ ॥ इस समयपञ्चक के यथावत् परिपालन से अन्य समयों के अनुष्ठान में भी मन अभीष्ट सिद्धि युक्त हो जाता है । इतना ही नहीं ऐसा साधक गुरु आदि के उपदेश के बिना किसी अन्य अनुष्ठान में स्वेच्छा से स्वतन्त्र नहीं रहता ॥ ६३-६४ ॥ येऽनिर्मलेन मनसा उपरोधात् तु कुर्वते ॥ ६४ ॥ पालनं समयानां च ते मज्जन्त्यसितेऽध्वनि । सुप्रसन्नेन मनसा यथैतत् परिपाल्यते । तथा प्रसादमभ्येति स्व आत्मा तु हितैषिणाम् ॥ ६५ ॥ एवं समयपरिपालनं कुर्वतामपि मनःकालुष्ये सति नैष्फल्यं तदभावे साफल्यं चाह—य इति द्वाभ्याम् । अनिर्मलेनेति पदच्छेदः ॥ ६४-६५ ॥ समय धर्म के परिपालन करने वाले जिस साधक का मन कालुष्य से परिपूर्ण रहता है उस साधक का अनुष्ठान निष्फल रहता है । अनुष्ठान में सिद्धि तो तब होती है जब उसका मन कालुष्य रहित होता है ॥ ६४-६५ ॥

५१४ सात्वतसंहिता जो शिष्य सुप्रसन्न मन से यथावत् कालुष्यरहित होकर नियमों का पालन करते हैं वे सुख के समुद्र में स्नान करते हैं। ऐसे हितैषी साधक की आत्मा सर्वथा प्रसन्न रहती है ॥ ६५ ॥ नूनं कालुष्यमुक्तानां स्थितानामिह सत्पथे। समयिसाधकाचार्यपुत्रकाणां भवेच्छुभम् ॥ ६६ ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां समयविधिर्नाम एकविंशः परिच्छेदः ॥ २१ ॥ — ❦ — अतश्चतुर्विधशिष्याणामपि मनःकालुष्यरहितानामेव शुभं भवेदित्याह— नूनमिति ॥ ६६ ॥ ॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये एकविंशः परिच्छेदः ॥ २१ ॥ — ❦ — ऐसा करने से कालुष्यरहित एवं सत्पथ में स्थित चारों प्रकार (साधक, सामयिक, पुत्रक और आचार्य) के साधकों का शुभ होता है ॥ ६६ ॥ . ॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के समयविधि नामक इक्कीसवें परिच्छेद की हिन्दी समाप्त हुई ॥ २१ ॥ — ❦ —

द्वाविंशः परिच्छेदः अधिकारिमुद्राभेदविधिः सङ्कर्षण उवाच लक्षणं ज्ञातुमिच्छामि चतुर्णां देव साम्प्रतम् । विज्ञातव्यास्तु कैर्लिङ्गैर्भेदस्तेषां तु किंस्कृतः ॥ १ ॥ अथ द्वाविंशः परिच्छेदो व्याख्यास्यते । इह पूर्वपरिच्छेदान्ते सूचितानां सामयि- कादीनां चतुर्णां लक्षणं पृच्छति सङ्कर्षणः—लक्षणमिति ॥ १ ॥ सङ्कर्षण ने कहा—हे देव ! अब मै सामयिक, साधक, पुत्रक और आचार्य चारों प्रकार के शिष्यों का लक्षण जानना चाहता हूँ । किन-किन लक्षणों से उनका ज्ञान किया जा सकता है और उनका भेद किस प्रकार का है? ॥ १ ॥ १. सामयिकानां लक्षणकथनम् श्रीभगवानुवाच यः श्रीमान् श्रद्दधानस्तु मतिमान् सुदृढव्रतः । सत्यवाग् भगवद्भक्तो मिताशी सङ्गवर्जितः ॥ २ ॥ गुर्वाराधननिष्ठस्तु स्थिरबुद्धिरतन्द्रितः । सद्द्वैष्णवकुले जातः सुसंस्कारैः सुसंस्कृतः ॥ ३ ॥ पुरा मातापितृभ्यां तु नीतः सद्योग्यतापदम् । विमुक्तसङ्करो दान्तः परत्र भयशङ्कितः ॥ ४ ॥ साधुसङ्गसमाकाङ्क्षी शास्त्रार्थस्वादलम्पटः । तत्सञ्चयव्यसनवान् धार्मिकाणां पथि स्थितः ॥ ५ ॥ शुभकर्मरतो नित्यमदीनः सत्त्ववान् क्षमी । धीरो दयापरश्चैव साधूनामुपकारकृत् ॥ ६ ॥ निर्मलाम्बरधारी च विमलाङ्गः सदैव हि । प्रियभाषी प्रसन्नास्यः परद्रव्येष्वलोलुपः ॥ ७ ॥

५१६ सात्वतसंहिता परदारस्पृहामुक्तः सद्विवेकपदाश्रितः । क्षत्रविट्शूद्रजातीये मद्यमांसेष्वलम्पटः ॥ ८ ॥ शौचस्वाध्यायनिरतः सन्तुष्टः सततोद्यतः । उच्छिष्टवर्जनपरश्चक्रतप्ततनुः सदा ॥ ९ ॥ मानमात्सर्यकार्पण्यपरित्यागपरो महान् । दैवे पित्र्ये सदोद्युक्तो दम्भाचारविवर्जितः ॥ १० ॥ निःशेषाणामकर्मण्यद्रव्याणां परिहारकृत् । मातूर्जनकनिष्ठानां सद्बन्धूनां च वत्सलः ॥ ११ ॥ उक्तनिर्वाहकश्चाभीर्नित्यं नीचासनप्रियः । सर्वेषामूर्ध्वतो नित्यं स्थितिकामपरायणः ॥ १२ ॥ वंशोद्धारैकरतया सुधियाऽलङ्कृतः सदा । गुरुप्रसादादन्यत्र स्वगृहे वा गुरोर्गृहे ॥ १३ ॥ लब्धदर्शनमात्रो वै मन्त्रमूर्तेस्तु मण्डले । गुरुदृग्वीक्षणेनैव प्रोक्षणेनेव संस्कृतः ॥ १४ ॥ बुद्ध्यते तावता चैव कृतार्थोऽस्मीति साम्प्रतम् । ततः प्रभृतिकालाच्च सुप्रसन्नाच्च देशिकात् ॥ १५ ॥ पाठपूर्वं हि शास्त्रार्थमभ्यर्थयति योऽनिशम् । श्रुत्वा विचारयत्यथनिकान्ते विजने स्थितः ॥ १६ ॥ नाभिमानपदं याति सुसम्पूर्णोऽपि चोदितः । शिक्षयत्यथ नान्येषां लुब्धः स्वार्थस्य सिद्धये ॥ १७ ॥ एवं पृष्टो वासुदेवः पूर्वं समयिलक्षणमाह—'यः श्रीमन्' इत्यारभ्य शिष्यो जात्या चतुर्विध इत्यन्तम् । एवं च यथोक्तलक्षणविशिष्टो दीक्षोक्तरीत्या नेत्रबन्धविमोचनपूर्वकं लब्धमण्डलदर्शनमात्रः शास्त्रार्थग्रहणशीलोऽयनादिविशेषेष्वेव भगवदर्चनपरो यः स समयीति ज्ञेयः ॥ २-३१ ॥ श्री भगवान् से कहा—सर्वप्रथम समयी शिष्य का लक्षण कहते हैं—जो श्री सम्पन्न, श्रद्धावान्, मतिमान्, दृढ़व्रत, सत्यवक्ता, भगवद्भक्त, मिताशी, सङ्गरहित, गुरु की आज्ञा में तत्पर, स्थिरबुद्धि, आलस्यरहित, उत्तम वैष्णवकुल में उत्पन्न, संस्कारों से संस्कृत, माता-पिता के द्वारा पहले से उत्तम सुयोग्य बनाये गये, साङ्कर्य-दोष से रहित, इन्द्रियों का दमन करने वाले, विश्वास के साथ परलोक का भयंकर शङ्कित रहने वाले, साधुओं के सत्सङ्ग की इच्छा रखने वाले, शास्त्रार्थ के आस्वाद में लम्पट, शास्त्रार्थ के सञ्चय में व्यसनी, धार्मिकों के रास्ते पर स्थित

द्वांविंशः परिच्छेदः ५१७ रहने वाले, निरन्तर सत्कर्म में लगे हुए, नित्य दैन्य रहित, सत्त्ववान, क्षमाशील, धैर्यशाली, दयालु, साधुओं का उपकार करने वाले, स्वच्छ वस्त्र सदैव धारण करने वाले, शुक्लवर्ण युक्त, प्रियवक्ता, प्रसन्नचित्त, दूसरे के द्रव्य से घृणा करने वाले, दूसर की स्त्री की स्पृहा से सर्वथा मुक्त, सद्विवेक का आश्रय लेने वाले, क्षत्रिय, वैश्य एवं शूद्र जाती में उत्पन्न, मद्य, मांस में लम्पटता रहित, शौच स्वाध्याय में निरत, सन्तुष्ट, सतत उद्योग शील, उच्छिष्ट वर्जन करने वाले, सर्वदा चक्र से अङ्कित शरीर वाले, मान, सात्सर्य एवं कार्पण्य का परित्याग करने वाले, महान दैव पित्र्य कार्य में सदा तत्पर, दम्भ से रहित सभी अकर्मण्य द्रव्यों का परिहार करने वाले, माता-पिता के तथा सद् बन्धुओं के वत्सल कही हुई बातों का पालन करने वाले, नित्य निर्भय, विनम्र, सभी से ऊपर रहकर स्थिति तथा काम में परायण, वंशोद्धारक, रूप सुन्दर बुद्धि से अलङ्कृत, अथवा गुरु के प्रसाद से अन्यत्र गुरु गृह में अथवा अपने गृह में दर्शन मात्र से सन्तुष्ट, मन्त्र मूर्ति के दर्शन से सन्तुष्ट, मण्डल दर्शन से सन्तुष्ट, गुरु के नेत्र द्वारा देखे जाने पर, अथवा उनके प्रोक्षण मात्र से संस्कृत, मात्र इतने से ही अपने को कृतार्थ समझने वाले, शिष्यता को प्राप्त काल से सन्तुष्ट रहने वाले, आचार्य से पढ़कर अथवा पाठ सुन कर जो एकान्त में निर्जन में निरन्तर पाठ का अनुशीलन करे, जो सम्पूर्ण पाठ याद कर कभी अभिमान न करे, जो क्षुब्ध होकर स्वार्थ सिद्धि के लिये किसी दूसरे को पाठ न पढ़ावे । (क्षोभरहित होकर दूसरे को पाठ पढ़ावे) ॥ २-१७ ॥ नोद्ग्राहयति शास्त्रार्थमभ्यर्थयति योऽनिशम् । न विक्रियामवाप्नोति ह्याक्षिप्तोऽप्यथ संसदि ॥ १८ ॥ न मन्यते तदा सम्यग् विजेष्यामीति वादिनः । कुण्डमण्डलमुद्रास्त्रपीठबिम्बालयेषु च ॥ १९ ॥ समन्त्रेषु च बुद्धिस्थं नित्यं कुर्याच्च संग्रहम् । अयनादिषु कालेषु प्रत्यहं त्वस्य सम्भवात् ॥ २० ॥ देवमर्चापयेत् कुर्यात् स्वयं वा मान्त्रमर्चनम् । जो निरन्तर शास्त्रार्थ का स्वयं अभ्यास करे और वैष्णवातिरिक्त को शास्त्रार्थ न बतावे । सभा में आक्षिप्त होकर भी विक्रिया (मलीनता, असन्तोष) प्राप्त न करे। 'मैं वादी पर विजय प्राप्त करूँगा' जो इस विचार को अच्छा नहीं समझता, समन्त्रक, कुण्ड, मण्डल, मुद्रा, अस्त्र, पीठ, बिम्ब तथा देवालय बुद्धि में जानकारी रखे । उत्तरायणादि काल उपस्थित होने पर देवाधिदेव की अर्चा करावे और स्वयं मन्त्र द्वारा अर्चन करे ॥ १८-२१ ॥ गुर्वादिष्टो गुरूणां च कुर्यात् पादाभिवन्दनम् ॥ २१ ॥ कार्या तेषां न जिज्ञासा यया यान्त्यप्रसन्नताम् ।

५१८ सात्वतसंहिता प्रसाद्य विधिवत् पृच्छेदबुद्धमथ विस्मृतम् ॥ २२ ॥ विज्ञातमथवा ज्ञातमाचार्यैः परिचोदितः । क्लृप्तां तेषां स्वकां मुद्रां गुप्तां कृत्वा प्रकाशयेत् ॥ २३ ॥ संस्कृतश्रुतपाठाभ्यां स्वगुरुं प्रार्थयेत् ततः । भगवद्यागपूर्वं तु पुत्रकाख्यं परं पदम् ॥ २४ ॥ असन्निधानात् स्वगुरोः प्रार्थयेत् तत्प्रतिष्ठितम् । तदभावात् तु वै चान्यं क्रमात् सद्धैष्णवो हि यः ॥ २५ ॥ नान्यदर्शनसंस्थं तु गुरोर्यस्मादवैष्णवात् । गुरु के द्वारा आदेश प्राप्त कर अन्य गुरु सदृशों का पादाभिवन्दन करे । उनसे ऐसी कोई जिज्ञासा न करे जिससे वे अप्रसन्न हों । जिस विषय का अपने को ज्ञान न हो, अथवा जिसका विस्मरण हो गया हो, उस पदार्थ की जिज्ञासा करके उन्हें प्रसन्न कर करे । आचार्य के द्वारा आज्ञा प्राप्त कर उनसे ज्ञात अथवा अज्ञात पदार्थ पूछे । गुरुओं द्वारा बताई गई मुद्रा गुप्त रूप से भी प्रकाशित न करे । संस्कृत के विषय में तथा श्रुतपाठ के विषय में (ज्ञान के लिये) गुरु से प्रार्थना करे । गुरु के सन्निधान में न रहने पर उनके स्थान पर भगवद् यागपूर्वक प्रतिष्ठित 'पुत्रक' नामक शिष्य से प्रार्थना करे । पुत्रक के अभाव में अन्य से और इसी प्रकार क्रमशः जो सद् वैष्णव हो उससे प्रार्थना पूर्वक पूछे ॥ २१-२६ ॥ कर्मतन्त्रं समन्त्रं च द्रव्यसामान्यजं फलम् ॥ २६ ॥ नूनं वैफल्यमायाति तस्मात् तं परिवर्जयेत् । द्रव्यमन्त्रक्रियाभावभेदात् फलमनश्वरम् ॥ २७ ॥ जायते कर्मिणां शश्वदभेदाद् वै ह्यकर्मिणाम् । सर्वत्र समबुद्धीनामात्मन्यभिरतात्मनाम् ॥ २८ ॥ लोकाचारवियुक्तानां यज्ञविग्रहिणां तु वै । ज्ञात्वैवं सह वै यस्य सम्बन्धः सफलो भवेत् ॥ २९ ॥ अवैष्णव गुरु से अथवा अन्य दर्शन से समन्त्रक कर्मतन्त्र तथा द्रव्य- सामान्यज फल नहीं होता । निश्चय ही ऐसे लोगों द्वारा कराये गये समन्त्रक कर्मतन्त्र निष्फल हो जाते हैं । इसलिये उनका परिवर्जन करे । भगवान् की आराधना में निरत भक्तों को द्रव्य मन्त्र क्रिया तथा भाव भेद से उसका अनश्वर फल होता है इसी प्रकार सर्वत्र समबुद्धी रखने वाले, अपनी आत्मा में निरत, लोकाचार रहित, यज्ञ विग्रह वाले महात्माओं को उनमें अभेद बुद्धि से उनका अनश्वर फल होता है । इस प्रकार जान कर जिसका जिस प्रकार उनमें सम्बन्ध होता है वही सफल होता है ॥ २६-२९ ॥

द्वाविंशः परिच्छेदः ५१९ सर्वदा स उपास्तव्य इहामुष्मिकसिद्धये । लिङ्गैरेतैः परिज्ञेयः सहजोत्यैरकृत्रिमैः ॥ ३० ॥ आचार्यैः समयी नाम शिष्यो जात्या चतुर्विधः । इस लोक तथा परलोक में सिद्धि प्राप्त करने के लिये मात्र परमात्मा ही उपासना के योग्य है । इस प्रकार स्वभाव में रहने वाले अकृत्रिम लिङ्गों से आचार्य समयी शिष्य का ज्ञान करे । ऐसे शिष्य चार प्रकार के होते हैं ॥ ३०-३१ ॥ एवं पुत्रकपूर्वा ये परिज्ञेयास्तु ते त्रयः ॥ ३१ ॥ किन्तु तस्य विशेषो यस्तमिदानीं निबोधतु । पूर्वोक्तानि समयिलक्षणानि पुत्रकादिषु त्रिष्वपि समानानि । तद्विशेषांस्तूपरि वक्ष्यामीत्याह—एवमिति ॥ ३१-३२ ॥ जिनमें समयी शिष्य का लक्षण (२२.२.३०) कह दिया गया । इसी प्रकार पुत्रक आदि तीन शिष्यों में भी पूर्वोक्त लक्षणों को जानना चाहिये ॥ ३१-३२ ॥ २. पुत्रकशिष्यस्य विशेषलक्षणकथनम् विज्ञाता गुरुणा यस्य विनियोगात् कृतार्थता ॥ ३२ ॥ स्वल्पमध्योत्तमाद्येन शिक्षितेनागमेन च । तस्यानुग्रहबुद्ध्या तु आहूतस्याच्युतालये ॥ ३३ ॥ कृत्वा निरीक्षणाद्यं च देवधाम्नि तु क्षेपयेत् । तुष्टो मन्त्रमयं सम्यक् सार्घ्यपुष्पाक्षताञ्जलिः ॥ ३४ ॥ ततः प्रभृति कालाच्च ध्यानं न्यासादिकं विना । पूजनं मन्त्रमात्रेण वह्नितर्पणवर्जितम् ॥ ३५ ॥ योग्यतापदसिद्ध्यर्थं दत्तं बिम्बेऽप्सु वा स्थले । सामान्यविधिना चोक्तो गुरुणा चार्चयाऽच्युतम् ॥ ३६ ॥ स तथेति तदुक्तं च मत्वाऽऽस्ते मुदितः सदा । आलोचयंस्तु शास्त्रार्थं स्वमुद्रामुद्रितं तु वै ॥ ३७ ॥ शक्त्या निरीक्षमाणं च योगक्षेमादिकं गुरोः । तदाराधननिष्ठस्तु तच्चित्तस्तत्परायणः ॥ ३८ ॥ पुत्रकस्य विशेषलक्षणान्याह—विज्ञाता गुरुणा यस्येत्यारभ्य स्वपुत्रादधिकः सदेत्यन्तम् । एवं च सम्यग् गृहीतशास्त्रार्थः पुत्रपदार्होऽयमिति गुरुणा ज्ञातः । मण्डलोपरि प्रक्षेपितपुष्पाञ्जलिकस्तदा प्रभृत्यत्राच्युतमर्चयेति गुरुणानुज्ञातो बिम्बे मण्डलेऽप्सु वा प्रत्यहं ध्यानन्यासवह्नितर्पणानि विना मन्त्रमात्रार्चनपरः शास्त्रार्थ- पर्यालोचनादिशीलो यः स पुत्रक इति ज्ञेयः ॥ ३२-४१ ॥

५२० सात्वतसंहिता अब हे सङ्कर्षण! पुत्रक शिष्य में जो विशेषता है, उसे सुनिये। जिसके विनियोग (क्रिया संकल्प) से स्वल्प, मध्य, उत्तम प्रकार के द्वारा शिक्षित आगम से गुरु जिसकी कृतार्थता जान लेता है उस पर अनुग्रहदृष्टि रख कर उसे विष्णु- मन्दिर में बुलावे और पुनः उसका अवलोकन करे। फिर उसे देवधाम (मण्डल) में रखे। उस पर सन्तुष्ट होकर उसकी अञ्जलि में अर्घ्य, पुष्प एवं अक्षत से पूर्णकर मण्डल में पुष्प प्रक्षेप कराकर मन्त्र प्रदान करे। किन्तु ध्यान एवं न्यास का उपदेश न करे। अग्नि के तर्पण (होम मन्त्र) के बिना मन्त्र मात्र के पूजन का उपदेश करे। उसकी योग्यता की सिद्धि के लिये गुरु सामान्य विधि से उपदेश करे कि आप बिम्ब के जल में अथवा स्थल में अच्युत का अर्चन कीजिये। फिर गुरु द्वारा उपदिष्ट होने पर प्रसन्नचित्त हो शिष्य 'तथास्तु' कहे। फिर स्वमुद्रा से मुद्रित शास्त्रार्थ का परिशीलन करे। अपनी शक्ति के अनुसार गुरु के योग-क्षेमादि का निरीक्षण करता रहे। उनकी आराधना में तत्पर रहकर तच्चित्त एवं तत्परायण रहे ॥ ३२-३८ ॥ समाक्षिप्तस्तदादेशान्मन्त्रमुद्राद्वयं विना। कीर्त्यर्थं स्वगुरोर्ब्रूयात् ज्ञातं शास्त्रार्थमुत्तमम्॥ ३९ ॥ उनकी आज्ञा होने पर मन्त्र एवं मुद्रा दोनों के बिना अपनी कीर्ति के लिये गुरु के द्वारा उपदिष्ट उत्तम शास्त्रार्थ उन्हें सुना देवे ॥ ३९ ॥ विचार्य स्वधिया सम्यग् वैष्णवानां हि संसदि। यथा नैति जनानां च मध्ये मात्सर्यभूमिताम्॥ ४० ॥ वैष्णवों की सभा में तथा सामान्य जनों की सभा में जिस प्रकार वह मात्सर्य की भूमि (ईर्ष्या का स्थान) न बने, वैसा अपनी बुद्धि से विचार करता रहे ॥४०॥ स शिष्यः पुत्रको नाम स्वपुत्रादधिकः सदा। ऐसा शिष्य 'पुत्रक' कहा जाता है। वह अपने पुत्र से भी अधिक प्रिय होता है ॥ ४१ ॥ ३. साधकलक्षणकथनम् साधकाख्ये विशेषो यस्तमिदानीं निबोध मे॥ ४१ ॥ पूर्ववल्लब्धदीक्षस्तु मन्त्राराधनतत्परः। स्नानादिनाऽखिलेनैव देवभूतेन कर्मणा॥ ४२ ॥ सिद्धये स्वात्मनश्चैव न लोकाराधनाय च। वने वायतनोद्देशे स्वगृहे वा मनोरमे॥ ४३ ॥ मन्त्रसेवार्घ्यदानं च कुर्यान्मन्त्रव्रतं महत्।

द्वाविंशः परिच्छेदः ५२१ परमः पालनीयश्च तेनैष समयः सदा ॥ ४४ ॥ अथ साधकलक्षणमाह—साधकाख्ये विशेषो य इत्यारभ्य साधको भगवन्मय इत्यन्तम् । एवं च यावन्तं पूर्वोक्तदीक्षया संस्कृत आयतने वने भवने वा यथाविधि ध्यानन्यासादिभिः सह मन्त्रार्चनं कुर्वन् जपादिभिस्तत्साधनपरो यः स साधक इति बोध्यः ॥ ४१-४६ ॥ अब हे सङ्कर्षण ! साधक शिष्य में जो विशेषता है उसे मुझसे सुनिये— साधक शिष्य पूर्व की भाँति दीक्षा प्राप्त कर समस्त स्नानादि तथा दैवी कर्म से युक्त होकर लोकाराधन के लिये नहीं, अपनी सिद्धि के लिये मन्त्राराधन में तत्पर रहे । वन में, अथवा किसी देवतायतन में, अथवा अपने गृह में, अथवा किसी मनोरम स्थान में निवास करते हुए मन्त्र, सेवा एवं अर्घ्यदानपूर्वक महान् मन्त्र- व्रत का पालन करे । सब प्रकार से यही पालनीय है इसीलिये इसे समय कहा जाता है ॥ ४१-४४ ॥ यदतीव च संलब्धं यच्छक्त्यानन्दमात्मनि । तदाश्चर्यं न वक्तव्यं पूजापूर्वं गुरोर्विना ॥ ४५ ॥ आत्मीयमुद्रासंयुक्तो नित्योद्युक्तः स्वकर्मणि । श्रद्धया यः स बोद्धव्यः साधको भगवन्मयः ॥ ४६ ॥ जो अत्यन्त रूप से प्राप्त हो तथा जिसकी शक्ति से अपूर्व आनन्द हो, उसे बहुत आश्चर्य न समझे, वह अपूर्व गुरु की पूजा का फल है । इस प्रकार जो श्रद्धापूर्वक आत्मीय मुद्रा से संयुक्त हो, अपने कर्म में सर्वदा सावधानी रखने वाला हो, उस भगवन्मय को साधक शिष्य समझना चाहिये ॥ ४५-४६ ॥ ४. आचार्यलक्षणकथनम् लिङ्गैः पूर्वोदितैर्युक्तस्त्वभियुक्तो विशेषतः । अनुग्रहार्थं गुरुणा भक्तानां विनियोजितः ॥ ४७ ॥ पदानि पदमन्त्राणां सार्थकानि च वेत्ति यः । वाच्यवाचकभावेन साङ्गानङ्गवशेन वा ॥ ४८ ॥ करविग्रहकह्लारचक्रन्यासार्थमेव च । समेन विषमेणैव सकृच्चित्रादिकेन च ॥ ४९ ॥ तेषामर्थवशाच्चैव विनियोगं हि वस्तुषु । ध्यानदैवतविज्ञानाद् व्यापकत्वं तु चाध्वनि ॥ ५० ॥ निर्लिङ्गं देवतानां च शब्दब्रह्मत्वमेव हि । यथावदनुजानाति स्ववर्णैः प्रागुदीरितम् ॥ ५१ ॥ सा० सं० - 37

५२२ सात्वतसंहिता साङ्कर्यमागमानां च वेत्ति वाक्यवशात् तु यः । अथाचार्यलक्षणमाह—लिङ्गैः पूर्वोदितैर्युक्त इत्यारभ्य सर्वैः सामयिकैर्गुणैरित्य- न्तम् । अथ प्रसङ्गात् शास्त्रसङ्करभेदं दिव्यादिभेदैरागमत्रैविध्यमपि दर्शितम् । तत्र मुनि- भाषितस्यापि सात्त्विकादिभेदैस्त्रैविध्यमैश्वर (१।५७-६३)परमेश्वरा(१०।३४७- ३७४)दिषूपबृंहितं ग्राह्यम् । एतत्साङ्कर्यविचारः श्रीपाञ्चरात्ररक्षायां बहुशः प्रतिपादितो द्रष्टव्यः । "अनिवाहकमाद्योक्तेरिति दिव्यमुनिभाषितयोर्विरुद्धार्थत्वमुच्यते । असम्बद्ध- मिति पूर्वापरविरुद्धत्वम्" (पृ० २९) इति पौरुषवाक्यलक्षणप्रकरणोक्तं पदद्वयमपि तत्रैव व्याख्यातम् । एवं च पूर्वोक्तलक्षणैर्युक्तो व्रतादिभिः सिद्धमन्त्र आचार्याभिषेकेना- भिषिक्तः पदमन्त्रार्थज्ञानसम्पन्नो यः स आचार्य इति बोध्यः । ननु "पूर्ववल्लब्धदीक्षः" (२२।४२) इति साधकस्य, 'लिङ्गैः पूर्वोदितैर्युक्तः' (२२।४७) इत्याचार्यस्य च प्राप्तदीक्षत्वमुक्तं भवति, समयिपुत्रकयोस्तु तन्नास्ति, तथापि तयोर्मन्त्रमात्रार्चने कथमधिकारः सिद्ध्यति? दीक्षाकालमन्तरा तयोर्मन्त्रः कदा प्राप्त इति चेत्, मध्ये (कमनीया?किमनया) शङ्कया? वचनात् प्रवृत्तिः, वचनान्नि- वृत्तिः । अदीक्षितानामर्चना(न)धिकारप्रतिपादकानि वचनानि तु मुद्रान्याससहितार्चना- धिकारनिषेधपराणि बोध्यानि । मन्त्रस्तु मण्डलदर्शनानन्तरं शास्त्राभ्याससमय एव संगृह्यते ॥ ४७-६१ ॥ पूर्वोक्त चिह्नों से विशेष रूप से युक्त ऐसा अभियुक्त जिसे गुरु ने भक्तों पर अनुग्रह करने के लिये विनियोजित किया हो । जो साङ्ग अथवा बिना अङ्ग के अर्थ सहित पदों को तथा पदमन्त्रों को वाच्यवाचकभावरूप से जानने वाला हो, कर- विग्रह कह्लार तथा चक्रन्यास के लिये सम, विषम, सकृत् चित्रादिक के द्वारा जो पदों के अर्थ के अनुसार वस्तुओं में विनियोग, ध्यान एवं देवता का ज्ञान रखते हुए, अध्व में व्यापकता ज्ञान रखने वाला हो, जो अपने-अपने वर्णों के अनुसार पहले कहे गये देवताओं की निर्लिङ्गता तथा शब्द ब्रह्ममितत्त्व को ठीक-ठीक जानने वाला हो, जो वाक्यों के अनुसार वाक्य-वश आगमों के साङ्कर्य को जानने वाला हो वह आचार्य के योग्य है ॥ ४७-५२ ॥ तत्र वै त्रिविधं वाक्यं दिव्यं च मुनिभाषितम् ॥ ५२ ॥ पौरुषं चारविन्दाक्ष तद्भेदमनवधारय । यदर्थाढ्यमसन्दिग्धं स्वच्छमल्पाक्षरं स्थिरम् ॥ ५३ ॥ तत्पारमेश्वरं वाक्यमाज्ञासिद्धं च मोक्षदम् । प्रशंसकं वै सिद्धीनां सम्प्रवर्तकमप्यथ ॥ ५४ ॥ सर्वेषां रञ्जकं गूढं निश्चयीकरणक्षमम् । मुनिवाक्यं तु तद्विद्धि चतुर्वर्गफलप्रदम् ॥ ५५ ॥ यह आगमों का साङ्कर्य भेद दिव्यादिभेद तीन प्रकार का कहा गया है । हे