सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
२६ सात्वतसंहिता विभज्य वामदेशेन दक्षिणेनाङ्घ्रिणा ततः । शनैः शनैः प्रविश्यान्तः ................. ॥ (२।१४-१५) इति । अन्ये चात्र तत्र तत्रापेक्षिता बहवो विशेषा एतदुपबृंहणयोरीश्वरपारमेश्वरयोरेव संगृहीता ग्राह्याः ॥ ४४-४५ ॥ शुद्ध वस्त्र धारण करे और इन्द्रियों को वश में कर चित्त को स्थिर रखे । फिर मौन धारण कर पुष्प दर्भादि से द्वार के अग्रभाग में स्थित चक्र सहित गरुड की पूजा कर भगवान् के मन्दिर में प्रवेश करे ॥ ४४-४५ ॥ उपार्जितं पुरा यद्वै यागोपकरणं महत् । तत्सर्वं दक्षिणे कृत्वा वामे तु करकं न्यसेत् ॥ ४६ ॥ गालितेनाम्भसा पूर्णं मध्ये भद्रासनं न्यसेत् । मृत्काष्ठोपलधातूत्थमेकद्वित्रिशमं तु वा ॥ ४७ ॥ चतुरश्रमथाष्टाश्रं चतुरश्रायतं तु वा । चतुष्पादसमायुक्तं चतुरावरणाङ्कितम् ॥ ४८ ॥ मकरस्यप्रणालं तु प्रमाणेनोपलक्षितम् । यागोपकरणानामासादनस्थाननियममाह—उपार्जितमिदमिति सपादेन । गर्भगृह- मध्ये भद्रपीठस्थापनं तल्लक्षणादिकं चाह—मध्य इत्यादिभिः । एकद्वित्रिशमं तु वा चतुरङ्गुलमष्टाङ्गुलं द्वादशाङ्गुलं वेत्यर्थः । ‘शमं तु चतुरङ्गुलम्' (३।१।५२) इति वैजयन्ती ॥ ४६-५० ॥ यज्ञ के निमित्त जो-जो यज्ञोपकरण उपार्जित किया गया है, उसे अपनी दाहिनी ओर रखे और बाईं ओर करके बायीं ओर करवा (= करक) रखे ॥ ४६ ॥ वह करक वस्त्र से छने हुये पवित्र जल से पूर्ण होना चाहिये तथा इन दोनों के मध्य में भद्रासन रखे । वह भद्रासन मिट्टी, काष्ठ, पत्थर अथवा धातु से निर्मित एक शम (चार अङ्गुल), दो शम (आठ अङ्गुल), तीन शम (बारह अङ्गुल) ऊँचा होना चाहिये । चार कोणों का या आठ कोणों का चौकोर होना चाहिये । वह भद्रासन, चतुष्पाद तथा चार आवरणों से युक्त होना चाहिये । प्रमाण में वह मकर के मुख के समान उसका प्रणाल (= नाली) होना चाहिये ॥ ४७-४९ ॥ तदधश्चोत्तरस्यां वै चलं वा क्ष्मातलाश्रितम् ॥ ४९ ॥ शङ्खचक्राङ्कितं कुर्याज्जलाधारं सुलक्षणम् । उसके बाद उसके उत्तर दिशा में कुछ नीचे जल अथवा पृथ्वी के आश्रित शङ्ख चक्राङ्कित सुलक्षण जलाधार स्थापित करे ॥ ४९-५० ॥ अथोपविश्य वै दार्भे काष्ठजे वाऽजिनासने ॥ ५० ॥ बद्धपद्मासनः कुर्यान्न्यासं मन्त्रवरेण तु ।
द्वितीयः परिच्छेदः २७ अभिन्नं मस्तके तावदादित्यातपवन्न्यसेत् ॥ ५१ ॥ व्यापकत्वेन तदनु विन्यसेद् भिन्नलक्षणम् । अङ्गुष्ठद्वितयाद् यावत् कनिष्ठाद्वितयावधिः ॥ ५२ ॥ ज्ञानाद्यं वीर्यपर्यन्तं विन्यसेदङ्गपञ्चकम् । मूलवद् व्यापकत्वेन नेत्रमूर्ध्वाङ्गुलीषु च ॥ ५३ ॥ आब्रह्मरन्ध्रात् पादान्तमथ मन्त्रं तु विग्रहे । ततस्तु हृदये ज्ञानं यतो व्यज्येत तत्र तत् ॥ ५४ ॥ ऐश्वर्यं शिरसो देशे यस्मादुपरि तिष्ठति । प्राकृतं तात्त्विकं वापि सर्वत्र कमलेक्षण ॥ ५५ ॥ हृदग्नेरूर्ध्वगायां तु शिखायां शक्तिमन्त्रराट् । बलं चाखिलगात्राणां तद्गतं वायुना सह ॥ ५६ ॥ मूर्च्छितं सर्वगात्रैर्यत्तद्वीर्यं हस्तयोर्न्यसेत् । अन्तर्बोधस्वरूपं यत् प्राकृतध्वान्तशान्तिकृत् ॥ ५७ ॥ तेजस्तत्तैजसे स्थाने न्यासकाले समस्यते । इदानीमेवं भद्रासनन्यासोक्तिश्चलबिम्बादीनां तदुपरि स्थापनार्थं वा बिम्बाधिकं विना तत्रैवार्चनार्थं वेति ज्ञेयम् । स्थिरबिम्बानां पीठस्तु प्रतिष्ठाकाल एव स्थाप्यते । स्वासनोपवेशनपूर्वकं मन्त्रन्यासविधिमाह—अथोपविश्येत्यादिभिः । अत्र न्यासात् पूर्वं प्राणायामभूतशुद्धेः, मन्त्रन्यासानन्तरं भूषणादिन्यासस्य चानुक्तावपि नृसिंहकल्पे वक्ष्य- माणरीत्या ग्राह्यम् ॥ ५०-५८ ॥ इसके बाद साधक कुशा के आसन पर अथवा काष्ठ के आसान पर अथवा मृग चर्म के आसन पर पद्मासन से बैठकर श्रेष्ठ मन्त्र से न्यास करे । सर्वप्रथम मस्तक पर आदित्य के आतप के समान अभिन्न न्यास करे । इसके बाद व्यापक से अङ्गुष्ठ द्वितय से आरम्भ कर कनिष्ठ द्वितय पर्यन्त भिन्न लक्षण न्यास करे । फिर ज्ञानादि से लेकर वीर्य पर्यन्त पञ्चाङ्गन्यास करे । मूल युक्त व्यापक से नेत्र एवं ऊपर तथा अङ्गुलियों में न्यास करे । फिर शिर से लेकर पाद पर्यन्त शरीर में मन्त्र न्यास करे । हृदय में ज्ञान से न्यास करे क्योंकि ज्ञान हृदय से ही प्रगट होता है । ऐश्वर्य का न्यास शिरःप्रदेश में करे, क्योंकि वह सबसे ऊपर रहता है ॥ ५०-५५ ॥ हे कमलेक्षण सङ्कर्षण ! प्राकृत तथा तात्त्विक न्यास सर्वत्र करे । हृदय रूप अग्नि के ऊपर जाने वाली शिखा में शक्ति मन्त्रराट् से न्यास करे । वायु के साथ समस्त शरीर में सञ्चार करने वाले बल का न्यास समस्त शरीर में करे जो समस्त शरीर में फैल हुआ है । उस वीर्य का न्यास दोनों हाथों में करे जो अन्तःकरण में ज्ञान स्वरूप से बोध कराता है तथा प्राकृत न्यास अन्धकार को (विनष्ट) करने वाला है अतः वह तेज न्यास काल में तैजस स्थान (नेत्र) में स्थापित करे ॥ ५५-५८ ॥
२८ सात्वतसंहिता चतुश्चक्रे नवद्वारे देहे देवगृहे पुरा ॥ ५८ ॥ न्यस्यैवमभिमानं तु मन्त्राख्यमवलम्ब्य च । एवमाधारनाभिहृत्कण्ठचतुश्चक्रविशिष्टे नवद्वारान्विते स्वशरीरे भगवन्मन्दिरत्व- बुद्ध्या पूर्वं मन्त्रान् विन्यस्य ‘नादेवो देवमर्चयेत्’ इति न्यायेन स्वस्मिन् देवत्वाभिमाना- वलम्बनं च कुर्यादित्याह—चतुश्चक्र इति । मन्त्राख्यमभिमानं स्वस्मिन् मन्त्रनाथत्वा- हङ्कारमित्यर्थः। वक्ष्यति च—‘देवोऽहमिति भावयेत्’ (१७।३६) इति । जयाख्येऽपि व्यक्तमुक्तम्— अहं स भगवान् विष्णुरहं नारायणोहरिः । वासुदेवो ह्यहं व्यापी भूतावासो निरञ्जनः ॥ एवंरूपमहङ्कारमासाद्य सुदृढं मुने । (१९।४१-४२) इति ॥ ५९ ॥ इस प्रकार आधार, नाभि, हृदय और कण्ठ रूप चार चक्रों वाले नवद्वारों वाले अपने शरीर को ही मन्दिर समझकर पूर्व मन्त्रों के द्वारा न्यास कर ‘नादेवो देवमर्चयेत्’ इस न्यास से अपने शरीर में देवत्वावलम्बन करे ॥ ५८-५९ ॥ मनस्युपरतं कुर्यादिक्षग्रामं बहिःस्थितम् ॥ ५९ ॥ चित्तं बुद्धौ विनिक्षिप्य तां बुद्धिं ज्ञानगोचरे । ज्ञानभावनया कर्म कुर्याद् वै पारमार्थिकम् ॥ ६० ॥ अथ मानसिकयागमुपदिशन् निरन्तरायभगवज्ज्ञानभावनासिद्ध्यर्थं बाह्येन्द्रिया- दीनामन्तर्नियमनमाह—मनसीति सार्धेन । एवं ज्ञानभावनया क्रियमाणस्य कर्मणः शुद्धसत्त्वमयत्वं बाह्यस्य त्रिगुणमयत्वात् शुद्ध्यपेक्षत्वं चोक्तं लक्ष्मीतन्त्रे— मानसीर्निर्वपेत् सर्वाः क्रिया ज्ञानसमाधिना ॥ ज्ञानेन क्रियते यद्यत् कर्म ब्रह्मसमाधिना । शुद्धसत्त्वमयं तत्तदक्षयं भवति ध्रुवम् ॥ बाह्या द्रव्याश्रिता यस्माद् दोषाराजसतामसाः । ततस्तच्छोधनमपि कर्मणा मनसा गिरा ॥ तस्मादेकान्तनिर्दोषं भावनावासितं तथा । तस्माज्ज्ञानं समास्थाय शुद्धं संवित्समुद्भवम् ॥ ज्ञानभावनया कर्म कुर्याद्वै पारमार्थिकम् । (३४।१३७-१४१) इति ॥ ५९-६० ॥ अब मानसिक याग का उपदेश करते हुये ‘निरन्तराय भगवद् भावना सिद्ध्यर्थं बाह्येन्द्रियादि’ के नियमन का प्रकार कहते हैं—समस्त बाह्येन्द्रियों को मन में उपरत करे और चित्त को बुद्धि में तथा उस बुद्धि को ज्ञान में स्थापित करे । फिर ज्ञान भावना से तथा ब्रह्मसमाधि से भगवान् के मन्त्रमय स्वरूप का स्वशरीर में ध्यान करे ॥ ५९-६० ॥
द्वितीयः परिच्छेदः २९ चतुश्चक्रे नवद्वारे देहे देवगृहे पुरा । कण्ठकूपधरास्रूढं हृत्पद्मं यदधोमुखम् ॥ ६१ ॥ तत्कर्णिकावनेर्मध्ये रूढमूर्ध्वमुखं तु यत् । शब्दव्यक्तिस्तदूर्ध्वं तु स्थिताकेन्द्वग्निलक्षणा ॥ ६२ ॥ स्वहृदये भगवदभिव्यक्तिस्थाननिरूपणार्थं प्रथमतः शब्दब्रह्मावस्थानमाह—चतु- श्चक्र इति द्वाभ्याम् । कण्ठकूपधरास्रूढं = गलकूपस्थलसमुत्पन्नमधोमुखं यद् हृत्पद्मं तत् कर्णिकावनेर्मध्ये रूढं समुत्पन्नं यद् हृत्पद्ममित्यनुषज्यते । तदूर्ध्वं तत्कमलद्वय- सम्पुटमध्ये अधः = कमलोपरीत्यर्थः । अर्केन्द्वग्निलक्षणा = ज्योतिः स्वरूपा शब्द- व्यक्तिः = शब्दब्रह्म स्थिता वर्तत इत्यर्थः ॥ ६१–६२ ॥ इस प्रकार आधार, नाभि, हृदय एवं कण्ठ में होने वाले चार चक्रों वाले, नव- द्वारों वाले, देवगृहात्मक स्वशरीर के कण्ठ कूपधरा में उत्पन्न अधोमुख हृत्पद्म स्थित है। उसकी कर्णिका में उत्पन्न ऊर्ध्वमुख दो कमलों के सम्पुट के मध्य में स्थित अधः कमल के ऊपर सूर्यचन्द्राग्नि लक्षण ज्योतिः स्वरूप शब्दब्रह्म विराजित है ॥६१-६२॥ त्रिदीप्तिभास्वरा नाडी त्वव्यक्तध्वनिविग्रहा । व्यक्तं चक्रत्रयस्योर्ध्वे वर्तते या महामते ॥ ६३ ॥ निस्स्रुता ब्रह्मरन्ध्रेण गता सूर्यपथात् परम् । वायुद्वारेण पातालं भित्वा याता सुगोचरम् ॥ ६४ ॥ सङ्कल्पविषयः सर्वः सम्बन्धः प्रतितिष्ठति । सूत्रे मणिगणो यद्वन्मध्यनाडी ह्यतः स्मृता ॥ ६५ ॥ लक्ष्यस्थाने तु पूर्वोक्ते तस्यामभ्यन्तरे तु वै । सम्पुटे शशिसूर्याख्ये निमेषोन्मेषलक्षणे ॥ ६६ ॥ तत्रार्कं चाब्जमालम्ब्य परा वाग्भ्रमरी स्थिता । या सर्वमन्त्रजननी शक्तिः शान्तात्मनो विभोः ॥ ६७ ॥ नदन्ती वर्णजं नादं शब्दब्रह्मेति यत् स्मृतम् । अकारपूर्वो हान्तश्च धारासन्तानरूपधृक् ॥ ६८ ॥ एवं संग्रहेण शब्दब्रह्मावस्थानमुक्त्वा पुनः सुषुम्नानाडीस्वरूपकथनपूर्वकं तदेव विशदयति—त्रिदी(प्ती)ति षड्भिः । अस्या त्रिदीप्तिभास्वरत्वं तेजस्त्रयात्मकशब्द- ब्रह्माधारत्वात् । अव्यक्तध्वनिविग्रहा अव्यक्तध्वनिः शब्दब्रह्म— शब्दब्रह्मस्वरूपेण स्वशक्त्या स्वयमेव हि । मुक्तयेऽखिलजीवानामुदेति परमेश्वरात् ॥ तदव्यक्ताक्षरं विद्धि तन्त्रीशब्दो यथा कलः । (२०।७-८) इति लक्ष्मीतन्त्रोक्तेः, स विग्रहो यस्या तथोक्ता । चक्रत्रयस्योर्ध्व आधारनाभि-
३० सात्वतसंहिता क(ण्ठ)चक्रत्रयोपरि प्रकाशमाना ब्रह्मरन्ध्रेण निःसृता सूर्यपथात् परं गता वायुद्वारेण पातालं भित्त्वा स्वगोचरं याता, आमूलाग्रं यावदन्तं व्याप्तेत्यर्थः । अत एव भगवत्सं- कल्पविषयः सर्वोऽपि सूत्रे मणिगण इव सुषुम्नानाडीसम्बन्धः प्रतितिष्ठति, अतो मध्य- नाडीति स्मृता प्रसिद्धा । तस्यामभ्यन्तरे पूर्वोक्ते लक्ष्यस्थाने, हृदयकमलस्थान इत्यर्थः । निमेषोन्मेषलक्षणे निमीलनोन्मीलनविशिष्टे शशिसूर्याख्ये, निमीलितोर्ध्वकमलस्य शशि- संज्ञत्वम्, उन्मीलिताधःकमलस्य सूर्याख्यत्वम् । तत्र सम्पुटे कमलद्वयसम्पुटे, आर्कम् अर्कसम्बन्धि, अब्जम् अधः कमलमित्यर्थः । आलम्ब्य आश्रित्य, परा सूक्ष्मा, वाग्भ्रमरी वागेव भ्रमरी स्थिता । तां विशिनष्टि—या वाग्भ्रमरी सर्वमन्त्रजननी शान्तात्मनः सूक्ष्मस्य परस्येति यावत्, विभोः शक्तिरित्यनेन इयमपि तथा सूक्ष्मेत्यर्थः । अकारपूर्वो हान्तः अकारादिहकारान्तः, धारासन्तानरूपधृक् तैलधारावदविच्छिन्नः शब्दब्रह्मेति यत् यो नादः, तं वर्णजं नादं नदन्तीति । एवमेव नादस्वरूपमुक्तं लक्ष्मीतन्त्रेऽपि— पृथग्वर्णात्मना याति स्थितयेऽनेकधा स तु ॥ सूक्ष्मवर्णस्वरूपोऽसौ धारासन्तानरूपधृक् । पञ्चाध्वकोशमुक्तस्य मन्त्रिष्ठस्य विवेकिनः ॥ सोऽनुभूतिपदं याति प्रसादात् परमात्मनः । (२०।८-१०) इति । एतादृशं नादं नदन्त्या वाक्शक्तेः स्वरूपमपि तत्रैवोक्तम्— प्रकाशानन्दसाराहं सर्वमन्त्रप्रसूः परा । शब्दानां जननी शक्तिरुदयास्तमयोग्झिता ॥ व्यापकं यत् परं ब्रह्म नारायणसमाह्वयम् । शान्तता नाम याऽवस्था साहं शान्ताखिलप्रसूः ॥ (१८।१८-१९) इति ॥ ६३–६८ ॥ हे महामते ! यही आधार, नाभि और हृदय पर स्थित तीन चक्रों पर तीन ज्योतियों से भासित अव्यक्त ध्वनि की विग्रह वाली सुषुम्ना नाडी विद्यमान है, जो ब्रह्मरन्ध्र से निकल कर सूर्यपथ से बाहर निकल कर वायु द्वार से पाताल भेदन कर मूल से लेकर समस्त शरीर में व्याप्त है जिसमें भगवत् संकल्पित समस्त बाह्य विषय सूत्र में मणिगण के समान सम्बद्ध होकर स्थित हैं । इसलिये उसे मध्यनाडी भी कहा जाता है । उसके भीतर पूर्वोक्त हृदय कमल स्थान में निमेषोन्मेष लक्षण वाले निमलिनोन्मीलन विशिष्ट लक्षण वाले चन्द्र और सूर्य नाम वाले दो कमल स्थित हैं । वहाँ उस कमल द्वय सम्पुट में सूर्य सम्बन्धि अधः कमल को आश्रय लेकर सूक्ष्मा वाग्भ्रमरी स्थित है । वह परा वाग् भ्रमरी सर्वमन्त्रमयी है और पर सूक्ष्म उस शान्तात्मा विभु की शक्ति है जो उसी प्रकार सूक्ष्म भी है । यह परा वाग्भ्रमरी तैलधारावद् अविच्छिन्न रूप से निरन्तर अकार से हकार वर्ण पर्यन्त शब्दब्रह्म नामक नाद करती हुई वहीं शोभित रहती है । विमर्श—नाद, बिन्दु, मध्यमा और बैखरी इन चार अवस्था वाले शब्दब्रह्म की यह वाग्भ्रमरी प्रथमावस्था है यह बात आगे चल कर कहेंगे ॥ ६३-६८ ॥
द्वितीयः परिच्छेदः ३१ नादावसानगगने देवोऽनन्तसमन्वितः । शान्तः संवित्स्वरूपस्तु भक्तानुग्रहकाम्यया ॥ ६९ ॥ अनौपम्येन वपुषा ह्यमूर्तो मूर्त्ततां गतः । विश्वमाप्याययन् कान्त्या पूर्णेन्दुयुततुल्यया ॥ ७० ॥ वरदाभयदेनैव शङ्खचक्राङ्कितेन तु । त्रैलोक्योद्धृतिक्षेण युक्तः पाणिद्वयेन तु ॥ ७१ ॥ रश्मिभिर्भास्करो यद्वत् समुद्र इव चोर्मिभिः । स्वमूर्तिभिरमूर्त्तिभिरच्युताद्याभिरन्वितः ॥ ७२ ॥ दीप्तिमद्भिरमूर्तैस्तु सुधाकल्लोलसङ्कुलैः । पूर्ण आभरणैः सर्वैर्निर्विकाराङ्घ्रिविग्रहः ॥ ७३ ॥ एवं हृदयकमले शब्दब्रह्मावस्थानमुक्त्वा तदन्ते द्योतमानपरब्रह्मस्वरूपमाह— नादावसानेति पञ्चभिः । नादावसानगगने नादो नाम नादबिन्दुमध्यमावैखर्याख्ये शब्द- ब्रह्मणोऽवस्थाचतुष्टये प्रथमावस्था पूर्वोक्तलक्षणा, तदवसानं तत्पराकाष्ठा, तत्र यद् गगनं गगनात्मिका शक्तिः, तत्रेत्यर्थः । तथा च लक्ष्मीतन्त्रे— नादस्य या परा काष्ठा साऽहन्ता परमेश्वरी ॥ शक्तिः सा परमा सूक्ष्मा नादान्तगगनाह्वया । शब्दब्रह्ममयी सूक्ष्मा साहं सर्वावगाहिनी ॥ विरामे सति नादस्य यः स्फुटीभवति ध्रुवम् । ज्योतिस्तत्परमं ब्रह्म लक्ष्मीनारायणात्मकम् ॥ (२४।९-११) इति शङ्खचक्राङ्कितेनेत्यत्र पाणिद्वये केवलरेखारूपशङ्खचक्राङ्कितत्वं ज्ञेयम् । यतोऽ- न्यथा पाणिद्वयमात्रस्य वरदाभयमुद्रान्वितत्वमपि न संभवति, तथा चोपबृंहितं लक्ष्मी- तन्त्रे— व्यापको भगवान् देवो भक्तानुग्रहकाम्यया ॥ अनौपम्यमनिर्देश्यं वपुः स भजते परम् । विश्वाप्यायनकं कान्त्या पूर्णेन्दुयुततुल्यया ॥ वरदाभयहस्तं च द्विभुजं पद्मलोचनम् । रेखामयेन चक्रेण शङ्खेन च करद्वये ॥ अङ्कितं निर्विकाराङ्घ्रिस्थितं परमशोभनम् । अन्यूनानतिरिक्तैः स्वैर्गुणैः षड्भिरलङ्कृतम् ॥ समं समविभक्ताङ्गं सर्वावयवसुन्दरम् । पूर्णमाभरणैः शुभ्रैः सुधाकल्लोलसंकुलैः ॥ रश्मिभूतैरमूर्तैः स्वैरच्युताद्यैरविच्युतम् । एका मूर्तिरियं दिव्या पराख्या वैष्णवी परा ॥ योगसिद्धा भजन्त्येनां हृदि तुर्यपदाश्रिताम् । —(१०।११-१७) इति ।
३२ सात्वतसंहिता स्वमूर्तिभिरच्युता(द्या)भिरन्वित इत्यत्राच्युताद्या मूर्तयस्तिस्र इति ज्ञेयम् । तदुक्तं पारमेश्वरे प्रतिष्ठाध्याये— तथा च सर्वजगतामेकबीजात्मकस्य च ॥ सदोदितस्वरूपस्य वासुदेवस्य वै विभोः । त्रयाणामच्युतादीनां तद्भेदानां तथैव च ॥ (१५।२२-२३) इति एवं च सङ्कर्षणप्रद्युम्नानिरुद्धानामेवाच्युतसत्यपुरुषापरनामधेयत्वं बोध्यम् । ननु— पुरुषं च ततः सत्यमच्युतं च युधिष्ठिर ॥ अनिरुद्धं च मां प्राहुर्वैखानसविदो जनाः । अन्ये त्वेवं विजानन्ति मां राजन् पाञ्चरात्रिकाः । वासुदेवं च राजेन्द्र सङ्कर्षणमथापि च । प्रद्युम्नं चानिरुद्धं च चतुर्मूर्तिं प्रचक्षते ॥ —(महाभा० आश्व० ९२ अ० । पृ० ६३४२) इति वासुदेवादीनां पुरुषादिशब्दवाच्यत्वं दृश्यते, भवता व्युत्क्रमेणानिरुद्धादीनां पुरुषादिशब्दवाच्यत्वं कथं व्याख्यातमिति चेत्, सत्यम् । अत्र वैखानसानां तथा व्यवहार इत्युक्त्या नास्मद्व्याख्याविरोधः । अपि त्वनिरुद्धादीनां पुरुषादिशब्दवाच्यत्वमत्रैव वक्ष्यति पञ्चमे परिच्छेदे मन्त्रोद्धारप्रकरणे 'अप्यावावसरे' (५।६८) इत्यादिभिः । एवमत्र परात्परदशायामच्युतादिसमन्वितत्वेऽपि वासुदेवस्यैव प्राधान्यं बोध्यम्, तत्रैकमूर्ति- प्राधान्यात् । ननु तर्हि शान्तोदितापरनामधेयतुर्यव्यूहचतुर्मूर्तिप्राधान्यं किमिति चेन्न, 'अभेदे- नादिमूर्तेर्वै संस्थितं वटबीजवत्' (५।८१) इति वक्ष्यमाणानुसारेण परसंज्ञस्य तद्- व्यूहस्य परात्परवासुदेवाद्यभिन्नत्वात् । अत एव सुषुप्त्यादिव्यूहवत् प्रत्येकं तद्व्यूह- वाचकमन्त्राणामनुक्तत्वात् परात्परमन्त्रेणैव तस्यापि चारितार्थ्याच्च परात्परत्वद- शायामिव परत्वेऽपि वासुदेवस्यैकस्यैव प्राधान्यं ज्ञेयम् । तर्हि एवमभिन्नत्वे पुनः केन तयोर्भेद इति चेत्, नित्योदितत्वेन चेति बोध्यम् । नित्योदितत्वं नाम स्वविभूत्यनुभव- दशाविशिष्टत्वम् । शान्तोदितत्वं नाम स्वात्ममात्रानुभवदशाविशिष्टत्वम् । ननु चैवं शान्तोदितव्यूहेऽप्येकमूर्तिप्राधान्ये व्यूहशब्दस्य स्वारस्यं न संभवतीति चेदुच्यते—किं व्यूहशब्दमात्रेण चतुर्णां प्राधान्यमङ्गीकार्यम्? तथा सति परात्परत्वदशा- यामपि व्यूहशब्दो जागर्त्येव । तथाहि ईश्वरे (८।५२) पारमेश्वरे (८।५१) च गरुडा- र्चनप्रकरणे—'नित्योदितस्य व्यूहस्य तथा शान्तोदितस्य च' इति, सिद्धान्तलक्षण- निरूपणप्रकरणेऽपि—'यत्र शान्ततरं व्यूहं शान्तोदितमनन्तरम्' (ई० सं० २०।१९८; पार० सं० १९।५३३) इति । पारमेश्वरे प्रतिष्ठाध्याये— परात्परस्वरूपस्य परस्य चतुरात्मनः । शान्तोदितादिव्यूहानां केशवाद्यखिलस्य च ॥ (१५।२१) इति, तथा च सर्वजगतामेकबीजात्मकस्य च ॥
द्वितीयः परिच्छेदः ३३ सदोदितस्वरूपस्य वासुदेवस्य वै विभोः । त्रयाणामच्युतादीनां तद्भेदानां तथैव च ॥ शान्तोदितस्वरूपस्य परस्य चतुरात्मनः । (१५।२२-२४) इत्येवं सर्वत्र परात्परत्वसंज्ञायां नित्योदितत्वदशायां परत्वसंज्ञायां शान्तोदितत्व- दशायां च वासुदेवादिचातुरात्म्यसद्भावाद् व्यूहशब्दचातुरात्म्यशब्दौ स्वरसावेव । किन्तु परत्वदशाद्वयेऽपि वासुदेवस्यैव प्राधान्यम्, एक एव मन्त्रः, तदर्चनेनैवोपसर्जनभूताना- मन्येषामप्यर्चनसिद्धिरित्यादिकं बोध्यम् ॥ ६९-७३ ॥ इस प्रकार हृदयकमल में शब्दब्रह्म के स्थान का निरूपण कर उसके अन्त में परब्रह्म के स्वरूप का निरूपण करते हैं—शब्दब्रह्म की अन्तिम अवस्था में अनन्त समन्वित संवित्स्वरूप शान्तदेव, भक्तों पर अनुग्रह करने की इच्छा से अमूर्त्त होकर भी अत्यन्त मनोहर शरीर धारण कर मूर्त्त रूप में प्रगट हो जाते हैं और अयुत चन्द्रमा के समान अपनी उस मनोहर कान्ति से विश्व का आप्यायन करते हैं ॥ ६९-७० ॥ वे भगवान् शङ्खचक्र के चिह्नों वाले वर और अभयमुद्रा धारण किये हुये, त्रैलोक्य का उद्धार करने में समर्थ अपने दो हाथों से संयुक्त हैं, जिस प्रकार भगवान् सूर्य अपनी अनन्त किरणों से तथा जिस प्रकार समुद्र अपनी अनन्त ऊर्मियों (=लहरों) से संयुक्त हैं उसी प्रकार भगवान् अमूर्त्ति होकर अपने अच्युतादि अनन्त मूर्तियों से समन्वित हैं ॥ ७१-७२ ॥ अर्थात् परात्पर दशा में अच्युतादि मूर्तियों से समन्वित होकर भी वासुदेव रूप से प्रधान बने रहते हैं । वे सम्पूर्ण आभरणों से पूर्ण हैं किन्तु उनके पादादि विग्रह में कोई विकार नहीं होता ॥ ७३ ॥ ततः खाब्जकमध्यात्तु ह्यूर्ध्वस्थ्यात् संस्मरेच्च्युताम् । गङ्गां भगवतो मूर्ध्नि तेनामृतजलेन तु ॥ ७४ ॥ अर्घ्याद्यखिलभोगानां कार्या वै शुभकल्पना । अर्घ्यादिपरिकल्पनार्थं गङ्गावतणभावनाप्रकारमाह—तत इति सार्धेन । ऊर्ध्व- स्थादित्यब्जविशेषणम्, हृदयकमलद्वयसम्पुटे ऊर्ध्वकमलादित्यर्थः । ऊर्ध्वस्थितामिति पाठे गङ्गाविशेषणं सुस्पष्टम् । इममर्थं विस्तरेण वक्ष्यति नृसिंहकल्पपरिच्छेदे आप्या- यनप्रकरणे । अत्रापेक्षितं पीठकल्पनं नृसिंहकल्पे वक्ष्यति— अथ प्रणवपूर्वेण स्वनाम्ना नतिना सह ॥ शेषपूर्वं तु वह्न्यन्तमासनं परिकल्पयेत् । तथाक्रम्याथ तस्यैव कार्या स्वहृदि कल्पना ॥ (१७।३६-३७) इति ॥ ७४-७५ ॥ अब निर्विकार भगवान् की मानसी पूजा के लिये उपयुक्त अर्घ्यादि की भावना-
३४ | सात्वतसंहिता वश गङ्गावतरण कहते हैं—तदनन्तर भावनावश हृदयकमल रूप दो सम्पुटों में ऊपर रहने वाले कमल से गिरती हुई भगवती गङ्गा के जल से भगवान् के शिर पर अर्घ्य प्रदान करे। इसी प्रकार अर्घ्यादि की तरह समस्त भोगों की कल्पना कर भगवदाराधन करे ॥ ७४-७५ ॥ तैः क्रमात् प्रीणयेद् देवमाद्यं तुर्यपदे स्थितम् ॥ ७५ ॥ प्रणवद्वितयं चोक्त्वा प्रीयतां मे परः प्रभुः । अर्घ्यादिभिर्भगवत्प्रीणनं प्रति मन्त्रं चाह—तैरिति । आद्यं परव्यूहविभवाख्य- रूपत्रये प्रथमं तुर्यपदे स्थितं जाग्रत्स्वप्नसुषुप्तितुर्याख्यपदचतुष्टये परिशुद्धये तुर्यपदा- रूढमित्यर्थः । जाग्रदादिपदार्थविवरणं तु लक्ष्मीतन्त्रे सुस्पष्टमुक्तम्— जाग्रत्स्वप्नं सुषुप्तिश्च तुर्यं चेति चतुष्टयम् ॥ ज्ञेयं पदाध्वनो रूपं जाग्रद्बाह्येन्द्रियक्रमः । बाह्येन्द्रियाणां तमसाऽभिभूते विभवे सति ॥ अन्तःकरणवृत्तिर्या संस्कारपरिशेषिणी । सा स्वप्न इति विज्ञेया तदभावे सुषुप्तिका ॥ तमसाऽनभिभूतस्य सत्त्वस्थस्य विपश्चितः । बाह्यान्तःकरणस्थाया वृत्तेरुपरमे सति ॥ शुद्धसत्त्वस्वभावस्य सन्ततिस्तुर्यसंज्ञिता । एवं चतुर्विधे मार्गे निर्दिष्टेऽस्मिन् पदाभिधे ॥ तुर्यवर्जं सुषुप्त्यादिरशुद्धां भजते गतिम् । (२२।२२-२७) इति । अत्र ॐ ॐ प्रीयतां मे परः प्रभुरिति परस्य भगवतोऽर्चनप्रकरणात् परशब्द- घटितोऽयं मन्त्रः । व्यूहाद्यर्चनप्रकरणे तु परशब्दस्थाने व्यूहादिशब्दो योज्यः । अथवा सर्वसाधारण्येन नारायणवासुदेवविष्णुशब्देष्वन्यतमो योज्यः । तथा च लक्ष्मीतन्त्रे— 'ॐ ॐ प्रीयतां भगवान् वासुदेव इति ब्रुवन्' (३६।११०) इति । अत्रैवं प्रीति- मन्त्रमात्रमुक्तम् । संकल्पभोगदानमन्त्रावप्यपेक्षितावन्यतो ग्राह्यौ, प्रतिभोगसमर्पणमेत- मन्त्रत्रयस्याप्यावश्यकत्वात् । तथोक्तं लक्ष्मीतन्त्रे— संकल्पश्च प्रदानं च प्रीतिश्चेति त्रयं त्रयम् ॥ कुर्यात् सर्वेषु भोगेषु देशकालाद्यपेक्षया । (३६।१०७-१०८) इति अत एव सात्वतोपबृंहणे ईश्वरे (७।१४७-१४९) सुदर्शनार्चनप्रकरणे जया- ख्योक्तो भोगदानमन्त्रः संगृहीतः । संकल्पमन्त्रस्तु लक्ष्मीतन्त्रे उक्तः— समाहितोऽञ्जलिं कृत्वा तत ॐ भगवन्निति ॥ आसनेनार्चयिष्यामीत्युक्त्वा दद्यादथासनम् । (३६।१०८-१०९) इति ॥ ७५-७६ ॥ इस प्रकार चतुर्थपद पर स्थित आद्य देव भगवान् वासुदेव को मानस पूजा से प्रसन्न करे। फिर ॐ ॐ दो बार उच्चारण कर 'प्रीयतां मे परः प्रभुः' ऐसा कहे ॥ ७५-७६ ॥
द्वितीयः परिच्छेदः ३५ अथ कर्मात्मतत्त्वे तु कृतकृत्ये सति प्रभुः । आस्ते विलाप्य स्वं रूपं नित्यं व्यक्तीकृतं च यत् ॥ ७६ ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां तुरीयव्यूहसमाराधनं नाम द्वितीयः परिच्छेदः ॥ २ ॥ — ❦ ❧ — एवं मानसारोधने सम्पन्ने सत्यव्यक्तस्य गुणमात्रलक्ष्यस्य 'अभेदनादिमूर्तेर्वे संस्थितं वटबीजवत्' (५।८१) इति वक्ष्यमाणरीत्या भगवान्नेव भक्तानुग्रहकाम्यया व्यक्तीकृतं निजस्वरूपमुपसंहरतीत्याह—अथेति । एवमेव वक्ष्यत्युत्तरत्रापि—'विसर्जनं तु बोद्धव्यं सम्पन्ने तु क्रिया क्रमे' (१७।४०) इति ॥ ७६ ॥ ॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये द्वितीयः परिच्छेदः ॥ २ ॥ — ❦ ❧ — तदनन्तर समस्त अर्चना कर्म समाप्त होने पर अपने समस्त व्यक्तिरूप को अपने में समेट कर स्थित हो जाते हैं । विमर्श—जैसे यहाँ तुर्य रूप के अर्चन समाप्ति पर ‘ॐ ॐ प्रीयतां परप्रभुः’ ऐसा उच्चारण किया गया है, उसी प्रकार व्यूहरूप की समाप्ति में भी ‘प्रीयतां व्यूहरूप परप्रभुः’ स्वरूप मन्त्र की कल्पना कर लेनी चाहिए ॥ ७६ ॥ ॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के तुरीयव्यूहसमाराधन नामक द्वितीय परिच्छेद की हिन्दी समाप्त हुई ॥ २ ॥ — ❦ ❧ —
तृतीयः परिच्छेदः सुषुप्तिव्यूहसमाराधनम् नारद उवाच पुनराह जगन्नाथः प्रसङ्गेन मुनीश्वराः । परमाराधनं प्राग्वत् परस्य चतुरात्मनः ॥ १ ॥ अथ तृतीयो व्याख्यास्यते । त्रिविधं चातुरात्म्यं तु सुषुप्यादिपदत्रिके । सुव्यक्तं तत्पदे तुर्ये गुणलक्ष्यं परं स्थितम् ॥ (१०।४२) इति लक्ष्मीतन्त्रोक्तरीत्या अव्यक्तस्य गुणमात्रलक्ष्यस्य 'अभेदेनात्ममूर्तेर्वै संस्थितं वटबीजवत्' (५।८१) इति वक्ष्यमाणरीत्या पराभिन्नस्य तुर्यव्यूहस्य 'स्वमूर्तिभिर- मूर्ताभिरच्युताद्याभिरन्वितः' (२।७२) इति पूर्वमेव तुर्यपदाश्रितेन परेण भगवता सहै- वोक्तत्वात् तत्प्रसङ्गेन पुनः सुषुप्तिपदाश्रितस्य व्यूहस्यार्चनं भगवान् सङ्कर्षणायो- पदिशतीत्याह—पुनरिति ॥ १ ॥ नारद जी ने कहा—हे मुनीश्वरो ! पुनः भगवान् जगन्नाथ ने प्रसङ्गवश पूर्ववत् पर चतुरात्मा का आराधन कहा ॥ १ ॥ विमर्श—इस परिच्छेद में सुषुप्तिपदाश्रित व्यूहात्मक भगवान् के स्वरूप की विवेचना की गई है तथा उनके समाराधन का प्रकार भी प्रदर्शित किया गया है । श्रीभगवानुवाच हवर्णकर्णिकायां तु सुषुप्याख्यपदे त्वधः । चतुर्धा प्रभवाख्येन क्रमेण तमजं यजेत् ॥ २ ॥ ज्ञानविद्याचतुष्केण यथा तदवधारय । वेदकत्वेन भगवान् ब्रह्मसंवलिताकृतिः ॥ ३ ॥ स्तम्बवत् कर्णिकामध्ये स्थित्वा वेद्यत्वमेति च । स्वयमेवोपकाराय कर्मिणां ब्रह्मयाजिनाम् ॥ ४ ॥ सुषुप्तिव्यूहस्यार्चनक्रमं शृणुष्वेत्याह—हवर्णेति सार्धेन । हवर्णकर्णिकायां
तृतीयः परिच्छेदः ३७ हृदयकमलस्याकारादिवर्णमयत्वात् तत्कर्णिकाया हकारात्मकत्वं बोध्यम् । तथा च वक्ष्यति पञ्चमे परिच्छेदे— अनन्तसरसि क्षार्णे विश्रान्तं यन्महामते । अकाराक्षरमूलं तु नित्यं सर्वाश्रयाम्बुजम् ॥ आकाराक्षरनालं तु शेषसर्वार्णपल्लवम् । (५।२-३) इति । एतादृशकर्णिकात्मके । अधः पूर्वोक्तगगनात्मकतुर्यपदस्याधः स्थित इत्यर्थः । सुषुप्त्याख्यपदे चतुर्धा वासुदेवादिभेदैः प्रभवाख्येन क्रमेण सृष्टिक्रमेणेत्यर्थः । वासुदेवाद्यनिरुद्धान्तमिति यावत् । तमजं पूर्वोक्तं परं भगवन्तं ज्ञानविद्याचतुष्केण = वक्ष्यमाणमन्त्रचतुष्केण यथा यजेत् तद्विधिमवधारय । अत्र परस्यैव भगवतस्तुर्यादि- स्थानेषु वासुदेवादिभेदैर्बहुत्वाश्रयणात् तमजं यजेदित्यभेदोक्तिः । वक्ष्यति हि— यथाम्बरस्थः सविता एके एव महामते । जलाशयाणि चाश्रित्य बहुत्वं सम्प्रदर्शयेत् ॥ एवमेकोऽपि भगवान् नानामन्त्राश्रयेषु च । तुर्यादिपदसंस्थेषु बहुत्वमुपयाति च ॥ (४।३३-३४) इति ॥ २-३ ॥ वेद्यवेदकनिर्मुक्तमच्युतं ब्रह्म यत्परम् । अनस्तमितभास्रूपं सर्वाभिन्नमहंपदम् ॥ (लक्ष्मी० २०।४) इत्युक्तस्य कर्मिणामनवगाह्यतया तेषामुपकाराय भगवान् स्वयमेव पूर्वोक्त- हृत्कमलकर्णिकामध्ये स्थित्वा शब्दब्रह्मरूपेण वेदकत्वं पररूपेण वेद्यत्वं च यातीत्याह—वेदकत्वेनेति सार्धेन ॥ ३-४ ॥ श्रीभगवान् ने कहा—हे सङ्कर्षण ! ह वर्ण (हृदयकमल) की कर्णिका में प्रसुप्ति नामक पद के नीचे जो चतुरात्मा में विभक्त अज है, अब आप उसकी प्रभव (सृष्टि) क्रम से आराधना सुनिये ॥ २ ॥ जिस प्रकार उस अज की ज्ञान विद्या (वक्ष्यमाण चार मन्त्र) इन चारों से आराधना की जाती है, उसे सुनिये । वह ब्रह्म स्वयं ही अपने अज्ञानी भक्तों के उपकार के लिये शब्द ब्रह्मरूप से वेदकत्व तथा कर्णिका मध्य में साम्बवत् पर रूपेण स्थित होकर वेद्यत्व के रूप में हो जाता है ॥ ३-४ ॥ प्राग्भागादुत्तरं यावद् गुणभेदेन लाङ्गलिन् । विभजत्यात्मनात्मानं वासुदेवः परः प्रभुः ॥ ५ ॥ पुनः स एवं तत्र प्रागादिषु चतुर्दिक्षु गुणभेदेन चतुर्धा भवतीत्याह— प्राग्भागादिति ॥ ५ ॥ अनुज्झितस्वरूपस्तु प्राग्भागे षड्गुणात्मना । बलसंवलितेनैव ज्ञानेनास्तेऽथ दक्षिणे ॥ ६ ॥
३८ सात्वतसंहिता ऐश्वर्येण तु वीर्येण प्रत्यग्भागेऽवतिष्ठते । तेजःशक्त्यात्मना सौम्ये संस्थितः परमेश्वरः ॥ ७ ॥ तेषां गुणभेदविवरणमाह—अनुज्झितेति द्वाभ्याम् ॥ ६-७ ॥ हे सङ्कर्षण ! वह वासुदेव परं प्रभु परमात्मा पूर्व दिशा से लेकर उत्तर दिशा पर्यन्त गुणभेद से स्वयं अपने आप को विभक्त कर देते हैं, वह पूर्व भाग में अपने स्वरूप को न छोड़कर षाड्गुण्य स्वरूप से स्थित रहते हैं । दक्षिण दिशा में बल और ज्ञान से संयुक्त होकर स्थित रहते हैं । ऐश्वर्य और वीर्य से समन्वित होकर पश्चिम दिशा में स्थित रहते हैं । इसी प्रकार वह परमात्मा तेज और शक्ति से समन्वित होकर उत्तर दिशा में स्थित हो जाते हैं ॥ ५-७ ॥ यद्यप्यरूपो भगवान् व्यूहात्मा गुणलक्षणः । अत्रापि पूर्वमेवोक्तं रूपमस्योपचर्यते ॥ ८ ॥ किन्तु द्वितीयमूर्तेर्वे शुभपाणितलद्वये । स्फुटो रेखामयः शङ्खः सुव्यक्तं लाङ्गलं महत् ॥ ९ ॥ रम्येषुणा तृतीयस्य दक्षिणाश्रिह्नितः करः । तुर्यस्यासिवरेणैव शङ्खाभ्यां च करद्वये ॥ १० ॥ अस्य सुषुप्तिव्यूहस्य पूर्वोक्ततुर्यव्यूहपदरूपत्वाद् गुणमात्रलक्ष्यत्वमेव, तथापि गुणभेदवच्चक्रादिलाञ्छनभेदसत्त्वात् परोक्तं रूपमत्राप्युपचर्यत इत्याह—यद्यपीति त्रिभिः ॥ ८-१० ॥ यद्यपि व्यूहात्मा वासुदेव भगवान् उसी प्रकार गुण लक्षण युक्त एवं अव्यक्त स्वरूप हैं फिर भी द्वितीय परिच्छेदोक्त पर भगवान् का एक मूर्त्यादि स्वरूप यहाँ भी उपचार से जान लेना चाहिए । द्वितीय मूर्ति सङ्कर्षण के दोनों शुभ पाणितल में एक में रेखामय शङ्ख तथा दूसरे में स्पष्ट रूप से लाङ्गल (हल) विद्यमान है। तृतीय प्रद्युम्न के दक्षिण हाथ में सुरम्य बाण का चिह्न तथा चतुर्थ अनिरुद्ध के दाहिने हाथ में तलवार का चिह्न है । इन दोनों के बायें हाथ में शङ्ख विद्यमान है ॥ ८-१० ॥ अवाङ्मुखः करवशादूर्ध्ववक्त्रः स्वभावतः । किन्तु पररूपवद् वरदाभयमुद्रान्वितत्वं विना केवलमवाङ्मुखकरत्वमूर्ध्व- वक्त्रत्वं च चतुर्णामपि विशेषमाह—अवाङ्मुख इति ॥ ११ ॥ एतावता लक्षणेन व्यक्तीभावं गतेन च ॥ ११ ॥ भावस्थितिं निबध्नाति व्यूहेऽस्मिन् साधकस्य तु । सादृश्यात् षड्गुणत्वाच्च समत्वाच्च विशेषतः ॥ १२ ॥ शान्तत्वान्निष्कलत्वाच्च न भेदो विद्यते यतः ।
तृतीयः परिच्छेदः ३९ गुणद्वयद्वयेनैव यद्यप्युक्तं पुरा मया ॥ १३ ॥ एकैकं भगवद्रूपं मुख्यवृत्त्या तथापि हि । चतुष्कमवशिष्टं यद् गुणानां समवस्थितम् ॥ १४ ॥ तद् भजेतानुवृत्तिं च एकैकस्य च सर्वदा । एवं लाञ्छनादिभिर्व्यक्तत्वेऽपि सादृश्यादिहेतुभिर्भेदाभावात् साधकस्यान्ुभव- विषयो भवतीत्याह—एतावतेति ॥ ११-१५ ॥ यद्यपि इन चारों मूर्तियों में हाथ के कारण अवाङ्मुखत्व तथा स्वभाव के कारण ऊर्ध्वमुखत्व की विशेषता है । तथापि सादृश्य षाड्गुण्य समन्वय एवं शान्त और निष्फलता के कारण पर और व्यूह का भेद इनमें नहीं है । अतः उक्त भावों •के प्राकट्य से स्पष्ट होने के कारण साधक इस स्वरूप में अपने भावों की स्थिति करता ही है । यद्यपि दो-दो गुणों से ही सङ्कर्षणादि मूर्तिमय का स्वरूप निष्फल हो सकता था, जैसा की प्रथम परिच्छेद में कह दिया गया है, फिर भी उनमें शेष चार गुण भी अनुवृत्ति रूप से रहते ही हैं । इस प्रकार मूर्तिमय में दो-दो गुण व्यक्त रूप से तथा अवशिष्ट चार गुण अव्यक्त रूप से रहते हैं ॥ ११-१५ ॥ एवं ज्ञात्वा स्थितिं ब्राह्मीं स्वानन्दां स्पन्दलक्षणांम् ॥ १५ ॥ ब्रह्मामृतमयैर्भोगैर्यो यजेत समाहितः । विशुद्धबुद्ध्या देहान्ते स विशत्यमलं पदम् ॥ १६ ॥ अत्र चतुर्णामपि षड्गुणत्वादित्युक्तम् । बलसंवलितेनैव ज्ञानेन ज्ञानपूर्वकमर्चने फलमाह—एवमिति सार्धेन ॥ १५-१६ ॥ तीन मूर्तियों में स्वानन्दा, स्पन्दलक्षणा एवं ब्राह्मी स्थिति स्वयं अनुवृत्ति भेद से विद्यमान ही है अतः साधक ब्रह्मामृतमय भोग से स्थिर चित्त हो इनका यजन करे । ऐसा करने से वह देहान्त होने पर विशुद्ध अमल पद प्राप्त करता है ॥ १५-१६ ॥ अथ मन्त्रचतुष्कं तु ब्रह्मषाड्गुण्यवाचकम् । कर्मिणां मोक्षदं शश्वत् पूर्वोद्दिष्टं निबोधतु ॥ १७ ॥ सुषुप्तिव्यूहचतुष्कं शृण्वित्याह—अथेति ॥ १७ ॥ ब्रह्मषाड्गुण्य के वाचक यह मन्त्र चतुष्क साधक कर्मी को सतत मोक्ष देने वाला है जिसे पूर्व में कह दिया गया है । अब उस मन्त्र को सुनिए ॥ १७ ॥ आदायाक्षगतं बीजं नाभिपूर्वमतः परम् । अरादेकादशात् पूर्वं तस्याधो विनिवेशयेते ॥ १८ ॥ वर्णं नेमेस्तृतीयं यत् तृतीयमिदमक्षरम् । द्वितीयमष्टमाद् वर्णं नाभेस्तुर्यादिनान्वितम् ॥ १९ ॥
४० सात्वतसंहिता ततस्तु नवमं नेमेः केवलं विद्धि पञ्चमम् । अष्टमादपरं वर्णं द्वितीयस्वरसंयुतम् ॥ २० ॥ षष्ठमेतद्विजानीयात् सप्तमं दशमात् परम् । अथ द्वितीयदशमादादायोर्ध्वे तु विन्यसेत् ॥ २१ ॥ अष्टमात्तु द्वितीयस्य मन्त्राणामिदमष्टकम् । द्वितीयात् प्रथमं वर्णमष्टमादपरं ततः ॥ २२ ॥ नाभ्येकादशमोपेतं द्वितीयं नेमिमण्डलात् । पूर्वमेकादशाच्छुद्धं तादृङ्नेमेस्तृतीयकम् ॥ २३ ॥ नेमिपूर्वं च तदनु नाभेरैकादशाङ्कितम् । नेमेः षष्ठमथादाय स्थितं तत्पञ्चमोपरि ॥ २४ ॥ ततो नाभिद्वितीयेन युक्तं नेमेस्तृतीयकम् । द्वितीयं केवलं नेमेरादाय च महामते ॥ २५ ॥ कर्त्रे नमः पदं पश्चाद् योजयेच्चतुरक्षरम् । एकविंशतिभिर्वर्णैरयं मन्त्र उदाहृतः ॥ २६ ॥ अब साधकों के ऊपर अनुग्रह करने के लिए मन्त्र चतुष्टय का उद्धार कहते हैं । 'आदायाक्षगतम्' (३.१८) से लेकर 'अयं मन्त्रः उदाहृतः' (३.२६) पर्यन्त २१ वर्णों का मन्त्र है; जिसका स्वरूप इस प्रकार है—'ॐ अप्रतिहतानन्तगतये परमेश्वराय कर्त्रे नमः' ॥ १८-२६ ॥ अभिन्नः पदभेदेन भवेदेकाधिकस्तु वै । प्राग्वर्णेन पदं पूर्वं पञ्चार्णं द्वितीयं भवेत् ॥ २७ ॥ षडक्षरं तृतीयं तु चतुर्थं तद्वदेव हि । द्व्यक्षरं पञ्चमं विद्धि तद्वत् षष्ठं महामते ॥ २८ ॥ इस मन्त्र में एक अक्षर प्रथम पद (ॐ), पाँच अक्षर का द्वितीय पद (अप्रतिहता), छः अक्षर का तृतीय पद (अनन्तगतये), फिर छः अक्षर का चतुर्थ पद (परमेश्वराय), दो अक्षर का पञ्चम पद (कर्त्रे) तथा उतने ही अक्षर का छठवाँ पद (नमः) कहा गया है ॥ २७-२८ ॥ अथापरं महामन्त्रं द्वितीयमवधारय । यज्ज्ञात्वा न पुनर्जन्म भवत्याराधकस्य च ॥ २९ ॥ आदायाक्षरमध्यस्थं नाभिपूर्वमतः परम् । पूर्वं नेमेस्तु तस्यैव योज्यं नाभित्रयोदशम् ॥ ३० ॥ द्वितीयादपरं वर्णं सर्वशक्त्यात्मने पदम् ।
द्वितीयं द्वादशाद् वर्णं द्वितीयात् प्रथमं ततः ॥ ३१ ॥ पञ्चमं च बहिष्ठेभ्यस्त्रीनेतान् विद्धिकेवलान् । नाभ्येकादशसंभिन्नं द्वितीयं चाष्टमात् ततः ॥ ३२ ॥ नमो नमः पदयुतो मन्त्रश्चाष्टादशाक्षरः । अब द्वितीय मन्त्र का उद्धार कहते हैं । दूसरे मन्त्र के उद्धार का निष्कर्ष— ‘ॐ अमोघ सर्वशक्त्यात्मने भगवते नमो नमः’ । यह १८ अक्षरों का मन्त्र है । अस्यैकार्णं पदं पूर्वं त्र्यक्षरं तदनन्तरम् ॥ ३३ ॥ षडक्षरं तृतीयं तु चतुर्थं चतुरक्षरम् । द्वितीयं द्व्यक्षरं चान्यत् पदयोः सम्प्रकीर्तितम् ॥ ३४ ॥ इस मन्त्र में एक अक्षर का प्रथम पद, तीन अक्षर का दूसरा पद, छह अक्षर का तीसरा पद, चार अक्षर का चौथा पद, दो-दो अक्षरों का पांचवाँ और छठवाँ पद हैं ॥ ३३-३४ ॥ तृतीयमथ वक्ष्यामि मन्त्रं मन्त्रविदांवरम् । यज्ज्ञात्वा मानसीं शुद्धिं परामभ्येति कर्मणाम् ॥ ३५ ॥ बीजमादाय मध्यस्थमाद्यमेकादशात् ततः । नेमेस्तृतीयं तदध ऊर्ध्वे नाभ्यपरं तु वै ॥ ३६ ॥ अथाद्यमष्टमाद् वर्णं द्वितीयं स्वरसंयुक्तम् । तद्वद् एकादशादाद्यं वर्णमन्यं समाहरेत् ॥ ३७ ॥ दशमादपरं वर्णं नेमेरष्टकमन्ततः । युक्तं नाभिद्वितीयेन त्वाद्यं नेम्यक्षरं तु यत् ॥ ३८ ॥ नाभित्रयोदशोपेतमादाय दशमात् परम् । द्वितीयं नवमाद्वर्णं युक्तं नाभ्यपरेण तु ॥ ३९ ॥ तत्संख्यं दशमाच्छुद्धं ततो बाह्यात्तु पञ्चमम् । नेमेर्द्वितीयं तदधो युक्तं नाभेः परेण तु ॥ ४० ॥ द्वितीयं दशमाद् वर्णं प्राणाय त्र्यक्षरं पदम् । ततस्त्वेकादशादाद्यं केवलं च समाहरेत् ॥ ४१ ॥ अथ नाभिद्वितीयेन युक्तं नेमेस्तृतीयकम् । नाभित्रयोदशोपेतं बहिष्ठेष्वपरं ततः ॥ ४२ ॥ नेमेस्तृतीयस्योर्ध्वे तु नवमादपरं न्यसेत् । ततो नाभिद्वितीयेन युक्तं प्राङ्नेमिमण्डलात् ॥ ४३ ॥ द्वितीयमथ वै बाह्यात् सनमस्के हि केवलम् । सां० सं० - 7
४२ सात्वतसंहिता त्रयोविंशतिभिर्वर्णैरुपैतो ह्येष मन्त्रराट् ॥ ४४ ॥ अब तृतीय मन्त्र का उद्धार कहते हैं जिसका स्वरूप इस प्रकार है— ‘ॐ प्राणापानसमानोदानव्यानप्राणाय परायोद्गमाय नमः’ । यह २३ अक्षरों का मन्त्र है ॥ ३५-४४ ॥ पदैः पूर्वोक्तसंख्यैस्तु तेषां भेदोऽप्यथोच्यते । पूर्वमेकाक्षरं विद्धि द्वितीयं तु नवाक्षरम् ॥ ४५ ॥ तृतीयं द्व्यक्षरं चैव चतुर्थं त्र्यक्षरं स्मृतम् । षडक्षरमथोर्ध्वस्थं द्व्यक्षरं तदनन्तरम् ॥ ४६ ॥ इस मन्त्र का एक अक्षर का प्रथम पद, नव अक्षरों का दूसरा पद, दो अक्षर का तृतीय पद, तीन अक्षर का चतुर्थ पद, छह अक्षर का पञ्चम पद एवं दो अक्षर का षष्ठ पद कहा गया है । इस प्रकार यह २३ अक्षरों का मन्त्र है ॥ ४५-४६ ॥ चतुर्थमधुना मन्त्रं निबोध गदतो मम । येन विज्ञातमात्रेण संविदुत्पद्यते परा ॥ ४७ ॥ आदायादौ यदक्षस्थं नाभिपूर्वमनन्तरम् । ततस्तृतीयादपरं वर्णमादाय लाङ्गलिन् ॥ ४८ ॥ नेमिद्वितीयं तस्याधस्तदधो नाभिपञ्चमम् । द्वितीयमष्टमाद् वर्णं तत्संख्यं नेमिमण्डलात् ॥ ४९ ॥ आदायैतद् द्वयं कुर्याद् युक्तं नाभ्यपरेण तु । अथ नाभितृतीयेन युक्तं बाह्यात्तु पञ्चमम् ॥ ५० ॥ आद्यात् पूर्वमथादाय नाभिसप्तमसंयुतम् । द्वितीयमष्टमाद् वर्णं द्वितीयं नेमिमण्डलात् ॥ ५१ ॥ आदायाभ्यां नियोक्तव्यं द्वितीयं नाभिगोचरात् । अथ द्वितीयं दशमात् केवलं वर्णमाहरेत् ॥ ५२ ॥ द्वितीयमष्टमाद् वर्णं तदूर्ध्वे दशमात् परम् । नाभिद्वितीयमस्यैव योजयेत् तदनन्तरम् ॥ ५३ ॥ ततो नेमिद्वितीयं तु केवलं वर्णमाहरेत् । अथ नाभेर्यदादिस्थं प्राग्वर्णं दशमादरात् ॥ ५४ ॥ तदधो द्वितीयं बाह्यात् प्रधिवर्णमनन्तरम् । युक्तं नाभिद्वितीयेन त्वादाय तदनन्तरम् ॥ ५५ ॥ नेमिद्वितीयसंख्यं यन्नमस्कारपदं ततः । अष्टादशाक्षरो ह्येष द्व्यधिकः पदसंख्यया ॥ ५६ ॥
तृतीयः परिच्छेदः ४३ अब चतुर्थ मन्त्र का उद्धार कहते हैं—'ॐ अच्युतायाविकृतायानन्ताय अध्यक्षाय नमः' । यह २० अक्षरों का मन्त्र है । इस प्रकार सुषुप्ति व्यूह के चारों मन्त्र कह दिये गये ॥ ४७-५६ ॥ एकार्णं पदमाद्यं तु द्वितीयं चतुरक्षरम् । पञ्चाक्षरं तृतीयं तु चतुर्थं चतुरक्षरम् ॥ ५७ ॥ तथैव पञ्चमं विद्धि अन्तस्थं द्व्यक्षरं स्मृतम् । चतुर्णामपि मन्त्राणामुद्धारप्रकारं तत्तत्पदविभागांश्चाह—आदायाक्षगतं बीजमि- त्यारभ्य अन्तस्थं द्व्यक्षरं स्मृतमित्यन्तम् । एतद्व्याख्यानमार्गस्य पूर्वमेव प्रदर्शितत्वात् सुगमः । प्राग् वर्णचक्रं विलिख्य उक्तक्रमेण वर्णोद्धारे कृते—ॐ अप्रतिहतानन्तगतये परमेश्वराय कर्त्रे नमः । ॐ अमोघसर्वशक्त्यात्मने भगवते नमो नमः । ॐ प्राणापान- समानोदानव्यानप्राणाय परायोद्गमाय नमः। ॐ अच्युतायाविकृतायानन्ताय अध्यक्षाय नम इति क्रमेण एकविंशाक्षरोऽष्टादशाक्षरस्त्रयोविंशत्यक्षरो विंशत्यक्षरश्चत्वारो मन्त्रा भवन्ति ॥ १८-५७ ॥ इस चौथे मन्त्र में एक अक्षर का प्रथम पद, चार अक्षर का दूसरा पद, पाँच अक्षर का तीसरा पद, चार अक्षर का चौथा पद, उसी प्रकार चार अक्षर का पाँचवाँ पद, तदनन्तर दो अक्षर का छठाँ पद समझना चाहिये ॥ ५७-५८ ॥ पदानां वर्णसंख्यापूरणप्रकारकथनम् यत्र यत्र पदानां च वर्णाधिक्यमुदाहृतम् । तत्रादौ नाभिपूर्वं तु व्याहृत्याद्यं पदं न्यसेत् ॥ ५८ ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां सुषुप्तिव्यूहसमाराधनं नाम तृतीयः परिच्छेदः ॥ ३ ॥ — ❦ — पदानां वर्णसंख्यापूरणप्रकारमाह—यत्रेति । पदानां पूर्वोक्तमन्त्रान्तर्गतपदानां मध्ये यत्र यत्र यस्मिन् यस्मिन् पदे प्रथममन्त्रेऽनन्तगतये इत्यत्र वर्णाधिक्यमुदाहृतम् । षडक्षरं तृतीयं त्विति अक्षराधिक्यमुक्तम् । तत्र तस्मिन् पदे, आदौ प्रथमत आद्यपदाद् अप्रतिहतेति पदस्य उपरि विद्यमानमकारमाहृत्यानन्तगतय इति पदस्यादौ योजयेदिति यावत् । तथा च अनन्तगतये इति षडक्षरत्वं संभवति । एवं चतुर्थमन्त्रे अविकृताया- नन्ताय इत्यत्रापि बोध्यम् ॥ ५८ ॥ ॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये तृतीयः परिच्छेदः ॥ ३ ॥ — ❦ —
४४ सात्वतसंहिता अब वर्ण संख्या पूर्ति का प्रकार कहते हैं—पूर्वोक्त मन्त्रों के पद के मध्य में जिस-जिस पद में (जैसे प्रथम मन्त्र के ‘अनन्तगत’ पद में) वर्णाधिक्य कहा गया है, (षडक्षरं तृतीय त्विति यहाँ भी अक्षराधिक्य कहा गया है) वहाँ उस पद में आदि पद के ऊपर विद्यमान अकार को हटा कर ‘अनन्तगतये’, इस पद के आदि में जोड़ देवे । ऐसा करने से ‘अनन्तगतये’ यह छह अक्षर का पद सम्पन्न हो जायेगा । इसी प्रकार चतुर्थ मन्त्र में ‘अविकृतायानन्ताय’ यहाँ पर भी समझ लेना चाहिये ॥ ५८ ॥ विमर्श—यहाँ पर विचार करना चाहिये कि सात्त्वत संहिता के द्वितीय परिच्छेद में तूर्यव्यूह का एक ही मन्त्र उद्धृत किया गया है जबकि सुषुप्ति, स्वप्न तथा जाग्रत इन तीन व्यूहों में चार-चार मन्त्र उद्धृत किये गये हैं उसके अनुरोध से तूर्यव्यूह में भी चार मन्त्र का उद्धार अपेक्षित है । जबकि न केवल भाष्य में अपितु संहिता में भी चातुरात्म्य चतुष्ट्य का प्रतिपादन किया गया है । जब तूर्यव्यूह में भी चातुरात्म्य भासित हो रहा है तब वहाँ भी चार मन्त्र होना चाहिए यह स्वाभाविकी शङ्का उत्पन्न होती है । तब इसका परिहार इस प्रकार करना चाहिये—द्वितीय परिच्छेद में पर स्वरूप का विवरण मात्र है । किन्तु तृतीय, चतुर्थ एवं पञ्चम परिच्छेद में सुषुप्ति, स्वप्न एवं जाग्रत्पद में स्थित व्यूह स्वरूपों का वर्णन है । इस व्यूह्रन्य ब्रह्म को चातुरात्म्य पद से भी कहा जाता है । यह चातुरात्म्य परस्वरूप में अव्यक्तदशा में रहता है । इसलिये वहाँ भी चातुरात्म्य प्रयोग होता है । उसे तुर्यव्यूह नाम से भी कहा जाता है—यहाँ नित्योदित दशा तथा शान्तोदित दशा दो प्रकार की दशा स्वीकार की जाती है । नित्योदित दशा परात्पर वासुदेव दशा तथा शान्तोदित दशा पर वासुदेव दशा कही जाती है । किन्तु दोनों दशा में वासुदेव का प्राधान्य रहता है । उस अवस्था में सङ्कर्षणादि तीनों का तथा अच्युतादि तीन का अव्यक्त रूप से अवस्थान रहता है । प्रकृति में आदिमूर्ति वासुदेव का ही प्राधान्य प्रदर्शित करने के कारण तूर्यव्यूहापर नामक परस्वरूप के आराधन के लिये यहाँ एक ही मन्त्र का निर्देश किया गया है । ॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के सुषुप्तिव्यूहसमाराधन नामक तृतीय परिच्छेद की हिन्दी समाप्त हुई ॥ ३ ॥ — ᪥ —
चतुर्थः परिच्छेदः स्वप्नव्यूहसमाराधनम् नारद उवाच अथाह भगवान् देवो रक्तराजीवलोचनः । प्रसन्नः सुप्रसन्नास्यो विधानमपरं द्विजाः ॥ १ ॥ अथ चतुर्थो व्याख्यास्यते । स्वप्नव्यूहविधानमाहेत्याह—अथेति द्वाभ्याम् । येन कर्मणा, आत्मा परमात्मा, स्वप्ने आत्मैव जीव इव वर्णकमलोपरि व्यक्ततां नीतः = प्रकाशितः । तद्विधानमाहेति पूर्वश्लोकेनान्वयः ॥ १-२ ॥ अब चतुर्थ स्वप्नव्यूह की व्याख्या करते हैं । श्री नारदजी ने कहा—हे महर्षियों ! अब इसके बाद लाल कमल के समान नेत्रों वाले, प्रसन्न तथा प्रसन्न मुख वाले भगवान् ने दूसरा विधान कहा ॥ १ ॥ श्रीभगवानुवाच येनात्मा स्वप्न एवात्मा कर्मिणामनुकम्पया । क्रमेण व्यक्ततां नीतो वाग्वर्णकमलोपरि ॥ २ ॥ श्रीभगवान् ने कहा—जिस कर्म से साधक के ऊपर कृपा कर स्वप्न में परमात्मा को जीवात्मा के समान (मातृका) वर्ण कमल के ऊपर प्रकाशित किया जाता है, हे सङ्कर्षण ! अब आप उस विधान को सुनिये ॥ २ ॥ अभिन्नपूर्णषाड्गुण्यविभवेनोपबृंहितम् । भाभिः सितादिभिर्दीप्तमभिन्नाभिर्निरन्तरम् ॥ ३ ॥ अवलोक्यामलं देवमुदितं स्वेन तेजसा । कर्णिकाग्रं समाश्रित्य दिव्यं मन्त्रतनुं पुनः ॥ ४ ॥ पश्येत् स्वयं स्वशक्त्या वै कालेनालक्ष्यमूर्तिना । संहरन्तं च तद्रूपं व्यक्तं पूर्वोक्तलक्षणम् ॥ ५ ॥ एवं मन्त्रमयं देवमुपसंहृत्य लाङ्गलिन् । आमूलात् कर्णिकाग्रं च सम्पूर्यास्ते स्वतेजसा ॥ ६ ॥