भारतकोश
संग्रह पर लौटें

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ
दशावतारः२१

दशास्यद्दिग्भागे । मुहुखलोकितचापः कोऽपि दुगप. स नीलिमा शरणम् ॥ ७७ ॥ अविपञ्चवटीकुटीगवर्तिम्फुटितेन्दीवरसुन्दरोरुमूर्तिः । अपि लक्ष्मणलोचनैकसख्य भजत ब्रह्म सरोरुहायताक्षम् ॥ ७८ ॥ कनकनिकषभामा सीतयालिङ्गिताङ्गो नवकुवलयद्दामश्यामवर्णाभिरामः । अभिनव इव विद्युन्मण्डितो मेघखण्डः शमयतु मम ताप सर्वतो रामचन्द्रः ॥ ७९ ॥ परिणयविधौ भक्त्वा नद्ध्रिषो धनुग्ग्रतो जनकसुतया दत्ता कण्ठे स्रज हृदि धारयन् । कुसुमधनुषा पाशेनैव प्रसह्य वशीकृतोऽवनतवदनो रामः पायात्रपायिनयान्वितः ॥ ८० ॥ उत्फुल्लामलकोमलोत्पलदलश्यामाय रामामने.कामाय प्रथमाननिर्मलगुणग्र्रामाय रामात्मने । योगारूढमुनीन्द्रमानसमसरोहमाय ससारविध्वसाय स्फुरदोजसे रघुकुलोत्तसाय पुसे नमः ॥ ८१ ॥ यो रामो निजघान वक्षसि रणे त रावण सायकैर्हृद्यस प्रतिवासर वसति सो तस्या ह्यय राघवः । यस्यास्ते भुवनावली परिवृता द्वीपैः सम सप्तभिः स श्रेयो विदधातु नस्त्रिभुवनत्राणैकचिन्तापर ॥ ८२ ॥ राज्य येन पटान्तलभतृणवत्त्यक्त गुरोराज्ञया पाथेय परिगृह्य कार्मुकवर घोर वन प्रस्थित. । स्वाधीनः शशिमौलिशापविपये प्राप्तो न वै विक्रिया पायाद्ध. स बिभीषणाग्रजनेहा। रामाभिधानो हरि. ॥ ८३ ॥ कारुण्यामृतनीग्माश्रितजनश्रीचातकानन्दद शाङ्गाखण्डलचापमम्बुजमवादीन्द्रादिवर्हाइदम् । चारुस्मेरमुखोल्लसजनकजासौदामिनीशोभितं श्रीरामम्बुदमाश्रयेऽखिलजगत्ससारतापपहम् ॥ ८४ ॥ कूर्भो मूलवदालवालवदपाराशिलंतावदिशो मेघाः पल्लववत्सूनफलवन्नक्षत्रसूर्यन्दवः । स्वामिन्व्योमतरुः क्रमे मम कियाञ्छुत्वेति गां मारुतेः सीतानवेषणमादिशन्दिशतु वो राम सलज्ज. श्रियम् ॥ ८५ ॥ एतौ द्वौ दशकण्ठकण्ठकदलीकान्तारकान्तिच्छिदो वैदेहीकुचकुम्भकुङ्कुमरजःसान्द्रेरुणाङ्काङ्कितौ । लोकत्राणविधानसाधुसवनप्रारम्भयूपौ भुजौ देयास्तामुरुविक्रमौ रघुपतेः श्रेयासि भूयांसि वः ॥ ८६ ॥ वालक्रीडनमिन्दुशेखरधनुर्भङ्गावधि प्रह्वता ताते काननसेबनावधि कृपा सुग्रीवसख्यावधि । आज्ञा वारिधिबन्धनावधि यशो लङ्केशनाशावधि श्रीरामस्य पुनातु लोकवशता जानक्यपेक्षावधि ॥ ८७ ॥ कल्याणाना निधान कलिमलमथनं पावन पावनाना पाथेयं यन्मुमुक्षो. सपदि परपदप्राप्तये प्रस्थितस्य । विश्रामस्थानमेक कविवरवचसां जीवन मज्जनाना बीज धर्मद्रुमस्य प्रभवतु भवता भूतये रामनाम ॥ ८८ ॥

कल्याणील्लाससीमा कलयतु कुशल कालमेघाभिग्रामा काचित्माकेतधामा भवगहनगतिकान्तिहारिप्रणामा । सौन्दर्यहीणकामा धृतजनकसुतामादरापाङ्गनामा दिक्षु प्रख्यातभूमा दिविपदभिनुता देवता रामनामा ॥ ८९ ॥ योऽद्धा योद्धावधीन्नान्मपदि पेलभुज. सर्पराये परा ये येनांयेनाश्रिताना स्तुतिरवनमितेशानचापेन चाँपे । लङ्काल्कारहर्ता ककुभि ककुभि यः कान्तया सीतयासीर्द्नो दूनोऽथ हृष्ट. स विभुरवतु वः स्वंःसभार्यः सभार्य ॥ ९० ॥ ऋक्षणा भूरिधाम्ना श्रितमविपतिना प्रस्फुरद्भीमर्तार स्फार नेत्राँनलेन प्रशमनयमितोचैँपमीनध्वजेन । रँमॉर्म्यँत्तं पुरारेर्जुमुंदशुचि लसँन्नीलसुग्रीवमङ्ग प्रावङ्ग वापि मैन्य दैर्शवदनशिरश्छेदहेतु श्रियेऽस्तु ॥ ९१ ॥ यस्तीर्थानामुपस्त्या गलितमलभर मन्यते स्म स्वमेव नाज्ञासीज्जाझिरे यन्मम चरणरज पादपूतान्यमूनि । पादस्पर्शन कुर्वञ्झटिति विघटितग्रावभावामहल्या कौसल्यासूनुरून व्यपनयतु स वः श्रेयसा च श्रिया च ॥ ९२ ॥

सीता

उन्मृष्ट कुचसीम्न्नि पत्रमकर दृष्ट्वा हठाल्लिङ्गनात्कोपो मास्तु पुनर्खिखाम्यमुमिति स्मेरे रघूणा वरे । कोपेनारुणितोऽश्रुपातदलितः प्रेम्णा च विस्तारितो दत्तो मैथिलकन्यया दिशतु न. क्षेम कटाक्षाङ्कुर ॥ ९३ ॥

हनूमान्

अशोपलङ्कापनिसैन्यहन्ता श्रीगममेवाच नैक्रकर्ता । अनेकदु खाहुतलोकगोप्ता त्वमौ हनूमास्तव सौम्यकर्ता ॥ ९४ ॥ कृतक्रोवे यस्मिन्नमरनगरी मङ्गलग्ना नेवातङ्का लङ्का समजनि वन वृश्चति सति । सदा सीताकान्तप्रणतिमतिविख्यातमहिमा हनूमानव्याद्वः कपिकुलशिरोमण्डनमणिः ॥ ९५ ॥

रामकृष्णौ

त्रातः कींकोदरो येन द्रोग्धापि करुणात्मना । पूतैनामारणख्याततः स मेऽस्तु शरणं प्रभुः ॥ ९६ ॥

१ समूह २ सीता. ३ विभीषणस्याग्रजन्मा रावणस्त हन्तीति स ४ वाचम्
१ निश्चितम् २ राक्षसान् ३ युद्धे ४ शत्रव ५ भाग्येन ६ प्राप्ता ७ विरहित ८ दु स्थितमनाः. ९ देवसभास्वामी १० ऋक्षाणां भल्लूकाना मधिपतिना जाम्बवता, पक्षे,-नक्षत्राणामधिपतिना चन्द्रेण ११ भीमस्तारो वानरविशेष, पक्षे,-भीमा तारा नेत्रकनीनिका १२ नेत्रा नायकेन नलेन नलनाम्ना वानरेण, पक्षे,-नेत्रानलेन तृतीयनेत्राग्निना १३ उच्चा आपो यस्मिन्स उच्चापो मीनध्वज समुद्र, पक्षे,-उद्धतचापो मीनध्वज काम १४ रामायत्त रामचन्द्राधीनम्, पक्षे,-रामाया पार्वत्या अधीनम् १५ कुमुदनाम्ना वानरेण शुचि, पक्षे,-कुमुदपुष्पवच्छुचि शुभ्रम् १६ नील सुग्रीवश्च वानरा, पक्षे,-नीला नीलवर्णा शोभना ग्रीवा १७ दशवदनशिरश्छेदहेस्त्विति सैन्यपक्षे स्फुटम्, अन्यत्र शिवप्रसादनार्थं रावणेनात्मन शिरांसि च्छिन्नानीति प्रसिद्धि १८ सेवनया १९ पद्ममकरम् २० नवभया २१ आदरो भयशून्य काक, पक्षे,-कालियसर्प २२ पूतनामा पवित्रनामा रणे ख्यातश्च, पक्षे,-पूतनाया राक्षस्या मारणेन ख्यात .

२२सुभाषितरत्नभाण्डागारम्[ १ प्रकरणम्

मर्दितरावणकंसौ सरयूर्यमुनाविहारिणौ देवौ । अर्पितविप्र-कुमारौ हरिपति¹हरिकेतनप्रियौ वन्दे ॥ ९७ ॥ यः पूतना-मारणलब्धकीर्तिः² काकोदरो³ येन विनीतदर्पः । यशोदया-लंकृतमूर्ति⁴रव्यात्पतिर्यदूनामथवा रघूणाम् ॥ ९८ ॥

कृष्णः

इन्दीवरदलश्याममिन्दिरानन्दकन्दलम् । वन्दारुजन-मन्दारं वन्देऽहं यदुनन्दनम् ॥ ९९ ॥ देवः पायादपायान्नस्सरेन्दीवरलोचनः । ससारध्वान्तविध्वंसहंसकंसनिषूदनः ॥ १०० ॥ पान्तु वो जलदश्यामाः शार्ङ्गश्याघातकर्कशाः । त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिबाहवः ॥ १०१ ॥ दर्पणा-र्पितमालोक्य मायास्त्रीरूपमात्मनः । आत्मन्येवानुरक्तो वः शिवं दिशतु केशवः ॥ १०२ ॥ हृदय कौस्तुभोद्भासि हरेः पुष्णातु व. श्रियम् । राधाप्रवेशरोधाय दत्तमद्रमिव श्रिया ॥ १०३ ॥ देहि मन्कन्दुकं राधे परिधाननिगूहितम् । इति विस्रंसयन्नीवीं तस्याः कृष्णो मुदेऽस्तु नः ॥ १०४ ॥ चण्डचाणूरदोर्दण्डमण्डलीखण्डमण्डितम् । अव्याद्वो बाल-वेषस्य विष्णोर्गोपनतोर्वपुः ॥ १०५ ॥ मीमांसार्णवसोम लसदर्के तर्कपद्मस्य । वेदान्तविपिनसिंहं वन्दे गोविन्द-साभिधं ब्रह्म ॥ १०६ ॥ अवलोकितमनुमोदितमालिङ्गित-मङ्गनाभिरनुरागैः । अधिवृन्दावनकुञ्जं मरकतपुञ्जं नमस्यामः ॥ १०७ ॥ मकरीविरचनभङ्ग्या राधाकुचकलशपीडनव्य-सनी । ऋजुमपि रेखां लुम्पन्बल्लवचेपो हरिर्जयति ॥ १०८ ॥ कठिनतरदामवेष्टनलेखासदेहदायिनो यस्य । राजन्ति वलि-विभङ्गाः स पातु दामोदरो भवत. ॥ १०९ ॥ खिन्नोऽसि मुञ्च शैलं विभृमो वयमिति वदत्सु शिथिलभुजः । भरसुप्र-विनतबाहुषु गोपेषु हसन्हरिर्जयति ॥ ११० ॥ नीतं नवनीत कियदिति पृष्टो यशोदया कृष्ण. । इयदिति गुरुजनसंसदि करधृतराधापयोधरः पातु ॥ १११ ॥ राधामधुसूदनयोरनु-दिनमुपचीयमानस्य । प्रणयतरीरिव कुसुमं मिथोऽवलोक-स्मितं पायात् ॥ ११२ ॥ श्रुतिमपरे स्मृतिमपरे भारतमपरे भजन्तु भवभीताः । अहमिह नन्दं वन्दे यस्यालिन्दे परं ब्रह्म ॥ ११३ ॥ तप्तं कैर्न तपोभि. फलितं तद्गोपबाला-नाम् । लोचनयुगले यासामञ्जनमासीन्निरञ्जनं ब्रह्म ॥ ११४ ॥ मदमयमदमयदुरगं यमुनामुवतीर्य वीर्यशाली यः । मम रतिममरतिरस्कृतिशमनपरः स क्रियात्कृष्णः ॥ ११५ ॥ स्तनधयन्तं जननीमुखाब्ज विलोक्य मन्दस्मितमुज्ज्वला-ङ्गम् । स्पृशन्तमन्यं स्तनमङ्गुलीभिर्वन्दे यशोदाङ्कगतं मुकुन्दम् ॥ ११६ ॥ भुजप्रभादण्ड इवोर्ध्वगामी स पातु व. कसरिपोः कृपाणः । यः पाञ्चजन्यप्रतिबिम्बमङ्ग्या धारा-म्भसः फेनमिव व्यनक्ति ॥ ११७ ॥ विहाय पीयूषरस मुनीश्वरा समाधिराजीवस पिवन्ति किम् । इति स्वपादा-म्बुजपानकौतुकी स गोपवालः श्रियमातनोतु वः ॥ ११८ ॥ निलिख्य सत्याकुचकुम्भसीम्नि पत्रावलिन्यासमिषेण राधाम् । लीलारविन्देन तया सरोषं पायद्विटः कोऽप्यमिहन्यमान. ॥ ११९ ॥ स पातु वो यस्य हतावशेपास्तत्तुल्यवर्णाञ्जन-रञ्जितेषु । लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः स्वकान्ता-नयनोत्पलेषु ॥ १२० ॥ कुञ्चिताधरपुटेन पूरयन्वंशिकां प्रचलदङ्गुलिक्रम. मोहयन्निखिलवामलोचनाः पातु कोऽपि नवनीरदच्छविः ॥ १२१ ॥ अतसीकुसुमोपमेय कान्तिर्यमुना-तीरकदम्वमध्यवर्ती । नवगोपवधूविनोदशाली वनमाली वितनोतु मङ्गल व. ॥ १२२ ॥ गायन्तीना गोपसीमन्ति-नीना स्फीताकाङ्क्षामक्षिरोलम्बमालाम् । निश्चाञ्चल्यामात्म-वक्त्रारविन्दे कुर्वन्नव्याद्देवकीनन्दनो वः ॥ १२३ ॥ पुञ्जी-भूत प्रेम गोपाङ्गनाना मूर्तीभूत भाग्यधेय यदूनाम् । एकीभूत गुप्तवित्त श्रुतीना श्यामीभूत ब्रह्म मे सन्निध-त्ताम् ॥ १२४ ॥ आनन्दमादधतामायतलोचनानामालील-मावलितकधरमात्तवशम् । आपादमामुकुटमाकलितामृतौघ-माकारमाकलयतामुपमान्तर नः ॥ १२५ ॥ त्वा पातु नीलनलिनीदलदामकान्तेः कृष्णस्य पाणिसरसीरुहकोश-बन्धः । राधाकपोलमकरीलिखनेषु योऽद्य कर्णावतसकमल विपुलीचकार ॥ १२६ ॥ उत्फुल्लमानससरसीरुहचारुमध्य-निर्यन्मधुव्रतभरद्युतिहारिणीभिः । राधाविलोचनकटाक्षपर-म्पराभिर्दृष्टो हरिस्तव सुखानि तनोतु कामम् ॥ १२७ ॥ गोवर्धनोद्धरणहृष्टसमस्तगोपनानास्तुतिश्रवणलज्जितमानसस्य । स्मृत्वा वराहवपुरिन्दुकलाप्रकाशदष्ट्रोद्धतक्षिति हरेरवतु स्मित व ॥ १२८॥ अभिनवनवनीतप्रीतमाताम्रेनेत्र विकचनलिन-लक्ष्मीस्पर्धि सानन्दवक्त्रम् । हृदयभवनमध्ये योगिभिर्ध्यान-गम्य नवगगनतमालश्यामलं क्वचिदीडे ॥ १२९ ॥ अभि-नवनवनीतस्निग्धमापीतदुग्धं दधिकणपरिदिग्धं मुग्धमङ्ग मुरारेः । दिशतु भुवनकृच्छ्रोच्छेदितापिच्छगुच्छच्छवि नवशिखिपिच्छालाञ्छितं वाञ्छित व. ॥ १३० ॥ कनककल-शस्वच्छे राधापयोधरमण्डले नवजलधरश्यामामात्मद्युति प्रति-विम्बिताम् । असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपञ्जयति जनितब्रीडाह्वासप्रियाहसितो हरि ॥ १३१ ॥

¹ अर्जुन
² पूतनाया मारणेन लब्धा कीर्तिर्येन, पक्षे,-विज्रनामा, रणे लब्धा कीर्तिश्च येन.
³ कालिय सर्प, पक्षे,-धृष्ट काक
⁴ यशोदया मात्रात्कृतो देहो यस्य, पक्षे,-यशमा दयया चालंकृतो देहो यस्य.
⁵ धारयाम्
¹ दन्तम्

दशावताराः २३

लैलितगमना नोर्या राजन्मनोजनितान्तभा सुरतिसदृशस्ताः सन्मुख्या भवानपि तनुवे । वनभुवमितो गेहादेको न गच्छतु मा विनेत्यसकृदुदितः पुत्र. पित्रा जयत्यनघो हरिः ॥ १३२ ॥ देवः पायात्पयसि विमले यामुने मज्जतीना याच- न्तीनाममुनयपदैर्वञ्चितान्यंशुकानि । लज्जालोलैरुलसवलितै- रुन्मिषत्पद्मवाणैर्गोपस्त्रीणा नयनकुसुमैरञ्चितः केशवो नः ॥ १३३ ॥ वृन्दारण्ये तपनतनयातीरवानीरकुञ्जे गुञ्जन्मधुव्रत- पटलीकाकलीकेलिभाजि । आभीराणा मधुरमुरलीनादस- मोहिताना मध्ये क्रीडन्नवतु नियतं नन्दगोपालबालः ॥ १३४ ॥ शिरश्छाया कृष्णः क्षणमकृत राधाचरणयोर्भुजावल्लिच्छाया- मियमपि तदीयप्रतिकृतौ । इति क्रीडाकोपे निभृतमुभयो- रप्यनुनयप्रसादौ जीयास्तामपि गुरुममक्ष स्थितवतो. ॥ १३५ ॥ अवेमव्यापारकलनमतुरीस्पर्शमचिरादनुन्मीलत्तन्तुप्रकरघट- नायासमसकृत् । विधीदत्पाञ्चालीविपदपनयैकप्रणयिनः पटाना निर्माणं पतंगपतिकेतोरवतु नः ॥ १३६ ॥ कपोले पत्रार्ली पुल- किनि विधातु व्यवसितः स्वय श्रीराधाया. करकलितवर्तिम- धुरिपुः । अभूद्रत्कन्दो यन्निहितनयन. कम्पितभुजस्तदेतत्सा- मर्थ्य तदभिनवरूपस्य जयति ॥ १३७॥ जयश्रीविन्वैस्तैर्महिते इव मन्दारकुसुमैः स्वय सिन्दूरेण द्विपरणमुदा मुद्रित इव । भुजापीडक्रीडाहतकुवलयापीडकरिनः प्रकीर्णासृग्विन्दुर्ज॑यति भुजदण्डो मुरजितः ॥ १३८ ॥ सुपर्णः खर्णाद्रौ रचितम- णिशृङ्गे जलधिजामुखाम्भोजे भृङ्गो निगमविलसत्पञ्जरशुकः । त्रिलोकीकस्तूरीतिलककमनीयो व्रजवधूविहारी श्रीकृष्णो दिशतु भवता शर्म सततम् ॥ १३९ ॥ क यासि खलु चौरिके प्रमुषित स्फुट दृश्यते द्वितीयमिह मामक वहसि कन्दुक कञ्चुके । त्यजेति नवगोपिकाकुचयुगं प्रमश्नन्बलाल्ल- सत्पुलकपञ्जरो जयति गोकुले केशवः ॥ १४० ॥ मेघैर्मे- दुरमम्बरं वनभुवः श्यामास्तमालद्रुमैर्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय । इत्थ नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जद्रुम राधामधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥ १४१ ॥ कौन्तेयस्य सहायता करुणया गत्वा विनीता- त्मनो येनोल्लङ्घितसत्पथ. कुरुपतिश्चक्रे कृतान्तातिथिः । त्रैलोक्यस्थितिसूत्रधारतिलको देवः सदा सपदे साधूनामसु- राधिनाथमथनः स्ताद्देवकीनन्दनः ॥ १४२ ॥ आताम्रे नयने स्फुरन्कुचभरः श्वासो न विश्राम्यति खेदाम्भःकणदन्तुर तव मुख हेतुस्तु नो लक्ष्यते । धिक्को वेद मनः स्त्रिया इति गिरा रुष्टा प्रिया भीषयंस्तस्मात्तत्क्षणकातरेक्षणपरिस्पृष्टो हरिः पातु वः ॥ १४३ ॥ ससक्ता निव पातुमौपनिषदव्या- हारमाध्वीरसामुन्मार्गु व्रजसुन्दरीकुचतटीपाटीररेणूनिव । उन्मीलन्मुरलीनिनादबहुलामोदोपसीदद्गवीजिह्वालीढमलीक- बल्लवशिशोः पादाम्बुज पातु वः ॥ १४४ ॥ कृष्णो गोरस- चौर्यमम्ब कुरुते किं कृष्ण मातः सुरापानं न प्रकरोमि राम किमिदं नाहं परखीरतः । किं गोविन्द वदत्यसौ हलधरो मिथ्येति ता व्याहरन्गोपीगोपकदम्बक विहसयन्मुग्धो मुकु न्दोऽवतु ॥ १४५ ॥ मातस्तूर्णकरक्षणाय यमुना कच्छं न गच्छाम्यह कसाद्वत्स पिनष्टि पीवरकुचद्वन्द्वेन गोपीजनः । भ्रूसज्ञांनिवारितोऽपि बहुशो जल्पन्पशो- दायतो गोपीपाणिसरोजमुद्रितमुखो गोपीपतिः पातु वः ॥ १४६ ॥ कासि त्वं वद चौर्यकारिणि कुतः कस्तव पुरो यामिकः किं ब्रूषे सुषितौ सुवर्णकलशौ भूपस्य केन त्वया । कुत्र स्तः प्रकटौ तवाञ्चलतटे कुत्रेति तत्पश्यता- मित्युक्ते धृतवल्लवीकुचयुगस्त्वत्वा पातु पीताम्बरः ॥ १४७ ॥ कृष्ण त्वं पठ किं पठामि ननु रे शास्त्र किमु ज्ञायते तत्त्वं कस्य विभोः स कस्त्रिभुवनाधीशश्च तेनापि किम् । ज्ञानं भक्तिरथो विरक्तिरनया कि मुक्तिरेवास्तु ते दध्यादीनि मजामि मातुरुदितं वाक्यं हरेः पातु वः ॥ १४८ ॥ कृष्ण त्व नवयौवनोऽसि चपलाः प्रायेण गोपाङ्गनाः कसो भूपति- रब्जनालमृदुलग्रीवा वय गोदुहः । तद्याचेऽञ्जलिना भवन्त- मधुना वृन्दावन मङ्गिना मा यासीरिति नन्दगोपवचसा नम्रो हरिः पातु वः ॥ १४९ ॥ कस्त्वं कृष्णमवेहि मां किमिह ते मन्मन्दिराशङ्कया युक्तं तन्नवनीतभाजनपुटे न्यस्तः किमर्थं करः । कर्तुं तत्र पिपीलिकापनयनं सुप्ताः किमुद्बोधिता बाला वत्सगर्ति विवेक्तुमिति सजलपन्हरिः पातु वः ॥ १५० ॥ स्वामी मुग्धतरो वन घनमिदं बालाहमेका- किनी क्षोणीमावृणुते तमालमलिनच्छाया तमःसंहतिः । तन्मे सुन्दर कृष्ण मुञ्च सहसा वर्मेति गोप्या गिरः श्रुत्वा

पादटिप्पणी (Footnotes)

[वाम भाग] १ गोपीपक्षे,-ललित गमन यासा ता, कृष्णपक्षे ललिते गे गाने मनो यस्य स
२ स्त्रिय, पक्षे,-नास्तार्य्य श्रेष्टो यस्मात्स
३ राजता मनोजेन मदनेन नितान्तात्यन्ता भा कान्तिर्यासा ता, पक्षे,-राजनमनोजनि शोभमानमदनस्तानन्तो म्लानो यस्यास्तादृशी भा यस्य स
४ शोभायमानया रत्या कामपत्न्या सदृश, पक्षे,-सुष्टु रतौ रमणे योग्य
५ सन्ति शोभनानि मुखान्याननानि यासां ता, पक्षे,-सत्सु प्रशस्तेषु केलिचतुरेपु मुख्य
६ स्वच्छे
७ स्नान कुर्वतीनाम्
८ वेमा वस्त्रव्युतिदण्डस्तद्व्यापाररहितम्
९ तुरी तन्तुवायाना यन्त्रविशेष, तत्स्पर्श विना
१० पतगा पक्षिणस्तेषा पतिर्गरुड स केतुर्यस्य तस्य कृष्णस्येत्यर्थ
११ विक्षिप्ते
१२ पूजित.
१३ चित्रित
१४ रक्तविन्दु.
१५ व्याप्तमित्यर्थ
१६ रात्रौ.

[दक्षिण भाग] १ एकान्तक्रीडा
२ युधिष्ठिरस्य
३ मारित
४ वृषबालः.
५ नगररक्षक

२४सुभाषितरत्नभाण्डागारम्[ १ प्रकरणम्
ता परिरम्य मन्मथकलासक्तो हरिः पातु वः ॥ १५१ ॥
मातः किं यदुनाथ देहि चषकं किं तेन पातुं पयस्तन्नास्त्यद्य
कदास्ति तन्निशि निशा का वान्धकारोदये । आमील्याक्षि-
युगं निशाप्युपगता देहीति मातुः पुनर्वक्षोजाम्बरकर्षणोद्यत-
करः कृष्णः स पुष्णातु नः ॥ १५२ ॥ अर्धोन्मीलितलोच-
नस्य पिबतः पर्याप्तमेकं स्तन सद्यःप्रस्रुतदुग्धदिग्धमपरं हस्तेन
संमार्जतः । मात्रा चाङ्गुलिलालितस्य चिबुके सेरायमाणे मुखे
विष्णोः क्षीरकणाम्बुधामधवळा दन्तद्युतिः पातु वः ॥ १५३ ॥
गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते किं त्वेवं
विजनेस्थयोर्हतजनः संभावयत्यन्यथा । इत्यामन्त्रणभङ्गि-
सूचितवृथाप्रस्थानखेदालसामाश्लिष्यन्पुलकाङ्कुराञ्चितवपुर्गोपीं
हरिः पातु वः ॥ १५४ ॥ रामो^३ नाम बभूव हुं तदबला सीतेति
हुं तौ पितुर्वोचा पञ्चवटीवने निवसतस्तामाहरद्रावणः ।
कृष्णेनेति पुरातनी निजकथामाकर्ण्य मात्रेरिता सौमित्रे क्व
धनुर्धनुर्धनुरिति प्रोक्ता गिरः पान्तु वः ॥ १५५ ॥ कोऽयं
द्वारि हरिः प्रयाह्युपवनं शाखामृगस्यात्र किं कृष्णोऽहं दयिते
बिभेमि सुतरां कृष्णादहं वानरात् । रावेऽहं मधुसूदनो^७ व्रज
लता तामेव पुष्पाम्वितामित्थं निर्वचनीकृतो दयितया हीणो
हरिः पातु वः ॥ १५६ ॥ पीठे पीठनिषण्णबालकगले
तिष्ठन्सगोपालको यन्त्रान्तःस्थितदुग्धभाण्डमवभिद्याच्छाद्य
घण्टारवम् । वक्त्रोपान्तकृताञ्जलिः कृतशिरःकम्पं पिबन्यः पयः
पायादागतगोपिकानयनयोर्गण्डूषफूत्कारकृत् ॥ १५७ ॥
पद्मे त्वन्नयने स्मरामि सततं भावो भवत्कुन्तले नीले मुह्यति
किं करोमि महितैः^१० क्रीतोऽस्मि ते विभ्रमैः । इत्युत्स्वप्नवचो
निशम्य सरुषा निर्भर्त्सितो राधया कृष्णस्तत्परमेव तद्व्यपदि-
शन्क्रीडाविटः पातु वः ॥ १५८ ॥ दृष्ट्वा^१२ केशव गोपरोग-
हृतया किञ्चिन्न दृष्टं मया तेनात्र स्खलितास्मि नाथ पतिता^१३
किं नाम नालम्बसे । एकस्त्वं विषमेषुखिन्नमनसा सर्वार्बलानां^१४
गतिर्गोप्त्यैव गदितः शैलेशमवैतोद्रोहे^१७ हरिवर्धिश्चिरम् ॥ १५९ ॥
केयं भाग्यवती तयोरसि मणी रूपेऽग्रैवर्णं^१८ विना कृत्वारत्नाःप्रथमं विना क्व सहजो वर्णो मणेस्तादृशः । स्त्रीरूपं कथमस्य
लिङ्गनियमात्पृच्छामि बध्वाकृति मुग्धे त्वत्प्रतिबिम्बमित्यपल-
पन्राधा हरिः पातु वः ॥ १६० ॥ या दृष्ट्वा यमुना पिपासु-
रनिशं व्यूहो गवां गाहते विद्युत्वानिति नीलकण्ठनिवहो या
द्रष्टुमुत्कण्ठते । उत्तप्ताय तमालपल्लवमिति च्छिन्दन्ति या
गोपिकाः कान्तिः कालियशामनस्य वपुषः सा पावनी पातु
वः ॥ १६१ ॥ श्रीमद्गोपवधूस्ययग्रहपरीरब्धेऽङ्गे तुङ्गस्तन
व्यामर्दार्दलितोऽपि चन्दनरजस्सङ्गे वहन्सौरभम् । कश्चिज्जा-
गरजातरागनयनद्वन्द्वः प्रभाते श्रियं बिभ्रत्कामपि वेणुनाद-
रसिको जाराग्रणीः पातु वः ॥ १६२ ॥ कण्ठालिङ्गनमङ्गळं
घनकुचाभोगोपभोगोत्सव श्रोणीसगमसौभग च सतत
मत्प्रेयसीना पुरः । प्रात्तु कोऽयमितीर्थ्ययैव यमुनाकूले वळाय
स्वयं गोपीनामहरदूकूलनिचय कृष्णः स पुष्णातु नः ॥ १६३॥
कृष्णेनाम्ब गतेन रन्तुममकृन्मृद्भक्षिता स्वेच्छया सत्य कृष्ण
क एवमाह मुँसली^१ मिथ्याम्ब पश्य़ाननम् । व्योदेहीति^२
विकामिते च वदने दृष्ट्वा समस्तं जगन्माता यस्य जगाम
विस्मयपद पायात्स व श्रीपतिः ॥ १६४ ॥ अम्ब श्राम्यसि
तिष्ठ गोरसमह मथ्नामि मन्थानक प्रालम्ब्य स्थितमीश्वरं
सग्मस दीनाननो वाँसुक़ि^३ । सासूय कैमलाळया^४ सुंर-^५
गण. सानन्दमुद्यद्रय राँहुः^६ प्रैक्षत य स वोऽस्तु शिवदो
गोपालबालो हरि ॥ १६५ ॥ कालिन्द्याः पुलिनेषु केलि-
कुपितामुत्सृज्य रासे रस^७ गच्छन्तीमनुगच्छतोऽश्रुकलुषा कस-
द्विषो राधिकाम् । तत्पादप्रतिमानिवेशितपदस्योद्गूतरोमोद्गते-
रक्ष्णोणोऽनुनय. प्रसन्नदयितादृष्टस्य पुष्णातु व. ॥ १६६ ॥
कस ध्वस्यते सुरं तिरयते हंस तथा हिंसते बाण क्षीणयते
बक लघयते पौण्ड्र तथा लम्पते । भौम क्षामयते बलाद्वल-
भिदो दर्पं पराकुर्वत क्लिष्ट शिष्टगण प्रणम्रमवते कृष्णाय
तुभ्य नमः ॥ १६७ ॥ रासोल्लासभरेण विभ्रमभृतामाभीर-
वामभ्रुगार्मभ्यर्णे^१० परिरभ्य निर्भरमुरः प्रेमान्धया राधया ।
साधु त्वद्वदन सुधामयमिति व्याहृत्य गीतस्तुतिव्याजार्दुङ्कैट^११
चुम्बित. सितमनोहारी हरिः पातु व. ॥ १६८ ॥ साकूत-
स्मितमाकुलाकुलगलद्धम्मिल्लमुँल्लाँसित^१२भ्रूवल्लीकमलीकदर्शित-
भुजामूलार्धदृष्टस्तनम् । गोपीना^९ निर्भृत^१४ निरीक्ष्य
ललित काचिच्चिर चिन्तयन्नन्तर्मुग्धमनोहो हरतु वः

१ पानपात्रम् २ एकान्तगतयो ३ रचना ४ यथा माता स्वपुत्रप्रस्वापनाय पुरातना कथा कथयति, तथा यशोदापि राम इति कश्चिद्राजासीदिति वदति स तच्छ्रुत्वा कृष्णोऽपि हुंकार दत्तवान् ५ वानर, पक्षे,-कृष्ण ६ कृष्णवर्णं, पक्षे,-कृष्णनामा ७ भ्रमर, पक्षे,-मधुसूदननामा ८ आलम्बमानो रज्जुषञ्जर, शिक्य इति प्रसिद्ध ९ हे रमे, पक्षे,-पद्मरूपे १० पूज्यै ११ गोपे त्वयि यो राग आसक्तिस्तद्भूतयापहृतया, पक्षे,-गवां परागैर्धूलिभिर्व्याप्तया १२ युक्तायुक्तम्; पक्षे,-प्लवविषमम् १३ पतित्वम्, पक्षे,-पतन प्राप्ताम् १४ विषमेषु पञ्चशरस्तेन खिन्नमनसाम्, पक्षे,-विषमेषु सकटेषु खिन्नमनसम् १५ स्त्रीणाम्, पक्षे,-बलरहितानाम् १६ ससूचनम् १७ गोस्थानम् १८ अग्रवर्णो र इति, रमणीयत्थं१ बलभद्र २ विकासय ३ समुद्रमथने रज्जुकृतस्य मम पुनरपि स एव भयकर प्रसङ्ग आगत इति त्रासेन शेष ४ मम सपत्नी काचिद्बुद्धिविधतीत्यसूयया ५ अमृतप्राप्तिर्भविष्यतीति धिया ६ शिरश्छेदो भविष्यतीति बुद्ध्या ७ रागम् ८ सफला ९ गोपिकानाम् १० समीपम् ११ प्रकटम् १२ उच्चै कृता १३ जृम्भणादिच्छलेनेत्यर्थ . १४ गोप्यभावम्.

दशावताराः २५

केशं नैवः केशवः ॥ १६९ ॥ तिर्यक्कण्ठविलोलमौलि-विकसन. स्तैब्धाकर्षणदृष्टिहर्षणमहामन्त्रः कुरङ्गीदृशाम् ।
तरलोत्तंसस्य वशोश्चरद्गीतस्थानकृतावधानललनालक्षैर्नहृप्यद्दानवदूयमानदिविषद्दुर्वारदुःखापदा भ्रश कसरिपोर्य्यपो-
सलक्षिता । ^२समुग्ध मधुसूदनस्य मधुरे राधामुखेन्दौहयतु वोऽश्रेयांसि वशीरखः ॥ १७९ ॥ मौलौ केकिशिखण्डिनी
^३मृदुस्पन्द पल्लविताश्चिरं ददतु वः क्षेमं कटाक्षोर्मयःमधुरिमाधाराधरे वशिनी पीनासे वनमालिनी हृदि लसत्का-
॥ १७० ॥ वृष्टिव्याकुलगोकुलार्तनरसादुद्धृत्य गोवर्धनंरुण्यकल्लोलिनी । श्रोण्या पीतदुकूलिनी चरणयोर्व्यत्यस्तविन्यासिनी
बिभ्रद्बह्वलवल्लभाभिरधिकानन्दाच्चिरं चुम्बितः । कंदर्पेणलीला काचन मोहिनी विजयते बृन्दावनत्रासिनी
तदर्पिताधरतटीमन्दूरमुद्राङ्कितो बाहुर्गोपनतोन्नतो मुवता॥ १८० ॥ मालाबर्हमनोज्ञकुन्तलभरा वन्यप्रसूनोक्षिता शैले-
श्रेयांसि कसद्विषः ॥ १७१ ॥ राधासुग्धमुखारविन्दमधुपश्चै-यागुरसकचित्रितलका शश्वन्मनोहारिणीम् । लीलावेणुरवा-
लोक्यमौलिक्थलीनेपथ्योचितनीलरत्नमवनीभारावतारक्षमः ।मृतैकरसिका लावण्यलक्ष्मीमयी बाला वालतमालनीलवपुष
स्वच्छन्दव्रजसुन्दरीजनमनस्तोषप्रदोध्पन्निरं कमध्वसनवूमकेतु-वन्दे परा देवताम् ॥ १८१ ॥ असालम्बितवामकुण्डल-
रवतु त्वा देवकीनन्दनः ॥ १७२ ॥ किं विश्राम्यसि कृष्णधर मन्दोन्नतश्रूलत किञ्चित्कुञ्चितकोमलाधरपुट साचिप्र-
भोगिभवने भौण्डीरभूमिरुहि भ्रातर्यासि न दृष्टिगोचरमितःसारीक्षणम् । आलोलाङ्गुलिपल्लवैर्मुरलिकामारपूरयन्त मुदा
सानन्दनन्दास्पदम् । राधाया वचनं तदध्वगमुखान्छन्दान्तिकेमूले कल्पतरोस्त्रिभङ्गललित ध्याये जगन्मोहनम् ॥ १८२ ॥
^११गोपतो गोविन्दस्य जयन्ति सायमतिथिप्राशस्त्यगर्भाकस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं नासाग्रे
गिरः ॥ १७३ ॥ सान्द्रानन्दपुरदरादिदिविषद्बृन्दैरमन्दादरा-नवमौक्तिक करवले वेणु करे कङ्कणम् । सर्वाङ्गे
दानम्रैर्मुुकुटेन्द्रनीलमणिभिः ^१२सदर्शितॆन्दीवरम्। स्वच्छन्दहरिचन्दन सुविमल कण्ठे च मुक्तावली बिभ्र-
मकरन्दसुन्दरगलन्मन्दाकिनीमेदुरं श्रीगोविन्दपदारविन्द-त्स्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ १८३ ॥ कालि-
मधुमस्कै^१३न्दाय वन्दामहे ॥ १७४ ॥ प्रातर्नीलैर्निचोल-न्दीपुलिनोदरेषु मुसली यावद्गतः क्रीडितु तावत्कैर्भुरिकापयः
मच्युतमुरःसवीतपीतांशुकं राधायाश्चकितं विलोक्य हसतिपिव हरे वर्धिष्यते ते शिखा । इत्थ वालतया प्रतारणपराः
स्वैरं सखीमण्डले । व्रीडाचञ्चलमञ्चल नयनयोराधाय राधा-श्रुत्वा यशोदागिर. पायाद्वः स्वशिखा स्पृशन्प्रमुदित. क्षीरे-
नने स्वादुस्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजःऽर्धपीते हरिः ॥ १८४ ॥ आनन्देन यशोदया समदन
॥ १७५ ॥ प्रीति वस्तुतुता हरिः कुवल्यापीडेन सार्थं रणेगोपाङ्गनाभिश्चिर साशङ्क बलविद्विषा सकुसुम सिद्धैः
राधापीनपयोधरखरणकृत्कुम्मेन समेदवान् । ^१७पत्रे बिभ्यतिपृथिव्याकुलम् । सेर्ये गोपकुमारकैः सकरुण पौरैः सुरैः
मीलति क्षणमपि क्षिप्र तदालोकनाद्यामोहेन जित जितसस्मित यो दृष्टः स पुनातु वो मध्रिपु प्रोत्क्षिप्तगोवर्धन.
जितमभूद्यौलोलकोलाहलः ॥ १७६ ॥ त्वामप्राप्य मयि स्वय-॥ १८५ ॥ राधामोहनमन्दिर जिगमिषोश्चन्द्रावलीमन्दि-
वरपरा क्षीरोदतीरोदरे शङ्के सुन्दरि कालकूटमपिबन्मूढोराद्राधे क्षेममिति प्रियस्य वचन श्रुत्वाह चन्द्रावली । क्षेम
मृडानीपतिः । इत्थं पूर्वकथाभिरन्यमनसो विक्षिप्य वासोञ्चलकस तत. प्रिय. प्रकुपित. कंस. क्व दृष्टस्त्वया राधा क्वेति
राधायाः स्तनकोरकोप रिसन्नेत्रो हरिः पातु वः ॥ १७७ ॥तयो. प्रसन्नमनसोर्हासोद्गमः पातु वः ॥ १८६ ॥ दृष्टः कापि
वामासस्थलचुम्बिकुण्डलरुचा जातोत्तरीयच्छवि वशीगीति-स केगवो व्रजवधूमादाय काचिद्गत. सर्व्व एव हि वञ्चिताः
भवत्रिभङ्गवपुष भ्रूलासलीलापरम् । किचित्सस्तशिखण्ड-खलु वय सोऽन्वेषणीयो यदि । द्वे द्वे गच्छत इत्युदीर्घ
शेखरमतिस्निग्धा लिनीलालकं राधादिप्रमदाशतावृतमह वन्देसहसा राधा गृहीत्वा करे गोपीवेषधरो निकुञ्जभवन
किशोराकृतिम् ॥ १७८ ॥ अन्तर्मोहनमौलिरुँदैनवलन्मन्दार-प्राप्तो हरिः पातु वः ॥ १८७ ॥ कि युक्त बत मामनन्यम-
नस वक्ष.स्थलस्थायिनी भक्तामप्यवधूय कर्तुमधुना कान्तास-
हस्रं तव । इत्युक्त्वा फणभृत्फणामणिगता स्वामेब मत्वा तनु
निद्रानिच्छेदकर हरेरवतु वो लक्ष्म्या विलक्षस्मितम् ॥ १८८ ॥
स्वप्रासादितदर्शनाम नुनयन्त्राणेश्वरीमादरादसेऽस्मिन्पतिवैरपा-
ङ्कवलितैर्यह्नोथितोऽप्यश्रुभिः । प्रत्याय्यस्त्वमतो मया ननु हरे
कोऽय क्रमन्त्यत्ययः पातु त्वा व्रजयोषितित्यभिहित लज्जाकर

१ तरुण २ अव्यक्तम् ३ किञ्चिश्चलन यथा स्यात्तथा ४ रक्ष-१ अनिच्छोरित्यर्थे २ गौरीतीर्थे, धत्तूरजलं वा
णम् ५ अनुराग ६ नीलत्वादधरपानकर्तृत्वाच्च ७ अलकार
८ रात्रिमुखे हि नार्थस्तुष्वन्तीति भाव ९ भोगी सर्प तस्य भवने,
पक्षे,-भोगिनः शृङ्गारिणो विलासगृहे १० भाण्डीरनाम्नि वटवृक्ष
११ सगोपन कुर्वत १२ सदर्शित इन्दीवरस्य नीलोत्पलस्य अम्रो
यत्र १३ नाशाय १४ वस्त्रम् १५ परिधानाकृतम् १६ कटाक्ष
१७ वाहने १८ मृते सति १९ चञ्चल २० साधु साध्विति
शिर कम्पनम् २१ गुम्फितम्
४ सु. र भा

२६ | सुभाषिसरत्नभाण्डागारम् | [१ प्रकरणम्

[शार्ङ्गिणः]

शार्ङ्गिण ॥ १८९ ॥ अस्मिन्कुञ्जे विनापि प्रचलति पवना-
द्धर्तते कोऽपि नूनं पश्यामः किं न गत्वेत्यनुसरति गणे
भीतमीतेऽर्भकाणाम् । तस्मिन् राधासखो वः सुखयतु विलस-
ल्लीलया कैटभारिर्व्यान्व्हानो मृगारिप्रवलघुरघुराशवरौद्रान्नि-
नादान् ॥ १९० ॥ अङ्गुल्या कः कपाटं प्रहरति कुटिले
माधवः किं वसन्तो नो चक्री किं कुलालो नहि धरणिधरः
किं द्विजिव्हः फणीन्द्रः । नाहं घोराहिमर्दी किमुत खगपति-
र्नो हरिः किं कपीन्द्र इत्येवं सत्यभामाप्रतिवचनजितः
पातु वश्चक्रपाणिः ॥ १९१ ॥ वृन्दारण्ये चरन्ती विशुरपि
सततं भूर्भुवःखः सृजन्ती नन्दोद्भूताप्यनादिः शिशुरपि
निगमैर्लक्षिता वीक्षितापि । विद्युल्लेखावनद्रोन्नमदमलमहा-
म्भोदसचलायकाया माया पायादपायाद्विहितमहिमा कापि
पैताम्बरी वः ॥ १९२ ॥ नामोदस्ताखिलामो दमनियमयुजा
यः प्रकामॊदवाहश्यामो दर्पाब्धधामॊदयमिलितयशोध्वारया
मोदते यः । वामोदन्यासदामोदरतरलदृगा दत्तकामोदयो
यः सामोदः श्रीललामो दलयतु दुरितं सोऽत्र दामोदरो
वः ॥ १९३ ॥ मल्लैः शैलेन्द्रकल्पः शिशुरखिलजनैः पुष्पचापो-
ऽङ्गनाभिर्गोपैस्तु प्राकृतात्मा दिगि कुलिशभृता विश्वकायोऽप्र-
मेयः । क्रुद्धः कंसेन कालो भयचकितदृशा योगिभिर्ध्येयमूर्तिर्द्रष्टो
रङ्गावसारे हरिरमरजनानन्दकृत्पातु युष्मान् ॥ १९४ ॥

बलभद्रः

निष्पात्याशु हिमांशुमण्डलमथः पीत्वा तदन्तं सुधां कृत्स्नं
चषकं हसन्निति हलापानाय कौतुहलात् । भो देव द्विजरासि
मादृशि सुरास्पर्शोऽपि न श्रेयसे मा मुञ्चेति तदर्थितो हलधरः
पायादपायाज्जगन् ॥ १९५ ॥ प्रेमोन्मामितरेवतीसुखगता-
मास्वाद्य कादम्बरीमुन्मत्तं क्वचिदुत्ततंक्वचिदपि भ्राम्यत्क्वचि-
त्क्वस्खलत् । रक्तापाङ्गमधीरलाङ्गलमलिष्यामागवराडम्बरं केशं
नः कवलीकरोतु सकलं पाकाभिरामं महः ॥ १९६ ॥
उष्णाळु क्वचिदर्कधामनि मनाङ् निद्रालु शीतानिले हालानां
गृह्यालु चुम्बदसकृल्लाजालु जायामुखम् । नित्यं निष्प-
तयालु तिर्यगवनीशय्याशयालु क्षणं गीतेभ्यः स्पृहयालु
धाम धवलं दीने दयालु श्रये ॥ १९७ ॥

रुक्मिणी

श्लाघ्याशेपतनुं सुदर्शनकरं सर्वाङ्गलीलाजितत्रैलोक्यां
चरणारविन्दललितेनाक्रान्तलोको हरिः । बिभ्राणा मुखमिन्दु-
सुन्दररुचं चन्द्रात्मचक्षुर्दधत्स्थाने या स्खततोरपश्यदधिका
सा रुक्मिणी वोऽवतात् ॥ १९८ ॥

राधा

राधा पुनातु जगदच्युतदत्तचित्ता मन्थानमाकलयती
दधिरिक्तपात्रे । यस्याः स्तनस्तबकचूचुकलोलदृष्टिर्देवोऽपि
दोहनधिया वृषभं दुदोह ॥ १९९ ॥ सुधाधाम्नः कान्ति-
स्तव वदनपङ्केरुहगुणैर्जितव म्लानत्वं व्रजति सहसा प्राण-
दयिते । वदत्येवं कान्ते दिवसविरहातङ्कचकिता तदङ्के
सलग्भा तव दिशतु राधा प्रियशतम् ॥ २०० ॥

नन्दकः

सान्द्रां मुदं यच्छतु नन्दको वः सोल्लासलक्ष्मीप्रतिबिम्ब-
गर्भः । कुर्वञ्जनस यमुनाप्रवाहसलीुलराधाचरणं मुरारेः
॥ २०१ ॥

वेणुः

क्रेङ्कारः स्मारकार्मुकस्य सुगतक्रीडापिकीनां रवो झङ्कारो
रतिमञ्जरीमधुलिहां लीलाचकोरीध्वनिः । तन्व्याः
कञ्चुलिकापसारणभुजाक्षेपस्वलत्कङ्कणक्वाणः प्रेम तनोतु वो
नववयोलास्याय वेणुस्वनः ॥ २०२ ॥

बुद्धः

षट्चक्रे क्रमभावनापरिगतं हृत्पद्ममध्यस्थितं
सपश्यञ्छिंवरूपिणं लयवशादात्मानमंत्व्याश्रितः । युष्माकं
मधुसूदनेो बुद्धवपुर्धारी स भूयान्मुदे यस्तिष्ठत्कमलासने
कृतश्चिर्युकैर्दा कलिक्षात्कृति ॥ २०३ ॥ रेतोरक्तमयान्यमूनि
अधिना विण्मूत्रपूर्णोदराण्यालोक्येव कलेवराणि विगलत्तो-
यार्द्रव्रणानि यः । मायाजालैनियन्त्रितानि घृणया नोन्मी-
लयत्यक्षिणी निर्व्याजप्रणिधाननिश्चलमसिर्बुद्धोऽ स बुद्धोऽस्तु
वः ॥ २०४ ॥ ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य
चक्षुः क्षणं पश्यानङ्गशरातुरं जनमिमं त्रातापि नो रक्षसि ।
मिथ्याकारुणिकोऽसि निर्घृणतरस्त्वत्तः कुतोऽन्यः पुमाञ्छ-
श्चन्मारवधूरिरित्यभिहितो बुद्धो जिनः पातु वः ॥ २०५ ॥
आबाहूद्धतमण्डलाग्ररुचयः सनद्धवक्षःस्थलाः सोष्माणो
व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्कशाः । उत्सृष्टाम्बरदृष्ट-
विग्रहभरा यस्य खराग्रैसरा योधा वारवधूतनाश्च न दधुः
क्षोभं स वोऽध्याज्जिनः ॥ २०६ ॥ बद्धा पद्मासनं यो
नयनयुगमिदं न्यस्य नासाग्रदेशे धृत्वा मूर्तो च शान्तौ
समरसमिलितौ चन्द्रसूर्याख्यवातौ । पश्यन्नन्तरविशुद्ध

पादटिप्पणी (Footnotes)

वाम-भागःदक्षिण-भागः
१ द्वारम्१ शब्द
२ लक्ष्मीपति, पक्षे,-वसन्त२ मूलाधार-स्वाधिष्ठान मणिपुर-अनाहत-विशुद्धिआज्ञाख्यानि षट् चक्राणि
३ चक्रधारी, पक्षे,-कुलाल३ परिपाटी
४ विष्णु, पक्षे,-शेष४ वासना
५ कृष्णपक्षे,-अहि कालिय, गरुडपक्षे,-अहिः सर्पः५ व्याप्तम्.
६ गरुड६ चित्तैकाग्र्यवशात्.
७ विष्णु, पक्षे,-वानर७ स्थित
८ सुरापानपात्रम्.८ 'जङ्घाया मध्यभागे तु संस्थेपो यत्र जङ्घया । पद्मासनमिति प्रोक्तं तदासनविचक्षणै ॥'
९ चन्द्रेण प्रार्थित..९ शानी
१० ज्ञानम्
११ संसारिणाम्.
१२ बद्धानि.
१३ चेतःसमाधिना-
१४ शरीरे.

दशावताराः २७

किमपि च परमं ज्योतिराकारहीनं सौख्याम्भोधौ निमग्नः स दिशतु भवता ज्ञानबोधं बुधोऽयम् ॥ २०७ ॥ कामेनाकृष्य चाप हतपटुपटहं वल्गुभिर्मारवीरैर्भ्रूभङ्गोक्षेपजृम्भास्मितललितदृशा दिव्यनारीजनेन । सिद्धैः प्रह्रोत्तमाङ्गैः पुलकितवपुषा विस्मयाद्वासवेन ध्यायन्त्यो योगपीठादचलित इति व पातु दृष्टो मुनीन्द्रः ॥ २०८ ॥ कि साक्षाच्चान्द्रभानोरमृतघनरसस्यन्दिनः सन्ति पादाः कि वा राका-शशाङ्को नहि तुहिनरुचिः कुत्रचिन्निष्कळङ्कः । साक्षाच्चिन्तामणिः कि विपुलफलमणेः सौकुमार्ये कुतस्त्यं संदेहान्मुग्धधीभिः प्रथममिति सुनेः पातु दृष्ट वपुर्वः ॥ २०९ ॥

कल्किः

उद्यत्करकरवालः शक्तिमिरुध्वसने महानिपुणः । कल्किहरिर्वः पायादपायतः कलिनिशान्तोत्थः ॥ २१० ॥ यवनीनयनाम्बुपूरणीभिर्हरिणीनामपनीय तापवह्निम् । सुकृतद्रुमसेकमाचरन्त धृतकल्क प्रणाममि निर्विकल्पम् ॥ २११ ॥ प्रेङ्खद्भाजितरङ्गसुन्मदगजग्राहप्रगल्भं भटव्यावलगत्स्फुटपुण्डरीकनिलयं डिण्डीरपिण्डावलिम् । म्लेच्छानीकमहार्णवं सुविपुल सङ्ग्रामकल्पावधौ यश्चौर्वाग्निरिवाभवद्दैयतु वः कल्पांनि कल्की हरिः ॥ २१२ ॥

सूर्यः

खण्डितनेत्रब्जोलिमङ्गुरञ्जनपण्डिताः । मण्डिताखिलदिक्प्रान्ताश्चण्डशोः पान्तु भानवः ॥ १ ॥ शुकतुण्डच्छविसवितुश्चण्डरुचेः पुण्डरीकवनबन्धोः । मण्डलमुदित वन्दे कुण्डलमाखण्डलशायाः ॥ २ ॥ अतिविततगगनसरणिप्रसरणपरिमुक्तविश्रमानन्दः । मरुदुल्लासितसौरभकमलाकरहासकृद्रविर्जयति ॥ ३ ॥ प्राचीकुङ्कुमतिलक पूर्वाचलरोहणकमाणिक्यम् । त्रिभुवनगृहैकदीप वन्दे लोककलोचन देवम् ॥ ४ ॥ कटुभिरपि कठोरचक्रवाकोत्करविरहरुज्वरशान्तिशीतवीर्यैः । तिमिरहतमय महोभिरञ्जयति जगन्नयनाघमुष्णभानुः ॥ ५ ॥ यद्विम्बमम्बरमणिर्यदपां प्रसूतिर्नक्तं निषिञ्चति यदग्निशिखासु भासः । ज्योत्स्ना निशासु हिमधाम्नि च यन्मयूखाः पूषा पुराणपुरुषः स नमोऽस्तु तस्मै ॥ ६ ॥ यो रक्ततामतितरामतुलं दधानो दिक्प्रौढदारपरिमोरहनवासवासः । योषिद्द्रयीपतिविडम्बनभृत्स शश्वत्त्यादायपायसमुदायहरो रविर्नः ॥ ७ ॥ ब्रह्माण्डसपुटकलेवरमध्यवर्ति चैतन्यपिण्डमिव मण्डलमस्ति यस्य । आलोकितोऽपि दुरितानि निहन्ति यस्तं मार्तण्डमादिपुरुषं प्रण-

१ फेनपिण्ड २ खण्डयतु ३ पापानि ४ नायिकाविशेषा ५ कमलम् ६ पूर्वदिश•

मामि नित्यम् ॥ ८ ॥ सिन्दूरस्पृहया स्पृशन्ति करुणा कुम्भस्थमाधोरणा मिल्ली पल्लवशङ्कया विचिन्वते सान्द्रद्रुमा द्रोणिषु । कान्ताः कुङ्कुमगङ्कया करतले मृद्रन्ति लग्नं च यत्तत्तेजः प्रथमोद्भव भ्रमकर सौरं चिरं पातु वः ॥ ९ ॥ एकस्मिन्नयने भृश तपति यः काले स दाहक्रमो येनातन्चत यत्प्रकागसमयेनैषा पदं दुर्लभम् । सा व्योमावयवस्य यन्न विदिता लोके गतिः शाश्वती श्रीसूर्यः सुरसेवितोऽपि हि महादेवः स नश्चायताम् ॥ १० ॥ जैम्मारातौभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुं रक्तैः सिक्ता इवौघैरुदयगिरितटीधातुधाराद्रवस्य । आयान्त्या तुल्यकालं कमलवनरुचेवारुणा वो विभूत्यै भूयासुर्भासयन्तो भुवनमभिनवा भानवो मानवीया ॥ ११ ॥ मुक्तिप्रह्वाय दातु मुकुलपुटकुटीकोटरक्रोडलीना लक्ष्मीमाक्रष्टुकामा इव कमलवनोद्घाटन कुर्वते ये । कालाकारान्यकाराननपतितजगन्माध्वसध्यसकल्या कल्याणं व क्रियासु किसलयरुचयस्ते करा भास्करम्य ॥ १२ ॥ साटोपव्योमहट्टोषितरजनिवणिङ्नायकोन्मुक्ततारा मुक्ताहारापहारात्तरलखगरवप्रोत्थिताकीर्तिशान्त्यै । कर्षन्नम्भोजकुम्भोदरकुहरबहिर्निःसरत्षट्पदालीकालव्यालीं करेणाकलयतु दिनकृत्कल्मषोन्मूलन वं ॥ १३ ॥ चैक्री चकोरपङ्क्ति र्हरिरपि च र्हरीन्र्धूर्जटिर्धूर्ध्वर्जान्तार्नक्षं नक्षत्रनाथोऽरुणमपि वरुणः कूबराय कुबेरः । रह सद्भूः सुराणा जगदुपकृतये नित्ययुक्तस्स यस्स स्तौति प्रीतिप्रसन्नोऽन्वहमुहिमरुचे. सोऽवतात्स्यन्दनो वः ॥ १४ ॥ कि छत्रं कि नु रत्नं तिलकमृत तथा कुण्डलं कौस्तुभो वा चक्र वा वारिज वेल्यमरयुवतिभिर्यद्विद्वेक्षिदेहे । ऊर्ध्वं मौलौ ललाटे श्रवसि हृदि करे नामिदेशे च दृष्ट पायात्तद्वोऽर्कबिम्ब स च दनुजरिपुर्वर्धमानः क्रमेण ॥ १५ ॥ शीर्णश्रोणाङ्घ्रिपाणीन्वैणिभिरेषंधनर्घैर्घराव्यक्तघोषान्दीर्घाँवैतानघोटैः पुनरपि घटयत्येक उल्लङ्घयय्यः ।' धर्मारोग्रोस्त्व वोऽन्तर्दिग्गुणर्घनैघृणानिर्निर्विनवृत्तेर्द्दत्तार्घाः सिद्धसङ्घैर्विदधतु घृणर्यः शीघ्रंमहोविघातम् ॥ १६ ॥

किरणाः

करजालमपूर्वचेष्टितं वस्तदभीष्टप्रदमस्तु तिग्मभासः । क्रियते भवबन्धनाद्विमुक्तिः प्रणतानामुपसेवितेन येन ॥ १७ ॥ युष्माकमम्बरमणेः प्रथमे मयूखास्ते मङ्गलं विदधतूदयराग-

१ इन्द्र. २ क्रयविक्रयस्थानम् ३ विष्णु ४ कीलकः ५ इन्द्र• ६ अश्वान् ७ यानमुखम् ८ चक्र ९ युगधर १० वेग• ११ चूडारत्नम् १२ यतो विष्णोर्नाभिदेशे कमलं वर्तते १३ वामनाकृत्या १४ कुष्ठरोगविशीर्णनासिकापादपाणीन् १५ क्षतविशिष्टे • १६ शरीरे. १७ चिरकाल ग्रस्तान् १८ सूर्यस्य १९ सततकृपा• २० रश्मय. २१ पापनाशम्

| २८ | सुभाषितरत्नभाण्डागारम् | [ १ प्रकरणम् | | :--- | :--- |

भाजः । कुर्वन्ति ये दिवसजन्ममहोत्सवेषु सिन्दूरपाटल-
मुखीरिव दिक्पुरंध्रीः ॥ १८ ॥ सिन्दूराणीव सीदत्कृपण-
कुण्ठवधूमूर्ध्नि ये सचरन्तः प्रेक्ष्यन्ते दिक्षु शैला शिखरभुवि
लसत्पद्मरागाङ्कुरा यैः । धुन्वन्ते ध्वान्तधाराः सह दुरित-
चयैर्दूरदृश्याः सुदृश्याः पान्तु त्वा पद्मबन्धोररुणकिरणाः
पूरणाः पद्मबन्धोः ॥ १९ ॥

तुरगाः

अवतु नः सवितुस्तुरगावली समतिलङ्घिततुङ्गपयोधरा
स्फुरितमध्यगतोरणनायका मरकतैकलतेव नभःश्रियः ॥ २० ॥

चन्द्रः

लालयन्तमरविन्दवनानि क्षालयन्तमभितो भुवनानि ।
पालयन्तमथ कोककुलानि ज्योतिषा पतिमहं महयामि ॥ १ ॥रविमावसते सतां क्रियायै सुधया तर्पयते सुरान्पितॄंश्च । तमसा
निशि मूर्च्छतां निहन्त्रे हरचूडानिहितात्मने नमस्ते ॥ २ ॥
स्वर्भानुप्रतिवारणारणमिलद्दन्तोद्भवैश्चालीर्पतयाळुदीधि-
तिसुधासारस्तुषारद्युतिः । पुष्पेष्वासनतत्प्रियार्पणरिणयानन्दा-
भिषेकोत्सवे देव प्राससहस्रधारकलशश्रीरस्तु नस्तुष्टये ॥ ३ ॥

पृथिवी

स्वर्गौकोभिरदोनिवासिपुरुषारख्यातिशुद्धाध्वरस्वाहाकार-
वषट्क्रियोत्थममृतं स्वादीय आदीयते । आम्नायप्रवणैरलंकृति-
जुषेऽमुष्यै मनुष्यैः शुभैर्दिव्यक्षेत्रसरित्पवित्रवपुषे देव्यै
पृथिव्यै नमः ॥ १ ॥

१ मेघाः, पक्षे,-स्तनौ २ अरुणरूपो नायकः सारथिर्यस्याः, पक्षे,-अरुण आरक्तो नायको हारमध्यमणिः ३ सूर्यतुरगाणां हरितवर्णत्वादित्यर्थः१ गिलनम् २ छिद्रकरणसाधनम् ३ दन्तदशनकृतविवरपरम्परा ४ पतनशीला ५ मदनः ६ विवाहः ७ देवैः

इति श्रीसुभाषितरत्नभाण्डागारे प्रथमं मङ्गलाचरणप्रकरणं समाप्तम्

द्वितीयं सामान्यप्रकरणम्

सुभाषितप्रशंसा

भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती । तस्याद्धि काव्यं मधुरं तस्मादपि सुभाषितम् ॥ १ ॥

सुभाषितेन गीतेन युवतीनां च लीलया । मनो न भिद्यते यस्य स योगी अथवा पशुः ॥ २ ॥

सुभाषितमयैर्द्रव्यैः संग्रहं न करोति यः । सोऽपि प्रेस्तावयज्ञेषु का प्रदास्यति दक्षिणाम् ॥ ३ ॥

संसारकटुवृक्षस्य द्वे फले ह्यमृतोपमे । सुभाषितरसास्वादः संगतिः सुजने जने ॥ ४ ॥

सुभाषितरसास्वादबद्धरोमाञ्चकञ्चुकाः । विनापि कामिनीसङ्गं कवयः सुखमासते ॥ ५ ॥

पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥ ६ ॥

धर्मो यशो नयो दाक्ष्यं मनोहारि सुभाषितम् । इत्यादिगुणरत्नानां संग्रही नावसीदति ॥ ७ ॥

संगीतपि साहित्यं सरस्वत्याः स्तनद्वयम् । एकमापातमधुरमन्यदालोचनामृतम् ॥ ८ ॥

शिशुर्वेत्ति पशुर्वेत्ति वेत्ति गानरसं फणी । साहित्यरसमाधुर्यं शंकगे वेत्ति वा न वा ॥ ९ ॥

द्राक्षा म्लानमुखी जाता शर्करा चाश्मतां गता । सुभाषितरसस्याग्रे सुधा भीता दिवं गता ॥ १० ॥

संसदि तदेव भूषणमुपकारकमेव धनं मुख्यम् । सूक्तं दधति सुवर्णं कल्याणमनर्घमिह धन्याः ॥ ११ ॥

कथमहि मनुष्यजन्म संप्रविशति सदसि विबुधगणितायाम् । येन न सुभाषितमृतमाह्लादि निपीतमातृप्तेः ॥ १२ ॥

अंकलितशब्दालंकृति-रनुकूला स्खलितपदन्निवेशापि । अभिसारिकेव रमयति सूक्तिः सोत्कंपशृङ्गारा ॥ १३ ॥

आस्वादितदयिताधरसुधारसस्येव सूक्तयो मधुराः । अकलितरसालमुकुलो न कोकिलः कैर्मुहुर्व्यथति ॥ १४ ॥

अवसरपठितं सर्वं सुभाषितत्वं प्रयात्यसूक्तमपि । क्षुधि कदर्शनमपि नितरां भोक्तुः संपद्यते स्वादु ॥ १५ ॥

यस्य वक्त्रकुहरे सुभाषितं नास्ति नाप्यवसरे प्रजलपति । आगतः सदसि धीमतामसौ लेप्यनिर्मित इवावभासते ॥ १६ ॥

सुभाषितं हारि विशल्यधोगलान्न दुर्जनस्यार्करिपोरिवामृतम् । तदेव धत्ते हृदयेन सज्जनो हरिमहॉरलमियातिनिर्मलम् ॥ १७ ॥

नायं प्रयाति विकृतिं विरसो न यः स्यान्न क्षीयते बहुजनैर्नितरां निपीतः । जाड्यं निहन्ति रुचिमेति करोति तृप्तिं नूनं सुभाषितरसोऽन्यर सातिशायी ॥ १८ ॥

धन्याः शुचीनि सुरभीणि गुणोम्भितानि वाग्विदूषः स्ववदनोपवनोद्गतायः । उधृत्य सूक्तिकुसुमानि सतां विविक्तवर्णानि कर्णपुलिनेष्ववतंसयन्ति ॥ १९ ॥

किं हारैः किमु कङ्कणैः किमसमैः कर्णावतंसैरलं केयूरैर्मणिकुण्डलैरलमलं साडम्बरैरम्बरैः । पुसामेकसखण्डितं पुनरिदं मन्यामहे मण्डनं यन्निष्पीडितपंवर्णा-मृतकरस्येन्दोपमाः सूक्तयः ॥ २० ॥

खिन्नं चापि सुभाषितेन रमते स्वीयं मनः सर्वदा श्रुत्वान्यस्य सुभाषितं खलु मनः श्रोतुं पुनर्वाञ्छति । अज्ञानज्ञानवतोऽप्यनेन हि वशीकर्तुं समर्थो भवेत्कर्तव्यो हि सुभाषितस्य मनुजैरावश्यकः संग्रहः ॥ २१ ॥

सुव्याहृतानि धीराणां फलतः परिचिन्त्य य । अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति ॥ २२ ॥

सुव्याहृतानि सूक्तानि सुकृतानि ततस्ततः । सचिन्वन् धीर आसीत शिलाहारी शिलं यथा ॥ २३ ॥

विद्याप्रशंसा

अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति । व्ययतो वृद्धिमायाति क्षयमायाति संचयात् ॥ १ ॥

अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् । सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः ॥ २ ॥

सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम् । अहार्यत्वादनर्घ्यत्वादक्षयत्वाच्च सर्वदा ॥ ३ ॥

हर्तुर्न गोचरं याति दत्ता भवति विस्तृता । कल्पान्तेऽपि न या नश्येत्किमन्यद्विद्यया समम् ॥ ४ ॥

ज्ञातिभिर्विभज्यैते नैव चोरेणापि न नीयते । दाने नैव क्षयं याति विद्यारत्नं

[पादटिप्पण्यः / Footnotes]

वामभागटिप्पणी (Left Column Notes):

• १ प्रसङ्ग
• २ न नश्यति
• ३ पाषाणताम्
• ४ काञ्चनम्, पक्षे, - सुवृत्तदैर्घ्यकम्
• ५ पण्डितपूर्णाय व्युत्पत्यार्या च
• ६ न कलिता शब्दस्यालकृतिर्यया अनुप्रामादिशब्दालकृतिशून्येष्यर्थ, पक्षे, -अकलित शब्दो यथैतादृग्यलंकृतिभूषणं यस्या सशब्दभूषणव स्वेडन्यस्य ज्ञानं भविष्यतीति धियेति भाव
• ७ द्रुत रमप्रलायिका, पक्षे,-नायकुचित्तानुकूल्यवती
• ८ कूटपदाना म्रथनं यत्र, पक्षे, -स्थानादन्यत्र पतनं यथा स्यात्तथा चर। विन्यासो यस्या
• ९ सुभाषितम्, पक्षे,-शोभनोक्तिमती
• १० उत्कृष्टाऽऽलिङ्गनारसवती, पक्षे,-अहमस्याय ममेति रतिपरिपोषवती
• ११ मधुरम्
• १२ वदति

दक्षिणभागटिप्पणी (Right Column Notes):

• १ बिले
• २ पङ्करचित
• ३ राहो
• ४ कौस्तुभमणि
• ५ धिक्कारम्
• ६ मान्यम्
• ७ अन्यरसानतिक्रम्य वर्तत इत्यर्थ
• ८ कर्णेभूषणैः
• ९ कान्तिभि
• १० पूर्ण
• ११ किरणा
• १२ नामत्युत्तम यस्यात्
• १३ विभज्यते

३० सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्

महाधनम् ॥ ५ ॥ संयोजयति विद्यैव नीचगापि नरं सरित् । समुद्रमिव दुर्धर्षं नृप भाग्यमतः परम् ॥ ६ ॥ विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये । आद्या हास्याय वृद्धत्वे द्वितीयाद्रियते सदा ॥ ७ ॥ शुनः पुच्छमिव व्यर्थं जीवितं विद्यया विना । न गुह्यगोपने शक्तं न च दंशनिवारणे ॥ ८ ॥ सद्विद्या यदि का चिन्ता वैराकोदरपूरणे । शुकोऽप्यशनमाप्नोति राम रामेति च ब्रुवन् ॥ ९ ॥ अनपेक्षितगुरुवचना सर्वान्ग्रन्थीन्विभेदयति सम्यक् । प्रकटयति पररहस्यं विमर्शशक्तिर्निजा जयति ॥ १० ॥ वसुमतीपतिना न सरस्वती बलवता रिपुणापि न नीयते । समविभागहरैर्न विभज्यते विबुधबोधबुधैरपि सेव्यते ॥ ११ ॥ श्रियः प्रदुग्धे विपदो रुणद्धि यशांसि सूते मलिनं प्रमाष्टिं । संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धिः किल कामधेनुः ॥ १२ ॥ न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि । व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ॥ १३ ॥ मातेव रक्षति पितेव हिते नियुङ्क्ते कान्तेव चाभिरमयत्यपनीय खेदम् । लक्ष्मीं तनोति वितनोति च दिक्षु कीर्तिं किं किं न साधयति कल्पलतेव विद्या ॥ १४ ॥ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः ॥ १५ ॥ विद्या नाम नरस्य कीर्तिरतुला भाग्यक्षये चाश्रयो धेनुः कामदुघा रतिश्च विरहे नेत्रं तृतीयं च सा । सत्कारायतनं कुलस्य महिमा रत्नैर्विना भूषणं तस्मादन्यमुपेक्ष्य सर्वविषयं विद्याधिकारं कुरु ॥ १६ ॥

काव्यप्रशंसा

कान्पृच्छामः सुराः स्वर्गे निवसामो वयं भुवि । किं वा काव्यरसः स्वादुः किं वा स्वादीयसी सुधा ॥ १ ॥ निर्व्यथानि पद्यानि यद्यनाढ्यस्य का क्षतिः । भिक्षुकक्षाविनिक्षिप्तः किमिक्षुर्नीरसो भवेत् ॥ २ ॥ याता यान्ति च यातारो लोकाः शोकाधिका भुवि । काव्यसम्बन्धिनी कीर्तिः स्थायिनी निरपायिनी ॥ ३ ॥ नवोक्तिर्जातिरग्राम्या श्लेषोऽक्लिष्टः स्फुटो रसः । विकटाक्षरसंबन्धः कृत्स्नमेकत्र दुष्करम् ॥ ४ ॥ सद्भिर्मव्ये हिते काव्ये वृथा दुर्जनगर्जनम् । चण्डीशाङ्गीकृते चन्द्रेऽरुंतुदः किं विधुंतुदः ॥ ५ ॥ त एव पदविन्यासास्ता एवार्थविभूतयः । तथपि नव्यं भवति काव्यं ग्रथनकौशलात् ॥ ६ ॥ सरसापि कवेर्वाणी हरिनामाङ्किता यदि । सादरं गृह्यते तज्ज्ञैः शुक्तिर्मुक्तान्विता यथा ॥ ७ ॥ काव्यस्याग्रफलस्यापि कोमलस्येतरस्य च । बन्धच्छायाविशेषेण रसोऽप्यन्यादृशो भवेत् ॥ ८ ॥ शब्दशक्त्यैव कुर्वाणा सर्वदानवनिवृत्तिम् । काव्यविद्या श्रुतिगता स्यान्मृतस्यापि जीवनी ॥ ९ ॥ श्लिष्टा सैभङ्गा सद्वर्ण्या निर्दोषा सद्गुणा मृदुः । नानाभङ्गीविलासा चेत्कृतिर्विस्तृतिरन्यथा ॥ १० ॥ धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च । करोति कीर्तिं प्रीतिं च साधुकाव्यनिषेवणम् ॥ ११ ॥ उमामिमां समुद्धीक्ष्य शीतदीधितिशेखर । एषापि भारती भानुयुत सीत्कृत्य नर्तति ॥ १२ ॥ अध्वनि पदग्रहरूपर मदयति हृदयं न वा न वा श्रवणम् । काव्यमभिन्नमभाया मञ्जीर केलिवेलायाम् ॥ १३ ॥ अविदितगुणापि सुकवेर्भणितिः कर्णेषु वमति मधुधाराम् । ह्यनधिगतपरिमलापि हि हरति दृशं मालतीमाला ॥ १४ ॥ ख्यातिं गमयति सुजनं सुकविर्विदधाति केवलं काव्यम् । पुष्णाति कमलमम्भो लक्ष्म्या तु रविर्नियोजयति ॥ १५ ॥ कृतमन्दपदन्यासा विकचेश्रीश्चोशखण्डभङ्गवती । कस्य न कम्पयते कं जरेव जीर्णस्य सत्कवेर्वाणी ॥ १६ ॥ सरसा सालंकारा सुपदन्यासा सुवर्णमयमूर्तिः । आर्या तथैव भार्या न लभ्यते पुण्यहीनेन ॥ १७ ॥ सा कविता सा वनिता यस्याः श्रवणेन दर्शनेनापि । कविहृदयं विटहृदयं सरलं तरलं च सत्वरं भवति ॥ १८ ॥ अमरहिता सा कच्चवत्स्त्रीणां कुचवच्च सरंसहिता । लसदक्षरपीयूषाधरवत्कविता महात्मना जीयात् ॥ १९ ॥ सत्पात्रोर्पणयोचितसंतप्रतिबिम्बाभिनववस्तु । कस्य न जनयति हर्षं सत्काव्यं मधुरवचनं च ॥ २० ॥ सत्सूत्रसंविधानं सदलकारं सुवृत्तमच्छिद्रम् । को धारयति न कण्ठे सत्काव्यं माल्यमर्घ्यं च ॥ २१ ॥

पादटिप्पण्यः (Footnotes):

१ ज्ञानाय
२ मङ्गिला
३ श्लक्ष्णम्
४ नियोजयति
५ अन्तर्हितम्
६ उत्कृष्टानि
७ मर्मस्पृक्

१ कठिनस्त्येत्यर्थः
२ सर्वकाल नवसौख्यम्; पक्षे,-सर्वेषां रक्षसामानन्दम्
३ कविता, पक्षे,-काव्यस्य शुक्रस्य विद्या संजीविनीत्यर्थः
४ नानार्थशब्दयुक्ता
५ पदच्छेदवैचित्र्यादनेकार्थपदवती
६ कविता
७ रोग दुखदत्वात्
८ व्यङ्ग्यार्थशून्यम् यत्तु ध्वनिरुत्तमं काव्यं तद्भिन्नमित्यर्थः; पक्षे,-शिञ्जितशून्यम्
९ अनुप्रासमात्रार्थं पदग्रहं परमुत्कृष्टो यत्र; पक्षे,-अत्यन्तचरणसंलग्नम्
१० उक्ति
११ वर्षति
१२ सुप्तिङन्तादि; पक्षे,-चरणं
१३ प्रफुल्लशोभा; पक्षे,-विगता कच्चभीः केशशोभा यस्याः
१४ चारवो ये शब्दभङ्गा रचनाविशेषास्तद्वती; पक्षे,-स्खलितशब्दवती
१५ शिर
१६ अमरेभ्यो मूढेभ्यो हिता; पक्षे,-भ्रमेण भ्रान्त्या रहिता
१७ सरोमोलाभिः सहिता; पक्षे,-सरसेभ्यो हिता
१८ लसच्छोभायमानमक्षरमविनाशि पीयूषं तद्वन्माधुर्यं यस्मिन्, पक्षे,-लसन्त्यक्षराणि वर्णा एव पीयूषं यस्याम्
१९ स्थापनम्
२० सम्यग्बोध
२१ दोषरहितम्

काव्यप्रशंसा ३१

यदसेवनीयमसताममृतप्रायं सुवर्णविन्यासम् । सुरसार्थमयं काव्यं त्रिविष्टप वा समं विद्म. ॥ २२ ॥

सत्कविरमनाशी-र्निंस्तुषतरशब्दशालिपाकेन । तृप्तो दयिताधरमपि नाद्रियते का सुधा दासी ॥ २३ ॥

काव्यस्याक्षरमैत्रीर्भाजो न च कर्कशा न च ग्रन्थ्याः । शब्दा अपि पुरुषा अपि सौध एवार्थबोधाय ॥ २४ ॥

अन्तर्गूढानिधानव्यञ्जयतः प्रसद्-रहितस्य । सधर्मस्य नदस्य च न रसैः प्रीत्यै रसज्ञानाम् ॥ २५ ॥

आन्तरमिव बहिरिव हि व्यञ्जयितु रसमशेषत. सततम् । असती सत्कविसूक्तिः काचघटीति त्रय वेद ॥ २६ ॥

न ब्रह्मविद्या न च राज्यलक्ष्मीस्तथा यथेय कविता कवीनाम् । लोकोत्तरे पुसि निवेश्यमाना पुत्रीव हर्ष हृदये करोति ॥ २७ ॥

अनभ्रवृष्टिः श्रवणामृतस्य सरस्वतीविभ्रम-जन्मभूमिः । वैदर्भरीति. कृतिनामुदेति सौभाग्यलाभप्रति-भूः पदानाम् ॥ २८ ॥

सहोदरा. कुङ्कुमकेसराणा भवन्ति नून कविताविलासा । न शारदादेशमपास्य दृष्टस्तेषा यद-न्यत्र मया प्ररोहः ॥ २९ ॥

नमो नम. काव्यरसाय तस्मै निषिक्तमन्त. पृषतापि यस्य । सुवर्णता वक्रमुपैति सार्थोर्द्ध-वर्णता याति च दुर्जनस्य ॥३०॥

अर्थो गिरमपिहित पिहितश्च कश्चित्सौभाग्यमेति मरहट्टवधूकुचाम । नान्ध्रीपयोधर इवा-तितरा प्रकाशो नो गुर्जरोस्तन इवातितरा निगूढः ॥ ३१ ॥

रे रे खला. शृणुत मद्वचन समस्ताः स्वर्गे सुधास्ति सुलभा न तु सा भवद्भिः । कुर्मस्तदत्र भवतामुपकारकारि काव्यामृत पिबत तत्परमादरेण ॥ ३२ ॥

वाणी ममैव सरसा यदि रञ्जयित्री न प्रार्थये रसविदामवधानदानम् । सायंतनेषु मकरन्दवतीषु भृङ्गाः कि मल्लिकासु परैमन्त्रणमारभन्ते ॥ ३३ ॥

आख्यातनामवचनाचतुरस्रसन्धिसद्भावललितगुण सरस सुवृत्तम् । आसेदुषामपि दिं कविपुङ्गवाना तिष्ठत्य-खण्डमिह काव्यमय शरीरम् ॥ ३४ ॥

सरसपरिषत्कर्णश्राव्यं कवित्वरसायनं विरसमनसा नेतुं नेहामहे श्रवणान्तिकम् । मृगमदरस बिम्बोष्ठीना कठोरकुचोचितं जघननकटे क्लिन्ने लिम्पेज्जन्महिषस्य क ॥ ३५॥

अमृतजलधे. पाय पाय पयासि पयोधर. किरति करकास्ताराकारा यदि स्फटिकावना । तदिह तुलनामानीयन्ते क्षण कठिना पुन सततममृतस्यन्दोद्वारा गिर प्रैतिभावताम् ॥३६॥

प्रयच्छति चमत्कृति विरचनाविधौ चेतस. सभासु पठितो भवत्यसमसाधुवादासये । प्रथामुप-गतस्तनोत्यतितरामुदार यशो न पुष्यति मनोरथ कमिव काव्यचिन्तामणि. ॥ ३७ ॥

समुल्लसति वाचा सरसमधु-निष्यन्दलहरी समुन्मेषद्रेषी सकलरसपोषोपजनकः। न केषा-माधत्ते मनसि परितोष नवनवैर्विलासैरून्मीलद्विकचितमधूली-परिमलः ॥ ३८ ॥

यथा यूनस्तद्वत्परमरमणीयापि रमणी कुमाराणामन्त.करणहरण नैव कुरुते । मदुक्तिश्चेदन्तर्मद्-यति सुधीभूय सुधिया किमस्या नाम स्यादरसपुरुषा-नादरभरै. ॥ ३९ ॥

परिच्छिन्नस्वादोऽमृतगुडमधुक्षौद्रपयसा कदाचिच्याभ्यासाद्भजति ननु वैरस्यमधिकम् । प्रियाबिम्बोष्ठे वा रुचिरकविवाक्येऽप्यनवधिर्नवानन्दः कोऽपि स्फुरति तु रसोऽसौ निरुपमः ॥ ४० ॥

प्रैसत्तेयः पात्र तिलकयति यं सूक्तिरचना य आद्यः स्वादूना श्रुतिचुलुकलेहेन मधुना । यदात्मानो विद्याः परिणमति यश्चार्थवपुषा स गुम्फो वाणीना कविबृषनिशेव्यो विजयते ॥ ४१ ॥

सदा मध्ये यासामियमृतनिष्यन्दसरसा सरस्वत्युद्दामा वहति बहुमार्गी परिमलम् । प्रसाद ता एता धनपरिचिताः केन महता महाकाव्यव्योम्नि स्फुरितमधुरा यान्तु रुच्यः ॥ ४२ ॥

नव व्याकरणङ्गमेति पितरं न भ्रातर नार्किर्कं दूरात्सकुचि-तेव गच्छति पुनश्चाण्डालवच्छान्दसात् । मीमांसानिपुणं नपुसकमिति ज्ञात्वा निगस्त्यादरा काव्यालकरणङ्गमयेत्य कविता-कान्ता वृणीते स्वयम् ॥ ४३ ॥

रम्यार्थोक्तिनतूज्ज्वला रसमयप्राणा गुणोल्लासिनी चेतोरञ्जरीतिवृत्ति कवितापाकं वयो बिभ्रती । भावालकरणोचितागमवती सर्वत्र निर्दोष-ताशय्यार्मेङ्क्षति कामिनीव कविता कस्यापि पुण्यात्मनः ॥ ४४ ॥

निर्ह्रादं क्रकचक्षतै. किरति किं कर्णामृतं वल्लकी कि वा मुञ्चति मालती परिमलं पाषाणनिष्पेषणैः । इत्थं तारसर्कर्काशा धियमसौ जल्पोर्विकाल्याकुलैराकूटं कमनीय-कान्तिदमिरंतं कार्य कथ स्पन्दते ॥ ४५ ॥

यन्नाकृष्टसुवर्ण-सूत्रमिव यत्पद्यं सुमेरोस्तटादुन्मीलत्कुरुविन्दकन्दल इव स्वच्छः पदार्थस्तु यः । यत्राप्युल्लसदशुकान्तरलसत्कान्ता-कुचान्तोपमं व्यङ्ग्यं यत्तदहो कवित्वमपरं वाग्देवतोपप्लवः ॥ ४६ ॥

गुम्फ. पङ्कजकुड्मलद्युतिरुरस्तत्केसरोल्लासवानर्थो-ऽप्यन्तरसौरभप्रतितिभ व्यङ्ग्य चमत्कारि यत् । द्वित्रैर्यद्रसिकै-

पाद-टिप्पणी (Footnotes)

पाद-टिप्पणी (१–१९)पाद-टिप्पणी
१ सहृदयभिन्नानाम्; पक्षे,-पापवताम१ विदुषाम्
२ अमृततुल्यम्, पक्षे,-अमृतबहुलम्.२ मुरवल्ली
३ शोभनाक्षराणा विन्यासो ग्रथन यत्र, पक्षे-सुवर्णमयम्३ आनन्दस्य
४ शोभनरसार्थप्रचुरम्, पक्षे,-देवसमूहबहुलम्४ गच्छति.
५ प्रस्फोटनम्
६ निर्दोष
७ निर्दोषकव्यास्वादेनेत्यर्थ
८ एकवर्गघटितत्वादिरूपा
९ श्रुतिकटुक, पक्षे,-क्रूरतया
१० अविंदग्धप्रयुक्ता , पक्षे,-ग्राममात्रवासिन
११ व्याकरणसिद्धा , पक्षे,-निर्मलमतय..
१२ अभ्यन्तरे गूढस्थितान्, पक्षे,-अभ्यन्तरे निलीनान्
१३ प्रतिपाद्यविषयान्, पक्षे,-पदार्थान्
१४ व्यञ्जनाविधयानकुर्वतः; पक्षे,-अप्रकटयत .
१५ प्रसादेन काव्यगुणेन रहितस्य, पक्षे,-निर्मलतया रहितस्य
१६ काव्यस्य
१७ शृङ्गारादि., पक्षे,-जलम्.
१८ काश्मीरदेशम्.
१९ अन्येषामभिमतम्; अन्यै सह विचारविनिमयो वा.
३२सुभाषितरत्नभाण्डागारम्[ २ प्रकरणम्

...श्चिरं सहृदयैर्भृङ्गैरिवास्वाद्यते तत्काव्यं न पुनः भ्रमत्कुमुदै- र्यत्किंचिदुज्ज्वलितम् ॥ ४७ ॥ निन्द्यन्ते यदि नाम मन्द- मतिभिर्बकाः कवीनां गिरो रस्तूयन्ते न च नीरसेमृगदृशां वक्रा कटाक्षच्छटा । तद्दग्धव्यविदा सतामपि मनः किं नेहते वक्रतां धत्ते किं न हरः किरीटशिखरे वक्रां कला- मैन्दवीम् ॥ ४८ ॥ सानन्दप्रमदाकटाक्षविशिखैर्यैषां न भिन्नं मनो यैः संसारसमुद्रपातविधुरेष्वन्येषु पोतायितम् । यैर्दुर्वार- सरस्वतीविलसितं द्वित्रैः पदैर्गुम्फितं तेषामप्युपरि स्फुरन्ति मतयः कस्यापि पुण्यात्मनः ॥ ४९ ॥ वाणि त्वत्पदपद्मरेणु- कणिका या क्षान्तभूमिं सतां सम्प्राप्ता कवितालता परिणता सैवेयमुज्जृम्भते । त्वत्कर्णेऽपि चिराय यत्किसलयं सूक्तापदेशं शिरःकम्पभ्रंशितपारिजातकलिकागुच्छे विधत्ते पदम् ॥ ५० ॥

नाट्यप्रशंसा

प्रत्यङ्गमङ्कुरितसर्वरसायतारनव्योल्लसत्कुसुमराजिविराजि- बन्धम् । धर्मेतराशुरिव वक्रतयातिरम्यं नाट्यप्रबन्धमति- मङ्गलसंविधानम् ॥ १ ॥ देवानामिदमामनन्ति मुनयः कान्तं क्रतुं चाक्षुषं रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा । त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते नाट्यं भिन्न- रुचेर्जनस्य बहुधाप्येकं समाराधनम् ॥ २ ॥

कुकाव्यनिन्दा

किं तेन किल काव्येन मृद्यमानस्य यस्य ताः । उद्गन्धे- रिव नायान्ति रसामृतपरम्पराः ॥ १ ॥ किं तेन काव्यमधुना- प्लाविता रसनिर्झरैः । जडात्मानोऽपि नो यस्य भवन्त्यङ्कु- रितान्तराः ॥ २ ॥ यदा प्रकृत्यैव जनस्य रागिणो भृशं प्रदीप्तो हृदि मन्मथानलः । तदात्र भूयः किमनर्थपण्डितैः कुकाव्य- हव्याहुतयो निवेशिताः ॥ ३ ॥ तत्किं काव्यमनल्पपीत- मधुवत्कुर्यान्न यद्बुद्गतं मात्सर्यावृतचेतसां रसविशादप्युद्देति लोमसु । कम्पं मूर्ध्नि कपोलयुग्ममरुणं बाष्पाविले लोचने अध्यारोपितवस्तुकीर्तनपरं वाचः करालम्बनम् ॥ ४ ॥ या साधूनिव साधुवादमुखरान्मात्सर्यमूकानपि प्रोच्चैर्नो कुरुते सतां मतिमतां दृष्टिनं सा वास्तवो । या याताः श्रुतिगोचरं च सहसा हर्षोल्लसत्कंधरास्तिर्यञ्चोऽपि न मुक्तशष्पकवलास्ताः किं कवीनां गिरः ॥ ५ ॥

सामान्यकविप्रशंसा

जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः । नास्ति येषां यशःकाये जरामरणजं भयम् ॥ १ ॥ प्रस्तावे हेतुयुक्तानि च पठत्यविशङ्कितः । स कविस्तानि काव्यानि काव्ये तस्य परिश्रमः ॥ २ ॥ सुकवेः काव्यसौभाग्यं सुकविर्वेत्ति नापरः । कलाढवन्न जानाति परः कङ्कणचित्रताम् ॥ ३ ॥ सन्ति श्वान इवासंख्या जातिभाजो गृहे गृहे । उत्पादका न बहवः कवयः शरभा इव ॥ ४ ॥ कवयः परितुष्यन्ति नेतरे काव्य- सूक्तिभिः । न ह्यकूपारवत्कूपा वर्धन्ते विधुकान्तिभिः ॥ ५ ॥ कवीनां मानसं नौमि तरन्ति प्रतिभाम्भसि । यत्र हंसवयां- सीव भुवनानि चतुर्दश ॥ ६ ॥ अपूर्वो भाति भाग्याः काव्यामृतफले रसः । चर्वणे सर्वसामान्ये स्वादुवित्केवलः कविः ॥ ७ ॥ उत्फुल्लगलैरालापाः क्रियन्ते दुर्मुखैः सुखम् । जानाति हि पुनः सम्यक्कविरेव कवेः श्रमम् ॥ ८ ॥ ते धन्यास्ते महात्मानस्तेषां लोके स्थितं यशः । यैर्निबद्धानि काव्यानि ये वा काव्येषु कीर्तिताः ॥ ९ ॥ अमृतोन्मेक्षणे रागं कुर्वन्तु गरुडध्वजाः । कविर्गुरुडवन्मान्यमिन्द्रवज्रादिवृत्तकृत् ॥ १० ॥ काव्यमय्यो गिरो यावच्चरन्ति विशदा भुवि । तावत्सारस्वतं स्थानं कविरासाद्य तिष्ठति ॥ ११ ॥ अनन्त- पदविन्यासरचना सर्गसा कवेः । बुधो यदि समीपस्थो न कुंजन्मा पुरो यदि ॥ १२ ॥ कविः करोति पद्यानि लालय- त्युत्तमो जनः । तरुः प्रसूते पुष्पाणि मरुद्वहति सौरभम् ॥ १३ ॥ कविः करोति काव्यानि स्वादं जानन्ति पण्डिताः । सुन्दर्या अपि लावण्यं पतिर्जानाति नो पिता ॥ १४ ॥ कविः पिता पोषयति पालको रसिकः पतिः । कवितायुवतेर्नूनं सोदरास्तु विवेकिनः ॥ १५ ॥ तत्त्वं किमपि काव्यानां जानाति विरलो भुवि । मार्मिकः को मरन्दानामन्तरेण मधु- व्रतम् ॥ १६ ॥ साध्वीव भारती भाति सूक्तिसद्भूतचारिणी । आगम्यार्थवस्तुसंसर्गाद्वहिराज्ञा महाकवेः ॥ १७ ॥ कतिपय- निमेषवर्तिनि जन्मजरामरणविह्वले जगति । कल्पान्तकोटि- बन्धुः स्फुरति कवीनां यशःप्रसरः ॥ १८ ॥ कविवाक्या- मृततीर्थस्नानैनैः पूता भृशं यशोदेहाः । येषां त एव भूपा जीवन्ति मृता वृथैवान्ये ॥ १९ ॥ काव्यप्रपञ्चेपुच्छू रचयति काव्यं न सारविद्भवति । तरवः फलानि सुवते विन्दति सारं पतङ्गसमुदायः ॥ २० ॥ विगुणोऽपि काव्यबन्धः साधूना- मानने गतः स्वदते । फूत्कारोऽपि सुवंशैरनूद्यमानः श्रुतिं हरति ॥ २१ ॥ विद्वत्कवयः कवयः केवलकवयस्तु केवलं कपयः । कुलजा या सा जाया केवलजाया तु केवलं माया

पादटिप्पण्यः (Footnotes):

• १ रोमहर्षम् २ कीर्तिशरीरे
• १ स्वर्णकार २ समुद्र ३ अनेकपदानि, पक्षे,-विष्णुपदम्. आकाशमित्यर्थ ४ ब्रह्माण्डादिरससहिता, पक्षे,-वृष्टिप्रदा ५ कवयितु, पक्षे,-शुक्रस्य ६ पण्डित, पक्षे बुधग्रह ७ नास, पक्षे,-कु पृथ्वी तस्या जन्म यस्य मङ्गल इत्यर्थ ८ सान्निध्यम् ९ कीर्तिप्रकाश १० वित्त, निपुण. ११ सुवेणुभि

सामान्यकविप्रशंसा ३३

॥ २२ ॥ अवयः केवलकवयः कीरा स्यु. केवल धीराः।
वीराः पण्डितकवयस्तानवमन्ता तु केवल गवय ॥ २३ ॥
अहमपि परेऽपि कवयस्तथापि परमन्तर परिज्ञेयम्। ऐक्य
रलयोरपि यदि तत्कि करभायते कलमः ॥ २४ ॥ दिवम-
प्युपय[ातानामा]कल्पमनल्पगुणगणा येषाम्। रमयन्ति जग-
न्ति गिर कथमिव कवयो न ते वन्द्या ॥ २५ ॥ यास्यति
सज्जनहस्त रमयिष्यति त भवेच्च निर्दोषा। उत्पादितयापि
कविस्ताम्यति कथया दुहित्रेव ॥ २६ ॥ शीलाविज्जामारुला-
मोरिकाद्याः काव्य कर्तु सन्तु विज्ञा. स्त्रियोऽपि। विद्या वेत्तु
वादिनो निर्विजेतु दातु वक्तु यः प्रवीणः स वन्द्यः ॥ २७ ॥
सहृदया. कविगुम्फनिकासु ये कतिपया त इमे न
विशृङ्खला.। रसमयीषु लतास्विव षट्पदा हृदयसारजुषो न
मुखस्पृश. ॥ २८ ॥ लङ्कापते. संकुचित यशो यद्यत्कीर्तिपात्र
रघुराजपुत्र.। स सर्व एर्वाादिकवे. प्रभावो न कोपनीया
कवयः क्षितीन्द्रै ॥ २९ ॥ जयन्ति ते पञ्चमनादमित्र-
चित्रोक्तिसद्धर्मविभूषणेषु। सरस्वती यद्वदनेषु नित्यमाभाति
वीणामिव वादयन्ती ॥ ३० ॥ कुण्ठत्वमायाति गुण कवीना
साहित्यविद्याश्रमवर्जितेषु। कुर्यादनाद्रेषु किमङ्गनाना केशेषु
कृष्णागुरुधूपवासः ॥ ३१ ॥ महीपते. सन्ति न यस्य
पार्श्वे कवीश्वरास्तस्य कुतो यशांसि। भूपाः कियन्तो न
बभूवुरुर्व्या नामापि जानाति न कोऽपि तेषाम् ॥ ३२ ॥
किं चारुचारित्रविलासशून्या. कुर्वन्ति भूपा. कविसंग्रहेण।
किं जातु गुञ्जाफलभूषणाना सुवर्णकारेण वनेचराणाम्
॥३३॥ प्रतीयमान पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवी-
नाम्। यत्तत्प्रसिद्धावयवातिरिक्तमाभाति लावण्यमिवाङ्गना-
याः ॥ ३४ ॥ कवेरभिप्रायमशब्दगोचर स्फुरन्तमात्रेषु पदेषु
केवलम्। वदद्भिरङ्गै. कृतरोमविक्रियैर्जनस्य तूष्णींभवतो-
ऽयमञ्जलि. ॥ ३५ ॥ स्वप्रज्ञया कुञ्चिकयेव कच्चित्सारस्वत
वक्रिमभङ्गिभाजम्। कवीश्वर. कोऽपि पदार्थकोशमुद्भाव्य
विश्वामरण करोति ॥ ३६ ॥ तर्केषु कर्कशतराः स्युरथापि
पुंसा काले भवन्ति मृदव. कवितासु वाच.। दैत्येन्द्रशैलकु-
लिश दयिताकपोले नाथस्य कोमलमुदाहरण नख नः॥ ३७॥
ख्याता नराधिपतय. कविसंश्रयेण राजाश्रयेण च गता.
कवय. प्रसिद्धीम्। राज्ञा समोऽस्ति न कवे. परमोपकारी
राज्ञो न चास्ति कविना सदृशः सहायः ॥ ३८ ॥ तेऽनन्त-
वाङ्मयमहाणर्वहृष्टपाराः सायात्रिका इव महाकवयो जय-
न्ति। यत्सूक्तिपेलवलवङ्गलवैरवेमि सन्त. सद् सु वदनान्ध-
धिवासयन्ति ॥ ३९ ॥ त्रैलोक्यभूषणमणिर्गुणवर्गबन्धुरेक-
श्चकास्ति कविता सविता द्वितीय । शसन्ति यस्य महिमा-
तिशय शिरोभिः पादग्रह विदधत. पृथिवीभृतोऽपि ॥ ४० ॥
शब्दार्थमात्रमपि ये न विदन्ति तेऽपि या मूर्च्छनामिव मृगा.
श्रवणै पिबन्त.। सरुद्धसर्वकरणप्रसरा भवन्ति चित्रस्थिता
इव कवीन्द्रगिर नुमस्ताम् ॥ ४१ ॥ स्फारेण सौरभभरेण
किमेणनाभेस्तद्दानसारमपि सारमसारमेव। म्रक्सौमनस्यपि न
पुष्यति सौमनस्य प्रस्यन्दते यदि मधुद्रवमुक्तिदेवी ॥ ४२ ॥
अपि मुदमुपयान्तो वाग्विलासै. स्वकीयै परभणितिषु तृप्ति
यान्ति सन्त. कियन्न.। निजघनमकरन्दस्यन्दपूर्णांलवालः
कलगसलिलमेक नेहते कि रसाल. ॥ ४३ ॥ पदव्यक्तिव्यक्ती-
कृतसहृदयानन्दसरणी कवीना काव्ये न स्फुरति बुधमात्रस्य
धिषणा। नवक्रीडावेशव्यसनपिशुनो य. कुलवधूकटाक्षाणा
पन्था स खलु गणिकानामविषयः ॥ ४४ ॥ अय मे
वाग्गुम्फो विपदपदवैदग्ध्यमधुर स्फुरद्बन्धो वन्ध्यो जडहृदि
कृतार्थः कविहृदि । कटाक्षो वामाक्ष्या दरदलितनेत्रान्त-
गलितः किशोरे नि.सार. स तु किमपि यून स्थगयति ॥४५॥
मदुक्तिश्वेद्दन्तैर्मदयति सुधीभूय सुधियः किमस्या नाम
स्यादैरसपुरुषानादरभरै । यथा यूनस्तद्वत्परमरमणीयापि रमणी
कुमाराणामन्त.करणहरण नैव कुरुते ॥ ४६ ॥ मुजतरु-
वनच्छाया येषा निषेव्य महौजसा जलधिरशना मेदिन्यासी-
दसावकुतोभया। स्मृतिमापि न ते यान्ति क्ष्मापा विना यद-
नुग्रह प्रकृतिमहते कुर्मस्तस्मै नम कविकर्मणे ॥ ४७ ॥
यदि प्रभुरुदारधी सुरसकाव्यकौतूहलस्तथैव च सभासदाः
सदसि तद्गुणग्राहिण । सुवर्णसदलकृतिर्भवति तत्र नृत्योद्यता
मदीयरसनापटी रसघटीयमानन्दभू ॥ ४८ ॥ वदन्तु क॑ति-
चिद्घोताल्खफछठेते वर्णान्छठ. घट. पट इतींतरे पटु रतन्तु
वाक्पाटवात्। वय बकुलमञजरीगलदमन्दमाध्वीझरीधुरीण-
पद्तीतिभिर्भणितिभि. प्रमोदास्महे ॥ ४९ ॥ हे राजानस्त्यजत
सुकविप्रेमबन्धे विरोध शुद्धा कीर्ति. स्फुरति भवता नूनमेत-
त्प्रसादात्। तुष्टैर्बद्ध तदलघु रघुस्वामिन. सच्चरित्र कुद्वैर्नींत-
स्त्रिभुवनजयी हास्यमार्गं दशास्यः ॥ ५० ॥ अर्थान्केचिदु-
पासते कृपणवत्केचित्त्वलकुर्वते वेश्यावत्खलु धातुवादिन
इवोद्बध्नन्ति केचिद्रसान्। अर्थालंकृतिसंद्रैर्सेद्रवमुचा वाचा
प्रशस्तिस्पृशा कर्तारः कवयो भवन्ति कतिचित्पुण्यैरगण्यैरिह
॥ ५१ ॥ मन्दं निक्षिपते पदैानि परित. शब्दै समुद्दीक्षते

१ वाल्मीके २ 'चावी'इति लोके
५ सुरभा

१ कविता २ तोषयति ३ नीरम ४ शोभनान्यक्षराणि, पक्षे,-
हेम ५ काव्यरम, पक्षे,-उदकम् ६ वैयाकरणा ७ नैयायिका
८ द्रव्यम्, पक्षे,-काव्यार्थान् ९ भूषणानि, पक्षे,-काव्यालकरणानि
१० पारद, पक्षे,-काव्यरस ११ सुप्तिङन्तादानि, पक्षे,-पादविक्षेपे
चरणान् १२ शब्द शुद्धो वापशब्दो वेति सम्यग्विचारयति, पक्षे,-
ध्वनिमाकर्णयति

३४ सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्

नानार्थाहरणं च कोङ्क्षति मृदोलंकारमाकर्षति । आदत्ते सकलं सुवर्णनिचयं धत्ते रसान्तर्गतं दोषान्वेषणतत्परो विज- यते चोरोपमः सत्कविः ॥ ५२ ॥ स्वेच्छाभङ्गुरभाग्यमेघ- तडितः शक्या न रोद्धुं श्रियः प्राणानां सततं प्रयाणपटह- श्रद्धा न विश्राम्यति । त्राणं येऽत्र यशोमये वपुषि वः कुर्व- न्ति काव्यामृतैस्तानाराध्य गुरून्विधत्त सुकवीन्निर्गर्वमूर्धी- श्वराः ॥ ५३ ॥ कल्याणं भगवत्कथाकथनतः काव्यं विधातुः कवेस्तस्यैवाङ्गतया क्वचिद्रचयतः शृङ्गारवीरादिकम् । को दोषो भविता यदत्र कविताशैले समाश्रीयते पन्था व्यास- वसुधराश्रुतिभवग्रन्थादिषु प्रेक्षितः ॥ ५४ ॥ ते भूमिपतयो जयन्ति नतयो येषां द्विषद्भूभृता ते वन्द्या यतयो विशान्ति मतयो येषां परे ब्रह्मणि । ते श्लाघ्याः कवयो दयोमदभर- व्याजृम्भमाणाङ्गनादृक्पाता इव तोषयन्ति हृदयं येषां गिरां संचयाः ॥ ५५ ॥ भूतावेशनिवेशिताशय इव श्लोकं करो- त्याशु यः श्लाघन्ते कविरद्भूतोऽयमिति तं मिथ्या जना विस्मिताः । द्वित्राण्येव पुरः पदानि रचयन्पश्चात्समालोचयन्दूरं यः कवितां निनीषति कविः कामेव स स्तूयताम् ॥ ५६ ॥ सत्यं सन्ति गृहे गृहेऽपि कवयो येषां वचश्चातुरी खे हर्म्ये कुलकन्यकेव लभते स्वल्पैर्गुणैर्गौरवम् । दुष्प्रापं तु कोऽपि कोविदमतिर्यद्वाग्रसग्राहिणा पण्यस्त्रीव कलाकलापकुशला चेतांसि हर्तुं क्षमा ॥ ५७ ॥ धन्यास्ते कवयो यदीयरमना- रूक्षाध्वसंचारिणी धावन्तीव सरस्वती द्रुतपदन्यासेन निष्क्रा- मति । अस्माकं रसपिच्छिले पथि गिरां देवी नवीनोदयत्पी- नोत्तुङ्गपयोधरेव युवतिर्मान्थर्यमालम्बते ॥ ५८ ॥ साहित्ये सुकुमारवस्तुनि दृढन्यासग्रहग्रन्थिले तर्के वा सयि संविधा- तरि समं लीलायते भारती । शय्या वास्तु मृदूत्तरच्छदपटा दर्भार्डुरैरास्तृता भूमिर्वा हृदयंगमो यदि पतिस्तुल्या रति- र्योषिताम् ॥ ५९ ॥ येषां कोमलकाव्यकोशकलालीलावती भारती तेषां कर्कशतर्कवक्रवचनोद्वारेऽपि किं हीयते । यैः कान्ताकुचमण्डले कररुहाः सानन्दमारोपितास्ते किं मत्त- करीन्द्रकुम्भशिखरे नारोपणीया शराः ॥ ६० ॥ तर्के कर्कशवक्रवाक्यगहने या निष्ठुरा भारती सा काव्ये मृदुलो- क्तिसारसुरभौ सादेव मे कोमला । या प्रायः प्रियविप्रयु- क्तवनिताहत्कर्तने कर्तरी प्रेयोलालितयौवंते न मृदुला सा किं प्रसूनार्वली ॥ ६१ ॥ मातङ्गीमिव माधुरीं ध्वनिविदो नैव स्पृशन्त्युत्तमा व्युत्पत्तिं कुलकन्यकामिव रसोन्मत्ता न पश्यन्त्यमी । कस्तूरीघनसारसौरभसुहृद्व्युत्पत्तिमाधुर्ययोर्योगः कर्णरसायनं सुकृतिनः कस्यापि संजायते ॥ ६२ ॥ यत्सा- रस्वतवैभवं गुरुकृपापीयूषपाकोद्भवं तल्लब्धुं कविनेव नैव हठतः पाठप्रतिष्ठाजुषाम् । कासारं दिवस वसन्नपि पयःपूरं परं पङ्किलं कुर्वाणः कमलाकरस्य लभते किं सौरभं सेरिभः ॥ ६३ ॥ अस्थाने गमिता लय हतधिया वाग्देवता कल्पते धिक्काराय पराभवाय महते तापाय पापाय वा । स्थाने तु व्यथिता सता प्रभवति प्रख्या नये भूतये चेतोनिर्वृतये परो- पकृतये श्रान्ते शिवावासये ॥ ६४ ॥ वल्मीकप्रभवेण राम- नृपतिर्व्यासेन धर्मात्मजो व्याख्यात किल कालिदासकविना श्रीविक्रमाङ्को नृपः । भोजश्चित्तपबिल्हणप्रभृतिभिः कर्णोऽपि विद्यापते ख्यातिं यान्ति नरेश्वराः कविवरैः स्फारैर्न भेरीरवैः ॥ ६५ ॥ येऽप्यासन्निमकुम्भशायितपदा येऽपि श्रियं लेभिरे येषामप्यवसन्पुरा युवतयो गेहेष्वहश्चन्द्रिकाः । तांल्लोको- ऽयमवैति लोकतिलकान्स्नेहऽप्यजातानिव भ्रातः सकविकृत्य किं स्तुतिशतैरन्व जगत्त्वा विना ॥ ६६ ॥ मौलौ मन्दार- दामभ्रमदलिपटलीकाकली श्रोणिबिम्बे कूजत्काञ्चीकलापं चरणकमलयोर्मञ्जुमञ्जीरशिञ्जाम् । उत्सङ्गे कीरगीतिं स्तनभुवि मसृणं वल्हकीपञ्चमं वा यत्काव्ये ढत्तकर्णा शिव शिव मनुते भारती भारमेव ॥ ६७ ॥ कस्याचिद्व्राचि केश्चिन्ननु यदि विहितं दूषणं दुर्दुढैश्छिन्नं किं नस्तदा स्यात्प्रथित- गुणवतां काव्यकोटीश्वराणाम् । वाहाश्चेद्रन्धवाहाधिकविहित- जवाः पञ्चषाश्चान्धखञ्जाः का हानिः शेरशाहक्षितिप- कुलमणेरश्वकोटीश्वरस्य ॥ ६८ ॥

विशिष्टकविप्रशंसा

अमरसिंहः

प्रयोगव्युत्पत्तौ प्रतिपदविशेषार्थकथने प्रसक्तौ गाम्भीर्ये रसवति च काव्यार्थरचने । अगम्यायामन्तर्दिशि परिणता- र्थवचसोर्मतं चेदस्माकं कविरमरसिंहो विजयते ॥ १ ॥

कालिदासः

कवयः कालिदासाद्याः कवयो वयमप्यमी । पर्वते पर- माणौ च पदार्थत्वं प्रतिष्ठितम् ॥ २ ॥ निर्गतामलब्याक्यस्य कालिदासस्य सूक्तिषु । प्रीतिर्मधुरमार्द्रासु मञ्जरीष्विव जायते ॥ ३ ॥ कविरमरः कविरचलः कविरभिनन्दश्च कालिदासश्च । अन्ये कवयः कपयश्चापलमात्रं परं दधति ॥ ४ ॥ वयमपि कवयः कवयः कवयोऽपि च कालि-

१ श्लेषेण ०वनिना वानेकार्थानां संपादनम्, पक्षे,-सुवर्णरूप्यादीनां हरणम् २ इच्छति ३ उपमालंकारम्, पक्षे,-कङ्कणादिभूषणम् ४ सुरुचिरवर्णानां संचयम्, पक्षे,-हेमसंचयम् ५ शृङ्गारादिरसमिश्रम्, पक्षे,-रसा पृथ्वी तदन्तर्गतम् ६ काव्यदोषाणां गवेषणे तत्परः, पक्षे,-दोषा रात्रिरस्त्या मन्वेषण आसक्तः ७ वसुंधरा पृथ्वी तस्या श्रुतिर्लक्षणाया वल्मीक तत्र भवो वाल्मीकि ८ विरहित ९ युवतिसमूहे १ कर्पूरः २ महिषः ३ मृते

विशिष्टकविप्रशंसा ३५

दासाद्याः । दृषदो भवन्ति दृषदश्चिन्तामणयोऽपि हा दृषदः ॥ ५ ॥ साकूतमधुरकोमलैविलासिनीकण्ठकूजितप्राये । शिक्षासमयेऽपि मुदे रतीलीलाकालिदासोक्ती ॥ ६ ॥ पुरा कवीना गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासाः । अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव ॥ ७ ॥
गणेश्वरः
गणेश्वरकवेर्वचोविरचनैकवाचस्पते. प्रसन्नगिरिनन्दिनी-चरणपल्लव ध्यायतः । तथा जयति भारती भगवती यथा सा सुधा सुधीभवति सुभ्रुवामधरमाधुरी म्लायति ॥८॥
गुणाढ्यः
शश्वद्वाणद्वितीयेन नमदाकारधारिणा । धनुषेव गुणाढ्येन निःशेषो रञ्जितो जन. ॥ ९ ॥ सैमुद्दीपिकतदर्पा कृतगौरीप्रसाधना । हरलीलेव लोकस्य विख्याता बृहत्कथा ॥ १० ॥ अतिदीर्घजीविदोषाद्द्यासेन यशोऽपहारित हन्त । कैर्नोच्येत गुणाढ्यः स एव जन्मान्तरापन्न ॥ ११ ॥
गोविन्दराजः
इन्दुप्रभारसविद् विहग विहाय कीरानने स्फुरसि भारति का रतिस्ते । आद्य यदि श्रयसि जल्पतु कौमुदीना गोविन्दराजवचसा च विशेषमेष ॥ १२ ॥
जगन्नाथपण्डितः
कवयति पण्डितराजे कवयन्त्यन्येऽपि विद्वासः । नृत्यति पिनाकपाणौ नृत्यन्त्यन्येऽपि भूतवेतालाः ॥ १३ ॥ माधुर्यैरपि धुर्यांद्राक्षाक्षीरेक्षुमाक्षिकादीनाम् । वन्ध्यैव माधुरीय पण्डितरत्नस्य कवितायाः ॥ १४ ॥ गिरा देवी वीणागुणरणनहीनादरकरा यदीयाना वाचाममृतमयमाचामति रसम् । वचस्तस्याकर्ण्य श्रवणसुभग पण्डितपतेर्धुन्वन्मूर्धान नृपशुरथवाय पशुपति ॥ १५ ॥ मधु द्राक्षा साक्षादमृतमथ वामाधरसुधा कदाचित्केषाचित्खलु हि विदधीरन्नपि मुदम् । ध्रुव ते जीवन्तोऽप्यहह मृतका मन्दमतयो न येषामानन्द जनयति जगन्नाथभणितिः ॥ १६ ॥
जयदेवः
साध्वी मौध्वीक चिन्ता न भवति भवतः शर्करे कर्कशासि द्राक्षे द्रक्ष्यन्ति के त्वाममृत मृतमसि क्षीर नीर रसस्ते । माकन्द क्रन्द कान्ताधर धरणितल गच्छ यच्छन्ति भाव यावच्छृङ्गारसारस्वतमिह जयदेवस्य विश्वग्वचासि ॥ १७ ॥ज्योतिरीशः
यश्चत्वारि शतानि बन्धघटनालंकारभाञ्जि द्रुतं श्लोकाना विदधाति कौतुकवशादेकाहमात्रे कवि. । स्यातः क्ष्मातलमण्डलेष्वपि चतुःषष्टेः कलाना निधिः सगीतागमनागरो विजयते श्रीज्योतिरीशः कृती ॥ १८ ॥
दण्डी
जाते जगति वाल्मीकौ कविरित्यभिधामवत् । कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि ॥ १९ ॥ त्रयोऽध्ययस्त्रयो वेदास्त्रयो देवास्त्रयो गुणाः । त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः ॥ २० ॥
द्रोणः
सरस्वतीपवित्राणा जातिस्तत्र न देहिनाम् । व्यासस्पर्धी कुलालोऽभूद्यद्रोणो भारते कविः ॥ २१ ॥
धनदः
यथेय वाग्देवी सुकविमुखवासव्यसनिनी कुहूण्ठीषण्ठे विलसति तथा चेदनवधिः । तदा भूमीभागे निरुपमतमः किचिदिव वा समाधत्ते साम्य धनदमणितीना मधुरिमा ॥ २२ ॥
नरहरिः
यशोधननिधेर्यदा नरहरेर्वचो वर्ण्यते तदा गतमदा मदालसमरालवालरवाः । न विश्रमचरीकरीभवति चाधरी माधुरी सुधाकरसुधाझरीमधुकथा वृथा जायते ॥ २३ ॥
प्रवरसेनः
कीर्तिः प्रवरसेनस्य प्रयाता कुमुदोज्ज्वला । सागरस्य पर पार कपिसेनेव सेतुना ॥ २४ ॥
बाणः
हृदि लग्नेन बाणेन यन्मन्दोऽपि पद्क्रम । भवेत्कविकुरङ्गाणा चापल तत्र कारणम् ॥ २५ ॥ शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरुच्यते । शीलाभट्टारिकावाचि बाणोक्तिषु च सा यदि ॥ २६ ॥ जाता शिखण्डिनी प्राग्यथा शिखण्डी तथावगच्छामि । प्रागल्भ्यमधिकमाप्तु वाणी बाणो बभूवेति ॥ २७ ॥ श्लेषे केचन शब्दगुम्फविषये केचिद्रसे चापरेऽलकारे कतिचित्सदर्थविषये चान्ये कथावर्णने । आः सर्वत्र गभीरधीरकविताविन्ध्याटवीचातुरीसचरी कविकुम्भिकुम्भभिदुरो बाणस्तु पञ्चानन. ॥ २८ ॥
बिल्हणः
बिन्दुद्वन्द्वतरङ्गिताग्रसरणिः कर्ता शिरोबिन्दुकं कर्मेति

१ साभिप्रायम् २ रमोत्कर्षधायक रसनिष्ठगुणवत् ३ शब्दगुणशालि ४ अन्यर्था ५ कामोद्दीपिका, पक्षे,-भस्मीकृतमदना ६ वर्णितगौरीमाहात्म्या, पक्षे,-अलकृता पार्वती ययः ७ गुणाढ्यकृतो ग्रन्थ ८ जीवित्त्वम् ९ शवा १० हे मधो ११ आक्रोश कुरु १२ सर्वत .

१ कुमुदव च्छुभ्रा, पक्षे,-कुमुदो नाम कपि शोभते यत्र २ दिगन्तरे पक्षे,-समुद्रमुलङ्घ्य लङ्कादेशे, ३ काव्यविशेष , पक्षे,-सेतुबन्ध ४ द्रुपदपुत्री ५ यथा 'रावण. सीता जहार' इति वाक्ये 'रावण' इति पद बिन्दुद्वन्द्व (विसर्ग) युक्त कर्तृ, 'सीता' इति शिरोबिन्दु (अनुस्वार) युक्त कर्म एवमेव कर्तृकर्मपदे सर्वत्र भगवत इति निश्चयवन्तो जना

३६ सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्

प्रतिबोधितान्वयविदो ये येऽपि तेभ्यो नमः । ये तु ग्रन्थ- सहस्रशाणकषणत्रुट्यत्कलङ्कैर्गुणैर्मुलेखैः कवयन्ति विह्वण- कविस्तेष्वेव संनह्यति ॥ २९ ॥

भट्टारहरिचन्द्रः पदबन्धोज्ज्वलो हारी कृतवर्णक्रमस्थितिः । भट्टारहरि- चन्द्रस्य गद्यबन्धो नृपायते ॥ ३० ॥

भवभूतिः सुकविद्वितयं मन्ये निखिलेऽपि महीतले । भवभूति- शुकश्चायं वाल्मीकिस्तु तृतीयकः ॥ ३१ ॥ भवभूते सब- न्धाद्भूधरभूरेव भारती भाति । एतत्कृतकारुण्ये किमन्यथा रोदिति ग्रावा ॥ ३२ ॥ प्लावलीपूर्वकमन्यदास्तामसीम- भोगस्य वचोमयस्य । पयोधरस्येव हिमाद्रिजायाः परं विभूषा भवभूतिरेव ॥ ३३ ॥

भासः सूत्रधारकृतारम्भैर्नाटकैर्बहुभूमिकै । सपताकैर्यशो लेभे भासो देवकुलैरिव ॥ ३४ ॥

मयूरः तावत्कविविहङ्गानां ध्वनिलकेषु शस्यते । यावन्नो विशति श्रोत्रे मयूरमधुरध्वनिः ॥ ३५ ॥ दर्पं कविभुजङ्गानां गता श्रवणगोचरम् । विषविद्येव मायूरी मायूरी वाङ्निकृन्तति ॥ ३६ ॥

मातङ्गदिवाकरः अहो प्रभावो वाग्देव्या यन्मातङ्गदिवाकरः । श्रीहर्षस्या- भवत्सभ्यः समो बाणमयूरयोः ॥ ३७ ॥

मुरारिः भवभूतिमनादृत्य निर्वाणमतिना मया । मुरारिपद- चिन्तायामिदमाधीयते मनः ॥ ३८ ॥ मुरारिपदभक्तिश्चेत्तदा माघे रतिं कुरु । मुरारिपदभक्तिश्चेत्तदा माघे रतिं कुरु ॥ ३९ ॥ देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः । अब्धि- र्लङ्घित एव वानरभटैः किं त्वस्य गम्भीरतामापातालनिमग्न- पीवरतनुर्जानाति मन्थाचलः ॥ ४० ॥

रत्नखेटदीक्षितः विपश्चितामैपंश्चिमे विवादकेलिनिश्चले सपत्नजित्ययत्नतस्तु रत्नखेटदीक्षिते । बृहस्पतिः क्व जल्पति प्रसर्पति क्व मेर्प- राडसमुस्वस्तु षण्मुखः सुदुर्मुखश्चतुर्मुखः ॥ ४१ ॥

राजशेखरः बभूव वल्मीकभवः कविः पुरा ततः प्रपेदे भुवि भर्तृ- मेण्ठताम् । स्थितः पुनर्यो भवभूतिरेखया स वर्तते संप्रति राजशेखर ॥ ४२ ॥ पातु श्रोत्ररसायनं रचयितुं वाचः सतां समता व्युत्पत्तिं परमामवाप्तुमवधिं लब्धुं रसस्रोतसः । भोक्तुं स्वादु फलं च जीविततरोरर्थ्यस्ति ते कौतुकं तन्नातः शृणु गजशेखरकवे सूक्ती सुधास्यन्दिनी ॥ ४३ ॥

वाल्मीकिः कवीन्दुं नौमि वाल्मीकिं यस्य रामायणीं कथाम् । चन्द्रि- कामिव चिन्वन्ति चकोरा इव साधव ॥ ४४ ॥ सदूषणापि निर्दोषी सखरापि सुकोमला । नमस्तस्मै कृता येन रम्या रामायणी कथा ॥ ४५ ॥ योगीन्द्रश्छन्दसा सृष्टा रामायण- महाकवि । वल्मीकजन्मा जयति प्राच्यः प्राचेतसो मुनिः ॥ ४६ ॥ लौकिकानां हि साधूनामर्थं वागनुवर्तते । ऋषीणां पुनराद्यानां वाचमर्थोऽनुधावति ॥ ४७ ॥ आदिकवी चतु- रास्यौ कमलजवल्मीकजौ वन्दे । लोकश्लोकविधात्रोर्ययोर्भिदा लेशमात्रेण ॥ ४८ ॥ तमृषिं मनुष्यलोकप्रवेशविश्रामशाखिनं वाचाम् । सुरलोकादवतारप्रान्तऋखेदच्छिदं वन्दे ॥ ४९ ॥ विहितघनालङ्कारं विचित्रवर्णावलीमयस्फुरणम् । शक्रा- युधमिव वक्रं वल्मीकभुवं मुनिं नौमि ॥ ५० ॥ सति काकुत्स्थकुलोन्नतिकारिणि रामायणेऽपि कि काव्यम् । रोहति कुल्या गङ्गापूरे किं बहुरसे वहति ॥ ५१ ॥ भास्व- द्वंशवतसकीर्तिरमणीरङ्गप्रसङ्गस्वनद्वादित्रप्रथमध्वनिर्विजयते वल्मीकजन्मा मुनिः । पीत्वा यद्वदनेन्दुमण्डलगलत्काव्या- मृतान्धेः किमप्याकल्पं कविनूतनाम्बुदमयी कादम्बिनी वर्षति ॥ ५२ ॥

विजया सरस्वतीव कार्णाटी विजयाङ्का जयत्यसौ । या वैदर्भ- गिरा वासः कालिदासादनन्तरम् ॥ ५३ ॥

विज्जका नीलोत्पलदलश्यामां विज्जका मामजानता । वृथैव दण्डिना प्रोक्तं सर्वशुक्ला सरस्वती ॥ ५४ ॥

१ सुप्तिङन्ताद्यक्षरसमूहः, पक्षे,-चरण २ मनोहरः, पक्षे,-मुक्ताहारैर्युक्तः ३ अक्षराणि, पक्षे,-ब्राह्मणक्षत्रियादि ४ शिवैश्वर्यस्य ५ नगेन्द्रकन्या ६ सरस्वती ७ भवभूतिकृते करुणरसप्रधाने नाटके उत्तररामचरित इत्यर्थे ८ अपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम्' इति पद्ये ९ नाटकाचार्यः, पक्ष,-वास्तुविद्याज्ञाता १० प्रस्तावना, पक्षे,-अट्टालदिगृहायवविशेष ११ नाटकावयवविशेषः, पक्षे,-ध्वज १२ शिवैश्वर्यम्, पक्षे,-एतन्नामानं कविम् १३ विष्णुः, पक्षे,-कविविशेष १४ माघकाव्ये १५ अधे पातके मा प्रीतिं कुर्वित्यर्थः १६ मन्दराद्रि १७ पूर्वं इत्यर्थे

१ वासुकि २ दूषणो राक्षसविशेषः, पक्षे,-काव्यदोषा ३ खरो राक्षसविशेषः, पक्षे,-कर्कशत्वम् ४ वाल्मीक्यादीनाम् ५ ले लकारे शकारमात्रयोगेण लोकश्लोकयोर्भेदः, पक्षे,-किञ्चिन्मात्रम् ६ विहिता घना बह्वोऽलङ्कारा उपमादयो येन तम्, पक्षे,-विहितं घनानां मेघानामलकरणं येन तम् ७ विचित्रा वर्णानामक्षराणां यावली पङ्क्तिस्तत्प्रचुरस्फुरणं स्फूर्तिर्यस्य तम्, पक्षे,-वर्णा नीलपीताद्यस्तत्प्राङ्ग्विकार स्फुरणमुत्पत्तिर्यस्य तम् ८ वक्रोक्तिकुशलम्, पक्षे, यथाश्रुतम् ९ वाल्मीकिम्, पक्षे,-वल्मीकाज्जातम् इन्द्रधनुषोऽपि तत एवोत्पत्तिरिति लौकिकम् 'वल्मीकाग्राद्भवति धनु खण्डमाखण्डलस्य' इति कालिदास.

विशिष्टकविप्रशंसा-कुकविनिन्दा

३७

व्यासः

नमः सर्वविदे तस्मै व्यासाय कविधेसे । चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतम् ॥ ५५ ॥ अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः । अभाललोचनः शम्भुर्भगवान्बादरायणः ॥ ५६ ॥ श्रवणाञ्जलिपुटपेयं विरचितवान् भारताख्यममृतं यः । तमहंमरागमकृष्णं कृष्णद्वैपायनं वन्दे ॥ ५७ ॥ व्यासगिरा निर्यास सारं विश्वस्य भारतं वन्दे । भूषणतयैव सञ्ज्ञा यैदङ्किता भारती वहति ॥ ५८ ॥

शाक्लमह्लः

एकोऽभूत्पुलिनात्ततस्तु नलिनाच्चान्योऽपि नौकोरभूत्प्राच्यान्ते त्रय एव दिव्यकवयो दीव्यन्तु देव्या गिरा । अर्वाचो यदि गद्यपद्यरचनाचातुर्यवागुद्गतास्तानसर्वानतिशय्य खेलतितरा शाक्लमह्लः कवि ॥ ५९ ॥

सातवाहनः

ॲविनाशिनमग्राम्यमकरोत्सातवाहनः । विशुद्धजातिभिः कोशं रत्नैरिव सुभाषितैः ॥ ६० ॥

सुदर्शनः

न मुग्धदयिताधरे न विषभाजि रत्नाकरे न राहुमुखकोटरे न किल तार्क्ष्यपक्षान्तरे । सुदर्शनकवीश्वरे रसिकचक्रचूडामणौ गुणौकसि सुधा बुधास्त्यजत सान्द्रचन्द्रप्रभम् ॥ ६१ ॥

सुबन्धुः

कवीनामगलद्दर्पो नूनं वासवदत्तया । शक्त्येव पाण्डुपुत्राणां गतया कर्णगोचरम् ॥ ६२ ॥

कविवृन्दम्

उपमा कालिदासस्य भारवेरर्थगौरवम् । दण्डिनः पदलालित्य माघे सन्ति त्रयो गुणाः ॥ ६३ ॥ माघेन विघ्नितात्साहा नोत्सहन्ते पदकमे । खरन्तो भारवेरेव कवयः कपयो यथा ॥ ६४ ॥ श्रीरामायणभारतबृहत्कथानां कवीन्नमस्कुर्मः । त्रिस्रोता इव सरसा सरस्वती स्फुरति यैर्भिन्ना ॥ ६५ ॥ प्राचेतसव्यासपाराशराद्याः प्राञ्चः कवीन्द्रा जगदक्षितास्ते । गोष्ठी नवीनापि महाकवीनां पूज्या गुणज्ञैर्भुवनोपकर्त्री ॥ ६६ ॥ धन्वन्तरिक्षपणकामरसिंहशङ्कुवेतालभट्टघटखर्परकालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभाया रत्नानि वै वररुचिर्नव विक्रमस्य ॥ ६७ ॥ यस्याश्चोरश्चिकुरनिकरः कर्णपूरो मयूरो भासो हासः कविकुलगुरुः कालिदासो विलासः । हर्षो हर्षो हृदयवसतिः पञ्चबाणस्तु बाणः केषां नैषा कथय कविताकामिनी कौतुकाय ॥ ६८ ॥ भासो रामिलसोमिलौ वररुचिः श्रीसाहसाङ्कः कविर्मेण्ठो भारविकालिदासतरलाः स्कन्दः सुबन्धुश्च यः । दण्डी बाणदिवाकरौ गणपतिः कान्तश्च रत्नाकरः सिद्धा यस्य सरस्वती भगवती के कस्य सर्वेऽपि ते ॥ ६९ ॥ वाचः पल्लवयत्युमापतिधरः संदर्भशुद्धि गिरां जानीते जयदेव एव शरणं श्लाघ्यो दुरूहद्रुते । शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धनस्पर्धी कोऽपि न विश्रुतः श्रुतिधरो धोयीकविक्ष्मापतिः ॥ ७० ॥ माघश्चोरो मयूरो मुररिपुरपरो भारविः सारविद्यः श्रीहर्षः कालिदासः कविरथ भवभूत्याह्वयो भोजराज । श्रीदण्डी डिण्डिमाख्यः श्रुतिमुकुटगुरुर्भल्लटो भट्टबाण ख्याताश्चान्ये सुबन्ध्यादय इह कृतिभिर्विश्वमाह्लादयन्ति ॥ ७१ ॥

कुकविनिन्दा

अप्रगल्भा पदन्यासे जैननीरागहेतवः । सन्त्येके बहुलालापाः कवयो बालका इव ॥ १ ॥ कविभिर्नृपसेवांसु वित्तालंकारकारिणी । वाणी वेश्येव लोमेन परोपकरणीकृता ॥ २ ॥ अन्यवर्णपरावृत्त्या बन्धचिह्ननिगूहनैः । अनाख्यातः सता मध्ये कविश्चौरो विभाव्यते ॥ ३ ॥ प्रायः कुकवयो लोके रागाधिष्ठितदृष्टयः । कोकिला इव जायन्ते वाचालः कामकारिणः ॥ ४ ॥ किं कवेस्तस्य काव्येन सर्ववृत्तान्तगामिनी । कथेव भारती यस्य न प्राप्नोति दिगन्तरम् ॥ ५ ॥ किं कवेस्तस्य काव्येन किं काण्डेन धनुष्मतः । परस्य हृदये लग्नं न घूर्णयति यच्छिरः ॥ ६ ॥ मुखमात्रेण काव्यस्य करोत्यहृदयो जनः । छायामच्छामपि श्यामां राहुस्तारापतेरिव ॥ ७ ॥ श्लोकार्थस्वादकाले तु शब्दोत्पत्तिविचिन्तकाः । नीवीविमोक्षवेलायां वस्त्रमौल्यविचिन्तका ॥ ८ ॥ अधिभिन्नपल्लिगल्ल स्याद्गलत्पल्लवोऽपि वाचालः । नागरनरवरपरिषदि कस्य मुखादक्षरं क्षरति ॥ ९ ॥ गणयन्ति नैपशब्दं न वृत्तभङ्गं क्षयं न चौर्थस्य । रसिकलेनाकुलिता वेश्येवापतयः कुकवयश्च ॥ १० ॥ दुर्जनहुताशतस काव्यसुवर्णं विशुद्धिमायाति । दर्शयितव्यं तस्मान्मत्सरिमनसः प्रयत्नेन ॥ ११ ॥ कविरनुहरति च्छाया पदमेक पादमेकमर्थ वा । सकलप्रबन्धहर्त्रे साहसकर्त्रे नमस्तस्मै ॥ १२ ॥ विपुलहृदयाभियोग्ये खिद्यति काव्ये जडो न

१ व्यास २ भारतचिह्निताम् ३ व्यास ४ ब्रह्मदेव ५ वाल्मीकिः ६ चिरस्थायिनम्, पक्षे,-नाश न गच्छन्तम् ७ मात्राछन्दादि, पक्षे,-मूल्यवन्तम् ८ ग्रन्थविशेष, पक्षे,-भाण्डागारम् ९ एतन्नाम्ना प्रबन्धेन, पक्षे-इन्द्रदत्तया १० इन्द्रियविशेषम्, पक्षे,-कुरुसेनानायक

१ कविदिशेषः २ सुस्निग्धन्तादि, पक्षे,-अङ्गि ३ जनाना नीरागो विरस्ता तस्य हेतव, पक्षे,-जनन्या मातू रागहेतव प्रीतिहेतुभूता ४ बहुला आलापा येषाम्, पक्षे,-बही या लाला ता पिवन्ति ते ५ वर्णान्तरपरिवर्तनेन ६ गोपने ७ रक्ततया, पक्षे, कोपेन ८ चालयति ९ दुःशब्दम् १० इन्द्रवज्रादि, पक्षे,-शीलम् ११ वाच्यस्य, पक्षे,-द्रव्यस्य १२ जारा

३८सुभाषितरत्नभाण्डागारम्[२ प्रकरणम्

मौखर्ये स्वे । निन्दति कञ्चुकमेव प्रायः शुष्कस्तनी नारी ॥ १३ ॥ अतिरमणीये काव्ये पिशुनोऽन्वेषयति दूषणान्येव । अतिरमणीये वपुषि व्रणमेव हि मक्षिका-निकरः ॥ १४ ॥ बालाकटाक्षसूत्रितमसतीनेत्रत्रिभागकृत-भाष्यम् । कविमाणवका दूतीव्याख्यातमधीयते भावम् ॥ १५ ॥ द्रौधीयसा^१ धाष्टर्यगुणेन^२ युक्ताः कैः कैरपूर्वैः परकाव्यखण्डैः । आडम्बरं ये वचसा वहन्ति ते केऽपि कन्याकवयोजयन्ति^३ ॥ १६ ॥ कर्णामृतं सूक्तिरस विमुच्य दोषेषु यत्नः सुमहान्खलस्य । अवेक्षते केलिवन प्रविष्टः क्रैमेलकः कण्टकजालमेव ॥ १७ ॥ साहित्यपाथोनिधि-मन्थनोत्थं^४ काव्यामृतं रक्षत हे कवीन्द्राः । यत्तस्य दैत्या इव लुण्ठनाय काव्यार्थचोराः प्रगुणीभवन्ति ॥ १८ ॥ गृणन्तु सर्वे यदि वा यथेच्छं नास्ति क्षतिः कापि कवी-श्वराणाम् । रत्नेषु लुप्तेषु बहुष्वमर्त्यैरद्यापि रत्नाकर एव सिन्धुः ॥ १९ ॥ दैवीर्गिरः केऽपि कृतार्थयन्ति ताः कुण्ठ-यन्त्येव पुनर्विमूढाः । या विप्रुषः शुक्तिमुखेषु दैव्यस्ता एव मुक्ता न तु चातकेषु ॥ २० ॥ परिश्रमज्ञं जनमन्तरेण मौनव्रतं बिभ्रति वाग्मिनोऽपि । वाचंयमाः सन्ति विना वसन्तं पुस्कोकिलाः पञ्चमचञ्चवोऽपि ॥ २१ ॥ काव्यं करोषि किसु ते सुहृदो न सन्ति ये त्वामुदीर्णपवनं न निवारयन्ति । गव्यं घृतं पिब निवातगृह प्रविश्य वाता-धिका हि पुरुषाः कवयो भवन्ति ॥ २२ ॥ यः सत्पदस्थ मिह काव्यमधु प्रसन्नं मुष्णन्परस्य तनुते निजपद्यमध्ये । अस्थानदोषजनितेव पिपीलिकाली काली विभाति लिखिता-क्षरपङ्किरेस्य ॥ २३ ॥ हठादाकृष्टानां कतिपयपदानां रचयिता जन स्पर्धालुश्चेदहह कविना वश्यवचसा । भवेदद्य श्वो वा किमिह बहुना पापिनि कलौ घटानां निर्मातुस्त्रिभुवनविधातुश्च कलहः ॥ २४ ॥ स्तुवद्भव नि-वर्तके सति हरौ कवि. सूक्तिभिः करोति वरवर्णिनीचरित-वर्णनं^५ गर्हितम् । अनीतरवनीपतिर्बत शुनीतनु मौक्तिकै-र्विभूषयति देवतामुकुटभागयोग्यैर्यथा ॥ २५ ॥ श्रीनाथ-स्तवनानुरूपकवनां वाणीं मनोहारिणीं कष्टं हा कवयः कदर्यकुटिलक्ष्मोपालसात्कुर्वते । दूरोपाहृतसौरसैन्धवपयो^६ देवाभिषेकोचितं ससेके विनियुज्यते सुमतयः शाखालावा-लस्य किम् ॥ २६ ॥ लीलाशुण्ठितशारदापुरमहासपद्मराणा पुरो विद्वांसप्रविनिर्गलत्कणसुषो वल्गन्ति चेत्पामराः । अद्य श्वः फणिना शकुन्तशिशवो दन्तावलानां वृकाः सिंहानां च सुखेन मूर्धसु पदं धास्यन्ति सालावृकाः ॥ २७ ॥ स्वाधीनो रसनाञ्चलः परिचिताः शब्दाः कियन्तः क्वचिच्छ्रेणीन्द्रो न नियामकः परिषदः शान्ताः स्वतन्त्र जगत् । तद्ययं कवयो वयं वयमिति प्रस्तावनादुष्कृतिस्त्वच्छन्द प्रतिसञ्च गर्जत क्यं मौनव्रतालम्बन ॥ २८ ॥ स्वर्गानर्गलनिर्गलत्सुरसरित्पाथः-प्रपातप्रथाप्रत्याख्यानपटीयसापि वचसा जिहेति जिह्वेह नः । एकद्व्यक्षरकथ्पिष्टरचनादुर्वारगर्वग्रहाः कन्यामात्रकवि-न्दकाः कवयितुं सजन्ति लज्जामुचः ॥ २९ ॥ यः स्या-त्केवललक्ष्यलक्षणरतो नो तर्कसंपर्कभृन्नालङ्कारविचारचारु-धिषणः काव्यज्ञशिक्षोज्झितः । तस्माच्चेद्रसशालि काव्य-मुदयेदेकान्ततः सुन्दरं प्रासादो धवलस्तदा क्षितिफ्ते काकस्य काष्ण्याद्भवेत् ॥ ३० ॥

पण्डितप्रशंसा

पण्डिते हि गुणाः सर्वे मूर्खे दोषाश्च केवलाः । तस्मा-न्मूर्खसहस्रेभ्यः प्राज्ञ एको विशिष्यते ॥ १ ॥ यत्र विद्व-ज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि । निरस्तपादपे देशे एरण्डोऽपि द्रुमायते^१ ॥ २ ॥ किं कुलेन विशालेन विद्या-हीनस्य देहिनः । अकुलीनोऽपि विद्यावान्देवैरपि स पूज्यते^३ ॥ ३ ॥ रोहण सूक्तिरत्नाना वन्दे वृन्द विपश्चिताम् । यन्मध्यपतितो नीचः काचोऽप्युच्चैर्महीयते ॥ ४ ॥ विद्वा-नेव विजानाति विद्वज्जनपरिश्रमम् । नहि वन्ध्या विजानाति गुर्वी प्रसववेदनाम्^५ ॥ ५ ॥ प्राज्ञो हि जल्पता पुंसा श्रुत्वा वाचः शुभाशुभाः । गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसः ॥ ६ ॥ विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा विद्वान्सर्वत्र पूज्यते ॥ ७ ॥ अल-करोति य. श्लोक शुक एव न मध्यम । अल करोति य. श्लोक शुंक एव नमध्यम.^७ ॥ ८ ॥ सदोषमपि^८ निर्दोषं भवत्यग्रे विपश्चितः । रामस्येवार्जुने^१० वपुः कवेश्व सरस वचः ॥ ९ ॥ गुणदोषौ बुधो गृह्णन्निन्दुश्वेडाविवेश्वरः^११ । शिरसः श्लाघते^१३ पूर्वं परं कण्ठे नियच्छति^१४ ॥ १० ॥ स्थिरा शैली^१५ गुणवृता खलुबुद्धया न बाध्यते । रत्नदीपस्य हि शिखा वात्यायापि न नाश्यते ॥ ११ ॥ वेश्यानामित्र विद्याना मुखं कैः कैर्न चुम्बितम् । हृदयग्राहिणस्तासा द्वित्राः सन्ति न सन्ति वा ॥ १२ ॥ विदुषा वदनाद्वाचः सहसा यान्ति नो बहिः । याताश्चेन्न पराश्चन्ति द्विरदाना रदा इव ॥ १३ ॥ अर्थहरणकौशल्य कि स्तुमः शास्त्रवादिनाम् ।

पादटिप्पण्यः : १ अतिदीर्घेण २ प्रागल्भ्यम् ३ उद्ध ४ अलकारादिप्रतपा-दकशास्त्रसागरमन्धनोद्भवम् ५ राजवर्णनपराम् ६ गङ्गाजलम्
१ वृक्षवदाचरति २ विरतीर्णेन ३ पूज्यते ४ महतीम् ५ प्रसवकाले या वेदना ताम् ६ निषेषति तिरस्करोतीत्यर्थ ७ नमध्यम शुको नकारो मध्ये यस्यैवविध शूनक श्वा इति भाव ८ दोषसहितम्, पक्षे,-दोषो हस्तस्तत्सहितम् ९ परशुरामस्य १० सहस्रार्जुनशरीरम् ११ जानन्, पक्षे,-उपाददान १२ गरलम् १३ अभिनन्दयति, पक्षे,-धारयति १४ निरुणद्धि वाचा कण्ठा-द्बहिर्नोद्घाटयतीत्यर्थ, पक्षे,-स्थापयति १५ रीति

पण्डितप्रशंसा-कुपण्डितनिन्दा ३९

पण्डितप्रशंसाकुपण्डितनिन्दा
अव्ययेभ्योऽपि ये चार्थान्निष्कर्षन्ति सहस्रशः ॥ १४॥
स एव रसिको लोके श्रुत्वा काव्यं परैः कृतम् । उत्पद्यते च युगपद्वदनेऽक्ष्णोश्च यस्य वौः ॥ १५ ॥ श्रुते महाकवेः काव्ये नयने वदने च वौः । युगपद्यस्य नोदेति स वृषो महिषोऽथवा ॥ १६ ॥ विद्या विनयोपेता हरति न चेतांसि कस्य मनुजस्य । काञ्चनमणिसंयोगो नो जनयति कस्य लोचनानन्दम् ॥ १७ ॥ व्याख्यातुमेव केचित्कुशलाः शास्त्रं प्रयोक्तुमलमन्ये । उपनामयति करोऽन्नं रसांस्तु जिह्वैव जानाति ॥ १८ ॥ सत्यं तपो ज्ञानमहिंसता च विद्वत्प्रणामं च सुशीलता च । एतानि यो धारयते स विद्वाञ्छ केवलं यः पठते स विद्वान् ॥ १९ ॥ कवीश्वराणां वचसा विनोदैर्नन्दन्ति विद्यानिधयो न चान्ये । चन्द्रोपला एव करैर्हिमांशोर्मध्ये शिलानां सरसा भवन्ति ॥ २० ॥ शास्त्राण्यधीत्यापि भवन्ति मूर्खा यस्तु क्रियावान्पुरुषः स विद्वान् । सुचिन्तितं चौषधमातुराणां न नाममात्रेण करोत्यरोगम् ॥ २१ ॥ न पण्डिताः साहसिका भवन्ति श्रुत्वापि ते सन्तुलयन्ति तत्त्वम् । तत्त्वं समादाय समाचरन्ति स्वार्थं प्रकुर्वन्ति परस्य चार्थम् ॥ २२ ॥ इह तुरगशतैः प्रयान्तु मूढा धनरहितास्तु बुधाः प्रयान्तु पद्भ्याम् । गिरिशिखरगतापि काकपङ्क्ति र्पुलिनगतैर्न समत्वमेति हंसैः ॥ २३ ॥ सन्तश्चेदिह गुणबिन्दवो बुधस्तान्स्तुत्या कवलयति स्फुटेऽपि दोषे । सयुक्तानपि पयसः कणान्विचिन्वन्नन्धम्स्तोऽसति हि मङ्गु मल्लिकाक्षः ॥ २४ ॥ अन्या र्जगद्धितमयी मनसः प्रवृत्तिरन्यैव कापि रचना वचनावलीनाम् । लोकोत्तरा च कृतिराकृतिरङ्गहृद्या विद्यावतां सकलमेव गिरां दैवीयः ॥ २५ ॥ अधिगतपरमार्थान्पण्डितान्माऽवमंस्थास्तृणमिव लघु लक्ष्मीनैव तांन्संरुणद्धि । मदमिलितमिलिन्दश्यामगण्ड-स्थलानां न भवति बिसतन्तुर्वारणं वारणानाम् ॥ २६ ॥ शैलोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमा विख्याताः कवयो वसन्ति विषये यस्य प्रभोर्निर्धनाः । तज्जाँर्ड्यं वसुधाधिपस्य कवयो ह्यर्थं विनापीश्वराः कुत्स्याः स्युः कुपरीक्षका न मणयो यैरर्घतः पातिताः ॥ २७ ॥ हर्तुर्याति न गोचरं किमपि शं पुष्णाति सर्वात्मना ह्यर्थिभ्यः प्रति-पाद्यमानैर्मनिशं प्राप्नोति वृद्धिं पराम् । कल्पान्तेष्वपि नप्रयाति निधनं विद्याख्यमन्तर्धनं येषां तान्प्रति मानमुज्झत नृपाः कस्तै सह स्पर्धते ॥ २८ ॥

कुपण्डितनिन्दा
यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् । लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥ १ ॥ मूर्खचि-हानि षडिति गर्वो दुर्वचनं मुखे । विरोधी विषवादी च कृत्याकृत्यं न मन्यते ॥ २ ॥ मूर्खों हि जल्पता पुंसां श्रुत्वा वाचः शुभाशुभाः । अशुभं वाक्यमादत्ते पुरीषमिव शूकरः ॥ ३ ॥ उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयःपानं भुजंगानां केवलं विषवर्धनम् ॥ ४ ॥ वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह । न मूर्खजनपंसर्कः सुरेन्द्रभवनेष्वपि ॥ ५ ॥ मूर्खोऽपि मूर्खं दृष्ट्वा च चन्दनादपि शीतलः । यदि पश्यति विद्वांसं मन्यते पितृघातकम् ॥ ६ ॥ अन्त सारविहीनस्य सहायः किं करिष्यति । मलयेऽपि स्थितो वेणुर्वेणुरेव न चन्दनः ॥ ७ ॥ यस्य नास्ति विवेकस्तु केवलं यो बहुश्रुतः । न स जानाति शास्त्रार्थान्दर्वी पाकरसानिव ॥ ८ ॥ रूपयौवनसम्पन्ना विशालकुलसम्भवाः । विद्याहीना न शोभन्ते निर्गन्धाः किंशुका इव ॥ ९ ॥ विद्याविधिविहीनेन किं कुलीनेन देहिनाम् । अकुलीनोऽपि यो विद्वान्दैवतैरपि पूज्यते ॥ १० ॥ मदोपशमनं शास्त्रं खलानां कुरुते मदम् । चक्षुः-प्रकाशकं तेज उलूकानामिवाऽन्धताम् ॥ ११ ॥ ज्ञानविद्याविहीनस्य विद्याजालं निरर्थकम् । कण्ठसूत्रं विना नारी ह्यनेकाभरणैर्युता ॥ १२ ॥ मूर्खे स्वल्पव्ययत्रासात्सर्वनाशं करोति हि । कः सुधीः सत्यजेद्भाण्डं शुल्कैक्सैवातिसाध्वसात् ॥ १३ ॥ माता शत्रुः पिता वैरी येन बालो न पाठितः । न शोभते सभामध्ये हंसमध्ये बको यथा ॥ १४ ॥ पुस्तकेषु च नाधीतं नाधीतं गुरुसन्निधौ । न शोभते सभामध्ये हंसमध्ये बको यथा ॥ १५ ॥ विद्यया शस्यते लोके पूज्यते चोत्तमैः सदा । विद्याहीनो नरः प्राज्ञः सभायां नैव शोभते ॥ १६ ॥ शोभते विदुषां मध्ये नैव निर्गुणमानसः । अन्तरे तमसा दीपः शोभते नार्कतेजसाम् ॥ १७ ॥ बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः । अबोधोपहताश्चान्ये जीर्णमङ्गे सुभाषितम् ॥ १८ ॥ पदद्वयस्य सधानं कर्तुमप्रतिभाः खलाः । तथापि परकाव्येषु दुष्करेष्वाप्यसञ्जमाः ॥ १९ ॥ क दोषोऽत्र मया लभ्य इति सविन्त्य चेतसा । खलः काव्येषु साधूनां श्रवणाय प्रवर्तते ॥ २० ॥ उपपत्तिभिरम्लाना नोपदेशैः कदर्थिताः । स्वसंवेदनवेद्यसाराः सहृदयोक्तयः

पादटिप्पण्यः (वामतः)पादटिप्पण्यः (दक्षतः)
१ अव्ययेभ्य अव्ययानामनेकार्थत्वात्, पक्षे,-व्ययरहितेभ्य कुपणेभ्य इति यावत् २ उदकम्, पक्षे,-'वा वा' इति लौकिकशब्द ३ नयने वा सलिलम् आनन्दाश्रुजलमित्यर्थं वदने च वा. 'वाहवा' इति प्रशंसाबोधको देशी शब्द ४ सैकतगते ५ राजहंस. ६ लोक हितप्रचुरा ७ अतिदूरम् ८ अवमान मा कुरु ९ रोध न कुरुते १० गजानाम् ११ शास्त्रसंस्कारेण शुद्धा ये शब्दास्तै सुन्दरा गिरो येषां ते १२ पण्डिता १३ देशे १४ मौर्खर्यम् १५ मूल्यत १६ अचिन्त्यम् १७ सुखम् १८ दीयमानम् १९ निरन्तरम्१ त्यजत २ स्पर्धां करोति ३ विष्ठा ४ सुरेन्द्राणां भवनेषु, स्वर्गलोकेष्वपीति भाव ५ नेतव्यामेतव्यवस्तुसम्बन्धी राजग्राह्यो भाग

४० सुभाषितरत्नभाण्डागारम् [२ प्रकरणम्

॥ २१ ॥ केषांचिद्वाचि शुकवत्परेषां हृदि मूकवत् । कस्याप्या हृद्याद्वक्त्रे वल्गु वल्गन्ति सूक्तयः ॥ २२ ॥ बहूनि नरशीर्षाणि लोमशानि बृहन्ति च । ग्रीवासु प्रतिबद्धानि किंचित्तेषु सकर्णकम् ॥ २३ ॥ कवीनां महतां सूक्तैर्गूढार्थान्तरसूचिभिः । विध्यमानश्रुतेर्मा भूद्दुर्जनस्य कथं व्यथा ॥ २४ ॥

अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥ २५ ॥ गुणिगणगणनारम्भे न पतति कठिनी सुँसम्भ्रमाद्यस्य ॥ तेनाम्बा यदि सुँतिनी वद वन्ध्या कीदृशी भवति ॥ २६ ॥ निर्गुण इति मृत इति च द्वावेकार्थाभिधायिनौ विद्धि । पश्य धनुर्गुणशून्यं निर्जीवं यदिह शमन्ति ॥ २७ ॥ अन्तर्भूतो निवसति जडे जडः शिशिरमहसि हरिण इव । अजडे शशीव तपने स तु प्रविष्टोऽपि न सरति ॥ २८ ॥ जीवितं इव कण्ठगते सूक्ते दुःखासिका कवेस्तावत् । नयनविकासविधायी सचेतनाम्यागमो यावत् ॥ २९ ॥ साहित्यसंगीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः । तृणं न खादन्नपि जीवमानस्तद्भागधेयं परमं पशूनाम् ॥ ३० ॥ जडेषु जातप्रतिभाभिमानाः खला कवीन्द्रोक्तिषु के वराकाः । प्राप्ताभिनिर्वापणगर्वमम्बु रबाङ्कुरज्योतिषि किं करोति ॥ ३१ ॥ येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः । ते मृत्युलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति ॥ ३२ ॥ मुक्ताफलैः किं मृगपक्षिणां च मृष्टान्नपानं किमु गर्दभानाम् । अन्धस्य दीपो बधिरस्य गीतं मूर्खस्य किं धर्मकथाप्रसङ्गः ॥ ३३ ॥ अज्ञातपाण्डित्यरहस्यमुद्रा ये काव्यमार्गे दधतेऽभिमानम् । ते गारुडीयाननधीत्य मन्त्रान्हालाहलामादनमारमन्ते ॥ ३४ ॥ अवद्यजंम्बालगवेषणाय कृतोद्यमानां खलसौरभाणाम् । कवीन्द्रवाङ्निर्झरनिर्झरिण्या सजायते व्यर्थमनोरथत्वम् ॥ ३५ ॥ वरं दरिद्रः श्रुतिशास्त्रपारगो न चापि मूर्खो बहुरत्नसंयुतः । सुलोचना जीर्णपटापि शोभते न नेत्रहीना कनकैरुलंकृता ॥ ३६ ॥ व्यालाश्च राहूश्च सुधाप्रसादाज्जहाशिरोनिग्रहसुग्रमापुः । इतीव भीता पिशुना भवन्ति पराङ्मुखाः काव्यरसामृतेषु ॥ ३७ ॥ सरस्वतीमातुरभूच्चिरं न यः कवित्वपाण्डित्यघनस्तनंधयः । कथं स सर्वाङ्गमनाससौष्ठवो दिनादिनं प्रौढिविशेषमश्नुते ॥ ३८ ॥ वितीर्णशिक्षा इव हृत्पदस्थसरस्वतीवाहनराजहंसैः । ये क्षीरनीरप्रविभागदक्षा विवेकिनस्ते कवयो जयन्ति ॥ ३९ ॥ काव्यामृतं दुर्जनराहुनीत प्राप्त्य भवेन्नो सुमनोजनस्य । सच्चक्रमव्याजबिराजमानतँैष्ण्यप्रकर्षे यदि नाम न स्यात् ॥ ४० ॥ विना न साहित्यविदापरत्र गुणः कथंचित्प्रथते कवीनाम् । आलम्बते तत्क्षणमम्भसीव विस्तारमन्यत्र न तैलविन्दुः ॥ ४१ ॥ अत्यर्थवक्तवमनर्थकं या शून्या तु सर्वान्यगुणैर्य्यनक्ति । अस्पृश्यतादूषितया तया कि तुच्छश्वपुच्छच्छटयेव वाचा ॥ ४२ ॥ नीचस्तनोत्वश्रु नितान्तकाष्ण्र्यं पुष्णातु साधर्म्यमृदञ्जनेन । विना तु जायेत कथं तदीयक्षोदेन सारस्वतदृक्प्रसादः ॥ ४३ ॥ विविनक्ति न बुद्धिदुुर्विधः स्वयमेव स्वहितं पृथग्जनः । यदुदीरितमन्यदः परैर्न विजानाति तदद्भुतं महत् ॥ ४४ ॥ विद्दुरेव्यैदपायमात्मना परतः श्रद्दधतेऽथ वा बुधाः । न परो पहितं न च स्वतः प्रैमिमीतेऽनुमवाहतेऽल्पधीः ॥ ४५ ॥ अथ र्वामिनिविष्टबुद्धिषु व्रजति व्यर्थकता सुभाषितम् । रविरोगिषु शीतरुचिषः करजालं कमलाकंरेष्विव ॥ ४६ ॥

इतरकर्मफलानि यदृच्छया विलिख तानि सहे चतुरानन । अ॒रसिकेषु कवित्वनिवेदनं शिरसि मा लिख मा लिख मा लिख ॥ ४७॥ कतिचिदुद्धतनिर्भरमत्सराः । कतिचिदामवचःस्तुतिशालिनः । अहह केऽपि निरक्षरकुक्षयस्तदिह सम्प्रति कं प्रति मे श्रमः ॥ ४८ ॥ ये के विचित्ररसशालिषु सत्कवीनां सूक्तेषु कर्णपथगामिषु नाद्रियन्ते । ते मालतीपरिमलेष्वपि कन्दलत्सु नामापुटं करतलेन पिदध्युरेव ॥ ४९ ॥ मन्द्राणि मा कुरु विषादमनादरेण मात्सर्यमग्नमनसा सहसा खलानाम् । काव्यारविन्दमकरन्दमधुव्रतानामास्येषु धास्यसितमा कियतो विलासान् ॥ ५० ॥ चेतःप्रसादजननं विबुधोत्तमानामानन्दि सर्वरसयुक्तमतिप्रसन्नम् । काव्यं खलस्य न करोति हृदि प्रतिष्ठां पीयूषदानमिव वक्रविवर्ति राहोः ॥ ५१ ॥ बद्धा यदर्पणरसेन विमर्दपूर्वमर्थान्कथं झटिति तान्प्रकृतान्न दद्युः । चौंरा इवातिमृदवो महता कवीनामर्थान्तरान्यपि हठाद्वितरन्ति शब्दाः ॥ ५२ ॥ अर्थोऽस्ति चेन्न पदशुद्धिरथास्ति सापि नो रीतिरस्ति यदि सा घटना कुतस्त्या । सास्त्यस्ति चेन्न नववक्रगतिस्तदेतद्व्यर्थं विना रसमहो गहनं कृत्वित्वम् ॥ ५३ ॥ श्लाघ्यैव वक्रिमगतिर्धनदार्व्यबन्धोत्सवा. कविप्रवरसूक्तिधनुर्लतायाः । कर्णान्तिकप्रणयभाजि गुणे यदीये चेतांसि मत्सरवतां झटिति त्रुटन्ति ॥ ५४ ॥ अरण्यरुदितं कृतं शवशरीरमुँद्वर्तितं स्थैलेऽब्जमवरोपितं सुचिरमूषरे वर्षितम् । श्वपुच्छेमवनामितं बधिरैर्कर्णजापः कृतो धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः ॥ ५५ ॥ प्रैसँह्म

पादटिप्पणी (Footnotes)

वामभागः (Left Side): १ विकृतिभाव गतम्, २ रञ्जयितुमसमर्थो भवति ३ खटिका 'खडू' इति लोके, न पतति सद्यो यस्य नाम न लिखति ४ पुत्रिणी ५ मूर्खै, पक्षे,-जलरूपत्वात् ६ मूर्ख, पक्षे,-पशुत्वात् ७ शृङ्गम् ८ दैवम् ९ कर्दम्

दक्षिणभागः (Right Side): १ बुद्धिशून्य २ पामरजन ३ आगामिनम् ४ जानाति ५ दुराग्रहमस्तचि्त्तेषु ६ शीतभानो ७ स्वेच्छया ८ प्रेतशरीरम् ९ उद्वर्तन यवगोधूमादिचूर्णेन मलापकर्षणं तेन सुगन्धितम् १० निर्जैलप्रदेशे ११ क्षारमृद्धूमौ १२ ऋजुतास्पादानाय नम्रीकृतम् १३ कर्णमन्त्र १४ बलात्कार कृत्वा