तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
तैत्तिरीये आरण्यके
तृतीयप्रपाठके प्रथमोऽनुवाकः ।
हरिः ॐ ।
तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी॑ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शन्नो॑ अस्तु द्वि॒पदे॑ । शं चतु॑ष्पदे । ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ ओम् ॥
तैत्तिरीये आरण्यके
तृतीयप्रपाठके प्रथमोऽनुवाकः ।
श्रीगणेशाय नमः ।
यस्य निश्श्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
स्वाध्यायब्राह्मणं प्रोक्तं द्वितीये हि प्रपाठके ।
चातुर्होत्रचितेर्मन्त्रा वक्ष्यन्तेऽस्मिन् प्रपाठके* ॥
* तृतीयके इति F पुस्तकपाठः ।
३ प्रपाठके १ अनुवाकः । २८१
(१)चित्ति॑ सुक्॒ । चित्त॒माज्य॑म् । वाग्वेदिः॑ । आधी॑तं ब॒र्हिः । केतो॑ अ॒ग्निः । विज्ञातम॒ग्निः । वाक्प॑ति॒र्होता॑ ।
ब्राह्मणग्रन्थस्य तृतीयकाण्डे द्वादशप्रपाठके ब्रह्म वै चतुर्हो- तार इत्यस्मिन्ननुवाके चातुर्होत्रचितेर्ब्राह्मणमुक्तं नतु तन्मन्त्रा- स्तत्रोक्ताः । तेषामरण्येऽध्येतव्यत्वात् । अतोऽस्मिन् प्रपाठके तन्मन्त्रा उच्यन्ते । तत्र प्रथमानुवाकोक्तमन्त्राणां विनियोगो ब्राह्मणे एवं समाम्नातः, पुरस्ताद्दशहोतारमुदञ्चमुपदधाति यावत्यदमिति । तत्पाठस्तु । (१)“चित्ति सुक् ॰ समाध्वर्युः”(१) इति । आदौ सिसृक्षुः प्रजापतिः सृष्ट्यर्थं केन विधानेन* आध्यात्मिकेनेष्टवान् । तद्यागवर्त्तिनः सुगादयः एतेषु मन्त्रेषु प्रतिपाद्यन्ते । अत्र ‘चित्तिचित्त’शब्दाभ्यां निर्विकल्पकसवि- कल्पकभेदजनकावन्तःकरणवृत्तिभेदौ विवक्षितौ । ‘वाक्’, प्रसिद्धा । ‘आधीतं’ उच्चार्यमाणं । ‘केतविज्ञात’शब्दाभ्यां नि- र्विकल्पकसविकल्पकज्ञानविषयावभिधीयेते । ‘वाक्पति’शब्देन वाचः प्रवर्त्तकः कण्ठताल्वादिस्थानेषु संयुज्यमानो वायुरुच्यते । ‘मनः प्राणौ’ प्रसिद्धौ । ‘साम’शब्देन तद्धेतुः स्वरोच्चारण- शक्तिरुच्यते†। एवं चित्त्यादयो दश शरीरगताः पदार्थविशेषाः सुगादयो दश पदार्था होमनिष्पादकाः । ‘अग्नि’शब्दद्वयेन चाहवनीयगार्हपत्यौ विवक्षितौ । ‘उपवक्तृ’शब्देनानुवचनकर्त्तृ-
* केनचिद्यागेनेति F पुस्तकपाठः ।
† तद्धेतुर्वर्णोच्चारणशक्तिरुच्यते इति तै० पाठः ।
२ M २
२८२ तैत्तिरीये आरण्यके
मन॑ उपव॒क्ता । प्रा॒णो ह॒विः । सामा॑ध्व॒र्युः॑।^{(१)}॥ ^{(२)}वाच॑- स्पते॒ विधे॑ नाम॒न् । वि॒धेम॑ ते॒ नाम॑ । वि॒धेस्त्वम॒स्माकं॑
ज्ञातुः* पुरा प्रैषवक्ता मैत्रावरुणो विवक्षितः । यदा प्रोक्षणादिष्वनुज्ञायां पृष्टायां ब्रह्मा समीपे स्थिते ॐ प्रोक्षेत्यादिना तदनुज्ञां वक्ति तस्मादयमुपवक्ता । चित्यादयः शरीरगतपदार्थाः स्रुगादिरूपा इति वाक्यार्थः । अस्मिन् मन्त्रे स्रुगादीनां होमसाधनानां दशानामभिहितत्वादयं मन्त्रो दशहोतेत्युच्यते । सोऽयं मन्त्रस्य पूर्वभागः, तस्य चावयवाः पृथगिष्टका मन्त्राः, तत्र चित्तिस्स्रुक्तया देवतयाऽङ्गिरस्वध्रुवासीदेति। एवमुपधानप्रकारो द्रष्टव्यः । एता दशेष्टका उपधेयाः ॥
मन्त्रस्य योऽयमुत्तरो भागो ग्रहाख्यः तेन ग्रहेष्टकामुपदधाति । तथा च ब्राह्मणमाम्नातं । यथावकाशं ग्रहानिति । तञ्च ग्रहभागमाह । ^{(१)}“वाचस्पते ॰ नृम्णन्धात् स्वाहा”^{(२)} इति । हे ‘वाचस्पते’ वाचः पालक, हे ‘विधे’ जगद्विधातः, हे ‘नामन्’ सर्वस्य वशीकर्त्तः, ‘ते’ तव, ‘नाम’, ‘विधेम’ । अस्मदनुग्रहकारी देवोऽयमित्येवं प्रसिद्धं कुर्मः, यद्वा नमनं प्रह्वीभावं सम्पादयामः । ‘त्वं’, अपि ‘अस्माकं’, ‘नाम विधेः’, देवेषु मध्ये यजमानोऽयं यथाशास्त्रं कृतवानिति प्रसिद्धं कुरु ।
* अनुवचनकर्तुर्हान इति तै० पाठः ।
३ प्रपाठके १ अनुवाकः । २८३
नाम् । वा॒चस्पति॒ः सोमं॑ पिबतु । अ॒स्मासु॑ नृ॒म्ण-
न्धात् स्वाहा॑^(२) ॥ १ ॥
अ॒ध्व॒र्युः पञ्च॑ च ॥ १ ॥
अयं ‘वाचस्पतिः’, मदीयेषु यागेषु ‘सोम’मद्दत्तमाज्यं ‘पिबतु’, ‘अस्मासु’ होमकर्त्तृषु, ‘नृम्णं’, अपि जितं धनं*, ‘अधात्’ सम्पादयतु, इमं वृत्तान्तमुद्दिश्य जुङ्खधीति स्वकीया वागाह । अत्र वाचस्पत इत्यादि नृम्णन्धादित्यन्तो ग्रहभागः । एतेषां मन्त्राणामुपधाने विनियोगः । तत्र तत्र वाचनिकाः† ते च ब्राह्मणे† द्वितीयकाण्डे द्वितीयतृतीयप्रपाठकयोः प्रपञ्चिताः । तेषु होमाहोमविषयभेदेन कश्चिद्विशेष आपस्तम्बेन दर्शितः । यत्र होमार्थाः सङ्ग्रहाः स्वाहाकाराः, यत्राहोमार्थाः अग्रहाश्च अस्वाहाकारा इति । सोऽयं न्याय उत्तरेष्वपि मन्त्रेष्वनुसन्धेयः । तदेवमस्मिन्ननुवाके दशहोतृमन्त्रोऽभिहितः‡ ॥
इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके तृतीयप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥
* ‘नृम्णं’ व्यपेक्षितं धनमिति तै० पाठः ।
† मन्त्राणामुपधानब्राह्मणे विनियोगः प्रकरणसिद्धत्वादुहौ षब्राह्मणे वाचनिकश्च इतरे वाचनिका इति तै० पाठः । F पुस्तके तैलङ्गाक्षरपुस्तकवत् पाठः केवलं वाचनिकश्चेति शब्दात् परं इतरे तु विनियोगा इत्यधिकः ।
‡ ब्राह्मणस्येति तै० पाठः ।
२८४ | तैत्तिरीये आरण्यके
अथ द्वितीयोऽनुवाकः ।
^(१)पृथिवी होता॑ । द्यौर॑ध्व॒र्युः । रु॒द्रोऽग्नीत् । बृहस्प॑तिरु॒पव॒क्ता^(१) । ^(२)वाच॑स्पते वा॒चो वी॒र्ये॑ण । सम्भृ॑ततमे॒नायं॑क्ष्यसे । यज॑मानाय॒ वार्य॑म् । आ सु॒वस्क॑र॒स्मै । वा॒च-
अथ द्वितीयोऽनुवाकः ।
अथ चतुर्होतृमन्त्र उच्यते । तस्य च विनियोगो ब्राह्मणे चाभिहितः । दक्षिणतः प्राञ्चं चतुर्होतारमिति । तत्पाठस्तु । (१)“पृथिवी होता ० बृहस्पतिरुपवक्ता”(१) इति । सोऽयं होतृभागः, तत्र पृथिव्यादयः प्रसिद्धाः, तथा होत्रादयश्च । उपवक्तृशब्देन समीपे स्थित्वा तत्तत्कर्मस्वनुजानानो ब्रह्मा विवक्षितः ॥
अथ ग्रहभागमाह । (२)“वाचस्पते ० जजनदिन्द्रमिन्द्रियाय स्वाहा”(२) इति । हे ‘वाचस्पते’, अत्यन्तसम्पादितेन मन्त्रात्मिकाया ‘वाचः’, सामर्थ्येन त्वमासमन्तात् ‘यक्ष्यसे’ । ‘अस्मै’ यजमानाय, ‘वार्यं’ वरणीयं, ‘सुवः’ स्वर्गं, ‘आकः’ समन्तात्, ‘कुरु’ । अयं ‘वाचस्पतिः’, अस्मदीयेषु यागेषु ‘सोमं पिबति’ । ‘इन्द्रं’ देवं, इन्द्रियसम्मृद्ध्यर्थं ‘जजनत्’ जनयतु, प्रेरयत्वित्यर्थः । तदेतदुद्दिश्य जुजुषीत स्वकीया वागाह ॥
३ प्रपाठके २ अनुवादः । २८५
स्पतिः॒ सोमं॑ पिवति । अ॒जन॒दिन्द्र॑मिन्द्रि॒याय॒ स्वाहा॑^(९) ॥ २ ॥
पृ॒थि॒वी होता॒ दश॑ ॥ २ ॥
अथ तृतीयोऽनुवाकः ।
^(१)अ॒ग्निर्होता॑ । अ॒श्विना॑ध्व॒र्यू । त्वष्टा॒ग्नीत् । मि॒त्र उ॑पव॒क्ता^(१) । ^(२)सोमः॒ सोम॑स्य पुरो॒गाः । शु॒क्रः शु॒क्रस्य॑
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके तृतीयप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥
अथ तृतीयोऽनुवाकः ।
अथ पञ्चहोतृमन्त्र उच्यते । तद्विनियोगो ब्राह्मणे एवमाम्नातः । पश्चादुदञ्चं पञ्चहोतारमिति । तत्पाठस्तु । ^(१)“अग्निर्होता ॰ मित्र उपवक्ता”^(१) इति । अग्न्यादयः प्रसिद्धाः । अध्वर्युः प्रतिप्रस्थाता चेत्येवमध्वर्युद्वित्वेन होतृपञ्चकं पूरणीयं ॥
अथ ग्रहभागमाह । ^(२)“सोमः सोमस्य ॰ श्रुतः स्वाहा”^(२) इति । योऽयं देवतात्मकः 'सोमः', सोऽयं लतात्मकस्य याग-
२८६ तैत्तिरीये आरण्यके
पुरो॒गाः । श्र॒तास्त॑ इन्द्र॒ सोमा॑: । वातापेर्हव॒न॒श्रुतः॒ स्वाहा॑^(२) ॥ ३ ॥ अ॒ग्निर्गृहीताष्टौ॑ ॥ ३ ॥
अथ चतुर्थोऽनुवाकः ।
^(१)सूर्यं॑न्ते॒ चक्षु॑: । वातं॑ प्रा॒णः । द्यां पृष्ठं॑ । अ॒न्तरि॑क्ष-
देशं प्रत्यागमने पुरतो गच्छति । 'शुक्रः' भासको देवतादि- प्रकाशको मन्त्रः, 'शुक्रस्य' गृह्यमाणतया भासमानस्य सोमस्य, पुरतो गच्छति आदौ मन्त्रं पठित्वा पश्चात् सोमो गृह्यते । हे 'इन्द्र', 'ते' त्वदर्थं, एते 'सोमाः', 'श्राताः' पक्काः, आ- श्रिता वा । कीदृशस्य ते । वायुवदाप्नोति सहसा गच्छतीति 'वातापिः', तस्य । हवनमाह्वानं शृणोतीति हवनश्रुत्', तस्य । एतदर्थं जुहुधीति स्वकीया वागाह ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके तृतीयप्रपाठके तृतीयोऽनुवाकः ॥ ३ ॥
अथ चतुर्थोऽनुवाकः ।
अथ षड्ढोतमन्त्र उच्यते । द्विविधस्तन्मन्त्रः । अक्षिसं-
३ प्रपाठके ४ अनुवाकः। २८७
मा॒त्मा। अ॒ङ्गैर्य॒ज्ञं। पृ॒थि॒वीᳵ शरी॑रैः^(१)। ^(२)वाच॑स्प॒ते-
तुरनुवाके प्रोक्तः सूर्य्यन्ते चक्षुरित्येकः। षष्ठानुवाके प्रोक्तो वाग्घोतेत्यपरः। स एव चातुर्होत्रचयने प्रयोक्तव्यः। वा- ग्घोता षड्ढोतॄणामित्येवं तद्ब्राह्मणे निर्द्देशात्। सूर्य्यन्ते दूत्यस्य तु पशुबन्धादौ विनियोगः। स च होतृब्राह्मणकाण्डे पठ्यते। पशुबन्धेन यक्ष्यमाणः षड्ढोतारं मनसानुद्रुत्याहवनीये जुहु- यादिति। तन्मन्त्रपाठस्तु। ^(१)“सूर्य्यन्ते चक्षुः ॰ पृथिवीᳵ शरीरैः”^(१)इति। हे पशो योयं ‘सूर्य्यः’, सः ‘ते चक्षुः’, यो वायुः सः ते ‘प्राणः’। तथा* पशुविषये दिग्प्रैषे समाम्नायते। सूर्य्यञ्च- क्षुर्गमयतात्। वातं प्राणमन्ववसृजतादिति। या द्यौः सः पृष्ठ- भागः, उपरिवर्त्तित्वसाम्यात्। यदिदं ‘अन्तरिक्षं’, तत्त्वदीयो जीवात्मा, मध्यवर्त्तित्वसाम्यात्। यानि हृदयादीन्यङ्गानि तैः ‘यज्ञं’, सम्पादयतीति शेषः। यान्यन्यान्यस्थ्यादीनि शरीरगता- नि तैः ‘पृथिवीं’, प्राप्नोतीति शेषः। सूर्य्यन्ते चक्षुरित्यादा- वपि तदीयं चक्षुः सूर्य्यं प्राप्नोत्विति वा योजनीयं। अथ वा वक्ष्यमाणं वाचस्पतिसम्बोधनमनूद्य ते चक्षुः सूर्य्यरूपं जानी- यादित्येवं वाचस्पतिपरतया मन्त्रे योज्यं। होमनिष्पादकस्य पशोः चक्षुरादीनि षडङ्गान्यत्रोक्तानि इत्यस्य मन्त्रस्य षड्ढो- तृत्वं॥
* तथा चेति F पुस्तकपाठः।
2 N
१९८ तैत्तिरीये आरण्यके
ऽच्छिद्र॑या वा॒चा । अच्छि॑द्रया जु॒ह्वा । दि॒वि दे॒वावृध॒ꣳ होत्रा॒मेर॑यस्व॒ स्वाहा॑^(२) ॥ १ ॥ सू॒र्य्यन्ते॒ नव॑ ॥ अनु० ४ ॥
अथ पञ्चमोऽनुवाकः ।
^(१)म॒हाह॑वि॒र्होता॑ । स॒त्यह॑वि॒रध्व॒र्युः । अच्यु॑तपाजा
अथ गृहभागमाह । (१)“वाचस्पतेऽच्छिद्रया ० होत्रामे- रयस्व स्वाहा' (२) इति । हे ‘वाचस्पते’, ‘अच्छिद्रया’, ‘वाचा’ स्वराक्षरसम्पूर्णेन मन्त्रेण, ‘अच्छिद्रया जुह्वा’ घृतसम्पूर्णया स्रुचा, ‘देवावृधं’ देवानां वर्धयित्रीं, ‘होत्रां’ होमक्रियां, ‘दिवि’ द्युलोके, ‘एरयस्व’ सर्वतः प्रेरय, एतमर्थमुद्दिश्य जुहुधीति स्वकीया वागाह ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके तृतीयप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥
अथ पञ्चमोऽनुवाकः ।
अथ सप्तहोतृमन्त्र उच्यते । तस्य च विनियोगश्चातुर्होत्र- ब्राह्मणे एवमाख्यातः । उपरिष्टात् प्राञ्चꣳ सप्तहोतारमिति ।
३ प्रपाठके ५ अनुवाकः । २८६
अ॒ग्नोत् । अच्यु॑तमना उपव॒क्ता । अना॑धृष्यश्चा॒प्रति॑धृ- ष्यश्च॑ य॒ज्ञस्या॑भिग॒रौ । अ॒यास्य॑ उद्गाता॑⁽१⁾। ⁽२⁾वाच॑स्पते हृद्विधे नामन् । विधे॑म ते॒ नाम॑ । विधे॑स्त्वम॒स्माकं॒ नाम॑।
तत्पाठस्तु । ⁽१⁾“महाहविर्होता ॰ अयास्य उद्गाता”⁽१⁾ इति । महाहविः सत्यहविः इत्याद्याः अयास्यान्ताः सप्तसङ्ख्याका महर्षयः तन्महर्षिस्वरूपा अत्रत्या होत्रादयः 'यज्ञस्य' सोम- यागस्य, 'अभिगरौ' अभितः उद्गातुः पुरस्तात् पश्चाच्च गृहीत- प्रस्तारप्रतिहारभागौ गायेत इति प्रस्तोतृप्रतिहर्त्तारावभि- गरौ । होताध्वर्युराग्नीध्रो ब्रह्मा प्रस्तोता प्रतिहर्त्तोद्गातेति सप्तसङ्ख्याका होमनिष्पादका अत्रोक्ता इति अयं मन्त्रः सप्तहो- तेत्युच्यते ॥
अथ ग्रहभागमाह । ⁽२⁾“वाचस्पते ॰ पृथिव्यै स्वाहा”⁽२⁾ इति । हे 'वाचस्पते', हे 'हृद्विधे' हृदयस्य विधातः, चित्तप्रेरकेत्यर्थः । हे 'नामन्' सर्वजगत्सम्बन्धप्रमाणयुक्त* 'ते' तुभ्यं, 'नाम' नमनं प्रणतिं, 'विधेम' कुर्मः । 'त्वं', च 'अस्माकं', 'नामविधेः' देवानां मध्ये सम्यक् यष्टवान् इति प्रसिद्धं नामधेयं कुरु । अयं 'वाचस्पतिः', 'सोमं', 'अपात्' पीतवान् । 'दैव्यस्तन्तुः' मद्वृहे हविःस्वीकारार्थं आगतो देवसम्बन्धी सन्तानः, 'माच्छेदि' कदा-
* सर्वजगत्सम्बन्धप्रमाणहेतुयुक्त इति तै० पाठः ।
2 N 2
२६० तैत्तिरीये आरण्यके
वाचस्पतिः॒ सोम॑मपात् ॥ मा दैव्य॑स्तन्तुश्छे॒दि मा म॑नु॒ष्य॑ः । नमो॑ दि॒वे । नम॑ः पृथि॒व्यै स्वाहा॑^{(२)} ॥ १ ॥
अ॒पात्, ची॒र्णं च॑ ॥ अनु० ५ ॥
अथ षष्ठोऽनुवाकः ।
$^{(१)}$वाग्घोता॑ । दी॒क्षा पत्नी॑ । वातो॑ऽध्व॒र्युः । आपो॑ऽभि-
चिदपि विच्छिन्नो माभूत् । तथा 'मनुष्यस्तन्तुः' ऋत्विकप्रवा-
होऽपि, विच्छिन्नो माभूत् । द्यावापृथिवीभ्यां 'नमः', अस्तु ।
तमिममर्थमुद्दिश्य जुहुधीति स्वकीया वागाह ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा-
रण्यके तृतीयप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥
अथ षष्ठोऽनुवाकः ।
अथ द्वितीयः षड्ढोतृमन्त्र उच्यते । तस्य च विनियोग-
श्चातुर्होत्रब्राह्मणे समाम्नातः । उत्तरतः प्राञ्चष्षड्ढोतारमि-
ति । तत्पाठस्तु । $^{(१)}$"वाग्घोता • तपसि जुहोमि"$^{(१)}$ इति ।
येयं यजमानस्य 'वाक्', सेयं होतृस्थानीया । येयं 'दीक्षा', सा
३ प्रपाठके ६ अनुवाकः । २६१
ग॒रः । मनो॑ ह॒विः । तप॑सि जुहोमि^(१) । ^(२)भूर्भुव॒ः सुव॑ः । ब्रह्म॑ स्वय॒म्भु । ब्रह्म॑णे स्वय॒म्भुवे॒ स्वाहा॑^(२) ॥ १ ॥ वाग्धोता नव॑ ॥ अनु० ६ ॥
पत्नीस्थानीया । योऽयं 'वातः', प्राणरूपः, सोऽध्वर्युस्थानीयः । प्रोक्षणार्थ्याः 'आपः', ता 'अभिगरः' ब्रह्मस्थानीयाः, अभि- तो गिरति कर्त्तव्यमनुजानातीति अभिगरः । यत् 'मनः', त- द्धविस्थानीयं । 'तपसि' अग्निस्थानीये, तन्मनोहविः 'जुहोमि' स्थापयामि । अत्र वागादीनां षण्णां होत्रादिरूपेण होम- निष्पादकानां अभिधानात् षड्ढोतृत्वं ॥
अथ ग्रहभागमाह । ^(१)“भूर्भुवःसुवः ० स्वयम्भुवे स्वाहा” ^(२) इति । य एते भूरादयस्त्रयो लोकास्तेषां यत् कारणं 'स्वयम्भु' स्वतःसिद्धं परं ब्रह्म, तस्मै 'स्वयम्भुवे' परब्रह्मणे, जुहु- धीति स्वकीया वागाह ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके तृतीयप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥
| २६२ | तैत्तिरीये आरण्यके |
|---|
अथ सप्तमोऽनुवाकः ।
(१)ब्राह्म॒ण एक॑होता । स य॒ज्ञः । स मे॑ ददातु प्र॒जां प॒शून् पु॒ष्टिं यश॑ः । य॒ज्ञश्च॑ मे भूयात्(१) । (२)अ॒ग्निर्द्विहो॑ता । स भ॒र्ता । स मे॑ ददातु प्र॒जां प॒शून् पु॒ष्टिं यश॑ः । भ॒र्ता
अथ सप्तमोऽनुवाकः ।
अनन्तरभाविनोऽनुवाकस्य चातुर्मास्येषु केशनिवर्तनेषु तदृतं तत् सत्यमिति जपित्वा पश्चाज्जपमापस्तम्ब आह । ब्राह्मण एक होतेति च अनुवाकमिति तथा ब्रह्ममेधे उद्द्रवतामञ्जनस्यानुमन्त्रणे विनियोगं भरद्वाज आह । ब्राह्मण एक होतेति चेति । एतदनुवाकगतेषु दशसु पर्यायेषु प्रथमं पर्यायमाह । (१)“ब्राह्मणः ० मे भूयात्”(१) इति । योऽयं वेदविद्ब्राह्मणः सोयमेकेन स्वकीयेन तपसा जुहोति सर्वस्य जगतः उपकरोतीति 'एकहोता', स एव च ज्योतिष्टोमादिनिष्पादकत्वात् यज्ञस्वरूपश्च । स ईदृशः 'ब्राह्मणः', मह्यं प्रजादिचतुष्टयं 'ददातु' । तत्प्रसादात् 'यज्ञः', अपि मे सर्वदा भूयात् ॥
अथ द्वितीयं पर्यायमाह । (२)“अग्निर्द्विहोता ० भूयात्”(१) द्वाभ्यां पाकहविर्वहनाभ्यां उपकरोतीति 'द्विहोता' । अतएव पोषकत्वात् 'भर्त्ता' । अन्यत् पूर्ववद्व्याख्येयं ॥
३ प्रपाठके ७ अनुवाकः । २६३
च मे॑ भू॒यात्(२) । (३)पृ॒थि॒वी त्रि॒होता॑ । स प्र॒ति॒ष्ठा ॥ १ ॥
स मे॑ ददातु प्र॒जां प॒शून् पु॒ष्टिं यशः॑। प्र॒ति॒ष्ठा च॑ मे भू-
यात्(३)। (४)अ॒न्तरि॑क्षं चतु॑र्होता । स वि॒ष्ठाः। स मे॑ ददातु
प्र॒जां प॒शून् पु॒ष्टिं यशः॑ । वि॒ष्ठाश्च॑ मे भूयात्(४) । (५)वा॒युः
प॒ञ्च॑होता । स प्रा॒णः । स मे॑ ददातु प्र॒जां प॒शून् पु॒ष्टिं
यशः॑। प्रा॒णश्च॑ मे भूयात्(५) ॥ २ ॥
(६)च॒न्द्रमाः॑ षड्ढोता । स ऋ॒तून् क॑ल्पयाति । स
तृतीयमाह । (३)“पृथिवी त्रिहोता ॰ प्रतिष्ठा च मे भूयात्” (१) इति । त्रिभिरग्न्यन्वयागैह्रुपकरोतीति त्रिहोतृत्वं सर्वं प्राण्याधारत्वेन प्रतिष्ठात्वं ॥
अथ चतुर्थमाह । (४)“अन्तरिक्षं चतुर्होता ॰ विष्ठाश्च मे भूयात्”(२) इति । चतुर्भिर्वा वृत्त्याकाशस्थानैः* उपकाराच्चतुर्होतृत्वं । यक्षगन्धर्वादीनां आश्रयत्वाद्विविधं स्थितिहेतुत्वञ्च ॥
अथ पञ्चममाह । (५)“वायुः पञ्चहोता ॰ प्राणश्च मे भूयात्”(५) इति । पञ्चभिः प्राणवृत्तिभिरुपकरोतीति पञ्चहोतृत्वं । वायोः प्राणरूपत्वं प्रसिद्धं ॥
अथ षष्ठमाह । (६)“चन्द्रमाः ॰ कल्पन्तां”(६) इति । षण्णामृतूनां निष्पादकत्वेन षड्ढोतृत्वं । ‘चन्द्रमाः’, अपि वृद्ध्यपचयक-
* वृक्षावकाशस्थानैः इति F' पुस्तकपाठः ।
२६४ तैत्तिरीये आरण्यके
मे ददातु प्र॒जां प॒शून् पुष्टिं॒ यश॑ः। ऋ॒तव॑श्च मे कल्प- न्तां^(६)। ^(७)अ॒न्नं॑ सप्त॒ होता॑। स प्रा॒णस्य॑ प्रा॒णः। स मे॑ ददातु प्र॒जां प॒शून् पुष्टिं॒ यश॑ः। प्रा॒णस्य॑ च मे प्रा॒णो भू॑यात्^(७)। ^(८)द्यौर॑ष्ट॒होता॑। सोऽनाधृ॒ष्यः॑ ॥ ३ ॥ स मे॑ ददातु प्र॒जां प॒शून् पुष्टिं॒ यश॑ः। अ॒ना॒धृ॒ष्य॑श्च भू- यासं^(८)। ^(९)आ॒दि॒त्यो नव॑होता। स तेज॑स्वी। स मे॑ ददातु प्र॒जां प॒शून् पुष्टिं॒ यश॑। ते॒ज॒स्वी च॑ भूयासं^(९)।
राभ्यां शुक्लकृष्णपक्षद्वारा ‘ऋतून् कल्पयति’। अत एवान्य- चाम्नातं। ऋतूनन्यो विदधज्जायते पुनरिति ॥ अथ सप्तममाह। ^(७)“अन्नं सप्त ॰ प्राणो भूयात्” इति। सप्तानां शीर्षण्यानां प्राणवृत्तीनां पोषकत्वेन सप्तहोतृत्वं। अत एव प्राणपोषकत्वात् प्राणस्य प्राण इत्युच्यते ॥ अथाष्टममाह। ^(८)“द्यौरष्ट ॰ अनाधृष्यश्च भूयासं”^(८) इति। आरोग्यादिभिः कश्यपान्तैरष्टभिः सूर्यैरुपकरोतीति अष्टहोतृत्वं। द्युलोकस्य केनापि निराकर्तुमशक्यत्वादनाधृष्यत्वं॥ अथ नवममाह। ^(९)“आदित्यो ॰ तेजस्वी च भूयासं”^(९) इति। पूर्वोक्तैरष्टभिर्होतृभिस्तत्रानुगतेन सामान्यरूपेण नवधो- पकारात् नवहोतृत्वं तेजस्वित्वं चादित्यस्य प्रसिद्धं ॥
३ प्रपाठके ७ अनुवाकः । २८५
^(१०)प्र॒जाप॑तिर्दश॑होता । स इ॒दꣳ सर्व॑ । स मे॑ ददातु प्र॒जां प॒शून् पुष्टिं यश॑: । सर्व॑ञ्च मे भूयात्^(१०) ॥ ४ ॥
प्रति॑ष्ठा, प्रा॒णश्च॑ मे॑ भूयात्, अनाधृष्य॑:, सर्व॑ञ्च मे भूयात् ॥
*ब्राह्म॒णः, य॒ज्ञः, अ॒ग्निः, भ॒र्ता, पृ॑थि॒वी, प्रति॑ष्ठा, अन्तरि॑क्षं, वि॒ष्ठा, वा॒युः, प्रा॒णः, च॒न्द्रमा॑, ऋ॒तून्, अन्न्ꣳ, स प्रा॒णस्य॑, प्रा॒णः, द्यौः, अ॑नाधृ॒ष्यः, आ॑दि॒त्यः, स ते॑ज॒स्वी, प्र॒जाप॑तिः, स इ॒दꣳ सर्व॑, च मे॑ भूयात् ॥
अनु० ७ ॥
अथ दशममाह । ^(१०)“प्रजापतिः ० मे भूयात्”^(१०) इति । नव वै पुरुषे प्राणा नाभिर्दशमीतिश्रुतानि शरीरगतानि दशच्छिद्राण्युत्पाद्योपकारित्वादशहोत्रत्वं । सर्वजगत्कारणत्वेन सर्वात्मकत्वं प्रजापतेः प्रसिद्धं ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके तृतीयप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥
* एषानुक्रमणिका A चिह्नितपुस्तके वर्त्तते न त्वितरपुस्तकद्वये
२०
२६६ तैत्तिरीये आरण्यके
अथाष्टमोऽनुवाकः ।
(१)अ॒ग्निर्यजु॑र्भिः । स॒वि॒तास्तोमैः॑ । इन्द्र॑ उ॒क्थामदैः॑ । मि॒त्रावरु॑णावा॒शिषा॑ । अङ्गि॑रस॒ धिष्णि॑यैर॒ग्निभिः॑ । म॒रुतः॒ सदो॑ ह॒विर्धा॒नाभ्या॑म् । आपः॒ प्रोक्ष॑णीभिः । ओष॑धयो ब॒र्हिषा॑ । अदि॑ति॒र्वेद्या॑ । सोमो॑ दी॒क्षया॑ ॥ ॥ १ ॥ त्वष्ट्रेध्मेन॑ । विष्णु॑र्य॒ज्ञेन॑ । वस॑व॒ आज्ये॑न । आ- दि॒त्या दक्षि॑णाभिः । विश्वे॑ दे॒वा ऊ॒र्जा । पू॒षा स्व॑गा-
अथाष्टमोऽनुवाकः ।
अथ सम्भारयजूंषि उच्यन्ते । तेषां चेष्टकोपधाने विनि- योगश्चातुर्होत्रीयब्राह्मणेऽभिहितः । हृदयं यजूंषि पत्न्यन्वे- ति । तेषामेकविंशतिसङ्ख्याकानां यजुषां पाठस्तु । (१)“अग्नि- र्यजुर्भिः ० अहर् अद्भूया”(१) इति । अत्राग्निसवित्रादयो देवा यजुस्तोमादीनि यज्ञे संवरणीयान्यङ्गानि* एतैर्देवाः तैः संवरणीयैः† सहास्मिन् कर्म्मण्यागच्छन्त्विति‡ वाक्यार्थः । ‘उक्थामदः’ शस्त्रवाची । यज्ञशब्दो हविःप्रक्षेपवाची । ‘स्व-
* सम्भरणीयान्यङ्गानि इति तै० पाठः ।
† सम्भरणीयैरिति तै० पाठः ।
‡ कर्म्मण्यागच्छन्विति तै० पाठः
३ प्रपाठके ८ अनुवाकः। २६७
कारे॑ण। बृह॒स्पतिः॑ पुरोध॒या। प्र॒जाप॑तिरुद्गी॒थेन॑। अ॒न्तरि॑क्षं प॒वित्रे॑ण। वा॒युः पात्रैः॑॥ अह॒ꣳ श्र॒द्धया॑^(१) ॥ २ ॥ दी॒क्षया॑, पात्रैः॑, एक॑ञ्च॥ अनु० ८॥
अथ नवमोऽनुवाकः।
^(१)सेनेन्द॑स्य। धे॒ना बृ॒हस्पतेः॑। प॒थ्या॑ पू॒ष्णः। वा- ग्वा॒योः। दी॒क्षा सोम॑स्य। पृ॒थि॒व्य॒ग्नेः। वसू॑नां गा- य॒त्री। रु॒द्राणां॑ त्रि॒ष्टुप्*। आ॒दि॒त्यानां॒ जग॑ती। वि- ष्णो॑रनु॒ष्टुप्*॥ १॥
गाकारः' शंयुवाकमन्त्रः। पुरोधाग्रहणकाले पठनीया ऋक् पुरोवाक्। 'पवित्र'शब्दो दशापवित्रवाचो। 'अहं' यजमानः, 'श्रद्धया', सहागच्छामि। स्पष्टमन्यत्॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके तृतीयप्रपाठके अष्टमोऽनुवाकः॥ ८॥
अथ नवमोऽनुवाकः।
अथ देवपल्याख्या मन्त्रा उच्यन्ते। तेषां च विनियोगः पूर्ववद्द्रष्टव्यः। पत्न्यस्येत्येवं तत्र पत्नीष्टकानांमभिधानात्। पा-
* चादर्शपुस्तकेषु त्रिष्टुक् अनुष्टुक् इति पाठद्वयं।
202
२६८ तैत्तिरीये आरण्यके
वरु॑णस्य वि॒राट् । य॒ज्ञस्य॑ प॒ङ्क्तिः । प्र॒जाप॑तेरनु॑म- तिः । मि॒त्रस्या॒ श्रद्धा । स॒वितुः प्रसू॑तिः । सूर्य॑स्य॒ मरी॑- चिः । च॒न्द्रम॑सो॒ रोहि॑णी । ऋषी॑णामरुन्ध॒ती । प॒र्ज- न्य॑स्य वि॒द्युत् । चत॑स्रो॒ दिशः॑ ॥ चत॑स्रोऽवान्तरदि॒शाः । अह॑श्च॒ रात्रिश्च । कृ॒षिश्च॑ वृ॒ष्टिश्च॑ । त्विषि॑श्चाप॑चितिश्च । आप॑श्चौषधयश्च । ऊर्क॑ च सू॒नृता॑ च दे॒वानां॒ प- त्न्यः⁽१⁾ ॥ २ ॥
अनु॑ष्टुक्, दिशः॑, षट् च॑ ॥ अनु० ९ ॥
८सु । (१)"सेनेन्द्रस्य • देवानां पत्नयः"(१) इति । देवताः इन्द्रादयः तत्पत्न्यः सेनादयः पत्न्यः । दिग्विदिगादयोऽपि केषाञ्चिद्देवानां पत्न्यः । एताः सर्वाः आगत्य यज्ञमविकलं कुर्वन्विति वाक्यार्थः । तत्राम्नातैः षड्विंशतिवाक्यैः षड्विंशतिसङ्ख्याकाः पत्नीष्टका उपदध्यात् ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके तृतीयप्रपाठके नवमोऽनुवाकः ॥ ९ ॥
३ प्रपाठके १० अनुवाकः । २६६
अथ दशमोऽनुवाकः ।
^(१)देव॑स्य त्वा सवि॒तुः प्रस॑वे । अ॒श्विनो॑र्बा॒हुभ्या॑म् । पू॒ष्णो हस्ता॑भ्यां॒ प्रति॑गृह्णामि । राजा॑ त्वा॒ वरु॑णो नयतु देवि दक्षिणे॒ऽग्नये॒ हिर॑ण्यम् । तेना॑मृ॒तत्वम॑श्याम् । वयो॑ दा॒त्रे । मयो॒ मह्य॑मस्तु प्रतिग्रही॒त्रे । क इ॒दं कस्मा॑ अदात् । कामः॒ कामा॑य । कामो॑ दा॒ता ॥ १ ॥ कामः॑ प्रतिग्रही॒ता । काम॒ꣳ समु॒द्रमावि॑श । कामे॑न त्वा॒ प्रति॑गृह्णामि । कामै॒तत्ते॑ । ए॒षा ते॑ काम॒ दक्षि॑-
अथ दशमोऽनुवाकः ।
अथ प्रतिग्रहमन्त्रा उच्यन्ते । तैश्च प्रतिग्रहैरिष्टकोपधानं चातुर्होत्रीयब्राह्मणे एवमाम्नातं । यथावकाशं प्रतिगृह्णन्_ लोकं पृणाञ्चेति । तत्र प्रथममाह । ^(१)“देवस्य ॰ वैश्वानराय रथं”^(१) इति । हे प्रतिगृह्यमाणद्रव्य ‘सवितुः देवस्य’, प्रेरणे सति अश्विसम्बन्धिभ्यां ‘बाहुभ्यां’, पूषसम्बन्धिभ्यां ‘हस्ताभ्यां’, त्वां ‘प्रतिगृह्णामि’ । हे ‘दक्षिणे देवि’, ‘वरुणो राजा’, हिरण्यरूपाम् त्वां ‘अग्नये’, प्रापयतु । ‘तेन’ अग्निप्रापणेन, प्रतिग्रहदोषाभावात् । अहं ‘अमृतत्वं’ नरकाभावरूपं, प्राप्नुयां, इयञ्च दक्षिणादात्रे ‘वयः अस्तु’ पक्षिरूपिणी भूत्वा दातारं स्वर्गे