भारतकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

४ प्रपाठके ११ अनुवाकः । ५०७

सप्र॒थाः(१०) । (११)अप॒ द्वेषो॒ अप॒ ह्वर॑ः । अन्यद्व्र॒तस्य॑ सश्चिमः(११) । (१२)घ॒र्म्मत॑त्ते॒ऽन्नमे॒तत् पुरी॑षम् । तेन॑ वर्द्धस्व


कल्पः । सदो विश्वायुरित्युत्तरेणोत्तरवेदिं खरौ न्युष्या-* नुव्यूहतीति । शर्म सप्रथा इति मन्त्रशेषः । (१०मन्त्रः) । 'सदः' भूप्रदेशविशेषः †उत्तरवेद्युत्तरदेशरूपः, 'विश्वायुः' कृत्स्नायु- र्हेतुः, अतएव 'सप्रथाः' ख्यातियुक्तः, 'शर्म' सुखहेतुः ॥

‡शर्मशब्देन भूमिविवक्षां दर्शयति । "सदो विश्वायुरि- त्याह । सदो हीयं।" इति । (५ प्र० । ६ अ० । १८ म०) ॥

कल्पः । अप द्वेषो अप ह्वर इति मार्जारीयदेशे उच्छिष्ट- खरमिति न्युष्यानुव्यूहतीत्यनुवर्त्तते । अन्यद्व्रतस्य सश्चिमेति मन्त्रशेषः । (११मन्त्रः) । 'द्वेषः' द्वेष्टा शत्रुः, अपनीतः, 'ह्वरः' कौटिल्यकारी चापनीतः । 'व्रतस्य' अनुष्ठीयमानस्य कर्मणः, 'अन्यत् सश्चिमः' पूर्वोक्तद्वेषकौटिल्याभ्यामतिरिक्तं क्षेमेणानु- ष्ठानं वयं सम्पादितवन्तः ॥

अनेन मन्त्रेण शत्रुनिराकरणं दर्शयति । "अप द्वेषो अप ह्वर इत्याह भ्रातृव्यापनुत्यै।" इति । (५ प्र० । ६ अ० । १८ म०) ॥

कल्पः । घर्म्मतत्तेऽन्नमेतत् पुरीषमिति दध्ना मधुमिश्रेण पात्राणि पूरयतीति । पाठस्तु । (१२)घर्म्मतत्तेऽन्नमेतत्पुरीषं । •


* नाभिं खरावन्युष्या इति तै० पुस्तकपाठः ।
† उत्तरनाभ्युत्तरदेशः इति तै० पुस्तकपाठः ।
‡ सदःशब्देन इति तै० पु० पाठः ।

५०८ तैत्तिरीये आरण्यके

चाच॑प्यायस्व । वर्द्धी॒षीमहि॑ च व॒यं । आच॑प्यासिषी॒महि॑(१२) ॥ ४ ॥

(१३)र॒न्तिर्नामा॑सि दि॒व्यो ग॑न्ध॒र्व्वः । तस्य॑ ते य॒द्- द्वेवि॒द्दानं॑ । अ॒ग्निरध्य॑क्षाः । रु॒द्रोऽधि॑पतिः(१३) । (१४)स-


आचप्यासिषीमहि ।”(१२) इति । हे ‘घर्म’, ‘एतत्’ मधुमिश्रं दधि, ‘ते’ तव, ‘अन्नं’, ‘एतत्’, च ‘पुरीषं’ सम्पूर्णं, ‘तेन’ मधुमिश्रेण दध्ना, त्वं ‘वर्द्धस्व’ ‘आप्यायस्व च’, अभिवृद्धिसुखरूपबाहुल्यं आप्यायनं मानसः परितोषः, त्वत्प्रसादात् ‘वयं’, अपि वृद्धिमाप्यायनञ्च प्राप्नुवाम ॥

एतन्मन्त्रसाध्यं पूरणं विधत्ते । “घर्मैतत्तेऽन्नमेतत् पुरीषमिति दध्ना मधुमिश्रेण पूरयति । ऊर्ग्वा अन्नाद्यं दधि । ऊर्ज्जैवेनमन्नाद्येन समर्द्धयति ॥ ७ ॥” इति । (५ प्र०।६ अ०। २० म०) । ऊर्क्शब्देन खादुलमुच्यते ॥

अन्नाद्यशब्देनोदरपूर्त्तिहेतुत्वं वेदनं प्रशंसति । “अनशनारुको भवति । य एवं वेद ।” इति । (५ प्र०।६ अ०।२१ म०) । अशनेच्छाशीलः अशनायुको दरिद्रः ‘अनशनायुकः’ तृप्तः ॥

कल्पः । अथैनमुपतिष्ठन्ते रन्तिर्नामासि दिव्यो गन्धर्व्व इति । रन्तिरित्यादयः परिजानादहीनमित्यन्ता बहवो मन्त्राः । तेषु प्रथमं मन्त्रमाह । पाठस्तु । (१३)“रन्तिर्नामासि ० रुद्रोऽधिपतिः”(१३) इति । रन्तिनामको द्युलोकवर्त्ती यः ‘गन्धर्व्वः’,

४ प्रपाठके ११ अनुवाकः । ५०६

म॒हमायु॑षा । सं प्रा॒णेन॑ । सं वर्चे॑सा । सं पय॑सा । सं गौपत्ये॑न । सꣳ रायस्पोषे॑ण^(१४) ॥ ५ ॥


असि, हे प्रवर्ग्य, तद्रूपस्त्वं ‘असि’, ‘तस्य ते’ तादृशस्य गन्धर्व्व- रूपस्य तव, ‘हविर्द्धानं’, ‘यदत्’ हविर्द्धानाख्यमण्डपादिसदृशं* उत्तरवेद्यां प्राक् शिरस्त्वेनावस्थितस्य तवाधोभागवर्त्तित्वात्, योऽयं ‘अग्निः’, उत्तरवेदिं गतः, सोऽयं ‘अध्यक्षः’ तव स्वामी, योऽयं ‘रुद्रः’ क्रूरो देवः, सोऽयं ‘अधिपतिः’ अनिष्टनिवार- णेनाधिकपालकः ॥

मन्त्राक्षरैः प्रवर्ग्यमहिम्नः स्पष्टप्रतिभानं दर्शयति। “रन्ति- र्नामासि दिव्यो गन्धर्व्व इत्याह। रूपमेवास्यैतन्महिमानम्† रन्तिं बन्धुतां व्याचष्टे।” इति। (५ प्र०।६ अ०।२२म०)। ‘रन्तिः’ बन्धुत्वं, रमणहेतुत्वात्, मन्त्रस्य यत् स्वरूपमस्ति रन्त्यादि- शब्दोपेतं एतदेव प्रवर्ग्यस्य बन्धुत्वलक्षणं महिमानं प्रका- शयति ॥

द्वितीयं मन्त्रमाह। ^(१४)“समहमायुषा ॰ सꣳ रायस्पो- षेण”^(१४) इति । ‘अहं’, अस्य प्रवर्ग्यस्य प्रसादादायूरादिना रायस्पोषान्तेन फलषट्केन सङ्गतो भूयासं ॥

मन्त्रस्याशीरर्थतां दर्शयति । “समहमायुषा सं प्राणेने-


* मण्डपं पादसदृशमिति तै० पुस्तकपाठः
† खस्य महिमानमिति तै० पुस्तकपाठः।

५१० तैत्तिरीये आरण्यके

(१४)॒व्यसौ॑ । यो᳭स्मान्द्वेष्टि॑ । यञ्च॑ व॒यं द्वि॒षः(१५) ।
(१६)॒अचि॑क्रदद्वृषा॒ हरि॑: । म॒हान्मि॒त्रो न दर्श॑तः । सꣳ
सूर्ये॑ण रोचते(१६) । (१७)चि॒दसि॑ समु॒द्रयो॑निः । इन्दु॑-


त्याह । आशिषमेवैतामाशास्ते” इति । (५ प्र०।६ अ०, २३ म०) ॥

तृतीयं मन्त्रमाह । (१५)“व्यसौ • यञ्च वयं द्विषः”(१५) इति । ‘यः’, अस्माकं द्वेष्टा, यश्चास्माभिर्द्वेष्यः, उभयविधः ‘असौ’ शत्रुः, प्रवर्येण विनाशितः ॥

मन्त्रस्य परविनाशपरत्वेनाभिचाररूपतां दर्शयति । “व्यसौ योऽस्मान् द्वेष्टि यञ्च वयं द्विष इत्याह । अभिचार एवास्येषः ।” इति । (५ प्र०।६अ०।२४म०) । ‘अस्य’ शत्रोः, ‘एषः’ मन्त्रपाठः यजमानेन कृतोऽभिचारः, तेनासौ विनश्यतीत्यर्थः ॥

चतुर्थं मन्त्रमाह । (१६)“अचिक्रदद् वृषा हरिः • सꣳ सूर्येण रोचते”(१६) इति । अयं प्रवर्त्यः ‘वृषा’ कामानां वर्षयिता, ‘हरिः’ पापस्य हर्त्ता, तादृशः सन् ‘अचिक्रदत्’ *क्रन्दनमुत्साहेनास्फोटनं कृतवान् । स च प्रवर्त्यः ‘महान्’ गुणैरधिकः, ‘मित्रो न’ मित्र इव, ‘दर्शतः’ दर्शनीयः, तादृशः ‘सूर्येण’ सङ्भूय ‘रोचते’ प्रकाशयति ॥

प्रथमपादे विशेषणयोः प्रसिद्धिं दर्शयति । “अचिक्रदद्


* क्रन्दनमुत्साहेनाखान्दं इति D चिह्नितपुस्तकपाठः । क्रन्दनमुत्साहोद्घाटनं इति तै० पुस्तकपाठः ।

४ प्रपाठक ११ अनुवाकः । ५११

दक्ष॑: श्ये॒न ऋ॒तवा॑* । हिर॑ण्यपक्षः शकु॒नो भु॑र॒ण्युः ।
म॒हान्त्स॒धस्थे॑ ध्रु॒व आनि॑षत्तः ॥ ६ ॥
नम॑स्ते अस्तु॒ मा मा॑ हिग्ंसीः^(१७) । ^(१८)विश्वाव॑सु॒र्

वृषा हरिरित्याह । वृषा ह्येषः ॥ ८ ॥ वृषा हरिः” । इति ।
(५ प्र० । ६ अ० । २५ म०) । यथा वृषत्वं प्रसिद्धं तथा हरि-
त्वमपीति वक्तुं 'वृषः' इति पुनरुक्तिः ॥
द्वितीयपादस्य स्तुतिपरतां दर्शयति । “महान्मित्रा न
दर्शंत इत्याह । स्तौत्यैवनमेतत्” । इति । (५ प्र० । ६ अ० । २६ म०)॥
पञ्चमं मन्त्रमाह । ^(१७)“चिदसि समुद्रयोनिः ० नमस्ते
अस्तु मा मा हिग्ंसीः”^(१७) इति । हे प्रवर्ग्य, त्वं चिदादि-
विशेषणविशिष्टः, 'असि' । 'चिद्' अभिज्ञः, 'समुद्रयोनिः' याग-
द्वारा समुद्रस्यापि कारणभूतः, 'इन्दुः' चन्द्रवदाह्लादकारो,
'दक्षः' उत्साहवान्, 'श्येनः' श्येनवद्वेगवान्, 'ऋतवा' कर्मफल-
युक्तः, 'हिरण्यपक्षः' चित्याग्नावन्ष्ठीयमानः सन् सुवर्णसमान-
पक्षोपेतः, 'शकुनः' पक्ष्याकारः, 'भुरण्युः' जगद्धरणसमर्थः,
'महान्' गुणैरधिकः, 'सधस्थे' कर्मकर्तृभिः सहावस्थानप्रदेशे,
'ध्रुवः' स्थिरः, 'आनिशत्तः' आभिमुख्येनोपविष्टः । हे प्रवर्ग्य,
'ते नमः', मां 'मा हिग्ंसीः' ॥
समुद्रयोनिशब्दस्य तात्पर्यं दर्शयति । “चिदसि समुद्र-


* ऋतावा इति A, B, C, D, E, G, चिह्नितपुस्तकषट्कपाठः ।
3 s

५१२ तैत्तिरीये आरण्यके

सोम॑गन्ध॒र्व्वं । आपो॑ ददृ॒शुषीः॑ । तदृ॒तेना॑व्यायन् । तद॒न्व॑वैत् । इन्द्रो॑ रार॒हाण आ॑सां । परि॒ सूर्य्य॑स्य*


योनिरित्याह । स्वामेवैनं योनिं गमयति ।” इति । (५ प्र० । ६ अ० । २७ म०) । समुद्रादिकं जगत्कर्मरूपं, स्वकीयां ‘योनिं’, प्रापयति । यद्वा समुद्रो योनैर्यस्य प्रवर्ग्यस्येति बहुव्रीहिः, समुद्रसदृशः परमात्मा तस्य कारणं, ततो मन्त्रपाठेन स्वकीययोनिप्राप्तिः ॥

वैकल्यप्रयुक्तहिंसापरिहारार्थतां नमस्कारस्य दर्शयति । “नमस्ते अस्तु मा मा हिंसीरित्याहाहिंसायै” । इति । (५ प्र० । ६ अ० । २८ म०) ॥

षष्ठं मन्त्रमाह । (१५)“विश्वावसुᳵ सोमगन्धर्व्वं ॰ परिसूर्य्यस्य परिधीन् रपश्यत्”(१८) इति । सोमस्य परिमोषको गन्धर्व्वः ‘सोमगन्धर्व्वः’ । स च ‘विश्वावसु’नामकः, अतएव सोमप्रकरणे श्रूयते, तँ सोममाह्रियमाणं गन्धर्व्वो विश्वावसुः पर्य्यमुष्णादिति । सोमस्यापहर्त्तारं तं, ‘विश्वावसुं’, ‘आपो ददृशुषीः’ अब्देवता दृष्टवत्यः, ताश्चाब्देवताः ‘ऋतेन’ यज्ञेन निमित्तेन, ‘तत्’ तदा, ‘अव्यायन्’ विशेषेण गन्धर्व्वसमीपं प्रत्यागच्छन्, ‘इन्द्रः’, देवः, ‘तत्’ अपां गमनं, ‘अन्ववैत्’ अनुक्रमेण ज्ञातवान्, स च इन्द्रः, ‘आसां’ अपां समीपे, ‘रारहाणः’ भृशं गच्छन्, ‘सूर्य्यस्य’,


* B चिह्नितपुस्तके परिसूर्य्यस्य इति पाठो नास्ति ।

४ प्रपाठक ११ अनुवाकः । ५१३

परिधीँ॒रप॑श्यत्^(१८) । ^(१९)विश्वाव॑सुर॒भि तन्नो॑ गृणा- तु । दि॒व्यो ग॑न्ध॒र्व्वो रज॑सो वि॒मान॑: । यद्धा॒द्य स॒त्य- मु॒त यन्न वि॒द्म ॥ ७ ॥

‘परिधीन्’ परिधिसदृशान्, दम्याभिमानिनो देवान्, ‘पर्य्य- पश्यत्’ परितो वेष्टयितॄन् अवलोकितवान् । यदा गन्धर्व्वः सोमं मुष्णाति तदानीमापो दृष्ट्वा तत्र गताः, इन्द्रश्च तद- भिज्ञाय अपां सहायार्थं गन्धर्व्वमवरोद्धुं सूर्य्यरश्मीन् प्रेषित- वानित्यर्थः ॥

विश्वावसुवृत्तान्तस्मरणस्य विकलाङ्गसमाधानार्थत्वं दर्श- यति । “विश्वावसुꣳ सोमगन्धर्व्वमित्याह । यदेवास्य क्रिय- माणस्यान्र्तयन्ति । तदेवास्यैतेनाप्याययति* ।” इति । (५ प्र० । अ० । २६ म०) । अनुष्ठीयमानस्य प्रवर्ग्यस्य ‘यत्’ अङ्गम्, ऋत्विजः अन्तर्हितं कुर्व्वन्ति, ‘तत्’ अङ्गं, ‘एतेन’ वृत्तान्तस्मरणेन, समृद्धं करोति । गन्धर्वेणापादितस्य वैकल्यस्याद्भिरिन्द्रेण च समा- हितत्वात्तदनुस्मरणस्य समाधानार्थत्वं युक्तं ॥

सप्तमं मन्त्रमाह। ^(१९)“विश्वावसुरभि तन्नो गृणातु । • धियो हिन्वानो धिय इन्नो अव्यात् ।”^(१९) इति। अस्मिन् कर्म्मणि ‘यद्धाद्य’ यदेव किञ्चिदङ्गं यथाशास्त्रं अनुष्ठितं, ‘उत’ अपि च, ‘यत्’ अङ्गम्, ‘न विद्म’ वयं विस्मृतवन्तः, ‘तत्’-सर्व्वं, ‘नः’ अस्मभ्यं,


* काप्यायति इति F, H, चिह्नितपुस्तकद्वयपाठः ।

3 s 2

५१४ तैत्तिरीये आरण्यके

धियो॑ हिन्वा॒नो धिय॒ इन्नो॑ अव्यात्^(१९)। ^(२०)स-
सि॑म॒विन्दच्चर॑णे न॒दीना॑म्। अपा॑वृणो॒द् दुरो॒ अश्म॑-

'विश्वावसुः', 'गृणातु' कथयतु। कीदृशः, 'दिव्यो गन्धर्व्वः' दिवि भवो गन्धर्व्वजातिः, अतः सर्व्वज्ञ इत्यर्थः। 'रजसो विमानः' रञ्जकस्य गीतस्य विशेषेण निर्माता, 'धियो हिन्वानः' बुद्धेः प्रीणयिता, स गन्धर्व्वः 'नः' अस्मदीयाः, 'धिय इत्' बुद्धीः सर्व्वा अपि, 'अव्यात्' रक्षतु॥

पूर्व्वमन्त्रे* यथाङ्गवैकल्यसमाधानहेतुत्वं, तद्वदस्यापि वैकल्यसमाधानहेतुतां दर्शयति। “विश्वावसुरभितन्नो गृणात्वित्याह॥ ९॥ पूर्व्वमेवोदितं। उत्तरेणाभिगृणातु”। इति। (५ प्र०। ८ अ०। ३० म०)॥

चतुर्थपादे धीरक्षणेन ऋतुसमृद्धिर्विवक्षितेति दर्शयति। “धियो हिन्वानो धिय इन्नो अव्यादित्याह। ऋतूनेवास्मै कल्पयति”। इति। (५ प्र०। ८ अ०। ३१ म०)। ऋतवो यदा स्वस्वकार्य्यकराः तदा प्राणिनां बुद्धयः स्वस्था भवन्ति। अतो धीरक्षणं ऋतुषु प्रवाहरूपेण प्रवर्त्तते॥

अष्टममन्त्रमाह। ^(२०)“ससिमविन्दच्चरणे नदीनां। ० इन्द्रो दृढं परिजानादहीनं”^(१०) इति। यः पूर्व्वों गन्धर्व्वः अस्ति सः


* पूर्व्वमन्त्रो यथाङ्गवैकल्यसमाधानहेतुः। इति F, H, चिह्नितपुस्तकद्वयपाठः।

४ प्रपाठके ११ अनुवाकः। ५१५

व्रजा॒नां । प्रासां॑ गन्ध॒र्व्वो अ॒मृता॑नि वोचत् । इन्द्रो॒ दक्षं॑ परि॑जानादही॒नं⁽२०⁾ ।(११) ए॒तत्वं॑ दे॑व घ॒र्म्म दे॒वो दे॒वा-


अयं 'नदीनां' गङ्गायमुनादीनां, 'चरणे' प्रवाहरूपे प्रवर्त्तके, 'मन्झिमविन्दत्' शुद्धिं लब्धवान्, नदीप्रवहणेन पङ्कादि- प्रक्षालनात् शुद्धिं दृष्टवान् । अश्मसु पाषाणेषु व्रजन्ति प्रवहन्ति इति, 'अश्मव्रजाः' नद्यः, तासां, 'दुरः' द्वाराणि, 'अपावृणोत्' अपनीतवान्, नदीषु प्रवेष्टुं द्वारस्थानीया- स्तीर्थभूताः मार्गाः अश्मभिर्य्ये अवरुद्धाः, तत्र पाषाणान् अपनीय नदीः सेवितुं योग्याः कृतवान् । ततः 'आसां' नदीनां, 'अमृतानि' शुद्धिकारणानि जलानि, सः 'गन्धर्व्वः', 'प्रवोचत्' प्राणिनामग्रे कथितवान् । ततः 'इन्द्रः', 'दक्षं' कुशलं गन्धर्व्वं, 'अहीनं' क्वापि वैकल्यरहितं, 'परिजानात्' परितो ज्ञातवान् ॥

अत्र जलवाचिना अमृतशब्देन मरणरहितानां प्राणाना- मपि सूचनं दर्शयति । "प्रासां गन्धर्व्वो अमृतानि वोचदि- त्याह । प्राणा वा अमृताः । प्राणानेवास्मै कल्पयति" । इति । (५ प्र० । ६ अ० । ३२ म०) । अमृतशब्दपाठेने यजमानस्य प्राणान् सुस्थितान् करोति ॥

कल्पः । एतत्वं देव घर्म देवो देवानुपागा इति अभि- मन्त्रयेत । (११ मन्त्रः) । हे 'घर्म देव', 'त्वं', 'देवः' देवतारूपः

५१६तैत्तिरीये आरण्यके

नुपा॑गाः(११)। (१२)इ॒दम॒हं मंनु॒ष्यो॑ मनु॒ष्या॑न्। सोम॑पी-

सन्, ‘एतत्’ अस्माकं प्रत्यक्षं यथा भवति तथा, ‘देवान्’, ‘उपागाः’ प्राप्तवानसि ॥

अत्र प्रवर्ग्यस्य देवत्वं सर्व्वदेवप्रापणञ्च* प्रसिद्धमित्येतद्दर्शयति । “एतत्वं देव घर्म देवो देवानुपागा इत्याह । देवो ह्येष सन् देवानुपैति” । इति । (५ प्र० । ६ अ० । ३३ म०) ॥

कल्पः । इदमहं मनुष्यो मनुष्यानिति प्रदक्षिणमावृत्त्येति । पाठस्तु । (१२)“इदमहं मनुष्यो मनुष्यान् । ० सह रायस्पोषेण”(१२) इति । ‘अहं’ यजमानः, ‘मनुष्यः’, सन् ‘इदं’ प्रत्यक्षं यथा भवति तथा, ‘मनुष्यान्’, प्राप्नोमीति शेषः। हे ‘सोमपीथ’ सोमपान, ‘मां’, आभिमुख्येन ‘अन्विहि’ प्राप्नुहि, न केवलं त्वमेव, किन्तु ‘प्रजया रायस्पोषेण’, च ‘सह’, तदुभयमपि मां प्राप्नोतु ॥

यजमानस्य मनुष्यत्वं मनुष्यत्वप्राप्तिश्च प्रसिद्धा इत्येतद्दर्शयति । “इदमहं मनुष्यो मनुष्यानित्याह ॥ १० ॥ मनुष्यो हि । एष सन् मनुष्यानुपैति” । इति । (५ प्र० । ६ अ० । ३४ म०) ॥

सोमपानप्रार्थनायां कारणं दर्शयति । “ईश्वरो वै प्रवर्-र्ग्यमुद्वासयन् । प्रजां पशून्त्सोमपीथमन्वूदासः सोमपीथानुमेहि । सह प्रजया सह रायस्पोषेणेत्याह । प्रजामेव पशून्त्सोमपीथमात्मन्धत्ते” । इति । (५ प्र० । ६ अ० । ३५ म०) । यः


* अत्र प्रवर्ग्यस्य देवप्रापणमिति D चिह्नितपुस्तकपाठः ।

४ प्रपाठके ११ अनुवाकः। ५१०

थाऽऽनु॒ मेहि॑। सह॒ प्र॒जया॑ स॒ह रा॒यस्पोषे॑ण^{(९२)* }।
^{(९२)}सु॒मित्रा॒ न॒ आप॒ ओष॑धयः सन्तु॥ दु॒र्म्मित्रा॒स्तस्मै॑
भूयासुः। यो॑ऽस्मान् द्वेष्टि॑। यञ्च॑ व॒यं द्वि॒ष्मः^{(९३)}}।

प्रवर्ग्यं उद्वासयति असौ तदानीं तं 'प्रवर्ग्यम्', 'अनु', स्वकीयां
'प्रजां' पुत्रादिकां, 'पशून्' गवादीन्, 'सोमपीथं' करिष्यमाणं
सोमपानञ्च, 'उद्वासः' 'ईश्वरः' उद्वासयितुं समर्थो भवति।
प्रवर्ग्योद्वासनमनु सर्व्वमिदं नश्यतीत्यर्थः†। अतः सोमपीथे-
त्यादिमन्त्रपाठेन प्रजादिकं स्वात्मनि सम्पादयति॥

कल्पः। सुमित्रा न आप ओषधयः इति मार्ज्जालीयदेशे
उच्छिष्टखरे मार्ज्जयिलेति। पाठस्तु। (९२)“सुमित्रा न आपः
ओषधयः सन्तु ० यञ्च वयं द्विष्मः”(९३) इति। एताः
'आपः', तत्कार्याः 'ओषधयः', च 'नः' अस्माकं, 'सुमित्राः'
सुस्निग्धाः, 'सन्तु'। 'यः' द्वेष्टा, यश्च द्वेष्यः, 'तस्मै' उभयस्मै,
'दुर्मित्राः' शत्रवः, 'सन्तु'॥

प्रथमपादस्याशीःपरतां दर्शयति। “सुमित्रा न आप
ओषधयः सन्त्वित्याह। आशिषमेवैतामाशास्ते”। इति। (५प्र०।
८अ०।३६म०)॥

उत्तरभागस्य शत्रुविषयाभिचारत्वं दर्शयति। “दुर्मित्रा-


* B चिह्नितपुस्तके सह प्रजयेति पाठो नास्ति। G, B, चिह्नित-पुस्तकेयोः 'स्पो'कार उदात्तो अन्यत्र 'षे'कारः।
† न पश्यतीत्यर्थः इति E चिह्नितपुस्तकपाठः।

५१८ तैत्तिरीये आरण्यके

(२४)उद्वयं॒ तम॑स॒स्परि॑ । उदु॒ त्यं चि॒त्रं(२४) । (२५)इ॒ममू॒षु

स्तस्मै भूयासुर्योऽस्मान् द्वेष्टि यञ्च वयं द्विष्म इत्याह । अभि- चार एवाश्लेषः” ॥ इति । (५ प्र० । ६ अ० । ३१ म०) ॥

कल्पः । उद्वयं तमसस्परीत्यादित्यमुपस्थायोदु त्यं चित्र- मिति द्वाभ्यां गार्हपत्ये जुहोत्युपतिष्ठते इति । उद्वयमिति मन्त्रः, समास्त्वाग्न इत्यनुवाके व्याख्यातः । उदु त्यं जातवेदसं चित्रं देवानामिति मन्त्रद्वयं उदु त्यमित्यनुवाके व्याख्यातं ।

एतन्मन्त्रद्वयसाध्यहोमं विधत्ते । “प्र वा एषोऽस्माँल्लोका- च्च्यवते । यः प्रवर्ग्यमुद्वासयति । उदु त्यं चित्रमिति सौरी- भ्यामृग्भ्यां पुनरेत्य गार्हपत्ये जुहोति । अयं वै लोको गार्हपत्यः । अस्मिन्नेव लोके प्रतितिष्ठति । असौ खलु वा आ- दित्यः सुवर्गो लोकः । यत् सौरी भवतः । तेनैव सुवर्गाँल्लोका- न्नैति”* ॥११॥ इति । (५ प्र० । ६ अ० । ३२ म०) । प्रवर्ग्यस्योद्वासनेन स्वयमेव ‘अस्माँल्लोकात्’, भ्रष्टो भवति । गार्हपत्यस्यैतल्लोकरूप- त्वेन तत्र होमे सति स्वयं ‘अस्मिन्’, लोके, प्रतिष्ठितो भवति । आदित्यस्य स्वर्गलोकरूपत्वात् सौरमन्त्रेण स्वर्गादपि भ्रंशो न भवति ।

ब्रह्मणस्त्वा परस्याया इत्याह, दधाति, अनित्य, रक्षसो रक्षसामपहत्यै, वै हिरण्यं, आह, अर्द्धयति, श्लेष, गृह्णातीत्याह, मनुष्यानित्याह, अश्लेषः, अष्टौ च ॥

इति माधवीये पञ्चमप्रपाठके नवमोऽनुवाकः ॥ ९ ॥


* लोकान्नवैति इति H, F, चिह्नितपुस्तकद्वयपाठः ।

४ प्रपाठक ११ अनुवाकः। ५११

द॑क्षः श्ये॒न ऋ॒तवा॑* । हिर॑ण्यपक्षः शकु॒नो भु॑र॒ण्युः । म॒हान्त्स॒धस्थे॑ ध्रु॒व आनि॑षत्तः ॥ ६ ॥ नम॑स्ते अस्तु॒ मा मा॑ हिंसीः^(१७) । ^(१८)विश्वा॒वसु॑ꣳ


वृषा हरिरित्याह। वृषा ह्येषः ॥ ८ ॥ वृषा हरिः” । इति। (५ प्र० । ८ अ० । २५ म०) । यथा वृषत्वं प्रसिद्धं तथा हरि त्वमपीति वक्तुं 'वृषः' इति पुनरुक्तिः ॥

द्वितीयपादस्य स्तुतिपरतां दर्शयति । “महान्मित्रा न दर्शत इत्याह । स्तौत्येवैनमेतत्” । इति । (५ प्र० । ६ अ० । २६ म०) ॥

पञ्चमं मन्त्रमाह । ^(१७)“चिदसि समुद्रयोनिः ० नमस्ते अस्तु मा मा हिꣳसीः”^(१७) इति । हे प्रवर्ग्य, त्वं चिदादि- विशेषणविशिष्टः, 'असि' । 'चित्' अभिज्ञः, 'समुद्रयोनिः' याग- द्वारा समुद्रस्यापि कारणभूतः, 'इन्दुः' चन्द्रवदाह्लादकारो, 'दक्षः' उत्साहवान्, 'श्येनः' श्येनवद्वेगवान्, 'ऋतवा' कर्मफल- युक्तः, 'हिरण्यपक्षः' चित्याग्नावुनुष्ठीयमानः सन् सुवर्णसमान- पक्षोपेतः, 'शकुनः' पक्ष्याकारः, 'भुरण्युः' जगद्भरणसमर्थः, 'महान्' गुणैरधिकः, 'सधस्थे' कर्मकर्तृभिःसहावस्थानप्रदेशे, 'ध्रुवः' स्थिरः, 'आनिषत्तः' आभिमुख्येनोपविष्टः । हे प्रवर्ग्य, 'ते नमः', मां 'मा हिꣳसीः' ॥

समुद्रयोनिशब्दस्य तात्पर्यं दर्शयति । “चिदसि समुद्र-


* ऋतावा इति A, B, C, D, E, G, चिह्नितपुस्तकषट्कपाठः ।
३ ४

५१२ तैत्तिरीये आरण्यके

सोम॑गन्ध॒र्व्वं । आपो॑ ददृशुषी॑: । ऋ॒तेना॑व्यायन् । तद॒न्ववै॑त् । इन्द्रो॑ रारहा॒ण आ॑सां । परि॒ सूर्य्य॑स्य*


योनिरित्याह । स्वामेवैनं योनिं गमयति ।” इति । (५ प्र० । ८ अनु० । २७ म०) । समुद्रादिकं जगत्कर्म्मरूपां, स्वकीयां 'योनिं', प्रापयति । यद्वा समुद्रो योनैर्यस्य प्रवर्ग्यस्येति बहुव्रीहिः, समुद्रसदृशः परमात्मा तस्य कारणं, ततो मन्त्रपाठेन स्व- कीययोनिप्राप्तिः ॥

वैकल्यप्रयुक्तहिंसापरिहारार्थतां नमस्कारस्य दर्शयति । “नमस्ते अस्तु मा मा हिंसीरित्याहाहिंसायै” । इति । (५ प्र० । ८ अ० । २८ म०) ॥

षष्ठं मन्त्रमाह । $^{(१२)}$“विश्वावसुर् सोमगन्धर्व्वं ० परिसूर्य्यस्य परिधीँ रपश्यत्”$^{(१८)}$ इति। सोमस्य परिमोषको गन्धर्व्वः 'सोम- गन्धर्व्वः' । स च ‘विश्वावसु'नामकः, अतएव सोमप्रकरणे श्रूय- ते, तर् सोममाह्रियमाणं गन्धर्व्वो विश्वावसुः पर्य्यमुष्णादिति । सोमस्यापहर्त्तारं तं, 'विश्वावसुं', 'आपो ददृशुषीः' अब्दे- वता दृष्टवत्यः, ताश्चाब्देवताः ‘ऋतेन’ यज्ञेन निमित्तेन, ‘तत्’ तदा, ‘अव्यायन्’ विशेषेण गन्धर्व्वसमीपं प्रत्यागच्छन्, 'इन्द्रः', देवः, ‘तत्’ अपां गमनं, ‘अन्ववैत्’ अनुक्रमेण ज्ञातवान्, स च इन्द्रः, ‘आसां' अपां समीपे, ‘रारहाणः' भृशं गच्छन्, 'सूर्य्यस्य',


* B चिह्नितपुस्तके परिसूर्य्यस्य इति पाठो नास्ति ।

४ प्रपाठक ११ अनुवाकः। ५१३

परि॒धीँर॑पश्यत्^{(१५)}। ^{(१६)}विश्वा॑वसुरभि॒ तन्नो॑ गृणा- तु। दि॒व्यो ग॑न्ध॒र्व्वो रज॑सो वि॒मान॑:। यद्वा॒द्य स॒त्य- मु॒त यन्न वि॒द्म ॥ ७ ॥

‘परिधीन्’ परिधिसदृशान्, दग्धाभिमानिनो देवान्, ‘पर्य- पश्यत्’ परितो वेष्टयितॄन् अवलोकितवान् । यदा गन्धर्व्व: सोमं मुष्णाति तदानीमापो दृष्ट्वा तत्र गताः, इन्द्रश्च तद- भिज्ञाय अपां सहायार्थं गन्धर्व्वमवरोद्धुं सूर्य्यरश्मीन् प्रेषित- वानित्यर्थः ॥

विश्वावसुवृत्तान्तस्मरणस्य विकलाङ्गसमाधानार्थत्वं दर्श- यति । “विश्वावसुꣳ सोमगन्धर्व्वमित्याह । यदेवास्य क्रिय- माणस्यान्तर्य्यन्ति । तदेवास्मैतेनाप्याययति* ।” इति । (५ प्र० । ६ अ० । १६ म०) । अनुष्ठीयमानस्य प्रवर्ग्र्यस्य ‘यत्’ अङ्गम्, ऋत्विजः अन्तर्हितं कुर्व्वन्ति, ‘तत्’ अङ्गं, ‘एतेन’ वृत्तान्तस्मरणेन, समृद्धं करोति । गन्धर्व्वेणापादितस्य वैकल्यस्याद्भिरिन्द्रेण च समा- हितत्वात्तदनुस्मरणस्य समाधानार्थत्वं युक्तं ॥

सप्तमं मन्त्रमाह । ^{(१६)}“विश्वावसूरभि तन्नो गृणातु । ० धियो हिन्वानो धिय इन्नो अव्यात् ।”^{(१६)} इति। अस्मिन् कर्म्मणि ‘यद्वाद्य’ यदेव किञ्चिदङ्गं यथाशास्त्रं अनुष्ठितं, ‘उत’ अपि च, ‘यत्’ अङ्गम्, ‘न विद्म’ वयं विस्मृतवन्तः, ‘तत्’-सर्व्वं, ‘नः’ अस्मभ्यं,


* प्याययति इति F, H, चिह्नितपुस्तकद्वयपाठः।
3 s 2

५१४ तैत्तिरीये आरण्यके

धियो॑ हिन्वा॒नो धिय॒ इन्नो॑ अव्यात्^(१९) । ^(२०)स- सि॑मविन्दच्चर॑णे नदीना॑म् । अपा॑वृणो॒द् दुरो॒ अश्म॑-


‘विश्वावसुः’, ‘गृणातु’ कथयतु । कीदृशः, ‘दिव्यो गन्धर्व्वः’ दिवि भवो गन्धर्व्वजातिः, अतः सर्व्वज्ञ इत्यर्थः । ‘रजसो वि- मानः’ रञ्जकस्य गीतस्य विशेषेण निर्माता, ‘धियो हिन्वानः’ बुद्धेः प्रीणयिता, स गन्धर्व्वः ‘नः’ अस्मदीयाः, ‘धिय इत्’ बुद्धीः सर्व्वा अपि, ‘अव्यात्’ रक्षतु ॥

पूर्व्वमन्त्रे* यथाङ्गवैकल्यसमाधानहेतुत्वं, तद्वदस्यापि वैकल्य- समाधानहेतुतां दर्शयति । “विश्वावसुरभितन्नो गृणात्वि- त्याह ॥ ६ ॥ पूर्व्वमेवोदितं । उत्तरेणाभिगृणातु” । इति । (५ प्र० । ८ अ० । ३० म०) ॥

चतुर्थपादे धीरक्षणेन ऋतुसमृद्धिविवक्षितेति दर्शयति । “धियो हिन्वानो धिय इन्नो अव्यादित्याह । ऋतूनेवास्मै कल्पयति” । इति । (५ प्र० । ८ अ० । ३१ म०) । ऋतवो यदा स्वस्वकार्य्यकराः तदा प्राणिनां बुद्धयः स्वस्था भवन्ति । अतो धीरक्षणं ऋतुषु प्रवाहरूपेण प्रवर्त्तते ॥

अष्टममन्त्रमाह । ^(२०)“ससिमविन्दच्चरणे नदीनां । ० इन्द्रो दत्तं परिजानादहीनं”^(२०) इति । यः पूर्व्वो गन्धर्व्वः अस्ति सः


* पूर्व्वमन्त्रो यथाङ्गवैकल्यसमाधानहेतुः। इति F, H, चिह्नितपुस्तकद्वयपाठः ।

४ प्रपाठके ११ अनुवाकः । ५१५

व्र॒जानां॑ । प्रासां॑ गन्ध॒र्व्वो अ॒मृता॑नि वोचत् । इन्द्रो॒ दक्षं॑ परि॑जानादही॒नं^(२०)।^(२१)एतत्वं देव॑ घ॒र्म्म दे॒वो दे॒वा-


अयं 'नदीनां' गङ्गायमुनादीनां, 'चरणे' प्रवाहरूपे प्रवर्त्तके, 'महिमविन्दत्' शुद्धिं लब्धवान्, नदीप्रवहणेन पङ्कादि- प्रक्षालनात् शुद्धिं दृष्टवान् । अश्मसु पाषाणेषु व्रजन्ति प्रवहन्ति इति, 'अश्मव्रजाः' नद्यः, तासां, 'दुरः' द्वाराणि, 'अपावृणोत्' अपनीतवान्, नदीषु प्रवेष्टुं द्वारस्थानीया- स्तीर्थभूताः मार्गाः अश्मभिर्यै अवरुद्धाः, तत्र पाषाणान् अपनीय नदीः सेवितुं योग्याः कृतवान् । ततः 'आसां' नदीनां, 'अमृतानि' शुद्धिकारणानि जलानि, सः 'गन्धर्व्वः', 'प्रवोचत्' प्राणिनामग्रे कथितवान् । ततः 'इन्द्रः', 'दक्षं' कुशलं गन्धर्व्वं, 'अहीनं' क्वापि वैकल्यरहितं, 'परिजानात्' परितो ज्ञातवान् ॥

अत्र जलवाचिना अमृतशब्देन मरणरहितानां प्राणाना- मपि सूचनं दर्शयति । "प्रासां गन्धर्व्वो अमृतानि वोचदि- त्याह । प्राणा वा अमृताः । प्राणानेवास्मै कल्पयति" । इति । (५ प्र० । ६ अ० । ३२ म०) । अमृतशब्दपाठेन यजमानस्य प्राणान् सुस्थितान् करोति ॥

कल्पः । एतत्वं देव घर्म देवो देवानुपागा इति अभि- मन्त्रयेति । (२१ मन्त्रः) । हे 'घर्म्म देव', 'त्वं', 'देवः' देवतारूपः

५१६ | तैत्तिरीये आरण्यके

नुपा॑गाः^(९१) । ^(९२)इ॒दम॒हं म॑नु॒ष्यो॑ मनु॒ष्या॑न् । सोम॑पी-

सन्, 'एतत्' अस्माकं प्रत्यक्षं यथा भवति तथा, 'देवान्', 'उपागाः' प्राप्तवानसि ॥

अत्र प्रवर्ग्यस्य देवत्वं सर्व्वदेवप्रापणञ्च* प्रसिद्धमित्येतद्दर्शयति । "एतत्त्वं देव घर्म देवो देवानुपागा इत्याह । देवो ह्येष सन् देवानुपैति" । इति । (५ प्र ० ।६ अ ० ।३३ म ०) ॥

कल्पः । इदमहं मनुष्यो मनुष्यानिति प्रदक्षिणमावर्त्तयेति । पाठस्तु । ^(९२)"इदमहं मनुष्यो मनुष्यान् । ० सह रायस्पोषेण"^(९२) इति । 'अहं' यजमानः, 'मनुष्यः', सन् 'इदं' प्रत्यक्षं यथा भवति तथा, 'मनुष्यान्', प्राप्नोमीति शेषः । हे 'सोमपीथ' सोमपान, 'मां', आभिमुख्येन 'अन्विहि' प्राप्नुहि, न केवलं त्वमेव, किन्तु 'प्रजया रायस्पोषेण', च 'सह', तदुभयमपि मां प्राप्नोतु ॥

यजमानस्य मनुष्यत्वं मनुष्यत्वप्राप्तिश्च प्रसिद्धा इत्येतद्दर्शयति । "इदमहं मनुष्यो मनुष्यानित्याह ॥ १० ॥ मनुष्यो हि । एष सन् मनुष्यानुपैति" । इति । (५ प्र ० ।६ अ ० ।३४ म ०) ॥

सोमपानप्रार्थनायां कारणं दर्शयति । "ईश्वरो वै प्रवर्ग्यमुद्वासयन् । प्रजां पशून्त्सोमपीथमन्वूदासः सोमपीथानुमेहि । सह प्रजया सह रायस्पोषेणेत्याह । प्रजामेव पशून्त्सोमपीथमात्मन्धत्ते" । इति । (५ प्र ० ।६ अ ० ।३५ म ०) । यः


* अत्र प्रवर्ग्यस्य देवप्रापणमिति D चिह्नितपुस्तकपाठः ।

४ प्रपाठके ११ अनुवाकः। ५१७

थाऽऽनु॒ मेहि॑ । स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॑ण⁽९१⁾* । ⁽९२⁾सु॒मि॒त्रा न॒ आप॒ ओष॑धयः सन्तु ॥ दु॒र्म्मित्रा॑स्तस्मै॑ भूयासुः । योऽस्मान् द्वेष्टि॑ । यञ्च॑ व॒यं द्वि॒ष्मः⁽९३⁾ ।

प्रवर्ग्यं उदासयति असौ तदानीं तं ‘प्रवर्ग्यम्’, ‘अनु’, स्वकीयां ‘प्रजां’ पुत्रादिकां, ‘पशून्’ गवादीन्, ‘सोमपीथं’ करिष्यमाणं सोमपानञ्च, ‘उद्दासः’ ‘ईश्वरः’ उदासयितुं समर्थो भवति । प्रवर्ग्योद्वासनमनु सर्व्वमिदं नश्यतीत्यर्थः†। अतः सोमपीथे- त्यादिमन्त्रपाठेन प्रजादिकं स्वात्मनि सम्पादयति ॥

कल्पः । सुमित्रा न आप ओषधयः इति मार्ज्जालीयदेशे उच्छिष्टखरे मार्ज्जयिलेति । पाठस्तु । (९२)“सुमित्रा न आपः ओषधयः सन्तु • यञ्च वयं द्विष्मः”(९३) इति । एताः ‘आपः’, तत्कार्य्याः ‘ओषधयः’, च ‘नः’ अस्माकं, ‘सुमित्राः’ सुस्निग्धाः, ‘सन्तु’ । ‘यः’ द्वेष्टा, यश्च द्वेष्यः, ‘तस्मै’ उभयस्मै, ‘दुर्मित्राः’ शत्रवः, ‘सन्तु’ ॥

प्रथमपादस्याशीःपरतां दर्शयति । “सुमित्रा न आप ओषधयः सन्त्वत्याह । आशिषमेवैतामाशास्ते” । इति। (५ प्र० । ८ अ० । ३६ म०) ॥

उत्तरभागस्य शत्रुविषयाभिचारत्वं दर्शयति । “दुर्मित्रा-


* B चिह्नितपुस्तके सह प्रजयेति पाठो नास्ति । G, B, चिह्नित-पुस्तकयोः ‘स्पो’कार उदात्तो अन्यत्र ‘षे’कारः ।
† न पश्यतीत्यर्थः इति E चिह्नितपुस्तकपाठः ।

५१८ तैत्तिरीये आरण्यके

(२४)उद्वयं॒ तम॑स॒स्परि॑ । उदु॒ त्यं चि॒त्रं(२४) । (२५)इ॒ममूं॒षु

स्मै भूयासुर्योऽस्मान् द्वेष्टि यञ्च वयं द्विष्म इत्याह । अभि- चार एवाश्लेषः”॥ इति । (५ प्र०।६ अ०।३७ म०) ॥

कल्पः । उद्वयं तमसस्परीत्यादित्यमुपस्थायोदु त्यं चित्र- मिति द्वाभ्यां गार्हपत्ये जुहोत्युपतिष्ठते इति । उद्वयमिति मन्त्रः, समास्त्वाग्न इत्यनुवाके व्याख्यातः । उदु त्यं जातवेदसं चित्रं देवानामिति मन्त्रद्वयं उदु त्यमित्यनुवाके व्याख्यातं ।

एतन्मन्त्रद्वयसाध्यहोमं विधत्ते । “प्र वा एषोऽस्माँल्लोका- च्च्यवते । यः प्रवर्ग्यमुद्वासयति । उदु त्यं चित्रमिति सौरी- भ्यामृग्भ्यां पुनरेत्य गार्हपत्ये जुहोति । अयं वै लोको गार्हपत्यः । अस्मिन्नेव लोके प्रतितिष्ठति । असौ खलु वा आ- दित्यः सुवर्गो लोकः । यत् सौरी भवतः । तेनैव सुवर्गाँल्लोका- न्नैति*”॥११॥ इति । (५ प्र०।६ अ०।३८ म०) । प्रवर्ग्यस्योद्वासनेन स्वयमेव ‘अस्माँल्लोकात्’, भ्रष्टो भवति । गार्हपत्यस्यैतल्लोकरूप- त्वेन तत्र होमे सति स्वयं ‘अस्मिन्’, लोके, प्रतिष्ठितो भवति । आदित्यस्य स्वर्गलोकरूपत्वात् सौरमन्त्रेण स्वर्गादपि भ्रंशो न भवति ।

ब्रह्मणस्वा परस्याया इत्याह, दधाति, अन्वित्य, रक्षसो रक्षसामपहत्यै, वै हिरण्यं, आह, अङ्क्‌यति, श्लेष, गृणालित्याह, मनुष्यानित्याह, अश्लेषः, अष्टौ च ॥

इति माधवीये पञ्चमप्रपाठके नवमोऽनुवाकः ॥ ९ ॥


* लोकान्नवैति इति H, F, चि. कृतपुस्तकद्वयपाठः ।