तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
५१४ तैत्तिरीये आरण्यके
धियो॑ हिन्वा॒नो धिय॒ इन्नो॑ अव्यात्^(१९)। ^(२०)स-
सि॑म॒विन्दच्चर॑णे न॒दीना॑म्। अपा॑वृणो॒द् दुरो॒ अश्म॑-
'विश्वावसुः', 'गृणातु' कथयतु। कीदृशः, 'दिव्यो गन्धर्व्वः' दिवि भवो गन्धर्व्वजातिः, अतः सर्व्वज्ञ इत्यर्थः। 'रजसो विमानः' रञ्जकस्य गीतस्य विशेषेण निर्माता, 'धियो हिन्वानः' बुद्धेः प्रीणयिता, स गन्धर्व्वः 'नः' अस्मदीयाः, 'धिय इत्' बुद्धीः सर्व्वा अपि, 'अव्यात्' रक्षतु॥
पूर्व्वमन्त्रे* यथाङ्गवैकल्यसमाधानहेतुत्वं, तद्वदस्यापि वैकल्यसमाधानहेतुतां दर्शयति। “विश्वावसुरभितन्नो गृणात्वित्याह॥ ९॥ पूर्व्वमेवोदितं। उत्तरेणाभिगृणातु”। इति। (५ प्र०। ८ अ०। ३० म०)॥
चतुर्थपादे धीरक्षणेन ऋतुसमृद्धिर्विवक्षितेति दर्शयति। “धियो हिन्वानो धिय इन्नो अव्यादित्याह। ऋतूनेवास्मै कल्पयति”। इति। (५ प्र०। ८ अ०। ३१ म०)। ऋतवो यदा स्वस्वकार्य्यकराः तदा प्राणिनां बुद्धयः स्वस्था भवन्ति। अतो धीरक्षणं ऋतुषु प्रवाहरूपेण प्रवर्त्तते॥
अष्टममन्त्रमाह। ^(२०)“ससिमविन्दच्चरणे नदीनां। ० इन्द्रो दृढं परिजानादहीनं”^(१०) इति। यः पूर्व्वों गन्धर्व्वः अस्ति सः
* पूर्व्वमन्त्रो यथाङ्गवैकल्यसमाधानहेतुः। इति F, H, चिह्नितपुस्तकद्वयपाठः।
४ प्रपाठके ११ अनुवाकः। ५१५
व्रजा॒नां । प्रासां॑ गन्ध॒र्व्वो अ॒मृता॑नि वोचत् । इन्द्रो॒ दक्षं॑ परि॑जानादही॒नं⁽२०⁾ ।(११) ए॒तत्वं॑ दे॑व घ॒र्म्म दे॒वो दे॒वा-
अयं 'नदीनां' गङ्गायमुनादीनां, 'चरणे' प्रवाहरूपे प्रवर्त्तके, 'मन्झिमविन्दत्' शुद्धिं लब्धवान्, नदीप्रवहणेन पङ्कादि- प्रक्षालनात् शुद्धिं दृष्टवान् । अश्मसु पाषाणेषु व्रजन्ति प्रवहन्ति इति, 'अश्मव्रजाः' नद्यः, तासां, 'दुरः' द्वाराणि, 'अपावृणोत्' अपनीतवान्, नदीषु प्रवेष्टुं द्वारस्थानीया- स्तीर्थभूताः मार्गाः अश्मभिर्य्ये अवरुद्धाः, तत्र पाषाणान् अपनीय नदीः सेवितुं योग्याः कृतवान् । ततः 'आसां' नदीनां, 'अमृतानि' शुद्धिकारणानि जलानि, सः 'गन्धर्व्वः', 'प्रवोचत्' प्राणिनामग्रे कथितवान् । ततः 'इन्द्रः', 'दक्षं' कुशलं गन्धर्व्वं, 'अहीनं' क्वापि वैकल्यरहितं, 'परिजानात्' परितो ज्ञातवान् ॥
अत्र जलवाचिना अमृतशब्देन मरणरहितानां प्राणाना- मपि सूचनं दर्शयति । "प्रासां गन्धर्व्वो अमृतानि वोचदि- त्याह । प्राणा वा अमृताः । प्राणानेवास्मै कल्पयति" । इति । (५ प्र० । ६ अ० । ३२ म०) । अमृतशब्दपाठेने यजमानस्य प्राणान् सुस्थितान् करोति ॥
कल्पः । एतत्वं देव घर्म देवो देवानुपागा इति अभि- मन्त्रयेत । (११ मन्त्रः) । हे 'घर्म देव', 'त्वं', 'देवः' देवतारूपः
| ५१६ | तैत्तिरीये आरण्यके |
|---|
नुपा॑गाः(११)। (१२)इ॒दम॒हं मंनु॒ष्यो॑ मनु॒ष्या॑न्। सोम॑पी-
सन्, ‘एतत्’ अस्माकं प्रत्यक्षं यथा भवति तथा, ‘देवान्’, ‘उपागाः’ प्राप्तवानसि ॥
अत्र प्रवर्ग्यस्य देवत्वं सर्व्वदेवप्रापणञ्च* प्रसिद्धमित्येतद्दर्शयति । “एतत्वं देव घर्म देवो देवानुपागा इत्याह । देवो ह्येष सन् देवानुपैति” । इति । (५ प्र० । ६ अ० । ३३ म०) ॥
कल्पः । इदमहं मनुष्यो मनुष्यानिति प्रदक्षिणमावृत्त्येति । पाठस्तु । (१२)“इदमहं मनुष्यो मनुष्यान् । ० सह रायस्पोषेण”(१२) इति । ‘अहं’ यजमानः, ‘मनुष्यः’, सन् ‘इदं’ प्रत्यक्षं यथा भवति तथा, ‘मनुष्यान्’, प्राप्नोमीति शेषः। हे ‘सोमपीथ’ सोमपान, ‘मां’, आभिमुख्येन ‘अन्विहि’ प्राप्नुहि, न केवलं त्वमेव, किन्तु ‘प्रजया रायस्पोषेण’, च ‘सह’, तदुभयमपि मां प्राप्नोतु ॥
यजमानस्य मनुष्यत्वं मनुष्यत्वप्राप्तिश्च प्रसिद्धा इत्येतद्दर्शयति । “इदमहं मनुष्यो मनुष्यानित्याह ॥ १० ॥ मनुष्यो हि । एष सन् मनुष्यानुपैति” । इति । (५ प्र० । ६ अ० । ३४ म०) ॥
सोमपानप्रार्थनायां कारणं दर्शयति । “ईश्वरो वै प्रवर्-र्ग्यमुद्वासयन् । प्रजां पशून्त्सोमपीथमन्वूदासः सोमपीथानुमेहि । सह प्रजया सह रायस्पोषेणेत्याह । प्रजामेव पशून्त्सोमपीथमात्मन्धत्ते” । इति । (५ प्र० । ६ अ० । ३५ म०) । यः
* अत्र प्रवर्ग्यस्य देवप्रापणमिति D चिह्नितपुस्तकपाठः ।
४ प्रपाठके ११ अनुवाकः। ५१०
थाऽऽनु॒ मेहि॑। सह॒ प्र॒जया॑ स॒ह रा॒यस्पोषे॑ण^{(९२)* }।
^{(९२)}सु॒मित्रा॒ न॒ आप॒ ओष॑धयः सन्तु॥ दु॒र्म्मित्रा॒स्तस्मै॑
भूयासुः। यो॑ऽस्मान् द्वेष्टि॑। यञ्च॑ व॒यं द्वि॒ष्मः^{(९३)}}।
प्रवर्ग्यं उद्वासयति असौ तदानीं तं 'प्रवर्ग्यम्', 'अनु', स्वकीयां
'प्रजां' पुत्रादिकां, 'पशून्' गवादीन्, 'सोमपीथं' करिष्यमाणं
सोमपानञ्च, 'उद्वासः' 'ईश्वरः' उद्वासयितुं समर्थो भवति।
प्रवर्ग्योद्वासनमनु सर्व्वमिदं नश्यतीत्यर्थः†। अतः सोमपीथे-
त्यादिमन्त्रपाठेन प्रजादिकं स्वात्मनि सम्पादयति॥
कल्पः। सुमित्रा न आप ओषधयः इति मार्ज्जालीयदेशे
उच्छिष्टखरे मार्ज्जयिलेति। पाठस्तु। (९२)“सुमित्रा न आपः
ओषधयः सन्तु ० यञ्च वयं द्विष्मः”(९३) इति। एताः
'आपः', तत्कार्याः 'ओषधयः', च 'नः' अस्माकं, 'सुमित्राः'
सुस्निग्धाः, 'सन्तु'। 'यः' द्वेष्टा, यश्च द्वेष्यः, 'तस्मै' उभयस्मै,
'दुर्मित्राः' शत्रवः, 'सन्तु'॥
प्रथमपादस्याशीःपरतां दर्शयति। “सुमित्रा न आप
ओषधयः सन्त्वित्याह। आशिषमेवैतामाशास्ते”। इति। (५प्र०।
८अ०।३६म०)॥
उत्तरभागस्य शत्रुविषयाभिचारत्वं दर्शयति। “दुर्मित्रा-
* B चिह्नितपुस्तके सह प्रजयेति पाठो नास्ति। G, B, चिह्नित-पुस्तकेयोः 'स्पो'कार उदात्तो अन्यत्र 'षे'कारः।
† न पश्यतीत्यर्थः इति E चिह्नितपुस्तकपाठः।
५१८ तैत्तिरीये आरण्यके
(२४)उद्वयं॒ तम॑स॒स्परि॑ । उदु॒ त्यं चि॒त्रं(२४) । (२५)इ॒ममू॒षु
स्तस्मै भूयासुर्योऽस्मान् द्वेष्टि यञ्च वयं द्विष्म इत्याह । अभि- चार एवाश्लेषः” ॥ इति । (५ प्र० । ६ अ० । ३१ म०) ॥
कल्पः । उद्वयं तमसस्परीत्यादित्यमुपस्थायोदु त्यं चित्र- मिति द्वाभ्यां गार्हपत्ये जुहोत्युपतिष्ठते इति । उद्वयमिति मन्त्रः, समास्त्वाग्न इत्यनुवाके व्याख्यातः । उदु त्यं जातवेदसं चित्रं देवानामिति मन्त्रद्वयं उदु त्यमित्यनुवाके व्याख्यातं ।
एतन्मन्त्रद्वयसाध्यहोमं विधत्ते । “प्र वा एषोऽस्माँल्लोका- च्च्यवते । यः प्रवर्ग्यमुद्वासयति । उदु त्यं चित्रमिति सौरी- भ्यामृग्भ्यां पुनरेत्य गार्हपत्ये जुहोति । अयं वै लोको गार्हपत्यः । अस्मिन्नेव लोके प्रतितिष्ठति । असौ खलु वा आ- दित्यः सुवर्गो लोकः । यत् सौरी भवतः । तेनैव सुवर्गाँल्लोका- न्नैति”* ॥११॥ इति । (५ प्र० । ६ अ० । ३२ म०) । प्रवर्ग्यस्योद्वासनेन स्वयमेव ‘अस्माँल्लोकात्’, भ्रष्टो भवति । गार्हपत्यस्यैतल्लोकरूप- त्वेन तत्र होमे सति स्वयं ‘अस्मिन्’, लोके, प्रतिष्ठितो भवति । आदित्यस्य स्वर्गलोकरूपत्वात् सौरमन्त्रेण स्वर्गादपि भ्रंशो न भवति ।
ब्रह्मणस्त्वा परस्याया इत्याह, दधाति, अनित्य, रक्षसो रक्षसामपहत्यै, वै हिरण्यं, आह, अर्द्धयति, श्लेष, गृह्णातीत्याह, मनुष्यानित्याह, अश्लेषः, अष्टौ च ॥
इति माधवीये पञ्चमप्रपाठके नवमोऽनुवाकः ॥ ९ ॥
* लोकान्नवैति इति H, F, चिह्नितपुस्तकद्वयपाठः ।
४ प्रपाठक ११ अनुवाकः। ५११
द॑क्षः श्ये॒न ऋ॒तवा॑* । हिर॑ण्यपक्षः शकु॒नो भु॑र॒ण्युः । म॒हान्त्स॒धस्थे॑ ध्रु॒व आनि॑षत्तः ॥ ६ ॥ नम॑स्ते अस्तु॒ मा मा॑ हिंसीः^(१७) । ^(१८)विश्वा॒वसु॑ꣳ
वृषा हरिरित्याह। वृषा ह्येषः ॥ ८ ॥ वृषा हरिः” । इति। (५ प्र० । ८ अ० । २५ म०) । यथा वृषत्वं प्रसिद्धं तथा हरि त्वमपीति वक्तुं 'वृषः' इति पुनरुक्तिः ॥
द्वितीयपादस्य स्तुतिपरतां दर्शयति । “महान्मित्रा न दर्शत इत्याह । स्तौत्येवैनमेतत्” । इति । (५ प्र० । ६ अ० । २६ म०) ॥
पञ्चमं मन्त्रमाह । ^(१७)“चिदसि समुद्रयोनिः ० नमस्ते अस्तु मा मा हिꣳसीः”^(१७) इति । हे प्रवर्ग्य, त्वं चिदादि- विशेषणविशिष्टः, 'असि' । 'चित्' अभिज्ञः, 'समुद्रयोनिः' याग- द्वारा समुद्रस्यापि कारणभूतः, 'इन्दुः' चन्द्रवदाह्लादकारो, 'दक्षः' उत्साहवान्, 'श्येनः' श्येनवद्वेगवान्, 'ऋतवा' कर्मफल- युक्तः, 'हिरण्यपक्षः' चित्याग्नावुनुष्ठीयमानः सन् सुवर्णसमान- पक्षोपेतः, 'शकुनः' पक्ष्याकारः, 'भुरण्युः' जगद्भरणसमर्थः, 'महान्' गुणैरधिकः, 'सधस्थे' कर्मकर्तृभिःसहावस्थानप्रदेशे, 'ध्रुवः' स्थिरः, 'आनिषत्तः' आभिमुख्येनोपविष्टः । हे प्रवर्ग्य, 'ते नमः', मां 'मा हिꣳसीः' ॥
समुद्रयोनिशब्दस्य तात्पर्यं दर्शयति । “चिदसि समुद्र-
* ऋतावा इति A, B, C, D, E, G, चिह्नितपुस्तकषट्कपाठः ।
३ ४
५१२ तैत्तिरीये आरण्यके
सोम॑गन्ध॒र्व्वं । आपो॑ ददृशुषी॑: । ऋ॒तेना॑व्यायन् । तद॒न्ववै॑त् । इन्द्रो॑ रारहा॒ण आ॑सां । परि॒ सूर्य्य॑स्य*
योनिरित्याह । स्वामेवैनं योनिं गमयति ।” इति । (५ प्र० । ८ अनु० । २७ म०) । समुद्रादिकं जगत्कर्म्मरूपां, स्वकीयां 'योनिं', प्रापयति । यद्वा समुद्रो योनैर्यस्य प्रवर्ग्यस्येति बहुव्रीहिः, समुद्रसदृशः परमात्मा तस्य कारणं, ततो मन्त्रपाठेन स्व- कीययोनिप्राप्तिः ॥
वैकल्यप्रयुक्तहिंसापरिहारार्थतां नमस्कारस्य दर्शयति । “नमस्ते अस्तु मा मा हिंसीरित्याहाहिंसायै” । इति । (५ प्र० । ८ अ० । २८ म०) ॥
षष्ठं मन्त्रमाह । $^{(१२)}$“विश्वावसुर् सोमगन्धर्व्वं ० परिसूर्य्यस्य परिधीँ रपश्यत्”$^{(१८)}$ इति। सोमस्य परिमोषको गन्धर्व्वः 'सोम- गन्धर्व्वः' । स च ‘विश्वावसु'नामकः, अतएव सोमप्रकरणे श्रूय- ते, तर् सोममाह्रियमाणं गन्धर्व्वो विश्वावसुः पर्य्यमुष्णादिति । सोमस्यापहर्त्तारं तं, 'विश्वावसुं', 'आपो ददृशुषीः' अब्दे- वता दृष्टवत्यः, ताश्चाब्देवताः ‘ऋतेन’ यज्ञेन निमित्तेन, ‘तत्’ तदा, ‘अव्यायन्’ विशेषेण गन्धर्व्वसमीपं प्रत्यागच्छन्, 'इन्द्रः', देवः, ‘तत्’ अपां गमनं, ‘अन्ववैत्’ अनुक्रमेण ज्ञातवान्, स च इन्द्रः, ‘आसां' अपां समीपे, ‘रारहाणः' भृशं गच्छन्, 'सूर्य्यस्य',
* B चिह्नितपुस्तके परिसूर्य्यस्य इति पाठो नास्ति ।
४ प्रपाठक ११ अनुवाकः। ५१३
परि॒धीँर॑पश्यत्^{(१५)}। ^{(१६)}विश्वा॑वसुरभि॒ तन्नो॑ गृणा- तु। दि॒व्यो ग॑न्ध॒र्व्वो रज॑सो वि॒मान॑:। यद्वा॒द्य स॒त्य- मु॒त यन्न वि॒द्म ॥ ७ ॥
‘परिधीन्’ परिधिसदृशान्, दग्धाभिमानिनो देवान्, ‘पर्य- पश्यत्’ परितो वेष्टयितॄन् अवलोकितवान् । यदा गन्धर्व्व: सोमं मुष्णाति तदानीमापो दृष्ट्वा तत्र गताः, इन्द्रश्च तद- भिज्ञाय अपां सहायार्थं गन्धर्व्वमवरोद्धुं सूर्य्यरश्मीन् प्रेषित- वानित्यर्थः ॥
विश्वावसुवृत्तान्तस्मरणस्य विकलाङ्गसमाधानार्थत्वं दर्श- यति । “विश्वावसुꣳ सोमगन्धर्व्वमित्याह । यदेवास्य क्रिय- माणस्यान्तर्य्यन्ति । तदेवास्मैतेनाप्याययति* ।” इति । (५ प्र० । ६ अ० । १६ म०) । अनुष्ठीयमानस्य प्रवर्ग्र्यस्य ‘यत्’ अङ्गम्, ऋत्विजः अन्तर्हितं कुर्व्वन्ति, ‘तत्’ अङ्गं, ‘एतेन’ वृत्तान्तस्मरणेन, समृद्धं करोति । गन्धर्व्वेणापादितस्य वैकल्यस्याद्भिरिन्द्रेण च समा- हितत्वात्तदनुस्मरणस्य समाधानार्थत्वं युक्तं ॥
सप्तमं मन्त्रमाह । ^{(१६)}“विश्वावसूरभि तन्नो गृणातु । ० धियो हिन्वानो धिय इन्नो अव्यात् ।”^{(१६)} इति। अस्मिन् कर्म्मणि ‘यद्वाद्य’ यदेव किञ्चिदङ्गं यथाशास्त्रं अनुष्ठितं, ‘उत’ अपि च, ‘यत्’ अङ्गम्, ‘न विद्म’ वयं विस्मृतवन्तः, ‘तत्’-सर्व्वं, ‘नः’ अस्मभ्यं,
* प्याययति इति F, H, चिह्नितपुस्तकद्वयपाठः।
3 s 2
५१४ तैत्तिरीये आरण्यके
धियो॑ हिन्वा॒नो धिय॒ इन्नो॑ अव्यात्^(१९) । ^(२०)स- सि॑मविन्दच्चर॑णे नदीना॑म् । अपा॑वृणो॒द् दुरो॒ अश्म॑-
‘विश्वावसुः’, ‘गृणातु’ कथयतु । कीदृशः, ‘दिव्यो गन्धर्व्वः’ दिवि भवो गन्धर्व्वजातिः, अतः सर्व्वज्ञ इत्यर्थः । ‘रजसो वि- मानः’ रञ्जकस्य गीतस्य विशेषेण निर्माता, ‘धियो हिन्वानः’ बुद्धेः प्रीणयिता, स गन्धर्व्वः ‘नः’ अस्मदीयाः, ‘धिय इत्’ बुद्धीः सर्व्वा अपि, ‘अव्यात्’ रक्षतु ॥
पूर्व्वमन्त्रे* यथाङ्गवैकल्यसमाधानहेतुत्वं, तद्वदस्यापि वैकल्य- समाधानहेतुतां दर्शयति । “विश्वावसुरभितन्नो गृणात्वि- त्याह ॥ ६ ॥ पूर्व्वमेवोदितं । उत्तरेणाभिगृणातु” । इति । (५ प्र० । ८ अ० । ३० म०) ॥
चतुर्थपादे धीरक्षणेन ऋतुसमृद्धिविवक्षितेति दर्शयति । “धियो हिन्वानो धिय इन्नो अव्यादित्याह । ऋतूनेवास्मै कल्पयति” । इति । (५ प्र० । ८ अ० । ३१ म०) । ऋतवो यदा स्वस्वकार्य्यकराः तदा प्राणिनां बुद्धयः स्वस्था भवन्ति । अतो धीरक्षणं ऋतुषु प्रवाहरूपेण प्रवर्त्तते ॥
अष्टममन्त्रमाह । ^(२०)“ससिमविन्दच्चरणे नदीनां । ० इन्द्रो दत्तं परिजानादहीनं”^(२०) इति । यः पूर्व्वो गन्धर्व्वः अस्ति सः
* पूर्व्वमन्त्रो यथाङ्गवैकल्यसमाधानहेतुः। इति F, H, चिह्नितपुस्तकद्वयपाठः ।
४ प्रपाठके ११ अनुवाकः । ५१५
व्र॒जानां॑ । प्रासां॑ गन्ध॒र्व्वो अ॒मृता॑नि वोचत् । इन्द्रो॒ दक्षं॑ परि॑जानादही॒नं^(२०)।^(२१)एतत्वं देव॑ घ॒र्म्म दे॒वो दे॒वा-
अयं 'नदीनां' गङ्गायमुनादीनां, 'चरणे' प्रवाहरूपे प्रवर्त्तके, 'महिमविन्दत्' शुद्धिं लब्धवान्, नदीप्रवहणेन पङ्कादि- प्रक्षालनात् शुद्धिं दृष्टवान् । अश्मसु पाषाणेषु व्रजन्ति प्रवहन्ति इति, 'अश्मव्रजाः' नद्यः, तासां, 'दुरः' द्वाराणि, 'अपावृणोत्' अपनीतवान्, नदीषु प्रवेष्टुं द्वारस्थानीया- स्तीर्थभूताः मार्गाः अश्मभिर्यै अवरुद्धाः, तत्र पाषाणान् अपनीय नदीः सेवितुं योग्याः कृतवान् । ततः 'आसां' नदीनां, 'अमृतानि' शुद्धिकारणानि जलानि, सः 'गन्धर्व्वः', 'प्रवोचत्' प्राणिनामग्रे कथितवान् । ततः 'इन्द्रः', 'दक्षं' कुशलं गन्धर्व्वं, 'अहीनं' क्वापि वैकल्यरहितं, 'परिजानात्' परितो ज्ञातवान् ॥
अत्र जलवाचिना अमृतशब्देन मरणरहितानां प्राणाना- मपि सूचनं दर्शयति । "प्रासां गन्धर्व्वो अमृतानि वोचदि- त्याह । प्राणा वा अमृताः । प्राणानेवास्मै कल्पयति" । इति । (५ प्र० । ६ अ० । ३२ म०) । अमृतशब्दपाठेन यजमानस्य प्राणान् सुस्थितान् करोति ॥
कल्पः । एतत्वं देव घर्म देवो देवानुपागा इति अभि- मन्त्रयेति । (२१ मन्त्रः) । हे 'घर्म्म देव', 'त्वं', 'देवः' देवतारूपः
५१६ | तैत्तिरीये आरण्यके
नुपा॑गाः^(९१) । ^(९२)इ॒दम॒हं म॑नु॒ष्यो॑ मनु॒ष्या॑न् । सोम॑पी-
सन्, 'एतत्' अस्माकं प्रत्यक्षं यथा भवति तथा, 'देवान्', 'उपागाः' प्राप्तवानसि ॥
अत्र प्रवर्ग्यस्य देवत्वं सर्व्वदेवप्रापणञ्च* प्रसिद्धमित्येतद्दर्शयति । "एतत्त्वं देव घर्म देवो देवानुपागा इत्याह । देवो ह्येष सन् देवानुपैति" । इति । (५ प्र ० ।६ अ ० ।३३ म ०) ॥
कल्पः । इदमहं मनुष्यो मनुष्यानिति प्रदक्षिणमावर्त्तयेति । पाठस्तु । ^(९२)"इदमहं मनुष्यो मनुष्यान् । ० सह रायस्पोषेण"^(९२) इति । 'अहं' यजमानः, 'मनुष्यः', सन् 'इदं' प्रत्यक्षं यथा भवति तथा, 'मनुष्यान्', प्राप्नोमीति शेषः । हे 'सोमपीथ' सोमपान, 'मां', आभिमुख्येन 'अन्विहि' प्राप्नुहि, न केवलं त्वमेव, किन्तु 'प्रजया रायस्पोषेण', च 'सह', तदुभयमपि मां प्राप्नोतु ॥
यजमानस्य मनुष्यत्वं मनुष्यत्वप्राप्तिश्च प्रसिद्धा इत्येतद्दर्शयति । "इदमहं मनुष्यो मनुष्यानित्याह ॥ १० ॥ मनुष्यो हि । एष सन् मनुष्यानुपैति" । इति । (५ प्र ० ।६ अ ० ।३४ म ०) ॥
सोमपानप्रार्थनायां कारणं दर्शयति । "ईश्वरो वै प्रवर्ग्यमुद्वासयन् । प्रजां पशून्त्सोमपीथमन्वूदासः सोमपीथानुमेहि । सह प्रजया सह रायस्पोषेणेत्याह । प्रजामेव पशून्त्सोमपीथमात्मन्धत्ते" । इति । (५ प्र ० ।६ अ ० ।३५ म ०) । यः
* अत्र प्रवर्ग्यस्य देवप्रापणमिति D चिह्नितपुस्तकपाठः ।
४ प्रपाठके ११ अनुवाकः। ५१७
थाऽऽनु॒ मेहि॑ । स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॑ण⁽९१⁾* । ⁽९२⁾सु॒मि॒त्रा न॒ आप॒ ओष॑धयः सन्तु ॥ दु॒र्म्मित्रा॑स्तस्मै॑ भूयासुः । योऽस्मान् द्वेष्टि॑ । यञ्च॑ व॒यं द्वि॒ष्मः⁽९३⁾ ।
प्रवर्ग्यं उदासयति असौ तदानीं तं ‘प्रवर्ग्यम्’, ‘अनु’, स्वकीयां ‘प्रजां’ पुत्रादिकां, ‘पशून्’ गवादीन्, ‘सोमपीथं’ करिष्यमाणं सोमपानञ्च, ‘उद्दासः’ ‘ईश्वरः’ उदासयितुं समर्थो भवति । प्रवर्ग्योद्वासनमनु सर्व्वमिदं नश्यतीत्यर्थः†। अतः सोमपीथे- त्यादिमन्त्रपाठेन प्रजादिकं स्वात्मनि सम्पादयति ॥
कल्पः । सुमित्रा न आप ओषधयः इति मार्ज्जालीयदेशे उच्छिष्टखरे मार्ज्जयिलेति । पाठस्तु । (९२)“सुमित्रा न आपः ओषधयः सन्तु • यञ्च वयं द्विष्मः”(९३) इति । एताः ‘आपः’, तत्कार्य्याः ‘ओषधयः’, च ‘नः’ अस्माकं, ‘सुमित्राः’ सुस्निग्धाः, ‘सन्तु’ । ‘यः’ द्वेष्टा, यश्च द्वेष्यः, ‘तस्मै’ उभयस्मै, ‘दुर्मित्राः’ शत्रवः, ‘सन्तु’ ॥
प्रथमपादस्याशीःपरतां दर्शयति । “सुमित्रा न आप ओषधयः सन्त्वत्याह । आशिषमेवैतामाशास्ते” । इति। (५ प्र० । ८ अ० । ३६ म०) ॥
उत्तरभागस्य शत्रुविषयाभिचारत्वं दर्शयति । “दुर्मित्रा-
* B चिह्नितपुस्तके सह प्रजयेति पाठो नास्ति । G, B, चिह्नित-पुस्तकयोः ‘स्पो’कार उदात्तो अन्यत्र ‘षे’कारः ।
† न पश्यतीत्यर्थः इति E चिह्नितपुस्तकपाठः ।
५१८ तैत्तिरीये आरण्यके
(२४)उद्वयं॒ तम॑स॒स्परि॑ । उदु॒ त्यं चि॒त्रं(२४) । (२५)इ॒ममूं॒षु
स्मै भूयासुर्योऽस्मान् द्वेष्टि यञ्च वयं द्विष्म इत्याह । अभि- चार एवाश्लेषः”॥ इति । (५ प्र०।६ अ०।३७ म०) ॥
कल्पः । उद्वयं तमसस्परीत्यादित्यमुपस्थायोदु त्यं चित्र- मिति द्वाभ्यां गार्हपत्ये जुहोत्युपतिष्ठते इति । उद्वयमिति मन्त्रः, समास्त्वाग्न इत्यनुवाके व्याख्यातः । उदु त्यं जातवेदसं चित्रं देवानामिति मन्त्रद्वयं उदु त्यमित्यनुवाके व्याख्यातं ।
एतन्मन्त्रद्वयसाध्यहोमं विधत्ते । “प्र वा एषोऽस्माँल्लोका- च्च्यवते । यः प्रवर्ग्यमुद्वासयति । उदु त्यं चित्रमिति सौरी- भ्यामृग्भ्यां पुनरेत्य गार्हपत्ये जुहोति । अयं वै लोको गार्हपत्यः । अस्मिन्नेव लोके प्रतितिष्ठति । असौ खलु वा आ- दित्यः सुवर्गो लोकः । यत् सौरी भवतः । तेनैव सुवर्गाँल्लोका- न्नैति*”॥११॥ इति । (५ प्र०।६ अ०।३८ म०) । प्रवर्ग्यस्योद्वासनेन स्वयमेव ‘अस्माँल्लोकात्’, भ्रष्टो भवति । गार्हपत्यस्यैतल्लोकरूप- त्वेन तत्र होमे सति स्वयं ‘अस्मिन्’, लोके, प्रतिष्ठितो भवति । आदित्यस्य स्वर्गलोकरूपत्वात् सौरमन्त्रेण स्वर्गादपि भ्रंशो न भवति ।
ब्रह्मणस्वा परस्याया इत्याह, दधाति, अन्वित्य, रक्षसो रक्षसामपहत्यै, वै हिरण्यं, आह, अङ्क्यति, श्लेष, गृणालित्याह, मनुष्यानित्याह, अश्लेषः, अष्टौ च ॥
इति माधवीये पञ्चमप्रपाठके नवमोऽनुवाकः ॥ ९ ॥
* लोकान्नवैति इति H, F, चि. कृतपुस्तकद्वयपाठः ।
४ प्रपाठक ११ अनुवाकः। ५१६
त्यम॒स्मभ्य॑ग्ँ॒ सनि॑* । गा॒य॒त्रं नवी॑याग्ँसम् । अग्ने॑ दे॒वेषु॒ प्रवो॑चः⁽२५⁾ ॥ ८ ॥
याग्नीध्रे॒ तां त॒ एतेनाव॑यजे॒ स्वाहा॑, धर्म्म॑णा, शं- युर्धायाः, प्यासिषीमहि, पोषे॑ण, निश॑त्तः, वि॒द्म, सं॑न्तु, अ॒ष्टौ च॑ ॥ अनु०११ ॥
कल्पः । इममूषु त्यमस्मभ्यमित्याहवनीये जुहोतीत्युपति- ष्ठन्त^\dagger इत्येक इति । पाठस्तु । ⁽२५⁾"इममूषु त्यमस्मभ्यग्ँ सनिं । ० अग्ने देवेषु प्रवोचः⁽२५⁾ इति । हे 'अग्ने', 'देवेषु', मध्ये 'अस्मभ्यं', 'सनिं' फलदानं, 'प्रवोचः' प्रकर्षेण कथय । न केवलं फलदानं, किन्तु 'त्यमिममूषु' तं शास्त्रप्रसिद्धमिममस्माभि- रिदानीं अनुष्ठितं प्रवर्ग्यमपि सुष्ठु देवेषु, वपय । कीदृशं प्रवर्ग्यं, 'गायत्रं' गायत्र्यादिछन्दोयुक्तं । अतएव पूर्व्वत्राम्नातं, 'छन्दोभिर्वा एषक्रियत इति' । 'नवीयाग्ँसं' अतिशयेन नूतनं, सर्वाङ्गसम्पूर्णमित्यर्थः ॥
शाखान्तरे यानि प्रवर्ग्यसामानि, तेषामाधारभूता ये मन्त्रांस्तान् विधत्ते । "प्रजापतिं वै देवाः शुक्लं पयोऽदुहन् । तदेभ्यो न व्यभवत् । तदग्निर्व्यकरोत् । तानि शुक्रियाणि सामा- न्यभवन् । तेषां यो रसोऽत्यक्षरत् । तानि शुक्लयजूंष्यभवन् ।
* G, I, चिह्नितपुस्तकद्वये "भ्यं"कार उदात्तः ।
^\dagger उपतिष्ठत इति D चिह्नितपुस्तकपाठः ।
3 T
५२० तैत्तिरीये आरण्यके
शुक्रियाणां वा एतानि शुक्रियाणि । सामपयसं वा एतयो- रन्यत् । देवानामन्यत्यः । यद् गोः पयः ॥१॥ तत्साम्नः पयः । यदजायै पयः । तद्देवानां पयः । तस्माद्यचैतैैर्यजुर्भिस्वरन्ति । तत्पयसा चरन्ति । प्रजापतिमेव तद्देवान् पयसान्नाद्येन सम- र्द्धयन्ति ।” इति । (५ प्र०।१० अ०।१ म०) । पुरा कदाचित् ‘देवाः’, सर्वे ‘प्रजापतिं’, कामधेनुं कृत्वा ‘शुक्रं पयः’ प्रवर्ग्यरूपं क्षीरं, दुग्धवन्तः। ‘तत्’ एकमेव, भूत्वा देवेभ्यः ‘न व्यभवत्’ बहूनां देवानार्थे विविधं नाभूत् । अतः सर्वेषां भोगाय न पर्याप्तं, तदानीं ‘अग्निः’, ‘तत्’ एकं पयः, विविधं ‘अकरोत्’ । ‘तानि’ विविधानि पयांसि, ‘शुक्रियाणि’ प्रवर्ग्यसम्बन्धीनि, ‘सामा- न्यभवन्’ । ‘तेषां’ च पयोरूपाणां साम्नां, ‘यो रसः’, ‘अत्यचरत्’ तेभ्यः अस्रवत्, ‘तानि’ सामभ्यः स्रुतानि साराणि, ‘शुक्रयजूंषि’ प्रवर्ग्यसम्बन्धिनो मन्त्राः, आसन*। ‘शुक्रियाणां’ प्रवर्ग्यसम्बन्धिनां साम्नां, सम्बन्धीनि प्रवर्ग्ययोग्यानि ‘एतानि’ यजूंषि । इत्थं प्रव- र्ग्याङ्गमन्त्रोत्पत्तिरुक्ता, अथ द्रव्यमुच्यते, ‘एतयोः’ वक्ष्यमाणयोः द्वयोः पयसोर्मध्ये, ‘अन्यत्’ एकं, ‘सामपयसं’ साम्नां प्रियं क्षीरं, ‘अन्यत्’, ‘यत्’, ‘देवानां’, प्रियं । तदुभयं विभज्य प्रदर्श्यते । तत्र गव्यं सामदेवतायाः प्रियं, अजाक्षीरं देवानां प्रियं, यस्मादेवं मन्त्रोत्पत्तिः, क्षीरद्वयञ्च एतादृशं, ‘तस्मात्’, ‘यत्र’ कर्मणि, ‘एतैः’ ‘यजुर्भिः’ प्रवर्ग्यमन्त्रैः, ‘चरन्ति’ अनुतिष्ठन्ति । ‘तत्’ तत्र कर्मणि, द्विविधेन ‘पयसा’, ‘चरन्ति’ । शुक्रियामन्त्रैः क्षीरद्वयं
* अभवन् इति E, चिह्नितपुस्तकपाठः ।
४ प्रपाठके ११ अनुवाकः। ५२१
जुहुयात्, इति मन्त्रद्रव्यविशिष्टकर्मविधिर्द्रष्टव्यः। तेन कर्मणा ‘प्रजापतिं’, ‘देवान्’, च अन्नसमृद्धान् कुर्व्वन्ति॥
तदेतदेनं प्रशंसति। “एष हवै साक्षात् प्रवर्ग्यं भक्षयति। यस्यैवं विदुषः प्रवर्ग्यः प्रवृज्यते”। इति। (५ प्र०। १० अ०। २ म०)। ‘एवं विदुषः’ प्रवर्ग्यमाहात्म्यविदः, ‘यस्य’, ‘प्रवर्ग्यं’, अनुष्ठीयते, सः ‘एषः’ ‘साक्षात्’ मुख्यं, प्रवर्ग्यफलमनुभवति॥
तस्य प्रवर्ग्यस्य काम्यमुद्वासनदेशं विधत्ते। “उत्तरवेद्यामुद्वासयेत् तेजस्कामस्य। तेजो वा उत्तरवेदिः॥२॥ तेजः प्रवर्ग्यः। तेजसैव तेजः समर्द्धयति”। इति। (५ प्र०। १० अ०। ३ म०)। उत्तरवेदेरग्न्याधारत्वात् प्रवर्ग्यहविषश्च तत्स्वरूपत्वात् उभयोस्तेजस्त्वम्॥
तमेव देशं फलान्तराय विधत्ते। “उत्तरवेद्यामुद्वासयेदन्नकामस्य। शिरो वा एतद्यज्ञस्य। यत्प्रवर्ग्यः। मुखमुत्तरवेदिः। शीर्ष्णैव मुखग्ं सन्दधात्यन्नाद्याय। अन्नाद एव भवति”। इति। (५ प्र०। १० अ०। ४ म०)। प्रवर्ग्यस्य शिरोरूपत्वादुत्तरवेदेः मुखत्वात्तच्चास्योद्वासने* सत्यन्नं भोक्तुं शिरसा मुखस्य साधनं† कृतं भवति। ततोऽयं ‘अन्नादो भवत्येव’॥
उत्तरवेद्यामुद्वासनं प्रशंसति। “यत्र खलु वा एतमुद्वासितं वयाग्ंसि पर्याग्ंसते। परि वै ताग्ं समां प्रजा वयाग्ंस्यासते॥३॥ तस्मादुत्तरवेद्यामेवोद्वासयेत्। प्रजानां गोपी-
* मुखत्वाच्च तत्र तस्योद्वासने इति F, H, चिह्नितपुस्तकद्वयपाठः।
† सन्धानमिति F, चिह्नितपुस्तकपाठः।
3 T 2
५२२ तैत्तिरीये आरण्यके
धाय''। इति। (५ प्र०। १० अ०। ५ म०)। 'यत्र' यस्मिन् संवत्सरे, क्वचिद्देशविशेषे, 'उद्वासितं', 'एतं' प्रवर्ग्यं, 'वयाꣳसि' पक्षिणः, 'पर्य्यासते' परित आगत्योपविशन्ति, 'ताꣳ समां' तं संवत्सरं सर्व्वमपि, पक्षिणः, 'प्रजाः' पुत्रादीन्, 'पर्य्यासते' पुत्रादिशवदेहेषु प्रविशन्ति, प्रजा म्रियन्त इत्यर्थः। अतस्तेजोऽन्नकामराहित्येऽपि प्रजारक्षणार्थं, 'उत्तरवेद्यामेवोद्वासयेत्'॥
तत्रापि देशविशेषं विकल्पितं विधत्ते। “पुरो वा पश्चादोद्वासयेत्। पुरस्ताद्वा एतज्ज्योतिरुदेति। तत्पश्चान्निग्लोचति। स्वामेवैनं योनिमनूद्वासयति” इति॥ (५ प्र०। १० अ०। ६ म०)। उत्तरवेदेः पूर्व्वभागे पश्चिमभागे वा प्रवर्ग्यं 'उद्वासयेत्'। प्रवर्ग्यस्वरूपं इदं आदित्य'ज्योतिः', 'पुरस्तात्', 'उदेति', 'पश्चात्', अस्तमेति। ततस्तयोरुभयोरपि तदीयस्थानत्वात् स्वकीयमेव स्थानं 'अनु'सृत्य 'उद्वासयति'॥
अन्यं देशविशेषं विधत्ते। “अपां मध्य उद्वासयेत्। अपां वा एतन्मध्याज्ज्योतिरजायत। ज्योतिः प्रवर्ग्यः। स्व एवैनं योनौ प्रतिष्ठापयति” इति॥ ४॥ (५ प्र०। १० अ०। ७ म०)। 'एतत्' और्व्वविद्युत्स्वरूपं,* 'ज्योतिः', 'अपां मध्यादजायत'। 'प्रवर्ग्यः', च 'ज्योतिः'स्वरूपः। तस्मात् 'एनं' प्रवर्ग्यं, स्वकीय एव स्थाने 'प्रतिष्ठापयति'॥
देशान्तरं विधत्ते। “यं द्विष्यात्। यत्र स स्यात्। तस्यां
* 'एतत्' वैद्युतरूपमिति E, चिह्नितपुस्तकपाठः। 'एतत्' और्व्ववैद्युतरूपमिति H, चिह्नितपुस्तकपाठः।
४ प्रपाठके ११ अनुवाकः । ५२३
दिश्युदासयेत् । एष वा अग्निर्वैश्वानरः । यत्प्रवर्ग्यः । अग्निनैवै॒नं वैश्वानरेणाभिप्रवर्त्तयति*” । इति । (५ प्र० । १० अ० । ८ म०) । यजमानः ‘यं’† पुरुषं, ‘द्विष्यात्’, ‘सः’ द्वेष्यः, यस्यां दिशि तिष्ठति, ‘तस्यां दिशि’, प्रवर्ग्यं ‘उद्वासयेत्’ । प्रवर्ग्यस्य वैश्वानराग्निरूपत्वात् ‘एनं’ द्वेष्यं, ‘अभि’लक्ष्य वैश्वानराग्निनेव ‘प्रवर्त्तयति’ । तेनाग्निना तमभितो दहतीत्यर्थः‡ ॥
तत्रैव कञ्चिद्विशेषं विधत्ते । “औदुम्बर्याᳵ शाखायामुद्वासयेत् । ऊर्ग्व्वा उदुम्बरः । अन्नं प्राणः । शूग् घर्मः ॥ ५ ॥ इदमहममुष्यामुष्यायणस्य शुचा प्राणमपि दहामोत्याह । शुचैवास्य प्राणमपि दहति । ता जगार्त्तिमार्च्छति” । इति । (५ प्र० । १० अ० । ६ म०) । उदम्बरवृक्षस्य येयं शाखा तस्यां प्रवर्ग्यं ‘उद्वासयेत्’ । उदुम्बरस्यान्नरूपत्वात्, अन्नस्य प्राणस्थितिहेतुत्वात्, घर्मस्य च सन्तापरूपत्वात्, तदनुसारेणोद्वासनकाले इदमित्यादिमन्त्रं पठेत् । ‘अमुष्यायणस्य’ देवदत्तपुत्रस्य, ‘अमुष्य’ यज्ञदत्तस्य, ‘प्राणं’ ‘इदं’ प्रत्यक्षं यथा भवति तथा, ‘शुचा’ सन्तापेन, ‘अपि’, ‘दहामि’ सर्व्वतो दग्धं करोमि । एतन्मन्त्रपाठेन ‘अस्य’ द्वेष्यस्य, ‘प्राणं’, सन्तापेन ‘दहति’, एव । तदानीमेवासौ ‘आर्त्तिं’, प्राप्नोति ॥
देशान्तरं विधत्ते । “यत्र दर्भा उपदीकसन्तताः स्युः । त-
* वैश्वानरेणातिप्रवर्त्तयति इति F, H, चिह्नितपुस्तकद्वयपाठः ।
† वक्ष्यमाणोऽयमिति D, F, H चिह्नितपुस्तकत्रयपाठः ।
‡ हरतीत्यर्थः इति D चिह्नितपुस्तकपाठः ।
५२४ तैत्तिरीये आरण्यके
दुदामयेद् वृष्टिकामस्य। एता वा अपामनुज्जावर्या* नाम।
यद्दर्भाः। असौ खलु वा आदित्य इतो वृष्टिमुदीरयति।
अमावेवास्मा आदित्यो वृष्टिं नियच्छति। ता आपो नियता
धन्वना यन्ति" इति ॥ ६॥ (५ प्र० । २ ० अ० । २० म०) । यस्मि-
न्देशे 'दर्भाः', 'उपदीकसन्तताः' स्तम्बेरविच्छिन्नाः,† भवन्ति।
वृष्टिकामः तत्र 'उदामयेत्'। य एते दर्भाः 'एताः', एव 'अपां',
'अनुज्जावर्याः' इत्येतन्नामभाजो भवन्ति, 'अनुज्जाः' अनुक्रम-
गताः प्रवाहाः, तद्युक्ता नद्यः 'अनुज्जावर्याः'। आपो वै दर्भा
इति श्रुत्यन्तरात् दर्भाणामविच्छिन्नप्रवाहोपेतनदीरूपत्वं। प्रव-
र्ग्यस्यादित्यरूपत्वादादित्यवद् वृष्टिप्रदः। अतो दर्भेषु तदु-
द्वासने सति 'आदित्यः', द्युलोकाद् 'वृष्टिं', प्रेरयति। 'ताः'
च 'आपः', 'धन्वना' मरुद्गणेन सह, 'नियताः', प्रवर्त्तन्ते ॥
गोः पयः, उत्तरवेदिः, आसते, स्थापयति, घर्म्मः, यन्ति ॥
इति पञ्चमप्रपाठके दशमोऽनुवाकः ॥ १० ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा-
रण्यके चतुर्थप्रपाठके एकादशोऽनुवाकः ॥ ११ ॥
* अपाममृम्भाभावर्य इति B, E, G, I, चिह्नितपुस्तकचतुष्टयपाठः।
अपामनुम्स्यावर्येति J, चिह्नितपुस्तकपाठः।
† स्तम्ब एव विच्छिन्ना इति D चिह्नितपुस्तकपाठः। स्तम्बरविच्छिन्ना इति E चिह्नितपुस्तकपाठः।
४ प्रपाठके १२ अनुवाकः । ५२५
अथ द्वादशोऽनुवाकः ।
(१)म॒हीनां पयो॑ऽसि॒ विहि॑तं दे॒वत्रा॑(१) । (२)ज्योति॑र्भा अ॑सि वन॒स्पती॑ना॒मोष॑धीनाग्॒ रसः॑(२) । (३)वा॒जिनं॑ त्वा वा॒जिनेा॑ऽवनयामः । ऊ॒र्द्धं मनः॑ सु॒वर्गं॑(३)॥ अनु०१२ ॥
अथ द्वादशोऽनुवाकः ।
एकादशे प्रवर्गेाद्वासनमुक्तं । तत्र महावीरे द्रव्यपूरणा- वसरे* घर्मैतत्तेऽन्नमिति† मन्त्रात् पूर्व्वं त्रयो मन्त्रा अपेक्षिताः, ते अत्र द्वादशे अभिधीयन्ते । कल्पः । महीनं पयोऽसीति महावीरे गोपय आनयतीति विहितं, देवचेति मन्त्रशेषः । (१ मन्त्रः) । हे द्रव्य ‘देवत्रा’ देवनििमत्तं,‡ ‘विहितं’ सम्पा- दितं, ‘महीनां’ गवां, ‘पयः’, ‘असि’ ॥
कल्पः । ज्योतिर्भा असि वनस्पतीनामोषधीनाग् रस इति मध्विति महावोर आनयतीत्यनुवर्त्तते । (२ मन्त्रः) । हे मधुद्रव्य ‘वनस्पतीनां’, ‘ओषधीनां’, च ‘रस’भूतस्त्वं ‘ज्योति- र्भाः’ ज्योतिषां प्रकाशकः, ‘असि’ ॥
कल्पः । वाजिनं त्वा वाजिनो वनयाम इति दधीनि महावीर आनयतीत्यनुवर्त्तते । ऊर्द्धं मनः सुवर्गमिति मन्त्र- शेषः । (३ मन्त्रः) । ‘ऊर्द्धं’ उपरिवर्त्तमानं, ‘मनः’ मननीयं,
* निरूपणावसरे इति E चिह्नितपुस्तकपाठः ।
† ५०७ पृष्ठे द्रष्टव्यम् ।
‡ देवेषु देवनििमत्तमिति E चिह्नितपुस्तकपाठः ।