भारतकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

४ प्रपाठके १६ अनुवाकः । ५३३

अथैकोनविंशोऽनुवाकः ।

अ॒ग्निर॑सि वैश्वान॒रोऽसि॑ । सं॒व॒त्स॒रोऽसि॑ परि- वत्स॒रोऽसि॑ । इ॒दाव॑त्स॒रोऽसीदु॑वत्स॒रोऽसि॑ । इ॒द्वत्स- रोऽसि॑ वत्स॒रोऽसि॑ । तस्य॑ ते वस॒न्तः शिर॑: । ग्री॒ष्मो दक्षि॑णः प॒क्षः । व॒र्षाः पुच्छ॑म् । श॒रदुत्त॑रः प॒क्षः । हे॒म॒न्तो मध्य॑म् । पूर्व॑प॒क्षाश्चित॑यः । अ॒प॒र॒प॒क्षाः पुरी॑षम् । अ॒हो-


र्वाभिः, युक्तः ‘त्वं’, ‘उभयीभिः’ दैवीभिर्मानुषीभिश्च, ‘प्रजा- भिः’, ‘संविदानः’ ऐकमत्यं गतः त्वं* ‘इह’ चेत्रे, ‘द्रविणे’ अस्माकं धननिमित्तं, हे ‘अग्ने’, ‘सीद’ तिष्ठ, प्रजापतिरि- त्यादि पूर्व्ववत् ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजु- रारण्यके चतुर्थप्रपाठकेऽष्टादशोऽनुवाकः ॥ १८ ॥


अथैकोनविंशोऽनुवाकः ।

कल्पः । अध्वर्य्युरग्निमभिमृशति अग्निरसि वैश्वानरोऽसी- त्यनुवाकेनेति । पाठस्तु । “अग्निरसि वैश्वानरोऽसि । * तथा देवतयाऽङ्गिरस्वद्ध्रुवा सीद” इति । इष्टकाभिर्निष्पन्न हे देव त्वं ‘अग्निरसि’, अङ्गारैर्विना इष्टकाशरीरमात्रेणैव अग्नित्वं ।


* गतः सन् इति E चिह्नितपुस्तकपाठः ।

५३४ तैत्तिरीये आरण्यके

रा॒त्राणी॑ष्ट॒काः । तस्य॑ ते॒ मासा॑श्चार्द्धमा॒साश्च॑ कल्पन्तां । ऋ॒तव॑स्ते कल्पन्तां । सं॒व॒त्स॒रस्ते॑ कल्पतां । अहो॑- रा॒त्राणि॑ ते कल्पन्तां । एति॒ प्रेति॒ वीति॒ समि॒त्युदि॑ति । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वः सी॑द ॥ अनु० १८ ॥


'वैश्वानरः' विश्वेषां नराणां उपकारकः, 'असि' । प्रभवादी- नामेकैकपञ्चके वर्त्तमानाः शब्दाः* संवत्सरादयः, सर्व्वेष्वनुगतो वत्सरः, त्वमेवं षड्विधः 'असि'। 'तस्य' तथाविधस्य, 'ते' ऊर्ज्जरूपस्य, वसन्ताद्यृतवः 'शिरः' आद्यवयवाः, चैत्रादिमा- सेषु ये शुक्लपक्षाः ते चितिरूपाः । ये च कृष्णपक्षाः ते पुरीषरूपाः । यान्यहोरात्राणि तानीष्टकारूपाणि । 'तस्य ते' तादृशस्य तव, मासादयः स्वस्वकार्य्यक्षमा भवन्तु । इतिशब्द- शिरस्काः आ,प्र,वि,सम्,उद्ः, उपसर्गाः अत्र निर्द्दिष्टाः, तैरू- चितक्रियां संयोज्य अग्निहोत्रं स्तोतव्यं† इति तात्पर्यार्थः । उचितक्रियाणां च बहूनां सम्भवात् महती स्तुतिः सम्पद्यते । प्रजापतिरित्यादि पूर्व्ववत् । अग्निविशेषणत्वाद् ध्रुव इति लिङ्ग- निर्देशः ॥

इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके चतुर्थप्रपाठके एकोनविंशोऽनुवाकः ॥ १९ ॥


* शब्दा इति E चिह्नितपुस्तकपाठः।
† अग्निस्तोतव्य इति D, E चिह्नितपुस्तकद्वयपाठः।

४ प्रपाठके २० अनुवाकः । ५३५

अथ विंशोऽनुवाकः ।

(१)भूर्भुव॒: सुव॑:(१) । (२)ऊ॒र्ध्व ऊ॒षु ण॑ ऊ॒तये॑ । ऊ॒र्ध्वो न॑: पा॒ह्यंह॑सः(२) । (३)वि॒धुन्द्र॑दाणाꣳ॒ सम॑ने बहू॒नां । युवा॑न॒ꣳ सन्त॑म्पलि॒तो ज॑गार । दे॒वस्य॑ पश्य॒ काव्यं॑ महि॒त्वा-


अथ विंशोऽनुवाकः ।

(१)“भूर्भुवः सुवः” (१)इति सर्वप्रायश्चित्तानीति । त्रयो लोकाः सुखप्रदा भवन्त्विति मन्त्रत्रयस्यार्थः ॥

कल्पः । यदि महावीरः पद्येत ऊर्ध्व ऊषु ण ऊतय इति द्वाभ्यामिति । पाठस्तु । “(२)ऊर्ध्व ऊषु ण ऊतये, ऊर्ध्वो नः पाह्यंहसः,”(२)इति । एतच्च मन्त्रयोः प्रतीकद्वयं । तौ च मन्त्रावञ्जन्ति त्वामध्वरे देवयन्त इत्यनुवाके व्याख्यातौ ॥

कल्पः । यदि भिद्येत विधुन्द्रदाणमिति सन्दृ॑ह्यादिति* । पाठस्तु । (३)“विधुन्द्रदाणँ समने बहूनां । ० स ह्यः समान”(३) इति । ‘बहूनां’ कर्मणां, ‘समने’ समीचीनचेष्टारूपे अनुष्ठाने, ‘द्राणं’ भूयःप्रवर्त्तमानं, ‘विधुं’ अनुष्ठानस्य विधातारं महावीरं, ‘युवानं’ यौवनोपेतपुरुषवद्दृढं, एवं ‘सन्तं,’ ‘पलितः’ वयोहीनसदृशः† शैथिल्यविशेषः, ‘जगार’ निगीर्णवान् ‘देवस्य’ जगद्विधातुः परमेश्वरस्य, ‘काव्यं’ ‡अभिज्ञानरूपं, ‘महित्वा’ महिमानं, ‘सः’ महावीरः, ‘ह्यः’ पूर्वेद्युः, ‘समान’ सम्यक् चेष्टितवान् । ‘अद्य’


* सन्दध्यादिति E चिह्नितपुस्तकपाठः ।
† वयोहानिसदृश इति F चिह्नितपुस्तकपाठः ।
‡ काम्यं इति E चिह्नितपुस्तकपाठः ।
3 v

५३६ तैत्तिरीये आरण्यके

ऽद्या म॒मार॑। स ह्यः समा॑न^(३)। ^(४)यदृ॒ते चि॑द॒भिश्रि॑षः।
पु॒रा ज॒र्तृभ्य॑ आ॒तृद॑ः। सन्धा॒ता सन्धिं॑ म॒घवा॑ पुरो॒-
वसु॑ः॥ १ ॥
  नि॒ष्कर्ता॒ विहृ॑तं॒ पुन॑:^(४)। ^(५)पुनेरू॒र्जा सह र॒य्या^(५)।

'पश्य' हे जनसमूह अवलोकय। किन्नामहात्म्यमिति तदुच्यते।
अस्मिन् दिने, 'ममार' भग्नोऽभूत्,* ईदृशं खल्वेश्वरस्य माहात्म्यं॥
  कल्पः। ततो यानि दृढार्थे संश्लेषणानि स्युः तैरेनमाभि-
सन्दध्यात् यदन्यन्नासान्नाषेभ्यश्च। यदृते चिदभिश्रिष इति
भिन्नं महावीरं विधुन्दद्राणमिति मन्त्रेण सन्धाय यदृते
चिदितिमन्त्रेण संश्लेषणसाधनैरुपलिम्पेत्। पाठस्तु। ^(४)“य-
दृते चिदभिश्रिषः। ० निष्कर्ता विहृतं पुनः” ^(४)इति।
‘यत्’ महावीरस्वरूपं, ‘जर्तृभ्यः पुरा’ कपालजरणेभ्यः† कपा-
लानाञ्चूर्णभावेभ्यः पूर्वं, ‘अभिश्रिषः ऋते’ अभितः संश्लेषणसाध-
नानि द्रव्याणि विना, ‘आतृदः’‡ तर्दनम्भङ्गं प्राप्नोत्। तस्य
महावीरस्य ‘मघवा’ इन्द्रः, ‘सन्धिं’ सन्धानं, करिष्यति।
कीदृशो मघवा, ‘पुरोवसुः’ पुरतोऽवस्थितानि वसूनि संश्लेषणसा-
धनानि द्रव्याणि यस्यासौ पुरोवसुः, इत्थं स इन्द्रः ‘विहृतं’ वि-
शेषेण भग्नं महावीरं, ‘पुनर्निष्कर्ता’ पुनरपि सम्पादयिष्यति॥


* महावीरो भग्नो भूदिति E चिह्नितपुस्तकपाठः।
† कपालक्षरगोभ्य इति D चिह्नितपुस्तकपाठः।
‡ आतद इति D, F, चिह्नितपुस्तकद्वयपाठः।

४ प्रपाठके २० अनुवाकः। ५३७

(५)मा नौ॑ घ॒र्म व्यथि॑तो॒ विव्य॑थो न॒:। मा न॒: पर॒मध॑रं॒ मा रजौऽनै॑:। मा स्व॒स्माᳲस्तम॑स्य॒न्तराधा॑:। मा रु॒द्रिया॑सो अ॒भिगु॑र्धृ॒धान॑:॥(६)। (७)मा न॒: क्रतु॑भिर्होडि॒तेभि॑र॒स्मान्।

कल्पः। यदि घर्मं प्रतिपरोयुः, न वा प्रतिपरोयुः, पुनरूर्ज्जा-सह रय्येति" ⁽५⁾मन्त्रः। एताभ्यामेनं प्रतिपरीयुरिति त्रिः परिषिञ्चन् पर्येतीति यदुक्तं, तत्राधिकपर्यावर्त्तने त्रिः पुनः परियन्तीति विपरीतावर्त्तनं यदुक्तं, तदकरणेयेतत् प्रायश्चित्तं। तत्र मन्त्रयोर्यदिदं* प्रतीकद्वयं, पुनरूर्ज्जा निवर्त्तस्वेत्येको मन्त्रः, सह रय्या निवर्त्तस्व इत्यपरो मन्त्रः, एतावुभावपि भूमिर्भूम्येत्यत्र† व्याख्यातौ॥

कल्पः। मा नो घर्म व्यथित इत्यष्टौ घर्मे व्यथिते प्रायश्चित्तानीति। घर्मस्याज्यपयोरूपद्रव्यस्य व्यथनं चलनं सन्तापाधिक्येन पात्रस्योपरि उद्गमने सति एतत्प्रायश्चित्तं। तत्र प्रथमामृचमाह। (१)“मा नो घर्म व्यथितो विव्यथो नः। ० मा रुद्रियासो अभिगुर्धृधानः”⁽१⁾इति। 'नः' अस्मदीय, हे 'घर्म' हविर्द्रव्य, त्वं 'व्यथितः' चलितो भूत्वा, 'नः' अस्मान्, 'मा विव्यथः' स्वस्थानान्मा विचालय। 'नः' अस्माकं, 'परं' उत्कृष्टं कर्म, 'अधरं' निकृष्टं, 'मा', कुरु। 'रजो मा अनैः' अस्मान् रजोगुणं मा प्रापय,। तथा 'तमस्यन्तः' तमोगुणमध्ये, 'अस्मान्', सुष्ठु 'मा आधाः' मा स्थापय। 'वृधानः' वर्धमाना उद्दान्ताः, 'रुद्रियासः' रुद्रसम्बन्धिनः क्रूरदेवाः, 'मा अभिगुः' अस्मिन् कर्मण्याभिमुख्येन मा आगच्छन्तु।


* मन्त्रेणोदितमिति D चिह्नितपुस्तकपाठः।
† भूमिर्भूमिसंज्ञचानुवाके इति E चिह्नितपुस्तकपाठः।
3 v 2

५३८ तैत्तिरीये आरण्यके

द्वि॒षा सु॑नी॒ते मा परा॑दाः । मा नौ॑ रु॒द्रो निर्ऋ॑- ति॒र्मा नौ॑ अस्ता॑ । मा द्यावा॑पृथि॒वी ह्री॑डिषातां^{(७)} ॥ २ ॥ ^{(८)}उप॑ नो मित्रावरुणावि॒हाव॑तं । अन्वा॒दीध्या॑था- मि॒ह न॑ः सखाया । आ॒दि॒त्यानां॒ प्रसि॑ति॒र्हेति॑ः । उ॒ग्रा श॒ता पाशा॑द्य॒ विष॑ परि॑ णो वृणक्तु^{(८)} ।


अथ द्वितीयामाह । "^{(७)}मा नः क्रतुभिर्हीडितेभिरस्मान् । ० मा द्यावापृथिवी ह्रीडिषातां"^{(७)} इति । हे घर्म 'ह्रीडितेभिः' अप- राधयुक्तैः, 'नः' अस्मदीयैः, 'क्रतुभिः,' कुपितस्त्वं 'अस्मान्' यजमा- नान्, 'द्विषा' द्वेषेण, 'सुनीते' सुष्ठु सम्पादिते फले, 'मा परादाः' निराकरणं मा कुरु, । एतावन्तङ्कालं महता स्वक्लेशेन सम्पादितङ्क- र्मफलमोधदपराधद्वेषेण मा विनाशयेत्यर्थः । तथा 'रुद्रः' क्रूरो देवः, 'नः' अस्मान्, 'मा अस्ता' मैव अस्यतु, मा निराकरोतु । 'निर्ऋतिः' अपि राक्षसदेवता, 'नः' अस्मान्, 'मा अस्ता' मा अ- स्यतु, मा निराकरोतु । 'द्यावापृथिव्यावपि देवते 'मा ह्रीडि- षातां' अस्मद्विषये क्रोधम्माकुरुतां ॥

अथ तृतीयामाह । "^{(८)}उप नो मित्रावरुणाविहावतं । ० पा- शाद्य विष परिणो वृणक्तु"^{(८)} इति । हे 'मित्रावरुणा,' 'नः' अस्मान्, घर्मापराधसहितान, 'इह'कर्मणि, 'उपावतं' उपेत्य रक्षतं । हे 'सखाया' सखिवदत्यन्तस्निग्धौ युवां, 'इह' कर्मणि, 'नः' अस्मान्,

४ प्रपाठके २० अनुवाकः। ५३६

^(९)इ॒मं मे॑ वरुण॒ तत्त्वा॑यामि। त्वन्नो॑ऽग्ने॒ स त्वन्नो॑ऽग्ने। त्व-
म॑ग्ने॒ अय॑ासि॑^(९)। ^(१०)उद्यन्त॒न्तम॑स॒स्परि॑। उदु॒त्यञ्चि॒त्रं।
वय॑ः सु॒प॒र्णाः^(१०)॥ ३ ॥
पुरो॒वसुं॑, ह्वी॒डिषा॒ताᳪँ, सु॒प॒र्णाः ॥अनु०२० ॥

'अन्वादीध्याथां' अनुक्रमेण सर्वतो दीप्तान् कुरुतं। 'आदित्यानां,'
सम्बन्धिनी 'हेतिः' पापिषु हिंसाकारणमायुधं, 'नः' अस्मान्,
'परिवृणक्तु' सर्वतो वर्जयतु। कीदृशी हेतिः, 'प्रसितिः'
प्रकृष्टबन्धा, * 'उग्रा' तीक्ष्णाघाता, 'पाष्टा' बहुस्पर्शा, बहुभिरव-
यवैः प्रहर्त्तुं समर्थेत्यर्थः †। 'विषा' व्यापिनी,। 'अद्य'शब्दो यथो-
क्तविशेषणसमुच्चयार्थः ॥

चतुर्थादीनामष्टमान्तानामृचानाम्प्रतीकानि दर्शयति। " ^((९))
इमं मे वरुण तत्त्वा यामि। ० त्वमग्ने अयासि^((९))"। तत्राद्यं मन्त्रद्वयं
इन्द्रं वो विश्वतस्परीन्वर इत्यत्र व्याख्यातं। अनन्तरन्तु मन्त्रद्व-
यमायुष्ट आयुर्दा अग्ने इत्यत्र व्याख्यातं। अन्तिमो जुष्टो दमूना
इत्यत्र व्याख्यातः॥

कल्पः। यदि घर्मेण चरंस्खादित्योऽस्तमियात्। अपरस्या-
न्दारि दर्भेण हिरण्यं प्रबध्य उद्यन्तममसस्परीत्युपस्थाय उदुत्यं
चित्रमिति द्वाभ्याङ्गार्हपत्ये हुत्वा प्रवृज्य शोभते वयःसुपर्णा इत्या-


* प्रकृष्टबन्धना इति D, F, चिह्नितपुस्तकद्वयपाठः। प्रकृष्टसम्ब-
न्धना इति E चिह्नितपुस्तकपाठः।
† प्रहरणसमर्थेत्यर्थ इति E चिह्नितपुस्तकपाठः।

५४० तैत्तिरीये आरण्यके

अथ एकविंशोऽनुवाकः ।

$^{(१)}$भूर्भुव॒: सुव॑: । मयि॒ त्यदि॑न्द्रि॒यं महत् । मयि॒ दक्षो॑ मयि॒ क्रतु॑: । मयि॑ धायि सु॒वीर्यं॑ । त्रिशु॑ग्घ॒र्मो विभा॑तु मे ।


दित्यमुपतिष्ठत इति । चतसृणामेतासामत्र प्रतीकान्याम्नातानि ।
($^१$प्रतीकः) उद्वयमिति मन्त्रः समास्त्वाग्न इत्यनुवाके व्याख्यातः ।
उदुत्यं चित्रमिति द्वयं उदुत्यं जातवेदसे इत्यनुवाके व्याख्यातं ।
वयः सुपर्णा इति मन्त्रः स ईं पाहि इत्यनुवाके व्याख्यातः ।
इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा-
रण्यके चतुर्थप्रपाठके विंशोऽनुवाकः ॥ २० ॥

अथ एकविंशोऽनुवाकः ।

यदि घर्मं भक्षयन्ति भूर्भुवः स्वरित्यनुवाकेनेति । पाठस्तु ।
(१)“भूर्भुवः सुवः । ० उपहूतस्योपहूतो भक्षयामि”$^{(१)}$ इति । भू-
रादिलोकदेवता अनुगृह्णन्त्विति शेषः । ‘त्यत्’ प्रसिद्धं, ‘मह्’
इन्द्रियसामर्थ्यं, ‘मयि’, ‘धायि’ धीयतां, स्थाप्यतां । तथा ‘दक्षः’
उत्साहः, ‘क्रतुः’ अनुष्ठानं, ‘सुवीर्यं’ सर्वेषु कार्येषु शोभनं सामर्थ्यं,
तत्सर्वं ‘मयि,’ आस्त्थाप्यतां । ‘त्रिशुक्’ अग्निविद्युदात्मनः त्रेधा-
भिन्नदीप्तिः, ‘घर्मः,’ मदर्थं आकृत्यादिभिः ‘सह’, ‘विभातु’
विविधन्दीव्यतां । ‘आकूतिः’ सङ्कल्पः, ‘मनः’ सङ्कल्पसाधनं,
‘विराट्’ अन्नं, ‘ज्योतिः’ तेजः, ‘यज्ञः’ क्रतुः, ‘पयः’ क्षीरं,

४ प्रपाठके २१ अनुवाकः । ५४१

आकू॑त्या मन॑सा स॒ह । वि॒राजा॒ ज्योति॑षा स॒ह । य॒ज्ञेन॒ पय॑सा स॒ह । ब्रह्म॑णा तेज॑सा स॒ह । क्ष॒त्रेण॒ यश॑सा स॒ह ॥ स॒त्येन॒ तप॑सा स॒ह । तस्य॑ दोह॑मशीमहि । तस्य॑ सु॒म्नम॑शीमहि । तस्य॑ भ॒क्षम॑शीमहि । तस्य॑ त॒ इन्द्रे॑ण पी॒तस्य॒ मधु॑मतः । उप॑हूत॒स्योप॑हूतो भक्षयामि⁽१⁾ ॥ १ ॥ यश॑सा स॒ह, षट् च॑ ॥ अनु० २१ ॥


'ब्रह्म' ब्राह्मणजातिः, 'तेजः' शरीरकान्तिः, 'क्षत्रं' क्षत्रियजातिः, 'यशः' कीर्त्तिः, 'सत्यं' अनृतवर्जितं,* 'तपः' कृच्छ्रचान्द्रायणादिकं, 'तस्य' तैराकृत्यादिभिर्युक्तस्य घर्मस्य, 'दोहं' वृष्ट्यादिसमृद्धिं, वयं 'अशीमहि' । 'तस्य सुम्नं' तन्निमित्तं सुखञ्च, 'अशीमहि' । 'तस्य' प्रवर्ग्यस्य, प्रसादात् 'भक्षं' च 'अशीमहि' प्राप्नुयाम । हे घर्म 'तस्य' तादृशस्य, 'ते' तव, 'रसं 'उपहूतः' अनुज्ञातः, अहं भक्ष- यामि । कीदृशस्य तव, 'इन्द्रेण', प्रथमं 'पीतस्य,' 'मधुमतः' माधुर्ययुक्तस्य, 'उपहूतस्य' अनुज्ञातस्य ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजु- रारण्यके चतुर्थप्रपाठके एकविंशोऽनुवाकः ॥ २१ ॥


* अनृतवर्जनमिति E चिह्नितपुस्तकपाठः ।

५७२ तैत्तिरीये आरण्यके

अथ द्वाविंशोऽनुवाकः ।

(१)यास्तै॑ अग्ने॒ घो॒रास्त॒नुव॑: । क्षुच्च॑ तृ॒ष्णा॑ च । असु॑क् चाना॑हुतिश्च । अ॒श॒न॒या च॑ पि॒पासा च॑ । से॒दि॑श्चा-


अथ द्वाविंशोऽनुवाकः ।

कल्पः । व्याख्याता घोरस्तन्वोररण्येऽनुवाक्यो गण उत्तरौ चानुवाकाविति । घोरतनूनां प्रतिपादकौ द्वावनुवाकौ तत्रोक्तास्तन्व आधानप्रतिपादके सूत्रे व्याख्याताः । अरण्येऽनुवाक्या भवन्तीति हि तत्र सूत्रेऽभिहितं । तथा द्वयोरनुवाकयोर्मरुद्गण उक्तः; स च त्रिकल्पितः; तस्य विनियोगो राजसूयप्रकरणे सूत्रकारेणाभिहितः; मारुतमेकविंशतिकपालं निर्वपति; वैश्वदेवीमामिक्षान्तस्यारण्येऽनुवाक्यैर्गणैः * कपालानुपदधातीति । ब्राह्मणञ्चाम्नातं, योऽरण्येऽनुवाको गणस्तं मध्यत उपदधातीति । तत्र घोरतनुप्रतिपादकं प्रथममनुवाकमाह । (१)“यास्ते अग्ने घोरास्तनुवः । ० यच्च वयं द्विष्मः” (१) इति। हे ‘अग्ने,’ ‘ते’ तव सम्बन्धिन्यः, ‘घोराः,’ अत्युग्राः, ‘तनुवः,’ ‘याः,’ सन्ति, कास्ता इति चेत् क्षुदादिभिरमत्यन्तैरष्टाभिः शब्दैः प्रतिपादिताः । हे ‘अग्ने’, ‘ते’ तव सम्बन्धिन्यः, ‘एताः’ उक्ताः,


* अनुवाक्यैस्तृतीयेर्गणैरिति E चिह्नितपुस्तकपाठः ।

४ प्रपाठके २२ अनुवाकः। ५४३

मे॑तिश्च॒। ए॒तास्तै॑ अग्ने॒ घो॒रास्त॒नुव॑:। ताभि॑र॒मुङ्ग॑च्छ। यो॒ऽस्मान्द्वेष्टि॑। यञ्च॑ व॒यन्द्वि॒षः^(१)॥ अनु० २२॥

अथ त्रयोविंशोऽनुवाकः।

^(१)स्रिक्च॑ लो॒हिति॑श्च॒ स्लिहि॑तिश्च*। उ॒ष्णा च॑ शी॒ता च॑। उ॒ग्रा च॑ भी॒मा च॑। स॒दामी॑ से॒दिरनि॑रा। ए॒तास्तै॑ अग्ने॒ घो॒रास्त॒नुव॑:। ताभि॑र॒मुङ्ग॑च्छ। यो॒ऽस्मान्द्वेष्टि॑। यञ्च॑ व॒यन्द्वि॒षः^(१)॥ अनु० २३॥

‘तनुवः,’ ‘ताभिः’ तनुभिः सह, ‘यः’ अस्माकन्द्वेष्टा, यश्च द्वेष्यः ‘अमुं’ द्विविधम्पुरुषं, ‘गच्छ’॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके द्वाविंशोऽनुवाकः॥ २२॥

अथ त्रयोविंशोऽनुवाकः।

अथ घोरतनूप्रतिपादकं द्वितीयमनुवाकमाह। ^(१)“स्रिक्च॑ लोहितिश्च॑ ॰ यञ्च वयं द्विषः”^(१) इति। स्रिगादीन्यनिरान्तानि तनुनामानि। अन्यत्पूर्ववत्॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके त्रयोविंशोऽनुवाकः॥ २३॥


* लोहीतिस्नेति J चिह्नितपुस्तकपाठः। स्लिहितिस्नेति G, चिह्नितपुस्तकपाठः।
3 w

५४४ तैत्तिरीये आरण्यके

अथ चतुर्विंशोऽनुवाकः। ^(१)धु॒निश्च॑ ध्वान्त॒श्च ध्व॒निश्च॑ ध्वनयँ॒श्च । नि॒लिम्प॑श्च वि॒लिम्प॑श्च वि॒क्षिपः॑^(१) ॥ अनु० २४ ॥

अथ पञ्चविंशोऽनुवाकः। ^(१)उ॒ग्रश्च॑ धु॒निश्च॑ ध्वान्त॒श्च ध्व॒निश्च॑ ध्वनयँ॒श्च ।


अथ चतुर्विंशोऽनुवाकः ।

मरुद्गणप्रतिपादकं प्रथममनुवाकमाह । ^(१)“धुनिश्च ध्वान्त- श्च • विलिम्पश्च विक्षिपः”^(१) इति । धुन्यादीनि सप्त पदानि गणगतानां मरुद्विशेषाणां नामधेयानि । एतद्रूपेण कपाला- न्यवतिष्ठामीत्यर्थः* ॥

इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजु- रारण्यके चतुर्थप्रपाठके चतुर्विंशोऽनुवाकः ॥ २४ ॥


अथ पञ्चविंशोऽनुवाकः।

मरुद्गणप्रतिपादकमनुवाकान्तरमाह । ^(१)“उग्रश्च धुनिश्च एत्य प्रेत्य विक्षिपः”^(१) इति । उग्रादीनि सहमानान्तानि सप्त


* कपालान्यवतिष्ठन्तामित्यर्थ इति E चिह्नितपुस्तकपाठः ।

४ प्रपाठके २५ अनुवाकः । ५४५

स॒ह॒सह्वा॑ँश्च॒ सह॑मानश्च॒ सह॑स्वाँश्च॒ सहो॑याँश्च । एत्य॒ प्रेत्य॑ विक्षिपः॑ ।^{(१)} ॥ अनु० २५ ॥

अथ षड्विंशोऽनुवाकः ।

^{(१)}अ॒हो॒रा॒त्रे त्वोदी॑रयतां । अ॒र्ध॒मा॒सास्त्वादौ॑ञ्जयन्तु ।


पदानि गणगतानां मरुद्विशेषाणां नामधेयानि । सहस्वादीनि विक्षिप इत्यन्तानि षण्नामानि विकल्पितानि । अनुवाकद्वयोक्तं गणद्वयं कपालोपधाने विकल्पितं । उत्तरगणे च नामषट्कं पुनर्विकल्पितं ॥

इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजु- रारण्यके चतुर्थप्रपाठके पञ्चविंशोऽनुवाकः ॥ २५ ॥


अथ षड्विंशोऽनुवाकः ।

कल्पः । यदि घर्मदुघं वा महावीरं वास्तेनोपहरेत्, गार्हपत्ये स्रुवाहुतिं जुहुयात्, अहोरात्रे त्वोदीरयतामिति । पा- ठस्तु । ^{(१)}“अ॒हो॒रा॒त्रे त्वोदी॑रयतां ॰ संवत्स॒रस्त्वा॒हन्व॒सौ”^{(१)} इति । चौरस्य नामनिर्देशार्थः ‘असौ,’ इति शब्दः । हे देवदत्त- नामक चौर त्वामहोरात्रदेवते ‘उदीरयतां’ उद्गमयतां । अर्धमा- सदेवतास्त्वां ‘उदौञ्जयन्तु’ उत्कर्षेणैव जयन्तु । मासदेवतास्त्वां

3 w 2

५४६ तैत्तिरीये आरण्यके

मासा॑स्त्वा श्रपयन्तु । ऋ॒तव॑स्त्वा पचन्तु । सं॒व॒त्स॒र- स्त्वा॑ हन्त्वसौ^(१) ॥ अनु० २६ ॥

अथ सप्तविंशोऽनुवाकः ।

^(१)खट् फट् ज॒हि । छि॒न्धी भि॒न्धी ह॒न्धी कट् । इ॒ति वाचः क्रू॒राणि॑^(१) ॥ अनु० २७ ॥

'श्रपयन्तु' वह्नौ पक्तुं प्रवर्त्तन्तां । ऋतुदेवतास्त्वां सम्यक् पक्वं कुर्वन्तु । संवत्सरदेवस्त्वां 'हन्तु' मारयतु ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजु- रारण्यके चतुर्थप्रपाठके षड्विंशोऽनुवाकः ॥ २६ ॥

अथ सप्तविंशोऽनुवाकः ।

आभिचारप्रकरणे ब्राह्मणे यदुक्तं, यद्वाचः क्रूरन्तेन वषट् करोति इति । तदेतत्क्रूरमाह । ^(१)“खट् फट् जहि ० इति वाचः क्रूराणि”^(१) इति । भर्त्सनद्योतकाः खडादयस्त्रयोऽनु- करणशब्दाः । हननच्छेदनभेदनवाचकानि* तु क्रियापदानि । 'इति' एतानि षड्विधानि, 'वाचः,' 'क्रूराणि' ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजु- रारण्यके चतुर्थप्रपाठके सप्तविंशोऽनुवाकः ॥ २७ ॥


* छेदनभेदनहननवाचकानि इति E चिह्नितपुस्तकपाठः ।

४ प्रपाठके २८ अनुवाकः । ५७७

अथ अष्टाविंशोऽनुवाकः ।

$^{(१)}$विगा॑ इन्द्र॒ विच॑र॒न्त्याश॑यस्व । स्वपन्त॑मिन्द्र प॒शुमन्त॑मिच्छ । वज्रे॑णा॒मुम्बोधय दुर्वि॑दत्रँ । स्व॒पतो॑ऽस्य प्रह॑र भोज॑नेभ्यः$^{(१)}$ । $^{(२)}$अग्ने॑ अ॒ग्निना॒ संव॑दस्व । मृत्यो॑


अथ अष्टाविंशोऽनुवाकः।

कल्पः । यदि धर्मेण चरत्स्वेकवृक उत्तिष्ठेत् । विगा इन्द्र विचरन्त्याशयस्वेति एनमभिमन्त्रयत इति । पाठस्तु । $^{(१)}$“विगा इन्द्र विचरन्त्याशयस्व ० स्वपतोऽस्य प्रहर भोजनेभ्यः”$^{(१)}$ इति । एकाकिलेनारण्ये सञ्चरन् वत्सान्मारयति यः अरण्यश्वा सोऽयं एकवृकः, तद्बाधनमत्र प्रार्थ्यते* । हे ‘इन्द्र,’ ‘विगाः’ वत्सानेक-वृकादियोज्य, तद्रक्षार्थं ‘विशेषेण ‘चरन्,’ ‘स्याशयस्व’ तमे-कवृकं बाधितंकुरु । हे ‘इन्द्र,’ ‘पशुमन्तं’ वत्सान् भक्षयि-तुमायातः पशुभिर्युक्तं तमेकवृकं, ‘स्वपन्तं’ निद्राणं, गच्छ । गत्वा च ‘दुर्विदत्रं’ दुर्बुद्धिशीलं, ‘अमुं’ एकवृकं, ‘वज्रेण’ आयुधेन, बोधय । यथा स्वपन्तं सुप्तं प्रहारेण$^\dagger$ बोधयन्ति, तथा वज्र-प्रहारेण बोधय । बोधयेत्यस्यैवार्थः स्पष्टमुच्यते । ‘स्वपन्तं एनमे-कवृकं, ‘भोजनेभ्यः’ वत्सभक्षणेभ्यः, निवारयितुं ‘प्रहर’ मारय, इत्यर्थः ॥

कल्पः । उभयत आदीप्तोल्मुकमस्मै प्रत्यस्येत् । अग्ने अग्नि-


* प्रार्थयते इति D चिह्नितपुस्तकपाठः ।
$^\dagger$ हस्तप्रहारेण इति E चिह्नितपुस्तकपाठः ।

५४८ तैत्तिरीये आरण्यके

मृत्युना॒ संव॑दस्व । नम॑स्ते अस्तु भगवः^(१) । ^(२)स॒कृत्ते॑ अग्ने॒ नमः॑ । द्व॒िस्ते नमः॑ । त्रि॒स्ते नमः॑ ॥ चतु॒स्ते नमः॑ । प॒ञ्चकृ॒त्वस्ते॒ नमः॑ । दश॑कृ॒त्वस्ते॒ नमः॑ । श॒तकृ॒त्वस्ते॒ नमः॑ । आ॒स॒ह॒स्रकृ॒त्वस्ते॒ नमः॑ । अप॑रिमितकृ॒त्व॑स्ते॒ नमः॑ । नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः^(२) ॥ १ ॥ त्रि॒स्ते नमः॑, स॒प्त च॑ ॥ अनु० २८ ॥

ना संवदस्वेति । पाठस्तु । ^(१)"अग्ने अग्निना संवदस्व नमस्ते अस्तु भगवः"^(१) इति । हे 'अग्ने,' उल्मुकस्य मूलभागवर्त्तिना 'अग्निना,' उल्मुकाग्रभागवर्त्तिना सह, 'संवदस्व' एकवृकं हन्तुमैकमत्यं प्राप्नुहि । हे 'मृत्यो,' मूलभागस्थिताग्निप्रेरित, 'मृत्युना' अग्रभागस्थिताग्निप्रेरितेन सह, 'संवदस्व' एकवृकं हन्तुं संवादमनुमतिं कुरु । हे 'भगवः' ऐश्वर्यादिगुणयुक्त अग्ने, 'ते' तुभ्यं, 'नमोऽस्तु' ॥

कल्पः । अथैनमनुतिष्ठन्ते सकृत्ते अग्ने नम इत्यनुवाकशेषेणेति । पाठस्तु । ^(२)"सकृत्ते अग्ने नमः ० नमस्ते अस्तु मा मा हिꣳसीः"^(२) इति । वृकदर्शनावृत्त्यनुसारेण नमस्कारावृत्त्तिवाक्यानि योजनीयानि । यद्वा सकृद्दर्शनेपि कृत्स्नो मन्त्रः प्रयोक्तव्यः । नमस्कारावृत्त्युक्तिरादरार्था ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके अष्टाविंशोऽनुवाकः ॥ २८ ॥

४ प्रपाठके २९ अनुवाकः । ५४६

अथ एकोनत्रिंशोऽनुवाकः ।

(१)असृ॑ङ्मुखो रु॒धिरे॒णाव्य॑क्तः । य॒मस्य॑ दू॒तः श्वपा॒द्वि- धा॑वसि । गृध्रः॑ सुप॒र्णः कु॒णप॒न्निषे॑वसे । य॒मस्य॑ दू॒तः


अथ एकोनत्रिंशोऽनुवाकः ॥

कल्पः । अथ यदि गृध्रः शालावृको भयेडको दीर्घमुख्युलूको भूतोपसृष्टः शकुनिर्वा वदेत्, “असृङ्मुखः” “यदेतत्” “दोषितः” “दीर्घमुखि” “इत्यादुलूकः” “यदेतद्भूतान्यन्वाविश्य” “प्रसार्य सक्थ्यौ” इत्येतैर्यथालिङ्गमभिमन्त्र्योल्मुकप्रत्यसनादि समानमिति । तत्र गृध्रविषयमनुवाकमाह । “असृङ्मुखो रुधिरेणाव्यक्तः ० प्रहितो भवस्य चोभयोः”(१) इति । ‘गृध्रः’ पक्षिविशेषः । हे गृध्र त्वं ‘विधावसि’ विविधन्धावनङ्करोषि, शवमन्विच्छन् सर्वत्र सञ्चरसि । कीदृशः, ‘असृङ्मुखः’ असृक् रक्तं मुखे यस्यासौ तादृशः, पातुं स्वीकृतेन ‘रुधिरेण,’ मुखस्य सर्वस्य लेपित्वात् ‘अव्यक्तः,’ ईदृग्जातिरिति निश्चेतुमशक्यः, ‘यमस्य,’ ‘दूतः,’ यमो हि मारयितुं गृध्रं प्रेषयति । श्ववत् पद्यते शीघ्रङ्गच्छति इति ‘श्वपात्’ । त्वं रक्तमांसयोर्गन्धेन तृषया युक्तत्वात् ‘गृध्रः,’ शोभनौ पर्णौ शीघ्रपतनक्षमौ यस्यासौ ‘सुपर्णः,’ । तादृशस्त्वं ‘कुणपं’ शवं, ‘निषेवसे’ नितरां सेवसे । सोयं गृध्रः ‘यमस्य’ प्रेताधिपतिदेवस्य, ‘भवस्य’ परमेश्वरस्यान्तर्यामिणः, ‘उभयोः’ एतयोः, ‘दूतः,’ । भवो हि यमं

५५० तैत्तिरीये आरण्यके

प्रहि॑तो भ॒वस्य॑ चो॒भयोः॑॥(१)॥ अनु० २९ ॥

अथ त्रिंशोऽनुवाकः ।

(१)यदे॒तद्वृक॑सो भू॒त्वा। वाग्दे॒व्य॑भि॒राय॑सि। द्विषन्तं॑ मेऽभि॒राय॑। तं मृ॑त्यो मृत्य॒वे न॑य। स आर्त्याऽऽर्ति॒मा- र्च्छतु॑(१)॥ अनु० ३० ॥


प्रेषयति, यमस्य गृहं। अतः साक्षात्परम्परया चोभयोर्दूतः सन् इह ‘प्रहितः’ प्रेषितः ॥*

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके एकोनत्रिंशोऽनुवाकः ॥ २९ ॥


अथ त्रिंशोऽनुवाकः ॥

अथ शालावृकविषयमनुवाकमाह । (१)“यदेतद्वृकसो भूत्वा ० स आर्त्यार्त्तिमार्च्छतु”(१) इति । वृकः क्रोष्टा, हे ‘वाग्देवि’ ध्वनिदेवते, ‘वृकसो भूत्वा’ वृकादुत्पद्य, ‘अभिरायसि’ आभिमुख्येन शब्दं करोषि, इति ‘यत्,’ तत् ‘एतत्,’ ‘मे,’ द्विषन्तं, ‘अभिलक्ष्य’ ‘राय’ शब्दं कुरु । हे ‘मृत्यो’ । वृकरूपं ‘तं’ ‘द्विषन्तं, ‘मृत्यवे’ मारकाय देवाय, ‘नय’ प्रापय । ‘सः’ द्विषन्, ‘आर्त्या’ रोगेण, ‘आर्त्तिं’ दुःखं, ‘आर्च्छतु’ प्राप्नोतु ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके त्रिंशोऽनुवाकः ॥ ३० ॥

४ प्रपाठके ३२ अनुवाकः । ५५१

अथ एकत्रिंशोऽनुवाकः ।

(१)यदी॑षि॒तो यदि॑ वा स्व॒कामी॑ । भ॒येड॑को वद॑ति॒ वाच॑मे॒ताम् । तामिन्द्रा॑ग्नी॒ ब्रह्म॑णा॒ संवि॑दानौ । शि॒वाम॒स्मभ्यं॑ कृणुतं गृ॒हेषु॑(१) ॥ अनु० ३१ ॥

अथ द्वात्रिंशोऽनुवाकः ।

(१)दी॒र्घमु॑खि दुर्ह॑णु । मास्म॑ दक्षि॒णतो॑ वदः । यदि॑


अथ एकत्रिंशोऽनुवाकः ॥

भयेडकविषयमनुवाकमाह । (१)“यदीषितो यदि वा ० कृणुतं गृहेषु”(१) इति । एडको* मेषः, स च युद्धव्यमनयुक्तः ‘भयेडकः,’ तन्दृष्ट्वैव भीत्या मनुष्याः पलायन्ते । स च ‘यदि,’ केनचित् ‘ईषितः’† प्रवर्त्तितः, ‘यदि वा,’ ‘स्वकामी’ स्वेच्छावर्त्ती सन्, ‘एतां’ श्रूयमाणां, ‘वाचं वदति’ ध्वनिं करोति । हे ‘इन्द्राग्नी,’ ‘ब्रह्मणा’ परमेश्वरेण सह, ‘संविदानौ’ ऐकमत्यङ्गतौ, ‘अस्मभ्यं’ अस्मदर्थं, ‘गृहेषु,’ अस्मदीयेषु, ‘तां’ वाचं, ‘शिवां’ सुखकरीं, ‘कृणुतं’ कुरुतं ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके एकत्रिंशोऽनुवाकः ॥ ३१ ॥


अथ द्वात्रिंशोऽनुवाकः ।

दीर्घमुखीविषयमनुवाकमाह । (१)“दीर्घमुखि दुर्हणु ० द्विषन्तं मेऽवबाधस्व”(१) इति । ‘दीर्घमुखी’ काकस्त्री, गर्दभी वा, ‘दुष्टा


* एलक इति D F चिह्नितपुस्तकद्वयपाठः ।
† एषित इति E चिह्नितपुस्तकपाठः ।
६ x

५५२ तैत्तिरीये आरण्यके

दक्षिण॒तो वदा॑द्द्विष॒न्तं मे॒ऽवबा॑धस्व^(१)॥ अनु० ३२॥

अथ त्रयस्त्रिंशोऽनुवाकः ।

^(१)इ॒त्या॑दुलू॑क॒ आप॑पत् । हिर॑ण्या॒क्षो॒ अयो॑मुखः ।
रक्ष॑सान्दू॒त आ॑ग॒तः । तमि॒तो ना॑शयाऽग्ने^(१)॥
अनु० ३३॥

हनूः यस्याः सा दुर्हणूः । हे 'दुर्हणु,' 'दीर्घमुखि,' 'दक्षिणतः' दक्षिणभागे, 'मास्म वदः' ध्वनिम्मा कार्षीः,। 'यदि,' दक्षिणभागे, 'वदात्' शब्दङ्कुर्याः, तदा 'मे,' 'द्विषन्तं,' 'अवबाधस्व' विनाशय ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके द्वात्रिंशोऽनुवाकः ॥ ३२ ॥

अथ त्रयस्त्रिंशोऽनुवाकः ।

उलूकविषयमनुवाकमाह । ^(१)“इत्यादुलूकः ० तमितो नाशयाऽग्ने”^(१)इति । उलूकः, काकविरोधी घूकः, सोयं 'उलूकः,' 'इत्यात्' अनेन प्रकारेण, 'आपपत्' प्राप्नोत् । कीदृशः, हिरण्यवद्रक्ते अक्षिणी यस्यासौ 'हिरण्याक्षः,' अयोवत् कृष्णवर्णमुखं यस्यासौ 'अयोमुखः,' स च यज्ञविघातिनां 'रक्षसां,' 'दूतः,' सन्, इह समागतः । हे 'अग्ने,' 'तं' उलूकं, 'इतः' स्थानात्, 'नाशय' ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके त्रयस्त्रिंशोऽनुवाकः ॥ ३३ ॥