भारतकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

१० प्रपाठके ५३ अनुवाकः । ८७३

अथ द्विपञ्चाशोऽनुवाकः ।

(१)वाङ्मनश्चक्षुःश्रोत्रजिह्वाघ्राणरेतो बुद्ध्याकूतिः स-
ङ्कल्पा मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूया-
सग्ं स्वाहा॑(१) ॥ अनु० ५२ ॥


अथ त्रिपञ्चाशोऽनुवाकः ।

(१)शिरःपाणिपादपार्श्वपृष्ठोरूदरजङ्घशिश्नोपस्थपा-


अथ द्विपञ्चाशोऽनुवाकः ।

द्वितीयं मन्त्रमाह । (१)“वाङ्मनः ० भूयासग्ं स्वाहा”(१) इति । ‘वागादीनीन्द्रियाणि । ‘रेतः’ गुह्येन्द्रियं, मनःशब्दवाच्यस्यान्तःकरणस्यैव निश्चयात्मिकावृत्तिः ‘बुद्धिः’ । अनिश्चयभूता*वृत्तिः ‘आकूतिः’ । इदं समीचीनमिति कल्पनारूपा वृत्तिः ‘सङ्कल्पः’ । अन्यत् पूर्ववत् ॥

इति द्विपञ्चाशोऽनुवाकः ।


अथ त्रिपञ्चाशोऽनुवाकः ।

तृतीयं मन्त्रमाह । (१)“शिरः पाणि ० स्वाहा”(१) इति । पूर्वाभ्यामनुवाकाभ्यां सूक्ष्मशरीरशुद्धिरुक्ता । अत्र स्थूलशरीराव-


* अनिश्चयात्मिकेति F चिह्नितपुस्तकपाठः ।
502

८७४तैत्तिरीये आरण्यके

यवो॑ मे शुध्यन्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यासग्ं॒ स्वाहा॑$^{(१)}$ ॥ अनु० ५३ ॥


अथ चतुःपञ्चाशोऽनुवाकः ।

$^{(१)}$त्वक्च॑र्ममाग्ंसरुधिर॑मेदोमज्जास्नावयोऽस्थी॑नि मे॒ शुध्य॑न्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यासग्ं॒ स्वाहा॑$^{(१)}$ ॥ अनु० ५४ ॥


यवानां शिरःपाण्यादीनां शुद्धिरुच्यते । लिङ्गाण्डभेदविवक्षया ‘शिश्नोपस्थ’शब्दौ द्वौ द्रष्टव्यौ । अन्यत् पूर्ववत् ॥

इति त्रिपञ्चाशोऽनुवाकः ॥


अथ चतुःपञ्चाशोऽनुवाकः ।

चतुर्थं मन्त्रमाह । $^{(१)}$“त्वक्चर्म ॰ भूयासग्ं स्वाहा” $^{(१)}$ इति । अत्र स्थूलशरीरे स्थितानां* धातूनां शुद्धिरुच्यते । एकस्यैव धातो बाह्यान्तर्भागविवक्षया ‘त्वक्चर्म’शब्दौ प्रयुक्तौ । अन्यत् पूर्ववत् ॥

इति चतुःपञ्चाशोऽनुवाकः ॥


* स्थूलशरीरगतानामिति F चिह्नितपुस्तकपाठः ।

१० प्रपाठके ५६ अनुवाकः । ८७५

अथ पञ्चपञ्चाशोऽनुवाकः ।

⁽¹⁾शब्दस्प॑र्शरू॒पर॑सग॒न्धा मे॑ शुध्यन्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ꣳ स्वाहा॑⁽¹⁾॥ अनु० ५५॥


अथ षट्पञ्चाशोऽनुवाकः ।

⁽¹⁾पृथिव्यप्तेजोवायुराकाशा मे॑ शुध्यन्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ꣳ स्वाहा॑⁽¹⁾॥ अनु० ५६॥


अथ पञ्चपञ्चाशोऽनुवाकः ।

पञ्चमं मन्त्रमाह । ⁽¹⁾“शब्दस्पर्श ॰ भूयासꣳ स्वाहा”⁽¹⁾ इति। शरीरोपादानपञ्चमहाभूतेषु आकाशादिषु वर्तमानाः गुणाः 'शब्दादयः। अन्यत् पूर्ववत्॥

इति पञ्चपञ्चाशोऽनुवाकः॥


अथ षट्पञ्चाशोऽनुवाकः ।

षष्ठं मन्त्रमाह । ⁽¹⁾“पृथिव्यप्तेजो ॰ भूयासꣳ स्वाहा”⁽¹⁾ इति। शरीरस्योपादानकारणानि पञ्चमहाभूतानि 'पृथिव्यादीनि। अन्यत् पूर्ववत्॥

इति षट्पञ्चाशोऽनुवाकः॥

८७६ तैत्तिरीये आरण्यके

अथ सप्तपञ्चाशोऽनुवाकः ।

(१)अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुध्यन्तां ज्योतिर॒हं वि॒रजा॑ वि॒पाप्मा भू॑यास॒ꣳ स्वाहा॑(१) ॥ अनु० ५७ ॥


अथ अष्टपञ्चाशोऽनुवाकः ।

(१)विविष्ट्यै* स्वाहा॑(१) ॥ अनु० ५८ ॥


अथ सप्तपञ्चाशोऽनुवाकः ।

सप्तमं मन्त्रमाह । (१)“अन्नमय ० भूयासꣳ स्वाहा”(१) इति । ‘अन्नमयादयः पञ्च कोशा वारुण्यामुपनिषद्युक्ताः । अन्यत् पूर्ववत् ॥

इति सप्तपञ्चाशोऽनुवाकः॥


अथ अष्टपञ्चाशोऽनुवाकः ।

अष्टमं मन्त्रमाह । (१)“विविष्ट्यै स्वाहा”(१) इति । विष्लृ व्याप्तौ इति धातोरुत्पन्नोऽयं शब्दः । विशेषेण विष्टिर्व्याप्तिर्यस्य ब्रह्मणस्तत् ‘विविष्टिः’, छान्दसः षकारस्य टकारः । तादृशं ब्रह्मोद्दिश्य स्वाहुतमिदमस्तु ॥

इति अष्टपञ्चाशोऽनुवाकः ॥


* विविद्यै इति N, O, Q चिह्नितपुस्तकपाठः ।

१० प्रपाठके ६० अनुवाकः । ८७७

अथ'एकोनषष्टितमोऽनुवाकः ।

$^{(१)}$क॒षोत्का॑य॒ स्वाहा॑$^{(१)}$ ॥ अनु० ५९ ॥


अथ षष्टितमोऽनुवाकः ।

$^{(१)}$उत्तिष्ठ पुरुष हरित पिङ्गललोहिताक्षि* देहि


अथ एकोनषष्टितमोऽनुवाकः ।

नवमं मन्त्रमाह । $^{(१)}$“कषोत्काय स्वाहा”$^{(१)}$ इति । कष†- शिंसकरण इति धातुः, कष्यते क्रियते इति ‘कषः’† नामरूपकर्मा- त्मकः कार्यप्रपञ्चः, तस्मिन् ‘उत्कः’ तत्कर्तुमुत्सुकः ‘कषोत्कः’ परमेश्वरः, तादृशाय सृष्ट्यभिमुखाय परमेश्वराय ‘स्वाहा’ स्वाहुतमिदमस्तु ॥

इति एकोनषष्टितमोऽनुवाकः ॥


अथ षष्टितमोऽनुवाकः ।

दशमं मन्त्रमाह । $^{(१)}$“उत्तिष्ठ पुरुष ॰ भूयासग्ँ स्वाहा”$^{(१)}$


* हरितलोहितपिङ्गलाक्षि इति F, Q चिह्नितपुस्तकपाठः ।
† अत्र सर्वकषशब्दस्थाने घषशब्दपाठः F चिह्नितपुस्तकेऽस्ति ।

८७८तैत्तिरीये आरण्यके

देहि॑ ददापयिता मे॑ शुद्ध्यन्तां॒ ज्योति॑र॒हं वि॒रजा॑ विपा॒प्मा भू॑यास॒ꣳ स्वाहा॑^(१) ॥ अनु० ६० ॥


इति । विविशिष्टशब्दाभिधेयं यद्ब्रह्म तदेव कारणोपाधिकं कपोल्कशब्दाभिधेयं । पुनरपि वह्निशरीरोपाधिविशिष्टमत्र पुरुषशब्दाभिधेयं । तत्र पूर्वाभ्यां मन्त्राभ्यां निरुपाधिकं कारणोपाधिकं तद्ब्रह्मप्राप्त्यर्थं शुद्धेद्धेतुत्वेनच सर्वकर्मनिष्पादकवह्निशरीरोपाधिकं प्रार्थ्यते । 'पुरुष'पुरि वह्निशरीरे शयान हे परमात्मन्, 'उत्तिष्ठ' औदासीन्यं परित्यज मदनुग्रहार्थमुद्युक्तो भव । सम्बुध्यन्तपुरुषशब्दस्येव हर्यादीनि त्रीणि पदानि विशेषणानि । हे 'हरित' प्रतिबन्धकहरणकुशल । हे 'लोहित' रक्तवर्ण । हे 'पिङ्गलाक्ष' पिङ्गलनयन । 'देहि देहि' पुनः पुनः शुद्धिं मे प्रयच्छ । 'ददापयिता' आचार्यमुखात् तत्त्वज्ञानस्य अतिशयेन दापयिता, भवेति शेषः । तस्य दापयितस्य* ज्ञानस्योत्पत्तये 'मे' मदीयाः चित्तवृत्तयः, 'शुध्यन्तां' । ज्योतिरित्यादि पूर्ववत् ॥

इति षष्टितमोऽनुवाकः ॥


* दापितव्यस्येति ५ चिह्नितपुस्तकपाठः

१० प्रपाठके ६२ अनुवाकः। ८७६

अथ एकषष्टितमोऽनुवाकः ।

(१) ॐ स्वाहे॑ति^{(१)}॥ अनु० ६१ ॥


अथ द्विषष्टितमोऽनुवाकः ।

^{(१)}स॒त्यं परं॑ पर॒ꣳ स॒त्यꣳ स॒त्येन॒ न सु॑व॒र्गाल्लो॒काच्च्य॑वन्ते क॒दाच॒न स॒ताꣳ हि स॒त्यं तस्मा॑त् स॒त्ये र॑म-


अथ एकषष्टितमोऽनुवाकः ।

एकादशं मन्त्रमाह । ^{(१)}“ॐ स्वाहेति”^{(१)} इति । ‘ॐ’ प्रणवप्रतिपाद्यं वस्तु भवामि, तदर्थमिदं स्वाहुतमस्तु ॥

इति एकषष्टितमोऽनुवाकः ।

अथ द्विषष्टितमोऽनुवाकः ।

ज्ञानप्रतिबन्धकमहापातकोपपातकपरिहारेण ज्ञानयोग्यता- लक्षणां शुद्धिमुक्त्वा योग्यस्य पुरुषस्यापेक्षितेषु ज्ञानसाधनेषु सन्न्यासस्य निरतिशयोत्कर्षं वक्तुं सत्यादीन्येकादशोत्कृष्टसाधनानि प्रतियोगित्वेन वक्तव्यानि । तत्र प्रथमं साधनमुपन्यस्यति । ^{(१)}“सत्यं परं ० सत्ये रमन्ते”^{(१)} इति । यद्वस्तु प्रमाणेन यथा- दृष्टन्तस्य तथैवाभिवदनं ‘सत्यं’, तच्च ‘परं’ पुरुषार्थसाधनेषु

5 P

८८० तैत्तिरीये आरण्यके

न्ते^(१) । ^(२)तप॒ इति॒ तपो॒ नानश॑ना॒त् परं॒ यद्धि परं॒ तप॒स्तद्दुध॑र्षं॒ तदु॑राध॒र्षं तस्मा॒त् तप॑सि रमन्ते^(२)

उत्कृष्टं । तत्रादरार्थं परं सत्यमिति पुनर्वचनं । यद्वा 'परं' ब्रह्म, 'सत्यं' अबाध्यं, तद्वद् यथार्थवचनमपि बाधरहितमिति व्यावहारिकबाधराहित्येनोत्कर्षं विवक्षित्वा दृष्टान्तेन परं सत्य- मित्युक्तं । 'सत्येन' यावज्जीवं यथार्थकथनेन, 'स्वर्गलोकात् 'कदाचिदपि 'न', 'प्रच्यवन्ते' । अनृतवादिनस्तु केनचित् पुण्येन स्वर्गं प्राप्याप्यनृतवदनदोषेण कर्मफलं सम्पूर्णतयाऽनुभूयैव स्वर्गात् प्रच्यवन्ते । किञ्च । 'हि' यस्मात् कारणात्, 'सतां' सन्मार्गवर्त्तिनां ऋष्यादीनां, सम्बन्धि यथार्थवादित्वं 'तस्मात्' कारणात्, सता- मिदमिति व्युत्पत्तिमाश्रित्य सत्यवादित्वमेव परमं मोक्षसाध- नमिति केचिन्महान्तो वदन्तः तस्मिन्नेव 'सत्ये', 'रमन्ते' क्रीडन्ति ॥

एकं मतमुक्ता द्वितीयं मतमाह । ^(२)"तप इति ० तपसि रमन्ते'^(२) इति । तपः परं मोक्षसाधनमिति केषाञ्चिन्मतं । तीर्थयात्राजपहोमादीनि यद्यपि बहूनि तपांसि सन्ति तथापि तेषु सर्वेष्वनशनमुपवासैकभक्तादिरूपादशनवर्जनात् 'परं' उत्कृष्टं, 'तपः', 'न', अस्ति । 'यत् हि' अनशनरूपं कृच्छ्रचान्द्रायणादिकं, 'परं', 'तपः', अस्ति । 'तत् दुर्धर्षं' धर्षितुं सोढुमशक्यं । अत एव 'आ'समन्तात् सर्वेषां प्राणिनां 'तत्' तपः, 'दुर्धर्षं'* दुःशकमित्यनु-


* तस्य तपसो दुर्धर्षमिति F चिह्नितपुस्तकपाठः ।

१० प्रपाठके ६२ अनुवाकः। ८८१

(३) दम॒ इति॑ निय॒तं ब्र॑ह्मचारि॒णस्तस्मा॒द्दमे॑ रमन्ते(३)
(४) शम॒ इत्यर॑ण्ये मुन॒यस्तस्मा॒च्छमे॑ रमन्ते(४) (५) दान-
मिति॒ सर्वा॑णि भू॒तानि॑ प्र॒शꣳ॑सन्ति दाना॒न्नाति॑दु-
ष्कर॑* तस्मा॑द्दा॒ने र॑मन्ते(५) (६) धर्म॒ इति॒ धर्मे॑ण॒ सर्व॑मि॒दं


भूयते । 'तस्मात्' कारणात्, केचन श्रद्धालवः कृच्छ्रचान्द्रायणा-
दिके 'तपसि', 'रमन्ते' ॥

तृतीयं मतमाह । (३)“दम इति ० तस्माद्दमे रमन्ते”(३)
इति । वाक्चक्षुरादीन्द्रियाणां बाह्यानां निषिद्धेभ्यो विषयेभ्यो
निवृत्तिः 'दमः', स एवोत्तमो मोक्षहेतुः 'इति', मन्यमाना नैष्ठिक-
'ब्रह्मचारिणः', 'नियतं' सर्वदा वदन्ति, 'तस्मात् दमे रमन्ते' ॥

चतुर्थं मतमाह । (४)“शम इत्यरण्ये ० तस्माच्छमे रमन्ते”(४)
इति । अन्तःकरणस्य क्रोधादिदोषराहित्यं 'शमः', स एवोत्तमो
मोक्षहेतुः 'इति', 'अरण्ये', वर्तमानाः 'मुनयः' वानप्रस्थाः,
मन्यन्ते । 'तस्मात्', ते 'शमे रमन्ते' ॥

पञ्चमं मतमाह । (५)“दानमिति सर्वाणि ० तस्माद्दाने
रमन्ते”(५) इति । गोभूहिरण्यादीनां स्वकीयानां शास्त्रोक्त-
वर्त्मना स्वत्वपरित्यागपुरःसरं परस्वत्वोत्पादनं 'दानं', तदेवोत्तमं
मोक्षसाधनं मन्वा सर्वे प्राणिनः 'प्रशंसन्ति' । 'दानात्', अतिशयितं
'दुष्करं', 'न', अस्ति । धनरक्षणार्थं प्राणानपि परित्यजतां पुरु-
षाणामुपलम्भात् । 'तस्मात्', गोभूम्यादि'दाने', 'रमन्ते' ॥


* दुष्करमिति J, N, O, चिह्नितपुस्तकपाठः ।
5 p 2

८८२ तैत्तिरीये आरण्यके

परि॑गृहीतं॒ धर्मे॑न्नातिदुश्च॒रं* तस्मा॑द्ध॒र्मे र॑मन्ते$^{(६)}$ $^{(७)}$प्र॒जन॒ इति॒ भूया॑ꣳस॒स्तस्मा॒द् भूयि॑ष्ठाः प्र॒जाय॑न्ते॒ तस्मा॒द् भूयि॑ष्ठाः प्र॒जन॑ने रमन्ते$^{(७)}$ $^{(८)}$अ॒ग्नय॒ इत्या॑ह॒ तस्मा॒द्-


षष्ठं मतमाह । $^{(६)}$“धर्म इति ॰ तस्माद्धर्मे रमन्ते”$^{(६)}$ इति । स्मृतिपुराणप्रतिपाद्यो वापीकूपतडागादिनिर्माणरूपोऽत्र ‘धर्मः’, विवक्षितः, स एवोत्तमो मोक्षहेतुः ‘इति’, राजामात्यादयः प्रभवो ‘मन्यन्ते । तडागादिरूपेण ‘धर्मेण’, ‘सर्वं’, ‘इदं’ जगत्, ‘परिगृहीतं’, सर्वेऽपि मनुष्यपश्वादयः स्नानपानादिना तुष्यन्ति । तादृशात् ‘धर्मात्’, अन्यत् ‘अतिदुश्चरं’, ‘न’, अस्ति । ‘तस्मात्’ कारणात्, ‘धर्मे रमन्ते’, प्रभवः ॥

सप्तमं मतमाह । $^{(७)}$“प्रजन इति ॰ प्रजनने रमन्ते”$^{(७)}$ इति । ‘प्रजनः’ पुत्रोत्पादनं, तस्यैवोत्तमसाधनत्वं ‘भूयांसः’ अतिबहवः प्राणिनः, मन्यन्ते । धनिकैर्दरिद्रैः शिष्टैरशिष्टैः पण्डितैश्च सर्वैरपि पुत्रोत्पादनायातिशयेन प्रयतमानत्वात्$^\dagger$ ‘तस्मात्’, एकैकस्य पुरुषस्य ‘भूयिष्ठाः’ भूरिशः, द्वित्राः पञ्चषा इत्येवं बहवोऽपत्यविशेषा उत्पद्यन्ते । ‘तस्मात्’ कारणात्, ‘भूयिष्ठाः’ अतिबहवः$^\ddagger$ प्राणिनः, प्रजोत्पादने ‘रमन्ते’ ॥

अष्टमं मतमाह । $^{(८)}$“अग्नयः ॰ आधातव्याः”$^{(८)}$ इति ।


* दुष्करमिति J, N, O, चिह्नितपुस्तकपाठः ।
$\dagger$ प्रयतमानत्वादिति F चिह्नितपुस्तकपाठः ।
$\ddagger$ अतिबहुला इति F चिह्नितपुस्तकपाठः ।

१० प्रपाठके ६२ अनुवाकः। ८८३

ग्नय॒ आधा॑तव्याः॑⁽८⁾ (९)अ॒ग्निहो॒त्रमित्या॑हु॒ स्तस्मा॑दग्नि- हो॒त्रे र॑मन्ते⁽९⁾ (१०)य॒ज्ञ इति॑ य॒ज्ञेन॒ हि दे॒वा दिवं॑ ग॒ता- स्तस्मा॑द्य॒ज्ञे र॑मन्ते*(१०) (११)मान॒समिति॑ विद्वाꣳ॑स॒स्तस्मा॑- द्विद्वाꣳ॑स ए॒व मान॑से रमन्ते⁽११⁾ (१२)न्यास इति॑ ब्र॒ह्मा

'अग्नयः' गार्हपत्यादयः, उत्तमा मुक्तिहेतवः 'इति', कश्चिद्वेदा- र्थपरः 'आह' । 'तस्मात्', गृहस्थैरग्नयः 'आधातव्याः', भवन्ति ॥

नवमं मतमाह । ⁽९⁾“अग्निहोत्रं ० रमन्ते”⁽९⁾ इति ! आहितेष्वग्निषु सायंम्प्रातश्चानुष्ठेयो होमः 'अग्निहोत्रं', तदुत्तमं मोक्षसाधनं 'इति', अपरः कश्चिद्वेदार्थपरः 'आह' । 'तस्मात्', केचित् 'अग्निहोत्रे रमन्ते' ।

दशमं मतमाह । ⁽१०⁾“यज्ञ इति ० तस्माद्यज्ञे रमन्ते”⁽१०⁾ । दर्शपूर्णमासज्योतिष्टोमादिकः 'यज्ञः', उत्तमो हेतुः 'इति', अपरे वेदार्थपरा मन्यन्ते । यस्मादिदानीं वर्त्तमानाः 'देवाः', पूर्वानुष्ठितेन 'यज्ञेन', 'दिवङ्गताः' स्वर्गलोकं प्राप्ताः, 'तस्मात्' कारणात्, केचन वैदिका विद्वांसः 'यज्ञे रमन्ते' ॥

एकादशं मतमाह । ⁽११⁾“मानसमिति ० मानसे रमन्ते”⁽११⁾ इति। मनसैव निष्पाद्यमुपासनं 'मानसं', तदेवोत्तमं साधनं 'इति', 'विद्वां- सः' सगुणब्रह्मविदः, मन्यन्ते । 'तस्मात्' कारणात्, केचन 'विद्वांसः' वेदगर्भोपास्तिभागतात्पर्य्यविदः, 'मानस एव', उपासने 'रमन्ते'॥

द्वादशं मतमाह । ⁽१२⁾“न्यास इति ० एवात्यरेचयत”⁽१२⁾


* यज्ञ इति यज्ञाद्धि देवास्तस्माद्यज्ञे रमन्ते इति J, N, O, चिङ्कितपुस्तकपाठः ।

८८४तैत्तिरीये आरण्यके

ब्र॒ह्मा हि परः॑ । परो॒ हि ब्र॒ह्मा तानि॒ वा ए॒तान्यव॑राणि तपाँ॑सि* न्यास ए॒वात्य॑रेचयत्^(१२) (१२)य ए॒वं वेदे॑त्युप॒निष॑त्^(१३) ॥ अनु० ६२ ॥

इति । पूर्वकाण्डोक्तानामग्निहोत्रादिकर्मणामारुणिजाबालाद्युपनिषदुक्तप्रकारेण परित्यागः 'न्यासः', स एवोत्तमो मोक्षहेतुः 'इति', 'ब्रह्मा' हिरण्यगर्भः, मन्यते । स च 'ब्रह्मा', 'परो हि' परमात्मरूपो हि, नतु पूर्वोक्तमतानुसारिण इव जीवः । यद्यप्यसौ हिरण्यगर्भो देहधारी तथापि 'परो हि' परमात्मैव, ब्रह्मा हिरण्यगर्भ इति वक्तुं शक्यते तच्छिष्यत्वेन तत्समानज्ञानत्वात् । अत एव श्वेताश्वतरा आमनन्ति । “यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै” इति । यानि पूर्वोक्तसत्यादीनि मानसान्तानि 'तान्येतानि' 'तपांसि', भवन्त्येव तथापि सन्न्यासमपेक्ष्य 'अवराणि' निकृष्टानि, सन्न्यासः, एकः 'एव', तानि सर्वाणि 'अत्यरेचयत्' अतिक्रान्तवान् । उत्तमत्व†तारतम्यन्तत्र विश्रान्तमित्यर्थः ॥

उक्तमुत्तमसाधनमुपसंहरति । (१३)“य एवं वेदेत्युपनिषत्”(१३) इति ०'यः' पुमान्, 'एवं' उक्तप्रकारेण, सन्न्यासस्यान्येभ्यः सर्वेभ्यः साधनेभ्यः उत्तमत्वं 'वेद', तस्य विदुषः 'इति' उक्ता विद्या, 'उपनिषत्' रहस्यभूता, भवति ॥

इति द्विषष्टितमोऽनुवाकः ।


* पराँ॑सि इति J, N, O चिह्नितपुस्तकपाठः ।
† उत्तमत्वे इति F चिह्नितपुस्तकपाठः ।

१० प्रपाठके ६३ अनुवाकः । ८८५

अथ त्रिषष्टितमोऽनुवाकः ।

(१)प्रा॒जा॒प॒त्यो हारु॑णिः सुप॒र्णेयः॑ प्र॒जाप॑तिं पि॒तर॒मुप॑ससार॒ किं भ॑गवन्तः पर॒मं व॑दन्तीति॒ तस्मै॒ प्रो- वाच(१) (२)स॒त्येन॑ वा॒युरावा॑ति स॒त्येना॑दि॒त्यो रो॑चते दि॒वि स॒त्यं वाचः॑ प्र॑ति॒ष्ठा स॒त्ये सर्वं॒ प्रति॑ष्ठितं॒ तस्मा॑त्

अथ त्रिषष्टितमोऽनुवाकः ।

पूर्वोक्तं मोक्षसाधनसमूहमपपादयितुमाख्यायिकामाह। (१)“प्रा- जापत्यो ह • तस्मै प्रोवाच”(१) इति। प्रजापतेः पुत्रः ‘प्राजाप- त्यः’, स च ‘आरुणि’नामकः, स एव सुपर्णाख्यायाः स्त्रियोऽपत्य- त्वात् ‘सुपर्णेयः,’ इत्युच्यते, । तादृशः पुरुषः स्वकीयं ‘पितरं प्रजा- पतिं’, ‘उपससार’ उत्तमसाधनजिज्ञासयोपसन्नवान्, उपसद्य च एवं पप्रच्छ । हे प्रजापते ‘भगवन्तः’ पूज्या महर्षयः, मोक्षसाधनेषु ‘किं’ साधनं, ‘परमं’ उत्कृष्टं, ‘वदन्ति’। एवं पृष्टः प्रजापतिः ‘तस्मै’ आरुणये, ‘प्रोवाच’ ॥

तदुक्तेषु साधनेषु प्रथमं दर्शयति । (२)“सत्येन वायुरावाति परमं वदन्ति”(२) इति । योऽयं ‘वायुः’, इदानीं अन्तरिक्षे ‘वाति’, सोऽयं पूर्वजन्मनि मनुष्यः सन् सत्यवादित्वं परिपाल्य तेन ‘सत्येन’, वायुदेवतात्वं प्राप्येदानों लोकानुग्रहायान्तरिक्षे वाति । तथैव ‘आदित्यः’, अपि पूर्वजन्मानुष्ठितेन ‘सत्येन’, ‘दिवि रोचते’ द्युलोके प्रकाशते । यदेतत् ‘सत्यं’, तदेतत् ‘वाचः’ वागिन्द्रियस्य, ‘प्रतिष्ठा’ स्थिरावस्थानं । अनृतन्तु वाचंक्त-

८८६ तैत्तिरीये आरण्यके

स॒त्यं पर॑मं वद॒न्ति⁽९⁾ ⁽९⁾तप॑सा दे॒वा दे॒वता॒मग्र॒ आ-
य॒न्तप॒सर्ष॑यः सुव॒रन्व॑विन्द॒न् तप॑सा स॒पत्नान्॒ प्रणु॑-
दामारा॑ती॒स्तप॑सि सर्वं॒ प्रति॑ष्ठितं॒ तस्मा॒त्तप॑: पर॒मं व-


मपि परैर्निराक्रियत इति न वाचः प्रतिष्ठा । तथासति लोके सत्ये भाषमाणे 'सर्वं' प्रामाणिकव्यवहारजातं, 'प्रतिष्ठितं', 'तस्मात्' कारणात्, 'सत्यं', एव 'परमसाधनमित्येवं केचिदनुष्ठातारः 'वदन्ति' ॥

तच्चारुणेमुखविकासरहित्यलक्षणमपरितोषं दृष्ट्वा द्वितीयं साधनमाह । ⁽९⁾"तपसा देवाः ० तस्मात् तपः परमं वन्दन्ति"⁽९⁾ इति। इदानीं स्वर्गे वर्तमाना अग्नीन्द्रादयः 'देवाः', 'अग्रे' पूर्वजन्मनि, अनुष्ठितेनानशनपरित्यागरूपेण कृच्छ्रचान्द्रायणादितपसा 'देवतां', 'आयन्' इदानीन्तनं देवतत्वं प्राप्ताः। तथा वसिष्ठादयो महर्षयः', पूर्वानुष्ठितेन 'तपसा', 'सुवरन्वविन्दन्' स्वर्गलोकमनुक्रमेण लब्धवन्तः। तथा वयमपीदानीमभिचाररूपेण तपसा 'सपत्नन्' शत्रून्, 'अरातीः 'अस्मदीयद्रव्यलाभविरोधिनः पुरुषानपि, 'प्रणुदाम' निराकुर्मः। अन्यदपि सर्वं फलजातं 'तपसि', 'प्रतिष्ठितं'। 'तस्मात्', अनशनरूपं 'तपः', 'परमं', मोक्षसाधनमिति* केचिद्वदन्ति ॥


* तस्मिंस्तपसि सर्वमपेक्षितं फलं प्रतिष्ठितं तस्मात् कारणात् तपः परमं मुक्तिसाधनमिति Q चिह्नितपुस्तकपाठः ।

१० प्रपाठके ६३ अनुवाकः । ९८७

द॑न्ति^(३) । ⁽⁴⁾दमे॑न दान्ताः कि॒ल्बिष॑मवधुन्वन्ति॒ दमे॑न ब्रह्मचारि॑णः सुव॑रगच्छ॒न्दमो॑ भू॒तानां॑ दु॒राधर्षं॑ दमे॑ स॒र्वं प्रति॑ष्ठितं॒ तस्मा॒द्दमं॑ पर॒मं वद॑न्ति^(४) । ⁽५⁾शमे॑न शान्ताः शिव॒माच॑रन्ति॒ शमे॑न नाकं॑ मुनयोऽन्व॑विन्द॒ञ्छमो॑ भू॒तानां॑ दु॒राधर्षं॑ शमे॑ स॒र्वं प्रति॑ष्ठितं॒ तस्मा॒च्छमं॑ पर॒मं वद॑न्ति^(५) । ⁽६⁾दानं य॒ज्ञानां॑


अत्रापि पूर्ववदपरितोषं दृष्ट्वा* तृतीयं साधनमाह । ⁽⁴⁾“दमेन दान्ताः ० परमं वदन्ति”⁽⁴⁾ इति । ‘दान्ताः’ बाह्येन्द्रियनियमयुक्ताः पुरुषाः, तेन ‘दमेन’, स्वकीयं पापं विनाशयन्ति । तथा नैष्ठिक‘ब्रह्मचारिणः’, दमेन स्वर्गं ‘अगच्छन्’ । स च ‘दमः’, ‘भूतानां’ प्राणिनां, ‘दुराधर्षं’ आधर्षितुं सर्वतः सोढुं दुःशकः, तस्मिंश्च ‘दमे’, ‘सर्वं’ अपेक्षितं फलम्, ‘प्रतिष्ठितं’ । ‘तस्मात्’ कारणात्, ‘दमः’, ‘परमं’ मुक्तिसाधनं, इति केचित् ‘वदन्ति’ । अत्र सर्वत्र पूर्वसाधने परितोषराहित्यादुत्तरसाधनोक्तिर्द्रष्टव्या ॥

चतुर्थं साधनमाह । ⁽५⁾“शमेन शान्ताः ० शमः परमं वदन्ति”⁽५⁾ इति । ‘शान्ताः’ अन्तःकरणक्रोधादिरहिताः पुरुषाः, तेन ‘शमेन’, ‘शिवं’ मङ्गलं पुरुषार्थं, ‘आचरन्ति’ । नारदाद्याः ‘मुनयः’, ‘शमेन’, स्वर्गमलभन्त । अन्यत् पूर्ववत् ॥


* तत्रापि परितोषराहित्यात् इति ५ चिह्नितपुस्तकपाठः ।
5 Q

८८८ तैत्तिरीये आरण्यके

वरूथं॒ दक्षि॑णा लो॒के दा॒तार॑ꣳ सर्वभू॒तान्यु॑पजी॒व-
न्ति॒ दाने॑नाराती॒रपा॑नुदन्त॒ दाने॑न द्विष॒न्तो मि॒त्रा
भ॑वन्ति॒ दाने॒ सर्वं॒ प्रति॑ष्ठितं॒ तस्मा᳭द्दानं पर॒मं व-
द॑न्ति॥(६)॥ ^{(७)}धर्मो विश्व॑स्य॒ जग॑तः प्रति॒ष्ठा लो॒के धर्मि॑ष्ठं
प्र॒जा उप॑सर्पन्ति॒ धर्मे॑ण पा॒पम॑प॒नुद॑न्ति॒ धर्मे॒ सर्वं॒
प्रति॑ष्ठितं॒ तस्मा᳭द्धर्मं पर॒मं वद॑न्ति॥(७)॥ ^{(८)}प्र॒जन॑नं॒ वै


पञ्चमं साधनमाह। ^{(६)}“दानं यज्ञानां ० परमं वद-
न्ति”^{(६)} इति। गोहिरण्यादि‘दानं’, ‘यज्ञानां’, सम्बन्धिनो
‘दक्षिणा’, भवति। तस्मात् ‘वरूथं’ श्रेष्ठं, ‘लोके’, अपि ‘दातारं’
पुरुषं, वेदशास्त्रविदो मूढाश्च सर्वेऽपि पुरुषाः ‘उपजीवन्ति’।
तथा योद्धॄणां भटानां धनदानेन ‘अरातीः’ शत्रून्, ‘अपानुदन्त’
राजानो निराकृतवन्तः। ये तु प्रबलाः ‘द्विषन्तः’, तेऽपि ‘दानेन’,
तुष्टाः ‘मित्राः’, ‘भवन्ति’। अन्यत् पूर्ववत्॥

षष्ठं साधनमाह। ^{(७)}‘धर्मो विश्वस्य जगतः ० धर्मं परमं
वदन्ति’^{(७)} इति। तडागप्रपादिनिर्माणरूपः ‘धर्मः’, ‘विश्वस्य
जगतः’ सर्वस्य प्राणिजातस्य, ‘प्रतिष्ठा’ आश्रयः, इत्येतत्प्रसिद्धं।
तथा ‘लोके’, ‘धर्मिष्ठं’ अतिशयेन धर्मे वर्तमानं पुरुषं, ‘प्रजाः’,
सर्वाः, ‘उपसर्पन्ति’ धर्माधर्मनिर्णयार्थमुपगच्छन्ति। किञ्च
प्रायश्चित्तरूपेण ‘धर्मेण’, ‘पापं’, विनाशयन्ति। अन्यत् पूर्ववत्॥

सप्तमं साधनमाह। ^{(८)}“प्रजननं वै प्रतिष्ठा ० परमं प्रजननं

१० प्रपाठके ६३ अनुवाकः। ८८६

प्रति॑ष्ठा लो॒के साधु प्र॒जाया॑स्तन्तुन्तन्वा॒नः पि॑तृ॒णाम॑नृ॒णो भ॑वति॒ तदै॑व त॒स्य अनृ॑णं॒ तस्मा॑त् प्र॒जन॑नं प॒रं वद॑न्ति^(८) । ^(९)अ॒ग्नयो॒ वै त्रयी॑वि॒द्या दे॑व॒यानः॒ पन्था॑ गार्हप॒त्य ऋक् पृ॑थि॒वी र॑थन्त॒रम॑न्वाहार्यपच॒नो* यजु॑र॒न्तरि॑क्षं वामदे॒व्यमा॑हवनी॒यः साम॑ सुव॒र्गो


वदन्ति"^(८) इति । 'प्रजननं' पुत्रोत्पादनं, यदस्ति, तदेव गृहस्थानां 'प्रतिष्ठा', पुत्रस्य गृहकृत्यनिर्वाहकत्वात् । सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणेति श्रुतेः । किञ्च । 'प्रजायाः' पुत्रपौत्रादिरूपायाः, 'तन्तुं' परम्परां, 'साधु तन्वानः' शास्त्रीयमार्गे यथा भवति तथा विस्तारयन्, 'पितॄणां' मृतानां पितृपितामहादीनां, 'अनृणो भवति' तदीयम्ऋणं पुत्रिणा प्रत्यर्पितं भवति । यत् 'प्रजननं', 'तदेव', 'तस्य' पुत्रिणः, ऋणापाकरणहेतुः । अन्यत् पूर्ववत् ॥

अष्टमं साधनमाह । ^(९)"अग्नयो वै त्रयी ० अग्नीन् परं वदन्ति"^(९) इति । गार्हपत्यो दक्षिणाग्निराहवनीय इति ये 'अग्नयः', सन्ति, त एव 'त्रयीविद्या' वेदत्रयात्मकाः, वेदत्रयोक्तकर्मसाधनत्वात्^(†) वेदविहितत्वाच्च 'देवयानः' यागद्वारेण देवत्वप्रापकः, मार्गश्च । किं च । तेषामग्नीनां मध्ये 'गार्हपत्यः' अग्निः, 'ऋग्वेदात्मकः, 'पृथिवी'लोकस्वरूपः, 'रथन्तर'सामात्म-


* अन्वाहार्यपचनमिति B, N, Q, चिह्नितपुस्तकपाठः † धर्मसाधनत्वात् इति Q चिह्नितपुस्तकपाठः । 5 a 2

नवमं साधनमाह । ^{(१०)}“अग्निहोत्रꣳ ॰ परमं वदन्ति”^{(१०)}

८६० तैत्तिरीये आरण्यके

लो॒को बृ॒हत्तस्मा॑द्धो॒मं प॑र॒मं वद॑न्ति॑^{(९)} । ^{(१०)}अ॒ग्नि॒हो॒त्रꣳ सा॒यं प्रा॒तर्गृ॒हाणां॒ निष्कृ॑तिः॒ स्विष्टꣳ॑ सुहु॒तं य॒ज्ञक्र॑तूनां॒ प्राय॑णꣳ सुव॒र्गस्य॑ लो॒कस्य॒ ज्योति॒स्तस्मा॑दग्निहो॒त्रं प॑र॒मं वद॑न्ति॑^{(१०)} । ^{(११)}य॒ज्ञ इति॑* य॒ज्ञेन॑

कश्चेति प्रशस्यते । 'अन्वाहार्यपचनः' दक्षिणाग्निः, 'यजुर्वेदान्तरिक्ष'लोक'वामदेव्य'सामात्मकः । 'आहवनीयाग्निस्तु 'सामवेद'- 'स्वर्गलोकबृहत्'-सामात्मकः । अन्यत् पूर्ववत् ॥

नवमं साधनमाह । ^{(१०)}“अग्निहोत्रꣳ ॰ परमं वदन्ति”^{(१०)} इति । ‘सायम्प्रातः’, च अनुष्ठितं ‘अग्निहोत्रं’, ‘गृहाणां’, ‘निष्कृतिः’ क्रयसाधनं मूल्यं, अग्निहोत्राभावे क्षुधितोऽग्निर्गृहान् दहेत् । किञ्च, अग्निहोत्रं, ‘स्विष्टं’ शोभनयागरूपं, ‘सुहुतं’ शोभनहोमरूपं । देवतामुद्दिश्य द्रव्यत्यागो यागः । तस्य द्रव्यस्याग्नौ प्रक्षेपः होमः । किं च, एतत्, ‘यज्ञक्रतूनां’, ‘प्रायणं’ प्रारम्भः । अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासावाग्रयणं चातुर्मास्य- निरूढपशुबन्धः सौत्रामणीति सप्त हविर्यज्ञाः । क्रतुशब्दो यूप- वत्सु सोमयागेषु रूढः । अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः† षोडशी वाजपेयोऽतिरात्रोऽप्तोर्यामश्चेति सप्त सोमसंस्थाः क्रतवः । तेषां सर्वेषां यज्ञक्रतूनां प्रारम्भकं ‘अग्निहोत्रं’ । अत एव* स्वर्गस्य ‘लोकस्य’, ‘ज्योतिः’ प्रकाशकं । अन्यत् पूर्ववत् ॥

दशमं साधनमाह । ^{(११)}“यज्ञ इति यज्ञेन ॰ परमं वद-


* यज्ञो हि देवानामिति F, चिह्नितपुस्तकेऽधिकः पाठः ।
† उक्थ इति F, चिह्नितपुस्तकपाठः ।

१० प्रपाठके ६३ अनुवाकः। ८९१

हि दे॒वा दि॒वङ्ग॑ता य॒ज्ञेनासु॑रा॒नपानु॑दन्त य॒ज्ञेन॑ द्वि॒षन्तो॑ मि॒त्रा भ॑वन्ति य॒ज्ञे सर्वं॒ प्रति॑ष्ठितं॒ तस्माद्य॒ज्ञं पर॑मं वद॑न्ति^{(११)}। ^{(१२)}मान॒सं वै प्रा॑जाप॒त्यं प॒वित्रं॑ मान॒सेन॒ मन॑सा सा॒धु प॑श्यति मान॒सा ऋष॑यः प्र॒जाअ॑सृजन्त मान॒से सर्वं॒ प्रति॑ष्ठितं॒ तस्मान्मान॒सं पर॑मं वद॑न्ति^{(१२)}।


न्ति"^{(११)} इति । 'यज्ञः', उत्तमं साधनं, 'इति', केचिदाहुः । 'यज्ञः', 'हि', 'देवानां', प्रियः । ते 'हि देवाः', पूर्वानुष्ठितेन 'यज्ञेन, स्वर्गं प्राप्ताः । किं च । 'यज्ञेन', एव तदा तदा 'देवाः', 'असुरान्', विनाशितवन्तः । किं च । सर्वकामप्राप्तिसाधनेन ज्योतिष्टोमेन द्वेषशान्तिकामस्य पूर्वं द्वेषं कुर्वन्तोऽपि शत्रवः 'मित्रा भवन्ति' । अन्यत् पूर्ववत् ॥

• एकादशं साधनमाह । (१२)"मानसं वै ० परमं वदन्ति"^{(१२)} इति । मनसा निष्पाद्यं 'मानसं' उपासनं, यदस्ति, तदेव 'प्राजापत्यं' प्रजापतिपदप्राप्तिसाधनं, अत एव 'पवित्रं' चित्तशुद्धिकारणं, 'मानसेन' उपासनेन, युक्तं 'मनः' अन्तःकरणं, यदस्ति, तेन एकाग्रेण 'मनसा', 'साधु पश्यति' अतीतानागतव्यवहितादिवस्तुजातं योगी सम्यक् साक्षात् करोति। एतच्च योगशास्त्रे पतञ्जलिना बहुधा प्रपञ्चितं । 'मानसाः' एकाग्रमनोयुक्ता विश्वामित्रादयः 'ऋषयः', स्वसङ्कल्पमात्रेण बह्वीः 'प्रजाः', 'असृजन्त' । अन्यत् पूर्ववत् ॥

द्वादशं साधनमाह । (१३)“न्यास इत्याहुर्मनीषिणो ब्रह्मा-

८६२ तैत्तिरीये आरण्यके

(१३)न्यास॒ इत्या॑हुर्मनी॒षिणो॒ ब्रह्मा॑णं(१३)। (१४)ब्रह्मा॒ विश्व॑: कत॒मः स्व॑य॒म्भुः प्र॒जाप॑तिः संवत्स॒र इति॑(१४)। (१५)संव॑त्स॒रोऽसा॑वादि॒त्यो य ए॒ष आ॑दि॒त्ये पुरु॑षः॒ स प॑रमे॒ष्ठी

द्वादशं साधनमाह । (१३)“न्यास इत्याहुर्मनीषिणो ब्रह्मा- णं”(१३) इति । ‘न्यासः’,* इत्युक्तो यो मोक्षहेतुः, तं, ‘ब्रह्माणं’ हिरण्यगर्भरूपं, ‘मनीषिणः’ बुद्धिमन्तो महर्षयः स्तुतिकर्तारः, ‘आहुः’ । तथा, “संन्यासाद्ब्रह्मणः स्थानं” इति स्मर्यते । हि- रण्यगर्भप्राप्तेरन्तरङ्गसाधनत्वात्तद्रूपत्वं ॥

तमेव संन्यासं स्तोतुन्तत्प्राप्यस्य हिरण्यगर्भस्य स्वरूपं प्रपञ्चयति । (१४)“ब्रह्मा विश्वः ० संवत्सर इति”(१४) इति । यः ‘ब्रह्मा’ हिरण्यगर्भः, सोऽयं ‘विश्वः’ सर्वजगदात्मकः । ‘कतमः’ अतिशयेन सुखरूपः । ‘स्वयम्भूः’ उत्पादकाभ्यां मातापितृभ्यां विना स्वयमेवोत्पन्नः । ‘प्रजापतिः’ प्रजानां पालकः । ‘संवत्सरः’ का- लात्मकः । ‘इति’शब्दः प्रदर्शनार्थः । इत्यादिसर्वरूपत्वमुन्नेय- मित्यर्थः ॥

पुनरपि संन्यासस्तुतये हिरण्यगर्भावयवस्य संवत्सरस्य माहात्म्यं दर्शयति । (१५)“संवत्सरोऽसौ परमेष्ठी ब्रह्मात्मा”(१५) इति । यः अयं, ‘संवत्सरः’ कालः, उक्तः, सः ‘असौ’, ‘आदित्य- स्वरूप एव, आदित्यगत्यभ्यासेन निष्पादितत्वात् । ‘य एषः’, तस्मिन् ‘आदित्यमण्डले पुरुषः’, ‘सः’, एव ‘परमेष्ठी’ हिरण्य-


* सन्यास इति F, चिह्नितपुस्तकपाठः ।