तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
१० प्रपाठके ६३ अनुवाकः । ८६३
ब्रह्मा॒त्मा^{(१५)}। ^{(१६)}याभि॑रादि॒त्यस्तप॑ति र॒श्मिभि॑स्ताभिः॑ प॒र्जन्यो॑ वर्षति प॒र्जन्ये॑नौषधिवनस्प॒तयः॑ प्र॒जाय॑न्त ओ- षधिवनस्प॒तिभि॒रन्नं॑ भव॒त्यन्ने॑न प्रा॒णः प्रा॒णैर्बलं॒ बले॑न तप॒स्तप॑सा श्र॒द्धा श्र॒द्धया॑ मे॒धा मे॒धया॑ मनी॒षा
गर्भरूपः, आदित्यमण्डलद्वारेण हिरण्यगर्भस्य प्राप्यत्वात् । स च परमेष्ठी ‘ब्रह्म’ सर्वजगत्कारणं वस्तु, तथैव ‘आत्मा’ सर्वेषां प्रत्य- गात्मभूतः ॥
एवमादित्यादिद्वारा संवत्सरं प्रशस्य तमादित्यमण्डलद्वारेण सर्वव्यवहारहेतुतया प्रशंसति । ^{(१६)}“याभि॑रादि॒त्यस्तप॑ति विज्ञानादानन्दो ब्रह्मयोनिः”(१६) इति । अयं ‘आदित्यः’, ‘याभिः’ उष्णरूपाभिः, ‘रश्मिभिः’, ‘तपति’ प्रभूतं सन्तापं करोति । ‘ताभिः’ तीव्ररश्मिभिः, भूमिगतञ्जलमादाय ‘पर्जन्यः’, भूत्वा ‘वर्षति’ । तेन च ‘पर्जन्येन’ वृष्टिजनकेन, व्रीह्याद्याः, ‘ओषधयः, अश्वत्थपनसाद्याः, ‘वनस्पतयश्च प्रकर्षेणोत्पद्यन्ते । ‘ओ- षधिभिः, ‘वनस्पतिभिः’, च भोज्यं ‘अन्नं’, सम्पद्यते । तेन च ‘अन्नेन’, ‘प्राणाः’, पोषिताः भवन्ति । तैश्च पुष्टैः ‘प्राणैः’, शरीरे ‘बलं’, सम्पद्यते । तेन ‘बलेन’, कृच्छ्रचान्द्रायणादिरूपं ‘तपः’, सम्पाद्यते, तेन च ‘तपसा’, शुद्धचित्तस्य तत्त्वज्ञानविषया ‘श्रद्धा’, जायते । तया च ‘श्रद्धया’, युक्तस्यैकाग्रचित्तस्य* ‘मेधा’ गुरूपदिष्टग्रन्थ- तदर्थधारणशक्तिः, उपजायते । तया च ‘मेधया’, ‘मनीषा’
* पुरुषस्यैकाग्रचित्तस्येति F चिह्नितपुस्तकपाठः
८६४ || तैत्तिरीये आरण्यके
म॑नी॒षया॒ मनो॒ मन॑सा॒ शान्तिः॒ शान्त्या॑ चि॒त्तं चि॒त्तेन॒ स्मृतिः॑ स्मृ॒त्या स्मा॒रः स्मा॒रेण॑ वि॒ज्ञानं॑ वि॒ज्ञाने॑नात्मानं॑ वेदयति तस्मा॒दन्नं॒ दद॒न्त्सर्वा॑ण्ये॒तानि॑ ददात्यन्नात् प्रा॒णा भ॑वन्ति भू॒तानां॑ प्रा॒णैर्मनो॒ मन॑सश्च वि॒ज्ञानं॑ वि॒ज्ञाना॑दान॒न्दो ब्र॑ह्मयो॒निः॥ १६ ॥ । (१७)स वा
· तत्त्वविषया बुद्धिः, उत्पद्यते । तया च 'मनीषया', 'मनः' निरन्तरन्तत्त्वविषयं मननं उपजायते । तेन च 'मनसा' मननेन, कामक्रोधादिदोषस्यावसराभावात् 'शान्तिः', उपजायते । तया च 'शान्त्या', विक्षेपरहितस्य 'चित्तं' चेतनं तत्त्वविषयं प्रमाणजनितं ज्ञानं उपजायते । तेन च 'चित्तेन' ज्ञानेन, निद्रादिव्यवहारव्यवधानेऽपि तत्त्वविषयां 'स्मृतिं', प्राप्नोति । तया च निद्राद्यनन्तरभाविन्या 'स्मृत्या', 'स्मारं' निरन्तरस्मरणं, प्राप्नोति । तेन च 'स्मारेण', 'विज्ञानं' विजातीयप्रत्ययव्यवधानराहित्येन विशिष्टं सन्ततं ज्ञानं, प्राप्नोति । तेन च 'विज्ञानेन' सन्ततेन, 'आत्मानं वेदयति' परमात्मानं सर्वदा अनुभवति । यस्मादन्नस्योक्तप्राणबलादिपरम्परया परमात्मानुभवहेतुत्वं 'तस्मात्', ईदृशं 'अन्नं', 'ददन्', पुरुषः, 'सर्वाण्येतानि' प्राणादीन्यात्मानुभवान्तानि वस्तूनि, 'ददाति' । अन्नदानस्य सर्वदानरूपत्वं विस्पष्टयितुमुक्तमेवार्थं पुनरप्यन्नात्प्राणा भवन्तीत्यादिवाक्येन सङ्क्षिप्योपन्यस्यते । प्राणादिपरम्परयोत्पन्नात् 'विज्ञानात्', 'आनन्दः'
१० प्रपाठके ६३ अनुवाकः । ८६५
ए॒ष* पु॒रु॑षः पञ्च॒धा प॑ञ्चा॒त्मा येन॒ सर्व॑मि॒दं प्रोतं॑ पृथि॒वी चा॒न्तरि॑क्षञ्च॒ द्यौश्च॒ दिश॑श्चावान्तरदि॒शाश्च॒ स वै
परमानन्दरूपो भूत्वा, ‘ब्रह्म’ वेदान्तप्रतिपाद्यं, ‘योनिः’ जग- त्कारणं। यद्वा ‘ब्रह्मणो वेदस्य, ‘योनिः’ कारणं, तादृग्रूपः स्वयं भवति ॥
यथोक्तं सन्न्यासमेव स्तोतुं तेन सन्न्यासेन प्राप्ततत्त्वज्ञानं पुरुषं प्रशंसति । $^{(१०)}$“स वा एष पुरुषः ० सत्यो महस्वा- न्तपसोवरिष्टात्”$^{(१०)}$ इति। यः पुरुषः सन्न्यासपुरःसरं तत्त्व- ज्ञानं सम्पादयति ‘सः’, एव ‘एष पुरुषः’ सर्वात्मकः सन्, ‘पञ्चधा’ पञ्चभिः प्रकारैः, ‘पञ्चात्मा’ पञ्चविधवस्तुस्वरूपः, भवति । शब्दस्पर्शादिकं गुणपञ्चकं, पृथिव्यादिकं भूतपञ्चकं, चक्षुश्रोत्रादिकं ज्ञानेन्द्रियपञ्चकं, वाक्पाण्यादिकं कर्मेन्द्रियपञ्चकं, प्राणापाना- दिकं वायुपञ्चकं, एतावतां वस्तूनां स्वरूपभूत इत्यर्थः । यद्वा । पञ्चभिरात्मभिर्युक्तः ‘पञ्चधा’ वर्तते । तथा च पुराणे अभिहितं ।
“भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान्। आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः” ॥ इति ॥
‘येन’ ब्रह्मस्वरूपेण पुरुषेण, ‘सर्वं’, ‘इदं’ जगत्, सूत्रे मणिगणा इव ‘प्रोतं’ प्रकर्षेण स्यूतं,† व्याप्तमित्यर्थः । तदेव सर्वं पृथिवी चेत्यादिना प्रपञ्च्यते । ‘सः’ एव पृथिव्यादिवस्तुव्यापी पुरुषः’ ‘सर्वं,’ ‘इदं’ वर्त्तमानं, ‘जगत्’, तच्छदृश्याव्यतिरेकेणाभावात्,
* स एष इति N चिह्नितपुस्तकपाठः ।
† प्रकर्षेण ओतमिति Q चिह्नितपुस्तकपाठः ।
5 R
८६६ तैत्तिरीये आरण्यके
सवमि॒दं जग॑त्स॒ भूतं॒ स भव्य॑ञ्जिज्ञासक्लृ॒प्त ऋ॑तजा रयिष्ठाः श्रद्धा स॒त्यो मह॑स्वांस्त॒मसो॒वरि॑ष्टात्*(१७) । (१८)ज्ञात्वा तमे॒वं मन॑सा हृ॒दा च॒ भूयो॑ न मृ॒त्युमुप॑या-
तथा ‘भूतं’ अतीतञ्च, जगत् ‘सः’, एव । ‘भव्यं’ भविष्यदपि, जगत् स एव । ननु तत्त्ववित् पुरुषो मूढवद्धस्तपादादियुक्तदेहरूप एव दृश्यते, न तु सर्वजगत्स्वरूप इति चेत् । मैवं । यतः अयं ‘जिज्ञासक्लृप्तः’ जिज्ञासया वेदान्तविचारेण सर्वात्मकतया निश्चितो भवति । ‘ऋतजाः’ ऋतेन सत्येन प्रामाणिकेन ज्ञानेन सर्वात्मा जातः, जिज्ञासाकाले भ्रान्तिज्ञानरूपेषु पूर्वपक्षेषु निराकृतेषु प्रामाणिकेन सिद्धान्तज्ञानेन तादृशो† भवति । स च ‘रयिष्ठाः’ रयिर्धनं, गुरूपदेशः, तत्रैव तिष्ठति, न तूपदेशरहितानां प्रतीयत इत्यर्थः‡ । ईदृशस्वरूपविज्ञानस्य श्रद्धया लभ्यत्वादसौ ‘श्रद्धारूपः’ । “श्रद्धावान् लभते ज्ञानं” इति श्रुतेः । सत्यं अबाध्यं यत् ब्रह्म, तत्स्वरूपत्वादयं ‘सत्यः’ । ‘महस्वान्’ तेजस्वान्, स्वयं प्रकाशत इत्यर्थः । अत एव ‘तमसा’ संसारकारणेनाज्ञानेन, वियुक्तत्वात् उपरिष्टात् वर्त्तते§ ॥
इत्थं संन्यासपूर्वकज्ञानयुक्तं पुरुषं प्रशस्य ज्ञानफलं दर्श-
* उपरिष्ठा इति N, O, चिह्नितपुस्तकपाठः ।
† ईदृशो जातो भवति इति F चिह्नितपुस्तकपाठः ।
‡ तदुपदेशरहितानां तथा न प्रतीयत इत्यर्थः । इति Q चिह्नितपुस्तकपाठः ।
§ उपरिष्टाद्वर्त्तमान इति Q चिह्नितपुस्तकपाठः ।
१० प्रपाठके ६३ अनुवाकः। ८५७
हि वि॒द्वान्^(१८) । ^(१९)तस्मा॒न् न्यास॑मेषां तप॑साम- तिरि॑क्तमाहु॑:^(१९) । ^(२०)वसु॑रण्वो वि॒भूर॑सि प्रा॒णे त्वम॑- सि॒ सन्धाता ब्रह्म॑न् त्वम॑सि॒ विश्व॑सृत्तेजोदा*स्त्वम॑स्य॒ग्ने-
यति । ^(१८)"ज्ञात्वा तमेवं ॰ उपयाहि विद्वान्"^(१८) इति । हे आरुणे त्वं 'तं' परमात्मानं, 'हृदा' हृत्पुण्डरीकनियमितत्वात्† हृदयरूपेण, 'मनसा', 'एवं' पूर्वोक्तसन्यासरूपसाधनप्रकारेण, 'ज्ञात्वा', 'विद्वान्' तेन ज्ञानेन युक्तः सन्, 'भूयः' पुनः, 'मृत्युं', 'न उपयाहि' मा प्राप्नुहि । ज्ञानिनो वर्त्तमानदेहपाते सति जन्माभावात् पुनर्मृत्युर्नास्तीत्यर्थः ॥
बहुधाप्रशस्तं सन्यासमुपसंहरति । ^(१९)"तस्मान् न्यासमेषां तपसामतिरिक्तमाहुः"^(१९) इति । यस्मात् परमपुरुषार्थस्यान्तरङ्गं साधनं, तस्मात् 'एषां' सत्यादीनां, 'तपसां', मध्ये सन्यासं 'अति- रिक्तं' अत्युत्कृष्टं साधनं, मनीषिणः 'आहुः' ॥
सन्यासाद्दूर्ध्वं प्रणवेनात्मनि समाधिर्विधेयः । तस्मिन् समाधौ विघ्नपरिहारार्थमादावन्तर्यामिणः सर्वकारणत्वेन स्तुतिं दर्श- यति । ^(२०)"वसुरण्वो विभूरसि ॰ ब्रह्मणे त्वा महसे"^(२०) इति । हे 'ब्रह्मन्' अन्तर्यामिन्, 'वसुरण्वः' वसूनां वस्तुतत्त्वस्य, 'रण्वः' रणिता, कथयिता, अस्मदनुग्रहार्थमुपदेष्टा, 'असि' । तथा 'विभूः' हिरण्यगर्भविराडादिविविधरूपेणोत्पन्नः, 'असि' । 'प्राणे'
* विश्वसृष्ट्कतेजोदा इति B, N, O, Q, चिह्नितपुस्तकपाठः ।
† हृत्पुण्डरीकेण नियमितत्वादिति Q, चिह्नितपुस्तकपाठः ।
R 2
९६८ तैत्तिरीये आरण्यके
रंसि वर्चो॒दास्त्वम॑सि॒ सूर्य॑स्य द्यु॒म्नोदा॒स्त्वम॑सि च॒न्द्र- म॑स उपया॒मगृ॑हीतोऽसि॒ ब्रह्म॑णे त्वा॒ महसे॑⁽१०⁾ । २१)ओ॒मित्या॒त्मानं॑ युञ्जीत॑⁽११⁾ । ⁽१२⁾एतद्वै म॑होप॒निष॑दं
वायुरूपे, जीवात्मनः 'सन्धाता' संयोजयिता 'त्वमसि'। विश्वं सरति प्राप्नोतीति 'विश्वसृट्' सर्वजगद्व्यापी, 'त्वमसि'। भूलोकवर्त्तिनः 'अग्नेः', 'तेजोदाः' प्रकाशप्रदः, 'त्वमसि'। द्युलोकवर्त्तिनः 'सूर्यस्य', 'वर्चोदाः' प्रकाशप्रदः, 'त्वमसि'। तथा 'चन्द्रमसः', 'द्युम्नोदाः' प्रकाशरूपधनप्रदः, 'त्वमसि'। तथा यागेषु सोमरूपः सन् 'उपयामेन' पार्थिवेन मृण्मयदारुमयपात्रेण, 'गृहीतोऽसि'। उपयामशब्दस्य पृथिवीपरत्वं षष्ठकाण्डे मन्त्रव्याख्याने समाम्नातं, "उपयामगृहीतोऽसीत्याहेयं वा उपयामः" इति । उक्तप्रकारं सर्वकर्त्तारमन्तर्यामिणं त्वां 'महसे ब्रह्मणे' चैतन्यज्योतिस्वरूपब्रह्मतत्वाभिव्यक्त्यर्थं, भजामीति शेषः ॥
अनेन प्रकारेणान्तर्यामिणं स्तुत्वा परिहृतविघ्नस्य सन्न्यासिनः समाधिं विधत्ते । (११)“ओमित्यात्मानं युञ्जीत”(११) इति । त्रिमात्रं प्रणवमुच्चारयन् सर्ववेदान्तेषु निर्णीतं परमात्मानं चिद्रूपत्वेन चित्ते समादध्यात् ॥
समाधिसाधनमोङ्कारं प्रशंसति । (१२)“एतद्वै महोपनिषदं देवानां गुह्यं”(१२) इति । यत् प्रणवस्वरूपमस्ति 'एतत्', एव 'महोपनिषदं' महत्यो बह्व्य उपनिषदः प्रतिपादिकाः यस्य परमात्मवाचकस्य प्रणवरूपस्य तत्, 'महोपनिषदं' । अकारान्तत्वं छान्दसं ।
१० प्रपाठके ६३ अनुवाकः । ८६६
दे॒वानां॒ गुह्य॑म्^(२२) । ^(२३)य ए॒वं वेद॒ ब्रह्म॑णो महि॒मा- न॑माप्नोति॒ तस्मा॒द् ब्रह्म॑णो महि॒मानं॑^(२३) ^(२४)इत्युप॑नि- षत्^(२४) ॥ अनु० ६३ ॥
“सर्वे वेदा यत् पदमामनन्ति तत् ते पदं सङ्ग्रहेण ब्रवीमि ओमि- त्येतत्” इति प्रणवस्य सर्वोपनिषत्प्रतिपाद्यत्वं कठवल्लीषु श्रुतं। तच्च प्रणवरूपं निर्गुणतत्त्वप्रतिपादकं, ‘देवानां’ इन्द्रादीनां, ‘गुह्यं’ गोप्यं, ते हि शमदमाद्यधिकारसम्पत्तिरहिताय प्रणवं नोपदिशन्ति ॥
यथोक्तप्रणवसमाधिजनितस्य तत्त्ववेदनस्य फलं दर्शयति। ^(२३) “य एवं वेद ० ब्रह्मणो महिमानं”^(२३) इति । ‘यः’ पुमान्, सन्न्यासाद्दूर्ध्वं प्रणवेन ब्रह्मतत्त्वसमाधिं कुर्वन् ‘एवं’ वेदान्तमहा- वाक्योक्तप्रकारेण, ‘वेद’ ब्रह्मतत्त्वं जानाति । असौ ज्ञानी स्वस्मि- न्नविद्याकल्पितं जीवत्वापादकं परिच्छेदमपहाय देशकालवस्तु- परिच्छेदशून्यस्य ‘ब्रह्मणः,’ ‘महिमानं’ महत्त्वं, ‘आप्नोति’ तत्त्व- वेदनेन जीवत्वकृतभ्रमो निवर्त्तते, ब्रह्मत्वस्वभाव आविर्भवति, ततो जीवन्मुक्तो भवतीत्यर्थः । तस्य जीवन्मुक्तस्य प्रारब्धभोगक्षयेण देहपाते सति ‘तस्मात्’ कृत्स्नाविद्यानिवर्त्तकाद्वेदनात्, अविद्यात- त्कार्यतद्वासनालेशहरहितस्य मुख्यस्य ‘ब्रह्मणः’, ‘महिमानं’, प्राप्नोति, विदेहमुक्तिर्भवतीत्यर्थः ॥
सन्न्यासपुरःसरं तत्त्वविद्यामुपसंहरति । ^(२४)“इत्युपनिषत्”^(२४) इति । ‘इति’ एवमतीतेन ग्रन्थेन, प्रोक्ता येयं विद्या सेयं ‘उपनि- षत्’ रहस्यविद्या ॥
| ६०० | तैत्तिरीये आरण्यक |
|---|
अथ मीमांसा। तत्र न्यासरूपस्य चतुर्थाश्रमस्य सद्भावस्तृती- याध्यायस्य चतुर्थपादे चिन्तितः।
“नास्त्यूर्ध्वरेताः किम्बास्ति नास्त्यसावविधानतः ।
वीरहातौ विधेः कॢप्तावन्धपङ्ग्वादिगा स्मृतिः ॥
अस्य पूर्वविधेः कॢप्तेर्वीरहानग्निको गृही ।
अन्धादेः पृथगुक्तत्वात् स्वस्थानां श्रूयते विधिः” ॥
पूर्वाधिकरणे स्वतन्त्रविज्ञानकर्मनैरपेक्ष्येण पुरुषार्थसाधनमि- त्युक्तं। तस्य चात्मज्ञानस्योर्ध्वरेतःस्वाश्रमेषु सुलभत्वादाश्रमसद्भा- वाच्च तत्र नास्त्यूर्ध्वरेता इति प्राप्तं। कुतः, विध्यभावात्। त्रयो धर्मस्कन्धाः, यज्ञः, अध्ययनं, दानमिति । प्रथमः, तप एव । द्विती- यः, ब्रह्मचारी, आचार्यकुलवासी तृतीयः। इत्यत्र यज्ञाद्युपलक्षित- गार्हस्थ्यस्य तपःशब्दलक्षितवानप्रस्थस्य नैष्ठिकब्रह्मचर्यस्य च परा- मर्शमात्रं गम्यते, न तु विधिरुपलभ्यते। न चापूर्वार्थत्वेन कल्पयितुं शक्यः। वीरहा वा एष देवानां योऽग्निमुद्वासयते इत्यमुद्वास- नलक्षणस्य गार्हस्थ्यपरित्यागस्य निन्दितत्वात्। चत्वार आश्रमा- इति स्मृतिस्तु गार्हस्थ्यकर्मानधिकृतान्यपङ्ग्वादिविषया भवि- ष्यति। न ह्यन्धस्याज्यावेक्षणलोपेते कर्मण्यधिकारोऽस्ति। नापि पङ्गोर्विष्णुकमणाद्युपेत कर्मण्यधिकारः। तस्माच्चक्षुरादिपाटव- युक्तस्य आत्मज्ञानापयुक्त ऊर्ध्वरेता आश्रमो नास्तीति प्राप्ते ब्रूमः। अस्त्यूर्ध्वरेता आश्रमः, विध्यश्रवणेऽप्यपूर्वार्थत्वेन कल्पयितुं शक्यत्वात् । न च वीरघातादिदोषः, उत्सन्नाग्निविषयत्वादीरहत्यायाः। य- त्वन्धादिविषयत्वं स्मृतेरुक्तं, तदसत् । “अथ पुनरव्रतो वा स्नातको
१० प्रपाठके ६३ अनुवाकः । ९०१
वाऽस्नातको वा उत्सन्नाग्निरनग्निको वा यदहरेव विरजेत् तदहरेव प्रव्रजेद्" इति विरक्तानां गार्हस्थ्यमनधिकृतानां पृथक् सन्न्यासवि- धानात् । न च चक्षुरादिपाटववतामाश्रमान्तरविधिर्भावः०। जा- बालश्रुतौ प्रत्यक्षविध्युपलम्भात् । "ब्रह्मचर्यं समाप्य गृही भवेत् गृहाद्वनी भूत्वा प्रव्रजेत्" इति । तस्मादस्त्याश्रमान्तरं । तत्रैवान्यच्चिन्तितं । "लोककाम्याश्रमी ब्रह्मनिष्ठामर्हति वा नवा । यथावकाशं ब्रह्मैव ज्ञातुमर्हत्यवारणात् ॥ अनन्यचित्तता ब्रह्मनिष्ठोऽसौकर्मठे कथं । कर्मत्यागी ततो ब्रह्मनिष्ठामर्हति नेतरः" ॥ त्रयो धर्मस्कन्धा इत्यत्राश्रमानधिकृत्य सर्व एते पुण्यलोका भवन्तीत्याश्रमानुष्ठायिनां पुण्यलोकफलमभिधाय ब्रह्मसंस्थोऽमृ- तत्वमेतीति मोक्षसाधनत्वेन ब्रह्मनिष्ठा प्रतिपाद्यते । सेयं ब्रह्म- निष्ठा पुण्यलोककामिन आश्रमिणोऽपि सम्भाव्यते । आश्रमकर्मा- ण्यनुष्ठाय यथावकाशं ब्रह्मनिष्ठायाः कर्तुं शक्यत्वात् । नहि लोक- कामी ब्रह्म न जानीयादिति निषेधोऽस्ति । तस्मादस्ति सर्व- स्याप्याश्रमिणो ब्रह्मनिष्ठेति प्राप्ते ब्रूमः । ब्रह्मनिष्ठा नाम सर्व- व्यापारपरित्यागे सत्यनन्यचित्ततया ब्रह्मणि परिसमाप्तिः । न चासौ कर्मठे सम्भवति । कर्मानुष्ठानत्यागयोः परस्परविरोधात् । तस्मात् कर्मत्यागिन एव ब्रह्मनिष्ठेति स्थितं । अस्मिन्नर्थे श्रुति- स्मृतिवाक्यानि सङ्क्षिप्य प्रदर्श्यन्ते । "त्याग एव हि सर्वेषां मोक्षसाधनमुत्तमं ।
६०२ तैत्तिरीये आरण्यके
त्यजतैव हि तज् ज्ञेयं त्यक्तुः प्रत्यक् परं पदं ॥
मुक्तेश्च बिभ्यतो देवा मोहेनापि दधुर्नरात्।
ततस्ते कर्मसुद्युक्ताः प्रावर्त्तन्ते विचक्षणाः॥
अतः मन्यस्य सर्व्वाणि कर्म्माण्यात्मावबोधतः ।
हत्वाऽविद्यां* धियैवेयात्तद्विष्णोः परमं पदं"॥
इति भालविशाखायामामनन्ति ।
"सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद् बुधः ।
यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् ॥
ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः ।
ज्ञानमेव परं तेषां पवित्रं ज्ञानमुच्यते ॥
अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा ।
स शिखीत्युच्यते विद्वानेतरे केशधारिणः" ॥
इति आथर्व्वणिका आमनन्ति ।
"कुटुम्बं पुत्रदारांश्च वेदाङ्गानि च सर्वशः ।
यज्ञं यज्ञोपवीतञ्च त्यक्त्वा गूढश्चरेन्मुनिः"॥
इति वाष्कलशाखीया आमनन्ति । सशिखान् केशान्निराकृत्य
विसृज्य यज्ञोपवीतं भूः स्वाहेति अप्सु जुहुयात् ॥
"त्रिदण्डं कुण्डिकां शिक्यं त्रिविष्टपमुपानहौ ।
शीतोपघातिनीं कन्थां कौपीनाच्छादनन्तथा † ॥
पवित्रं स्नानशाटीञ्च उत्तरासङ्गमेव च ।
यज्ञोपवीतं वेदांश्च सर्वं तद्वर्जयेद्यतिः" ॥
* हित्वा विद्यामिति Q चिह्नितपुस्तकपाठः ।
† कौपीनस्य तु च्छादनमिति F चिह्नितपुस्तकपाठः ।
१० प्रपाठके ६३ अनुवाकः। ६०३
इति सन्न्यासोपनिषद्यधीयते । “अथ परिव्राड् विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षाणो ब्रह्मभूयाय भवति” इति जाबाला आमनन्ति । “अथ परिव्राडेकशाटीपरिवृतो मुण्डोदर-पात्रचरणनित्यो भिक्षार्थी ग्रामं प्रविशेदामयं प्रदक्षिणेना-विचिकित्सन् सार्ववर्णिकं भैक्षचरणमभिशस्तं पतितवर्जमथज्ञोप-वीतो शौचनिष्ठः काममेकं वैणवं दण्डमाददीत” इति मैत्रा-यणशाखायामभिहितं । “कन्थाकौपीनोत्तरासङ्गादीनानत्यागिनो यथा जातरूपधरा निर्ग्रन्था निष्परिग्रहाः” इति संवर्तश्रुतिः । गृहस्थो ब्रह्मचारी वानप्रस्थो वा लौकिकाग्नीनुदराग्नौ समारो-पयेत्, गायत्रीं च स्ववाचाग्नौ समारोपयेदुपवीतं भूमौ वाप्सु वा विसृजेत्” इत्यादिवारुणी श्रुतिः ॥
“यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः ।
आत्मज्ञाने शमे च स्याद्वेदाभ्यासेन यत्नवान् ॥
एतद् द्विजन्मसाफल्यं ब्राह्मणस्य विशेषतः ।
प्राप्यैतत् कृतकृत्यो हि द्विजो भवति नान्यथा ॥
यदा तु विदितं तत्त्वं परं ब्रह्म सनातनं ।
तदैकदण्डं सङ्गृह्य उपवीतं शिखान्त्यजेत्” ॥
इत्यादयः स्मृतय उदाहार्याः ।
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा-रण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या-मुपनिषदि त्रिषष्टितमोऽनुवाकः ॥ ६ ३ ॥
5 s
६०६ तैत्तिरीये आरण्यके
स्या॒नि य ऋ॒तव॒स्ते प॑शु॒बन्धा ये सं॑वत्स॒राश्च॑ परिवत्स॒राश्च॒ तेऽह॑र्ग॒णाः स॑र्ववेद॒सं वा ए॒तत्त्स॒त्रं यन्म॑र॒णन्तद॑वभृ॒थः^(३)। । ^(४)ए॒तद्वै ज॑रामर्यम॒ग्निहो॒त्रꣳ स॒त्रं य ए॒वं वि॒द्वानु॑दगय॑ने प्रमीय॑ते दे॒वाना॑मे॒व म॑हि॒मानं॑ ग॒त्वा-
'संवत्सरपरिवत्सरेदावत्सरानुवत्सरेद्वत्सरसञ्ज्ञका द्रष्टव्याः। तथाच कालनिर्णये सङ्ग्रहकारेणोदाहृतं,
“चान्द्राणां प्रभवादीनां पञ्चके पञ्चके युगे।
सम्परीदान्विदिव्येतच्छब्दपूर्वास्तु वत्सराः” इति ॥
'अहर्गणाः' द्विरात्रत्रिरात्रादयः, 'सर्ववेदसं' सर्वस्वदक्षिणकं। अत्र 'एतच्छब्देन प्रकृताहोरात्रादिपरिवत्सरान्तसर्वकालसमुपलक्षितं योगिन आयुर्विवक्ष्यते। 'यत्' आयुः, तत्सर्वदक्षिणेापेतं, 'सत्रं', इत्यर्थः॥
अस्थानुवाकस्य चतुर्थभागेन सर्वयज्ञात्मकं* योगिन उपासीनस्य कर्ममुक्तिलक्षणं† फलमाह। ^(४)“एतद्वै जरामर्यमग्निहोत्रꣳ ० महिमानमित्युपनिषत्”^(४) इति। जननमरणावधिकं यद्योगिचरितमस्ति तत् 'एतत्', वेदोक्ताग्निहोत्रादिसंवत्सरसत्रान्तकर्मस्वरूपं, इति 'एवं', 'यः' पुमान्, 'विद्वान्' उपासीनः, उत्तरायणे
* सर्वयज्ञात्मकमिति Q, चिह्नितपुस्तकपाठः।
† क्रममुक्तिलक्षणमिति F चिह्नितपुस्तकपाठः।
१० प्रपाठके ६४ अनुवाकः। ६०७
ऽऽदित्य॒स्य सायु॑ज्यङ्गच्छत्यथ॒ यो दक्षि॑णे प्रमीय॑ते पितॄणा॑मे॒व म॑हिमान॑ङ्गत्वा च॒न्द्रम॑सः सायु॑ज्यꣳ स-
म्रियते, स उपासकः 'देवानां' इन्द्रादीनां, 'महिमानं' ऐश्वर्यं, प्राप्य तदूर्ध्वम् 'आदित्यस्य', 'सायुज्यं' सहवासं, तादात्म्यं वा, भावनातारतम्येन प्राप्नोति । 'अथ' पूर्वोक्तवैलक्षण्येन, 'यः' उपासकः, 'दक्षिणायने म्रियते, स उपासकः 'पितॄणां' अग्निष्वा- त्तादीनाम्, ऐश्वर्यं प्राप्य 'चन्द्रमसः सायुज्यं', पूर्ववत् प्राप्नोति' । य एवं 'एतौ' 'सूर्याचन्द्रमसोः', 'महिमानौ', अनुभवन् 'ब्राह्मणः', तत्र सगुणब्रह्मरूपं हिरण्यगर्भं 'विद्वान्', तल्लोकवासिनामुपदेशि- नामुपासकान् 'अभिजयति' हिरण्यगर्भसाक्षात्काररूपं प्राप्नो- ति । 'तस्मात्' साक्षात्कारात्, तल्लोकवासिदेहपातादूर्ध्वं हिरण्य- गर्भलोकं गत्वा तत्र 'ब्रह्मणः' हिरण्यगर्भस्य, 'महिमानं' ऐश्वर्यं, 'प्राप्नोति' । तत्रोत्पन्नब्रह्मतत्त्वसाक्षात्कारः 'तस्मात्' ज्ञानाद् ब्रह्मलोकविनाशादूर्ध्वं, सत्यज्ञानादिलक्षणस्य 'ब्रह्मणः', 'महि- मानं' महत्त्वञ्च, प्राप्नोति । 'इत्युपनिषत्', इतिवाक्येन यथोक्त- विद्यायास्तत्प्रतिपादकग्रन्थस्य चोपसंहारः क्रियते ॥
अथ मीमांसायां तृतीयाध्यायस्य तृतीयपादे चिन्तितं, “द्वयं विद्यैका भिन्ना वा तैत्तिरीयकताण्डिनोः । मरणावभृथत्वादिमाम्यादेकेति गम्यते ॥ बहूनां रूपभेदेऽपि किञ्चित्साम्यस्य बाधनात् ।
६०८ तैत्तिरीये आरण्यके
लो॒कृता॑मा॒प्नोत्ये॒तौ वै सूर्या॑चन्द्र॒मसौ॑र्म॒हिमा॑नौ ब्रा॑-
ह्म॒णे वि॒द्वान॒भिज॑यति॒ तस्मा॑द्ब्रह्म॒णो म॑हि॒मान॑मा-
न विद्यैक्यं तैत्तिरीये ब्रह्मविद्याप्रशंसनात् ॥
अस्ति तैत्तिरीये पुरुषविद्या, “तस्यैवं विदुषो यज्ञस्यात्मा यजमानः” इति। तथा ताण्डिनां शाखायामपि श्रूयते, “पुरुषो वाव यज्ञः” इति। सेयमेकैव* पुरुषविद्या, यन्मरणन्तदवभृथः, मरणमेवावभृथः इत्युभयत्र समानधर्मश्रवणात्, प्रातःसवनादीनाञ्च समानत्वादिति प्राप्ते ब्रूमः। वेद्यस्वरूपस्य भूयानभेद उपलभ्यते। तथाहि विदुषो यो यज्ञः तस्य यज्ञस्यात्मेति तैत्तिरीयके व्यधिकरणे षष्ठ्यौ। अन्यथा आत्मा यजमान इति व्याघातात्। विद्वानैव यज्ञः स एव यजमान इति कथन्न व्याहन्येत। ताण्डिनां तु पुरुषयज्ञयोः सामानाधिकरण्यं श्रुतं, इत्येको रूपभेदः। आत्मयजमानादिकञ्च सर्वत्र श्रुतन्ताण्डिशाखायान्नोपलभ्यते। यत्तु ताण्डिनामुपलभ्यते, त्रेधाविभक्तस्यायुषः सवनत्रयत्वम् इत्यादि, न तत् किञ्चिदपि तैत्तिरीयके पश्यामः। अतो मरणावभृथत्वाद्यल्पसाम्यबाधाद्विद्ययोर्भेद उचितः। अपिच न तैत्तिरीयाणामुपासनमिदं, किन्तर्हि ब्रह्मविद्या—प्रशंसा। तस्यैवंविदुष इति ब्रह्मविदोऽनुकर्षणात्†।
* पुरुषो वाव यज्ञ इत्येवमेकैवेति १, चिह्नितपुस्तकपाठः।
† ब्रह्मविदोऽनुक्रमणादि इति ५ चिह्नितपुस्तकपाठः।
१० प्रपाठके ६४ अनुवाकः। ६०६
प्राति॒. तस्मा॑द् ब्रह्म॑णो महिमान॑मित्युपनिषत्^(४) ॥
अनु० ६४ ॥
तस्मान्न विद्यैक्यशङ्कायामप्यवकाशोऽस्ति। एतस्मिन्ननुवाके तत्त्व-
ज्ञानिसेवानिमित्ताभिचितेत्यशेषमतिमङ्गलं ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति नारायणीये चतुःषष्टितमोऽनुवाकः ॥ ६४ ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्क-
भूपालसाम्राज्यधुरन्धरेण मायणाचार्येण विरचिते माधवीये वे-
दार्थप्रकाशनामकतैत्तिरीययजुरारण्यकभाष्यं सम्पूर्णम् ॥ ० ॥
६१० तैत्तिरीये आरण्यके
[ एतदुपनिषदः प्रारम्भे भाष्यकारेण लिखितमेतत्, यदस्याः शाखाभेदेन अनुवाकसङ्ख्याभेदो वर्त्तते । तत्र द्राविडैरस्याश्चतुःषष्टिसङ्ख्याकानुवाकाः पठ्यन्ते । आन्ध्रैरस्या अशीत्यनुवाकाः, कर्णाटकैस्तुःसप्तत्यनुवाकाः, अन्यैरेकोननवत्यनुवाकाः परिपठ्यन्ते । परन्तु अस्मत्सङ्घे विभिन्नदेशसमानीते भाष्यपुस्तकत्रये चतुःषष्ट्यनुवाकपर्यन्तमेव व्याख्यानं दृश्यते । एतदेव सम्पूर्णतया वर्णितं प्रत्यक्षमुपलभ्यते । अथास्मत्सङ्घे मूलपुस्तकचतुष्टये तु अशीत्यनुवाका विन्यस्ताः । अनुवाकसङ्ग्रहेऽपि तेषामशीत्यनुवाकानामेव प्रतीकानि लिखितानि । पुनरेतेषामनुवाकानां ये अनुवाका भाष्यकारेण व्याख्याताः, न तेषु कतिपयेषु मूलपुस्तकधृतपाठक्रमस्ता जायते । कुत्रचिदनुवाकद्वयस्यैकत्वमपि प्रतिपादितम् । कुत्रचिच्चानुवाकांशीभूतकण्डिकैकाप्यनुवाकत्वेन परिगृहीता । एतदवलोक्य व्याख्यानानुरोधेनास्माभिर्भाष्यपुस्तकत्रयानुसारिणी सभाष्या निखिलापीयं मुद्रापिताऽभूत् । अथ इदानीं भाष्यकारपरित्यक्ताः कतिपयमूलानुवाका मुद्रापिता भवन्ति । मूलभाष्ययोः परस्परमनुवाकसङ्ख्याभेदज्ञानार्थं तयोरनुवाकसमन्वयतालिका मुद्रापिता भवन्ति ॥ ]
( ६११ )
| भाष्यसम्मतनानुवाकाङ्काः । | मूलपुस्तकसंम्मतानानुवाकाङ्काः । | मूलपुस्तकसंम्मतानुवाकाङ्काः । | भाष्यसम्मतनानुवाकाङ्काः । |
|---|---|---|---|
| १ . . . . . . . . . | १-२ | १ . . . . . . . . | १-१५ दशतिपर्यन्तः |
| २ . . . . . . . . . | ४ | २ . . . . . . . . | १ जातवेदसं इत्यारभ्य [शेषपर्यन्तः |
| ३ . . . . . . . . . | ३ | ३ . . . . . . . . | ३ |
| ४ . . . . . . . . . | ५ | ४ . . . . . . . . | २ |
| ५ . . . . . . . . . | ६,७ | ५ . . . . . . . . | ४ |
| ६ . . . . . . . . . | ८ | ६ . . . . . . . . | ५ कियदंशः |
| ७ . . . . . . . . . | ६ | ७ . . . . . . . . | ५ कियदंशः |
| ८ . . . . . . . . . | १० | ८ . . . . . . . . | ६ |
| ९ . . . . . . . . . | ११ | ९ . . . . . . . . | ७ |
| १० . . . . . . . . . | १२ | १० . . . . . . . . | ८ |
| ११ . . . . . . . . . | १३ | ११ . . . . . . . . | ६ |
| १२ . . . . . . . . . | २३ | १२ . . . . . . . . | १० |
| १३ . . . . . . . . . | १४ | १३ . . . . . . . . | ११ |
| १४ . . . . . . . . . | १५ | १४ . . . . . . . . | १२ |
| १५ . . . . . . . . . | ३७ | १५ . . . . . . . . | १४ |
| १६ . . . . . . . . . | २४ | १६ . . . . . . | भाष्यधृतमूले नास्ति । |
| १७ . . . . . . . . . | २५ | १७ . . . . . . . . | ४३ |
| १८ . . . . . . . . . | २२ | १८ . . . . . . . . | ४४ |
| १९ . . . . . . . . . | २६ | १९ . . . . . . . . | १५ |
| २० . . . . . . . . . | २७ | २० . . . . . . . . | १६ |
| २१ . . . . . . . . . | २८ | २१ . . . . . . . . | ४१ |
| २२ . . . . . . . . . | २६ | २२ . . . . . . . . | १८ |
| २३ . . . . . . . . . | ३० | २३ . . . . . . . . | १२ |
| २४ . . . . . . . . . | ३१ | २४ . . . . . . . . | १६ |
| २५ . . . . . . . . . | ३२ | २५ . . . . . . . . | १७ |
| २६ . . . . . . . . . | ३४,३५ कियदंशः | २६ . . . . . . . . | १६ |
| २७ . . . . . . . . . | ३५ कियदंशः | २७ . . . . . . . . | २० |
| २८ . . . . . . . . . | मूलपुस्तके नास्ति | २८ . . . . . . . . | २१ |
| २९ . . . . . . . . . | ३८ कियदंशः | २९ . . . . . . . . | २२ |
5 T
( ६१२ )
| भाष्यसम्मतनुवाकाङ्काः | मूलपुस्तक सम्मतानूवाकाङ्काः | मूलपुस्तकसंमंतानूवाकाङ्कः | भाष्यसम्मतनुवाकाङ्काः |
|---|---|---|---|
| ३० | ३६ कियदंशः | ३० | २३ |
| ३१ | ३८ कियदंशः | ३१ | २४ |
| ३२ | ३६ कियदंशः | ३२ | २५ |
| ३३ | ६६ कियदंशः | ३३ | भाष्यधृतमूले नास्ति |
| ३४ | ६६ कियदंशः | ३४ | २६ कियदंशः |
| ३५ | ६६ कियदंशः | ३५ | २६, २७ कियदंशः |
| ३६ | ७० * | ३६ | ३० कियदंशः |
| ३७ | ७४ | ३७ | १५ |
| ३८ | ७१ | ३८ | ४८ |
| ३६ | ४१ | ३६ | ४६ |
| ४० | ४२ कियदंशः | ४० | ५० कियदंशः |
| ४१ | ४२ कियदंशः | ४१ | ३६ |
| ४२ | ४३ | ४२ | ४०–४१ |
| ४३ | १७ | ४३ | ४२ |
| ४४ | १८ | ४४–६४ | भाष्यधृतमूले न सन्ति |
| ४५ | १६ | ६५ | ५१, ५२, ५३, ५४ |
| ४६ | २० | ६६ | ५५, ५६, ५७, ५८, ५६ कियदंशः |
| ४७ | २१ | ६७ | भाष्यधृतमूले नास्ति |
| ४८ | ३८ | ६८ | २६ कियदंशः |
| ४६ | ३८ | ६६ | ३२, ३३, ३४, ३५ त्यक्तातिरिक्तपदाः |
| ५० | ४० कियदंशः | ७० | ३६ * |
| ५१ | ६५ कियदंशः | ७१ | ३८ |
| ५२ | ६५ कियदंशः | ७२, ७३ | भाष्यधृतमूले न स्तः |
| ५३ | ६५ कियदंशः | ७४ | ३७ |
| ५४ | ६५ कियदंशः | ७५–७७ | भाष्यधृतमूले न सन्ति |
| ५५ | ६६ कियदंशः | ||
| ५६ | ६६ कियदंशः |
* भाष्यकारधृतं ब्रह्माणि म आत्मामृतलयेति वाक्यं मूलपुस्तके न दृश्यते ।
( ६१३ )
| भाष्यसम्मतानुवाकाङ्काः । | मूलपुस्तकसम्मतानुवाकाङ्काः । | मूलपुस्तकसम्मतानुवाकाङ्काः । | भाष्यसम्मतानुवाकाङ्काः । |
|---|---|---|---|
| ५७ . . . . . . . . . . | ६६ कियदंशः | ७८ . . . . . . . . . . | ६२ |
| ५८ . . . . . . . . . . | ६६ कियदंशः | ७९ . . . . . . . . . . | ६३ |
| ५९ . . . . . . . . . . | ६६ कियदंशः | ८० . . . . . . . . . . | ६४ |
| ६० . . . . . . . . . . | ६५ कियदंशः | ||
| ६१ . . . . . . . . . . | मूलपुस्तके नास्ति | ||
| ६२ . . . . . . . . . . | ७८ | ||
| ६३ . . . . . . . . . . | ७९ | ||
| ६४ . . . . . . . . . . | ८० |
मूलस्य पञ्चदशानुवाकात्परं योऽनुवाको वर्त्तते नैष भाष्यकारेण धृतः । तद्यथा—
निध॑नपतये॒ नम॑: । निध॑नप॒तान्ति॑काय॒ नम॑: । ऊ॒र्ध्वाय॒ नम॑: । ऊ॒र्ध्वलि॑ङ्गाय॒ नम॑: । हिर॑ण्याय॒ नम॑: । हिर॑ण्यलिङ्गाय॒ नम॑: । सु॒वर्णा॑य॒ नम॑: । सु॒वर्ण॑लिङ्गाय॒ नम॑: । दि॒व्याय॒ नम॑: । दि॒व्यलि॑ङ्गाय॒ नम॑: । भ॒वाय॒ नम॑: । भ॒वलि॑ङ्गाय॒ नम॑: । श॒र्वाय॒ नम॑: । श॒र्वलि॑ङ्गाय॒ नम॑: । शि॒वाय॒ नम॑: । शि॒वलि॑ङ्गाय॒ नम॑: । ज्व॒लाय॒ नम॑: । ज्व॒ललि॑ङ्गाय॒ नम॑: । आ॒त्माय॒ नम॑: । आ॒त्मलि॑ङ्गाय॒ नम॑: । प॒र॒माय॒ नम॑: । प॒र॒मलि॑ङ्गाय॒ नम॑: । ए॒तत् सो॑मस्य॑ सूर्य्य॑स्य॒ सर्व॑लिङ्गँ॑ स्था॒पय॑ति॒ पा॒णिमन्त्रँ॑ प॒वित्र॑म् ॥ अनु० १६ ॥
5 T 2
६१४ तैत्तिरीये आरण्यके
मूलस्य द्वात्रिंशदनुवाकात्परम् ओमित्येकाक्षरं ब्रह्मेत्यादि सायुज्यं विनियोगमित्यन्तस्त्रयस्त्रिंशदनुवाको भाष्यकारेण न धृतः। तद्यथा—
ओमित्येका॒क्षरं॒ ब्रह्म॑ । अ॒ग्निर्देवता॒ ब्रह्म॑ इत्या॒र्षम् । गाय॒त्रच्छन्दं॑ परमा॒त्मं स॒रूपं॑ । सायु॒ज्यं वि॑नि॒योगं॑ ॥ अनु० ३३ ॥
भाष्यकारस्य षड्विंशोऽनुवाको मूले चतुस्त्रिंशदनुवाकांशत्वेन पञ्चत्रिंशदनुवाकांशत्वेन च सम्पादितः। पञ्चत्रिंशानुवाकस्य ॐ भूरित्यादि शेषभागो भाष्यकारेण सप्तविंशानुवाकत्वेन निष्पादितः। तदेतदनुवाकौ पूर्णौ यथा—
आया॑तु॒ वर॑दा दे॒वी॒ अक्ष॑रं ब्रह्म॒ सम्मि॑तं । गाय॒त्री छन्द॑सां मा॒तेदं ब्रह्म॑ जु॒षस्व॑ मे । यदह्ना॑त् कुरु॑ते पा॒पं॒ तदह्ना॑त् प्रति॒मुच्य॑ते । यद्रात्र्या॑त् कुरु॑ते पा॒पं॒ तद्रात्र्या॑त् प्रति॒मुच्य॑ते । सर्व॑वर्णे म॑हादे॒वि॒ सन्ध्या॑विद्ये स॒रस्व॑ति ॥ अनु० ३४ ॥
ओजो॑ऽसि॒ सहो॑ऽसि॒ बल॑मसि॒ भ्राजो॑ऽसि दे॒वानां॒ धाम॒नामा॑सि॒ विश्व॑मसि वि॒श्वायुः॒ सर्व॑मसि सर्वा॒युर॒भिभूरों गाय॒त्रीमावा॑हयामि सावि॒त्रीमावा॑हयामि