भारतकोश
संग्रह पर लौटें

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

१५० (१.३.७) तैत्तिरीयब्राह्मणम् बस्ताजिने वामपादप्रक्षेपं विधातुं प्रस्तौति- पु॒ष्ट्यै वा ए॒तद्रू॒पम् । यद॒जा । त्रिः सं॒व॒त्स॒रस्या॒न्यान्प॒शून्परि॒प्रजा॑यते, इति । संवत्सरे सकृत्प्रसवोपेतानन्यान्गावादिपशून्परित्यज्यसंवत्सरे त्रिरपत्यानि प्रसूतेऽतोऽस्याः पुष्टिरूपत्वम्। विधत्ते- ब॒स्ता॒जि॒नम॒ध्यर्व॑रोहति । पुष्ट्या॑मे॒व प्र॒जन॑ने॒ प्रति॑तिष्ठति (७), इति । परि॑धापय॑ति गोधूमा॑ जुहो॑ति॒ स्वं नैति॑ प्रत्यञ्चं॑ घ्नन्ति लो॒को नव॑ च । अथ विनियोगसंग्रहः- क्षत्रतार्प्यं क्षत्रदार्भ्यं परिधत्तोऽथ दंपती । जाय स्वाभ्याह्वयेद्धार्या रोहा तं प्रतीवक्ति सा ॥ अहं स्वाम्याहवाजश्च जुहुयाद् द्वादशाऽऽहुतीः । आयुर्दशभिरारोहेत्स्वयं बाहूद् ग्रहः सुवः ॥ सं भुवं प्रेक्षतेऽन्नाय चतुर्भिस्तु महर्त्विजः । दिग्भ्यो घन्त्यासपुटकैरमृत्पुष्टिद्वयात्पदे । स्वर्णवस्तत्वचोर्द्द्यात्पञ्चत्रिंशत्विहोदिताः ॥ (इति) । अथ मीमांसा । दशमाध्यायस्य चतुर्थपादे चिन्तितम्- तार्प्यमहतवस्त्रस्य बाधकं स्यान्न वाऽग्रिमः । गुह्याच्छादनकार्यैक्यादयोग्यत्वात्समुच्चयः ॥ इति । महाव्रते श्रूयते-तार्प्यं यजमानः परिधत्ते दर्भमयं पत्नीति । प्रकृतावहतं वासः परिधत्त इति । घृतार्क्तं वस्त्रं तार्प्यमित्युच्यते । ताभ्यां तार्प्यदर्भमयाभ्यां दंपत्योरहतं वस्त्रं बाध्यते । कुतः । परिधत्ते इत्यनेन प्रकृतिलिङ्गेन गुह्याच्छादनलक्षणस्य कार्यस्यैकत्वावगमात् । मैवम् । तार्प्यदर्भमयमयोर्मुखमाच्छादयितुमयोग्यत्वात् । परिधानं त्वत्रोपरितनं प्रावरणम् । तत्कार्यभेदा त्समुच्चयः । तृतीयाध्यायस्य प्रथमपादे चिन्तितम्-

तैत्तिरीयब्राह्मणम् (१.३.७) १५१ भवेत्सप्तदशारत्निर्वाजपेयस्य यूपकः । उन्मानं द्रव्यगं वाजपेयस्याङ्गं पशोरुत ।। आनन्तर्यात्प्रकरणात्कर्माङ्गं षोडशिन्यदः । ऊर्ध्वपात्रे खादिरेऽग्रे संयुज्यान्वेति कर्मणा ।। यूपद्वारा पशोरङ्गं पशुद्वारा च कर्मणः। सौमिकत्वाद्वाजपेये यूपो नास्ति पशुं विना ।। (इति) । वाजपेयप्रकरणे श्रूयते सप्तदशारत्निर्वाजपेयस्य यूपो भवतीति । अत्र यूपद्रव्यगतं सप्तदशारत्निशब्दोदितं यदूर्ध्वमानं तद्वाजपेयकर्मणोऽङ्गम् । सप्तशारत्निशब्दवाजपेयशब्दयोरानन्तर्यात् । प्रकरणं चैक्यमनुगृह्यते । यदि कर्मणः साक्षादूर्ध्वं मानं न संभवत्तर्हि वाजपेयगतं खादिरमूर्ध्वं यत्षोडशिपात्रं तस्मिन्नेद उन्मानं संबध्य तद्द्वारा कर्मणाऽन्वेतीति प्राप्ते ब्रूमः । सप्तदशारत्निर्यूप इति सामानाधिकरण्याद्यूपेन साक्षात्संबध्यते । तस्य च यूपस्य पश्वङ्गत्वान्दुन्मानं यूपद्वारा पशोरङ्गं भवति । तस्यापि पशोर्वाजपेयाङ्गत्वात्पशुद्वारा कर्मणोऽङ्गम् । यद्यपि वाजपेययूपशब्दयोरानन्तर्यमस्ति तथाऽपि वाजपेयस्य सोमयागतया साक्षाद्यूपसंबन्धाभावात्पशुव्यवधानमभ्युपेयम् । वाजपेयस्येति षष्ठ्याः संबन्धमात्रवाचित्वेन व्यवहितसंबन्धमप्यसावभिधत्ते । देवदत्तस्य नप्तृप्रयोगवत् । यत्सप्तदशारत्निवाजपेयशब्दयोरानन्तर्यं यच्च प्रकरणं तदुभयं न विरुद्धम् । पश्वङ्गत्वेऽप्यन्ततो वाजपेयाङ्गत्वांगीकारात्। किंच पूर्वपक्षे यूपशब्देन षोडशिपात्र लक्षणीयम् । सिद्धान्ते तु नासौ दोषः । तत्रैवाष्टमपादे चिन्तितम्- वाचयेत्स्वामिनंज्ञानौवाचनीयो ज्ञ एव वा । अविशेषादुभौ ज्ञस्य स्वामित्वान्द्वाचयेदमुम् ।। (इति) । वाजपेये श्रूयते-कॢप्तीर्यजमानं वाचयतीति । आयुर्यज्ञेन कल्पतामि त्यादयो मन्त्राः कॢप्तयः । तत्र मन्त्रतदर्थाभिज्ञमनभिज्ञं चोभावपि वाचयेत् । विद्वांसं वाचयेदित्येवं विशेषस्याश्रवणात् । अनभिज्ञ तदैव शिक्षयित्वाऽपि वाचयितुं शक्यत्वादिति चेन्मैवम् । अध्ययनविधिबलादधीतवेदस्य विदितवेदार्थस्यैव यजमानत्वात् । तस्मादभिज्ञमेव वाचयेत् । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके तृतीयाध्याये सप्तमोऽनुवाकः ।। ७ ।।

१५२ (१.३.८) तैत्तिरीयब्राह्मणम् अथ तृतीयाध्यायेऽष्टमोऽनुवाकः । नवमे यूपारोहणमुक्तम् । दशमेऽन्नहोमा उच्यन्ते । कल्पः - “अथास्यैतत्पुरस्तादौदुम्बरे द्रौणे सर्वौषधमाज्येन समुदाययुतं भवति तस्यौदुम्बरेण । स्रुवेणोपघातं सप्तन्नहोमाञ्जुहोति वाजस्येमं सोममिति ” इति । तत्रेयमृक्प्रथमा- वाज॑स्ये॒मं प्रस॑वः सु॑षुवे॒ अग्रे॒ सोम॒ ँराजा॑नम॒ोषधी॑ष्व॒प्सु । ता अ॒स्मभ्यं॒ मधु॑मतीर्भवन्तु व॒य ँ राष्ट्रे जा॑ग्रियाम पुरोहि॑ताः, इति । वाजस्यान्नस्योत्पादकः परमेश्वर ओषधीष्वप्सु च सारभूतमिमं सोमं वल्लीरूपं राजानं दीप्तिमन्तं पदार्थमग्रे सृष्ट्यादौ , सुषुव उत्पादयामास । ताश्चौषधय आपश्चास्मदर्थं मधुमतीर्माधुर्योपेता भवन्तु । वयमप्यस्मिन्द्राष्ट्रेपुरोहिता यागानुष्ठानादौ पुरोगामिणो जाग्रियाम जागरूका भूयास्म । अथ द्वितीया- वाज॑स्ये॒दं प्रस॑व॒ वा ब॑भूवे॒मा च॒ विश्वा॒ भुव॑नानि स॒र्वत॑ः । स वि॒राजं॒ पर्ये॑ति प्रजा॒नन्प्र॒जां पुष्टिं॑ वर्धय॑मानो अ॒स्मे, इति । वाजस्य प्रसवः परमेश्वर इदमनुष्ठीयमानं कर्माऽऽबभूव : भावितवानुत्पादितवान् । इमानि सर्वाणि भुवनानि सर्वत उत्पादितत्वात् स परमेश्वरोऽस्मे अस्मदर्थं प्रजां पुष्टिं च वर्धयमानः प्रजानन्नस्मदभिप्रायं प्रकर्षेण जानानो विराजं हूयमानमन्नं पर्येति सर्वतः प्राप्नोतु । अन्नं वै विराडिति श्रुतिः । अथ तृतीया- वाज॑स्ये॒मां प्रस॑वः शि॑श्रिये॒ दिव॑मि॒मा च॒ विश्वा॒ भुव॑नानि स॒म्राट् । अद॑त्सन्तं दापयतु प्रजा॒नःर॒यिं च॑ नः स॒र्ववी॑रां॒ निय॑च्छतु, इति, वाजस्य प्रसव ईश्वर इमां दिवाभिमानि चान्यानि सर्वाणि भुवनानि शिश्रिय आश्रितवान् सर्वेषां च भुवनानां राजा भूत्वाऽदत्सन्तं हविर्दातुमनिच्छन्तं मां प्रजानन्मदीय बुद्धिप्रेरणेन हविर्दापयतु । ततो नोऽ स्मभ्यं सर्ववीरां पुत्रभृत्यादयः सर्वे वीरां यस्याः सा सर्ववीरा तादृशीं रयिं धनं स नियच्छतु नियमेन ददातु । अथ चतुर्थी- अग्ने॒ अच्छा॑ वदे॒ह नः॒ प्रति॑ नः सु॒मना॑ भव । प्र णो॑ यच्छ भुवस्पते ध॒न॒दा असि॑ नृ॒त्स्वम्, इति । हेऽग्ने इहास्मिन्कर्मणि नोऽस्माकमच्छाऽऽभिमुख्येन वद हितं कथय । नोऽस्मान्प्रति सुमनाः करुणार्द्रचित्तो भव । हे भुवस्पते भूमिपते

तैत्तिरीयब्राह्मणम् (१.३.८) १५३ नोऽस्मभ्यं प्रकर्षेण यच्छ धनं देहि । यस्मात्त्वमस्मत्स्वामी सन्नोंऽस्मभ्यं धनदा असि । अथ पञ्चमी । प्रणो॑ यच्छत्व॒र्यमा प्र भगः॒ प्र बृह॒स्पति॑: । प्र दे॒वाः प्रोत सूनृता॒ प्र वाग्दे॒वी द॑दातु नः, इति । षड्भिः प्रशब्दैः प्रयच्छत्विति प्रददात्वित्यन्वये सत्येतानि षड्वाक्यानि भवन्ति । अर्यमभगबृहस्पतयो देवेषुत्तमत्वाद्विप्रपरिव्रा- जकन्यायेन पृथङ् निर्दिश्यन्ते । तेभ्योऽन्ये त्वत्र देवशब्देनोच्यन्ते । ते सर्वे नोऽस्मभ्यं धनं प्रयच्छन्तु । उतापि च सूनृता प्रियवागभिमानिनी देवता या चान्यवाङ् मात्राभिमानिनी देवता ते उभे धनं प्रयच्छताम् । अथ षष्ठी- अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॑ दाना॑य चोदय । वाचं॒ विष्णुं॑ ँसरस्वतीं॑ स॒वितारं॑ च वा॒जिन॑म्, इति । हे ईश्वर पुनरस्मभ्यं दातुं धनस्य दानायार्यमादींश्चोदय प्रेरय । वाक्सरस्वत्योः पूर्वोक्तसूनृतावाचोरिव भेदो द्रष्टव्यः । वाजिनमन्नाधिपतिम् । अथ सप्तमी- सोमं॑ ँराजा॑नं॒ वरु॑णम॒ग्निमन्व॑ारभामहे । आ॒दि॒त्यान्विष्णुं॑ ँसूर्यं॒ ब्रह्माणं॑ च॒ बृह॒स्पति॑म्, इति । वयं सोमराजादीन्प्रथमत्तः कर्मारम्भकाननुसृत्य पश्चादारभामहेऽतस्ते सर्वेऽनुगृह्णन्तु विधत्ते - स॒प्तान्न॑हो॒माञ्जु॑होति । स॒प्त वा अन्ना॑नि । याव॑न्त्ये॒वान्ना॑नि । तान्ये॒वाव॑रुन्धे । स॒प्त ग्रा॒म्या ओष॑धयः । स॒प्ताऽऽर॒ण्याः॑ । उ॒भयी॑षा॒मव॑रुद्ध्यै, इति । अन्नहेतूनामोषधीनां सप्तत्वात्तत्कार्याणामन्नानामपि सप्तत्वम् । ओषधीनां सप्तत्वमापस्तम्बोऽग्निचयने दर्शयति-तिलमाषव्रीहियवाः प्रियङ्गवोऽणवो गोधूमा वेणुः श्यामाका नीवारा जर्तिलाश्च गवीधुका अरण्यजा मर्कटका विज्ञेया गार्मतसप्तमाः कुलत्थसप्तमा वा सप्त ग्राम्याः कृष्टे सप्ताऽऽरण्या अकृष्ट इति । एकैकस्यान्नस्य पृथगेव होमं विधत्ते- अन्न॑स्यान्नस्य जुहोति । अन्न॑स्यान्न॒स्याव॑रुद्ध्यै, इति । इयं पक्षमापस्तम्बो -दर्शयति-“वाजपसवीयं जुहोति सप्त ग्राम्या ओषधयः सप्ताऽऽरण्याः पृथगन्नानि द्रवीकृत्यौदुम्बरेण स्रुवेण वाजस्येमं प्रसवः सुषुव इति ग्राम्याणि हुत्वाऽऽरण्यानि जुहोति" इति ।

१५४ (१.३.८) तैत्तिरीयब्राह्मणम् इदानीं बोधायनाभिमतं सर्वाण्येकीकृत्य होमं विधत्ते- यद्वा॑जपेयया॒ज्यन॑वरुद्धस्या॒श्नीया॑त् (१) । अवरु॑द्धेन व्यृ॑ध्येत । सर्व॑स्य सम॒वदा॑यं जुहोति । अन॑वरुद्धस्याव॑रुद्ध्यै, इति । होमकाले यदन्नमवरुद्धं स्वीकृतं तदुपेक्ष्य यदस्वीकृतं वाजपेययाजी कालान्तरेऽश्नीयात् । तदानीमुपेक्षितेन यागकालींनानन्नेनासौ वियुक्तो भवेदतः सर्वमेकीकृत्य होमे सर्वस्यापि यागकाले स्वीकृतत्वेन दोषापादकमस्वीकृतं किंचिन्न भवेदतोऽस्वीकृतस्य सर्वस्यापि यागकाले स्वीकाराय मिलित्वा होम इत्यर्थः । होमे साधनविशेषं विधत्ते- औदुम्बरेण स्रुवेण॑ जुहोति । ऊर्जा अन्नमुदुम्बरः॑ । ऊर्ज॑ ए॒वान्नाद्य॒स्याव॑रुद्ध्यै, इति । ऊर्जा अन्नं वहप्रदमेवान्नमत्त एव देशविशेषे बह्वद्यते । कल्पः-“अथ यजमानायतने कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमा ऽऽस्तृणाति तद्यजमानं प्राञ्चमुपवेश्य सुवर्णरजताभ्यां रुक्माभ्यां पर्युपास्य पुरस्तात्प्रत्यञ्चमभिषिञ्चति । शीर्षतोऽभिषिञ्चत्यामुखादन्ववस्त्रा- वयति । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्या॒ ऽ सर॑स्वत्यै वा॒चो य॒न्तुर्यन्त्रे॑णा॒ग्नेस्त्वा॒ सा॒म्राज्ये॑ना॒भिषि॑ञ्चामीन्द्र॑स्य त्वा बृह॒स्पते॑स्त्वा॒ सा॒म्राज्ये॑ना॒भिषि॑ञ्चामि इति । अत्रेन्द्रस्येत्यस्मिन्मध्यममन्त्रेऽ नुषङ्गसूचनायानाम्नातोऽपि त्वाशब्दः सूत्रकारेण पठितः । देवस्य त्वेत्यादिर्व्याख्यातः । या सरस्वती वाग्विशेष देवता या च वाक्शब्दाभिहिता वाक्सामान्यदेवता यश्चान्तर्यामी यन्तृशब्दवाच्यो योऽप्यग्निस्तेजप्रदस्तेषां यन्त्रेण नियमनेनानुज्ञया साम्राज्यनिमित्तं त्वामभिषिञ्चामि । इन्द्रस्येत्येतावानेवाऽऽम्नातो द्वितीयो मन्त्रः । स च पूर्वोत्तरभागयोरनुषङ्गेण व्याख्यातव्यः । बृहस्पतेरित्यादौ तृतीयमन्त्रे पूर्वभागोऽनुषञ्जनीयः । देवस्य त्वेत्येतस्मिन्मन्त्रभागे प्रसवपदाभिप्रायमाह-

तैत्तिरीयब्राह्मणम् . (१.३.८) १५५ दे॒वस्य॑ त्वा सवि॒तुः प्रस॑व इत्या॑ह । स॒वि॒तृप्र॑सव ए॒वैनं॑ ब्रह्म॑णा दे॒वता॑भिर॒भिषि॑ञ्चति, इति । 'ब्रह्मणा मन्त्रेण प्रतिपाद्याभिरिति शेषः । सर्वौषधिरसमभिषेकद्रव्यत्वेन विधत्ते- अन्न॑स्यान‍्नस्यान॒भिषि॑ञ्चति । अन्न॑स्यान‍्नस्यान॒वरु॑द्ध्यै (२), इति । प्रकारविशेषं विधत्ते- पु॒रस्ता॑त्प्रत्य॒ञ्चम॒भिषि॑ञ्चति । पु॒रस्ता॒द्धि प्रती॑चीन॒मन्न॑म॒द्यते॑ । शीर्ष॒तोऽभिषि॑ञ्चति । शीर्ष॒तो ह्य॒न्न॑म॒द्यते॑, इति । आसपुटघातविषयवाक्यवद्व्याख्येयम् । गुणान्तरं विधत्ते- आमु॒खाद॒न्व॑वस्रावयति । मुख॑त ए॒वास्मा॒ अन्ना॒द्यं॑ दधाति, इति । शिरस आरभ्याऽऽनुलोम्येन मुखपर्यन्तमोवावस्रावयेन्नत्वधः। मन्त्रेष्वग्नीन्द्रबृहस्पतिशब्दतात्पर्यं व्याचष्टे- अ॒ग्ने॑स्त्व॒ साम्रा॑ज्ये॒नाभिषि॑ञ्चामीत्या॑ह । ए॒ष वा अ॒ग्नेः॑ स॒वः । तेनैवैन॑म॒भिषि॑ञ्चति । इन्द्र॑स्य त्वा॒ साम्रा॑ज्येनाभिषिँ॑ञ्चामीत्या॑ह (३) । इ॒न्द्रि॒यमे॒वास्मि॑न्ने॒तेन॑ दधाति । बृह॒स्पते॑स्त्व॒ साम्रा॑ज्ये॒नाभिषि॑ञ्चामीत्याहं । ब्रह्म॑ वै दे॒वानां॒ बृह॒स्पतिः॑ । ब्रह्म॑णैवैन॑म॒भिषि॑ञ्चति, इति । एष औषधिरसः । अग्नेः सवोऽग्निना प्रेरितः । अतोऽ ग्निशब्दमुच्चारयन्नग्निसंबन्धेन तेनैव रसनाभिषिञ्चति । एष वा इन्द्रस्य सवो बृहस्पतेः सब इत्यनुसंधेयम् । विधत्ते- सो॒म॒ग्र॒हा॒ ᳵ श्चा॑वदानी॒यानि॑ च॒र्त्विग्भ्य॒ उप॑हरन्ति ।

१५६ (१.३.८) तैत्तिरीयब्राह्मणम् अ॒मुमे॒व तैर्लो॒कमन्न॑वन्तं करोति । सुराग्रहा ँ श्चानवदानीया॑नि च वाज॒सृद्भ्यः॑। इ॒ममे॒व तैर्लो॒कमन्न॑वन्तं करोति । अथो उभ॑यीष्वे॒वाभिषि॑च्यते, इति । पशोर्यान्यवदानीयानि हृदयादीनि हृदयस्याग्रेऽवद्यतीत्यादिश्रुतेः, तानीडायामवत्तानि सोमग्रहांश्चर्त्विग्भ्यः प्रयच्छेत् । शिरआ- दीन्यनवदानीयानि न शीर्षेणोऽवद्यति नांसयोरित्यादिश्रुते, तानि सुराग्रहांश्च वाजसृद्भ्यो रथान्तरैः षोडशभिराजिधावनं कृतवद्भ्यो वैश्येभ्यः प्रयच्छेत् । एवं सत्युभयीषु दैवीषु मानुषीषु च प्रजास्वयमभिषिक्तो भवति । विधत्ते- वि॒मा॒थं कु॑र्वते वाज॒सृतः॑ (४)। इन्द्रि॒यस्याव॑रुद्ध्यै इति । विशेषेण मथनमालोडनं कलहो विमाथः । या (पा ?) नवश्यनटनायाभिनयं विमाथं कुर्युः । सवनत्रये स्तोत्रेषु ऋग्विशेषं विधत्ते- अर्निरुक्ताभिः प्रातःसवने स्तु॑वते । अनि॑रुक्तः प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै॑ । वाज॑वतीभि॒र्माध्यं॑दिने अन्नं॒ वैवाजः॑ । अन्न॑मे॒वाव॑रुन्धे । शि॒पि॒वि॒ष्टव॑तीभिस्तृतीयसवने । य॒ज्ञो वै विष्णुः॑ । प॒शवः॒ शिपि॑ः। य॒ज्ञ एव प॒शुषु॒ प्रति॑तिष्ठति, इति । अनिरुक्ताभिरव्यक्तदेवताकाभिर्ऋग्भिः साकल्येन तन्महिम्नो वक्तुमशक्यत्वात् । प्रजापतिरनिरुक्तः । वाजशब्दोपेता ऋचो वाजवत्यः, शिपिविष्ट शब्दोपेताश्चर्चः शिपिविष्टर्व्यस्ताः सर्वाः सामवेदे द्रष्टव्याः । विष्टशब्दो विष्णुपर्यायः सन्नत्र फलव्यापिनं यज्ञमाचष्टे शिपिशब्दः पशुवाची । अतः शिपिविष्टवतीभिरृग्भिर्यज्ञे पशुषु च प्रतितिष्ठत्येव। सामविशेषं विधत्ते- बृहदन्तं भवति । अन्त॑मे॒वैनं॑'"श्रियै गम॑यति (५), इति । अश्नीयादन्नस्यानन्स्यावरुद्ध्या इन्द्रस्य त्वा॒ साम्राज्येनाभि॒- षि॒ञ्चामीत्योह वाज॒सृतः शिपिस्त्रीणि च ।

तैत्तिरीयब्राह्मणम् (१.३.९) १५७ अन्तिमस्य स्तोत्रस्य यदन्त्यं साम तद् बृहद्द्रायेत् । तेन साम्नैनं यजमानं श्रियै संपत्तिसिद्धये यज्ञस्य समाप्तिं प्रापितवान्भवति । अत्र विनियोगसंग्रहः- वाजः सप्तभिरन्नस्य होमो देवयुजस्त्रयात् । अभिषिञ्चेत्स्वामिनं तं दश मन्त्रा इहोदिताः ॥ इति । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे तृतीयाध्यायेऽष्टमोऽनुवाकः ॥ ८ ॥ अथ तृतीयाध्याये नवमोऽनुवाकः । दशमेऽन्नहोम उक्तः । एकादश उज्जतिमंत्रा उच्यन्ते । कल्पः-“अथ यजमानमन्वास्थायाज्जितीर्वाचयत्यग्निरेकाक्षरेण वाचमुजयदिति सप्तदश” इति । पाठस्तु- अ॒ग्निरेका॑क्षरेण॒ वाच॒मुद॑जयद॒श्विनौ॒ द्व्यक्ष॑रेण प्रा॒ण॒पा॒नावुद॑जयतां विष्णू॒स्त्र्यक्ष॑रेण॒ त्रीँल्लो॒कानुद॑जय॒त्सोम॑श्चतु॒रक्ष॑रेण॒ चतु॑ष्पदः प॒शूनुद॑जयत्पू॒षा पञ्चाक्ष॑रेण प॒ङ्क्तिमुद॑जयद्धा॒ता षडक्ष॑रेण षड्ऋ॒तूनुद॑जयन्म॒रुतः॑ स॒प्ताक्ष॑रेण स॒प्तप॑दाँ२ शक्करी॒मुद॑जय॒न्बृह॒स्पति॑र॒ष्टाक्ष॑रेण गा॒य॒त्रीमुद॑जयन्मि॒त्रो नवाक्ष॑रेण त्रि॒वृत्ँ२स्तो॒ममुद॑जय॒द्वरु॑णो दशाक्ष॑रेण वि॒राज॒मुद॑जय॒दिन्द्र॑ एकादशाक्ष॑रेण त्रि॒ष्टुभ॒मुद॑जय॒द्विश्वे॑ दे॒वा द्वाद॑शाक्षरेण जग॑ती॒मुद॑जय॒न्वस॑वस्त्रयोदशाक्ष॑रेण त्रयोद॒शँ२स्तो॒ममुद॑जय- न्रु॒द्राश्च॑तुर्दशाक्ष॑रेण चतुर्द॒शँ२स्तो॒ममुद॑जय॒न्नादि॒त्याः प॑ञ्चदशाक्ष॑रेण पञ्चद॒शँ२स्तो॒मममुद॑जय॒न्नादि॑तिः षोड॑शाक्षरेण षोड॒शँ२ स्तो॒ममुद॑जयत्प्र॒जाप॑तिः सप्तदशाक्ष॑रेण सप्तद॒शँ२स्तो॒ममुद॑जयत्, इति । आश्रावयेत्यादिके सप्तदशाक्षरे मन्त्रसंघ एकेकाक्षरवृद्ध्या तत्तन्मन्त्रं पठित्वा तत्सामर्थ्यादग्न्यादयो वागादीनुदजयन् । अथवा विध्यन्तर एकाक्षरो मन्त्रशास्त्रप्रसिद्ध्या वाऽग्निबीजं (?) तेनैकाक्षरेण मन्त्रेणाग्ने र्वाग्जयः । द्व्यक्षरेणाजपामन्त्रेण प्राणापानात्मकेनाश्विनोः प्राणापानोजयः । एवमन्येऽपित्र्यक्षरादिमन्त्रा यथायोगमुन्नेयाः मन्त्राक्षरसंख्यानुसारेण लोकत्रयादिजयो विज्ञेयः। त्रिवृत्स्तोमगतानामृचां नवसंख्योपेतत्वात्तज्जयो द्रष्टव्यः । त्रयोदशस्तोमादावपि तिसृणामृचाममावृत्तिशेषेण तत्तत्संख्या द्रष्टव्या । एंत दुज्जितिविधिस्तु ता वा एता उज्जितयो व्याख्यायन्त इत्येतादृशः . पूर्वमेवास्माभिर्व्याख्यातः सोऽयमत्रोत्कर्षणीयः । अत्र विनियोगसंग्रहः- अग्निः सप्तदशाऽऽम्नाता उज्जितीर्वाचयेदम् । यजमानं रथेष्ठेषु धावत्स्वध्वर्युरादरात् ॥ इति । ।।

१५८ (१.३.९) तैत्तिरीयब्राह्मणम् इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके तृतीयाध्याये नवमोऽनुवाक ॥ ९ ॥ एकादश उज्जितिमन्त्रा उक्ताः । द्वादशेऽतिग्राह्यमन्त्रा उच्यन्ते । कल्पः-आग्रयणं गृहीत्वा॑ पञ्चैन्द्रानतिग्राह्यान्गृह्णात्युपयामगृहीतोऽसि नृषदं त्वा द्रुष दमित्येताभिः पञ्चभिरिति । तत्र प्रथममन्त्रपाठस्तु - उ॒प॒या॒मगृ॑हीतोऽसि नृ॒षदं॑ त्वा द्रुष॒दं भु॑वन्‌स॒दमिन्द्रा॑य॒ जुष्टं॑ गृह्णाम्ये॒व ते॒ योनि॒रिन्द्रा॑य त्वा, इति । हे प्रथमातिग्राह्या त्वमुपयामेन पृथिव्यात्मकेन पात्रेण गृहीतोऽसि । इयं वोपयाम इति पूर्वमुदाहृतम् । मनुष्येषु वनस्पतिषु स्वामित्वेनावस्थितीन्द्राय प्रियं त्वां गृह्णामि एष खरप्रदेशस्ते स्थानं तस्मादिन्द्राय त्वाऽत्र सादयामि । एष इत्यादिः सादनमन्त्रः । नृषदमित्यादिपदाभिप्रायमाह- नृ॒षदं॒ त्वेत्या॑ह । प्र॒जा वै नॄन् । प्र॒जाना॑मे॒वैतेन॑ सूयते । द्रु॒ष॒दमित्या॑ह । वन॒स्पत॑यो॒ वै द्रु । वन॒स्पती॑नामे॒वैतेन॑ सूयते । भुव॑न्‌स॒दमित्या॑ह । य॒दा वै वसी॑या॒न्भव॑ति भुव॑नमग॒न्निति॒ वै तमा॑हुः । भुवं॑ नमे॒वैतेनं॑ गच्छति, (१) इति । नॄन्नरः- तेषु सीदतीति नृषत्तं नृषदम् एतेन यजुष्पाठेन प्रधानां मध्ये सूयते स्वामित्वेनाभिषिच्यते । यदा लोके वसीयान्धनाढ्योभवति तदा तं पुरुषं स्वामित्वेन कृत्स्नं भुवनमगनन्प्राप्तवानिति जना आहुः । अथ द्वितीयग्रहणमन्त्र- उपयामगृहीतोऽस्यप्सुषदं॑ त्वा घृत॒सदं॑ व्यो॑म॒सदमिन्द्रा॑य॒ जुष्ट॑ गृ॒ह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा, इति । पूर्ववद्व्याख्येयम् । एतदेवाभिप्रेत्य तथैव व्याचष्टे- अ॒प्सुषदं॑ त्वा घृत॒सद॒मित्या॑ह अ॒पामे॒वैनं॑ घृतस्य॑ सूयते । व्यो॑म॒सद॒मित्या॑ह । य॒दा वै अपामेवैतेनं घृतस्य सूयत व्योमसदमित्याह । य॒दा वै वसीया॒न्भवति । व्यो॑माग॒न्निति॒ वै तमा॑हुः । व्यो॑मै॒वैतेनं॑ गच्छति । इति ।

तैत्तिरीयब्राह्मणम् (१.३.९) १५९ अ॒प्सिव्त्यादिपाठेन तत्स्वामित्वेनाभिषेकः धनाद्यस्य व्योमगामित्वं नामगजाश्वारोहणम् । अथ तृतीयग्रहणमन्त्रः- उपयामगृ॑हीतोऽसि पृ॑थिविषदं॑' “त्वा॒न्तरि॑क्षसदं नाक॒सद्मिन्द्रायजुष्टं॑' गृह्णाम्येष ते॒ योनि॒रिन्द्राय त्वा, इति। पूर्ववद्व्या चष्टे- पृ॒थि॒विषदं॑ त्वा॒न्तरि॑क्षस॒दमित्या॑ह । ए॒षा मे॒वैतेन॑ लो॒कानाँ॑॑ सूयते । तस्मा॑द्वाजपेयया॒जी न कंच॒न प्रत्यव॑रोहति । अ॒पीव॑ हि दे॒वता॑ना॒ सूय॑ते । ना॒क॒सद्मित्या॑ह । य॒दा वै वसी॑या॒न्भव॑ति । नार्कं॑ मग॒न्निति॒ वै तमा॑हुः । नार्क॑मे॒वैतेन॑ गच्छति, इति । तस्मादयं वाजपेययागनाग्न्यादिदेवतानामपि मध्येऽभिषिक्तं इव भवति । अग्नेस्त्वां साम्राज्येनाभिषिञ्चामीत्यादिमन्त्रेष्वग्नीनां यत्तत्साम्राज्यं तेन निमित्तेनाभिषेकस्योक्तत्वान्न प्रत्यवरोहति । अपि तस्माद्देवतानां मध्येऽभिषिक्तत्वादेववंदेव कमपि मनुष्यं प्रति गजादिवाहनान्नाव॑रोहति नाव॑रोहेदिति विधिः । अत एवाऽऽपस्तम्ब आह-“यावज्जीवं न कंचन प्रत्यवरोहेद् बृहस्पतिसवेन वा प्रत्यवरोहणीयेन यजेत् ” इति । अथ चतुर्थग्रहणमन्त्रः ये ग्रहा॑: पञ्चजनीना॒ येषां॑ ति॒स्रः प॑रम॒जाः । दैव्य॑: को॒शः । समु॑ब्जितः । तेषां॑ विशिप्रिया॒णामिष॒मूर्जँ॑॑ सम॑ग्रभीमेष ते॒ योनि॒रिन्द्राय त्वा इति । ' येऽतिग्राह्यरूपा ग्रहाः पञ्चजनीनाः पञ्चजनेभ्यो देवमनुष्यासुररक्षोगन्धर्वेभ्यो निषादपञ्चमेभ्यो वर्णेभ्यो वा हिताः। येमामत्तिग्राह्याणां तिस्र आग्नेयेन्द्रसौर्याख्यातिग्राह्यरूपाः । परमजाः प्रकृतयः । किंच येषां प्रभावेन (ण) दैव्योदिवि भवः कोशो मेघः समुब्जितः सम्यङ्न्युब्जीकृतः . वर्षाभिमुखःकृत इत्यर्थः । विविधानि शिप्राणि हनुस्थानीयानि पात्राग्राणि तैरुपैता विशि प्रियास्तादृशानां तेषामतिग्राह्याणां पूरणायेषमन्नसदृशमूर्जं बलप्रदं सोमरसं समग्रभीं सम्यग्गृह्णामि । पञ्चजनीनशब्दाभिप्रायं दर्शयति-

१६० (१.३.१०) तैत्तिरीयब्राह्मणम् ये ग्रहाः पञ्चजनीना॒ इत्या॑ह । प॒ञ्च॒जनाना॑मे॒वैतेन॑ सूयते, इति । एतेन मन्त्रपाठेन निषादपञ्चमानां वर्णानां स्वामित्वेनाभिषिच्यते । अथ पञ्चमग्रहणमन्त्रः- अपाꣳरस॒मुद्वय॑स॒ꣳसूर्य॑रश्मिꣳसमाभृ॑तम्। अपाꣳरस॑स्य॒ यो रस॒स्तं वो॑ गृह्णाम्युत्तम॒मेष ते योनिरिन्द्राय॑ त्वा, इति । हेऽतिग्राह्यावो युष्मत्कं मध्य उत्तमं चरमं ग्रहंतं तथाविधं गृह्णामि । किं विधम् । अपां रसम् । उदकस्यैव सोमरसत्वेन परिणामात् । उद्भूतं वयोऽन्नं जीवनं वा यस्य तमुद्वयसम् । सोमरसो ह्यन्नभूतो जीवनहेतुश्च । अपाम सोमममृताअभूमेत्युक्तत्वा । सूर्य (र्यो?) रश्मिः परिपाकहेतुर्यस्य सं सूर्यरश्मिम् । वृष्टिक्किन्ना ओषधय आतपेन पच्यन्तऽन्यथा वृष्ट्याधिक्येनपूयेयुः समाभृतं गायत्र्या द्युलोकात्सम्यगानीतम् । किंचापां रसः सोमवल्लिरूपेणपरिणतस्तस्यापि योरसः सारस्तादृशमुदकरसम् । स्वामित्वं तेजोयुक्तत्वंच भागद्वयपाठेन भवतीति दर्शयति- अपाꣳरस॒मुद्वय॑स॒मित्या॑ह । अ॒पामे॒वैतेन॒ रस॑स्य॒ सूय॑ते । सूर्य॑रश्मिꣳसमाभृ॑त॒मि त्या॑ह सशु॒क्रत्वा॑य (२), इति । ग॒च्छ॒ति॒ सूय॑ते॒ नव॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणेप्रथमाष्टके तृतीयाध्याये नवमोऽनुवाकः॥ ९ ॥ अथ दशमोऽनुवाकः । अथ दशमे पिण्डपितृयज्ञ उच्यते तत्राऽदौ कालविशेषं विधत्ते- इन्द्रो॑ वृ॒त्रꣳह॒त्वा । असु॑रान्परा॒भाव्य॑ । सो॑ऽमा वा॒स्यां॑ प्रत्याग॑च्छत् । ते पि॒तरः॑ पूर्वेद्युरा॒गच्छ॑न् । पि॒तृन्य॒ज्ञोऽच्छ॑त्। तं दे॒वाःपुनर॑याचन्त । तमे॑भ्यो॒ न पुन॑रददुः । ते॑ऽब्रुवन्वरं॑ वृ॑णामहै । अथ॑ वः पुनर्दास्यामः । अ॒स्मभ्य॑मे॒व पूर्वेद्युः क्रि॑याता॒ इति (१) । तमे॑भ्यः॒ पुन॑रददुः । तस्मा॑त्पि॒तृभ्यः॑

तैत्तिरीयब्राह्मणम् ( १.३.१० ) १६१ पूर्वेद्युः क्रि॑यते । यत्पि॒तृभ्यः॑ पूर्वेद्युः क॒रोति॑ । पि॒तृभ्य॑ एव॒ तद्य॒ज्ञं निष्क्री॑य॒ यज॑मानः प्रत॑नुते, इति । इन्द्रः पुरा युद्धेवृत्रं हत्वा तदीयानसुरांश्च पराभूतान्कृत्वापश्चादमावास्या यागादिनं प्रतिस्वगृहे समागच्छत् । शुक्लप्रतिपदि ह्यमावास्यायागः क्रियते । ततः सर्वेद्युः पितर आगतास्तैः पितृभिः । सह यज्ञोऽपि गतः । तं पितृभियज्ञवस्थितं यज्ञं देवाः स्वार्थमयाचन्त पूर्वमस्मदीयोयज्ञइदानीं भवत्समीपमागतः पुनरस्मभ्यमेव यज्ञो दातव्य इति । ततः पितरस्तमदत्त्वा तद्दानार्थमुत्कोचमपेक्षितवन्तः । पूर्वेद्युदर्शदिनेऽस्मदर्थं कर्म कर्तव्यम् । ततः प्रतिपद्यनुष्ठेयं दर्शपूर्णमासाख्यं यज्ञं दास्याम इति प्रत्यजानन् । ततो देवैस्तथेत्यङ्गीकृतेतं यज्ञं दत्तवन्तःतस्मात्पित्रर्थं कर्म पूर्वेद्युः पूर्वदिने कुर्यात् । तथा कृते तेन मूल्येन यज्ञं पितृभ्यो निष्क्रीय यजमानस्तमनुष्ठातुं प्रवर्तते । कालं विधाय होममन्त्रंविधत्ते- सोमा॑य पितृपी॑ताय॒ स्वधा॒ नम॒ इत्या॑ह। पि॒तुरे॒वाधि॑ सो॑मपी॒थमव॑रुन्धे । न हि पि॒ता प्र॒मीय॑माण॒ आहेष सो॑मपी॒थ इति॑ । इ॒न्द्रियं॒ वै सो॑मपी॒थः । इ॒न्द्रि॒यमे॒व सो॑मपी॒थमव॑रुन्धे । तेनै॑न्द्रि॒येण॑ द्वि॒तीयां॑ जा॒याम॒भ्य॑श्नुते (२); इति । पितृभिः पीतोऽमृतत्वेन परिणतो यःसोमस्तस्मै सोमायेदं स्वधा दत्तम् । नमस्कारोऽपिकृत इत्यमुं मन्त्रं होमकाले ब्रूयात् । अनेन होमेन स्वकीयस्य पितुरध्युपरि यत्सोमपानं पूर्वं वृत्तं तत्स्वयं प्राप्नोति पितुः संबन्धि गृहक्षेत्रादिकं यथा होममन्तरेण प्राप्नोति तद्वत्तदीयं सोमपानमपि प्राप्नोतीति चेन्मैवम् । गृहादिवदसमर्पितत्वात् । प्रमीयमाणःपिता पुत्रमाहूयेदं गृहमिदं क्षेत्रं तवेति यथा ब्रूते तथा सोमपानमिदं तवेति न हस्ते समर्पयति । तस्माद्धोमेनैव सोमपानफलं संपादनीयम् । न चैतत्प्रयाससाध्यं सोमपानं मा भूदेवेति शङ्कनीयम् । सोमपानस्येन्द्रियवृद्धिरूपत्वेनावश्यं प्रापणीयत्वात् । पूर्वं स्वस्मि- न्विद्यमानेनेन्द्रियेणैकां जायां भोक्तुं समर्थः । पितृप्रसादलब्धेन त्विन्द्रियेण द्वितीयामपि भोक्तुं समर्थो भवति । एतद्भेदनं प्रशंसति-

१६२ (१.३.१०) तैत्तिरीयब्राह्मणम् ए॒तद्वै ब्राह्म॑णं पुरा वाज॑श्रव॒सा वि॒दाम्ब॑क्रन् । तस्मा॒त्ते द्वे द्वे॑ जा॒ये अ॒भ्या॑क्षत । य ए॒वं वेद॑ । अ॒भि द्वि॒तीयां जा॒याम॑श्नुते, इति । वाजोऽन्नं तद्दाननिमित्तं श्रवःकीर्तिर्यस्य महर्षेरसौ वाजश्रवास्तस्य पुत्रा वाजश्रवसाः। ते च पुरा "सोमाय पितृपीताय" इति मन्त्रस्य व्याख्यानरूपमेतद् ब्राह्मणं विदितवन्तः। तस्माद्वेदनात्ते महर्षयःप्रत्येकं जायाद्वयमभिप्राप्तवन्तः । तस्मादन्योऽपि विदित्वा द्वितीयां जायां प्राप्नोति । अथ द्वितीयहोममन्त्रं विधत्ते- अ॒ग्नये॑ कव्य॒वाह॑नाय॒ स्वधा॒ नम॒ इत्या॑ह । य ए॒व पि॒तॄणा॑म॒ग्निः। तं प्री॑णाति, इति । कव्यं पित्र्यं हविर्वहतीति कव्यवाहनः। तस्य च पितृसंबन्धोऽन्यत्राप्याम्नातः-“त्रयो वा अग्नयो हव्यवाहनो देवानां कव्यवाहनःपितॄणा ँ सहरक्षा असुराणाम्" इति । तस्मादेतन्मन्त्रहोमेन तं पित्र्यमग्निं परितोषयति । शाखान्तरगतन-“यमायाङ्गिरस्वते पितृमतेस्वधा नमः"इतिमन्त्रे- णैकामाहुतिमभिप्रेत्य त्रित्वं विदधाति- ति॒स्र आहु॑तीर्जुहोति, इति । तथा च सूत्रकारेण स्पष्टमुक्तम्-“सोमाय पितृपीताय स्वधा नम इति प्रथमां दक्षिणाग्नौ जुहोति यमायाङ्गिरस्वते पितृमतेस्वधानम इति द्वितीया यज्ञये कव्यवाहनाय स्वधा नम इति तृतीयाम् ” इति । यदुक्तं सूत्रकारेण-“सव्यं जान्वाच्यावाचीनपाणिः सकृदाच्छिन्न बर्हिषिदक्षिणांपवर्गान्पिण्डान्ददाति" ' तदिदं विधत्त- त्रिर्निद॑धाति, इति । तदेतदाहुतित्रयं पिण्डत्रयं च मिलित्वाप्रशंसति- षट् संप॑द्यन्ते (३) । षड् वा ऋ॒तव॑ः। ऋ॒तूने॒व प्री॑णाति, इति ।

तैत्तिरीयब्राह्मणम् (१.३.१०) १६३ यदुक्तं सूत्रकारेण-“मेक्षणमुपस्तीर्य तेनावदायाभिघार्यं” इति तस्य मेक्षणस्याग्नौ प्रहरणं विधत्त- तूष्णीं मे॑क्ष॒णमाद॑धाति । अस्ति॒ वा॒ ३ हिं॒ षष्ठ॒ ऋ॒तुर्न॒ वा, इति । मेक्षणशब्देन प्रादेशमात्रा समिदुच्यते । हविरवदानसाधनं मेक्षणं मन्त्रमन्तरेणाग्नौ प्रक्षिपेत् । शास्त्रेषुषष्ठ ऋतुरस्तीत्येकःपक्षः । “षड् वा ऋतवः” इति श्रुतेः । नास्तीत्यपरः पक्षः । “पञ्चर्तवो हेमन्तशिशिरयोः समासेन” इति श्रुत्यन्तरात् । अतस्तूष्णीं समिदाधाने पक्षद्वयमप्यनुश्रुतं भवति । तत्र समिधाः प्रक्षिप्तत्वादस्तित्वपक्षोऽङ्गीकृतः। मन्त्रराहित्या- दभावपक्षोऽङ्गीकृतः। आहुतित्रयं पिण्डत्रयं च प्रकारान्तरेण प्रशंसति- दे॒वान्वै पि॒तृन्प्री॒तान् । म॒नुष्या॑: पि॒तरो॑ऽनु प्रपि॑पते । ति॒स्र आहुती॑र्जुहोति । त्रिर्निद॑धाति । षट् संप॑द्यन्ते । षड् वा ऋ॒तव॑:(४) ऋ॒तव॑:खलु॒ वै दे॒वा: पि॒तर॑: । ऋ॒तूने॒व दे॒वान्पि॒तृन्प्री॑णाति । तान्प्री॒तान् । म॒नुष्या॑: पि॒तरो॑ऽनु प्रपि॑पते, इति । द्विविधा हि पितरो देवत्मका मनुष्यात्मकाश्च । पितृलोकस्वामिनो देवात्मकाः । मृताः सन्तो भोगांस्तल्लोकं प्राप्ता मनुष्यात्मकाः । तत्र देवात्मकेषु पितृषु प्रीतेषु ताननु मनुष्यात्मकाः पितरः प्रपिपते प्रीता भवन्तीति युक्तम् । तदर्थमादौ तिस्र आहुतयः पश्चात्पिण्डत्रयम् । किंचोभयमेलनेनषट् संपत्त्या तत्संख्याका ऋतवः संपद्यन्ते । ऋत्वभिमानिनश्च देवाः पितरः। ततश्च संख्यामात्रेण देवपितृषु प्रीतेषु पश्चान्मनुष्यपितरः प्रीता भवन्ति । विधत्ते- स॒कृ॒दा॒च्छि॒न्नं ब॒र्हिर्भव॑ति । स॒कृद्दे॒व हि पि॒तर॑:, इति । पिण्डनामधस्ताद्यद्बर्हिरास्तीर्यते तदेकप्रयत्नेनैवावच्छेदनीयम् । न तु लवनकाले दात्रस्य पुनः पुनर्व्यापारः । एकेनैव दृढेन व्यापारेण यावद- वच्छिन्नं तावदेवाऽऽनेतव्यम् । यस्मात्पितरः सकृन्मरणेनैव पितृत्वं प्राप्नु- वन्ति । न तु तत्प्राप्तये पुनः पुनर्म्रियन्ते ।

१६४ (१.३.१०) तैत्तिरीयब्राह्मणम् पिण्डदानस्य त्रित्वं प्रशंसति- त्रिर्निद॑धाति । तृ॒तीये॑ वा इ॒तो लो॒के पि॒तर॑: । ताने॒व प्री॑णाति, इति । इतो भूलोकादारभ्यान्तरिक्षलोकमतिक्रम्य यस्तृतीयो लोकस्तत्र पितरो वर्तन्ते । अतस्त्रित्वेन तान्परितोषयति । विधत्ते- परा॒ङाव॑र्तते (५) । ह्रीका॑ हि पि॒तर॑:, इति । दक्षिणाभिमुखः पिण्डं दत्वा पिण्डनिरीक्षणं परित्यज्य पराङ्मुखो भवेत् । पितॄणां लज्जाशीलत्वात् । लोकेऽपि हि भुञ्जानाः प्रभवो नान्यैर्वीक्ष्यन्ते । विधत्ते- ओष्मणो॑ व्या॒वृत्त॒ उपा॑स्ते । ऊ॒ष्मभा॑गा हि पि॒तर॑: इति । औष्ण्यवशात्पिण्डेषु योऽयमूष्मा निर्गच्छति तस्य यावदुपरमोऽव्यावृत्तस्तदुपरमपर्यन्तं तथैव स्थित्वा सेवेत । पितॄणामूष्मभागित्वेन तच्छान्तिपर्यन्तं तद्भोजनकालत्वात् । अथ विचारपूर्वकं पिण्डशेषस्य पात्रगतस्याऽघ्राणं विधत्ते- ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । प्राश्या३ं न प्राश्या३मिति॑ । यत्प्राश्नी॒यात् । ज॒न्यमन्न॑मद्यात् । प्रमायु॑कः स्यात् । यन्न प्राश्नी॒यात् । अह॑वि स्यात् । (६) पि॒तृभ्य॒ आवृ॑श्च्येत । अव॑घ्रेयमे॒व । तन्नेव॒ प्राशि॑तं॒ नवाप्रा॑शितम्, इति । विचारार्था प्लुतिः । प्राशनपक्षे बीजभक्षणवददनी- यस्याभावात्क्षुधितो यजमानो म्रियेत । अप्राशनपक्षे तु सर्वत्र हविः शेषस्य भक्षणदर्शनादिदं हविरेव न स्यात् । अतोऽयं पितृभ्यो विच्छिद्येत । अतो दोषद्वयपरिहाराय पात्रगतमन्नमवजिघ्रेदेव । तदवघ्रातं प्राशितमिव न भवति । निगरणाभावात् । अप्राशितमिव न भवति । तदीयगन्धस्यान्तः प्रवेशात् ।

तैत्तिरीयब्राह्मणम् (१.३.१०) १६५ यदुक्तं सूत्रकारेण-“वाससो दशां छित्त्वा निदधाति ” इति। तदेत द्विधत्ते- धीरं॑ वा॒ वै पि॒तरः॒ प्रय॑न्तो॒ हर॑न्ति। वी॒रं वा॑ ददति। दशां॑ छि॒नत्ति॑। ह॒रण॑भागा॒ हि पि॒तरः॑। पि॒तॄने॒व निर॑वदयते, इति। पिण्डरूपमन्नं भुक्त्वा यदा पितरः स्वस्थाने प्रयान्ति तदानीमस्य वीरं पुत्रं विद्यमानमपहरन्ति वाऽविद्यमानं ददति वा। पक्षद्वयमपि संभाव्यते। वैकल्ये पुत्रं मारयन्ति। साकल्ये पुत्रं प्रयच्छन्ति अत्र वैकल्यस्य दुष्परिहरत्वात्पुत्र प्रत्याम्नायत्वेन वस्त्राग्रमीषत्सूत्रं छित्वा पिण्डेषु निदध्यात् । यस्मादपहरणमेव पितरो भजन्ते तस्मात्पितृन्निःशेषभागदानेन विसर्जयेति। तत्रैवं कंचिद्विशेषं विधत्ते- उत्त॑र॒ आयु॑षि॒ लोम॑ छिन्दीत। पि॒तॄणा ँह्येतर्हि॒ नेदी॑यः (७), इति। पञ्चाशत्संवत्सरपरिमितं पूर्वमायुरावशिष्टं तूत्तरम्। तस्मिन्वयसि वस्त्रदशा न च्छत्तव्याः किंतु स्वकीयं लोम च्छित्त्वा तव निदध्यात्। यस्मादयमासन्नमरणत्वात्पितॄणामांम समीपवर्ती तस्मात्तस्मिन्वयस्येत- दुचितम्। विधत्ते- नम॑स्करोति। नम॒स्कारो॒ हि पि॑तॄणा॒म्, इति। अत्यन्तं प्रिय इति शेषः। तत्र मन्त्रं विनियुङ्क्ते- नमो॑ वः पितरो॒ रसा॑य। नमो॑ वः पितरः॒ शुष्मा॑य। नमो॑ वः पितरो जी॒वाय॑। नमो॑ वः पितरः स्व॒धायै॑। नमो वः पितरो म॒न्यवे॑। नमो॑ वः पितरो घो॒राय॑। पि॒तरो॒नमो॑ वः। य ए॒तस्मि॑ ँल्लो॒के स्थ (८)। युष्मा ँस्तेऽनु॑। यैऽस्मि ँ ल्लो॒के। मां तेऽनु॑। य ए॒तस्मि॑ ँ ल्लो॒के स्थ। यूयं तेषां॒

१६६ (१.३.१०) तैत्तिरीयब्राह्मणम् वसि॑ष्ठा भूयास्त । ये॑ऽस्मिँल्लोक । अ॒हं तेषां॒ वसि॑ष्ठो भूयास॒मित्या॑ह । वसि॑ष्ठः समा॒नानां॑ भवति । य ए॒वं वि॒द्वान्पि॒तृभ्य॑: करो॒ति, इति । हे पितरो वो युष्माकं यो रसो युष्माभिर्भुज्यमानः क्षीरादिस्तस्मै नमोऽस्तु । एवं सर्वत्र योज्यम् । शुष्मशब्दो बलवाची । जीवो देहाध्यक्षः । तदीया स्त्री । पितरो हि स्वधायां प्रीतिं कुर्वन्ति । मन्युः कोपः । घोरो । स्वधामारणादिव्यापारः । हे पितरो यूयमेतस्मिँल्लोके स्थितास्तेभ्यो युष्मभ्यं नमः । ये तु युष्मत्तोऽन्ये परकीयपितरोऽस्मिँल्लोके वर्तन्ते ते सर्वे युष्माननुवर्तन्ताम् । ये तु मनुष्या अस्मिँल्लोके वर्तन्ते ते सर्वे मामनुवर्तन्ताम् । ये यूयं परकीयेः पितृभिः सहास्मिंल्लोके स्थितास्ते यूयं तेषां परकीयपितॄणां वसिष्ठा अतिशयेन निवारहेतवो भूयास्त । ये तु मनुष्या अस्मिँल्लोके वर्तन्ते तेषां सर्वेषामहं युष्मत्प्रसादादतिशयेन निवासहेतुर्भूयासम् । इत्येतं नव्यं नमस्कुर्वन्पठेत् । यः पुमानेवं नमस्कारमन्त्रं विद्वान्पित्रर्थंपिण्डदानं करोति स एष समानानां मनुष्याणामतिशयेन निवासहेतुर्भवति । पिण्डपितृयज्ञं प्रशंसति- ए॒ष वै म॑नु॒ष्या॑णां य॒ज्ञः (९) । दे॒वानां॒ वा इतरे॑ य॒ज्ञाः । तेन॒ वा ए॒तत्पि॑तृलो॒के चरति, इति । द्विविधानां पितॄणां मध्ये ये मनुष्याः पितरस्तेषामेव पिण्डपितृयज्ञः । ये तु देवास्तेषां दर्शपूर्णमासादिका इतरं यज्ञाः । तस्मादेतेन पिण्ड- पितृयज्ञेनैषपुरुषः पितृलोके चरति । अथ “प्रजापते न त्वदेतानि” इति मन्त्रेण गार्हपत्यदेशं प्रत्यागमनं विधत्ते- यः पि॒तृभ्य॑: करो॒ति॑ । स ई॑श्व॒रः प्रमेतो॑: । प्रा॒जा॒प॒त्यर्चा पुन॒रैति॑ । य॒ज्ञो वै प्र॒जाप॑तिः । य॒ज्ञेनै॒व सह॒ पुन॒रैति॑ । न प्रमा॑यु॒को भवति, इति । यः पुमान्पित्रर्थमुक्तं कर्म करोति स पितृप्रियत्वात्सहसा मर्तुं सुसमर्थो भवति । तत्परिहाराय प्राजापत्यमन्त्रेण गार्हपत्यदेशं पुनरागच्छेत् । प्रजापतेर्यज्ञस्रष्टृत्वेन यज्ञरूपत्वाद्यज्ञेनैव सह पुनरागतो भवति । अतो न म्रियते ।

तैत्तिरीयब्राह्मणम् (१.३.१०) १६७ एतदेव समन्त्रकं पुनरागमनं प्रशंसति- पि॒तृ॒लो॒के वा ए॒तद्यज॑मानश्चरति । यत्पि॒तृभ्यः॑ क॒रोति॑ । स 'ईश्व॑र आर्तिमार्तो॑ः । प्र॒जाप॑ति॒रत्वा वै॒नं तत् उन्नै॑तुम॒र्हतीत्या॑हुः । यत्प्रा॑जाप॒त्यय॒र्चा पुन॒रैति॑ । प्र॒जाप॑तिरे॒वैनं॑ तत् उन्न॑यति । नाऽऽर्तिमा'र्च्छति॒ यज॑मानः (१०), इति । इत्य॑श्नुते पद्यन्ते पद्यन्ते षड्वा ऋतवौ॑ । वर्त॑ते॒ऽर्हवि स्यान्ने॒दीय॑ः स्थ य॒ज्ञो यज॑मानश्चरति यत्पि॒तृभ्यः॑ क॒रोति॒ पञ्च॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके तृतीयाध्याये दशमोऽनुवाकः ॥ १० ॥ दे॒वा॒सु॒रा अ॒ग्नीषोम॑योर्दे॒वा वै यथादर्शौ दे॒वा वै यदु॒न्त्यैर्गर्हैर्ब्र॑ह्मवा॒दिनो॒ नानि॑ष्टोमो न सवि॒त्रं दे॒वस्या॒हं ता॒प्य ँ स॒प्तार्नहो॑मान्नुषद्ं त्वेन्द्रो॑ वृत्र ँ ह॒त्वा दर्श॑ । दे॒वा॒सु॒रा वाऽऽज्यैवै॒नं तस्मा॑द्वाजपेयया॒जी दे॒वस्या॒हं वाज॑स्याव रुद्ध्या इन्द्रि॒यमे॒वास्मिन्हलीका॑ हि पि॒तरः॑ प॒ञ्चष॒ष्टिः । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके तृतीयोऽध्यायः ॥ ३ ॥ पितृभ्यः करोतीति यदस्त्येतेन यजमानः पितृलोक एव संचरति । अतः यजमानो मनुष्यलोक निःस्पृहत्वादत्र पीडां प्राप्तुं प्रभवति । तमेनं प्रजापतिरेव तत आर्तेरुद्धर्तुमर्हतीत्येवमभिज्ञा आहुः । अतः प्राजापत्यमन्त्रेणाऽऽगच्छन्तं प्रजापतिरुद्धरति । सोऽप्यार्तिं न प्राप्नोति । अत्र मीमांसा । चतुर्थध्यायस्य चतुर्थपादे चिन्तितम्- क्रत्वङ्गं स्यान्न वा पिण्डपितृयज्ञः क्रतौ हि सः । अमावास्योक्तितो मैवं तत्कालोक्तेः पुमर्थता ॥ (इति) । इदमाम्नायते-“अमावास्यायामपराह्ने पिण्डपितृयज्ञेन चरन्ति" इति । तत्रामावास्याशब्दवाच्ये कर्मणि विधीयमानत्वादयं पिण्डपितृयज्ञः क्रत्वङ्गमिति चेत् । मैवम् । अमावास्याशब्दस्य कालवाचित्वात् । कर्मणि त्वयं शब्दो लाक्षणिकः । न च वाक्येन क्रत्वङ्गत्वाभावेऽपि

१६८ (१.४.१) तैत्तिरीयब्राह्मणम् प्रकरणेन तद्वदिति वाच्यम् । तस्यानारभ्याधीतत्वात् । तस्मादयं पुरुषार्थः । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे तृतीयप्रपाठके दशमोऽनुवाकः ।। १० ।। वेदार्थस्य प्रकाशन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ।। इति श्रीमद्वीरबुक्कणसाम्राज्यधुरंधर श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे तृतीयः प्रपाठकः समाप्तः ।। ३ ।। (मूलक्रमेण-अष्ट. १ अध्या. ३ अनु. १० (२६) । (भाष्यक्रमेण- कां. १ प्रपा. ३ अनु. १० (२६) । अथ प्रथमकाण्डे चतुर्थप्रपाठकारम्भः । तत्र प्रथमोऽनुवाकः । यस्यनिःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।। तृतीये वाजपेयो यः स प्राधान्येन वर्णितः । पुनराधेयकं पिण्डपितृयज्ञश्च वर्णितः ।। सोमादिब्राह्मणे पूर्वं यन्नोक्तं तच्चतुर्थके । प्रवक्ष्यते ग्रहाश्चास्मिन्ननुवाके समीरिताः ।। तत्राऽऽदौ ग्रहाणां ग्रहणं विधत्ते- उ॒भये॑ वा ए॒ते प्र॒जाप॑तेरध्य॑सृज्यन्त । दे॒वाश्चासु॑राश्च । तान्न व्य॑जानात् । इ॒मेऽन्य इ॒मेऽन्य इति॑ । स दे॒वान् ५ शूर्न॑करोत् । तान॒भ्य॑पुणोत् । तान्प॒वित्रे॑णापुनात् । तान्पु॒रस्ता॑त्प॒वित्रे॑स्य॒ व्य॑गृह्णात् । ते ग्रहा॑ अभवन् । तद्ग्रहा॑णां ग्रह॒त्वम् (१) । दे॒वता॑ व ए॒ता यज॑मानस्य गृ॒हे गृ॒ह्यन्तै॑ । यद्ग्रहा॑: । वि॒दुरैनं॑ दे॒वाः । यस्यै॒वं वि॒दुष ए॒ते ग्रहा॑ गृ॒ह्यन्तै॑, इति॑ ।

तैत्तिरीयब्राह्मणम् (१.४.१) १६९ देवा असुराश्चेत्येते द्विविधा अपत्याविशेषाः प्रजापतेः सकाशादधिकत्वेन सृज्यन्त । सृष्टानां च तेषामतिबहुत्वेन संकीर्णत्वादिमेऽन्ये पृथग्भूता देवा इमे चान्ये पृथग्भूता असुरा इति प्रजापतिस्तद्विभागं न ज्ञातवान् । अतो विभागज्ञानाय देवान्सर्वानंशूनकरोत् । सोमलतावयवरूपाणि शरीराणि देवानां कृतवान् तानि लताशरीराणि स्वचिह्नत्वेन धृत्वा देवाव्यावृत्तत्वेन प्रजापतिना विज्ञाताः । तांश्च लतादेहानभिषुत्य दशापवित्रारूप्येण वस्त्रखण्डेन ऋजीषं यथा न संकीर्येत तथा रसं शोधयित्वा पवित्रस्य परस्तादूर्ध्वमवस्थि- तस्याधोभागे विविधमिन्द्रावायावादिदेवार्थं गृहीतवान् । त च रसा ग्रहा अभवन् । तस्माद्गृह्णन्त इति व्युत्पत्त्या रसानां ग्रहत्वं संपन्नम् । य एते ग्रहास्ता ता देवता भूत्वा ता एव यजमानस्य गृहे हविर्धाने गृह्यन्ते । अत एते ग्रहा ग्रहीतव्या इत्यर्थः । एवं महिमानं जानतो यस्य यजमानस्य ग्रहा एते गृह्यन्ते तमेनं यजमानं देवा विदुः । सम्यगनुष्ठितवानित्येवं देवलोके प्रसिद्धि गच्छतीत्यर्थः । सौमिकमन्त्रव्याख्यानरूपे षष्ठकाण्डे ऐन्द्रवायवादिग्रहविशेषा एव विहिता न तु ग्रहसामान्यम् । इह तु तद्विधीयत इत्ययमनुवाकस्तत्काण्डशेषः । ग्रहग्रहणं विधायोपांशु ग्रहस्य होमं विधत्ते- ए॒षा वै सोम॑स्याऽऽहु॑तिः। यदु॑पा॒ ॅ शुः॑। सोमे॑न दे॒वा ॅ स्त॒र्पयाणीति॑ खलु॒ वै सोमे॑न यजते। यदु॑पा॒ ॅ शुं जु॒होति॑। सोमे॑नै॒व तद्दे॒वा ॅ स्त॑र्पयति, इति। “वाचस्पतये पवस्व वाजिन्” इत्यनुवाकेन सिद्धो योऽयमुपांशुग्रह एषैव सोमस्य समन्ताद् धुतिः । अत्र हि पात्रस्थः सर्वोऽपि सोमो हूयते । न तु ग्रहान्तरवत्कियानप्यवशिष्यते । यजमानोऽपि सोमेन देवांस्तृप्तान्करोमीत्यभिप्रेत्य सोमयागे प्रवृत्तः तस्मादुपांशु जुहुयात् । तेन सम्पूर्णसोमेनैव देवांस्तर्पयति । अथेतरग्रहहोमं विधत्ते- यद॒ग्रग्राहा॑ञ्जु॒होति॑ (२)। दे॒वा एव तद्दे॒वान्ग॑च्छन्ति, इति। तेन ग्रहहोमेन लताशरीरधारिणो देवा एव दिव्यविग्रहधारिण इन्द्रावायावादिदेवानागच्छन्ति । ऊर्ध्वपात्रस्थाः सोमरसात्मका ये चमसास्तेषां होमं विधायानूर्ध्वं चतुरस्रपात्रस्थिताः सोमरसात्मका ये चमसास्तेषां होमं विधत्ते-