तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
चतुर्थोऽनुवाकः ॥ ४ ॥
तैत्तिरीयब्राह्मणम् (१.५.५) २३५ यज्ञस्य दाढर्याय विशरणाभावाय भवति । सोमप्रकरणे षष्ठकाण्डे “प्राण्यानि पात्राणि युज्यन्ते” इत्यनुवाके पात्रस्तुतिस्तस्मादनुसवनं पुरोडाशा निरुप्यन्त इति निर्वापविधिश्चाऽऽम्नातः । अतस्तच्छेषोऽ यमनुवाको द्रष्टव्यः । इति श्रीमत्सायणाचार्यवरचित माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे पञ्चमप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥ अथ पञ्चमप्रपाठके पञ्चमोऽनुवाकः । ऋ॒तमे॒व प॑रमे॒ष्ठि । ऋ॒तं नात्ये॑ति॒ किंच॑न । ऋ॒ते स॒मुद्र अ॒भिहि॑तः। ऋ॒ते भूमि॑रि॒यँ श्रि॒ता । अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॑ । तप॒ आक्रा॑न्तमु॒ष्णिहा॑ । शिर॑स्तप॒स्याहि॑तम् । वै॒श्वान॒रस्य॑ ते॒जसा॑ । ऋ॒तेना॑स्य॒ निर्व॑र्तये । स॒त्येन॑ प॒रिव॑र्तये (१) तप॑सा॒ऽस्यानु॑वर्तये । शि॒वेना॒स्योप॑वर्तये श॒ग्मना॑स्या॒भिव॑र्तये । तदृ॒तं तत्स॒त्यम् । तद्व्र॒तं तच्छ॑केयम् । तेन॑ शकेयं॒ तेन॑ राध्यास॒म्, इति॑ । चतुर्थे सोमगणभूता पात्रस्तुतिरुक्ता । पञ्चमे चातुर्मास्यशेषा वपनमन्त्रा उच्यन्ते । तत्र वैश्वदेवस्यानुष्ठानान्ते यद्वपनं तत्राऽऽ द्यान्मन्त्रान्सूत्रकारो विनियुङ्क्ते-“त्रेण्या शलल्येक्षुकाण्डेनेक्षुशलाकया लौहेन च क्षुरेणौदुम्बरेण च कशान्निर्वर्तयते वापयते श्मश्रूणि “ऋतमेव परमेष्ठि, ऋतं नात्येति किंचन, ऋते समुद्र आहितः, ऋते भूमिरियँ श्रिता, अग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा शिरस्तपस्याहितं वैश्वानरस्य तेजसा ऋतेनास्य निर्वर्तये सत्येन परिवर्तये तपसाऽस्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभिवर्तये' इति निर्वर्तयत इति, 'तदृतं तत्सत्यं तद् व्रतं तच्छकेयं तेन शकेयं तेन राध्यासम्' इति यजमानो जपति” इति । सूत्रगतत्रेण्यादिशब्दार्थ उपरितनानुवाके व्याख्यास्यते । ऋतमेवेत्यादिशग्मेनास्याभिवर्तये इत्यन्ता मन्त्राः केशनिवर्तने विनियुक्ताः । तद् व्रतमित्यादि यजमानजपे । ऋतं सत्यवदनं तदेव परमेष्टि जगत्स्रष्टुः प्रजापतेःस्वरूपम् । तस्माल्लोके किंचन वस्तुजातमतिक्रमितुं न भवति । तत्कथमिति तदेवोच्यते । योऽयं समुद्रो जलराशिरत्युन्नतः सोऽप्यृते समाहितः । प्रजापतिर्वेलां कृत्वा तामिमां नातिक्राम त्वमिति समुद्रमुवाच । स तस्मिन्नेव सत्यवाक्ये तथैव व्यवस्थितः । समुन्नतोऽपि जलराशिर्वेलामुल्लङ्घ्यभूमिं न प्लावयति ॥
तथा खदमन्तरेण सर्वान्प्राणिनो धारयेति प्रजापतिनोक्ते सत्यवाक्ये भूमिरियमाश्रिता वर्तते । तथा प्रजापतेः सत्यवाक्येनैवायमग्निस्तिग्मेन शोचिषा तीक्ष्णेन रश्मिना युक्तो वर्तते । तथा प्रजापतिवाक्येन सत्येन महर्षिभिस्तप्यमानं तप उष्णहादिच्छन्दोविशेषयुक्तेन मन्त्रेणाऽऽक्रान्तम् । तपस्यमाना हि च्छन्दोयुक्तान्मन्त्रान्नपन्ति । तथा प्रजापतिसत्यवाक्यादेव यजमानाः शिरोमुण्डनादिलक्षणे तपसि व्यवस्थिताः । तस्माद्वैश्वानरस्य स्वामिनः प्रजापतेस्तेजसर्तॆनास्य यजमानस्य कशान्निवर्तये निवृत्तान्क- रोमि । सत्येन तदीयेन परिवर्तये परितः परित्यक्तान्करोमि । मानसमृतं वाचिकं सत्यमिति तद्द्भिदः। तथाऽस्य यजमानस्य तपसा निमित्तभूतेनानुवर्तये केशाननुकूलान्करोमि । शिवेन शान्तेन प्रजापतिसत्यवाक्येनास्य केशानुपवर्तते समीपे केशमूले क्षुरस्य वर्तनं कुर्वे । शग्मेन सुखप्रापकेण प्रजापतेः सत्यवाक्येनास्य केशानभिवर्तयेऽभितः क्षुरं व्यापारयामि । सोऽयमध्वर्योर्वपनमन्त्रः । अथ यजमानस्य जपमन्त्रः । तत्प्रजापतेर्ऋतं मानसं तच्च वाचिकं सत्यं तदनेनानुष्ठेयं तद् व्रतं कर्मलक्षणं तत्सर्वं संपादयितुं शकेयं शक्तो भूयासम् । तेन प्रजापतिसत्येनैव शकेयं भूयासं व्रतेन कर्मणा-राध्यासं समृद्धो भूयासम् । · अथ वरुणप्रघासपर्वानन्तरभाविवपनमन्त्रौ- यद्धर्मः॒ पर्य॑वर्तयत् । अन्ता॑न्पृथि॒व्यादि॒वः । अ॒ग्निरी॑शा॒न ओज॑सा । वरु॑णो धी॒तिभिः॒ सह॑ (२), । इन्द्रो॑ म॒रुद्भिः॑ । सखि॑भिः॒, स॒ह, इति । कल्पः-‘‘अत्र पौर्णमास्येष्टोन्दनादिपूर्ववन्निवर्तनं सर्वं वा वापयेत् । मन्त्रादिर्विक्रियते-यद्धर्मः पर्यवर्तयदन्तान्पृथिव्या दिवः, अग्नीरीशान ओजसा, वरुणो धीतिभिः, सह, इन्द्रो मरुद्भिः, सखिभिः सहन्यग्निस्तिग्मे , नेत्यादि समानमिति । घर्मो दीप्यमानों य आदित्यॊऽस्ति सोऽयं पृथिव्यां दिवश्चान्त-प्रजापतिसत्यवाक्येनैव पर्यवर्तयत्परितः प्रकाशितवान् । अग्निश्चौजसा तेजोबलेनेशानः सर्वं दग्धुं प्रभुर्भवति । वरुणश्च धीतिभिर्बुद्धिविशेषैः सह स्वव्यापार प्रभवति । इन्द्रश्च मरुद्भिः । वरुणश्च धीतिभिर्बुद्धिविशेषैः सह स्वव्यापारं प्रभवति । मरुद्भिः स्वकीयैः सखिभिः सह प्रजापतिसत्यवाक्येन स्वव्यापारं प्रभुर्भवति । एतावन्पूर्वस्मान्मन्त्राद्विशेषः । अवशिष्टस्तु समानः । तस्यावशिष्टस्य पाठस्तु- अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॑ । तप॑ आक्रां॒तमु॒ष्णिहा॑ । शिर॑स्तप॒स्याहि॑तम् । वै॒श्वा॒न॒रस्य॑ तेर्ज॑सा । ऋ॒तेना॑स्य॒
तैत्तिरीयब्राह्मणम् (१.५.५) २३७
नि॒वर्त॑ये । स॒त्येन॑ परि॑वर्तये । तप॑साऽस्या॒नु॑वर्तये । शि॒वेना॑स्योप॑वर्तये । श॒ग्मेना॑स्या॒भिव॑र्तये (३)। तदृ॒तं तत्स॒त्यम् । तद् व्र॒तं तच्छ॑केयम् । तेन॑ शकेयं॒ तेन॑ राध्यासम्, इति । पूर्ववद्व्याख्येयम् । पूर्ववद्वैश्वदेवान्ते श्मश्रूणामेव वपनं केशानां तु कर्तनम् । इह तु केशानां वपनकर्तने विकल्पिते । अथ साकमेधपर्वानन्तरभाविवपनमन्त्रौ- यो अ॑स्याः पृ॑थि॒व्यास्त्व॒चि । नि॒वर्त॑यत्योष॑धीः । अ॒ग्निरीशा॑न॒ ओज॑सा । वरु॑णो धी॒तिभिः॑ स॒ह । इन्द्रो॑ म॒रुद्भिः॒ सखि॑भिः स॒ह । कल्प-“पौर्णमास्येष्टोन्दनादिपूर्ववन्निवर्तनं सर्वं वा वापयेत् । मन्त्रादिर्विक्रियते-यो अस्याः पृथिव्यास्त्वचि निवर्तयत्योषधीरग्निरीशान ओजसा वरुणो धीतिभिः सहेन्द्रो मरुद्भिः सखिभिः सहाग्निस्तिग्मेनेति समानम्” इति । य आदित्योऽस्ति सोऽयं प्रजापतिसत्यवाक्येनास्याः पृथिव्यास्त्वच्युपरिभाग ओषधीर्निवर्तयति परिवापयति । अग्निरीशान इत्यादि पूर्ववद्व्याख्येयम् । मन्त्रस्तु- अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॑ । तप॑ आक्रांन्तमुष्णिहा॑ (४) शिर॒स्तप॑स्याहि॑तम् । वै॒श्वा॒न॒रस्य॒ तेज॑सा । ऋ॒तेना॑स्य॒ नि॒वर्त॑ये । स॒त्येन॑ परि॑वर्तये । तप॑साऽस्या॒नु॑वर्तये । शि॒वेना॑स्योप॑वर्तये । श॒ग्मेना॑स्या॒भिव॑र्तये तदृ॒तं तत्स॒त्यम् । तद् व्र॒तं तच्छ॑केयम् । तेन॑ शकेयं॒ तेन॑ राध्यासम् (५), इति । पूर्ववद्व्याख्येयम् । अथ शुनासीरीयपर्वान्तरं क्षौरमन्त्रौ- एकं॒ मास॒मुद॑सृजत् । प॒र॒मे॒ष्ठी प्र॒जाभ्यः॑ । तेना॑ऽऽभ्यो॒ मह॒
२३८ (१.५.५) तैत्तिरीयब्राह्मणम् आवह॑त् । अ॒मृतं॒ मर्त्ये॑भ्यः । प्र॒जामनु॑ प्र॒जाय॑से । तदु॑ ते मर्त्या॒मृतम्॑ । येन॒ मासा॑ अर्धमा॒साः ऋ॒तवः॑ परिवत्स॒राः । येन॒ तेतें प्रजापते । ई॒जा॒नस्य॒ न्यव॑र्तयन् (६)। तेना॒हम॒स्य॒ ब्रह्म॑णा । निर्व॑र्तयामि जी॒वसै॑ । कल्पः-“अत्र पौर्णमास्येष्टोन्दनादि पूर्ववन्निवर्तनं सर्वं वा वापयेत् मन्त्रादिर्विक्रियतएकंमासमुदसृजतपरमेष्ठी प्रजाभ्यस्तेनाऽऽभ्यो मह आवहदमृतं मर्त्याभ्यः प्रजामनुप्रजायसे तदु ते मर्त्यामृतं येन मासा अर्धमासा ऋतवः परिवत्सरा येन ते ते प्रजापत ईजानस्य न्यवर्तयन् । तेनाहमस्य ब्रह्मणा निवर्तयामि जीवसे, इत्यग्निस्तिग्मेन शोचिषेति समानम्” इति । परमेष्ठी प्रजापतिरेकं मासं मासोपलक्षितं चातुर्मास्यानुष्ठानयोग्यकालमुदसृजदुत्कर्षेण सृष्टवान् । मर्त्याभ्यो मनुष्यरूपाभ्य आभ्यो जगति दृश्यमानाभ्यः प्रजाभ्यस्तेन चातुर्मास्यानुष्ठानयोग्यकालेन महो महदमृतमविना शिफलमावहत्सम्पादितवान् । तच्च फलं पूर्वप्रपाठके चातुर्मास्यस्याजिनो मरणाविचारं निर्णीतम् । सूत्रकारेणाप्येतदेवाभिप्रेत्योक्तम्--“अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति” इति । हे मर्त्य मनुष्यरूप यजमान प्रजां पुत्रपौत्रादिरूपामनुप्रजायसेऽनुक्रमेणोत्पादयसि । तदु तदेव पुत्रपौत्रादिरूपेणावस्थानं ते तव चामृतमविनाशिफलं मर्त्यत्वादेतस्य शरीरस्य नाशेऽपि पुत्रपौत्रादिसंततेरविच्छेदनाद्येन मन्त्रसामर्थ्येन मासार्धमासर्तुसंवत्सरविशेषाः । स्वोचितकार्यकारिणः प्रवर्तन्ते । प्रजापतेः पुत्रपौत्रादिस्वरूपाणां प्रजानां पालक यजमान, ईजानस्य यागं कृतवतस्ते तव मासादिकास्ते कालविशेषा येनं मन्त्रेण न्यवर्तयन्निरन्तरं संपादितास्तेन ब्रह्मणा मन्त्रेणाहमध्वर्युंरस्य यजमानस्य जीवसे जीवनाय निवर्तयामि कृन्तनेन केशान्निवृत्तान्करोमि । एतावानत्र मन्त्रविशेषः । अवशिष्टस्तु समानः । तत्पाठस्तु- अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॑ । तप॒ आक्रा॑न्तमुष्णि॒हा । शिर॒स्तपु॑स्याहि॑तम् वै॒श्वा॒न॒रस्य॒ तेज॑सा । ऋ॒तेना॑स्य॒ निर्व॑र्तये । स॒त्येन॒ परि॑वर्तये । तप॑सा॒ऽस्यानु॑वर्तये । शि॒वेना॒स्योप॑वर्तये । शु॒ग्मेना॒स्याभि॑वर्तये । तदृ॒तं तत्स॒त्यम् । तद् व्र॒तं तच्छ॑केयम् । तेन॑ शकेयं॒ तेन॑ राध्यासम् (७), इति ।
तैत्तिरीयब्राह्मणम् (१.५.६) २३९ परि॑वर्तये॒ सहा॒भिर्व॑र्तय उ॒ष्णिहा॑ राध्यासं॒ न्यर्व॑र्तयन्नुप॑वर्तये चत्वारि॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके पञ्चमाध्याये पञ्चमोऽनुवाकः ॥ ४ ॥ पूर्ववद्व्याख्येयम् । अथवा क्षुरपरत्वेन योजनीयम् । अग्निसमानोऽयं क्षुरः । स तीक्ष्णेन दीप्तिममानेन धाराग्रेण सह वर्तते । उष्णिहा छन्दः समानसामर्थ्ययुक्तेन क्षुरेण वपनरूपं तप आक्रान्तं प्रारब्धं यजमानस्य शिरस्तस्मिन्वपनरूपे तपस्याहितं समर्पितम् । वैश्वानरसमानस्य क्षुरस्य तेज परिमाणेन ऋतेनावश्यंभाविव्यापारेणास्य यजमानस्य केशान्निवर्तये निवृत्तान्करोमि । निवृत्तिप्रकारविशेषा एव परिवर्तनानुवर्तनोपवर्तनाभिवर्तनशब्दैरूच्यन्ते । तृतीयान्तैः क्षुर एव विशिष्यते । यजमानमन्त्रस्त्वेवं व्याख्येयः । यदेतत्केश कृन्तनं तदेव वाचिकमानससत्यरूपमनुष्ठीयमानवपनरूपं तत्कृन्तनं संपादयितुं शक्नोमि । तेन च कृन्तनेन कर्म साङ्गं कर्तुं शक्नोमि । फलेन च समृद्धो भूयासमिति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥ अथ पञ्चमप्रपाठके षष्ठोऽनुवाकः । पञ्चमे चातुर्मास्ययाजिनां वपनमन्त्रा उक्ताः । षष्ठे तद्विधिरुच्यते । तत्राऽऽदावन्वयव्यतिरेकाभ्यां वपनक्रमं विधत्ते- दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत । तत्सु॑रा अकुर्वत । तेऽ सू॑रा ऊ॒र्ध्वं पृ॒ष्ठेभ्यो॒ नार्प॑श्यन् । ते केशा॒नग्रै॑ऽवपन्त । अथ॒ श्मश्रू॑णि । अथोप॑प॒क्षौ । तत्स्तेऽवा॑ञ्च आयन । परा॑भव॒न् यस्यै॒वं वप॑न्ति । अवा॑ङेति (१) । अथो॒ परै॑व भ॑वति । अथ॑ दे॒वा ऊ॒र्ध्वं पृ॒ष्ठेभ्यो॑ऽपश्यन् । त उ॑पप॒क्षावग्रै॑ऽवपन्त । अथ॑ श्मश्रू॑णि । अथ॒ केशा॑न् । तत्स्तेऽभवन् । सु॒वर्गं॑ लो॒कमा॑यन् । यस्यै॒वं वप॑न्ति । भव॑त्यात्मना॑ । अथो॑ सु॒वर्गं॑ लो॒कमे॑ति (२), इति । देवैर्यद्यदङ्गं यज्ञेऽनुष्ठितं तत्तदङ्गमसुरास्तथैवान्वतिष्ठन् । वपने तु
२४० (१.५.६) तैत्तिरीयब्राह्मणम् स्वबुद्ध्यैव प्रवृत्ताः । पृष्ठशब्देन तत्समीपवर्तिनौ कक्षावुपलक्ष्येते । ते सर्वेऽप्यसुराः स्वकीयान्कक्षानारभ्योर्ध्वं वपनं कर्तव्यमिति शास्त्रार्थं नापश्यन्नाज्ञासिषुः । अज्ञात्वा च केशश्मश्रूपपक्षक्रमेणाधोमुखप्रवृत्तं वपनं कृत्वा स्वयमवाञ्चो नीचा भूत्वा लोके समागत्य पराभूताः। एवमन्योऽपि नीचो भूत्वा लोके समागत्य पराभवति । देवास्तु कक्षेभ्य ऊर्ध्वक्रमं ज्ञात्वा कक्षश्मश्रुकेशक्रमेण वपनं कृत्वा लोकेऽस्मिन्नैश्वर्यं प्राप्ता ऊर्ध्वक्रमेण स्वर्गं च प्राप्नुवन् । अन्योऽप्येवं कृत्वाऽत्र स्वयमेव प्रभुर्भवति स्वर्गं च प्राप्नोति । ऊर्ध्वक्रमेण सह विकल्पार्थं क्रमान्तरं विधत्ते- अ॒थैतन्मनु॑र्वृ॒त्रे मि॑थु॒नम॑पश्यत् । स श्मश्रूण्यग्रे॑ऽवपत । अथोपप॒क्षौ । अथ॒ केशान्॑ । ततो॒ वै स प्राजा॑यत प्र॒जया॑ प॒शुभि॑:। यस्यै॒वं वप॑न्ति । प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते, इति । वप्त्रे यो वप्ताऽध्वर्युस्तदर्थं तस्यानुष्ठानाथं तन्मिथुनमूर्ध्वमवाञ्चं चेति द्विविधं वनप्रकारं मनुरपश्यत् । दृष्ट्वा च मध्यवर्तीति श्मश्रूण्यादावुप्त्वा ततोऽधोवर्तिनोः कक्षयोर्वपनंकृत्वा पश्चात्तदूर्ध्ववर्तिनां केशानां वपनं चकार । ततस्तादृशाद्वपनात्स मनुः प्रजया पशुभिश्च प्रभूतोऽप्येवं कृत्वा मनुष्यमिथुनैः पशुमिथुनैश्च प्रभूतो भवति । तदेतद्वपनं प्रशंसति- दे॒वा॒सु॒राः संय॑त्ता आसन् । ते सं॑वत्स॒रे व्या॑र्यच्छन्त ! तान्दे॒वाश्चा॑तुर्मा॒स्यैरैवा॒भिप्रा॑युञ्जत (३) । वै॒श्व॒दे॒वेन॑ च॒तुर॑ मा॒सोऽवृ॑ञ्जतेन्द्र॑रा॒जानः॑। ताञ्छी॒र्षन्नि चार्व॑र्तयन्त॒ परि॑ च । व॒रु॒ण॒प्र॒घा॒सैश्च॒तुरो॑ मा॒सोऽवृ॑ञ्जत॒ वरु॑णराजानः। ताञ्छी॒र्ष न्नि चार्व॑र्तयन्त॒ परि॑ च । सा॒क॒मे॒धैश्च॒तुरो॑ मा॒सोऽवृ॑ञ्जत॒ सोम॑राजानः । ताञ्छी॒र्षन्नि चार्व॑र्तयन्त॒ परि॑ च । या सं॑वत्स॒र उ॑पजी॒वाऽऽसी॑त् । तामे॑षामवृञ्जत । ततो॑ दे॒वा अभ॑वन् । पराऽसु॑राः(४) । य ए॒वं वि॒द्वांश्चा॑तुर्मा॒स्यैर्यज॑ते । भ्रातृ॑व्यस्यै॒व मा॒सोऽवृ॑ङ्क्त । शी॒र्षन्नि च॑ वर्तय॑ते॒ परि॑ च ।
तैत्तिरीयब्राह्मणम् (१.५.६) २४१ यैषा सं॑वं॒त्स॒र उप॑जी॒वा । वृ॒ङ्क्ते तां भ्रातृ॑व्यस्य। क्षुधा॑ऽस्य॒ भ्रातृ॑व्यः॒ परा॑भवति, इति । देवाश्चासुराश्च युद्धोद्युक्ताः सन्तः संवत्सरानुष्ठानसाध्ये फले व्यायच्छन्त विरोधमारभन्त । अस्माकमेवेदं फलं भवत्विति परस्परं कलहं कृतवन्तः। तदानीं तानसुरानभिलक्ष्य फलं वारयितुं चातुर्मास्यैरेवानुष्ठानं कृतवन्तः । तेषु च देवेषु त्रयो व्यूहाः । इन्द्रस्वामिक एकोव्यूहः । वरुणस्वामिको द्वितीयः । सोमस्वामिकस्तृतीयः । तत्रेन्द्रस्वामिका देवा वैश्वदेवेन पर्वणा चतुरो मासानसुरसंबन्धिना विनाशितवन्तः । विनाशितानैव तन्मासानभिलक्ष्य ताञ्चशीर्षस्वकीये शिरसि निवर्तनं च परिवर्तनं च कृतवन्तः । वपनीयानां केशानां स्थापनीयेभ्यःशिखागतकेशेभ्यः पृथक्करणं निवर्तनम् । पृथक्कृतानां वपनं परिवर्तनम् । एवमुत्तरव्यूहद्वयेऽपि योजनीयम् । एवं त्रिविधमासचतुष्टयानुष्ठानेनैकस्मिन्संवत्सरे तैरसुरैरुपजीवनाय या धनादि संपत्संपादिता तेषामसुराणां तां संपदं विनाशितवन्तः । ततो देवाः संपन्ना अभवन् । असुराश्च पराभूताः । एवं ज्ञात्वा चातुर्मास्यानुष्ठानेन भ्रातृव्यसंबन्धिनो मासान्विनाश्य तद्विनाशनार्थं स्वशिरसि निवर्तनपरिवर्तनं कृत्वा वैरिणः संवत्सरोपजीव्यां संपदं सम्यग्विनाशयति । स च शत्रुरन्नाभावेन क्षुत्पीडितो भवति । अथ वपनसाधनं विधत्ते- लो॒हि॒ता॒य॒सेन॑ नि॒वर्त॑यते । यद्वा इ॒माम॒ग्निरृ॑तावाग॒ते नि॒वर्त॑यति । ए॒तद्दे॒वैनाँ॑ रू॒पं कृ॒त्वा नि॒वर्त॑यति । सा त॒तः॑ श्वः॒ श्वो॒ भूय॑सी॒ भव॑न्त्येति (५) । प्र॒जा॑यते । य ए॒वं वि॒द्वाँल्लो॑हि॒ताय॑सेन नि॒वर्त॑यते । ए॒तद्दे॒व रू॒पं कृ॒त्वा नि॒वर्त॑यते । स त॒तः॑ श्वः॒ श्वो॒ भूया॑न्भव॒न्नेति॑ । प्रैव जा॑यते, इति । अयसा निर्मितः क्षुर आयसः । स च लोहितस्ताम्रमिश्रेणायसा निर्मितत्वात् । तादृशेन क्षुरेण केशान्निवर्तयेद्वपनं कुर्यादित्यर्थः । लोके संचरन्दावाग्निरृतौ धर्मकालरूपे समागते सति यदेवोग्ररूपं धृत्वेमां भूमिं निवर्तयति शुष्कजलाशयां शातितपलाशपादपां लूनधान्यां मुण्डितामिव करोति तदानीमग्निरेतदेव लोहितक्षुरसमानरूपं कृत्वेमां निवृत्तजलादियुक्तां करोति । सा च भूमिर्दग्धतृणा सती तत ऊर्ध्वं-
२४२ (१.५.६) तैत्तिरीयब्राह्मणम् मुत्तरोत्तरदिवसं भूयसी भवन्ती प्रजायते वर्धमाना सती तृणादिकमुत्पादयति । एवमन्योऽपि लोहितायसेनक्षुरेण वपनं प्राप्नुवन्नग्निसमानरूपं तस्य कृत्वा वपनं प्राप्नोति । स च तत ऊर्ध्वं धनादिभिः समृद्धो भवँल्लोकं संचरति प्रजाश्चोत्पादयति । वपनीयानामितरेषां च केशानां विभागकरणे साधनं विधत्ते- त्रे॒ण्या श॑ल॒ल्या नि॑वर्तयते । त्रीणि॒ त्रीणि॒ वै दे॒वाना॒मृद्धा॑नि । त्रीणि॒ च्छन्दाँ॑सि॒ त्रीणि॒ सव॑नानि । त्रय॑ इ॒मे लो॒काः (६) । ऋ॒द्ध्यामे॒व तद्वीर्य॑ ए॒षु लो॒केषु॑ प्रति॑तिष्ठति, इति । तिस्र एण्यः श्वेतराजयो यस्याः शलल्याः सा त्रेणी । शललीशब्देन शललाख्यस्य क्षुद्रमृगस्य पुच्छभागवर्ती तीक्ष्णाग्रलोहशलाकादृशो रोमविशेष उच्यते । तया श्वेतराजित्रययुक्तया शलल्या वपनीयान्केशानितरेभ्यः पृथक्कुर्यात् । यच्च श्वेतराजित्रयं प्रशस्तम् । यतो देवानां संबन्धीनि समृद्धवस्तूनि प्रत्येकं त्रिसंख्यायुक्तानि दृश्यन्ते । गायत्री त्रिष्टुब्जगतीत्येतानि च्छन्दांसि त्रिसंख्याकानि । प्रातर्माध्यन्दिनतृतीयाख्यानि सवनानि च त्रिसंख्याकानि । लोकाश्च त्रिसंख्याकाः । अतो राजित्रययोगे सति देवसंबन्धिन्यां समृद्धौ वीर्ये लोकत्रये च प्रतितिष्ठति । वपनक्रमं साधनं च विधाय वपनं विधत्ते- यच्चातु॑र्मास्यया॒ज्यात्मनो॒ नाव॑द्ये॒त् ।। दे॒वेभ्य॒ आवृ॑श्च्येत॒ । च॒तृषुँ॑र्चतृषु मासे॑षु॒ निर्व॑र्तयेत । प॒रोक्ष॑मे॒व तद्दे॒वेभ्य॑ आ॒त्मनो॒ऽव॑द्यत्यनार्त्रस्काय, इति । चातुर्मास्ययाजी स्वशरीराशं यदि देवेभ्यो नावद्येत्तदा देवेभ्यो विच्छिद्येत । अतो विच्छेदाभावाय तदा तदा मासचतुष्टये वपनं कुर्यात् । तथा सति वपनव्यवधानेन स्वशरीरावदानमेव देवार्थं करोति । तच्चाविच्छेदाय भवति । तदेतद्व्रतं प्रशंसति- दे॒वानां॒ वा ए॒ष आनी॑तः । यश्चातु॑र्मास्यया॒जी । य ए॒वं
तैत्तिरीयब्राह्मणम् (१.५.७) २४३ वि॒द्वान्नि च॑ वर्त॒यते॒ परि॑ च । दे॒वता॑ ए॒वाप्ये॑ति । नास्य॑ · रु॒द्रः प्र॒जां प॒शून॒भिर्म॑न्यते (७), इति ए॒त्येत्य॒युञ्ज॒तासु॑र॒ एति॑ लो॒का मं॑न्यते । इति कृष्णयजुर्वेदीयैत्तिरीयब्राह्मणे प्रथमाष्टके पञ्चमाध्याये षष्ठोऽनुवाकः ॥ ६ ॥ योऽयं चातुर्मास्ययाजी स एष देवानां स्वभूतः सँल्लंके समानीतः । तस्मा देवं विद्वान्पुरुषः शलल्या केशान्पृथक्कुर्यात् । लोहितायसेन वपेच्च । स देवता एव प्राप्नोति । अस्य प्रजां पशून् रुद्रो न हिनस्ति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥ अथ पञ्चमप्रपाठके सप्तमोऽनुवाकः । षष्ठे चातुर्मास्यशेषो वपनविधिरुक्तः । सप्तमे त्वग्निचयनशेषा इष्टकोपधान मन्त्रा उच्यन्ते । “प्राची दिशाम्” इत्यादिभिर्मन्त्रैर्या अपानभृत इष्टका उक्तास्तदुपधानादूर्ध्वं “आयुषः” इत्यादिभिर्मन्त्रैर्द्वादशसंतत्याख्या इष्टका उपधेयाः । तन्मन्त्रपाठस्तु- आयु॑षः प्रा॒णं संत॑नु । प्रा॒णाद॑पा॒नं संत॑नु । अ॒पा॒नाद्व्या॒नं ँ संत॑नु । व्या॒नाच्चक्षु॑: संत॑नु । चक्षु॑षः॒ श्रोत्रं॑ ँ संत॑नु । श्रोत्रा॒न्मन॑: संत॑नु । मन॑सो॒ वाचँ॑ संत॑नु । वाच॑ आ॒त्मानं॒ ँ संत॑नु । आ॒त्मन॑: पृथि॒वी ँ संत॑नु । पृथि॒व्या अ॒न्तरि॑क्षं ँ संत॑नु । अ॒न्तरि॑क्षाद्दि॒वं ँ संत॑नु । दि॒वः सुव॑: संत॑नु (१), · इति । पृथि॒व्या अ॒न्तरि॑क्षं॒ संत॑नु॒ द्वे च॑ ।। इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके पञ्चमाध्याये सप्तमोऽनुवाकः ।। ७ ।। : हे इष्टक आयुष्यप्राणयोः परस्परं संततमविच्छेदं कुरु । आयुष इति तृतीयार्थे पञ्चमी । आयुषा सह प्राणं संयोजयेत्यर्थः । एवमुत्तरत्रापि योज्यम् । आत्मा परो जीवो वा । द्यौर्द्युलोकः । सुवःशब्देन तत्रत्यो भोगस्थानविशेष उच्यते ।
२४४ (१.५.८) तैत्तिरीयब्राह्मणम् इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥ अथ पञ्चमप्रपाठकेऽष्टमोऽनुवाकः । सप्तमे संतत्याख्येष्टकामन्त्रा उक्ताः । अष्टमेऽथर्वशिरोभिधाना नामिष्टकानां दशानां मन्त्रा उच्यन्ते । ताश्चेष्टकाः “प्राच्या त्वा दिशा सादयामि” इत्येतैर्मन्त्रैरुपधेयाभ्य इष्टकाभ्य ऊर्ध्वं पञ्चम्यां चितावुपधेयाः । तत्र प्रथमामृचमाह- इन्द्रो॑ द॒धीचो॒ अस्थ॑भिः । वृ॒त्राण्यप्र॑तिष्कुतः । ज॒घान॑ नव॒तीर्नव॑, इति । अथर्वणः पुत्रः कश्चिदर्षिर्दध्यङ्नामा । तस्य यान्यस्थीनि वज्रसमानि तैरस्थिभिर्वृत्राणि निवारकाणि परबलानि जघान । कीदृश इन्द्रः । अप्रतिष्कुतः प्रतिकूलो भूत्वा कुतोऽ यमित्येवं निराकर्ता वैरी यस्यासौ प्रतिष्कुस्तथाविधशत्रुरहित्यादयमप्रतिष्कुतः । कियन्ति वृत्राणि नवसंख्याका नवतीर्दशाधिकान्यष्टशतानीत्यर्थः । हे इष्टके तथाविधेन्द्ररूपा त्वमसि तादृशमिन्द्रस्त्वामुपदधात्विति वाऽध्याहर्तव्यम् । अथ द्वितीयामाह- इ॒च्छन्नश्व॑स्य॒ यच्छिरः॑ । पर्व॑ते॒ष्वप॑श्रितम् . तद्वि॑दच्छर्य॒णाव॑ति, इति । अग्नि कदाचिदश्वो भूत्वा देवेभ्योऽपक्रम्य पर्वतेषु निलीनः । तदानीमयमिन्द्रस्तस्याश्वस्य यच्छिरो द्रष्टुमिच्छन्पर्वतेषु चचार तदानीं पर्वतेष्वाश्रितं तदश्वस्य शिरः शर्यणावन्नामके कस्मिंश्चित्पर्वते विदल्लब्धवान् । हे इष्टके त्वं तथाविधाश्वशिरोरूपाऽसि । अथ तृतीयामाह- अत्राह॑ गो॒रम॑न्वत । नाम॒ त्वष्टु॑रपी॒च्य॑म् । इ॒त्था च॒न्द्रम॑सो गृ॒हे, इति । त्वष्टुः सूर्यस्य गोशब्दाभिधेयो रश्मिर्योऽस्ति तस्य नामात्राहास्मिन्ने वाग्नौ विद्यत इत्येवं यजमाना अमन्वत अग्निं दीप्तं दृष्ट्वा सूर्यरश्मिरित्येव भावितवन्त इत्यर्थः । कीदृशं रश्मिनाम । अपीच्यमप्यञ्चति पुनः
तैत्तिरीयब्राह्मणम् (१.५.८) २४५ पुनर्गाच्छतीत्यपीच्यम् । यदा वह्निज्वाला तदा तदा सूर्यरश्मिरित्येवं तेषां निश्चयः । एतच्च युक्तम् । एतस्यैव तेजसो रात्रावग्निप्रवेशस्य दिवसे सूर्यप्रवेशस्य चाग्निहोत्रब्राह्मणे प्रपञ्चयिष्यमाणत्वात् । इत्था चन्द्रमसो गृहे । एवमेव चन्द्रमण्डले यो रश्मिस्तन्नामाप्यस्मिन्नेवाग्नौ मन्यन्ते । सूर्यरश्मिरेव चन्द्रगतत्वात् । “सुषुम्नः सूर्यरश्मिश्चन्द्रमाः” इति श्रुत्यन्तरात् । यः सूर्यरश्मिर्यश्च चन्द्ररश्मिस्तदुभयरूपेयमग्निजवालेति तात्पर्यार्थः । इष्टके तथा विधाग्निरूपा त्वमसि । अथ चतुर्थीमाह- इन्द्र॑मिद्गा॒थिनो॑ बृ॒हत् (१) । इन्द्र॑म॒र्केभि॑र॒र्किणः॑ । इन्द्रं॑ वा॒णी॑रनूषत, इति । गाथिनः सामगा इन्द्रमिदिन्द्रमेव बृहद्यथा महद्भवति तथा गायन्तीति शेषः । अर्किणः शस्त्रिणो होतारः । अर्कैभिरर्चनीयैः शस्त्रैरिन्द्रं शंसन्तीति शेषः । वाणीर्ध्वन्योर्वाच इन्द्रमनूषत स्तुवन्ति । ह इष्टके तथाविधेन्द्ररूपा त्वमसि । अथ पञ्चमीमाह- इन्द्र॒ इद्धर्योः॒ सचा॑ । संमि॑श्ल॒ आं वचो॒युजा॑ । इन्द्रो॑ वज्री॑ हिर॑ण्ययः॑, इति । हर्योरश्वयोरिन्द्र इदिन्द्र एव सचा सक्तः । संबद्धो हरिद्वययुक्ते रथेऽवस्थित इत्यर्थः । तथा वचोयुजा नानाविधवाक्यसंदर्भयुक्तेन स्तोत्रेण, आ समन्तात्संमिश्लः संयुक्तः । स एवेन्द्रो वज्री वज्रहस्त । हिरण्ययः सुवर्णाभरणयुक्तः । अथ षष्ठीमाह- इन्द्रो॑ दी॒र्घाय॒ चक्ष॑से । आ सूर्य॑ऽरोह यदि॒वि । वि गोभि॒रद्रि॑मैरयत्, इति । अथेन्द्रो दीर्घाय चक्षसे दूरवर्तिनो दर्शनाय दिवि द्युलोके सूर्यमारोहयदारोहं कृतवान् । स च सूर्यो गोभी रश्मिभिरद्रिं पर्वतादियुक्तां भूमिं विशेषणैरयतप्रेरितवान्प्रकाशितवानित्यर्थः । अथ सप्तमीमाह-
२४६ (१.५.८) तैत्तिरीयब्राह्मणम् इन्द्र॒ वाजे॑षु नो अव । स॒हस्रं॑प्रधनेषु च (२) । उ॒ग्र उ॒ग्राभि॑रू॒तिभि॑ः, इति । ह इन्द्र त्वमुग्रः प्रतिकूलनिवारणे तीव्रः । सन्वाजेष्वन्नेषु सहस्रप्रधनेषु सहस्रसंख्याकेषु प्रकृष्टधनेषु च निमित्तभूतेषूग्राभीरूतिभिः प्रतिबन्धनिवारणाय तीव्रै रक्षणैर्नोऽस्मानव रक्ष । अथाष्टमीमाह- तमिन्द्रं॑ वाजयामसि । म॒हे वृ॒त्राय॒ हन्त॑वे । स वृषा॑ वृष॒भोऽभु॑वत्, इति । तथाविधगुणयुक्तमिन्द्रं वयं वाजयामसि गमयामो भक्त्या प्रेरयाम इत्यर्थः । किमर्थम् । महे वृत्राय हन्तवे महान्तं पापरूपं वैरिणं हन्तुम् । स चेन्द्रो वृषाऽ स्माकं कामानां वर्षयिता सन्वृषभोऽभुवच्छ्रेष्ठो भवतु । अथ नवमीमाह- इन्द्र॑ः स दाम॑ने कृ॒तः । ओजि॑ष्ठः स बले॑ हि॒तः । द्यु॒मनी श्लो॒की स सौ॒म्यः, इति । स तादृश इन्द्रो दामने दामकृत्ये बन्धने कृतः पाशैर्वशीकृत इत्यर्थः । स चेन्द्र ओजिष्ठोऽतिबलवान् । अत.एव बले हितो बलकृत्ये वैरि॑विनाशनेऽस्माभिर्भक्त्या प्रेरितः । स चेन्द्रो द्युम्नी धनवान् । श्लोकी कीर्तिमान् सौम्यो रमणीयः । अथ दशमीमाह- गि॒रा वज्रो॒ न संभृ॑तः । सब॑लो॒ अन॑पच्युतः । व॒व॒क्षुरु॒ग्रो अस्तृ॑तः (३), इति । बृह॒च्चास्तृ॑तः । इतिकृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणेप्रथमाष्टके पञ्चमाध्यायेऽष्टमोऽनुवाकः ॥ ८ ॥ सोऽयमिन्द्रो गिरऽस्मदीयया स्तुतिरूपया वाचा वज्रो न वज्र इव संभृतः सम्यगस्माभिर्वशीकृतः । सबलो बलेन सैन्येन युक्तः । अनपच्युतः कदाचिदप्यपलायितः । ववक्षुर्युद्धभारं वोढुमिच्छुः । उग्रः शत्रूणां
तैत्तिरीयब्राह्मणम् (१.५.९) २४७ भयंकरः । अस्तृतः कनाप्यहिंसितः । ह इष्टक ईदृगिन्द्ररूपा त्वमसि । ईदृगिन्द्रस्त्वामुपदधात्विति सर्वत्र शेषोऽध्याहर्तव्यः । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके- ऽष्टमोऽनुवाकः ॥ ८ ॥ अथ पञ्चमप्रपाठके नवमोऽनुवाकः । अष्टमेऽथर्वशिरोभिधानानामिष्टकानां मन्त्रा उक्ताः । नवमे सोमशेषभूता इष्टयो विधीयन्ते । तत्राऽऽदौ शब्दनिर्वचनेनेष्टीः प्रशंसति- दे॒वा॒सु॒राः संयं॑त्ता आसन् । स प्र॒जाप॑तिरिन्द्रं॑ज्ये॒ष्ठं पु॒त्रम॒पर्न्य॑धत्त । नेदैन॒मसु॑रा॒ बली॑या ॅ सोऽह॒न्निति॑ । प्र॒ह्लादो॑ ह॒ वै का॑याध॒वः । वि॒रोच॑नं॒ स्वं पु॒त्रम॒पर्न्य॑धत्त । नेदैनं॑ दे॒वा अह॑न्निति॑ । ते दे॒वाः प्र॒जाप॑तिमुप॒समे॑त्योचुः । नारा॑जक॑स्य यु॒द्धम॑स्ति । इन्द्र॑म॒न्विच्छा॒मेति॑ । तं य॒ज्ञक्रतु॑भिर॒न्वैच्छन् (१) । तं य॒ज्ञक्रतु॑भिर्नान्व॑विन्दन् । तमिष्टि॑भिर॒न्वैच्छन् । तमि॒ष्टि॑भिरन्व॑विन्दन् । तदिष्टी॑नामिष्टि॒त्वम् । एष्ट॑यो ह॒ वै नाम॑ । ता इष्ट॑य इत्याच॑क्षते परोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः, इति । देवाश्चासुराश्च यदा युद्धार्थमुद्यतास्तदानीं प्रजापतिः स्वकीयं ज्येष्ठं पुत्रमिन्द्रं युद्धभूमेरपनीय क्वचिद्गूढे स्थाने निहितवान् । तस्याप्ययमभिप्रायः । बलीयांसोऽसुरा एनं दुर्बलमिन्द्रं नेदहन्नैव घ्नन्त्विति । तथा कयाधुसंज्ञिताया हिरण्यकशिपुभार्यायाः पुत्रः प्रह्लादः स्वकीयं पुत्रं विरोचनमसुरसैन्यस्वामिनं युद्धभूमेरपनीय क्वचिनिहितवान् । तस्यायमभिप्रायः । एनं विरोचनं देवाः सर्वथा मा घ्नन्त्विति । एवं च राजद्वयरहितयोः सेनयोरवस्थितयोः सत्योर्देवाः प्रजापतिसमीपं प्राप्यैवमूचुः । राजरहितस्य सैन्यस्य न क्वचिदपि युद्धमस्ति । युयुत्सवः सर्वेऽपि राजानमन्तरेण पलायिष्यन्ते । तस्मादिन्द्रं राजानं तत्र तत्रान्विच्छाम इत्युक्त्वा प्रजापतिनाऽनुज्ञातास्तमिन्द्रं लब्धुं ज्योतिष्टोमोक्थ्यादिरूपान्क्रतूननुष्ठितवन्तः । अङ्गभूतेष्टिरहितैस्तैर्महाक्रतु-
भिरिन्द्रमलब्ध्वा तत्र कारणमङ्गेष्टिवैकल्यं निश्चित्य ता इष्टीरनुष्ठाय ताभिरिष्टिभिरेनं लब्धवन्तः । एवं च सत्यन्वेषणसाधनत्वादिष्टय इत्येतासां नाम । तथाऽपि मुख्यं नाम गोपयित्वा परोक्षेण तिरोहितेन नाम्ना व्यवहर्तुमिष्टय इत्याचक्षते । अन्वेषणसाधनत्वमेष्टित्वम् । यजनसाधत्वमिष्टित्वम् । अतस्तेन व्यवहारे सति मुख्यं नाम परोक्षं भवति । देवानां च परोक्षं नाम प्रियम् । अत एव लोकेऽपि देवदत्तादिनाम परित्यज्याऽऽचार्या उपाध्यायमिश्रा इत्यादिनामभिः पूज्याः परितुष्यन्ति । यद्यप्यन्वेषणार्थस्वीकारेऽपीच्छतिधातोः क्तिन्प्रत्यये सति यजिधातुवदिष्टिरित्येव रूपं संपद्यते । तथाऽप्यौणादिकं कंचित्ककाररहितं प्रत्ययमभिप्रेत्य रूपमीदृशं श्रुत्या विवक्षितम् । याभिरिष्टिभिरिन्द्रमैच्छंस्तासां मध्ये प्रथमामिष्टिं दर्शयति - तस्मा॑ ए॒तमा॑ग्नावैष्ण॒वमेका॑दशकपालं दीक्षणीयं॑ निर॑वपन् । तद॑पद्रुत्या॑तन्वत । तांत्प॑त्नीसंया॒जान्त॒ उपा॑नयन् (२) । ते तद॑न्तमे॒व कृ॒त्वोद॑द्रवन्, इति । तस्मादिन्द्रलाभार्थमग्नाविष्णुदेवताकमेकादशकपालं पुरोडाशयुक्तं दीक्षणीयाख्यं कर्मानुष्ठितवन्तः । तेषु देवेषु मध्ये यावद्भिर्देवैर्यजमानेर्ऋत्विग्रूपैः कर्मानुष्ठातुं शक्यते तावन्तो देवाः कृत्स्नं देवसैन्यसंघादपक्रम्य क्वचिद्देवयजनदेशे तद्दीक्षणीयाख्यं कर्म विस्तारितवन्तः । तदानीमितरं देवास्तमिन्द्रमन्विष्य तैर्ऋत्विग्भिः पत्नीसंयाजपर्यन्ते कर्मण्यनुष्ठिते सति तानुष्ठातृन्देवान्प्रति समीपे समानयन् । ते चर्त्विग्रूपा देवाः स्वप्रयोजनस्य निष्पन्नत्वात्पत्नीसंयाजान्तमेव तत्कर्म कृत्वा तत्परित्यज्योद्गताः । तावताऽपीन्द्रस्थैर्याभावे पुनस्त ऋत्विजः प्रायणी याख्यामिष्टिं कृतवन्त इत्येतद्दर्शयति- ते प्राय॑णीयम॒भिस॒मारो॑हन् । तद॑पद्रुत्या॑तन्वत । ताञ्छं॑ य्वन्त॒ उपा॑ऽऽनयन् । ते तद॑न्तमे॒व कृ॒त्वोद॑द्रवन्, इति । अभिसमारोहन्प्रायणीयाख्यं कर्माभिलक्ष्य देवयजनं प्रविष्टाः । अन्यत्पूर्ववत् । पुनरपीन्द्रस्थैर्यायाऽऽतिथ्याख्यामिष्टिं दर्शयति-
तैत्तिरीयब्राह्मणम् (१.५.९) २४९ त आ॑तिथ्यम॒भिस॒मारोहन् । तद॑प॒द्रुत्या॑तन्वत । तानि डान्तु उपाऽनयन् । ते तद॑न्तमे॒व कृ॒त्वोद॑द्रवन् । तस्मा॑देता एतद॑न्ता इष्ट॑यः संति॑ष्ठन्ते (३), इति । पत्नीसंयाजानामेकविधत्वान्नास्ति तत्र संदेहः शंखिडयोर्द्वैविध्यमस्ति । पत्नीसंयाजेभ्यः पूर्वं होत्रा शंयुवाकेऽनूच्यमान आहवनीये परिधीननुप्रहरति । सोऽयमेकः प्रकारः आश्वलायनस्तु पत्नीसंयाजानभिधाय तदूर्ध्वं शंयुवाकविकल्पमुदाजहार-“संयुवाको भवेन्न वा” इति । पुरोडाशेनाऽऽज्येनेत्येवमिडाऽपि द्विविधा । तत्र पूर्वमिडान्तत्वं द्रष्टव्यम् । एवमिष्टीः प्रशस्य तास्तिस्र इष्टीर्विधत्ते- एवं ँहि दे॒वा अ॑कुर्वत । इति॑ दे॒वा अ॑कुर्वत । इत्यु॒ वै म॑नु॒ष्या॑: कुर्वते, इति । यस्मादेवमुक्तप्रकारेण देवा अकुर्वत तस्मान्मनुष्या अप्यनेनैव प्रकारेणेष्टीः कुर्युः । मध्ये पठितमिति देवा इति वाक्यं मनुष्यवक्तृकोऽनुवादः । इति देवा इत्यनेन प्रकारेण कृतवन्त इत्यनूद्य तत्सर्वं देवानुष्ठितप्रकारं हृदि निधाय पश्चात्तदनुतिष्ठन्ति । अथोपसदनुष्ठानप्रकारं विधातुं स्तौति- ते दे॒वा ऊ॑चुः । यद्वा इ॒दमुच्चैर्य॒ज्ञेन॒ चरा॑म । तन्नो॒ऽसु॑राः पा॒प्माऽनु॑विन्दन्ति । उपाँ॒शूप॑सदं॑ चराम । तथा॒ नोऽसु॑राः पा॒प्मा नाऽनु॑ वेत्स्य॒न्तीति॑ । त उपाँ॒शूप॑सद॑मतन्वत । ति॒स्र ए॒व सा॑मिधे॒नीर॒नूच्य॑ (४) । स्रु॒वेणाऽऽघा॒रमा॒धार्य॑ । ति॒स्रः परा॑चीराहुती॒र्हुत्वा॑ । स्रुवेणोप॒सदं॑ जुहु॒वांच॑क्रुः । उ॒ग्रं वचो॒ अपा॑वधीं त्वे॒षं वचो॒ अपा॑वधी॒ ँस्वाहाति॑ । अ॒श॒न॒या॒पि॒पा॒से ह॒ वा उ॒ग्रं वर्च॑: एन॑श्च वैरह॒त्यं च॑ त्वे॒षं वर्च॑: । ए॒तं ँहु वाव तच्च॑तु॒र्धा विहि॑तं पा॒प्मानं॑ दे॒वा अपा॑जघ्निरे, इति ।
२५० (१.५.९) तैत्तिरीयब्राह्मणम् असुराः सर्वत्र स्वयं प्रयोगमजानानां देवसमीपे कंचिद्गूढपुरुषमवस्थाप्य ततस्तेन ज्ञात्वा स्वयमप्यनुतिष्ठन्ति । एवं वृत्तान्तं विज्ञाय देवाः परस्परमिदमूचुः । यदि वयमुच्चैर्ध्वनिना यज्ञमनुतिष्ठामस्तर्ह्यस्माननु सर्वं प्रयोगं पापिष्ठा असुरा जानन्ति । अतस्तज्ज्ञाननिवारणायोपांशु यथा भवति तथोपसत्कर्मानुष्ठानं निष्पादयामः । तथा सति पापिष्ठा असुरा अस्माननुप्रयोगं न ज्ञास्यन्तीत्येवं निश्चित्योच्चैर्ध्वनिं परित्यज्योपांश्वेवोपसदमन्वतिष्ठन् । तत्प्रकारस्त्वे- तादृशः । चोदकप्राप्ताः पञ्चदश सामिधेनीःपरित्यज्य तिस्र एव सामिधेन्यस्तैरनूक्तास्तथा स्रुच्याऽऽघारं परित्यज्य स्रौवाघारमवानुष्ठितवन्तः । तदूर्ध्वं तिस्रः प्रधानाहुतीरग्निं सोमं विष्णुं चोद्दिश्य हूयमानाः पराचीर्हुतवन्तः । प्रकृतौ तु प्रतिप्रधानं पृथगेव वेद्या उत्तरतो दक्षिणदेशमागत्य होमःक्रियते । इह तु सकृदेवाऽऽगत्य होमत्रयं क्रियते । तदिदं पुनरावृत्तिराहित्यं पराचीशब्देन विवक्षितम् । तदेतदाहुतित्रयं हुत्वा चतुर्थीमुपसदाख्यां प्रधानाहुतिं “या ते अग्नेऽयाशया” इति संहितायामाम्नातमन्त्रानुच्चार्य स्रुवेण हुतवन्तः । तस्य मन्त्रस्योत्तरभाग उग्रं वच इत्यादिवाक्यमदित । तत्र क्षुत्पिपासे एवोग्रं वच उच्यते । क्षुधिताः स्मः पिपासिताः स्मो नास्माकमन्नपाने विद्येते इत्येतद्वाक्यं घोरं कृपालवः श्रोतुं न सहन्ते । तदेतदुग्रत्वं यदेतद्ब्रह्मवधादि रूपमुपपातकं यच्च वीरहत्यादिरूपं महापातकं तदेतत्त्वेषं वच इत्यनेनाभिधीयते । त्वेषशब्देन दीप्तिवाचिना चित्तक्लेशरूपा ज्वालोपचर्यते । उपपातकं महापातकं च निष्पन्नमिति श्रुतवतश्चित्ते महान्क्लेशो भवति । क्षुत्पिपासे महापातकोपपातके इत्येवं फलरूपेण तत्साधनरूपेण चावस्थितं चतुर्विधं पाप्मानं देवा उपसद्धोमेन विनाशितवन्तः । अय देवैरनुष्ठितप्रकारः सर्वोऽपि सूत्रकारेण संगृहीतः-“ध्रौवादग्रौ जुह्वां गृह्णाति चतुरुपभृति घृतवतींशब्दे जुहूपभृतावदाय दक्षिणा सकृदभिक्रान्त उपा ँ शुयाजवत्प्रचरत्यर्धेन जौहवस्याग्निं यजत्यर्धेन सोमंपौपभृतं जुह्वामानीय विष्णुमिष्ट्वा प्रत्याक्रम्य या ते अग्नेऽयाशया तनूरितिस्रुवेणसदं जुहोति” इति । तमिमं प्रकार विधत्ते- तथो॑ ए॒वैतदै॑वंवि॒द्यज॑मानः । ति॒स्र ए॒व सा॑मि॒धेनी॒रनूच्य॑ । स्रु॒वेणा॑ऽऽघा॒रमा॒घार्य॑ (५) । ति॒स्रः प॒राची॒राहु॑तीर्हु॒त्वा । स्रु॒वेणोप॒सदं॑ जुहोति । उ॒ग्रं वचो॒ अपा॑वधीं त्वे॒षं वचो॑
तैत्तिरीयब्राह्मणम् (१.५.९) २५१ अ॑पाव॒धीँ स्वाहेति॑ । अ॒श॒न॒यापि॒पा॒से ह॒ वा उ॒ग्रं वच॑: । एन॑श्च वैरह॒त्यं च॒ त्वेषं॒ वच॑: । ए॒तमे॒व तच्च॑तु॒र्धा विहि॑तं पा॒प्मानं॒ यज॑मानोऽप॑हते, इति । तदेतद्यजमानवाक्यं पूर्वोक्तदेववाक्यवद्व्याख्येयम् । उपसदनुष्ठानप्रकारं विधायानन्तरमग्नीषोमीयपश्वनुष्ठानं विधातुं प्रस्तौति- तैऽभि॒नीयै॒वाह॑: प॒शुमाल॑भन्त । अह॑ ए॒व तद्दे॒वा अर्व॑र्तिं पा॒प्मानं॑ मृ॒त्युमप॑जघ्निरे । तेना॑भि॒नीयै॒व रात्रे॑: प्राच॑रन् । रात्र्या॑ ए॒व तद्दे॒वा अर्व॑र्तिं पा॒प्मानं॑ मृ॒त्युमप॑जघ्निरे (६), इति । अनुष्ठितापसदस्ते देवा अहरभिनीयेवास्तमयात्प्रागह्नो विशिष्टं कालं प्राप्यैवाग्नीषोमीयं पशुमालभन्त । योऽयमवर्तिं जीवनार्थवृत्तिप्रतिबन्धकं पाप्मानं मृत्युसदृशं तेन पश्वालम्भेनाह्नोऽपनीय देवा विनाशितवन्तः । अभिनीयैवाहानि पशुमुपक्रम्यैव तेन पशुना रात्रेः संबन्धिनि कालविशेषेऽनुष्ठितवन्तः । तेनानुष्ठानेन देवा रात्र्याः सकाशात्तं पाप्मानमपनीय नाशितवन्तः । अत्र प्रयाजपर्यन्तस्याहन्यनुष्ठेयं शेषो रात्रावनुष्ठेय इति । एतमर्थं सूत्रकारः स्पष्टमुदाजहार--“दिवा प्रयाजै । प्रचर्य” इति । तमिममनुष्ठानप्रकारं विधत्ते- तस्मा॑दभि॒नीयै॒वाह॑: प॒शुमाल॑भेत । अह॑ ए॒व तद्यज॑मानो॒ऽ- वर्तिं॑ पा॒प्मानं॒ भ्रातृ॑व्यान॒र्पनु॑दते । तेना॑भि॒नीयै॒व रात्रे॑: प्र॒चरे॑त् । रात्र्या॑ ए॒व तद्यज॑मानो॒ऽव॑र्तिं पा॒प्मानं॑ भ्रातृ॑व्यान॒र्पनु॑दते, इति । यस्माद्देवैरनुष्ठितं तस्माद्यजमानोऽपि तथाऽनुतिष्ठेत् । देववाक्यवद्यजमानवाक्यं व्याख्येयम् । तत्र मृत्युरूपः पाप्माऽत्र तु भ्रातृव्यरूप इति विशेषः । उक्तस्य पशोर्देवतासंबंधं विधत्ते- । स ए॒ष उ॑पवस॒थीयेऽह॑न्द्विदे॒व॒त्य॑: प॒शुराल॑भ्यते । द्वयं॒ वा
२५२ (१.५.९) तैत्तिरीयब्राह्मणम् अ॒स्मिंल्लो॒के यज॑मानः । अस्थि॑ च मा॒ सँ च॑ । अस्थि॑ चै॒व तेने॑ मा॒ सँ च॒ यज॑मानः स ँ स्कु॑रुते, इति । यस्मिन्नहनि देवता यजमानस्य समीपे निवसति तदहरुपवसथीयम् । अत एवान्यत्राऽऽम्नायते–“उ॑पा॒स्मिञ्छ्वो यक्ष्य॑माणे देवता वसन्ति” इति । अत्राप्यग्नीषोमीयानुष्ठानादूर्ध्वदिने यजमानः सोमेन यक्ष्यते । तस्मादिदमहरुपवसथीयम् । यस्मिन्नहनि यः पशुरालभ्यः स द्विदेवत्यः । तौ च देवावग्नीषोमौ । “यदग्नीषोमीयं पशुमालभते” इत्यन्यत्राऽऽम्नानात् । यजमानस्य शरीरमप्यस्मिन्मनुष्यलोकेऽस्थिमांसद्वयात्मकं ततो द्विदेवत्येन पशुना यजमानः स्वकीयमस्थि मांसं च संस्करुते । एतत्पशुदेवताप्रसङ्गेन सवनीयपशुदेवतामग्निरूपा- मनूबन्ध्याख्यपशुदेवतां मित्रावरुणरूपां च मिलित्वा प्रशंसति- ता वा ए॒ताः पञ्च॑ दे॒वता॑: । अ॒ग्नीषोमा॑व- ग्निर्मित्रावरु॑णौ । प॒ञ्च प॒ञ्ची वै यज॑मानः । त्वङ्मा ँ स ꣳ स्नावास्थि॑ म॒ज्जा । ए॒तमे॒व तत्प॑ञ्च॒धा विहि॑तमा॒त्मानं॑ वरु॑णपा॒शान्मु॑ञ्चति । भेष॒जता॑यै निर्वरु॑णत्वाय, इति । ता वा एताः पशुदेवताः पञ्चसंख्याकाः । कास्ता इति ता उच्यन्ते । उपवसथीयेऽह्नि द्वावग्नीषोमावस्य पशोर्देवौ परेद्युः सवनेष्वग्निः सवनीयपशोर्देवः । अन्ते मित्रावरुणावनूबन्ध्याख्यपशोर्देवौ । यजमानोऽ प्यवयवपञ्चकोपेतत्वात्पञ्ची । पञ्चभिस्त्वगादिभिः पञ्चीति समासे सति पञ्चपञ्ची । अतःपशुत्रये पञ्चदेवता यजमानः पञ्चावयवोपेतं स्वदेहं वरुणपाशान्मोचयति । अतस्तद्भजनमौषधसिद्धये भवति । सा च सिद्धिर्वरुणोपद्रवपरिहाराय भवति । तस्मादेताः पञ्च देवता भजनीयाः । अथ प्रातरनुवाकाख्य ऋक्समूहे छन्दोविशेषान्विधत्ते- त ꣳ स॒प्तभि॑श्छन्दो॑भिः प्रा॒तर॑ह्वयन् । तस्मा॑त्स॒प्तच॑तुरुत्तराणि॒ च्छन्दा॑ ꣳ सि प्रातरनुवा॒केऽनू॑च्यन्ते, इति । देवास्तमिन्द्रं प्रातः काले सप्तभिश्चन्दोभिराहूतवन्तः । तस्मात्कारणात्प्रातरनुवाके गायत्रीत्रिष्टुब्जगत्याख्यानि मुख्यानि च्छन्दांसि चतुर्भिरुत्तरैरुष्णिगनुष्टुब्बृहतीपङ्क्त्याख्यैश्छन्दोभिः सहितानि प्रैषमनुवक्तव्यानि । तांश्छन्दोविशेषयुक्ता ऋच ऐतरेयब्राह्मणेऽवगन्तव्यः।
तैत्तिरीयब्राह्मणम् (१.५.९) २५३ अथ वहिष्पवमानाख्यस्य स्तोत्रस्य प्रथमामृचं विधत्ते- तमे॑तयोप॒समेत्योपा॑सीदन् । उपा॑स्मै गायत नर॒ इति॑ । तस्मा॑दे॒तया॑ बहिष्पवमा॒न उप॑सद्यः (७), इति । ऐच्छन्ननय ँ स्तिष्ठन्ते॒ऽनूच्या॑नू॒च्यं स्रुवेणा॑घा॒रमा॒घा॒र्य रात्रिया॑ ए॒व तद्दे॒वा अवे॑र्ति पा॒प्मानं॑ मृ॒त्युम॑पजघ्निरे मि॒त्रावरु॑णौ॒ नवे॑ च । [जुहुवामेत ँह देवाथों जु॒होत्येतमेव तद्य॑जमान॒स्तैऽभिनीर्य॑ दे॒वा य॑जमानो॑ देवा॑ दे॒वा य॑जमानो॒ य॑जमानःप्राच॑रन्प्रच॑र॒दाल॑भन्तालभेत॒ मृत्युम॑पजघ्निरे मि॒त्रावरु॑णौ॒ भ्रातृ॑व्यान् (१)]। इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके पञ्चमाध्याये नवमोऽनुवाकः ॥ ९ ॥ देवास्तमिन्द्रमुपास्मा इत्येतयर्चा समीपे प्राप्योपाविशन् । तस्मादेतयर्चा वहिष्पवमानाख्यः स्तोत्रविशेषः सामगैरारब्धव्यः । अत मीमांसा । नवमाध्यायस्य प्रथमपादे चिन्तितम्- मन्द्रादिकमपूर्वाय परायावान्तराय वा । फलादाद्यो नो समं तल्लक्षणा तु विशिष्यते ॥ (इति) । ज्योतिष्टोमे श्रूयते-“यावत्या वाचा कामयीत तावत्या दीक्षणीयायामनुब्रूयान्मन्द्र प्रायणीयायां मन्द्रतरमातिथ्यायामुपाँ शूपसत्सूच्चैरग्नीषोमीये” इति । अत्र ध्वनेरुच्चावचभावः । परमापूर्वप्रयुक्तस्तस्य फलवत्वादिति चेत् । मैवम् । अवान्तरापूर्वेऽपि समानं फलवत्वं परमापूर्वजननद्वारेण फलसंबन्धात् समाने च फलवत्वे संनिकृष्टलक्षणया निर्णयः । तथा हि-दीक्षणीयादिशब्दा अङ्गकर्मवाचिनः । न च मन्द्रत्वादिधर्माणां कर्मस्वरूपं प्रयोजकम् । अपूर्वप्रयुक्तेर्निर्णीतत्वात् । ततो दीक्षणीयादिशब्दैरपूर्व लक्षणीयम् । तत्र स्ववाक्यगतमवान्तरापूर्वं संनिकृष्टं तद्द्वारकं परमापूर्वं विप्रकृष्टम् । तस्मादवान्तरापूर्वप्रयुक्ता एते धर्माः । अश्वमेधगतत्रैधातवी- यायाम्यूहाभावःफलम् । तथा ह्याश्वमेधे समाम्नायते-“त्रैधातवीया दीक्षणीया भवति” इति । यदि परमापूर्वप्रयुक्तं स्यात्ततस्तस्योपकार- विशेषनिबन्धन इति तत्कार्यापन्नायां त्रैधातवीयायां भविष्यति । अथाऽग्नावैष्णवापूर्वप्रयुक्तस्तदा त्रैधातवीयायां तदपूर्वं न भवति किंत्वन्यदेवेति नास्त्यूहः । दशमाध्यायस्य सप्तमपादे चिन्तितम्-
२५४ (१.५.९) तैत्तिरीयब्राह्मणम् प्रायणीयातिथ्ययोः किं विकल्पः शंय्विडान्तयोः । नियमो वा विकल्पः स्यान्निषेधपरिसंख्यया ॥ शंय्विडान्तत्वावाक्याच्च नियमो विधिमात्रतः । नित्यानुवादो नञ्वाक्यं दोषबाहुल्यमन्यथा ॥ [इति] । ज्योतिष्टोमे श्रूयते-‘शंय्वन्ता प्रायणीया संतिष्ठते न पत्नीः संयाजयन्ति’ इति । इडान्ता आतिथ्याः संतिष्ठन्ते नानुयाजान्यजति” इति । प्रकृतौ यदा होता “तच्छंयोः” ति मन्त्रं जपति तदानीमध्वर्युः परिधीनग्नौ प्रक्षिपति । तदाह कल्पसूत्रकारः-“अनूच्यमाने शंयुवाक आहवनीये परिधीन्प्रहरति” इति । ततो हविःशेषेषु भक्षितेषु पत्नीः संयाजयन्तीति क्रमः । तथा प्रधानयागानारिष्टहोम- प्राशित्रादिभक्षणेडाभक्षणानूयाजसूक्तवाकशंयुवाका इत्यधस्तनः प्रयोगक्रमः । पत्नीसंयाजानामुपरि फलीकरणहोमप्रायश्चित्त- होमकपालोद्वासनानैरिष्टः समाप्यते । एवं स्थिते विकृतिरूपायाः प्रायणीयेष्टेः । शंयुवाकान्तत्वमातिथ्येष्टेरिडाभक्षणान्तत्वं च विकल्पितं स्यात् । कुतः । निषेधवाक्यविधिवाक्याभ्यां प्रकरणद्वयप्रतीतेः । तथा हि- शंय्वन्तत्वेडान्तत्वविधिनेवोपरितनपत्नीसंयाजानूयाजनिषेधे पुनर्निषेध वचनं परिसंख्यार्थम् । पत्नीसंयाजानूयाजव्यतिरिक्ते नास्ति निषेध इति परिसंख्या । तेन प्रकृतिवद्यथाप्राप्तं कपालोद्वासनान्तत्वमनयोरिष्ट्योः प्रतीयते । विधिवाक्येन च शंय्विडान्तत्वम् । तेन व्रीहियववद्विकल्प इति प्राप्ते ब्रूमः । विधिमात्रस्यात्राप्रवृत्तेः शंय्वन्तत्वमिडान्तत्वं च तयोः प्रतिनियतम् । पत्नीसंयाजाद्यभावस्त्वर्थसिद्धः । ततो नञ्पदयुक्तमुपरितनं प्रतिषेधवाक्यं नित्यानुवादः । पत्नीसंयाजाद्यकरणाल्लाघवं भवतीति । अन्यथा बहवोदोषाः प्रसज्येरन् । विकल्पे तावदष्टौ दोषाः प्रसिद्धाः । परिसंख्यायां च त्रयो दोषाः । विधिपरिसंख्याभ्यां वाक्यभेदोपसंहारोऽपरो दोषः । ततः शंय्विडान्तत्वं नियतम् । . तत्रैव शंग्विडे पूर्वे परे वा स्वेच्छयाऽथवा । परे एवाथवा पूर्वे एवाऽऽद्यो द्विविधश्रुतेः ॥ निषेधस्यार्थवत्त्वाय परे एवानुवादगीः । पूर्वैकवाक्यतां याति पूर्वे एवाविरोधतः ॥ [इति] । प्रायणीयातिथ्ययोरेवान्तत्वेन निर्णीतं शंग्विडे पुनः संदिह्येते । प्रकृतौ द्विविधे शंग्विडे पत्नीसंयाजेभ्यः पुरस्तादुपरिष्टाच्च विहिते । ते चात्र चोदकप्राप्ते । तत्र द्विविधश्रुतेरर्थे चोदकेनातिदिष्टे सति विशेषनियामकाभावादिच्छया स्वीकार्ये इत्येकः पक्षः । यदि प्रायणीया