तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
४२ श्रीतन्त्रालोकः । भैरवं यामलं चैव मताख्यं मङ्गलं तथा । चक्राष्टकं शिखाष्टकं बहुरूपं च सप्तमम् ॥ वागीशं चाष्टमं प्रोक्तमित्यष्टौ वीरवन्दिते । एतत्सादशिवं चक्रं कथयामि समासतः ॥ स्वच्छन्दो भैरवश्चण्डः क्रोध उन्मत्तभैरवः । असिताङ्गो महोच्छुष्मः कपालीशास्तथैव च ॥ एते स्वच्छन्दरूपास्तु बहुरूपेण भाषिताः । ब्रह्मयामळमित्युक्तं विष्णुयामळकं तथा ॥ स्वच्छन्दश्च रुरुश्चैव षष्ठं चाथर्वणं स्मृतम् । सप्तमं रुद्रमित्युक्तं वेतालं चाष्टमं स्मृतम् ॥ अतः परं महादेवि मतभेदाञ्छृणुष्व मे । रक्ताख्यं लम्पटाख्यं च मतं लक्ष्म्यास्तथैव च ॥ पञ्चमं चालिका चैव पिङ्गलाद्यं च षष्ठकम् । उत्फुल्लकं मतं चान्यद्विश्वाद्यं चाष्टमं स्मृतम् ॥ चण्डभेदाः स्मृता ह्येते भैरवे वीरवन्दिते । भैरवी प्रथमा प्रोक्ता पिचुतन्त्रसमुद्भवा ॥ सा द्विधा भेदतः ख्याता तृतीया तत उच्यते । ब्राह्मी कला चतुर्थी तु विजयाख्या च पञ्चमी ॥ पं० १२ ख० पु० लम्पटाद्यं च इति पाठः । पं० १३ ख० पु० पञ्च पञ्चालिका इति पाठः । पं० १४ ख० पु० उत्फुल्लकमतमिति समस्तः पाठः । पं० १५ ख० पु० वीरवत्सले इति पाठः ।
श्लो० १८ ] प्रथमाह्निकम् । ४३ चन्द्राख्या चैव षष्ठी तु मङ्गला सर्वमङ्गला । एष मङ्गलभेदोऽयं क्रोधेशेन तु भाषितः ॥ प्रथमं मन्त्रचक्रं तु वर्णचक्रं द्वितीयकम् । तृतीयं शक्तिचक्रं तु कलाचक्रं चतुर्थकम् ॥ पञ्चमं बिन्दुचक्रं तु षष्ठं वै नादसंज्ञकम् । सप्तमं गुह्यचक्रं च खचक्रं चाष्टमं स्मृतम् ॥ एष वै चक्रभेदोऽयमसिताङ्गेन भाषितः । अन्धकं रुरुभेदं च अजाख्यं मूलसंज्ञकम् ॥ वर्णभण्ठं विडङ्गं च ज्वालिनं मातृरोदनम् । कीर्त्तिताः परमेशेन रुरुणा परमेश्वरि ॥ भैरवी चित्रिका चैव हंसाख्या च कदम्बिका । हृल्लेखा चन्द्रलेखा च विद्युल्लेखा च विद्युमान् ॥ एते वागीशभेदास्तु कपालीशेन भाषिताः । भैरवी तु शिखा प्रोक्ता वीणा चैव द्वितीयिका ॥ वीणामखिस्तृतीया तु संमोहं तु चतुर्थकम् । पञ्चमं डामरं नाम षष्ठं चैवाप्यथर्वकम् ॥ कबन्धं सप्तमं ख्यातं शिरश्छेदोऽष्टमः स्मृतः । एते देवि शिखाभेदा उन्मत्तेन च भाषिताः ॥ एतत्सादशिवं चक्रमष्टाष्टकविभेदतः ॥' पं० ८ क० पु० अजाद्यमिति पाठः । पं० ९ ख० पु० वर्णामठम् इति पाठः । पं० १६ क० पु० प्यवर्धकम् इति पाठः ।
४४ श्रीतन्त्रालोकः । इति । तैर्भिन्नं भेदोपभेदवैचित्र्यात्मना नानाप्रकार- मित्यर्थः । यत्तु श्रीश्रीकण्ठ्यां तत्पुरुषवक्त्रमुद्दिश्य 'अष्टाविंशतिभेदैस्तु गारुडं हृदयं पुरा ।' इत्यादि । तथा 'पश्चिमे भूततन्त्राणि....................।' तथा 'दक्षिणे दक्षिणो मार्गश्चतुर्विंशतिभेदतः ।' इत्यादि । तथा 'वामदेवात्तु यज्जातमन्यत्तत्साम्प्र [म्प्र]तं शृणु ।' इत्यादि अन्यभेदोपभेदवैचित्र्यमुक्तं, तदेकैकस्य वक्त्रस्य पञ्चवक्त्रात्मकत्वात् एतद्भेदजातोपभेदा- त्मकमेव — इति तत एव संगृहीतम् इति न पृथगिह आयस्तम् । तदुक्तं 'एकैकं पञ्चवक्त्रं च वक्त्रं यस्मात्प्रगीयते । दशाष्टादशभेदस्य ततो भेदेष्वसंख्यता ॥' पं० १ क० पु० भेदोपभेदनानावैचित्र्येत्यादिपाठः । पं० १० क० पु० एकैकवक्त्रस्येति समस्तः पाठः । पं० १२ क० पु० पृथगिह नायस्तमित्येवंविधः पाठः ।
श्लो० १८ ] प्रथमाह्निकम् । ४५ इति । अतश्च भेद-भेदाभेदाभेदप्रतिपादकं शिवरु- द्रभैरवाख्यं त्रिधैवेदं शास्त्रमुद्भूतम् इति सिद्धान्तः । तदुक्तं 'तन्त्रं जज्ञे रुद्रशिवभैरवाख्यमिदं त्रिधा । वस्तुतो हि त्रिधैवेयं ज्ञानसत्ता विजृम्भते ॥ भेदेन भेदाभेदेन तथैवाभेदभागिना ।' इति । एवं च भेदाद्यात्मकमपीदं शास्त्रं परमेश्वरेश- वामाघोरात्मकं षष्ठं त्रिकं परादिदेवीत्रयविश्रान्ति- धामतया क्रोडीकृत्य, 'पुष्पे गन्धस्तिले तैलं देहे जीवो जले रसः । यथा तथैव शास्त्राणां कुलमन्तःप्रतिष्ठितम् ॥' इत्याद्युक्त्या परमाद्वयामृतपरिप्लावितं विदध्यात्, अन्यथा ह्यस्य परपदप्राप्तिनिमित्तत्वं न स्यात् । तदुक्तं
पं० ७ ख० पु० द्वयात्मकमप्येतदिति पाठः । पं० ८ ख० पु० षष्ठत्रिकमिति समस्तः पाठः । पं० १० क० पु० जलेऽमृतम् इति, ख० पु० जले घृतमिति पाठः । पं० १२ क० पु० परिप्लुतमिति पाठः । अन्यथा हत्यतो न स्यादित्यन्तः वाक्यपाठः क० ग० पुस्तकेयोर्नास्ति ।
४६ श्रीतन्त्रालोकः । ‘ततोऽपि संहृताशेषभावोपाधिसुनिर्भरः । भैरवः परमार्थौघद्रुवबृंहितशक्तिकः ॥ ईशान-वाम-दक्षासु तासु शक्तित्रयं क्रमात् । अपरादिपराप्रान्तं क्रोडीकृत्य त्रिकं स्थितः ॥ ऊर्ध्ववामतदन्यानि तन्त्राणि च कुलानि च । तद्द्वाराप्रान्तरूढानि प्रापय्याभेदभूमिकाम् ॥’ इति। ननु एवंविधा श्रुतिर्न काचिदुपलभ्यत इति किं प्रमाणम् । ननु अत्र उक्तमेवानेन गुरुपारम्पर्यलक्षणं प्रमाणम् । यदाह ‘इत्थं मध्ये विभिन्नं तत्त्रिकमेव तथा तथा । शास्त्रमस्मद्गुरुगृहे संप्रदायक्रमात्स्थितम् ॥’ इति । ननु यदेवात्र पुंबुद्धिप्रभवत्वं चोद्यं तदेवो- त्तरीकृतम् — इत्यपूर्वमिदं पाण्डित्यं, तेनागमः कश्चन संवादनीयो येनैतत्समाहितं स्यात्, नैतत् अविगीतैव हि प्रसिद्धिरागमः इत्युच्यते, यदुक्तं पं० १ ख० पु० भावोपाधिषु निर्भर इति पाठः । पं० २ ख० पु० परमार्थौद्यध्रुवेति पाठः । पं० ४ क० पु० पराक्रान्तमिति पाठः । पं० ६ क० पु० उद्धारप्रान्तेति, क० पु० भेदभूमिकाः इति च पाठः । पं० ८ ग० पु० न तूक्तमेवात्रानेनेति पाठः । पं० १२ क० पु० चोद्यं तत्कृतमितीति पाठः । पं० १४ क० पु० सामाहित्यं स्यादिति पाठः ।
श्लो० १८] प्रथमाह्निकम् । ४७ 'प्रसिद्धिरागमो लोके युक्तिमानथवेतरः । विद्यायामप्यविद्यायां प्रमाणमविगानतः ॥ प्रसिद्धिरवगीता हि सत्या वागैश्वरी मता । तथा यत्र यथा सिद्धं तद्ग्राह्यमविशङ्कितैः ॥' इति । सा चात्र विद्यत एवाविगानेन महा- त्मनां महागुरूणाम् इति किमत्र प्रमाणान्त- रान्वेषणेन । यदि चार्वाग्दृशां भवादृशामेवंविधा श्रुतिः कर्णगोचरं न गता- तावतैव एतन्नोपपद्यते, इति न वक्तुं शक्यं, नहि प्रमाणाभावात्प्रमेयस्याप्य- भावः स्यात् । न चैते विप्रलम्भका येनैवमन्यथोप- दिशेयुः, एतदुपदेशमूलतयैव निखिलस्य शैवशास्त्राग- मार्थस्य प्रयोगदर्शनात् । तेन यथा मन्वादिस्मृतौ उत्सन्नशाखामूलत्वादष्टकादियागानां मूलभूता श्रुतिः कल्प्यते तथा इहापि ज्ञेयम् । नह्येवंविधां श्रुतिम- दृष्ट्वा साक्षात्कृतनिखिलशैवागमसतत्त्वास्त एवमु- पं० १ क० पु० अथ नेतर इति पाठः । पं० ३ ग० पु० वागीश्वरी इति पाठः । पं० १२ ख० पु० प्रयोगप्रदर्शनादिति पाठः । पं० १३ क० पु० उत्पन्नशाखामूलेति च पाठः ।
४८ श्रीतन्त्रालोकः । पदिशेयुः इत्यलं महागुरूणामुपदेशपरीक्षणदुःशि- क्षया । ननु शास्त्राणां 'यतः शिवोद्गवाः सर्वे शिवधामफलप्रदाः ।' इत्याद्युक्तेरेकत्वनियामककारणफलयोरैक्यमस्ति, इह किंनिबन्धनमेषामेवं नानात्वमुक्तंः ? सत्यं - किन्तु अनुग्राह्याशयभेदादेषां नानात्वं कल्पितम् । यदुक्तं 'सर्वमेतत्प्रवृत्त्यर्थं श्रोतॄणां तु विभेदतः । अर्थभेदात्तु भेदोऽयमुपचारात्प्रकल्प्यते ॥ फलभेदो न कल्प्योऽत्र कल्प्यश्चेदद्यथायथम् ।' इति । ननु यद्येवं तत् 'वेदादिभ्यः परं शैवं शैवाद्वामं च दक्षिणम् । दक्षिणाच्च परं कौलं कौलात्परतरं नहि ॥' इत्यादिना उक्तमेषां यथायथमुत्कृष्टत्वं युक्तं न स्यात् , ? नैतत् - द्वारद्वारिभावेन एषामुपायोपेय- भावस्य उक्तत्वात्, तेन परमाद्वयोपदेशप्रतिपादक- पं० १ क० ख० पु० महागुरूपदेशेति पाठः । पं० ४ ख० पु० एकत्वनियामकं कारणं फलयोरित्याद्यसमस्तवाक्यात्मा पाठः । पं० १२ क० पु० दक्षिणात्तत्परमिति पाठः । पं० १४ ख० पु० द्वारिद्वारभावेनेति, उपायोपायभावस्येति च पाठः ।
श्लो० १८ ] प्रथमाह्निकम् । ४९ मेव शास्त्रं शिवसद्भावलाभैकफलम् - इत्यवसेयम् । तदेव परमपदप्राप्तौ साक्षादुपायभूतत्वादुत्कृष्टम् । एतच्चानेनैव श्रीमालिनीश्लोकवार्तिकादौ वितत्य उक्तं, तत्तत एव स्वयमवधार्यम्, ग्रन्थगौरवभयात्तु प्रतिपदं न संवादितम् । अत एवाह 'तत्सारं त्रिकशास्त्रम्' इति । तदुक्तं 'वेदाच्छैवं ततो वामं ततो दक्षं ततः कुलम् । ततो मतं ततश्चापि त्रिकं सर्वोत्तमं परम् ॥' इति । अनेनैवाशयेन च 'वाममार्गाभिषिक्तोऽपि दैशिकः परतत्त्ववित् । संस्कार्यो भैरवे सोऽपि कुले कौले त्रिकेऽपि सः ॥' इत्यादि श्रीनिशाचारादावुक्तम् । तच्च सिद्धा-नामक- मालिन्याख्यखण्डत्रयात्मकत्वात्त्रिविधम् । तत्र क्रिया प्रधानं सिद्धातन्त्रं, ज्ञानप्रधानं नामकं तन्त्रं, तदुभयमयं मालिनीमतम् इति तदेव मुख्यम्, यदाह 'तत्सारं मालिनीमतम् ' इति । एवं च, 'न तदस्तीह यन्न ' इत्यादि युक्तमेवोक्तम् ॥१८॥
पं० ४ ख० पु० उक्तमित्यत एवेति पाठः । पं० १४ ख० पु० ज्ञानप्रधानमनामकम् इति पाठः ।
५० श्रीतन्त्रालोकः । अतश्च सर्वसंहृत्वात्तदधिकारेणैव च प्रतिज्ञाया अपि निर्वाहो युक्त इत्याह अतोऽत्रान्तर्गतं सर्वं संप्रदायोज्झितैर्बुधैः । अदृष्टं प्रकटीकुर्मो गुरुनाथाज्ञया वयम् ॥१६॥ 'अत' इति उक्तयुक्त्यास्यैव शास्त्रस्य प्राधान्यात्। 'प्रकटीकुर्म' इति प्रक्रियाकरणेन । अतश्च 'प्रधाने हि कृतो यत्नः फलवान्भवति' इति भावः । 'गुरुनाथा- ज्ञया' इति-नहि तदाज्ञां विनात्र अधिकार एव भवे- दिति भावः ॥ १६ ॥ अन्यादृष्टप्रकटीकरणे च स्वात्मनि भगवत्प्रसाद एव निमित्तम् इति दर्शयितुमाह अभिनवगुप्तस्य कृतिः सेयं यस्योदिता गुरुभिराख्या । त्रिनयनचरणसरोरुह- चिन्तनलब्धप्रसिद्धिरिति ॥ २० ॥ पं० ६ ख० पु० प्रधानो हि यत्नः फलवानित्येवंविध एव पाठः । पं० ८ ख० पु० नहि तदाज्ञायामत्राधिकार इति पाठः । पं० १० क० पु० प्रकटीकारे चेति, ख० अन्यादृष्टार्थप्रकटीत्यादि च पाठः । पं० १४ ख० पु० त्रिनयनचरणसदोदितचिन्तनेति पाठः ।
श्लोक २१ ] प्रथमाह्निकम् । ५१ त्रिनयनप्रसादासादितप्रकृष्टसिद्धेः किं नामासा- ध्यम् इति भावः ॥ २० ॥ एवं चेयं कृतिः सर्वेषामेव ग्राह्या भवेत्, इति प्रतिपादयितुमाह श्रीशम्भुनाथभास्कर- चरणनिपातप्रभापगतसंकोचम् । अभिनवगुप्तहृदम्बुज- मेतद्विचिनुत महेशपूजनहेतोः ॥ २१ ॥ — आदिवाक्यं — हृदयं शास्त्रात्मसतत्त्वं, महेश्वरस्य पूजनं 'पूजा नाम न पुष्पाद्यैर्या मतिः क्रियते दृढा । निर्विकल्पे महाव्योम्नि सा पूजा ह्यादराल्ल्यः ॥' इत्याद्युक्त्या तत्तद्वक्ष्यमाणज्ञप्तिक्रमेण स्वात्मतया प्रत्यभिज्ञानम् । अतश्च महावाक्यार्थेन एकमेवादि- पं० १ क० पु० आसादितस्याष्टसिद्धेरिति, ख० पु० प्रसादादासादितप्रकृष्टसिद्धे- रित्यभिप्राय इति पाठः पं० ३ आदिवाक्यमिति पदं ख० पुस्तकात् प्रक्षिप्तम् ।
५२ श्रीतन्त्रालोकः । वाक्यात्मकं वाक्यम् इति दर्शयितुमाह 'आदिवाक्य- म्' इति । इह यद्यपि परमेश्वरशक्तिपातमन्तरेण तच्छास्त्र- श्रवणादावन्यत् प्रवृत्तिनिमित्तं नाभ्युपेयते, तथापि शास्त्रकाराणामियं शैली - इत्यभिधेयप्रयोजनादि प्रतिपादयितुं प्रवृत्तिहेतुतया अयमादिवाक्योपनि- बन्धः। तत्र प्रथमश्लोकपञ्चकासूत्रितोऽनुत्तरषडर्थार्थ- क्रम इत्यनेन साक्षादभिहितश्च पर-परापरापरात्मता- दिना बहुप्रकारस्त्रिकार्थस्तावदभिधेयः । तस्यैव च कर्तृप्रतिपादनकौशलेन मौलागमस्य च समस्त- शास्त्रप्राधान्याभिधानेन सातिशयत्वं प्रतिपादयितुं 'श्रीभट्टनाथ' इत्यादि श्लोकपञ्चकमुपात्तम् । स च गुरुपरम्परागतः 'तस्माद्गुरुकमायातं दिशन्नेति परं शिवम् ।' इत्याद्युक्तनीत्या निजप्रयोजनकारी भवति, इत्ये- तदङ्गतयैव पारम्पर्यसंदर्शनार्थं गुरुसंकीर्तनपरं श्लोक- पं० १४ क० पु० मृशन्नेति परमिति पाठः । पं० १५ निजेत्याद्यारभ्य संदर्शनार्थमित्यन्तः पाठः ख० पु० नास्ति ।
श्लोकः २१ ] प्रथमाह्निकम् । ५३ सप्तकमुट्टङ्कितम् । अतश्चास्यैव वक्ष्यमाणोपायक्रमेण स्वात्मतया प्रत्यभिजानाजीवन्मुक्तिप्रदत्वं प्रयोजनं श्लोकान्तरासूत्रितमपि 'श्रीशम्भुनाथ' इत्यादि- श्लोकेन साक्षादुक्तम् । एतदुद्दिश्य च को नाम न सचेताः परमेश्वरशक्तिपातपवित्रितः प्रवर्तते इत्यस्य प्रवृत्तिनिमित्तत्वं, प्रवृत्तस्याप्येतदुपलब्धौ 'तमनित्येषु भोगेषु योजयन्ति विनायकाः ।' इत्याद्युक्तेर्विघ्नाः संभवन्ति इत्येतन्निरासाय गणे- शवटुकयोः स्तुतिः । 'अर्थितो रचये' इति प्रतिज्ञा- तायाः प्रक्रियायाश्च 'तन्मया तन्यते तन्त्रालोकनाम्न्यत्र शासने ।' इत्यादिवक्ष्यमाणोपजीवनेन तन्त्रालोक इत्यभि- धानम् । एवमभिधानाभिधेययोरभिधेयप्रयोजन- योश्च वाच्यवाचकसाध्यसाधनभावलक्षणः संबन्ध- श्चार्थाक्षिप्तः इत्यनेकवाक्यसंमेलनात्मकमेकमेवादि- वाक्यं प्रवृत्तिहेतुतया उक्तम् इति पिण्डार्थः ॥२१॥ पं० १४ ख० पु० साधनभावाभावलक्षणेति पाठः । पं० १५ ख० पु० संमेलनात्मकमेकमेवेदमादिवाक्यप्रवृत्तिहेतु इत्यादिरूपः पाठः ।
५४ श्रीतन्त्रालोकः । इह यद्यपि सर्ववादिनां मोक्ष एव उपादेयः, तत्प्रतिपक्षभूतः संसारश्च हेयः, तस्य च मिथ्याज्ञानं निमित्तं, तत्प्रतिकूलं च तत्त्वज्ञानम्-इति तत्साक्षा- त्कारेणैव अज्ञानापगमान्मोक्षावाप्तिः इत्यत्राविवादः, तथापि तैस्तदेकनियतं ज्ञानाज्ञानयोः स्वरूपं न ज्ञातम् इति 'भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया ।' इत्याद्युक्त्या तदभ्युपगतो मोक्षो मोक्ष एव न भवति - इति दर्शयितुं शास्त्रान्तरवैलक्षण्येन तत्परी- क्षणस्य वक्ष्यमाणत्वात्प्राधान्यमपि कटाक्षयितुमुप- क्रम एव बन्धमोक्षपरीक्षामुट्टङ्कयति ग्रन्थकारः इह तावत्समस्तेषु शास्त्रेषु परिगीयते । अज्ञानं संसृतेर्हेतुर्ज्ञानं मोक्षैककारणम् ॥२२॥ न चैतदस्माभिः स्वोपज्ञमेवोक्तम्-इत्याह मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् । इति प्रोक्तं तथा च श्रीमालिनीविजयोत्तरे ॥२३॥
श्लोकः २३ ] प्रथमाह्निकम् । ५५ 'अज्ञानं' तिमिरं पारमेश्वरस्वातन्त्र्यमात्रसमुल्ला- सितस्वरूपगोपनासतत्त्वमात्मानात्मनोरन्यथाभिमा- नस्वभावम् अपूर्णं ज्ञानं, तदेव चाणवं 'मलं', न तु नवमाह्निकादौ निषेत्स्यमानं द्रव्यरूपम् । उक्तं च 'स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता । द्विधाणवं मलमिदं स्वस्वरूपापहानितः ॥' इति । तच्च कीदृक् ? इत्याह—संसार इति । 'संसारस्य' 'भिन्नवेद्यप्रथात्रैव मायाख्यम्............।' इत्याद्युक्तस्वरूपस्य मायीयस्य मलस्य 'संसारकारणं कर्म संसाराङ्कुर उच्यते ।' इति वक्ष्यमाणनीत्या 'अङ्कुरः' कारणं कार्ममलं तस्य 'कारणं' । तदुक्तं 'मलं कर्मनिमित्तं तु नैमित्तिकमतः परम् ।' इति श्रीमालिनीविजयोत्तरे प्रोक्तम् इत्येतदधि- कारेणैवायं ग्रन्थः प्रवृत्त इत्युपोद्बलितम् ॥२३॥ अज्ञानस्य पौरुषबौद्धात्मकत्वेन द्वैविध्येऽपि इह पौरुषमेव विवक्षितं स्यान्नान्यत् इत्याह पं० १ ख० पु० अज्ञानतिमिरमिति समस्तः पाठः । क० पु० समुल्लासितं स्वरूपेति च व्यस्तः पाठः ।
५६ श्रीतन्त्रालोकः । विशेषणेन बुद्धिस्थे संसारोत्तरकालिके । संभावनां निरस्यैतदभावे मोक्षमब्रवीत् ॥२४॥ 'विशेषणेन' 'संसाराङ्कुरकारणम् इत्यनेन' नहि दुरध्यवसायरूपं बौद्धमज्ञानं कर्मणः कारणम् अपि तु तत्तस्य – इति कथमेतद्विशेषणं संगच्छतां, तद्धि सति कर्मकारणे शरीरे संभवति तस्य कार्य- करणात्मकत्वात्, बुद्धेश्च करणवर्गान्तःपातित्वात्, अत एवोक्तं 'संसारोत्तरकालिक' इति, 'शरीरभुवनाकारो मायीयः परिकीर्तितः ।' इत्याद्युक्तेः संसाराच्छरीरादनन्तरभाविनि इत्यर्थः । किं तत्संभावनानिरासेन इत्युक्तं—'एतदभावे मोक्ष- मब्रवीत्' इति । नहि बौद्धाज्ञानमात्रनिवृत्तौ मोक्षो भवेत् यत्तस्मिन्निवृत्ते बौद्धमेव ज्ञानमुदेति' तस्य च शुद्धविकल्पात्मत्वेऽपि 'सर्वो विकल्पः संसारः....................।' इति नीत्या संसाराविर्भावकत्वमेव इति कथमे- तदभावेऽपि एवं स्यात् । यदभिप्रायदितो बाह्यैरपि ५ तदिति कर्म, तस्येति बौद्धाज्ञानस्येत्यर्थः, एतत्—बौद्धमज्ञानमित्यर्थः । पं० ५ ख० पु० कथमस्यैतत् इति पाठः ।
श्लोकः २४] प्रथमाह्निकम् । ५७ 'परमार्थविकल्पेऽपि नाव्लीयेत पण्डितः । को हि भेदो विकल्पस्य शुभे वाऽप्यथ वाऽशुभे ॥' इत्याद्युक्तं, पौरुषे पुनरज्ञाने दीक्षादिना निवृत्ते सति यदि बौद्धं ज्ञानमुदियात् तदा तस्य वक्ष्यमाणनीत्या जीवन्मुक्तिं प्रत्यपि कारणत्वं भवेत्, केवलेन पुन- स्तेन न किंचित्सेत्स्यति इत्युक्तप्रायम् । पौरुषं पुनर्जा- नमुदितं सत् अन्यनिरपेक्षमेव मोक्षकारणम् । यदुक्तं 'पाशाश्च पौरुषाः शोध्या दीक्षायां न तु धीगताः । तेन तस्यां दोषवत्यामपि दीक्षा न निष्फला ॥' इति । तच्च ज्ञानमात्रस्वभावम्, अख्यात्यभाव एव हि पूर्णा ख्यातिः, सैव च प्रकाशानन्दघनस्यात्मनस्ता- त्त्विकं स्वरूपं, तत्प्रथनमेव मोक्षः इति युक्तमुक्तम्- 'एतदभावे मोक्षमब्रवीत्' इति ॥ २४ ॥ ननु अज्ञानशब्दस्य अपूर्णं ज्ञानमर्थः इत्यत्र किं निबन्धनं, ज्ञानाभावमात्रमेवास्तु इत्याशङ्क्याह पं० २ ख० पु० शुभे वाप्यशुभेऽथ वा इति पाठः । पं० ५ क० पु० केवलेन पुनर्न किंचिदिति पाठः । पं० १२ क० पु० युक्तमेतदभावे मोक्षमिति पाठः । ८
५८ श्रीतन्त्रालोकः । अज्ञानमिति न ज्ञानाभावश्चातिप्रसङ्गतः । स हि लोष्ठादिकेऽप्यस्ति न च तस्यास्ति संसृतिः ॥ २५ ॥ कोऽसावतिप्रसङ्ग इत्याह—'स हि' इत्यादि । तद्युक्तमुक्तमज्ञानशब्दस्य अपूर्णं ज्ञानमर्थ इति ॥२५॥ तदाह अतो ज्ञेयस्य तत्त्वस्य सामस्त्येनाप्रथात्मकम् । ज्ञानमेव तदज्ञानं शिवसूत्रेषु भाषितम् ॥२६॥ 'अतो' यथोक्ताद्धेतोः 'ज्ञेयस्य' नीलसुखादेः, 'ज्ञेयस्य च परं तत्त्वं यः प्रकाशात्मकः शिवः ।' इत्यादिवक्ष्यमाणस्वरूपस्य 'तत्त्वस्य' 'सामस्त्येन' तस्य सर्वत्राविशेषात् तदेकघनाकारत्वेन 'अप्रथात्मकं' यत् इदं नीलम् इदं सुखम् इति द्वैतप्रथात्मकत्वाद- पूर्णं 'ज्ञानं' तदेव 'अज्ञानं' न पुनर्ज्ञानाभावमात्रम् इत्येतच्छिवसूत्रेषु 'भाषितम्' उक्तमित्यर्थः ॥२६॥ तत्र चैतत्कुत्र दर्शितम् इत्याशङ्क्याह पं० ११ ख० पु० वक्ष्यमाणसतत्त्वस्येति पाठः । पं० १५ क० पु० शिवसूत्रेषु दर्शितमित्यर्थ इति पाठः ।
श्लोकः ३० ] ( प्रथमाह्निकम् । ५९ चैतन्यमात्मा ज्ञानं च बन्ध इत्यत्र सूत्रयोः । संश्लेषेतरयोगाभ्यामयमर्थः प्रदर्शितः ॥ २७ ॥ 'संश्लेषेतरयोगाभ्याम्' इति संहितया, अन्यथा च अकारप्रश्लेषविश्लेषाभ्यां, तेन 'ज्ञानं बन्धः, अज्ञानं बन्ध' इति चायमर्थः, इत्यज्ञानशब्दस्य अपूर्णज्ञाना- भिधानलक्षणः ॥ २७ ॥ एतदेव व्याचष्टे चैतन्यमिति भावान्तः शब्दः स्वातन्त्र्यमात्रकम् । अनाक्षिप्तविशेषं सदाह सूत्रे पुरातने ॥२८॥ द्वितीयेन तु सूत्रेण क्रियां वा करणं च वा । ब्रुवता तस्य चिन्मात्ररूपस्य द्वैतमुच्यते ॥२९॥ द्वैतप्रथा तदज्ञानं तुच्छत्वाद्वन्ध उच्यते । तत एव समुच्चेयमित्यावृत्त्या निरूपितम् ॥३०॥ इह न किञ्चिदप्यचेतितं भवति इति चितिक्रिया सर्वसामान्यरूपा इति । चेतयति इति चेतनः पूर्ण- ज्ञानक्रियावान्, तस्य भावः 'चैतन्यं' पूर्णज्ञानक्रिया- पं० १६ ख० पु० पूर्णज्ञानवान् इति पाठः ।
६० श्रीतन्त्रालोकः । वत्त्वं, तदेव च परमैश्वर्यस्वभावं स्वातन्त्र्यमुच्यते । तदाह 'स्वातन्त्र्यमात्रकम्' इति । स्वातन्त्र्यमेव के- वलं स्वातन्त्र्यमात्रकम्, अत एवाह 'अनाक्षितवि- शेषम्' इति, 'अनाक्षिताः' स्वसहचारिणोऽपि नित्यत्वव्यापकत्वादयो 'विशेषा' भेदा येन तत् । भावप्रत्ययान्तो हि शब्दः सहचारिधर्मान्तरनिवृत्ति- मेव ब्रूते, अत एव द्रव्याभिधायिनः शब्दस्य विशेषः । यदाहुः 'धर्मान्तरप्रतिक्षेपाप्रतिक्षेपौ तयोर्द्वयोः । संकेतभेदस्य पदं ज्ञातृवाञ्छानुरोधतः ॥ भेदोऽयमेव सर्वत्र द्रव्यभावाभिधायिनोः ।' इति । 'द्वितीयेन' इति अर्थात् द्वितीयसूत्रवर्तिना ज्ञानशब्देन, ज्ञप्तिः ज्ञानं, ज्ञायते येन इति ज्ञानं च इति व्युत्पत्त्या 'क्रियां, करणं' च प्राधान्येनाभि- दधता 'तस्य'-चैतन्यमात्मा-इत्युक्तस्वरूपस्य, अत एव चेतयते इति 'चित्' चितिक्रियायां कर्ता, तन्मा- त्रमेव केवलं 'रूपं' यस्य तस्य 'द्वैतमुच्यते' कर्तृ- पं० ७ क० पु० अत एवेत्याभिधायिनः शब्दस्येति पाठः । पं० १० क० पु० भेदस्य परमित्येवंविधः पाठः ।
श्लोकः ३० ] प्रथमाह्निकम् । ६१ कर्मणोः कर्तृकर्मक्रियाणां च भिन्नानामवच्छेदका- नामाग्रूरणाद् द्वैतप्रथासूत्रणं क्रियते, पूर्णमस्य रूपं नाख्याति इत्यर्थः । 'तत्' तस्मात्संविद्वैतात्मनः पूर्णस्य रूपस्य अख्यानात् 'द्वैतप्रथा' एव 'अज्ञानम्' अपूर्णं ज्ञानमपूर्णत्वाच्च तदेव अपूर्णं मन्यता-शुभा- शुभवासना-शरीरभुवनाकारस्वभावविविधसंकुचित- ज्ञानरूपतया मलत्रयात्मा 'बन्ध' इति उच्यते, बन्धरूपत्वादेव च तदज्ञानं 'समुच्छेद्यम्' 'मलं कर्म च मायीयमाणवमखिलं च यत् । सर्वं हेयमिति प्रोक्तं ........................ ॥' इत्युक्त्या हेयमित्यर्थः । नन्वत्र द्वैतप्रथात्मकत्वा- दपूर्णं ज्ञानमेव अज्ञानम् इत्येतत्कुतोऽवगतम् इत्याशङ्क्योक्तम् 'इत्यावृत्त्या निरूपितम्' इति । 'आवृत्त्या' इति अज्ञानम् इति संहितापाततः पुनरा- वर्तनेन इत्यर्थः ॥ २८ ॥ २९ ॥ ३० ॥ पं० ६ क० पु० भुवनाकारविविधेति पाठः । पं० ७ क० पु० बन्ध इत्युच्यते इति पाठः । पं० ११ ख० पु० इत्याद्युक्त्या इति पाठः ।