तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
३०२ श्रीतन्त्रालोकः । संविद्रूप एव प्रकाशः स्वरूपं, संविच्च निरवयवा इति एक एव अखण्डप्रकाशरूपः इति यावत् । अत एव च 'शक्तिश्च नाम भावस्य स्वं रूपं मातृकल्पितम् ।' इत्याद्युक्तयुक्त्या तस्य आत्मनः क्रोडीकृतानन्त- शक्तिकं स्वरूपम्, एवमद्वयात्मत्वेऽपि स एव अति- दुर्घटकारित्वलक्षणात् स्वस्वातन्त्र्यात्, निजस्य — अ- नन्यसाधारणस्य ज्ञत्वकर्तृत्वलक्षणस्य, महसो गोप- नात् ग्राह्यग्राहकात्मकं द्वन्द्वमाभासयन् '............शिव एव गृहीतपशुभावः ।' इत्याद्युक्तयुक्त्या 'बद्धः' इत्युच्यते, एवमपि तस्य आ- त्मनः प्रत्यावृत्त्या 'मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि सः । स्वरूपं चात्मनः संवित्..................॥' इत्याद्युक्तयुक्त्या ज्ञत्वकर्तृत्वलक्षणस्य स्वमहस एव प्रथनं मोक्षः, यदर्थमेव च तत्तदनन्तशास्त्रात्मक इ- यान् परिकरः । तदाह 'स चायम्' इत्यादि, स चायं मोक्षः — तत्तद्गृहीताधरदर्शनभूमिकस्य अस्य पं० ८ ग० पु० महिम्नो गोपनादिति पाठः ।
श्लोकः ३३० ] प्रथमाह्निकम् । ३०३ ‘रागाद्यकलुषोऽस्म्यन्तः शून्योऽहं कर्तृताज्झितः ।’ इत्याद्युक्तयुक्त्या चित्रस्वभावस्य, यद्वा ‘तेनाजडस्य भागस्य पुद्गलाण्वादिसंज्ञिनः । अनावरणभागांशे वैचित्र्यं बहुधा स्थितम् ॥’ इत्यादिनीत्या चित्राकारस्य ‘अतः कंचित्प्रमातारं प्रति प्रथयते प्रभुः । पूर्णमेव निजं रूपं कंचिदंशांशिकाक्रमात् ॥’ इत्याद्युक्त्या चित्रः शाम्भवाद्यावेशात्मा प्रकटितः, इह इति – अस्मिन्नाह्निके । ययोर्बन्धमोक्षयोः संग्रहेण संक्षेपेण एषोऽर्थः प्रकटितः इत्यनेनैव संबन्धः ॥३३०॥ ननु आत्मनः स्वरूपप्रथनमेव ‘मोक्षः’ इत्युक्तम्, आत्मा चैक एव अखण्डः इति तत्प्रथात्मनो मोक्षस्यापि वैचित्र्यं कुतस्त्यम् ? इत्याशङ्क्याह मिथ्याज्ञानं तिमिरमसमान् दृष्टिदोषान्प्रसूते पं० ३ क० पु० तेनाजडविभागस्येति, संज्ञित इति च पाठः । पं० ५ ख० पु० चित्रस्वभावस्य इति पाठः । पं० ८ क० पु० इत्याद्युक्तयुक्त्या इति पाठः ।
३०४ श्रीतन्त्रालोकः । तत्सद्भावाद्द्विमलमपि त- द्भाति मालिन्यधाम । यत्तु प्रेक्ष्यं दृशि परिगतं तैमिरं दोषमुद्रां दूरं रुन्द्धेत्प्रभवतु कथं तत्र मालिन्यशङ्का ॥ ३३१ ॥ तिमिरम् - आणवमलमेव मिथ्याज्ञानं भेदप्रथात्म- कम् अपूर्णं वेदनं, दृष्टेः पूर्णायाः संवित्तेः, असमान् - आत्मनि अनात्माभिमानादिरूपान् दोषान् जनयति इति मिथ्याज्ञानसद्भावात् विमलं पूर्णमपि तत् ज्ञानं मालिन्यधाम भाति - स्वस्वातन्त्र्यादपूर्णेन आत्म- ना परिस्फुरति इत्येतावानर्थः इति व्यवह्रियते, यत् पुनरुपेयत्वेन प्रेक्षणीयम् - अवश्यज्ञातव्यं परप्रमात्रे- कात्म पूर्णं ज्ञानं ‘नाहं प्राणो नैव शरीरं न मनोऽहं नाहं बुद्धिर्नाहमहङ्कारधियौ च । योऽत्र ज्ञांशः सोऽस्म्यहमेव ............।’ पं० १३ क० पु० पुनरुपमेयत्वेनेति पाठः ।
श्लोक ३३१ ] प्रथमाह्निकम् । ३०५ इत्यादिनीत्या उद्वेष्टनक्रमेण विमर्शपदवीमारूढं सत्, मिथ्याज्ञानसमुत्थाम् अनात्मनि आत्माभिमानरूपां दोषमुद्रां दूरं रुन्ध्येत् - आत्मन्येव आत्माभिमानेन तिरस्कुर्यात्, तत्र का नाम मालिन्यशङ्का तत्र सं- भावनापि न भवेत् इति वस्तुवृत्तेन बन्धो मोक्षो वापि न नाम कश्चिदस्ति इति का वा नाम तत्र वै- चित्र्यसंभावना स्यात् । अनेन चाभिप्रायेण 'संसारोऽस्ति न तत्त्वतस्तनुभृतां बन्धस्य वार्तैव का बन्धो यस्य न जातु तस्य वितथा मुक्तस्य मुक्तिक्रिया । मिथ्यामोहकृदेष रज्जुभुजगच्छ्छायापिशाचभ्रमो मा किंचित्त्यज मा गृहाण विरम स्वस्थो यथावस्थितः ॥' इत्यादि अन्यत्र उक्तम् । अथ च तिमिरेण नेत्ररो- गविशेषेण दृष्टौ अन्यथाज्ञानात्मदोषजातमुत्पादितं प्रेक्ष्येण अञ्जनादिस्थानीयेन रोध्यते इति तत्र मालिन्यशङ्कापि न भवति इति औपम्यं ध्वनि- तम् ॥३३१॥ इदानीमस्य शास्त्रस्य परं गाम्भीर्यं मन्यमानो ग्रन्थकृत्, एतदर्थसतत्त्वमजानानैरपि अन्यैरन्यथा- पं० ४ ख० पु० का नाम अग्रिमान्न संभावना न प्रभवेत् इति पाठः । ३६
३०६ श्रीतन्त्रालोकः । बोधेन यत्किंचित् उत्तानमेव अन्यथा उच्यते, तान्प्रति अप्रस्तुतप्रशंसया उपहसितुमाह भावव्रात ? हठाज्जनस्य हृदया- न्याक्रम्य यन्नर्तयन् भङ्गीभिर्विविधाभिरात्महृदयं प्रच्छाद्य संक्रीडसे । यस्त्वामाह जडं जडः सहृदयं- मन्यत्वदुःशिक्षितो मन्येऽमुष्य जडात्मता स्तुतिपदं त्वत्साम्यसंभावनात् ॥३३२॥ हे भावव्रात-नीलाद्यर्थ ? आत्मनो हृदयं तेन आत्मतथ्यं रूपं गोपयित्वा जनस्य सर्वस्यैव वादिनो हृदयानि आशयान् बलात्कारेण आक्रम्य ‘अद्यास्मानसत: करिष्यति सतः किं नु द्विधा वाप्ययं किं स्थास्नुनुत नश्वरानुत मिथोभिन्नानभिन्नानुत । इत्थं सद्गदनावलोकनपरैर्भावैर्जगद्गर्तिभि- र्मन्ये मौननिरुद्धमानहृदयैर्दुःखेन तैः स्थीयते ॥’ पं० ७ ग० पु० सहृदयमन्योऽत्र दुःशिक्षित इति पाठः । पं० १७ ग० पु० दुःखमतः स्थीयते इति पाठः ।
श्लोक ३३२ ] प्रथमाह्निकम् । ३०७ इत्यादिस्थित्या विविधाभिर्भङ्गीभिः नर्तयन् यत् संक्रीडसे - नटवत् अतात्त्विकेन रूपेण समुल्लससि, अतः स सर्वो वादी असहृदयमपि आत्मानं सहृदय- त्वेन मन्यमानोऽत एव दुःशिक्षितो मिथ्याभिमानात् अकिंचिज्ज्ञः, त्वां भावव्रातं, जडम् - अचेतनम् आह, अतोऽस्माभिरुत्प्रेक्ष्यते - यत् अमुष्य वादिनो वस्तुत- श्चैतन्यस्वभावेन भवता यत् साम्यं तस्य संभावनात् भाववत्त्वमेव जडात्मा इति यद्युच्यते सा अस्य निन्दा- स्थाने स्तुतिः । भावानां हि वस्तुतश्चैतन्यमेव रूपम् अचेत्यमानत्वे हि तेषां न किंचिद्रूपं स्यात्, अत- स्तदेव ये न जानते ते जडेभ्योऽपि जडाः इति कथं च तेषां चेतनात्मकैर्भावैः निन्दापर्यवसायि साम्यं स्यात् इति भावः । एवं प्रकृतेऽपि अस्य ग्रन्थस्य यस्तत्त्वं न जानाति मा ज्ञासीत्, प्रत्युत अन्यथापि यत्किंचन वक्ति इत्यसावेव जडो, न पुनरस्य ग्रन्थस्य कश्चिद्दोषः इत्यर्थः ॥३३२॥ ननु यद्येवं तर्हि एतच्छास्त्राधिगमाय केषांचन पं० ६ क० पु० भावानां हि भावना वस्तुत इति पाठः ।
३०८ श्रीतन्त्रालोकः । परेषां विदुषामभ्यर्थना क्रियतां, यदत्र यथावस्त्वेव बुद्ध्वा द्वेषो मा कार्यः ? इत्याशङ्क्याह इह गलितमलाः परावरज्ञाः शिवसद्भावमया अधिक्रियन्ते । गुरवः प्रविचारणे यतस्तद्- विफला द्वेषकलंकहानियाच्ञा ॥३३३॥ इह द्वये पुरुषाः सन्ति - अनायातशक्तिपाता आ- यातशक्तिपाताश्च, तत्र पूर्वेषां शतशोऽभ्यर्थिता- नाम् एतदधिगमाय मनोऽपि न प्रसरति, इत्यत्र अवधातव्यम्, द्वेषो माकार्यः इत्यभ्यर्थनाया असा- मर्थ्यम् । अपरे च अनभ्यर्थिता अपि स्वयमेव एत- दधिगमाय प्रवर्तन्ते इति तत्रापि एवमभ्यर्थनाया वैयर्थ्यम् । तदाह 'द्वेषकलङ्कहानियाच्ञा' इति । आया- तशक्तिपाताश्च कीदृशाः ? इत्याह गलितमलाः इति, गलितं मलम् - अज्ञानं येषां ते तथाविधाः, अत एव च परम् आदिमम् अनुत्तरम् अवरम् अन्त्यं विसर्गं च ये जानते ते पराहंपरामर्शात्मकमन्त्रवी- पं० ५ ग० पु० प्रविचारणे धियस्तदिति च पाठः ।
आह्निकार्थमुपसंहरति
श्लोक ३३३ ] प्रथमाह्निकम् । ३०६ र्यज्ञाः इत्यर्थः, अत एव शिवसद्भावमयाः - परप्रमात्रे- कात्मज्ञानशालिनः इति यावत्, अत एव च गुरवः- तात्त्विकार्थोपदेशिनः इति - एतदधिगमाय त एव परमाधिकारिणः इत्युक्तं यतः प्रविचारणेऽधिक्रि- यन्ते इति, यद्वक्ष्यति 'गुरोर्लक्षणमेतावदादिमान्त्यं च वेद्ययेत् । पूज्यः सोऽहमिव ज्ञानी भैरवो देवतात्मकः ॥' इति ॥३३३॥ इह आह्निकादाह्निकान्तरस्य संचयन्यायेन पर- स्परमनुस्यूततां दर्शयितुम् एकेनैव श्लोकेन तत्पर्य- न्तप्रारम्भयोरुपसंहारोपक्रमौ करोति, इति 'अस्य ग्रन्थकारस्य शैली'-इति श्लोकस्य प्रथमार्धेन आह्निकार्थमुपसंहरति तन्त्रालोकेऽभिनवरचिते- ऽमुत्र विज्ञानसत्ता- भेदोद्गारप्रकटनपटा- वाह्निकेऽस्मिन्समाप्तिः । पं० ३ क० पु० अधिगमाय अत एव परमाधिकारिण इति पाठः । पं० ६ ग० पु० आद्यमन्त्यं चेति पाठः ।
३१० श्रीतन्त्रालोकः । पटौ इति पाक्षिकः पुंवद्भावः । इति शिवम् ॥ श्रीशृङ्गाररथादवाप्य कृतिनो जन्मानवद्यक्रमं श्रीमच्छङ्खधरात्परं परिचयं विद्यासु सर्वासपि । श्रीकल्याणतनोः शिवादधिगमं सर्वागमानामपि व्याख्यातं प्रथमाह्निकं जयरथेनात्रावधेयं बुधैः ॥ — इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते तन्त्रालोके श्रीमद्राजानकजयरथकृतप्रकाशाख्यव्याख्योपेते विज्ञान- भेदप्रकाशनं नाम प्रथममाह्निकं समाप्तिगमत् ॥ एतत्कश्मीरभूपालसंश्रितेन प्रकाशितम् । सता मुकुन्दरामेण सन्मुदे स्ताच्छिवेर्पितम् ॥ श्रीशिवार्पणमस्तु ॥ —
This page is blank and contains no text to transcribe.
(इस पृष्ठ पर कोई पाठ उपलब्ध नहीं है / यह पृष्ठ रिक्त है)
अथ श्रीतन्त्रालोकस्य श्रीमन्महामाहेश्वराचार्याभिनवगुप्तपादविरचितस्य श्रीमदाचार्यजयरथकृतप्रकाशाख्यव्याख्योपेतस्य द्वितीयमाह्निकम् जयतान्नतजनजयकृत्सञ्जयो रुद्रो विनाभ्युपायं यः । पूरयति कं न कामं कामं कामेश्वरत्वेन ॥१॥ इदानीं 'यो हि यस्माद् गुणोत्कृष्टः स तस्मादूर्ध्व उच्यते।' इति-स्थित्या आणवादीनां यथायथमुत्कर्षादिह पूर्व- पूर्वमेवाभिधानमिष्यते इत्युपैयैकरूपत्वेन शांभवा- पं० २ क० ख० पु० कः पूरयति किं न कामं कामं वागीश्वरत्वेनेति पाठः । पं० ६ क० पु० अभिधानं करिष्यते इति इत्युपायैकेति च पाठः ।
२ श्रीतन्त्रालोकः । दप्यनुपायस्योत्कृष्टत्वम्, इति - प्रथमं तत्स्वरूपमे- वाभिधातुमाह्निकान्तरारम्भं द्वितीयार्धेन प्रतिजानीते यत्तत्राद्यं पदमविरतानुत्तरज्ञप्तिरूपं तन्निर्णेतुं प्रकरणमिदमारभेऽहं द्वितीयम् ॥१॥ तन्निर्णयमेवाह अनुपायं हि यद्रूपं कोऽर्थो देशनयात्र वै । सकृत्स्याद्देशना पश्चा- दनुपायत्वमुच्यते ॥२॥ वै-शब्दोऽवधारणे, तेन नैव कश्चिदर्थः इत्यर्थः । अत्रैव समाधत्ते 'सकृत्स्यात्' इत्यादिना, देशना इत्युपलक्षणं - तेन सिद्धदर्शनाद्यपि ग्राह्यं, यदुक्तम् 'सिद्धानां योगिनीनां च दर्शनं चरुभोजनम् । कथनं संक्रमः शास्त्रे साधनं गुरुसेवनम् ॥ इत्याद्यो निरुपायस्य संक्षेपोऽयं वरानने ।' इति । सकृदिति - न पुनरुपायानुभवः पौनःपुन्ये- नेत्यर्थः । अत एवाह 'पश्चादनुपायत्वमुच्यते' इति, पं० ३ क० पु० यत्र त्वाद्यं परमशिवतानुत्तरेति, ख० पु० यत्तत्राद्यमिति पाठः । पं० ४ क० ख० पु० मिदं त्वारभेयं द्वितीयमिति पाठः ।
श्लोक ३ ] द्वितीयमाह्निकम् । ३ आणवादौ असकृद्भाव्यमानो हि देशनादि उपेय- प्राप्तिं विदधाति इति तत्र तथात्वमुक्तम्, इह तु न तथा इत्यनुपायत्वं, पर्युदासस्य 'अनुदरा कन्या' इति वदल्पार्थत्वेऽपि भावात् अल्पोपायत्वमित्यर्थः- प्राप्तव्ये हि प्राप्ते किं नाम निरर्थकैरायासकारि- भिर्भावनादिभिरिति भावः, यदुक्तम् 'उपायैर्न शिवो भाति भान्ति ते तत्प्रसादतः । स एवाहं स्वप्रकाशो भासे विश्वस्वरूपकः ॥ इत्याकर्ण्य गुरोर्वाक्यं सकृत्केचन निश्चिताः । विना भूयोऽनुसंधानं भान्ति संविन्मयाः स्थिताः ॥' इति ॥ २ ॥ नन्वत्र प्रसज्यप्रतिषेधपक्षावलम्बनेनाविद्यमानो- पायत्वमेव, इति मुख्योऽर्थः कस्मान्न व्याख्यातः ? इत्याशंक्याह अनुपायमिदं तत्त्व- मित्युपायं विना कुतः । स्वयं तु तेषां तत्तादृक् किं ब्रूमः किल तान्प्रति ॥३॥ पं० १२ क० पु० नेन विद्यमानोपायमेवेति पाठः ।
४ श्रीतन्त्रालोकः । 'इदमनुपायं तत्त्वम्' इत्याद्युपदेशादिना केनचि- दुपायेनावश्यं भाव्यम्, अन्यथा लक्षणमुपायमन्तरेण कथं सिद्ध्येत्, इत्युक्तम् 'इत्युपायं विना कुतः' तेन सकृदुपदेशादिना केनचिदुपायेनावश्यं भाव्यम्, अन्यथा ह्यनुपायपरतत्त्वज्ञप्तिरेव न स्यात् । ननु स्वविमर्शबलात्स्वयमेव प्राप्तप्राप्तव्या अपि केचिद् दृश्यन्ते, इति-किं सकृदुपदेशाद्यात्मना स्वल्पे- नाव्युत्पन्नेन ? इत्याशंक्याह 'स्वयमित्यादिना' तदि- त्यनुपायं परप्रकाशात्मकं रूपं, किं ब्रूम इति-नहि तदधिकारेण शास्त्रस्यैव प्रवृत्तिर्भवेदिति भावः, तदुक्तम् 'तत्त्वज्ञस्य तृणं शास्त्रं.........।' इति । यदभिप्रायेणैव 'संसाराम्बुनिधिं यः स्यात्तितीर्षुः कश्चिदुत्तमः' नात्यन्ततज्ज्ञो नो मूर्खः सोऽस्मिञ्छास्त्रेऽधिकारवान्' । इत्यादावत्यन्ततज्ज्ञस्य शास्त्रे नाधिकार उक्तः, तेन वयमर्वाग्दर्शिनोऽप्यदृष्टेऽर्थे शास्त्रैकदिव्यचक्षुष आरु- पं० २ ग० पु० उपायान्तरेण कथमिति पाठः । पं० ८ ग० पु० अव्युत्पन्नत्वेन इति पाठः । पं० १४ संसारेति पदद्वयं ग० पुस्तकात्पूरितमस्ति ।
श्लोक ४ ] द्वितीयमाह्निकम् । ५ रुज्जूनायातशक्तिपातान्प्रत्येव किंचन ब्रूमः—तेषां ह्येवमुपायमन्तरेण न कदाचिदप्युपेयप्राप्तिर्भवेत् इत्ये- वमुक्तम्, यद्वक्ष्यति 'नानिर्मलचितः पुंसोऽनुग्रहस्त्वनुपायकः ।' इति ॥ ३ ॥ ननु यद्येवं तर्हि अल्प एव कश्चिदुपायोंशः समुप- दिश्यतां येनोपदेश्यजनस्य सुखमेव उपेयप्राप्तिः स्यात्, किं बह्वायासदायिभिरन्यैरुपायैः? इत्याशंक्याह यच्चतुर्धोदितं रूपं विज्ञानस्य विभोरसौ । स्वभाव एव मन्तव्यः स हि नित्योदितो विभुः ॥४॥ यच्चतुर्धा-अनुपायादिभेदेन विज्ञानस्य रूपमुक्तं तद्विभोः परमेश्वरस्यैव स्वातन्त्र्यं ज्ञेयम्, स एव हि स्वस्वातन्त्र्यादतिनिर्हासतारतम्यादियोगाद्विचित्रेणो- पदेश्यजनात्मना प्रस्फुरन् तदनुसारमेव तत्तदुपाय- पं० ६ क० ख० पु० समुद्दिश्यतामिति पाठः । पं० १२ ग० पु० स हि संविन्मयः प्रभुरिति पाठः । पं० १५ क० पु० स्वातन्त्र्यात्तारतम्येति पाठः ।
६ श्रीतन्त्रालोकः । वैचित्र्यमप्याभासयेत्। नन्वेक एव विचित्रेण रूपेण च स्फुरति, इति किमेतत् ? इत्याशंक्याह ‘स हीत्यादि’ नित्योदित इति – अप्रच्युतप्राच्यस्वरूपः, अत एव ‘विभुः’ व्यापकः – तत्तद्वैचित्र्यग्रहणकालेऽप्यनुगत एवेत्यर्थः ॥ ४ ॥ अत एवाह एतावद्भिरसंख्यातैः स्वभावैर्यत्प्रकाशते । कोऽप्यंशांशिकया तेन विशन्त्यन्ये निरंशतः ॥ ५ ॥ एतावद्भिरिति – चतुर्भिः, असंख्यातैरिति – तत्त- दवान्तरभेदात्, तेनेति – अनेकेन स्वभावेन प्रकाश- नात् ॥५॥ न केवलमत्रेयदेव वैचित्र्यं यावदन्यदप्यस्तीत्याह तत्रापि चाभ्युपायादि- सापेक्षान्यत्वयोगतः । उपायस्यापि नो वार्या तदन्यत्वाद्विचित्रता ॥ ६ ॥ पं० १४ क० पु० सापेक्षत्वान्ययोगत इति पाठः ।
श्लोक ८ ] द्वितीयमाह्निकम् । ७ उपायस्यापीति अपिशब्दो भिन्नक्रमः, तेन नो वार्या तदन्यत्वादपि, इति व्याख्येयम्, एतच्च प्रथमाह्निक एव वितत्य निर्णीतम्, इति — नेह पुनरायस्तम् ॥६॥ एवमेतत् प्रसंगादभिधाय प्रकृतमेवाह तत्र ये निर्मलात्मानो भैरवीयां स्वसंविदम् । निरुपायामुपासीना- स्तद्विधिः प्रणिगद्यते ॥७॥ ये केचन तीव्रतीव्रशक्तिपातानुविद्धा विकल्पक- लंकान्मुक्ताः, भैरवीयां पूर्णाम्, अत एवानुपायम् — अनपेक्षाम्, आत्मसंविदमाविष्टाः, तेषां विधिः — पूर्णसंविदावेशक्रमात्मा प्रकारः, प्रकर्षेण निगद्यते — युक्तियुक्तत्वेन भण्यते इत्यर्थः ॥ ७ ॥ तदेवाह तत्र तावत्क्रियायोगो नाभ्युपायत्वमर्हति । पं० ९ क० पु० शक्तिपातविकल्पान्मुक्ता इति पाठः । पं० १२ क० पु० आवेशात्मप्रकार इति पाठः ।
प्रकाशत्वं स्वप्रकाशे
८ श्रीतन्त्रालोकः । उपायः खलु करणे प्रसृते, अतश्च पूर्णेन भाव्य- मेव, इति सर्वेषामविवादः, न चात्रैवं - क्रियादयो हि संवेद्यमानत्वात्संविन्निष्ठा एव, इति संविच्छक्तिं विना अप्रसिद्धत्वात् कथं तत्रोपायतामासादयेयुः, अतः प्रत्युत क्रियादीनां बहिराभासने संविदुपायः, इति युक्तम् ॥ अत एवाह स हि तस्मात्समुद्भूतः प्रत्युत प्रविभाव्यते ॥८॥ तस्मादित्यनुपायात्संवित्तत्त्वात् ॥८॥ अथ यद्यस्य क्रियादि न कारकम् अपि तु ज्ञापकम् इति उच्यते, तदपि न युज्यते, इत्याह । ज्ञप्तावुपाय एव स्या- दिति चेज्ज्ञप्तिरुच्यते । प्रकाशत्वं स्वप्रकाशे तच्च तत्रान्यतः कथम् ॥६॥ इह जडस्तावत् स्वयमप्रकाशात्मा स्वात्मनो न पं० ३ क० पु० एवेति संविदः प्रसिद्धत्वात्कथमिति पाठः ।
प्रकाशते, अपि तु परस्य, इति - पर एवास्य प्रकाशः,
श्लोक १० ] द्वितीयमाह्निकम् । ६ प्रकाशते, अपि तु परस्य, इति - पर एवास्य प्रकाशः, अजडस्तु स्वयं प्रकाशात्मा स्वात्मन एव प्रकाशते, न परस्य, इति - न परोऽस्य प्रकाशोऽपितु स्व एव अस्य प्रकाशः, तस्यापि परप्रकाशत्वे ह्यप्रकाशात्म- त्वात् जाड्यं स्यात्, अत एवाह 'स्वप्रकाशे तच्च तत्रान्यतः कथम्' इति प्रकाशत्वम्, एवं चान्योऽपि स्वप्रकाशो वा स्यात् अन्यथा वा, स्वप्रकाशत्वे प्रथमस्यैव तथाभाव उच्यताम्, अनेनापि कोऽर्थः, अन्यथात्वे तस्यापि जाड्यापत्तिः, इति प्रकाशत्वात्त- त्प्रकाशनाय प्रमात्रन्तरापेक्षायामनवस्थापत्तिः, इति सर्वेषामेव अप्रकाशात्मत्वान्न किंचिदपि प्रकाशेत, इति - सर्वमिदमन्धं स्यात् ॥६॥ तदाह संवित्तत्त्वं स्वप्रकाश- मित्यस्मिन्किं नु युक्तिभिः । पं० २ ख० पु० अजडस्तद्द्वयं प्रकाशेति पाठः । पं० ७ क० पु० स्वप्रकाशकः स्यादिति पाठः । पं० ८ क० पु० तथा उत्पद्यतामिति ख० पु० भाव उच्यतामिति पाठः । २